[[अभिनन्दरामचरितम्-सर्गाः-१२३ Source: EB]]
[
अभिनन्द
रामचरितमहाकाव्य सर्ग १-३
१
प्रथमः सर्गः
अथ माल्यवतः प्रस्थे काकुत्स्थस्य वियोगिनः ।
दुर्निवाराश्रुसंवेगो जगाम जलदागमः ॥ १.१ ॥
शशाम वृष्टिर्मेघानां उत्सङ्गे तस्य भूभृतः ।
विरराम न रामस्य धारासन्ततिरश्रुणः ॥ १.२ ॥
इतस्ततः परिणतिं भेजे बर्हिणकूजितं ।
हा प्रिये राजपुत्रीति न रामपरिदेवितं ॥ १.३ ॥
काप्यभिख्या विरजसोः सूर्याचन्द्रमसोरभूथ् ।
दाशरथ्योस्तथैवासीदयोगोपहता रुचिः ॥ १.४ ॥
निर्मलेन्दु नभो रेजे विकचाब्जं बभौ सरः ।
परं पर्यश्रुवदनौ मम्लतुर्भ्रातरावुभौ ॥ १.५ ॥
स्मर्तव्यकलिकाजालं जज्ञे कुटजकाननं ।
आसीत्तथैव तु मनो रामस्योत्कलिकाकुलं ॥ १.६ ॥
प्रपेदे पुनरुद्भेदः शुचिना कच्छकेतकैः ।
उपक्रियायाः सदृशं नारेभे रविसूनुना ॥ १.७ ॥
आकृष्टमालतीगन्धः सिषेवे राघवं मरुथ् ।
आनीतमैथिलीवार्तस्तं आर्तं न तु मारुतिः ॥ १.८ ॥
रामाय पूरापगमव्यक्तोद्देशाश्चकाशिरे ।
आस्तेऽस्मासु न सीतेति शंसन्त्य इव निम्नगाः ॥ १.९ ॥
यदार्द्रविरहो रामः प्रापितः प्राणसंशयं ।
नूनं तेनानुतापेन जग्मुर्जलदराजयः ॥ १.१० ॥
द्यौर्मुक्तमेघावरणा सवितर्कोन्मुखं मुहुः ।
ययाचे सारसरुतैर्विचारं इव राघवं ॥ १.११ ॥
दिशो ददृशिरे तेन स्तेनं तं परिमार्गता ।
मार्गदानापराधिन्यो गता दूरं भयादिव ॥ १.१२ ॥
तस्याकृतिविशेषस्य विशेषात्कष्टं ईदृशं ।
कच्छाः काशच्छलादूहुरितीव पलितागमं ॥ १.१३ ॥
पश्यन्त्या इव कष्टां तां अवस्थां मैथिलीपतेः ।
शुष्कपङ्कचयव्याजाद्विदद्रे हृदयं भुवः ॥ १.१४ ॥
वृष्टिविच्छेदजातेन तानवेनासमाप्तिना ।
प्रपेदिरे जलधरास्तस्य सब्रह्मचारितां ॥ १.१५ ॥
ययौ विरहसंवर्तः पद्मिनीराजहंसयोः ।
अपारदुःखार्णवयोर्न सीतारामभद्रयोः ॥ १.१६ ॥
शान्तनिर्झरझात्कारधाराः शिखरिणो बभुः ।
रामस्य विशदालापशुश्रूषानिभृता इव ॥ १.१७ ॥
तस्य चक्रुश्चमत्कारं व्यतीतसमया अपि ।
स्मिताभमुकुलोद्भेदाः कदम्बवनराजयः ॥ १.१८ ॥
अदृश्यन्त पुरस्तेन खेलाः खञ्जनपङ्क्तयः ।
अस्मर्यन्त च निश्वस्य प्रियानयनविभ्रमाः ॥ १.१९ ॥
अब्रवीदथ कालज्ञस्तत्कालप्रतिपत्तये ।
प्रणम्य लक्ष्मणो रामं रामाविरहनिःसहं ॥ १.२० ॥
जातं विभातं अमलं पश्य प्रावृण्णिशा गता ।
उत्साहकमलस्यायं विकासावसरस्तव ॥ १.२१ ॥
उच्छ्रयं तीरतरवो रवेरूर्जं अभीषवः ।
मदं गोपतयो गृह्णन्त्यभियोगं जिगीषवः ॥ १.२२ ॥
प्रसीद दीयतां कर्णः कूजद्भिः कुररैरमी ।
प्रार्थयन्तीव संचारं तटाः कर्दमदुर्गताः ॥ १.२३ ॥
भुवि भास्वदभीषूणां त्वदिषूणां च शत्रुषु ।
अयं सम्पतितुं कालः स दुष्कालोऽतिवाहितः ॥ १.२४ ॥
सुदूरोन्नतपर्यन्तास्तीर्यन्ते संक्रमैरिव ।
अनल्पगाधाः सरितस्तरुभिः पूरपातितैः ॥ १.२५ ॥
आविष्कृतविशुद्धिभ्यां नद्यः सुमहिला इव ।
कुलाभ्यां इव कूलाभ्यां आपत्स्वपि चकासति ॥ १.२६ ॥
जलजानां सुमनसां वयसां जलसेविनां ।
अस्य प्रतिजलाधारं सामग्र्यं अवलोक्यते ॥ १.२७ ॥
युयुत्सारभसोत्खातसरित्खातकरोधसः ।
कुकुद्मन्तो मदकलाः कलयन्ति जगन्त्यधः ॥ १.२८ ॥
विश्वेश कुरु विश्वासं आवर्तन्ते न ते घनाः ।
अमी श्यामलयन्त्याशाः शुकाः शालिवनोन्मुखाः ॥ १.२९ ॥
मृगाः सम्प्रति शालेयं सम्पन्नं सम्पतन्त्यमी ।
साकेतं अधितिष्ठन्तं अर्थिनस्त्वां इवोन्मुखाः ॥ १.३० ॥
कार्यदिग्गृह्यतां कापि किं आर्य स्थीयते वृथा ।
एवं एवायं अस्माकं इष्टोऽपि किं उपैष्यति ॥ १.३१ ॥
विजयाय भवासीनो मय्यर्पितवपुर्भरः ।
