भरतकवचम्

[[भरतकवचम्-श्रीमदानन्दरामायणं Source: EB]]

[

***भरत कवचम् ***

॥ अथ श्रीमदानन्दरामायणांतर्गत श्री भरत कवचं ॥

अगस्तिरुवाच-

अथः परं भरतस्य कवचं ते वदाम्यहं ।

सर्वपापहरं पुण्यं सदा श्रीरामभक्तिदं ॥ १॥

कैकेयी तनयं सदा रघुवर न्यस्केक्षणं श्यामलं

सप्त द्वीपपतेर् विदेह तनया कान्तस्य वाक्ये रतं ।

श्रीसीताधव सव्यपार्श्व निकटे स्तित्वा वरं चामरं

धृत्वा दक्षिण सत्करेण भरतं तं वीजयन्तं भजे ॥ २॥

अस्य श्री भरतकवच मन्त्रस्य अगस्त्य ऋषिः ।

श्री भरतो देवता ।

अनुष्टुप् छन्दः ।

शङ्ख इति बीजं ।

कैकेयी नन्दनः इति शक्तिः ।

भरतखण्डेश्वर इति कीलकं ।

रामानुज इत्यस्त्रं ।

सप्तद्वीपेश्वर दास इति कवचं ।

रामांशज इति मन्त्रः ।

श्रीभरत प्रीत्यर्थं सकलमनोरथ सिद्ध्यर्थं जपे विनियोगः ॥

अथ अङ्गुली न्यासः ॥

ॐ भरताय अङ्गुष्ठाभ्यां नमः ।

ॐ शङ्खाय तर्जनीभ्यां नमः ।

ॐ कैकेयीनन्दनाय मध्यमाभ्यां नमः ।

ॐ भरतखण्डेश्वराय अनामिकाभ्यां नमः ।

ॐ रामानुज कनिष्ठिकाभ्यां नमः ।

ॐ सप्त द्वीपेश्वर दासाय करतल करपृष्ठाभ्यां नमः ॥

हृदयादिन्यासः ॥

ॐ भरताय हृदयाय नमः ।

ॐ शङ्खाय शिरसे स्वाहा ।

ॐ कैकेयीनन्दनाय शिकायै वषट् ।

ॐ भरतखण्डेश्वराय कवचाय हुं ।

ॐ रामानुजाय नेत्रत्रयाय वौषट् ।

ॐ सप्त द्वीपेश्वर दासाय अस्त्राय फट् ।

ॐ रामांशजेति दिग्बन्धः ॥

अथ ध्यानम् ॥

रामचन्द्र सव्यपार्श्वे स्थितं केकयजा सुतं ।

रामाय चामरेणैव वीजयन्तं मनोरमं ॥ १॥

रत्नकुण्डल केयूर कङ्कणादि सुभूषितं ।

पीताम्बर परिधानं वनमाला विराजितं ॥ २॥

माण्डवी धौत चरणं रशना नूपुरान्वितं ।

नीलोत्पल दलश्यामं द्विजराज समाननं ॥ ३॥

आजानुबाहुं भरत खण्डस्य प्रतिपालकं ।

रामानुजं स्मितास्यंच शत्रुघ्न परिवन्दितं ॥ ४॥

रामन्यस्तेक्षणं सौम्यं विद्युत् पुञ्च समप्रभं ।

रामभक्तं महावीरं वन्दे तं भरतं शुभं ॥ ५॥

एवं ध्यात्वा तु भरतं रामपादेक्षणं हृदि ।

कवचं पठनीयं हि भरतस्येद मुत्तमं ॥ ६॥

कवच प्रारंभः ॥

ॐ । पूर्वतो भरतः पातु दक्षिणे कैकयीसुतः ।

नृपात्मजः प्रतीच्यां हि पातूदीश्यां रघूत्तमः ॥ १॥

अथः पातु श्यामलाङ्गः चोर्ध्वं दशरथात्मजः ।

मध्ये भारतवर्षेशः सर्वतः सूर्यवंशजः ॥ २॥

शिरस् दक्षपिता पातु भालं पातु हरिप्रियः ।

भृवोर् मध्यम जनकजा वाक्यैक तत्परोवतु ॥ ३॥

पातु जनक जामाता मम नेत्रे सदात्र हि ।

कपोले माण्डवीकान्तः कर्णमूले स्मिताननः ॥ ४॥

नासाग्रं मे सदा पातु कैकेयी तोषवर्धनः ।

उदाराङ्गो मुखे पातु वाणीं पातु जटाधरः ॥ ५॥

पातु पुष्करतातो मे जिह्वां दन्ताण् प्रभामयः ।

चिबुकं वल्कलधरः कण्ठे पातु वराननः ॥ ६॥

स्कन्धौ पातु जिताराति भुजौ शत्रुघ्न वन्दितः ।

करौ कवचधारीच नखान् खड्गधरोवतु ॥ ७॥

कुक्षौ रामानुजः पातु वक्षः श्री रामवल्लभः ।

पार्श्वे राघव पार्श्वस्थः पातु पृष्ठं सुभाषणः ॥ ८॥

जठरं च धनुर्धारी नाभिं शरकरोवतु ।

कटिं पद्मेक्षणः पातु गुह्यं रामैकमानसः ॥ ९॥

राममित्रः पातु लिङ्गमूरू श्रीरामसेवकः ।

नन्दिग्राम स्थितः पातु जानुनी मम सर्वदा ॥ १०॥

श्री रामपातुकाधारी पातु जङ्घे सदा मम ।

गुल्फौ श्रीराम बन्धुश्च पादौ पातु सुरार्चितः ॥ ११॥

रामाज्ञापालकः पातु ममाङ्गान्यत्र सर्वदा ।

मम पादाङ्गुलीः पातु रघुवंश सुभूषणः ॥ १२॥

रोमाणि पातु मे रम्यः पातु रात्रौ सुधीर् मम ।

तूणीरधारी दिवसे दिक् पातु मम सर्वदा ॥ १३॥

सर्वकालेषु मां पातु पाञ्चजन्यः सदा भुवि ।

एवं श्रीभरस्येदं सुतीक्ष्ण कवचं शुभं ॥ १४॥

मया प्रोक्तं तवाग्रे हि महामङ्गल कारकं ।

स्तोत्राणा मुत्तमं स्तोत्रमिदं ज्ञेयं सुपुण्यदं ॥ १५॥

पठनीयं सदा भक्त्या रामचन्द्रस्य हर्षदं ।

पठित्वा भरतस्येदं कवचं रघुनन्दनः ॥ १६॥

यथा याति परं तोषं तथा स्वकवचेनन ।

तस्मादेतत् सदा जप्यं कवचाना मनुत्तमं ॥ १७॥

अस्यात्र पठनान् मर्त्यः सर्वान् कामानवाप्नुयात् ।

विद्याकामो लभेत्विद्यां पुत्रकामो लभेत् सुतं ॥ १८॥

पत्नीकामो लभेत् पत्नीं धनार्थी धन माप्नुयात् ।

यद्यन् मनोभि लषितं तत्तत् कवचपाठतः ॥ १९॥

लभ्यते मानवैरत्र सत्यं सत्यं वदाम्यहं ।

तस्मात् सदा जपनीयं रामोपासक मानवैः ॥ २०॥

इति श्री शतकोटिरामचरितांतर्गत श्रीमदानन्दरामायणे

वाल्मिकीये मनोहरकाण्डे श्री भरतकवचं संपूर्णं ॥

]