[[बालरामायणम् Source: EB]]
[
॥ श्रीरामजयम् ॥
॥ बालरामायणम् ॥
A Simple Prose Version of Srimad Valmiki
Ramayana retaining the Idioms of the original.
By
P. S. ANANTANARAYANA SASTRY,
Vidyabhushana, Panditaraja etc.
<MISSING_FIG href="../books_images/U-IMG-1699207289Screenshot2023-11-05233056.png"/>
Revised & Edited with Notes.
Grammatical Peculiarities & Glossary
By
Vidwan L. ANANTARAMA SASTRY,
Vyakarana Siromani.
<MISSING_FIG href="../books_images/U-IMG-1699207365Screenshot2023-11-05233217.png"/>
With a Foreword By
SIR C. P. RAMASWAMY IYER,
K. C. S. I., K. C. I. E.
<MISSING_FIG href="../books_images/U-IMG-1699207410Screenshot2023-11-05233305.png"/>
PUBLISHED BY
R. S. VADHYAR & SONS,
BOOK-SELLERS & PUBLISHERS.
KALPATHI-PALGHAT
S. I N D I A.
<MISSING_FIG href="../books_images/U-IMG-1699207410Screenshot2023-11-05233305.png"/>
1949
All Rights Reserved By the Publishers.
<MISSING_FIG href="../books_images/U-IMG-1699206936Screenshot2023-11-05232510.png"/>
Enlarged Second Edition,
PRINTED AT
THE SCHOLAR PRESS
PALGHAT
FOREWORD
By
SIR C. P. RAMASWAMY IYER
K. C. S. I., K. C. I. E.
<MISSING_FIG href="../books_images/U-IMG-1699207747Screenshot2023-11-04155227.png"/>
Messrs R. S. Vadhyar and Sons have been rendering significant service to the Indian reading public in several directions. They have issued a series of Illustrated SANSKRIT READERS with easy conversational exercises in order to enable beginners to handle the Sanskrit language with ease and correctness.
One of their most notable ventures is the popularisation of the National Epic “THE RAMAYANA”, of which they have published a Tamil translation and from which they have culled a useful collection of apposite sayings. A word for word Tamil translation of the SUNDARAKANDA is specially noteworthy.
In view of the fact that in the Sanskrit language the main Prose works like “Dasakumaracharitam” and “Kadambari” are couched in an ornate and highly arti- ficial style, they have published simple prose versions of sacred and secular works including some of the master-pieces of Kalidasa. Their edition of the BALA RAMAYANA seeks to present an easily readable Prose of the great story and it is remarkable how the author Mr. P. S. Anantanarayana Sastry and his colleque have been able
to interweave into their narrative some of the most striking passages from the original, thus conveying to the learner the rhythms and idioms of Valmiki.
The scenes depicting the demise of Dasaratha, and relating the encounter with Mareecha, and above all the conversational episodes of the Sundara Kanda, are specially illustrative of the successful reproduction of the spirit and language of the greatest of Sanskrit Poems.
Although great simplicity of style has been aimed at, the editors have further aided the young reader by adding notes and glossaries which are of great value.
The lives and thoughts of the people of India, have been profoundly influenced and definitely and halfconsciously moulded during several centuries by the narratives and the sentiments imbedded in our two Epics and the Puranas. There was a danger of our ignoring, if not of our losing our heritage, but a reaction is setting in.
The fundamental importance of our literature and of the Sanskrit language in which it is enshrined is being increasingly recognised and publications like the present are specially opportune at this juncture.
OOTACAMUND, } C. P. Ramaswamy Iyer.
16th September 1949.
॥ श्रीगणेशशारदागुरुभ्यो नमः ॥
श्री सीतालक्ष्मणभरत शत्रुघ्नहनुमत्समेतश्रीरामचन्द्रस्वामिने नमः ॥
॥ बालरामायणम् ॥
<MISSING_FIG href="../books_images/U-IMG-1701419106Screenshot2023-12-01135435.png"/>
बालकाण्डः ।
कल्याणानां निधानं कलिमलमथनं पावनं पावनानां
पाथेयं यन्मुमुक्षोः *1 सपदि परपद प्राप्तये प्रस्थितस्य ।
विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानां
बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम ॥
कोसलनाम्नि समृद्धिमति जनपदे लोकविश्रुता मनुना स्वयं निर्मिता अयोध्या नाम नगरी आसीत् । तस्यां धर्मपरो विजितेन्द्रियो वैश्रवणोपमो लोकस्य परिरक्षिता दशरथो नाम राजर्षि- रवर्तत । तस्य च कौसल्या कैकेयी सुमित्रेति तिस्रो भार्याः अभवन् । महात्मनस्तस्य राजर्षेः सुतार्थं तप्यमानस्यापि सुतो नाजायत । ततः स राजा पुरोधसा वसिष्ठेन ऋश्यशृङ्गं पुरस्कृत्य पुत्रार्थं यज्ञकर्म कारयामास । तस्मिन् यज्ञकर्मणि हुतवहात् प्रादुर्भूतो दिव्यपायससम्पूर्ण पात्रं दोभ्यों धारयन् प्राजापत्यः पुरुषो राजानमेवमग्रवीत्—‘नृपशार्दूल, प्रजाकरमिदं देवनिर्मितं पायसं गृहाण, प्रयच्छ चानुरूपाभ्यो महिषीभ्यः, तासु त्वं लप्स्य से पुत्रान्’ —इति । नृपतिः तथेति तत्प्रतिगृह्य तं पुरुषममिवाद्य परमया मुदा
समपूजयत् । परमभास्वरो दिव्यपुरुषः तत्रैवान्तर्दघे । प्रहृष्टो नरपतिरन्तः पुरं प्रविश्य कौसल्यायै पायसार्धं प्रथमं प्रददौ । द्वितीयादर्धादर्धंसुमित्रायै ददौ; ततोऽवशिष्टस्यार्धं कैकेय्यै दत्वा पुनरवशिष्टं सुमित्रायै प्रददौ । ता महीपतेरुत्तमस्त्रियः पायसं तत्प्राश्य नचिरेणैव तेजस्विनो गर्भानधारयन् । ततश्च द्वादशे मासि नवम्यां तिथौ पुनर्वसुनक्षत्रे पञ्चषु ग्रहेषु2 स्वोच्चस्थानं गतेषु कौसल्या दिव्यलक्षणसंयुतं राममजनयत्, कैकेय्यां सत्यपराक्रमो भरतो जज्ञे, सुमित्रायां वीरौ लक्ष्मणशत्रुघ्नौ च जज्ञाते ॥
ते च राजपुत्राः शैशवमतीत्य साङ्गेषु वेदेषु सर्वेषु च शास्त्रेषु नैपुण्यं प्रत्यपद्यन्त । परस्परमतिमात्रमनुरक्तानां तेषां मध्ये लक्ष्मणस्य ज्येष्टे रामे शत्रुघ्नस्य च भरते काव्यसाधारणी प्रीतिरभवत् । राजा दशरथश्चतुर्भिर्महाभागैः पुत्रैः परमप्रीतो बभूव । विवाहार्हं वयः प्राप्तानां तेषां दारक्रियां प्रति चिन्तयति दशरथे, विश्वामित्रो महामुनिरयोध्यां प्रपेदे ॥
दशरथस्तमतिथिं प्रत्युद्गम्य यथाविधि समपूजयत्। मुनिरपि प्रतिगृह्य तां पूजां पुरे, कोशे, राष्ट्रे,जनपदे, बान्धवेषु, सुहृत्सु च राज्ञः कुशलं पर्यपृच्छत् । अथ हृष्टमना राजा विश्वामित्रमुवाच—‘भगवन्, स्वागतं ते, अपुत्रस्येव पुत्रजन्म, तवेदमागमनं मन्ये । कं वा भवतः कामं करवाणि ‘– इति ॥
महातेजा विश्वामित्रः प्रत्यभापत—‘राजन्, सर्वमेतदुपपन्नं महावंशप्रसूने वसिष्टशिष्ये च भवति । अहं यदर्थमागतोऽस्मिं तदाकर्ण्यताम् । सिद्धयर्थं नियममातिष्ठतो मे सुबाहुमारीचौ
बालकाण्डः ।
राक्षसौ विघ्नकरौ वर्तते। न च मे व्रतमध्ये क्रोधावेशो युज्यत इति शापेन तयोर्निवारणमशक्यम्3। तयोर्विनाशाय ज्येष्ठं पुत्रं रामं मे दातुमर्हसि ’ – इति॥
दशरथो विश्वामित्रस्य भाषितं श्रुत्वा मुहूर्ते निस्संशो बभूव। ततः संज्ञां प्रतिपद्यैवमभापत— ‘ऊनषोडशवर्षः सुकुमाराङ्गो रामः कथं वा राक्षसैर्योत्स्यते। अहमेव धनुष्पाणिर्भवदीयं व्रतचर्या गोप्तास्मि। यावत्प्राणान् धरिष्यामि तावन्निशाचरैर्योत्स्ये च। तत्कृपया न रामं नेतुमर्हसि’ — इति॥
पुत्रविश्लेषकातरस्य दशरथस्य वचनं निशम्य विश्वामित्रः कुपितो बभाषे— ‘प्रथमं यं कमपि कामं करिष्यामीति प्रतिज्ञाय सम्प्रति प्रतिज्ञां हातुमिच्छसि। किमिदं साम्प्रतमिक्ष्वाकुवंशे जातस्य भवतः ? यदीदं ते क्षमं तर्हि तथा कुरुष्व। अहं यथागतं गमिष्यामि। मिथ्याप्रतिज्ञस्त्वं चिराय सुखी भव’ — इति॥
कुपिते कौशिके कृत्स्ना वसुधा भयेन चचाल। देवानामपि महद्भयं बभूव। इत्थंभूते व्यतिकरे भगवान् वसिष्ठो राजानमावभाषे –‘अहं वेद्मि महात्मनो रामस्यानुपमं परराक्रमम्। वृथाविशङ्कया इक्ष्वाकूणां कुले जातो धर्मात्मा च भवान्न धर्मंहातुमर्हति। विश्वामित्रेण गुप्तस्य रामभद्रस्य कुतो भेतव्यम्’ — इति॥
तथा वदति वसिष्टे नृपतिः प्रहृष्टो राममाजुहाव। कृतस्वस्त्ययनं सलक्ष्मणं तं कौशिकाय प्रदाय गमनायानुमेने। प्रतिष्ठमाने च कौशिकानुयायिनि रामभद्रे महती पुष्पवृष्टिरासीत्। कौशिको
राघवाभ्यां सहितः सग्युं तीर्त्वा दक्षिणं तीरमाससाद। ततो रामेति मधुरमामन्त्र्य ‘मत्तो बलामतिबलां च विद्ये सानुजो गृहाणेति तमादिदेश। रामः प्रहृष्टो भावितात्मनो महर्षेः सकाशान्ते विद्ये सानुजो जगृहे। मध्येमार्गमविप्रहतं किमपि घोरं काननं दृष्ट्वा’किं न्विदं दारुणं वनम्’ इति रामः कौशिकं पप्रच्छ !
महातेजा विश्वामित्रस्तमुवाच —
‘वत्स! श्रूयतामस्य दारुणस्य वनस्य वृत्तान्तः। पुरा किलात्र मलदकरूपाभिधानं स्फीतं जनपदद्व्यमवर्तत। सुन्दस्य भार्या मारीचस्य रक्षसो जननी ताटका नागसहस्रबला तदिदं विनाश्य काननतां निनाय। सेयं पथिकानां प्राणहारिणी इतोऽध्यर्धयोजने वसति। तामेनां निहत्य देशमिमं निष्कण्टकं कर्तुमर्हसि’ - इति॥
महर्षेरादेशं शिरसा धारयन् दाशरथिर्देशहिताय तमर्थं प्रतिज्ञाय तीव्रं ज्याशब्दमकरोत्। तं शब्दमसहमाना शिलाजालं वर्षन्ती राक्षसी राममभ्यद्रवत्। अभिमुखमापतन्तीं तां रामः शरेणोरसि विव्याध। सा सद्यो धरणीतले पपात ममार च। ताटकावधेन तोषितस्य मुनिवरस्यादेशेन तौ तां रजनीं तत्र सुग्वमूषतुः। मुनिदत्तेन मन्त्रग्रामेण समेधितप्रभावौ राघवौ मुनिमनुगच्छन्नाश्रमपदमवापताम्। महामुनेस्तास्ताः कौतुकावहाः कथाः शृण्वन्तौ तौ राजपुत्रौ न कदापि मार्गखेदमबुध्येताम्॥
ततो नियतेन्द्रियो मुनिवरो दीक्षां प्रविवेश। राघवौ च निर्निद्रौ महत्या श्रद्धया तपोवनस्य रक्षणे जागरूकाववर्तेताम्।
—————————————————————————————————
Accusative of duration.