मूर्च्छानुवलनव्यस्तः प्रस्तरस्त्यज्यतां अयं ॥ १.३२ ॥
प्रतीष्टोपत्यकासालदलाग्रजलबिन्दवः ।
सार्यन्तां क्षणं उद्धूय स्थगितांसतटा जटाः ॥ १.३३ ॥
मुहूर्तं क्रियतां आर्य कपोलविरही करः ।
व्युषितो वल्कलग्रन्थिरंसादुन्मोच्यतां अयं ॥ १.३४ ॥
इतो वितत्य दीयन्तां इषवः क्लिन्नयन्त्रणाः ।
निर्मुक्तार्द्रजरच्चैलं आदत्तां आयतं धनुः ॥ १.३५ ॥
इतोऽवतीर्यतां प्रास्थादस्वास्थ्यं इदं उज्झ्यतां ।
जहीषुभिर्दशग्रीवं दशदिग्वेधशोधितैः ॥ १.३६ ॥
ऋजुरादीयतां पन्थाः कार्यकन्था गरीयसी ।
उत्सार्यतां इदं दूरं तमः किंकार्यतामयं ॥ १.३७ ॥
आर्यायाः शिवं एवास्ति शत्रुर्निहत एव ते ।
अलं दत्त्वावसादाय त्रैलोक्यशरणं वपुः ॥ १.३८ ॥
राक्षसापशदः कोऽसौ त्वयि सज्यशरासने ।
अनेन तेऽवसादेन दूरं आरोपितः पुनः ॥ १.३९ ॥
अश्रुवेगैः प्रमीलाभिर्विलापैरखिलः स ते ।
आमृष्टदेहयात्रस्य मासः प्रौष्ठपदो गतः ॥ १.४० ॥
क्रियतां अधुनोत्साहश्चिन्त्यतां निधनं द्विषः ।
कः स्वबाहुसहायानां महतां आत्मनिग्रहः ॥ १.४१ ॥
भद्रं भाद्रपदच्छेदच्छिन्नाभ्राजिनरज्जवे ।
तुभ्यं पुरुषनागाय निर्विघ्नतरसेऽधुना ॥ १.४२ ॥
प्रसीद कुरु भूयोऽपि देहयात्रां यथा तथा ।
अनुल्लङ्घितविज्ञप्तिर्लक्ष्मणोऽवरजेषु ते ॥ १.४३ ॥
अगाधं धैर्यं आर्यस्य त्रिषु लोकेषु गीयते ।
जनमात्रोचितः कोऽयं आकल्पकपरिग्रहः ॥ १.४४ ॥
अरोपशमितोदग्रजामदग्न्याग्नितेजसः ।
प्रतीच्छति शरासारं तवार्य रुषितस्य कः ॥ १.४५ ॥
स्वकृत्यभारसन्न्यासी यावदित्थं विषीदसि ।
तावदन्तकदंष्ट्राणां अरातिरतिथिर्न ते ॥ १.४६ ॥
आततायी स विज्ञातो जीवत्यार्येति च श्रुतं ।
प्राप्तो यात्रासहः कालः कालक्षेपस्य को गुणः ॥ १.४७ ॥
न ज्ञायते परं व्यक्तं अरेर्मायाविनः पदं ।
तन्मार्गणं च सुहृदा सुग्रीवेण प्रतिश्रुतं ॥ १.४८ ॥
दिङ्मुखाहूतविख्यातकपियूथः कपीश्वरः ।
क्षणान्नूनं असवार्यपादमूले पतिष्यति ॥ १.४९ ॥
शालिपिङ्गमहीपृष्ठस्पर्धयेव भविष्यति ।
रंहस्विहरिसंघातसम्पातकपिलं नभः ॥ १.५० ॥
तेषां आरोषरुचिरैरचिरान्मुखमण्डलैः ।
द्रक्ष्यते तरुणादित्यशतच्छन्नं इवाम्बरं ॥ १.५१ ॥
अहो दीप्तिरहो कान्तिरहो शीलं अहो बलं ।
अहो शक्तिरहो भक्तिरहो प्रज्ञा हनूमतः ॥ १.५२ ॥
प्रगल्भेनाप्रमत्तेन तेनाभ्यन्तरमन्त्रिणा ।
नूनं अस्मत्कृते स्वप्तुं सुग्रीवाय न दीयते ॥ १.५३ ॥
स च प्रत्युपकाराय त्वरयत्येनं आदृतः ।
ध्रुवं बुद्धिवयोवृद्धः सचिवो जाम्बवानपि ॥ १.५४ ॥
तदेवं हेतुना केन वानरेन्द्रो विलम्बते ।
नासौ कृतघ्नस्य भवेद्गुणवद्भृत्यसंग्रहः ॥ १.५५ ॥
आगन्तव्यं ध्रुवं तेन मार्गितार्या प्रवृत्तिना ।
प्रपन्नपरकृत्यानां अत्युष्णो हि समुद्यमः ॥ १.५६ ॥
त्वत्प्रसादाप्तसम्भोगसुखसंमीलितेन वा ।
न तेनामूर्ददृशिरे दिशः प्रोषितकालिकाः ॥ १.५७ ॥
कियच्चिरं पुनरसौ तस्य न श्रुतिं एष्यति ।
क्रीडातटाकहंसानां निनादो मदमूर्छितः ॥ १.५८ ॥
उक्तैः किं अथ भूयोभिरद्य श्वो वागमिष्यति ।
पर्युत्सुकितकिष्किन्धः सत्यसन्धो हरीश्वरः ॥ १.५९ ॥
व्यतिरेकेऽपि यत्कार्यं तदप्यार्य प्रधार्यतां ।
गृह्यतां कार्यसिद्धिर्नस्तद्विलम्बतिरस्कृता ॥ १.६० ॥
यस्तथोपकृतः पूर्वं आर्येणार्याकृतेऽधुना ।
स शीतलः स्यादथवा परचित्तानि वेत्ति कः ॥ १.६१ ॥
स प्रतिश्रुतं अर्थं नः स्फीतो विस्मृतवानिव ।
गत्वाशु स्मार्यतां आर्य कार्यतप्तस्य का क्षमा ॥ १.६२ ॥
तं अहं बोधयिष्यामि दण्डगर्भाभिरुक्तिभिः ।
