+सीता-विवाह-चूर्णिका

सीता-विवाह-चूर्णिका

(१) अथ जनक-नृपतिर् मनोरथ-महार्णव-पारं गत्वा,
(२) परमाऽऽनन्द-जलधौ निमग्नः

(३) जगच्-चक्षुः-कुल-भूषणस्य
(४) जगत्-त्रय-संरक्षण-दीक्षितस्य
(५) नत-जन-कल्प-तरोः
(६) श्रीकोदण्ड-दीक्षा-गुरोः
(७) विवाह-महोत्सवाय ,

(८) क्षिति-रथ-वर–पूरित-मनो-रथ–भगीरथ-वंश-जातं
(९) अतिरथ-महारथ-पृथिवी-पति-वन्दितं
(१०) दशरथ-महाराजं
(११) रथ-गज-तुरग-पदाति-सहितं
(१२) स-मन्त्रि-पुरोहितं
(१३) स-पुत्र-कलत्रं
(१४) स-परिवारम् आनाय्य सत्कृत्य,

(१५) नाना-विध-क्रमुक-नारिकेळ-रम्भादि-फल-युक्त-सहस्र-शातकुम्भ-स्तम्भ-भूषिते
(१६) जम्भारि-चिर-काङ्क्षिते
(१७) परिपूर्ण-मनोरथ-परमाऽऽमोद-पौर-भक्तजन-परस्परकृत-सल्लापे
(१८) सकल-जन-मनोहराऽऽलापे

(१९) किरीट-कवच-कुण्डल-केयूर-नूपुर-मुक्ताहार–विभूषित–नानाविध-मृदुल-चित्राऽऽसनस्थ–नानादेशागत–राजवर्य-वृन्दे
(२०) लोचनाऽऽनन्दे
(२१) नानाविध-वर्ण-स्वर्णपुष्प-स्तबक-कोटि-देदीप्यमान–मलय-चन्दनाऽगुरु-गुग्गुलु-गोघृताऽऽदि-दिव्य-परिमल-वासना-वस्तु-घुमघुमायमान-सभान्तरे
(२२) निरन्तर-मणि-खचित-मुकुर-परम्परे
(२३) भेरी-मृदङ्ग-मद्दल-काहल-दुन्दुभि-तुरीय-तुंबुरु-वीणा-वेणु-नूपुर-मड्डुक-डिण्डिम-डमरुक-जञ्झरि-झल्लरि-धवलशङ्ख-पणव-पटहाऽऽद्यष्टादश -वाद्य-घोष-सन्तत-शब्दायमान-सकल-दिगन्तरे
(२४) नारद-तुम्बुरु-वीणागान-मनोहरे
(२५) सवत्स-गोसहस्राऽऽद्य्-अनेक-कोटि-हिरण्य-वस्त्राऽऽभरण-भूदान-बहुमान-सन्तोषित–
पात्रभूतोभय-सम्बन्धि-राजश्रेष्ठ-वंशावलि-नाम-गोत्र-प्रवरोच्चारण-निपुण–
वसिष्ठ-वामदेव-विश्वामित्र-शतानन्दाऽऽदि-सकल-मुनिगण-सङ्कीर्ण–विवाह-वेदि-मध्ये

(२६) कृत-स्तव-सिद्ध-साध्ये
(२७) अब्जभव-जिष्णुमुख-हृष्ट-सकल-त्रिदश-सप्तमरुद्-अष्टवसु-यक्षगण-सिद्धजन-रुद्रगण-सत्कृत–पवित्रतर–मित्र-कुल-रत्न-सुगुण-स्तव-समस्त-प्रशस्त-बिरुद-स्तोम-निनदे
(२८) निरस्त-धनदेन्द्र-बिरुदे
(२९) संक्रन्दनाऽऽद्यमर-वृन्दाऽवकीर्यमाण-मन्दार-कुसुम-मुख–नन्दक-वर्षे
(३०) नवरत्न-मणिखचित-कनकमय-मण्टपे

(३१) किञ्चिद्-आरब्ध-तारुण्यं
(३२) नत-जनैक-कारुण्यं
(३३) विदलित-महेश-चापं
(३४) विधिमुख-सुराविदित-प्रतापं
(३५) परिहृत-मुनिजन-तापं
(३६) भानुकुल-रत्न-दीपं
(३७) संपूरित-भक्त-जन-कामं
(३८) सकल-जलधर-श्यामं
(३९) सकल-लोकाऽभिरामं
(४०) श्रीरामं संनिवेश्य ,

(४१) केतकी-चम्पक-मल्लिकाऽऽद्य्-अलङ्कृत-नीलाऽलक-वेणीं
(४२) कलहंस-गामिनीं
(४३) करुणाऽवलोकिनीं
(४४) अनघ-मणि-खचित-हेमकण्ठीं
(४५) स्वर-जित-कल-कण्ठीं
(४६) हाटक-मणिमय-ताटङ्काऽलङ्कृत-कपोलाम्
(४७) अगणित-कल्याण-गुणशीलां
(४८) अरविन्द-सुन्दर-मन्दहास-मुखीं
(४९) श्रीरघुनन्दनाऽभिमुखीं कृत्वा

(५०) ‘ इयं सीता मम सुता सहधर्मचरी तव ।
प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना ॥’
(५१) इति क्षीराऽब्धिर् इव महालक्ष्मीं श्रीमते नारायणाय
(५२) शोभन-मन्त्राऽक्षत-हिरण्योदक-धारा-सहितं
(५३) मन्द-स्मितां सीतां
(५४) श्रीराम-चन्द्र-कराऽरविन्दे समर्पयामास ॥