**Note: —**Words denoting duration of time are put in the Accusative case; as, न ववर्ष वर्षाणि द्वादश दशशताक्षः॥
षष्ठेऽहनि समागते सानुचरौसुबाहुमारीचौ यज्ञशालामुपगम्य रुधिरौघमवर्षताम्। तावदेव राजीवलोचनो राघवो मारीचोरसि शरेण प्रहृत्य तं योजनशतं यावत्समुद्रे चिक्षेप। सुबाहुमाग्नेयास्त्रेण गतासुं पातयित्वा तदनुचराणि रक्षांसि च वायव्यास्त्रेण दूरं विद्रावयामास। तेनाद्भुतेन कर्मणा सर्वेऽपि तपोवनस्था नितान्तं प्रमुदिता राघवं बहुधा प्रशशंसुः॥
अथ यज्ञे समाप्ते प्रसन्नहृदयो विश्वामित्रो राममायभाषे —‘नरश्रेष्ठ ! मिथिलापतेर्जनकस्य परमपावनो यज्ञ इदानीं प्रवर्तते। तत्र सर्वे वयं यास्यामः। त्वमप्यस्माभिः सह मिथिलां गन्तुमर्हसि। तत्रत्यमप्रमेयप्रभावं शाम्भवं धनूरत्नंचद्रष्टुमर्हसि’ — इति। मुनेराज्ञया राघवावपि प्रतिष्ठमानं मुनिमन्वगच्छताम्। मिथिलोपवनं प्राप्तो दाशरथिः कौशिकात् विदितवृत्तान्तो गौतमाश्रमं प्रविश्य गौतमशापेनादृश्यतां गतां तत्पत्नीमहल्यां शापान्तेनानुजग्राह। अहल्यासहितेन गौतमेन विधिवत्कृतां सपर्यां च प्रतिजग्राह॥
जनको विश्वामित्रमनुप्राप्तं श्रुत्वा पुरोहितं शतानन्दं पुरस्कुर्वन् सहसा प्रत्युद्गम्य विधिवदभ्यर्हितवान्। निर्वृत्ते मिथः कुशलप्रश्ने स राजा सकुतुकं देवतुल्यपराक्रमौ काविमौ कुमारा-विति कौशिकं पप्रच्छ। मुनिरपि राघवानुगतं सर्वमपि वृत्तान्तं यथावद्वर्णयामास। निवेदयामास च तयोर्महाधनुषो दर्शनकौतुकम्॥
जनको मुनिमेवं व्यजिज्ञपत् — ‘इदं किल धनुरत्नं देवरातस्य। राज्ञ हस्ते न्यासीकृतम्। अस्य चारोपणाय देवा दानवा गन्धर्वा रक्षांसि वा न प्रभवन्ति। अत्र यो भुजवीर्ये प्रकाशयति तस्मै
मत्सुता सीता देयेति च प्रतिज्ञा मया कृता। बहवो राजानः सीतामत्रागत्य वग्यामासुः। तथापि धनुषोऽस्य ग्रहणेऽप्यशक्ता भग्नाशाःनिववृतिरे। रामो यद्यस्य धनुष आरोपणं कुर्यात्तर्हि सीतामवश्यं तस्मै दद्यम्’— इति॥
विश्वामित्रेण ‘धनुर्दर्शय रामाय’ इति प्रार्थितो जनको धनुरानयनाय सचिवानादिदेश। महता प्रयासेन बहुभिर्जनसमुहैःसमानीतं तद्धनुःश्रेष्टं ‘वत्स राम धनुः पश्य’ इति विश्वामित्रो रामाय दर्शयामास। रामो विनीतः कार्मुकस्यास्य ग्रहणे पूरणे च यतिष्य इति वदन् पश्यतां नुसहस्राणां समक्षं लीलया मध्ये गृहीत्वा यावत्पूरयामास तावदेव तन्मध्ये भग्नं बभूव। निर्घातसमेन च तस्य निस्वनेन विश्वामित्र जनकं राघवौ च वर्जयित्वा सर्वाऽपि जनता मोहं प्रपेदे। ततः प्रत्याश्वस्तेषु जनेषु जनको राजा विश्वामित्रं सप्रमोदमभाषत - ‘भगवन्! दृष्टवीर्याय दशरथसूनवे रामाय वीर्यशुल्कां सीतां प्रदाय सत्यप्रतिज्ञो भवितुममिलषामि। शीघ्रमेव भवतोऽनुमत्या वार्ताहरा अयोध्यां प्रयान्तु, आनयन्तु च महात्मानं दशरथं सबान्धवं सपुरोधसं सत्वरमेव’— इति। जनकेन प्रेषिता दूता महता रंहसा विहितगमना अयोध्यां संप्राप्य राज्ञे दशरथाय सन्तोषवार्तां निवेदयामासुः॥
कौशिकानुग्रहस्य फलायिनं तमभ्युदयमभिनन्द्य दशरथः सचिवैः संमन्त्र्य सत्वरं सह चतुरङ्गया सेनया मिथिलां प्रतस्थे। समागतं दशरथं सपर्यया संभाव्य जनकः परमं प्रहर्षंप्रपेदे। ऊर्मिलां लक्ष्मणाय प्रदास्यामीति प्रतिजज्ञेच। अनन्तरं च दूतान्सम्प्रेष्य भ्रातरं कुशध्वजं स्वपुरमानाययत्, यस्यापि विवाहार्हं
कन्यारत्नद्वयं माण्डवीथुतकीर्तिनामधेयमवर्तत। ततः सर्वतः प्रवृत्ते विवाहोचिते महोत्सवे इक्ष्वाकुकुलदैवतं भगवान् वसिष्ठो वंशावलीं कीर्तयन् कन्याःचतुर्भ्यःराजकुमारेभ्यः वरयामास। मुनिसंसदि ज्वलतोऽग्नेः समक्षं समं मन्त्रोदकैरानन्दाश्रूणि सिञ्चन्महीपतिरात्मनो भ्रातुश्च ताश्चतस्रः कन्यकाः चतुर्भ्यो राजनन्दनेभ्यः सप्रमोदं प्रतिपादयामास। ते च राजनन्दना वसिष्ठानुमत्या ताः प्रतिजगृहिरे। रामः सीतां लक्ष्मण ऊर्मिलां, भरतो माण्डवीं, शत्रुघ्नः श्रुतकीर्ति चात्मनोऽनुरूपां वधूं प्राप्य सुतरांविरराज। विधिवन्निर्वर्तितविवाहैःसपन्वितो राजा दशरथः सवान्धवं जनकमापृच्छ्य स्वपुरींप्रतस्थे।
स्वगुगोरीश्वरस्य धनु रामेण भग्नमिति जातकोपो जामदग्न्योरामः पावक इव ज्वलन्मध्येमार्गमाजगाम। त्रिः सप्तकृत्वो मेदिनीं निःक्षत्रियां कृतवतस्तस्य दर्शनमात्रेण दशरथस्य हृदयं चकम्पे। मधुराणि सामवचनानि वदतो मुनीनगणयन् जामदग्न्यो राघवमुपगम्य ‘मया समानीतेऽस्मिन् धनुषि ते विक्रमः प्रकाशताम्’ इति भाषमाणो वैष्णवं धनूरत्नमर्पयामास। राघवो लीलया तद्गृहीत्वा तस्मिन्नमोघं शरं सन्दधे। चिरं स्वतपसाऽऽर्जितषु लोकेषु शरप्रभावेण संहृतेषु भग्नदर्पो जामदग्न्यः पुनरपि तपसे महेन्द्रपर्वतं प्रययौ॥
गते जामदग्नयेप्रमुदितो दशरथः सहानुयायिभिर्लङ्घिताध्वासुरेन्द्रसदनमिव विराजमानं स्वमन्दिरं सम्प्राप। ते च महात्मानो राजसूनवः कृतदारकर्माणः परमया भक्त्या पितरं शुश्रूषमाणाः तस्य महतीं प्रीतिमुत्पादयामासुः। राजमहिष्यसर्वा अपि गुण-
गरीयसीःस्नुषाः प्रतिपद्य नितरां जहृषुः। रामोऽपि तथा सर्वगुणसम्पन्नया सीतया समेयिवान्, श्रियेव श्रीपतिः, सुतरां विरेजे। तयोश्च तादृशं प्रेम संजज्ञे, यथा हृदयं हृदयेन व्यक्तमाचख्ये। भ्रातरश्च रामे दृढानुरक्ता मातृभिरुपलाल्यमाना आनन्दस्य परां सीमामध्यगच्छन्॥
पितृभक्ताय सततं भ्रातृभिः सह सीतया।
नन्दिताखिललोकाय रामभद्राय मङ्गलम्॥
॥ बालकाण्डः समाप्तः ॥
<MISSING_FIG href=”../books_images/U-IMG-170063481778.png”/>
अयोध्याकाण्डः।
<MISSING_FIG href=”../books_images/U-IMG-170063490879.png”/>
अयोध्याख्ये तु गुर्वर्थे त्यक्त्वा राज्यं गिरौ वसन्।
पादुके भरतायादात् स रामः शरणं मम॥
कृतोद्वाहं भागिनेयं भरतं स्वगृहं नेतुकामो युधाजिदयोध्यां प्रपेदे। नृपतेरनुज्ञया भरतः शत्रुघ्नेनानुगतो मातुलगृहं प्रययौ। तत्र च मातुलेन पुत्रस्नेहेन परिलाल्यमानोऽपि स सन्ततं जरठं जनकमेव मनसा स्मरन्नवर्तत। नृपतेरपि प्रोषितयोस्तयोस्तनययोरुत्सुकं हृदयमासीत्॥
अत्रान्तरे नरपतिः, सचिवैः पौरैश्च संमन्त्र्य सर्वगुणानामाकरं प्रजानामनुरागभाजनमात्मनश्च प्रियतमं रामचन्द्रं यौवराज्येऽभिषेक्तुमचीकमत। प्रजाश्च रामस्याभिषेकाय सर्वात्मना स्पृह-
————————————————————————————————————
* Aorist 3rd person singular of कम् to desire.
