विश्वास-प्रस्तुतिः
आलोक्य यस्यातिललामलीलां सद्भाग्यभाजौ पितरौ कृतार्थौ।
तमर्भकं दर्पकदर्पचौरं श्रीजानकीजीवनमानतोऽस्मि॥ १॥
श्रुत्वैव यो भूपतिमात्तवाचं वनं गतस्तेन न नोदितोऽपि।
तं लीलयाह्लादविषादशून्यं श्रीजानकीजीवनमानतोऽस्मि॥ २॥
जटायुषो दीनदशां विलोक्य प्रियावियोगप्रभवं च शोकम्।
यो वै विसस्मार तमार्द्रचित्तं श्रीजानकीजीवनमानतोऽस्मि॥ ३॥
यो वालिना ध्वस्तबलं सुकण्ठं न्ययोजयद्राजपदे कपीनाम्।
तं स्वीयसन्तापसुतप्तचित्तं श्रीजानकीजीवनमानतोऽस्मि॥ ४॥
यद्ध्याननिर्धूतवियोगवह्निर्विदेहबाला विबुधारिवन्याम्।
प्राणान् दधे प्राणमयं प्रभुं तं श्रीजानकीजीवनमानतोऽस्मि॥ ५॥
यस्यातिवीर्याम्बुधिवीचिराजौ वंश्यैरहो वैश्रवणो विलीनः।
तं वैरिविध्वंसनशीललीलं श्रीजानकीजीवनमानतोऽस्मि॥ ६॥
यद्रूपराकेशमयूखमालानुरञ्जिता राजरमापि रेजे।
तं राघवेन्द्रं विबुधेन्द्रवन्द्यं श्रीजानकीजीवनमानतोऽस्मि॥ ७॥
एवं कृता येन विचित्रलीला मायामनुष्येण नृपच्छलेन।
तं वै मरालं मुनिमानसानां श्रीजानकीजीवनमानतोऽस्मि॥ ८॥
मूलम्