साम संमीलयत्येव सुखसक्तान्प्रमादिनः ॥ १.६३ ॥
प्रसीद जीयतां मोहः कोऽहं इत्यवधीयतां ।
द्रुतं उत्तीर्ण एवास्ते व्यसनाब्धिः कियानयं ॥ १.६४ ॥
सूनृतैरिति स्ॐइत्रेः प्रीतः पीयूषवर्षिभिः ।
तं अन्तर्वेदनावेगं जिगायेव रघूद्वहः ॥ १.६५ ॥
उन्मीलयामास दृशौ दिशः किंचिदलोकत ।
उन्ननाम च तल्पान्तान्मोचयन्पक्ष्मला जटाः ॥ १.६६ ॥
सत्वरप्रह्वस्ॐइत्रिचीरोत्सारितरेणुनि ।
शुचिनि क्वचिदासन्ने निषसाद शिलातले ॥ १.६७ ॥
उपविष्टस्तदा रामो न रेजे सीतया विना ।
ध्वजो निर्वैजयन्तीकः पौरन्दर इवोच्छ्रितः ॥ १.६८ ॥
अनूपविष्टं अनुजं दनुजारिं इवाद्रिजिथ् ।
प्रत्यभाषत वात्सल्यगद्गदानि पदानि सः ॥ १.६९ ॥
एह्येहि प्रियसंलाप ह्लादयालिङ्गितेन मां ।
रुद्धं रुद्धं उपैत्यश्रु त्वां अपीक्षे न लक्ष्मण ॥ १.७० ॥
हा वत्स भवतोऽपीयं अवस्थाङ्गेषु वर्तते ।
ध्रियतां रामहतकः क्लेशयन्नेकबान्धवं ॥ १.७१ ॥
नास्ति वत्स चिकित्सास्य व्याधेर्विधुरजन्मनः ।
यस्य यापनया क्षीणं इदं ते सान्त्वनामृतं ॥ १.७२ ॥
नैकदुर्वारघोराधिघट्टनाचलिता अपि ।
तवाश्वासनया वत्स न गच्छन्ति ममासवः ॥ १.७३ ॥
पितुर्नः प्रियमित्रस्य लूनपक्षस्य मद्द्विषा ।
संस्मरन्नोत्सहे वत्स मर्मच्छेदं जटायुषः ॥ १.७४ ॥
तातस्य तातमित्रस्य वत्सवत्सलयोस्तयोः ।
अहं एव गतः पापो निधनाय निमित्ततां ॥ १.७५ ॥
प्रियापहारजः शाम्येत्सम्यगुन्मूलिते रिपौ ।
मन्युर्देहावधिरयं तातमित्रविपत्तिभूः ॥ १.७६ ॥
नभस्तलात्खगपतौ पतति च्छिन्नपक्षतौ ।
कोऽपरस्तां मम सुहृन्मा भैषीरित्यभाषत ॥ १.७७ ॥
स्याद्वत्स रामहतकात्क्लीबः कः पुरुषोऽपरः ।
एकपत्नीं अनुगतां अरातेर्यो न रक्षति ॥ १.७८ ॥
तया तेषु तपस्विन्या सीदतोरावयोरपि ।
दण्डकारण्यकष्टेषु मुखं न विधुरीकृतं ॥ १.७९ ॥
विदेहराजस्य सुता स्नुषा दशरथस्य सा ।
हतरामस्य जायेति भ्रमति स्म वने वने ॥ १.८० ॥
स्वं अप्यपुष्णता कायं अपि जायां अरक्षता ।
मया समः श्रुतः कोऽपि जातः क्लीबो रघोः कुले ॥ १.८१ ॥
त्वं केवलं न सुभ्राता तथा विलपता मुहुः ।
तिर्यञ्चोऽपि मयामुष्मिन्वने लक्ष्मण रोदिताः ॥ १.८२ ॥
दिक्षु सन्नद्धमेघासु मम घोराधिसाक्षिणां ।
अवहन्निर्झरनिभान्नगानां अश्रुनिम्नगाः ॥ १.८३ ॥
आरादाकर्णितस्निग्धनवाब्दनिनदैरपि ।
मत्कारुण्यादरण्येऽपि नानृत्यत कलापिभिः ॥ १.८४ ॥
सत्यं एष्यति सुग्रीवः सत्यं जीवति जानकी ।
त्वद्वचो न विपर्येति भ्रातर्ब्रूहि पुनः पुनः ॥ १.८५ ॥
त्वद्वाक्यशीकरैरेभिर्निरुद्धबहिरुद्गमः ।
ममान्तर्लेढि मर्माणि सीताविरहमुर्मुरः ॥ १.८६ ॥
तस्मादपि दहत्युच्चैरयं मां अपरः शिखी ।
यद्वनौकसि निर्वैरे मुक्तो वालिनि मार्गणः ॥ १.८७ ॥
गुर्वी पुनश्च लज्जेयं उत्तमर्णैरिवाधुना ।
मार्गितव्यो यदस्माभिः प्लवगाः प्रत्युपक्रियां ॥ १.८८ ॥
नास्ति प्रत्युपकाराशा तत्र नश्चपले कपौ ।
येनातिलघुनोत्तुङ्गो लङ्घितः सत्यपादपः ॥ १.८९ ॥
उत्तिष्ठ वत्स गच्छावः साधयामोऽन्यतोऽधुना ।
नवैश्वर्यसुखव्यग्रः सुग्रीवो नागं इष्यति ॥ १.९० ॥
तपस्वी रमतां एवं चिराद्दारैः समागतः ।
स पीड्यमानः प्रणयाद्विरसः किं करिष्यति ॥ १.९१ ॥
किं च वत्स दशासाम्याज्जाताः स्मः सुहृदः पुरा ।
तस्याधुना तु विस्तीर्णविभवान्धस्य के वयं ॥ १.९२ ॥
गृहीतसाधुवर्त्मापि सद्यः सम्प्राप्य सम्पदं ।
पतति स्खलितोऽतीव प्रमत्तः प्रहते पथि ॥ १.९३ ॥
स वत्स विरलो जन्तुर्विपत्कालप्रतिश्रुतं ।