·
यामासुः। अभिषेकवार्ता कृत्स्नामयोध्यानगरीं प्रमोदसागरे प्लावयामास। गृहेषु चत्वरेषु रथ्यासु चतुष्पथेषु विपणिषु राजमार्गेषुच मण्डनविधिः समन्ततः प्रववृते। सर्वत्राणि रामाभिषेकस्य कथैव शुश्रुवे। बाला अपि संक्रीडमाना4 रामाभिषेकमधिकृत्यैव कथाः कथयामासुः॥
राजा सुमन्त्रं संप्रेष्य राममानाययामास। पादयोः प्रणिपतन्तं रामं सप्रेमभरमाश्लिष्य राजा प्रजानामात्मनश्च तमभिलाषंतस्मै कथयामास। ‘श्वोभावी रामभद्र, तव यौवराज्येऽभिषेक’ इति सानन्दमाचक्षाणस्य महीपतेराज्ञां शिरसा धारयन् रघुवरः स्वमन्दिरं निववृते। अभिषेकोचितं च व्रतनियमं जगृहे॥
यदृच्छया प्रासादस्योपरितलमारूढा कैकेय्या दासी वपुषीवमनस्यपि कुटिला मन्थरा तादृशमयोध्यानगरे मण्डनविधिं साक्षातकृत्य ‘किंनिमित्तोऽयमुत्सवारम्भ’ इति रामस्य धात्रीं पप्रच्छ। सा तस्यै रामाभिषेकं भाविनमाचचक्षे। थुत्वैव रामस्य विभूतिं कोपेन दह्यमाना सा पापहृदया शयानां कैकेयीं सत्वरमुपगम्य गरकलुषां गिरमेवमुज्जगार - ‘उपस्थितमनर्थमवुद्ध्वा किमेवं मुग्धा शेषे5। अहो महीयसी ते विपदापतिता। श्वो राजा रामं यौवराज्येऽभिषेक्ष्यति। रामेऽभिषिक्ते कौसल्या महतीमर्हणामवाप्स्यति। त्वां पुनः सर्वोऽपि लोकोऽनादरपात्रं करिष्यति। रामो राजा, भरतो दासश्च भविष्यति’— इति। रामाभिषेकस्य वार्तया
प्रथमं प्रमुदितां कैकेयीं मुहुर्मुहुर्दुरुपदेशमथिशतैर्मथनमन्थरा कथमपि तस्य प्रातिकूल्यं प्रापयामास। साऽपि ‘राममितो वनं प्रस्थापयिष्यामि’ इति दारुणां प्रतिज्ञां चक्रे॥
तत्र चेममुपायं मन्थरा निजगाद—
‘पुरा किल देवासुरसंग्रामे शक्रसाहाय्यं कर्तुं गतो दशरथोऽनुगतायास्ते शुश्रूषया सन्तुष्टो वरद्वयं ते प्रायच्छत्। तच्च यदेच्छामि तदा ग्रहीप्यामीति तस्मिन्नेव सत्यप्रतिज्ञे त्वया न्यासीकृतमास्ते। तयोरेकेन चतुर्दश वत्सरान् रामस्य वने प्रव्राजनमन्येन भरतस्याभिषेचनं च याच्यताम्’ इति। तथा प्रोत्साहिता कैकेयी कोपाविष्टेव क्रोधागारं प्रविश्य धरणीतले संविवेश। दशरथस्तु प्रेयस्यै प्रियवार्तामाख्यातुमिच्छन्नन्तःपुरं प्रविष्टस्तथा भूतां तामभिलक्ष्य भृशमुद्विग्नो बभूव॥
अथ तां सान्त्वयितुकामो राजा ‘देवि केन वा हेतुनैवं विमनोभूताऽसि इति बहुकृत्वः6पर्यपृच्छत्। केनाभियुक्ताऽसि, केन वा विमानिताऽसीति भूयो भूयः परिपृच्छन्तं तं सा क्रूरहृदयैवं जगाद— ‘राजन्, नाहं केनापि विप्रकृता विमानिता वाऽस्मि। अस्ति मे कश्चिदभिप्रायः। तं यदि करिष्यमाणं प्रतिजानीषे तर्हि व्याहरिष्यामि — इति॥
तथेति कृतशपथं नरनाथं दत्तपूर्वं वरद्वयमुद्बोधयन्ती रामस्य प्रवासनं भरतस्याभिषेचनं च सा ययाचे। तस्याः सुदारुणं तद्वचनं निशम्यैव स महीपतिरशनिहत इव नष्टसंज्ञो बभूव। ततः कथ-
मपि लब्धसंज्ञोराजा तथा तं निष्ठुरं निश्चयमुच्चावचैरुपदेशवचनैस्त्याजयितुं बहुधा प्रयेते। नरपतेस्तानि सामवचनानि पापहृदयायां तस्यामूषर इवोप्तानि बीजानि विफलानि परिणेमुः। सा तु ‘यदि मदीयामर्थ्यथनामतिलङ्घ्य राममभिषेक्ष्यसि, तर्हि नियतं पश्यत7.”) एव भवतः, विषं वा पीत्वा पावके वा पतित्वा प्राणांस्त्यक्ष्यामि’ इति सशपथं कथयामास। सत्यपाशेन नियन्त्रितः वरद्वयं प्रदातुं प्रत्याख्यातुं वा अपारयन्ननुतापपरवशो राजा बहुशो विलपितैस्तां रजनीं निर्निद्रो निनाय॥
प्रभातायां शर्वर्यां ब्रह्मवर्चसनिधिर्भगवान् वसिष्ठो यथाविधि सुमुहूर्ते रामाभिषेकं निर्वर्तयितुमीहमानः सम्भारानुपगृह्य परितः स्वलङ्कृतां राजधानीं प्रविवेश। स भगवान् राजगृहद्वारि तिष्ठन्तं कृतमतिं सुमन्त्रमवलोक्य ‘मामिहागतं नृपतेराचक्ष्व’ इत्यादिशत्। मन्त्री वसिष्ठाज्ञया राजसमीपं गतो राज्ञस्तात्कालिकीमवस्थामविदित्वा सुमधुरैर्वाक्यैर्नरपतिं रामाभिषेकाय त्वरयामास॥
दीनो राजा तस्योत्तरं दातुमक्षमस्तूष्णीमासामास। तथा स्थिते राजनि, मन्त्रज्ञा कैकेयी तं प्रत्युवाच — ‘सुमन्त्र, रामाभिषेकेण8 समुत्सुको रजनीं जागरितो राजा निद्रावशमुपगतः। नाहं तं प्रबोधयितुमुत्सहे। त्वमेव त्वरितं गत्वा राममानेतुमर्हसि — इति। ‘अश्रुत्वा राजवचनं कथं गच्छामि’ इति प्रतिभाषमाणं सचिवं राजा ‘सत्यमेष रामं द्रष्टुमिच्छामि’ इति बभाषे। सोऽपि
राजशासनाचरितो राममन्दिरं जगाम। हर्षाकुलेन परिजने न द्रुततरं प्रवेशितः समुदितमिव दिनमणिं सुवर्णपर्यङ्के सुखासीनं राममुपगम्य, ‘सह महिष्याकैकेय्या पिता त्वां द्रष्टुमिच्छति’ इति निवेदयामास च॥
कैकेय्यामपि मातरीव दृढभक्ती रामो न किञ्चिदनिष्ठमाशशङ्के। ‘पितुराज्ञामनुष्ठाय शीघ्रं निवर्तिष्य’ इति प्रियतमामनुज्ञाप्य सह सुमन्त्रेण निष्क्रम्य कैकेयीसदनमाससाद। तत्र चादृष्टचरींकामपि दीनदशामापन्नं म्लानाननं पितरं विलोक्य संभ्रान्तमनाश्चरणयोः कृतप्रणामः कैकेयीमपि सादरं प्रणम्य नृपतेरभिमुखीभृयतस्थौ। राजा तु कण्ठे सजता गद्गदस्वरेण यत्किञ्चिद्वक्तुमुपक्रान्तोऽशक्नुवन्निव विरराम9। रम् preceded by विआor परिtakes Parasmaipada terminations.")। अदृष्टपूर्वं तातस्य तं विकारमवलोक्य रामोऽपि पदा पन्नगं स्पृष्टेवपर्याकुलः कैकेयीमेवं व्याजहार - ‘अम्ब, कस्य हेतोः पिता मां प्रति कुपित इव लक्ष्यते। कश्चिन्मया किमप्यनिष्टं पितुराचरितम्। यद्यकृतापराधेऽपि मयि तातस्य कथमध्यप्रीतिर्मदभाग्यपरिपाकादुपनता तर्हि सा पुत्रवत्सलया भवत्या द्रागपनीयताम्’— इति॥
कैकेयी स्वार्थैकप्रवणा धृष्टतामवलम्ब्य वभाषे — ‘न राजा कुपितः, नाप्यस्य किंचिदुदुःखमापतितम; किं तु स्वकृतां प्रतिज्ञां रक्षितुमक्षमः त्वद्भयादात्मनो मनोगतं वक्तुमसमर्थः क्लिश्यते। यदि तत्सर्वथा करिष्यसि तर्ह्यहं ते तत् कथयिष्यामि— इति। ‘तातस्य वचनात्पावके पतितुमपि सज्जो ह्यहम्। तत्किमेवं मय्यनर्हं
ब्रवीषि ? तातस्य यत् समीहितं तत्करिष्यामीति प्रतिजाने। अम्ब, रामो द्विर्नाभिभाषते’ इत्यार्जवेन ब्रुवाणं तं ऋकचहृदया कैकेयी भृशदारुणमात्मनोऽभिलषितं निर्घृणमवादीत्। ‘चतुर्दश हायनानि वने चीरजटाघरो वस’— इति वदन्तीमपि तां निर्विकारेण गम्भीरभावेन, ‘अम्ब, नाहमर्थपरो मानुषं लोकमधिवस्तुमभिलषामि, केवलं धर्ममेव पुरुषार्थं मन्यमानं मां मुनिभिः सहशमवेहि’ इति रघुपुङ्गवः प्रत्यभाषत। ‘अद्यैव शीघ्रजवैर्हयैर्दूताः भरतमभिषेकार्थंमातुलालयादानयन्तु’ इति च तां संप्रार्थ्य संज्ञाविहीनं नरपति पुनरपि प्रणिपत्य जननीमाप्रष्टुमनाः वनवासायकृतनिश्चयेन कोपारुणनयनेन लक्ष्मणेनानुगम्यमानः कौसल्या मन्दिरं प्रविवेश। तावदेव कर्णाकर्णिकया वनवासवार्ता सर्वतः प्रससार। कैकेयीगृहं प्रविशतस्ततो निर्गच्छतश्च तस्य मुखरागं समं दृष्ट्वा जनता विसिष्मिये॥
अभिषेकोत्सवं प्रतीक्षमाणा राममाता वनवासवार्तया वाल्यया लतेच कम्पिता महीतले पपात। धैर्यसागरेण रामेण समाश्वासिता सा रामविश्लेषततस्य प्राणवल्लभस्य क्षते क्षारं मा क्षिपाणीति शोकवेगं नियम्य पत्युः शुश्रूषया स्वं जीवितं सफलममन्यत। ‘पितृवाक्यपरिपालनाय काननं प्रतिष्टमानं मामनुमन्यस्व’ इति सप्रणामं प्रार्थयमानस्य तनयस्य स्वस्त्ययनकाङ्क्षिणी कौसल्या कथमप्यपनीतशोका निरुद्धवाप्पवेगा मङ्गलानि चकार। ‘यमेव सर्वोपरि मन्यमानो नियमेन पालयसि स धर्मस्त्वामभिरक्षतु, सर्वे च देवाः सर्वाणि च भूतानि स्वस्ति ते विदधतु’ इति मुहुर्मुहुराशीर्वचनशतानि वर्षन्ती, भवितव्यताबलं तथाविधं विचिन्त्य स्वयमाश्वसती, ‘चतुर्दश समाः क्षणमिव नीत्वा पुनरयोध्यामागतं
सर्वसिद्धार्थमरोगं त्वां वत्स पश्यानि’ इति व्याहरन्ती सा तमात्मजं विससर्ज॥
मातरमनुज्ञाप्य स्वगृहमागतः स किञ्चिदवनतमुखः सीतासमीपमवाप। शोकाविष्टमिव प्राणनाथमुपलक्ष्य वेपमानया किमेवं हर्षोचितेऽपि समये परिम्लानोऽसीति तथा पृच्छ्यमानः शोकभारमात्मना धारयितुं न प्रबभूव। स सीतामभिदधे —‘प्रिये जानकि तत्रभवांस्तातः सत्यरक्षणाय मां वनं प्रवाजयति, भरतं ममानुजं यौवराज्ये चाभिषेक्ष्यति। चतुर्दश वत्सरान् मधुमूलफलैर्मुनिवृत्तिना मया वने वर्तितव्यम्। सोऽहं वनं प्रस्थितस्त्वां द्रष्टुमागत इदानीमस्मि। मयि वनं याते त्वं राज्ञो भरतस्यानुवर्तिनी धर्मपरायणा वृद्धयोः मम पित्रोः सेवानिरता वर्तितुमर्हसि’— इति॥
तादृशस्य प्रणयगरिम्णोऽननुगुणमप्रतीक्षितं च रामवाक्यमाकर्ण्य विषण्णहृदया जनकनन्दिनी किञ्चिदिव पारुष्यमवलम्बमाना तं गर्हयितुमुपचक्रमे - ‘किमिदमननुरूपं मां भाषसे ? अनन्यशरणां त्वत्प्राणामिमां परित्यक्तुं किंतु धृष्णोषि। यदि त्वं वनं प्रस्थितोऽसि तर्हि साऽहमग्रतः कुशकण्टकान् मृद्गती गमिष्यामि। यदि चानन्यभावां मामिहोपेक्षसे तर्हि मरणं मे शरणं भविष्यति। यत्र रामो निवसति तद्वनमपि सीताया नन्दनमेव’ — इति। इत्थं सुदृढं ब्रुवाणां सहधर्मचारिणीं वनवासक्लेशानां बहुकृत्वो वर्णनेनापि यदा निवर्तयितुं न शशाक तदा रामः ‘त्वदृते10 governs the Ablative case (पञ्चमी)")स्वर्गोऽपि न मह्यं रोचत’ इति वदन्ननुगमनायानुमेने॥
तयोस्तं संवादमाकर्ण्य स्वमनोरथस्य विघातमाशङ्कमानो बाप्पपर्याकुलमुखः शोकं नियन्तुमशक्नुवंश्च सुमित्रानन्दनो भ्रातुचरणौ गाढं निपीडयन् ‘आ11शैशवादनुचरमाज्ञाकरं मामिदार्नीं न विहातुमर्हसि’ इति भूयो भूयः प्रार्थयत। ‘यद्यार्यो वनाय प्रतिष्ठते तदाऽहं धनुर्धरः पुरो गमिष्यामि सौविदल इव’ इति वदन्तं लक्ष्मणमाश्रितवत्सलो रामचन्द्रः कथं नाम विजह्यात्? रामेणानुज्ञातः सौमित्रिर्जननीमापृच्छथ, ‘रामं दशरथं विद्धि मां विद्धि जनकात्मजाम्’ इति तस्या निदेशमाम्नायमिव मानयन् राममेवोपतस्थे॥
ब्राह्मणेभ्यो बहुधनमाभरणानि च वितीर्य वसिष्ठस्य भगवतः सत्या आशिष उपसंगृह्यच ते त्रयो राजानमनुमानचितुमुपागमन्। शोकार्णवमनं महीपतिं प्रदक्षिणीकृत्य प्रणिपत्य च दृढसङ्कल्पास्ते तस्यानुमतिमयाचन्त। ततो रामः कैकेय्या स्वयमर्पित वल्कलं परिधाय पर्यश्रुनयनैः पौरसङ्घातैः सशोकविस्मयमवलोक्यमानः ससीतालक्ष्मणः सुमन्त्रेण सज्जीकृतं स्यन्दनमारुरोह॥
तेषु रथारूढेषु सुमन्त्रः पवनजवनान् वाजिनश्चोदयामास। सबालवृद्धा कृत्स्नाऽप्ययोध्या परमदुःखार्ता ताननुसर्तुकामा बभूव। रामोऽपि मधुरैर्वचनैः पौरानाश्वासयन् द्रुतचोदितैरश्वैश्चक्षुर्विषयमतीयाय। यावत्तु रथनेमिसमुद्धूता रजोराजिरदृश्यत ताबद्दशरथस्तत्प्रयातायां दिश्येव दत्तचक्षुरवर्तत॥
रामोऽपि तमसातीरे तां रजनीमतिवाह्य प्रातर्गोमतींसरयूं च समुत्तीर्य धनधान्यसम्पन्नं रम्योद्यानविराजितं च कोसलदेश—
मतिक्रम्य मुनिगणनिषेविताया लोकपावन्या गङ्गायाः कुले गुणशालिनामग्रतःसरेण गुहेन निषादाधिपतिना सञ्जग्मे। भक्तिनम्रो निषादराजो रघुपुङ्गवं स्वविषयमागतं यथावदुपचचार। अपरेद्युरुषस्युत्थाय गुहसमानीतेन न्यग्रोधक्षीरेण जटाः कृत्वा जाह्नवीं तरीतुकामो रामः ‘सुदृढा नौरानीयताम्’ इति निषादराजं प्रार्थयामास। गङ्गाकुले सुमन्त्रं निवर्तयिष्यन् ‘मन्त्रिवर्य, तातस्य सकाशे सततमप्रमत्तो भव’— इति सानुनयं भाषित्वा सह सीतालक्ष्मणाभ्यां गुहानुमतो नावमारुरोह॥
भागीरथ्या दक्षिणं तीरमासाद्य ते त्रयोऽपि पद्भ्यांसञ्चरमाणा भरद्वाजस्य महामुनेराश्रमं प्रपेदिरे। भरद्वाजस्तं प्रियमतिथिं रामचन्द्रं यथाविधि सञ्चकार। अननुभूतपूर्वेण मार्गखेदेन किञ्चिदिव परिश्रान्तास्ते तां रात्रिं भरद्वाजाश्रमपदे सुखमुषुः। प्रभातायां रजन्यां ‘मधुमूलफलाढ्यश्चित्रकूटाचल एव भवतु भवतां हद्यो निवास’ इति भरद्वाजगिरा तदाश्रमात्प्रस्थाय ते चित्रकूटमनुप्राप्य माल्यवतीकृले रम्यमाश्रमं निर्माय परमया निवृत्या तं गिरिवरमध्यवात्सुः12.")। विप्रवासदुःखं च व्यस्मार्षुः॥
रामशून्येन रथेन हर्षशून्येन च हृदयेन निरानन्दां रिक्तामयोध्यां प्रतिनिवृत्तः सुमन्त्रः शोकाकुलो बाप्पाविललोचनः कथमपि नृपतेः सकाशं सम्प्राप्य प्रोषितानां तेषां प्रवृत्तीर्निवेदयामास।
राजा तु रामं जटाधरं निशम्य द्विगुणीभूतशोको मुर्छितो बभूव। अनुक्षणं ‘हा राघव! हा वत्स! हा पितृप्रिय! हा ममायासनाशन! क्व गतोऽसि’ इति पुनः पुनः परिदेवमानः प्रवासात्प्रभृति पञ्च दिनानि दुःखमयं जीवितं धारयामास। कुमारभाव एव शब्दवेधीति प्रथां गतेन दृप्तेनात्मना कृतस्य मुनिकुमारवधस्य विपाकं तमनुस्मरन्नाचक्षाणश्च परिचर्यारतायै प्रियतमायै कौसल्यायै दशरथः षष्ठेदिवसे निशीथात्परं दिवमारुरोह। अयोध्यायां सा रात्रिः कियतीं व्याकुलतामुदपादयदिति केन वा वर्णयितुं शक्यते!
रामलक्ष्मणौ चित्रकूटे निवसतः। भरतः शत्रुघ्नेन सह मातुः पापकर्मणामनभिज्ञोमातुलगृहे सुखेन रमते। राजा कालधर्मंगतः। राज्यमराजकं जातम्। अनाथाःप्रजाः कं शरणं गच्छन्तु?
‘अराजकं राष्ट्रं मा विनाशमवापत्’ इति चिन्ताकुला राजकर्तारो महात्मानो मुनयः समेत्य ‘त्वमेव कुमारं भरतमन्यं वा राजानमभिषेक्तुमर्हसि’ इति पुरोहितं वसिष्ठं प्रार्थयामासुः। पित्रा प्रतिज्ञातराज्यं भरतं सद्यः समानेतुमिच्छन् वसिष्ठः सचिवैः संमन्त्र्यभरताय दूतान् प्रजिघाय। वसिष्टेन प्रहिता दूतासप्तभिरहोभिस्त्वरिततरं केकयान् प्राप्य भरतं विज्ञापयामासुः— ‘राजनन्दन! सामात्यः पुरोहितः सहसा त्वां द्रष्टुमीहते। आत्ययिकं ते किमपि कृत्यमापतितम्। अतस्त्वरमाणेन प्रस्थीयतामद्यैव भवता’ - इति॥
पूर्वेधुरनुभूताभिर्दुःस्वप्नपरम्पराभिराकुलचित्तो भरतस्तेन सन्देशेन संक्षुमिततरो भूत्वा पितुर्मातॄणां रामलक्ष्मणयोश्च पृथक् पृथक् कुशलं पर्यपृच्छत्। ‘रामं प्रोषितम्, राजानं वा स्वर्गतम्,
भरताय मा शंसिषुर्भवन्तः’ इति पुरोधसा प्रस्थानसमये प्रतिषिद्धाः दूता मृषैव ‘सर्वेषां कुशलम्’ इत्येकमेवोत्तरं ददुः॥
भरतो दूतागमनमावेदयन् मातामहं मातुलं चामन्त्र्य प्रस्थानाय तत्वरे। ताभ्यां दत्तानि महार्घाणि पारितोषिकाणि ग्रहीतुमपि ग्लायन्ननुजेन सह सद्यः स्यन्दनमारुह्य प्रतस्थे च॥
सप्तभिरहोभिरतिलङ्गिताध्वा प्राप्तायोध्यस्तां पुरीमयथापूर्ववृत्तामवलोक्य सन्तप्यमानः स सारथिमाबभाषे – ‘सूत, सततमयोध्यायां श्रूयमाणस्तुमुलः शब्दो विरतप्रायो वर्तते। उद्यानानि संस्कारशून्यानि हतप्रभाणि पश्यामि। चन्दनागरुवासितः पवनो नात्र प्रागिव प्रवाति। विपणयोऽपि विना वणिग्जनैः शून्यागाराणीव दृश्यन्ते। अशेषा च जनता दीना म्लानानना कृशा मलिना बाप्पाविललोचना नितरामुत्कण्ठितेव विलोक्यते’ इत्यादि पुनः पुनरालपन् ससंभ्रमं स्यन्दनादवतीर्य पितुरालयं प्रविवेश। पितरमदृष्ट्वामातुर्गृहं प्रविश्य तस्याश्चरणयोः कृतप्रणामः’कुत्र मे तातः’ इति तां पप्रच्छ॥
‘या गतिः सर्वभूतानां तां गतिं ते पिता गत’ इति वज्र निर्घातनिष्ठुरं तदुत्तरं थुत्वा भरतो निकृत्तमूल इव बालपादपो महीतले लुप्तसंज्ञः पपात। अथ शनैः शनैर्लब्धसंज्ञम्, तात तातेति विलपन्तम्, ‘अम्ब, कीदृशश्चरमः सन्देशो मन्दभाग्याय मे तातेन विहित’ इति पृच्छन्तं तं ‘हा राम! हा सीते! हा लक्ष्मण! इति परिदेवमानः पिता ते प्राणानमुञ्चत्’ इति द्वितीयेनाप्रियविषेण मूर्छयन्ती कैकेयी स्वनृशंसताया असीमतां प्रकटयामास। स्त्रस्वभावसुलभेन चापलेनात्मनो दुश्चरितानामियत्तामजानती सा
सुनिर्लज्जमात्मचरितं विस्तरेणाख्याय पण्डितमानिनी तनयहृदयस्याप्यनभिज्ञा तं राज्याभिषेकाय प्रेरयामास॥