सद्यः सम्पन्मदो यस्य न विलुम्पति चेतसि ॥ १.९४ ॥
अस्तु साधुरसाधुर्वा न विचार्यः स मेऽधुना ।
वत्स नोत्सहते चेतस्तत्र दोग्धुं उपक्रियां ॥ १.९५ ॥
असावनागतः श्रेयानागच्छन्वत्स वार्यतां ।
प्रवेशयन्ति सुहृदं न धीराः स्वार्थसंकटे ॥ १.९६ ॥
कर्तव्योपकृतिः सद्भिर्यत्र तत्र विपद्गते ।
अविमृश्य कृतोऽस्माभिः स पुनः कृपणः पणः ॥ १.९७ ॥
किं क्षिप्तं अचलप्रान्तादन्तःसुप्तशिवाशतं ।
निर्देशपुरुषेणेव कङ्कालं दुन्दुभेर्मया ॥ १.९८ ॥
कस्यार्थस्य कृते विद्धाः सप्त सालास्तपस्विनः ।
स मा प्रत्येतु वैधेयः किं न साधितं अन्यतः ॥ १.९९ ॥
अक्षात्रं क्षत्रिययुवा को नु राम इव क्षिपेथ् ।
विशिखं वालिनि व्यग्रे सुग्रीवस्य पशोः कृते ॥ १.१०० ॥
न परित्यज्यते मार्गस्तावन्निर्वाच्यकर्दमः ।
यावत्पिहितकष्टाय कार्यायात्मा न दीयते ॥ १.१०१ ॥
इष्वैकया मया विद्धो बालिशेन वलीमुखः ।
अनुद्धाराः शरास्तेन रोपिता मयि वाङ्मयाः ॥ १.१०२ ॥
अनवाप्तविपत्पारः स्मरिष्यामि कियन्ति वा ।
वत्स कालोचितं शाधि न रामः किंचिदीक्षते ॥ १.१०३ ॥
अवलम्बस्व मां भ्रातः सीतास्मरणनिस्सहं ।
दूरं पुनः प्रभवता मनो मोहेन लुप्यते ॥ १.१०४ ॥
सनाथोभयपार्श्वस्य त्वया वत्स तया च मे ।
वनेषु च सतः कष्टं अजनिष्ट न किंचन ॥ १.१०५ ॥
हा भीरु हा प्रियतमे हा मद्विरहकातरे ।
क्वासीत्यर्धोक्तिनिस्संज्ञो जगाम स महीतलं ॥ १.१०६ ॥
मातः कैकेयि तुष्टासि भुङ्क्ष्व राज्यं अकण्टकं ।
वदन्नित्यपतत्तस्य लक्ष्मणश्चरणाब्जयोः ॥ १.१०७ ॥
ततस्तौ साश्रुनयनौ मृगैर्विधुरवीक्षितौ ।
निपेततुर्दिव इव भ्रष्टौ विधुरवी क्षितौ ॥ १.१०८ ॥
इति निपतितयोस्तयोर्द्वयोर्दशरथनन्दनयोर्महीतले ।
दशभिरपि दिगङ्गनामुखैरधृतिवशादिव तत्यजे रुचिः ॥ १.१०९ ॥
एते निकामरसिकस्य जयन्ति पादाः श्रीहारवर्षयुवराजमहीतलेन्दोः ।
यैर्द्वादशार्ककिरणोत्करदुर्निवारः सृष्टोऽभिनन्दकुमुदस्य महाविकासः ॥ १.११० ॥
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये प्रथमः सर्गः समाप्तः ॥
***********************************************************************
२ सन्ध्यातमश्चन्द्रोदयवर्णनः
द्वितीयः सर्गः
तां अनीक्षितचरीं अधीरतां आत्मनोऽथ विनियम्य लक्ष्मणः ।
सान्त्वनार्थं इति वाचं अब्रवीत्तीव्रमन्युरयमूढं अग्रजं ॥ २.१ ॥
कार्यं आर्य परिशिष्टं उच्यतां मुच्यतां इदं अयोगजं तमः ।
राजतूद्यमदिवाकरोदयस्मेरं आशु मुखपङ्कजं तव ॥ २.२ ॥
आसितुं समय एष नावयोर्मोहं इत्थं अवलम्बितुं न च ।
उत्सहस्व ननु हृष्यतां चिरादिष्वधीनं अधुनाभिकाङ्क्षितं ॥ २.३ ॥
केवलं फलभुजो न तस्य नस्तस्करस्य निलयेऽस्ति निश्चयः ।
अभ्युपैतु रविनन्दनः क्षणादन्धकारं इदं अप्यपैष्यति ॥ २.४ ॥
औरसानपि सुतानरीनिव घ्नन्ति कारणवशान्महीभुजः ।
निग्रहादनुजविद्विषः कपेः किं पृथग्जन इवानुतप्यसे ॥ २.५ ॥
क्रीडतां मृगवनेषु धन्विनां जीवकोटिकदनेऽपि का क्षतिः ।
खिद्यसे किं अनिशं प्रयोजनादेकवानरवधः कुतः कृतः ॥ २.६ ॥
तस्य च प्रवयसो जटायुषः स्वर्गिणः किं अधुनानुशोच्यते ।
येन जर्जरकलेवरव्ययात्क्रीतं इन्दुकिरणोज्ज्वलं यशः ॥ २.७ ॥
एतदेकं अतिवाह्यतां अहः श्वो न स प्लवगराट्प्रतीक्ष्यते ।
तत्प्रसीद परितो विचीयतात्मनैव सनगार्णवावनिः ॥ २.८ ॥
तत्कबन्धशबरीहनूमतां आवयोरजनि सङ्गतं यथा ।
इष्टशंसि वनशैलपान्थयोः किं तथान्यदपि नापतेत्पुनः ॥ २.९ ॥
यत्र यत्र तव सिद्धिरग्रतः कः करिष्यति न ते समीहितं ।