‘धर्मात्मना पित्रा, पितृसमेन ज्येष्टेन च भ्रात्रा विहीनं शापहतं मां धिक्, अपवादजनन्या अपत्रपाया जनन्या उदरादवाप्तजनिं मन्दभाग्यं मां धिक्’ इत्यात्मानं शतशो गर्हयन् भरत एकपुत्रायाः कौसल्यायास्तादृशीं शोकसन्ततिमाहितवर्ती स्वमातरं च बहुधा निनिन्द। सर्वथाऽपि तन्मनोरथस्यापरिपूरणेन तस्याः दण्डने कृतनिश्चयः शोकं नियम्य तैलद्रोण्यां निक्षिप्तं तातशरीरं वसिष्टवचसा वह्निसात् कृत्वा प्रेतकर्माणि यथाविधि निर्वर्तयामास॥
कृतोदकं गताशौचं च तं सचिवा उपगम्य राज्याभिषेकाय प्रार्थयांचक्रिरे। भ्रातृवत्सलो भरतस्तेषामभिषेकोद्यमं निवार्य रामदर्शनलालसः काननं प्रति प्रतस्थे। ‘यावदार्यो न निवर्तते तावदरण्ये तस्य दासभावेन वर्तिष्ये, न पुना रामवर्जितां राजलक्ष्मीमादरिष्ये’ इति भाषमाणस्य तस्य गुणैकप्रवणतां प्रशंसन्तः सर्वे पौरा रामदर्शनकाङ्क्षिणस्तमनुप्रातिष्ठन्त। तादृशं तस्य रामानुरागमुपलक्ष्य कैकेय्या अपि हृदयमनुशयवशंवदमजायत। सचिवैः पुरोहितेन भ्रात्रा जननीभिश्च समन्वितो भरतः सह चतुरङ्गया सेनया भागीरथीमनु13 शृङ्गवेरपुरस्याभ्यर्णमाससाद। सेनया सह प्रस्थितं तं विलोक्य ‘किं धर्मात्मा भरतोऽपिराज्यलोभेन गुणनिधये रामाय द्रोग्धुं14 प्रक्रान्तः’ इति गुहः प्रथममाशशङ्के। तेन
सङ्गतस्तदीयं रामानुनयव्यवसायमवगम्य मुदितस्तस्मै ‘वनं गच्छता मध्येमार्गमत्रागतेन रामेणास्मिन्निङ्गुदीपादपमूल उषितम्, अस्यां तृणमय्यां शय्यायां शयितम्, अत्र स्थितेन जटाः कल्पिताः’ इति तस्य निवासादिस्थानानि दर्शयन्निषादराज आत्मना साक्षात्कृतं सर्वं रामवृत्तान्तमवर्णयत्। गुहोक्तिभिर्नवीकृतशोको भरतः ससीतस्य रामस्य तादृशींदशां स्वनिमित्तामाकलय्य मुहुर्मुहुरनुशोचन् ‘अद्यप्रभृति फलमूलाशनो जटावल्कलधारी भूमिशयश्च भविष्यामि’ इति प्रतिजज्ञे। निषादराजेन गङ्गां तारितः सानुचरस्तदुपदिष्टेन वर्त्मना भरद्वाजाश्रमं जगाम च॥
अनुचरान् दूरे स्थापयित्वा वसिष्टं पुरस्कृत्य प्रविष्टाश्रमो राजसुनुर्भरद्वाजेन सत्कृतः प्रस्थान हेतुमपृच्छयत। ‘अपि नाम कौसल्यानन्दने पापमाचरितमुद्यतोऽसि’ इति भरद्वाजेन पृच्छ्यमानः स पर्यश्रुलोचनः सज्जमानवचाः ‘हा हतोऽस्मि ! हन्त ! भगवानपि मामेवं मन्यते’ इत्युत्तरयन् रामानुगतां वार्तामन्वयुङ्क्त॥
भगवतो भरद्वाजस्य गिरा गमं चित्रकूटे सुखोषितमवगम्य दिवसमेकं तदाश्रमे यापयित्वाऽपरेद्युःप्रत्यूष एव स ततः प्रस्थाय परिश्रान्तपरिवारो रम्यं रामाश्रमपरिसरमुपससार। भरतस्य सेनया सहागमनमन्यथा गृहीत्वा क्रोधवश्यतां गतमनुजं ‘भरते वृथा विशङ्कां मा15 is a particle of prohibition usually used with Imperative and Aorist. When used with Aorist the augment ‘अ’ is dropped.”) कृथाः16”)’ इति रामः सान्त्वयामास॥
सैनिकान् यथार्हंविनिवेश्य ‘भवता जननीजनान्वितेन पृष्ठतो समागम्यताम्’ इति वसिष्टमाभाष्यशत्रुघ्नेन सुमन्त्रेण चानुयातो भरतो ज्यायसो भ्रातुर्दर्शनायोत्कण्ठितः पुरो ययौ। कृतापराधः कथमुपसर्पेयम्’ इति मन्दीबभूव। चिराय दृष्टमार्यमवलोक्य ‘शोकतरङ्गिणीं तरेयम्’ इति तत्वरे। एवमनियतेन पदविन्यासेन हर्षशोकमयानामन्तराले दोलायमानो बाप्पावरुद्धदृषी रामस्य पुरतो दण्डवत् प्रणनाम। ‘आर्य’ इत्यामन्त्र्य परतो वक्तुमपारयन् विरराम च। शत्रुघ्नश्च रुदन् रामस्य चरणौ ववन्दे। रामोऽपि तावुभौ सुदृढं परिष्वज्य वाष्पं विससर्ज॥
जटिलं चीरवसनं विवर्णवदनं कृशमभिज्ञातुमशक्यं भ्रातरं भरतं रामोऽङ्कमारोप्य सप्रेमादरं वभाषे – ‘वत्स, चिराय दिष्ट्या त्वां पश्यामि। कश्चित्तातः कुशली वर्तते ? न हि जीवतस्तस्य त्वं वनमागन्तुमर्हसि। कच्चित्ते प्राप्तराज्यस्य सर्वतः प्रतिष्टा जाता? अपि कुशली भगवान् वसिष्ठः? अपि कुशलं मातॄणाम् ?’ — इति। एवं क्रमशः सर्वेषां कुशलमन्वयुङ्क्त॥
भरतस्तु नितान्तं दीनात्मा ‘ससीतालक्ष्मणे भवति निष्क्रान्ते शोकाभिभूतस्तातो दिवंयात’ इति बाप्पगद्गदया गिरा तं जगाद। पितुः पञ्चताप्राप्ति निशम्य सत्त्वसागरोऽपि रामो गतचेतनः पपात। ततः सुमन्त्रेण भ्रातृमिश्च समाश्वासितस्तातस्य तांस्तान् गुणाननुस्मृत्य पुनःपुनर्विलपन्मन्दाकिनीमवगाह्य विधिना निवापाञ्जलिं दत्वा बदरीमिश्रेणैङ्गुदपिण्याकेन17पिण्डानर्पयामास। तेषां भ्रातॄणां विलापमाकर्ण्य सङ्गताः पौरजनाः शोकेनाभिभूताः अभूवन्तादृशं भ्रातृस्नेहमुपलक्ष्य विस्मयमभजन्त च॥
तावदेव राजपत्न्यो वसिष्ठेनानीता रामसविधमुपजग्मुः। रामो वसिष्ठस्य जननीनां च पादौ जगृहे। अवर्णनीयेन चेतो-विकारेणाक्षिप्यमाणाः सर्वे ते कामप्यननुभूतपूर्वामवस्थामनुबभूवुः॥
अथापरेद्युःपौरेषु पुरोधसि सचिवेषु च यथार्हमुपविष्टेषु विनयावनतो भरतो रामं विज्ञापयामास – ‘आर्य, यदहं विवक्षामि तद्वक्तुं न मे प्रगल्भताऽस्ति। किं तु सहजप्रणयगरिम्णा किमपि वक्तुं धृष्णोमि। ताते यशश्शेषतां गते अशेषा वसुमती त्वामेव वोढारमिच्छति। नह्यग्रजे प्रियमाणे रघूणां राजलक्ष्मीः कनीयांसं प्राप्तुमर्हति। चपलाया मजनन्या निर्वन्धेन कृत्यमूढतां नीतस्तातो राज्यं मह्यं प्रत्यजानीत। तथापि मम कथमुदेतु मतिविप्लवः! लोकप्रदीपे भूपे कालेन कवलिते सर्वाः प्रजाः सूर्यस्येव तवोदयं प्रतीक्षन्ते। यदि वा राज्यमार्येण त्यक्तंतदाऽपि दासेन मया पुनः समर्पितमार्यः स्वीकर्तुमर्हति। तत्प्रसीदत्वार्यः। अनाथं राष्ट्रमार्येणैव सनाथीकरणीयम्’ – इति॥
रामस्तमाश्वासयन्नावभाषे - ‘वत्स! सर्वे भावा अभावावसानाः। राज्यं विभूतयः प्रीतयः प्रियसङ्गमाश्चावश्यं क्षयमेष्यन्ति। स्वीयैः सुचरितैःस्वर्गं गतो धर्मात्मा जनकः सर्वथा नानुशोचनीयः। यथा तातेन सोढ्वाऽपि शोकपरम्परां धर्मोऽनुपालितस्तथा तन्नियुक्तेन त्वया मया च तस्य शासने वर्तितव्यम्। अतो निस्संशयं सह शत्रुघ्नेन याह्ययोध्याम, प्रकृतीश्चोपरञ्जय, मातरं मा च गर्हय ‘— इति॥
बहुशःप्रवर्तिताभिरपि प्रार्थनाभिर्भरतो रामं वनवासप्रतिज्ञायाः किञ्चिदपि च्यावयितुं न शशाक। ‘लक्ष्मीरपि चन्द्रादपे-
यात्, हिमवान् वा हिमं त्यजेत्, सागरो वेलामप्यतीयात्, न पुनरहं पितुः सन्निधौ कृतां प्रतिज्ञां त्यजेयम्’ इति रामो दृढमा- चख्यौ। तदा वसिष्ठः प्रजानां योगक्षेमकाङ्क्ष्या कमप्युपायं निर्ममौ। भरत, भ्रातुः पादुके गृहीत्वा तदनुमतो राज्यं पालय’ इति स भरतमुपदिदेश। रामं च ‘पादुके भरताय प्रयच्छ’ इति प्रार्थयामास॥
सत्यसन्धेन राघवेण वितीर्णे पादुके शिरसा गृहीत्वा’नगराद्बहिः18")कृतवसतिरनयोरर्पितराज्यतन्त्रः चतुर्दश वत्सरान् मुनिवृत्तिरार्यागमनं प्रतीक्षिप्ये, अतीते चतुर्दशे वत्सरे यद्यार्यंन द्रक्ष्यामि तर्हि हुतवहं प्रवेक्ष्यामि’ इति सर्वेषां समक्षं प्रतिज्ञां च कृत्वा सर्वैरनुगतैः सह भरतः साकेतं प्रतिनिववृते। तातेन रामेण च विरहितं साकेतं स्वयं प्रवेष्टुमनिच्छन् मुनीनां संमतं नन्दिग्रामं सानुजः प्रपद्य सिंहासनोपरि रामपादुके विन्यस्य पूजयन् जटावल्कलधरो राज्यं परिपालयन्नवर्तत॥
रामोऽपि भरतस्य जननीनां पौराणां च परिचिते बहुशो भुक्तविभवे चित्रकूटे निवासं नातिहृद्यमाकयलन् सह सीतालक्ष्मणाभ्यां वनान्तरं प्रवेष्टुमाचकाङ्क्ष। ततश्चित्रकूटात् प्रस्थाय महर्षेरत्रेराश्रमं प्राप्य तेन सभाजितस्तां शर्वरीं तत्रातिवाह्य तद्दर्शितेनाध्वना दण्डकारण्यं प्रविवेश॥
व्यक्तसाकेतवासाय चित्रकूटविहारिणे।
सेव्याय सर्वयमिनां धीरोदाराय मङ्गलम्॥
॥ अयोध्याकाण्डः समाप्तः ॥
आरण्यकाण्डः
<MISSING_FIG href=”../books_images/U-IMG-1699059476Screenshot2023-11-04062511.png”/>
विराधादिकबन्धान्तान् हत्वा स्वपदमादिशत्।
विचरन् दण्डकारण्ये भवारण्ये स मे गतिः॥
तिग्मांशुरिव मेघमण्डलं दण्डकारण्यं प्रविष्टो दुर्धर्षो राघवः सर्वभूतानां शरण्यम्, ब्राह्म्या लक्ष्म्या दीप्यमानम्, तापसानामाश्रममण्डलं ददर्श। तद्दृष्ट्वा विनयावनतो धनुर्विज्यं विधाय19ससीतालक्ष्मणोऽभिजगाम। मुनयस्तं विश्रुतविक्रमं रामं विज्ञाय निर्निमेपैरक्षिभिरापिबन्तः सविस्मयं प्रतिगृह्य पर्णशालां प्रवेश्य समपूजयन्। ‘त्वद्वीयगुप्तानामस्माकं निर्विघ्न नि वर्धन्ते तपांसि’ इति तमभिनन्द्य ‘न्यस्तदण्डानां जितक्रोधानां च तपस्विनामस्माकं रक्षणे जागरूको भवान् भवितुमर्हति’ इति च प्रार्थयामासुः। स्वीकृतातिथ्यो राघवः क्षपामेकां तत्र क्षपयित्वा प्रातः सुमहद्वनान्तरं जगाहे॥
तत्र गिरिशृङ्गाभं कज्जलश्यामं वैयाघ्रचर्मवसनं सर्वभूतभयङ्करं विराधाभिधानं रक्षस्तेषां पुरः प्रादुर्बभूव। दृष्टमात्रे रक्षसि चकिता सीता वृकत्रस्तेव हरिणी लोलैर्विलोकनै राममालुलोके। भैरवेण नादेन दिशः पूरयन् स निशाचरः क्रुद्धस्तानभिगम्य ‘जटिलौ धन्विनौ विरुद्धाचारौकौयुवाम्’ इति जल्पन् जानकीं प्रसह्य जगृहे। तेन पापेनाकृप्यमाणा जनकनन्दिनी प्रवाते कदलीव विवेपे॥
तदसह्यतमं रक्षसः परिभवं प्राप्य खिन्नो राघवः ‘किं न पश्यसि सौमित्रे सीतां परेण स्पृश्यमानाम्’ इति भ्रातरं रक्षोवधाय
प्रेरयामास। लक्ष्मणेन निशितैः शरैः प्रहृतो विराधः शुलं लक्ष्मणोरसि चिक्षेप। तावद्रामः शरनिकरं वर्षन् शुलं द्विधाकृत्य राक्षसं हृतासुमपातयत्। स चात्मनः शापवृत्तान्तं रामाय कथयित्वा गर्तक्षेपेण शरीरसंस्कारं च याचित्वा शरभङ्गाश्रमस्य मार्गमुपदिशन् दिवं जगाम॥
विराधवधेन सीतां समाश्वास्य रामः शरभङ्गाश्रममभिययौ। शरभङ्गः स्वतपसाऽऽर्जितं ब्रह्मलोकं प्रयास्यन् रामागमनं प्रतीक्षमाणोऽवर्तत। स महात्मा रामायात्मवृत्तान्तमाख्याय ‘इहारण्ये सुतीक्ष्णो नाम धार्मिको वसति, तं याहि, स ते श्रेयो विधास्यति’ इत्युक्त्वा भौतिकं पिण्डं सर्प इव निर्मोकमुत्ससर्ज। वासवेन नीयमानो ब्रह्मलोकं च प्रपेदे॥
शरभङ्गे द्यां गते तद्वननिवासिनो मुनयः सत्यपराक्रमं राममुपगम्य दत्ताशिषः स्वीयां दुर्दशामवादिषुः।‘काननेस्मिन् मुनिसंक्षयदीक्षितै राक्षसैरल्पावशेषितान् तपःक्षयभयेन शापदानाद्विरतानस्मांस्त्रातुमर्हसि’ इति व्याहरतस्तपोधनान् प्रतिस्वयमेव ‘दुष्टदण्डने धृतव्रतस्य ममायं भवतां शासनानुग्रहोऽधिक’ इत्याश्रुतराक्षसवधो रामस्तदनुमत्या तीक्ष्णतपसः सुतीक्ष्णस्याश्रममयासीत्। सुतीक्ष्णाश्रमे सुखोषितस्तदनुज्ञया दण्डकारण्यवासिनां महात्मनां तांस्तानाश्रमतल्लजान्सेवमानो दश हायनानि अनैषीत्॥
पुनः सुतीक्ष्णाश्रमं निवृत्य श्रीराघवः तं कुतूहलेनाब्रवीत् —‘अस्मिन्नरण्ये मुनिसत्तमो भगवानगस्त्यो निवसतीति बहुशः श्रुतवानस्मि। तस्य महात्मनो रम्यमाश्रमपदं गत्वा तच्चरणे वन्दितुमभिलषामि। कृपया मे भगवान् तदाश्रमपथमुपदेष्टुमर्हति’
इति। ततः सुतीक्ष्णोपदिष्टेन पथा पीतसागरस्य विन्ध्यदर्पदमनस्य वातापितापनस्य मुनेः परमपावनमाश्रमं शिश्रिये॥
धर्मात्मानं रामं स्वाश्रमं प्रत्यागतं दृष्ट्वा चुलुकितसागरोऽपि स मुनिः प्रमोदसागरे ममज्ज। रामः सह सीतया लक्ष्मणेन च सूर्यवर्चसो महर्षेः पादौ जग्राह। कृताञ्जलिं रघुवरं कुशलं पृष्ट्वा पुष्पफलमूलादिभिः सत्कृत्य महर्षिरानन्दभरितः प्रोवाच — ‘पुरुषव्याघ्र, विश्वकर्मणा निर्मितं हेमराजिभूषितं वैष्णवमिदं दिव्यं धनुः, अयं च ब्रह्मदत्तः सूर्यसङ्काशः शरोत्तमः, इमौ च माहेन्द्रौ निशितबाणपूर्णौनिषङ्गौ, अयं च हैमकोशो दिव्यखड्गः, सर्वमेतत् विजयाय मत्तो गृहाण’ इति। एवमुक्त्वा सर्वाणि तानि दिव्यागुधानि राघवाय विततार॥
गृहीतास्त्रं रामचन्द्रमगस्त्यः पुनरपि बभाषे - ‘राम, सुकुमारी राजगृहोचिता जनकनन्दिनी भर्तृस्नेहप्रचोदिता त्वामनुसरन्ती प्राज्यदोषं वनं प्राप्ता। सैषा यथा न खिद्येत तथा त्वं कर्तुमर्हसि। प्रायेण स्त्रीणामियं प्रकृतिः, यत्समस्थमनुरज्यन्ते पतिं, विषमस्थं त्यजन्ति च। विद्युतां लोलत्वं, शस्त्राणां तीक्ष्यत्वं, पवनस्य शैघ्र्यं च स्त्रीषु सम्मिलितानीति मे मतिः। इयं तु शीलाभरणा भर्तृपरायणा दोषासङ्गरहिता रवेः प्रमेव भाति। ससीतासौमित्रिणा च भवता देशोऽयमलंकृतो विराजते’ — इति॥
तथा ब्रुवाणमगस्त्यं रामो ‘गुरोरत्रभवतः परितोषेण धन्योऽस्मि’ इति प्रतिनन्द्य ‘निवासार्हं स्थानमादिश’ इति प्रार्थयत। अगस्त्यस्य निदेशेन तौ रघुवरौ गोदावरीतीरवर्तिनीं नित्यपुष्पितकाननां पञ्चवटीं प्रति प्रतस्थाते॥
पञ्चवटींप्रस्थितो राघवः पथि महाकायं गृध्रं विलोक्य तं राक्षसं मन्यमानोजिघांसुरभिदुद्राव20। स तु मधुरया वाचा वत्सेत्यामन्त्र्य जगाद — ‘पितुः सखायं गृध्रराजं जटायुषं मामवेहि। दिष्ट्या सुहृदः सुतौ युवां दृष्ट्वा दृष्टोऽस्मि’— इति। रामलक्ष्मणौ तद्वार्ताश्रवणेनानुस्मृतजनकौ भक्त्या तमपूजयताम्। अप्रार्थित एव रामेण स पक्षिराजः प्रेमभरेण ‘अत्र निवसतस्ते सहायो भविष्यामि, युवयोरसन्निधाने सीतां रक्षिष्यामि’ इति च प्रतिश्रुत्याकृत्निमां मैत्रीमाविश्चकार॥
ततो रामः पञ्चवटींप्राप्य दीप्ततेजसं भ्रातरम् ‘आश्रमोचितः सन्निकृष्टजलाशयः सुलभकुशपुष्पफलः प्रदेशः समीक्ष्य परिगृह्यताम्’ इत्यादिदेश। स तु ‘त्वयि स्थिते वर्षशतं कृतपरिचयोऽपि परवानयं न निर्णेतुमलम्’ इत्युक्त्वोदासिष्ट। तदा रामः सुरुचिरं नातिदूरस्थया विकचपद्मया पद्मिन्या विराजमानं पुष्पितैः पादपैः परिशोभमानं कूजद्विहगसंकुलं कमपि प्रदेश तस्मै दर्शयामास। तत्र भ्रातुरभिप्रायमनुरुध्यमानः सौमित्रिः संहतमृत्तिकां दीर्घर्मस्करैः कृतवंशां शमीशाखामिरास्तीर्य दृढपाशावपाशितां कुशकाशशरैः सुपरिच्छादितां समोकृततलां पर्णशालां निर्माय रामाय कृतमाश्रमपदं निवेदयामास। प्रसन्नहृदयो रामः सुमित्रासुतममिनन्द्य सुखेन तामध्युवास। प्रसन्नमधुराः स्निग्धा वनस्थलीरवेक्षमाणः सह सीतया लक्ष्मणेन च विविधाः कथाः कथयंश्च दाशरथिस्तस्मिन्नाश्रमे क्षणमिव दिवसान्निनाय॥
अथैकदा राक्षसचक्रवर्तिनो लोककण्टकस्य रावणस्य भगिनी शूर्पणखा यदृच्छया तं प्रदेशमाजगाम। सा च वासवोपमं महा-
वाहुमभिरामं रामं दृष्ट्वा काममोहिता बभूव। दुर्मुखी विरूपाक्षी वामभाषिणी दुर्वृत्ता च सा राक्षसी सुमुखं राजीवलोचनं मधुरभाषिणं धर्मात्मानं राममुपगम्य तद्वार्तामवगम्यात्मचरितं व्याचक्षाणा ‘चिराय भव भर्ता मे, सीतया किं करिष्यसि’ इति निस्त्रपं निजगाद॥
रामस्तां स्मितपूर्वंव्याजहार - ‘भवति, अहं कृतदारः, इयं च मे दयिता न त्यागमर्हति त्वद्विधानां नारीणां दुःसहं खलु सापत्न्यदुःखम्। तदलं तवानया वाच्छया। अकृतदारममुं ममानुजं लक्ष्मणं भर्तारं भजस्व — इति। एवं रामेण गदिता राक्षसी सहसा तं विसृज्य लक्ष्मणमुपगम्य तथा प्रार्थयत। तेन च स्मयमानेन, ‘अहमार्यस्य दामोऽस्मि, अनेन रूपेणान्विता त्वं कथं दासपत्नी भवितुमभिलषसि’ इत्यभिहिता तं परिहासमजानती राममेव पुनः प्रपेदे। एवं गतागताभ्यां खिन्ना सा सीतां स्वमनोरथस्यान्तगयं मत्या तन्निग्रहेच्छया तामभ्यद्रवत्। तदा कुपितो रामः’इमामतिमत्तामसतीं विरूपयितुमर्हसि’ इति लक्ष्मणमादिदेश। सोऽपि तरसा करवालमुद्धृत्य रामसमक्षमेव तस्याः कर्णनासिकं चिच्छेद॥
निकृत्तकर्णनासा निशाचरी घोरं निनदन्ती बहुशः पीतपूर्वं रुधिरमिववमन्ती रक्तसिक्तसरणिर्द्रुततरं धावन्ती भ्रातरं खरमुपेत्य स्ववृत्तान्तं सर्वमभिदधे। स्वसुः परिभवेन दीप्तकोपः खरो रामलक्ष्मणयोर्निग्रहाय महाबलान् चतुर्दश राक्षसान् प्रजिघाय। उद्यतायुधान् शूर्पणखादर्शितेन पथा योद्धुमापततस्तानवलोक्य
—————————————————————————————————
द्वन्द्वCompound consisting of words expressive of limbs of living beings is always in neuter gender and singular number.