उज्ज्वले कृतविदां न केवलं तेन वर्त्मनि दुरात्मना स्थितं ॥ २.१० ॥
सम्भवत्यभिमरः पुरेऽथवा तस्य तीव्रं अयशः किं उच्यते ।
दुःखं उत्खनति कण्टकावलीरङ्गसन्धिषु नवः किलेश्वरः ॥ २.११ ॥
सम्प्रति प्रथमं आर्य गृह्यतां तत्प्रवृत्तिं उपलब्धुं उद्यमः ।
मर्षणीयपरिलम्बदूषणः सोऽधुनाप्यकपटो घटते चेथ् ॥ २.१२ ॥
मुञ्च मोहं अवतीर्यतां इतः सेव्यतां इयं अनाविला नदी ।
एष गच्छति जवाज्जपारुणो वारुणीं अरुणसारथिर्दिशं ॥ २.१३ ॥
उन्मिमील रघुनन्दनश्चिरात्तन्निशम्य वचनं चमत्कृतः ।
अप्ययोगविधुरा न शेरते संमुखीनविधयस्तथाविधाः ॥ २.१४ ॥
मुक्तमोहं अवलोक्य लक्ष्मणस्तं मृगाङ्कं इव मेघनिर्गतं ।
आददेऽथ शशिकान्तभूधरस्यन्दबिन्दुशिशिरां सरस्वतीं ॥ २.१५ ॥
एष पश्य पतितो नभस्तलादस्तशैलगहनेषु नश्यति ।
सन्ध्यया चरमदिक्प्रगल्भया भग्नसान्द्रकरपञ्जरः खगः ॥ २.१६ ॥
शक्यं अर्चितुं अनुच्चपाणिभिः पाशपाणिनगरीनिवासिभिः ।
सानुरोध इव दूरबन्धुरो बन्धुजीवकुसुमारुणो रविः ॥ २.१७ ॥
एष मुक्तकरपाटवो रविर्नाटयत्यनुगुणत्वं अप्पतौ ।
आपदि प्रकृतिरुज्झिता वरं नाश्रयस्य विसदृग्विचेष्टितं ॥ २.१८ ॥
बिम्बमूलरुचिरा रवेरमी रेचयन्ति गगनं गभस्तयः ।
पूरयन्ति च महीं महीरुहां आयताः प्रतिशरीरयष्टयः ॥ २.१९ ॥
अग्रतः शिखरशाखिसंहतेश्छाययोपचितयापसारितः ।
पृष्ठतोऽतिनिभृतं महीभृतां आतपः कटकं आशु नोज्झति ॥ २.२० ॥
स्वीकरोति शनकैरनोकहच्छायं अद्रिशिखरस्थलीरपि ।
हीयते निजवपुष्यपि क्रमादातपस्य ममता तपस्विनः ॥ २.२१ ॥
अप्पतेर्दिशि विचेष्टते रविर्व्याकुलाः शकुनयः स्वनन्त्यमी ।
ध्वान्तदृष्टिविषदर्शनाद्दिने दुर्निवारनिधने निमीलति ॥ २.२२ ॥
कीर्यते कृतरवैः खगव्रजैरेष तल्लतटचैत्यपादपः ।
सायं अध्वनिकटे निरर्गलः सज्जनालय इव प्रवासिभिः ॥ २.२३ ॥
यान्ति खिन्नजनसेव्यतां अमी स्ॐय सोर्मिशुचिवालुकाचयाः ।
प्रान्तसुप्तकलहंसपङ्क्तयः स्वैरनीरमरुतो नदीतटाः ॥ २.२४ ॥
धिक्तटान्तवसतीन्सितच्छदान्पश्यतः कमलषण्डवैशसं ।
स्त्ॐइ तं दिवसं आर्य केवलं योऽस्तं एति समं अब्जबन्धुना ॥ २.२५ ॥
दन्तमूलनिहितैकसल्लकीपल्लवोऽलसविलोकितानुगः ।
एष मुक्तगिरिकन्दरः शनैर्वारि वारणपतिः प्रतिष्ठते ॥ २.२६ ॥
शीलयन्ति करिणः स्ववासितावारि सैरिभसमूहरेचितं ।
मालतीवनविकासवासिता वान्ति पल्वलतटान्तवायवः ॥ २.२७ ॥
संत्यजन्ति मसृणं सरःसरित्तल्लमूलसलिलानि सैरिभाः ।
सम्भजन्ति सहसा भयद्रुतैरीक्षिताः कुररसारसैरिभाः ॥ २.२८ ॥
संमुखीनघनपत्रबन्धनात्पश्य पङ्कजवनादनारतं ।
पीतकोशमकरन्दसंचयाः संचरन्ति मधुपाः कुमुद्वतीं ॥ २.२९ ॥
नोपनीतमुखमुद्रं अम्बुजं मुक्तमुद्रं अथ नैव कैरवं ।
एतदीक्षितपरस्परं पुनः पत्रियुग्मं अपनिद्रवैशसं ॥ २.३० ॥
रोधसः पुलिनं अब्जिनीं ततस्तां अतीत्य भजते कुमुद्वतीं ।
तत्र तप्त इव गाहते पयः सायं आर्द्रविरहो विहङ्गमः ॥ २.३१ ॥
स्वीकृतं न नलिनैर्निमीलितं न स्फुटं कुमुदकुड्मलस्मितं ।
एतदीक्षितपरस्परं परं मूढं अम्भसि विहङ्गमद्वयं ॥ २.३२ ॥
जर्जरं त्यजति वासरप्लवं न प्रसारयति मन्थरान्करान् ।
एत्यदृष्टं अवलम्ब्य केवलं व्य्ॐअवारिनिधिशेषं अंशुमान् ॥ २.३३ ॥
श्रावितागमं इव द्विजारवैर्ध्वान्तं ॐ इति जगत्प्रतीच्छति ।
त्रातुं ऊष्मरहितः क्षमोऽधुना न स्वमण्डलं अपि प्रभाकरः ॥ २.३४ ॥
दृश्यतां उदयति स्म यादृशस्तादृशस्तरणिरस्तं ईयते ।
उत्सवव्यसनयोः प्रभुर्विधिर्विक्रियासु महतां अनीश्वरः ॥ २.३५ ॥
स्फीतं अब्जकुलं ईक्ष्यतां इतस्तल्लं उल्लसितहंससारसं ।
निश्चलाच्छपरिमण्डलोदकप्रान्तमन्थरमृणालकण्टकं ॥ २.३६ ॥
शीलयन्त्यचलमेखलास्वमी शीतलासु रुरवो निरुद्यमाः ।
पूर्वशष्पकबलानुवर्तिनः स्तोकचञ्चलमुखाः सुखासिकां ॥ २.३७ ॥
दीधितीः परिचिताः परित्यजत्यब्जिनीरपि च नानुरुध्यते ।
सन्ध्यया वरुणदिग्वधूं अनुप्रापितः कं अपि रागं अंशुमान् ॥ २.३८ ॥
द्यऊ रवीन्दुरहितापि निर्मला भूरवृक्षसलिलापि शीतला ।
अन्तरालं अवलम्ब्य शोभते वासरक्षणदयोः क्षणं जगथ् ॥ २.३९ ॥
निर्झरोऽयं इयं आपगा सरः पल्वलं च विमलं विभात्यदः ।
यत्र चित्तं इह पर्युपास्यतां तत्र तत्रभवती पितृप्रसूः ॥ २.४० ॥
इत्युभौ व्यवहितान्तरव्यथौ तौ समाप्य समयोचितं विधिं ।
सत्कृतिं दधतुरानने मिथः प्रार्थनां किं अपि रामलक्ष्मणौ ॥ २.४१ ॥
यत्र वाति न कुमुद्वतीमरुत्क्ॐउदी बत न यत्र वीक्ष्यते ।
तं निरूपितसमन्तं अञ्जसा भेजतुः परिसरं रघूद्वहौ ॥ २.४२ ॥
दृष्टिपाणितलप्पातशोधितां उद्धृतस्थगितकण्टकावटां ।
अस्तृणान्नवतृणेन मेदिनां रामभद्रशयनाय लक्ष्मणः ॥ २.४३ ॥
निर्णिनेज सहसा सुषुप्सतः पादपद्मयुगं अग्रजन्मनः ।
स्वांशुकोद्धृतजलं कराब्जयोः कौशलाच्च समवाहयत्पुनः ॥ २.४४ ॥
अध्वजर्जरितराजलक्षणं लक्ष्मणश्चरणं अग्रजन्मनः ।
आममर्श चिरं अश्रु वर्तयन्केवलोपकरणेन पाणिना ॥ २.४५ ॥
स्वैरं अग्रकरजैर्विवृत्य च व्याकुलां समनयज्जटाटवीं ।
अङ्गदेशं अनयद्विधूय च स्रस्तरातिसृतं अञ्चलं त्वचः ॥ २.४६ ॥
पार्श्वयोरुपदधे महेषुधी आददे शिरसि पूजितं धनुः ।
उन्ममार्ज धुतसंहृतेन च स्वाञ्चलेन पुनरुक्तं आस्तरं ॥ २.४७ ॥
इत्यजस्रं अनुजातसेवया जीयमानवनवासयातनः ।
स्वप्तुकाम इव सालसेन्द्रियः संविवेश रघुनन्दनः क्षणं ॥ २.४८ ॥
मीलितोन्मिषितलोचनः शनैर्जागरूकं अवलोक्य सोऽनुजं ।
उच्चवामकरपङ्कजोदरन्यस्तमौलिरवदन्मितं वचः ॥ २.४९ ॥
गच्छ वत्स शयनीयं आत्मनः क्लिश्यसे कृशतरः कियच्चिरं ।
निद्रया विशदतां व्रज क्षणं न क्षमः प्रतिनिशीथजागरः ॥ २.५० ॥
प्रातरस्ति बहु कृत्यं आवयोर्भ्रातरात्मनि किं अस्यतत्परः ।
चिन्त्यतां उषसि तस्य संगतिः शीतलस्य कपिचक्रवर्तिनः ॥ २.५१ ॥
आस्पदाधिगमगर्वितोऽस्तु वाप्यस्तु वानुदितभूतिविक्रियः ।
आवयोः समयबद्धयोः पुनो निश्चयार्थं अधिगम्य एव सः ॥ २.५२ ॥
तद्विभातु रजनी सुखेन ते यास्यतः प्लवगराजमन्दिरं ।
पक्षयोर्यदनुरूपमुक्तयोस्तत्तदैव च समर्थयिष्यते ॥ २.५३ ॥
ऊचिवानिति बभूव निर्वचाः कुड्मलीकृतविलोचनोत्पलः ।
अध्यशेत चरणाम्बुजान्तिकं तस्य जोषं अनघो जघन्यजः ॥ २.५४ ॥
तत्र तत्र च शयानयोश्चिराद्वीरयोर्विगतसाध्वसा इव ।
उद्धतैर्ददुरुलूकहुंकृतैरन्धकारजयघोषणां द्रुमाः ॥ २.५५ ॥
व्याततोडुदशनापि मुच्यसे न त्वं अर्कचिरसंस्तुताधुना ।
इत्यरिष्टरिपुकूजितैस्तमो द्यां ब्रुवाणं इव दूरं उद्ययौ ॥ २.५६ ॥
केवलं शकुनयो न नीडगाः शाखिनोऽपि शयिताः समन्ततः ।
जज्ञिरे तिमिरतस्करावलीलुप्यमानविभवाश्च भूभृतः ॥ २.५७ ॥
न स्थली न पुलिनं न सिन्धवो नाचला न तरवश्चकाशिरे ।
दूषितद्वितयवादं उद्बभावेकं एव तिमिरं विभूतिमथ् ॥ २.५८ ॥
तत्र मुग्धपृषतस्तमोघने पार्श्वगां अपि मृगीं अहारयथ् ।
प्राप कोकयुवतिर्यदृच्छया पत्युराधितरलस्य संगमं ॥ २.५९ ॥
वृद्धं अङ्कं अनयच्छिशुभ्रमाच्चुम्बति स्म दयितेति यूथपं ।
स्वीयं अप्युदितसंशयः शनैरङ्गं अङ्गं अमृशद्वलीमुखः ॥ २.६० ॥
सर्वतः परिगतेव पर्वतैराचितेव तरुभिर्निरन्तरं ।