रामःसौमित्रिं सीतायाः पालनाय नियुज्य चामीकरविभूषितं महद्धनुरादाय संमुखीबभूव। ते चतुर्दशापि प्रत्येकं राघवं प्रति शूलानि चिक्षिपुः। रामोऽपि तावद्भिः सायकैः शूलानि शतधाकृत्य निशितैरपरैश्चतुर्दशभिः शरैस्तेषां प्राणान् जहार॥
चतुर्दशसु तेषु निमेषमात्रेण रामबाणाग्निशलभतां प्राप्तेषु शूर्पणखा तापेन दह्यमाना पुनः खरमभिगम्य बहुधा तं गर्हयामास। ‘धिक् ते शूरमानिनो विकत्थनस्य बाहुबलम्। यदि तौ मानुषौ हन्तुं न शक्नोषि तर्हि जनस्थानात्तूर्णमपयाहि। अन्यथा रामतेजमाऽभिभूतः क्षिप्रं विनङ्क्ष्यसि’ इत्यादिभिर्वाक्यैः खरक्रोधमुत्तंजयन्ती भृशदुःखिता सा कराभ्यामुदरं21हत्वा रुरोद॥
तथैवं वाग्वज्रेण प्रहृतः खरः सहसा रणाय सन्नह्य नीलजीमूतवर्णानां रक्षसां चतुर्दशभिः सहस्स्रैरनुगम्यमानः सह दृषणत्रिशिरोभ्यां सेनापतिभ्यां राममभिययौ। सीतां लक्ष्मणे विन्यस्यामुक्तहेमकवचो मण्डलीकृतकार्मुको रणपण्डितो राघवो भीमविक्रमाणां रक्षसां चतुर्दश सहस्त्राणि स्वयमेक एव सहस्रशो विमुक्तैः शर्निहत्य खरं सदूषणत्रिशिरसं च यमनगरातिथि वितेने। अद्भुतेन रामविक्रमेण विस्मिता देवाः कुसुमानि, महर्षयश्च स्वस्तिवाक्यानि राघवे ववृषुः। वैदेही च शत्रुहन्तारं महर्षीणां सुखावहं रणाजिरादावर्तमानं वल्लभं परिषस्वजे॥
रामाभिभवेन दूयमानहृदयाऽमर्षविवशा च शूर्पणखा लङ्कां गत्वा राक्षससार्वभौमं रावणममात्यपरिवृतमभिगम्य परुषया
गिरैवं व्याजहार —‘प्रमत्तः स्वैरवृत्तो निरङ्कुशः समापतितं महद्भयमबुध्वा किमेवं वर्तसे ?। भीमकर्मणां रक्षसां चतुर्दश सहस्राणि खरदूषणत्रिशिरसश्च पदातिना रामेणैकाकिना शरैः पञ्चतामनायिषत। दुर्धर्षेण राघवेण ऋषीणामभयं दत्तम्, दण्डकारण्ये च क्षेममापादितम्। तस्य धर्मपत्नीं राकाशशिनिभाननामनवद्याङ्गीं सीतां तव भार्यांचिकीर्षुरहं हठादानेतुमुद्यता। तस्योद्यमस्य फलमिदं तदनुजादधिगतं मदीयं वैरूप्यं किं न पश्यसि? सर्वमेतदवबुध्य यत्ते रोचते तत्कुरुष्व’— इति॥
रोमहर्षणं शूर्पणखायास्तर्जनं कर्णाभ्यां निपीय कोपाकुलो दशमुखः सत्वरमुत्थाय सचिवान् विसृज्य रथमारुह्य वियत्पथेन प्रातिष्ठत। समुद्रस्य परं पारमुपागतो दशकन्धरो रम्यं तपोवनमधिवसन्तं रजनीचरं मारीचमुपेयाय। तेन यथार्हंसत्कृतः कुशलमागमनहेतुं च पृष्टो विनीत एवमावेदयामास — ‘मारीच, धूयतां मे वचनमवधानेन। अहमिदानीमार्तस्त्वां प्रपन्नोऽस्मि। जनस्थाननिवासिनः खरप्रमुखाश्चतुर्दशसहस्राधिका राक्षसाः कार्मुकद्वितीयेन रामेण कालधर्मं प्रापिताः, भगिनी मे शूर्पणखा तदनुजेन लक्ष्मणेन विरूपिता च। तस्य प्रतिचिकीर्षुरहं जनस्थानात्तस्य भार्यां सीतां जिहीर्षामि। तत्र मे साहाय्यं कर्तुमर्हसि। भवता रजतबिन्दुचित्रितस्य हेममृगस्य रूपं धारयता सीतायाः प्रमुखे चरितव्यम्। अपूर्वमृगरूपं त्वां विलोक्य सा ‘गृह्यतामयम्’ इति भर्तारं लक्ष्मणं चाभिधास्यति। ततस्तयोरपाये शून्यं तदाश्रमं प्रविश्य निरावाधस्तां विधुन्तुद इव विधुसुषमां सुखेन हरिष्यामि’ — इति॥
मारीचो वक्रं पन्थानमाश्रितस्य राक्षसपतेस्तमुद्योगमकुशलो
दर्कमाकर्ण्य राघवाद्रावणाच्च सममेव चकितहृदयो बभाषे — ‘राजन्, सततं प्रियवादिनः पुरुषा लोकेऽत्र सुलभा एव। अप्रियस्यापि पथ्यस्य वक्तारः श्रोतारश्च कामं विरलाः। तदग्रतो विषतुल्यमपि परिणामेऽमृतोपमं मद्वाक्यं मा तिरस्कार्षीः। रामस्य सुमहद्वीर्यमविदित्वा त्वमेवं मन्यसे। अयमस्मि रामपराक्रमस्य साक्षी। स हि संक्रुद्धो लोकानराक्षसान् विदध्यात्। यदि मया निवार्यमाणोऽपि प्रसह्य सीतां हरिष्यसि तर्हि सबान्धवो यमक्षयं गमिष्यसि’ — इति। एवं वदन् विश्वामित्रयज्ञे दण्डकारण्ये चात्मनाऽनुभूतमातङ्कं वर्णयामास॥
कालचोदितो राक्षसचक्रवर्तींमारीचोपदेशं न प्रतिजग्राह। ‘यदि मदाज्ञां न करोषि तर्हि त्वामहमद्यैव हन्यामिति जानीहि, न हि राज्ञः प्रतिकूलवर्ती सुखं लब्धुमर्हति’ इति स मारीचमुवाच। स्वामिप्रीतये रामबाणैः प्राणहानिर्वरमिति मन्यमानो मारीचो विमानमारुह्य रावणमनुससार॥
रामाश्रमं प्रविष्टमात्रः कामरूपी मारीचः क्षणेन नानारत्नविचित्रितः परमशोभनो हेमहरिणः संजज्ञे। आश्रमपरिसरे कुसुमान्यपचिन्वती जानकी तमाश्चर्यरूपं हरिणं संप्रेक्ष्य रामं लक्ष्मणं चामन्त्र्य ‘मनोहरोऽयं हरिणः क्रीडार्थमानीयताम्’ इत्यसकृदभ्यर्थयामास। ‘समाप्तवनवासरस्माभिरयोध्यां नीतश्चेदन्तः पुरालङ्कारोऽयं भविष्यति। यदि सजीवो न गृह्यते तदाऽपि निहतस्यास्य सुरुचिरं चर्म नः कोमलं रमणीयमास्तरणं भविष्यति’ इत्यादि कौतुकावेशेन कथयन्त्या सीतया प्रचोदितः स्वर्णमृगस्य च रूपेण प्रलोभितो रामस्तं ग्रहीतुमियेष। ‘सौमित्रे, हरिणमानेतुं
यावद्गच्छामि22 denotes future tense; यावत् गच्छामि, पुरा गच्छामि –गमिष्यामि ॥”); त्वया पुनरप्रमत्तेनाश्रमे स्थित्वा सीता संरक्ष्यताम्’ इति लक्ष्मणमादिश्य रामः कार्मुकहस्तो हरिणमनुदुद्राव॥
मायाविनामग्रेसरो मृगरूपी मारीचो रामं मोहयामास। छिन्नाभ्रैःपरिवीत इव शरश्चन्द्रमाः क्षणमात्रं दृश्यमानः क्षणान्तरेऽन्तर्हितश्च स राममाश्रमादतिदूरमाचकर्ष। मुहुरुपसरन्तं पुनरपसरन्तं च तं निरीक्ष्य कुपितो राघवस्तजिघांसया ज्वलितं ब्रह्मास्त्रं तदुपरि चिक्षेप। तेन भिन्नहृदयो मृगो भृशातुरस्तालमात्रमुत्प्लुत्य राक्षसवपुर्धरो धरणीतले पतित्वा हा सीते! लक्ष्मण! इति रामस्वरानुकारिणा स्वरेण क्रोशन्नसुनुत्ससर्ज। तदैव रामो राक्षसीं मायां तामवाबुध्यत। ‘मारीचस्येदमाक्रन्दितमाकर्ण्य सीता कथं भवेत्, लक्ष्मणश्च कामवस्थां गमिष्यति’ इति चिन्ताकुलः सत्वरं स्वाश्रमाभिमुखं ससार॥
आश्रमस्था सीता भर्तुरिव तमार्तस्वरं विज्ञाय, ‘गच्छ, जानीहि राघवम्’ इति लक्ष्मणमुवाच। कान्तारमध्ये चकितमानसां हरिणवधूमिव वेपमानां वैदेहीमाश्वासयितुमिच्छन् सौमित्रिःप्रतिबभाषे – ‘देवि, देवदानवराक्षसैरप्रधृप्ये राघवे मा शङ्क्यतामपायः। निर्वृतेन हृदयेन कतिचन क्षणान् प्रतीक्षस्व। तावद्राघवो हरिणंनिहत्य निवर्तिष्यते। बहुच्छद्मानोहि राक्षसाः। मायाविभिर्निशिचरैरनिशमुपद्रुते महारण्ये तत्रभवता रामेण मयि न्यासीकृतां त्वां कथमेकाकिनीं त्यजेयम्? — इति॥
तथा वदन्तं भ्रातृवत्सलं सत्यवादिनं सुमित्रासुतमपि दैवरामस्य दुर्विपाकाज्जनकनन्दिनी परुषं वाक्यं व्याजहार — ‘अनार्य, रामस्य महदपि व्यसनं तव प्रियमिति मे प्रतिभाति। तृणच्छन्नकृपतुल्ये प्रच्छन्नचारिणि त्वयि विस्रब्धहृदयो राम एवानुशोचनीयः’– इति॥
इत्थं तस्या अप्रतीक्षितं रोमहर्षणं वचनमाकर्ण्य शतधा विदीर्यमाणहृदयो जितेन्द्रियो लक्ष्मणः पुनस्तां जगाद — ‘देवि, न स्त्रीणामप्रतिरूपं वचनमस्ति। धोत्रयोरुभयोस्तप्तनाराचसन्निभस्य त्वद्वचनस्य नाहमुत्तरं वक्तुमुत्सहे। त्वत्पारुष्यस्य सन्तु साक्षिणः सर्वे वनचराः। सर्वथाऽपि वनदेवतास्त्वां रक्षन्त्विति परं प्रार्थये। अपि त्वां पुनरागत आर्येण समन्वितां पश्येयम्?’ — इति। सबाष्पवर्षमालपन् रामचरणसेवामेव सन्तापभेषजमभिकांङ्क्षस्तरसा प्रतस्थे सौमित्रिः॥
तदन्तरमासाद्याभव्यो राक्षससार्वभौमः परिव्राजकरूपधारी पर्णशालां प्रविश्य वैदेहीसविधमुपजगाम। सा तं वस्तुतो यतिमेव मन्यमाना स्वागतेन मानयन्ती स्वं रामस्य महिषीं निवेद्य तं तदीयनामगोत्रादि दण्डकासञ्चारहेतुं च पप्रच्छ। ‘कतिपयान् क्षणान् प्रतीक्षसे चेन्मद्भर्तुरर्हणां लप्स्यसे’ इति निमन्त्रयामास च॥
प्रसह्य हरणोत्सुको रावणस्तद्वाक्यं निशम्य ‘अहं स विश्वविजयी सर्वसम्पदामास्पदं रावणः’ इत्यात्मानं श्लाघमानः सीतामनार्यजुष्टया सरण्या प्रलोभयितुमारभत॥
जनकनन्दिनी रावणवचनं श्रुत्वा बलवच्चुकोप। सिंहविक्रमं राक्षससार्वभौममपि सा तृणायापि अमत्वा रामपत्न्या यद्युक्तरूपं