आप्लुतेव सलिलैरितस्ततः शक्यते स्म चिरसंस्तुतापि भूः ॥ २.६१ ॥
दिक्षु दक्षं अवनावनाकुलं खेऽतिखेलं अटवीषु भीषणं ।
मत्तं अद्रिषु दरीषु दुर्जयं प्रादुरास विषमे समं तमः ॥ २.६२ ॥
भेजुरैक्यं इव तुल्यवैशसाः सायं एव मलिनैर्मुखैर्दिशः ।
गृह्यमाणशिखरा तमश्चयैर्द्यौः पपात वसुधासखीतले ॥ २.६३ ॥
प्रत्यभान्न पुरतो न पृष्ठतः पार्श्वयोश्च विशदं न किंचन ।
व्यानशे भुवनं अञ्जनाचलप्रस्थपङ्क्तिनिबिडं निशातमः ॥ २.६४ ॥
न द्वितीयं अनुभूयते स्म वस्त्वन्तिकादपि तमस्तिरस्कृतं ।
केवलात्मविषयं तदाभवज्ज्ञानं उल्बपरिवासिनां इव ॥ २.६५ ॥
दूरमिश्रितपरस्पराङ्गकैरप्ययोगजनितज्वरैरिव ।
दुर्लभाननविलोकनामृतैर्दूयते स्म मिथुनैर्मिथो भृशं ॥ २.६६ ॥
सोऽतिशीतहिमशीकरो मरुन्नूनं उल्मुकचयानवाकिरथ् ।
यच्चुकूज भृशं आर्तिकाहलं चक्रवाकयुवतिस्तपस्विनी ॥ २.६७ ॥
उच्चचार न वनस्थलीष्वसौ मर्मरः पतितपत्रनिस्वनः ।
नाविरास करिकृष्टसल्लकीभङ्गयोनिरसकृच्चटत्कृतिः ॥ २.६८ ॥
तस्थुरास्थितमनुष्यमूर्तयो यामिका इव विदूरतोऽद्रयः ।
प्रह्वबालविटपाग्रपाणयस्तौ परीत्य तरवः सिषेविरे ॥ २.६९ ॥
द्राङ्निदाघं अनुदद्रजोऽधुनाद्विश्लथां बृहतिकां असारयथ् ।
प्रत्यपद्यत वनानिलस्तयोरेकसन्निहितयामिकव्रतं ॥ २.७० ॥
सानुजस्य तमसि प्रमीलतस्तस्य भाविममताहृता इव ।
उज्ज्वलायतविषाणसूचिताश्चक्रिरे परिकरं मतङ्गजाः ॥ २.७१ ॥
दीपकृत्यं अकरोदुपान्तिके निष्प्रकम्परुचिरोषधीगणः ।
तेनुरद्रिवनमध्यसुप्तयोर्मङ्गलानि वनदेवतास्तयोः ॥ २.७२ ॥
एहि जानकि भुजान्तरं खरः प्रस्तरोऽयं असि किं पराङ्मुखी ।
मत्कपोलं उपधाय सुप्यतां अप्रसक्तिरियती कदा नु ते ॥ २.७३ ॥
क्षिप्तं अंशुकं इदं मयोरसि प्रीयतां तव निरानन्दः स्तनः ।
नीविनोदिनि करे कुरु क्षमां आयताक्षि नुदसीव किं पुनः ॥ २.७४ ॥
सुप्तवाक्यं इति मैथिलीपतेर्मैथिलीविरहदूयमानया ।
दिक्सखीनिवहवारितास्रया शुश्रुवे वसुधयोपसन्नया ॥ २.७५ ॥
मद्बिभेति विरही रघूद्वहो मद्विना च न जगत्प्रमोदते ।
तत्कर्ॐइ किं इतीव चिन्तयन्नोज्जगाम सहसा निशाकरः ॥ २.७६ ॥
न स्म भाति किं अपि स्फुटं पुरः किंचिदीरितकरेण केवलं ।
दृश्यते स्म दिवि दूरवर्तिना तर्ज्यमानं इव केनचित्तमः ॥ २.७७ ॥
जायते स्म घनमालतीगुणश्रेणिगर्भकबरीमनोहरं ।
मेघवाहनदिगङ्गनामुखे मुग्धचन्द्रकरकर्बुरं तमः ॥ २.७८ ॥
सानुरागं उपगूढं अग्रिमैरंशुभिः शशभृतो दवीयसः ।
उन्ननाम नमुचिद्विषो दिशि स्रस्तस्तंतमसभारं अम्बरं ॥ २.७९ ॥
उज्ज्वलाग्रकिरणप्रवेशकप्रोक्तसत्वरसमागमोऽपि सन् ।
प्रेक्ष्यते स्म जनितोत्सुकश्चिराद्व्य्ॐअरङ्गमुखसंमुखः शशी ॥ २.८० ॥
औदयेन शशिनो गभस्तिना भिन्नशेषतिमिरं व्यराजत ।
मृज्यमानं इव शक्रदिङ्मुखं कुङ्कुमेन मृगनाभोयोगिन् ॥ २.८१ ॥
तं बभार न विधुर्नवोदयं किं तु कुङ्कुमविलेपनारुणं ।
एकं उत्सुकवशात्पयोधरं व्याचकार हरिदिग्विलासिनी ॥ २.८२ ॥
आत्तजैत्रनिजपुष्पधन्वनो मन्मथस्य भुवनानि जेष्यतः ।
उन्ननाम पुरतः शशिच्छलात्पूर्णरुक्मकलशः पयोनिधेः ॥ २.८३ ॥
दिक्सरागमुखसन्निधापितस्फीतचन्द्रचषका शतक्रतोः ।
क्षीबभावं इव बिभ्रती बभौ विश्लथाच्छतिमिरांशुकोच्चया ॥ २.८४ ॥
नन्दयन्भुवनं उन्मुखं चिरान्मन्दयन्स्मरविरुद्धं उद्यमं ।
क्रन्दयन्विरहिणो विहङ्गमान्सान्द्रयन्प्रमदं इन्दुरुद्ययौ ॥ २.८५ ॥
लोचनालिनिवहैकपङ्कजं चित्तहंसशयनीयसैकतं ।
उज्जगाम रतिकेलिमन्दिरं यामिनीयुवतिजीवितं शशी ॥ २.८६ ॥
आलिलिङ्ग रजनीं अहासयद्बिद्यमानमुकुलां कुमुद्वतीं ।
अग्रहीदुडुवधूकरान्करैर्द्यां प्रसादं अनयत्समं शस्शी ॥ २.८७ ॥
आददे वियदलाञ्छनव्रतं लाञ्छनं निजं अगूहदंशुभिः ।
प्राहिणोदपसृतासु क्ॐउदीं दिक्षु दक्षतनयापरिग्रही ॥ २.८८ ॥
व्याप्य दूरं अथ निर्मलं वियद्वीतपङ्कं इव पङ्कजाकरं ।
रेजुरग्रकिरणाः क्षपापतेः पूतकोकनदकन्दक्ॐअलाः ॥ २.८९ ॥
खे ककुप्सु भुवि च क्षपापतेः पेतुरूढनिचया मरीचयः ।
यत्र तत्र कुहराणि कानिचित्कम्पमानं अविशन्निशातमः ॥ २.९० ॥
क्षिप्तं इन्दुरुचिभिर्व्यलम्बत त्र्यम्बकस्य शिखिनश्च दिङ्मुखे ।
तत्र नुन्नं अनुबन्धनिःसहं कान्दिशीकं इव निष्ठितं तमः ॥ २.९१ ॥
कन्दराणि च महामहीभृतां कोटराणि च जरन्महीरुहां ।
अध्युवास कमलोदराणि च ध्वान्तं अध्वगवधूमुखानि च ॥ २.९२ ॥
स्वीचकार करकोटिलालनालम्बितोडुततिमेखलां दिवं ।
रागभङ्गं अतिसंस्तवाद्गतां देवराजदिशं इन्दुरत्यजथ् ॥ २.९३ ॥
आततान गगनाङ्गणाधिकैर्मेदिनीं अमृतवर्षिभिर्विधुः ।
विप्रयुक्तजनधूमकेतुभिः केतकाग्रशुचिभिर्मरीचिभिः ॥ २.९४ ॥
संकुचद्भिरभिरामताधिके साधु चन्द्रमसि पुष्करैः कृतं ।
उद्यता जयिनि कामिनीमुखे तेन साहसं अनुष्ठितं पुनः ॥ २.९५ ॥
उच्चखान रुषं उच्चमण्डलः खण्डनां अगमयद्विषह्यतां ।
मानपङ्कं अपनीय कामिनीः कान्तहस्तं अनयन्निशापतिः ॥ २.९६ ॥
व्यक्तवर्त्मबिलवाहिनीवनग्रामगुल्मगहनाद्रिभेदया ।
स्ॐयताधिकविशेषयाजनि ज्योत्स्नया दिवसनिःस्पृहो जनः ॥ २.९७ ॥
पीयते स्म कुमुदं न लोचनैश्चन्द्रिका तपति रोहितच्छदं ।
प्रादुरास परं उत्पिबन्नलिः सौरभं निरवलम्बं अम्बुनि ॥ २.९८ ॥
एकिकेव निजवृन्दमध्यगाप्युच्चुकूज सभया सितच्छदी ।
दन्तमूलं असकृच्च संशयादाममर्श करिणः करेणुका ॥ २.९९ ॥
केतकीषु कदलीषु वालुकास्वश्मसु स्फुटितकैरवेऽम्भसि ।
लम्भितेव लहरीपरम्परां उल्ललास शशिकान्तिवाहिनी ॥ २.१०० ॥
प्राप्तसूक्ष्मघनपल्लवान्तरैश्चित्रिताः शशिकरैरितस्ततः ।
बिभ्रति स्म तरुमूलशायिनः शम्बराः पृषतयूथविभ्रमं ॥ २.१०१ ॥
कृच्छ्रलब्धनगशृङ्गसन्धयो दत्तमन्मथजयाभिसन्धयः ।
मैथिलीतरवधूदुरासदं राघवाङ्कं अविशच्छशित्विषः ॥ २.१०२ ॥
जागर्षि काश्मरि निषीदसि कोविदार कुत्रासि वत्स कृतमाल तमाल पश्य ।
किं वर्तते रघुपतेरिति सत्वराभिरुक्तं द्रुमौघं अवलोक्य वनस्थलीभिः ॥ २.१०३ ॥
अन्योन्यदूरपरिषक्तविशालसान्द्रशाखाशतैस्तरुभिरन्तरयांबभूवे ।
उद्भूतघोरविरहज्वरलङ्घितस्य चन्द्रातपः स खलु दाशरथेरपथ्यः ॥ २.१०४ ॥
कुमुदवनं अहेतु त्यक्तनिद्रं तदासीद्गगनं उडुवितानैर्धिग्वृथैव प्रफुल्लं
।
अजनि जगदधीशस्यागृहीतेस्तदानीं विधुरपि विधवस्त्रीयौवनोद्भेदशोच्यः ॥ २.१०५ ॥
श्वसिति जनकपुत्री सत्वरो भानुपुत्रः कपिपतिरुपसन्नं सुप्रभातं तवेति ।
जगुरिव रघुनाथायार्धबुद्धाः स्वनन्तो मधुरं अपररात्रे पत्रिणः केऽपि केऽपि ॥ २.१०६ ॥
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये सन्ध्यातमश्चन्द्रोदयवर्णनो नाम द्वितीयः सर्गः समाप्तः ॥
कवीनां किं दत्तैर्नृपपशुभिरन्यैरवसरे परं पृथ्वीपालः क्षणं अपि स कर्णो वितरतु ।
अनात्तं तत्त्वज्ञैरपि सुविपुलार्थव्ययभिया प्रतिष्ठां येनोच्चैर्जगति गमितं रामचरितं ॥
%
ण्भ् ।म्स्C
। रेअद्शेरे (इन्स्तेअदोफ़् थिस्वेर्से?)
पालान्वयाम्बुजवनैकविरोचनाय तस्मै नमोऽस्तु युवराजनरेश्वराय ।
कोटिप्रदानघटितोज्ज्वलकीर्तिमूर्तिर्येनामरत्वपदवीं गमितोऽभिनन्दः ॥