तदुत्तरं प्रददौ। अहं हि सिंहसङ्काशं राघवमनुवता। जम्बुकः सिंहीमिव मां नोपसर्तुं त्वमर्हसि। राघवस्य प्रियां भार्यां यः कामयते स सर्पस्य वदनाद्दंष्ट्रामादातुमिच्छति, यो रामस्य भार्यां प्रधर्षयितुमिच्छेत्स ज्वलितमग्निं वस्त्रेणाच्छाद्य हर्तुमिच्छेत्’ इति सा तं बहुधा तर्जयामास॥
एवं तथा भर्त्स्यमानः स मानी संक्रुद्धो भूत्वा सौम्यं वपुरुत्सृज्य तीक्ष्णतममात्मरूपं प्रतिपदे। गिरिशृङ्गाभंतीक्ष्णदंष्ट्रं मृत्युसङ्काशं तं दृष्ट्वा वनदेवता भयार्ताः पलायाञ्चकिरे। स सीतां परुपया गिरा सन्तर्ज्यसहसा स्यन्दनमारोपयामास॥
राक्षसेन्द्रेण विहायसा ह्रियमाणा जानकी भृशातुरोन्मत्तचित्तेव चुक्रोश — ‘हा लक्ष्मण, त्वद्वाक्यविमुखी विमूढाऽहं रक्षसा ह्रिये। हा नाथ! धर्महेतोरर्थंसुखं जीवितं च परित्यजंस्त्वमधर्मेण ह्रियमाणां हन्त मां न पश्यसि। अविनीतानां विनेता त्वं कुत एवंविधं पापचरितं न शास्सि? त्रैलोक्यरक्षादीक्षितस्त्वं कथं रक्षसा ह्रियमाणां दयितामुपेक्षसे? अयि चूतके सरकर्णिकाराः, स्वस्त्यस्तु वः, मां रक्षसा हृतां रामाय शंसत। गोदावरि, त्वां वन्दे, गिरयः, भवतामयमञ्जलिः। सर्वे यूयं रक्षसा हृतांमां रामाय शंसत’ — इति। इत्थं सुकरुणया वाचा विलपन्ती वैदेही वनस्पतिगतं गृध्रगजं जटायुषंदृष्ट्वा तमामन्त्र्य ‘बलीयसा राक्षसेन्द्रेण हृतां मां राघवाभ्यामाख्यातुमर्हसि’ इति प्रार्थयामास॥
तस्याः क्रन्दितमाकर्ण्य प्रबुद्धः पक्षिराजः स्वावासमविहायैव राक्षससार्वभौममनुनेतुमनाः शुभां गिरं व्याजहार —भ्रातर्दशग्रीव, सनातनधर्मे स्थितः सत्यसंश्रवो भवान्निन्दितं कर्म कर्तुं नार्हति।
धीरेण हि यथाऽऽत्मनस्तथाऽन्येषां दाराः पराभिमर्शनाद्रक्षणीयाः। स त्वं धर्ममर्मज्ञःकथं गर्हितं परदाराभिमर्शनमाचरेः? जनस्थानमराक्षसं कृतवतस्तस्य भार्यांहत्वा कथं कुशली भविष्यसि? त्वमात्मनैव ग्रीवायां कालपाशं प्रतिमुश्वसीति मे प्रतिभाति। अहं वृद्धः क्षीणसत्त्वः। त्वं बलिष्ठो धन्वी सरथः कवची सायुधश्च। तथापि, जीवतो मम, प्रसह्य वैदेहीं हरन्न कुशली गमिष्यसि। तिष्ठ तिष्ठ, वृन्तादिव फलं रथोत्तमात्वां पातयिष्यामि’ इति वदन् धीरोचितया परिपाट्या तं निवर्तयितुमुदयुङ्क्त॥
गृध्रराजेनैवमुक्तो राक्षसेन्द्रः क्रोधताम्राक्षस्तमभिदुद्राव। रावणेन कीर्यमाणानि शरजालानि प्रतिगृह्णन् स जरठस्तीक्ष्णनखाभ्यां चरणाभ्यां निशिताग्रेण च तुण्डेन रावणस्य शरीरं बहुशो विदार्य तं रथात्पातयामास। ततः क्रुद्धो दशग्रीवः खङ्गमुद्धृत्य गृध्रपतेः पक्षौ पादौ च निकृत्य तं भूमावपातयन्॥
जटायुषं महीतले निपतितं क्षतजोक्षितमवेक्ष्य सुदुःखितां विलपन्तीमशरणां जानकीं भूयो विहायसा स नेतुमारभत। तथा हियमाणा सा मध्येमार्गंगिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान् ददर्श। ‘दिष्ट्यारामाय मद्वार्तामेते शंसेयुः’ इति संभाव्य सा कनकप्रभं कौशेयमुत्तरीयं सहभूषणं तन्निकटे मुमोच। संभ्रान्तमना दशाननस्तत्कर्मानवबुध्यमान एव लङ्काभिमुखः सत्वरं जगाम॥
बहुधा प्रार्थिता प्रलोभिता च वैदेही कोपपरुषया वाचा राक्षसपतिमुवाच— ‘राक्षसाधम, आत्मनो दुश्चरितानां फलमचिरेण मोक्ष्यसे। मामकमिदं शरीरं बधान छिन्धि भिन्धि वा। तत्र त्वं प्रभवेः। न पुनः कथमपि मामपक्रोशेन योजयितुं शक्ष्यसि — इति॥
तांभीषयितुकामो रावणः ‘यदि द्वादशभिर्मासैरिहस्था न मे वशमेष्यसि तर्हि सुदास्त्वां कणशश्छेत्स्यन्ति’ इति तर्जयामास। अशोकवनिकान्तरे तां स्थापयित्वा ‘युष्मामिरप्रमत्ताभिरवेक्ष्यतामियम्’ इति राक्षसीश्चादिदेश। घोररूपाभी राक्षसीभिः परिवारिता सीता पतिदेवरावेव सततं स्मरन्ती भयशोकविहला गतचेतनैव दिनानि यापयामास॥
मारीचं निहत्य स्वाश्रमं निवर्तमानो राघवो दुर्निमित्तानि ददर्श। ततश्चकितहृदयो यावत् कतिचित्पदानि चचाल तावदधोमुखमायान्तं भ्रातरमालुलोके। ‘विजने वने कथमेकाकिनीं वैदेहींविहायागतोऽसि’ इति पृच्छ्यमानः स शोकाकुलः’न स्वयं कामकारेण तामहं विहायागत’ इत्युक्त्वा विस्तरेण वार्तां वर्णयामास॥
अनुजस्य वचो निशम्य सन्तापमोहितः सीतादर्शनलालसः ससंभ्रमं प्रतिनिवृत्तः स हेमन्ते विनष्टपद्मामिव पद्मिनीं सीतया विरहितां पर्णशालामवलोक्य पुनः पुनर्विललाप। सीता हृतामृता भक्षिता वा स्यादिति भयाकुलो विलपन्नाश्रमपरिसरेषु सर्वतस्तां मार्गयितुमारेभे। संभ्रान्तहृदयमेकपदे विपत्परम्परामात्मनोऽनुस्मृत्य समनुशोचन्तं स्थावराणि जङ्गमानि च भूतानि सीतां परिपृच्छन्तं शोकाकुलं रघुपतिं धैर्यनिधिः सौमित्रिरात्मन्यवस्थापयामास॥
जनस्थाने तत्र तत्र सीतामन्विष्यन्तौ तौ छिन्नपक्षमासन्ननिर्याणं पक्षिराजं ददृशतुः। स महाभागः सफेनं रुधिरं वमन्, ‘आयुष्मन्, यामोषधिमिवारण्ये मार्गयसि, सा देवी मम जीवितं चेत्युभयं रावणेन हृतम्’ इत्याख्याय पञ्चतां प्रपेदे। तातसुहृदो
जरठस्य गृध्रराजस्य तां दशामात्मनिमित्तामवेक्ष्य रामो बहु शुशोच। हा’23ममाधन्यताम्। राज्यं नष्टम्, वनं वसतिः, सीता नष्टा, द्विजो हतः ईदृशीयमलक्ष्मीरपि पावकं दहेदित्यनुशोचन् रामः पितरमिव पक्षिराजं भावयन् सानुजः तस्य संस्कारादिकाः क्रियाश्चक्रे॥
सीतां मुहुर्वने मार्गयतोदक्षिणां दिशं गच्छतो राघवयोः सरणिं कबन्धो नामाकन्धरो निशाचरो रुरोध। बाहुभ्यां वेष्टयितुमारब्धवतो रक्षसो दक्षिणं भुजं रामः सव्यं लक्ष्मणश्च चिच्छिदतुः। तदा शापाद्विनिर्मुक्तो राक्षस ऋश्यमूकगिरिमधिवसतः कपिवरस्य सुग्रीवस्य सख्येन सीतामधिगमिष्यसीति राममाश्वास्य गिरिमार्गमुपदिशन् दिवमारुरोह॥
कबन्धोपदिष्टेन वर्त्मना पम्पायास्तीरमुपगतौ राघवौ तापस्याः शबर्या आश्रममपश्यताम्। सा तपोधना रामलक्ष्मणौ पाद्यादिना सम्पूज्य स्वसञ्चितानि परीक्षितस्वादिमानि फलजातानि ताभ्यामर्पयामास। मतङ्गवनमहिमानं वर्णयन्ती सा रामेणानुगृहीता भौतिकं देहं विहाय तपसाऽऽर्जितं तेजोमयं धाम च जगाहे॥
ऋश्यमुकमभिप्रस्थितो रामो विकचसरोजं हंससारससेवितं सतां हृदयमिव प्रसन्नं पम्पामिधानं महासरः प्रपेदे॥
दण्डकारण्यवासाय खण्डितामरशत्रवे।
** गृध्रराजाय भक्ताय मुक्तिदायास्तु मङ्गलम्॥**
॥ अरण्यकाण्डः समाप्तः ॥
<MISSING_FIG href=”../books_images/U-IMG-170068234080.png”/>
किष्किन्धाकाण्डः॥
<MISSING_FIG href="../books_images/U-IMG-1699093474Screenshot2023-11-04155227.png"/>
सुग्रीवस्यावनं तुर्येइन्द्रसूनोश्च मर्दनम्।
मारुतेर्मुद्रिकादानं कृतं येन स मे गतिः॥
रमणीयानि वस्तूनि सुखितानामेव मनः प्रीणयन्ति; दुःखतानां तु दुःखमेव द्विगुणयन्ति। सीताविरहसन्तप्तो दाशरथिः सौभाग्यसर्वस्वधाम पम्पासर वसन्ताविर्भावरम्याणि च तत्तीरकाननानि विलोकयन्नधिकातुरो विललाप। गिरिसानुषु सानुजं सञ्चरन्तं धनुर्धरं रामं दूरादालोक्य बालिभयेन तस्याप्रवेश्ये ऋश्यमूके स्थितः सुग्रीवश्चकितो बभूव॥
तौ बालिप्रहितौ छद्मचारिणौ चारौ शङ्कमानः कपिवरो भृशमुद्विग्नो वाक्यकोविदं बुद्धिमतां वरिष्टं हनूमन्तमुवाच — ‘धीमन्, त्वं प्राकृत इवैतापसृत्य चेष्टितमिङ्गितं सर्वंव वृत्तान्तमवगम्य प्राप्तकालं प्रतिपत्तुमर्हसि’ — इति॥
सुग्रीवेणाज्ञप्तो मारुतिर्विस्त्रम्भविकलतया मिक्षुरूपं धारयन् रामलक्ष्मणयोः सकाशं पुप्लुवे। राघवौ सविनयमासाद्य कृतप्रणामः ‘महाप्रभावौ द्युतिमन्तावन्योन्यसदृशौ च कौ भवन्तौ,कस्य हेतोः पम्पातीरं प्राप्तौ’ इति मधुरया गिरा पप्रच्छ। तावता प्रतिवचनमप्रयच्छतोस्तयोः स्वयं सुप्रीववार्तां विस्तरेणाचचक्षे — ‘सुग्रीवो नाम धर्मात्मा कश्चिद्वानरपुङ्गवः भ्रात्रा विनिकृतः शरणार्थी कृत्स्नं जगत् परिभ्रमतिः स युवयोः सख्यमिच्छन् मां युष्मत्सकाशं प्रेषितवान्; मां च तस्य सचिवं पवनात्मजं हनूमन्तं
जानीतम्’ — इति। पीयूषधारासोदरं हनुमद्वाक्यमाकर्ण्य कवन्धभाषितस्य24 इति स्मृत्यर्थकर्मणि षष्ठी॥")स्मरन् रामो नितान्तं जहर्ष। अभिननन्द च हनूमतो वचनवैदग्धीम्॥
रामचोदितः सौमित्री रामानुगतं वृत्तान्तमादितः प्रभृति यथावत्कथयामास– ‘सर्वभूतानां शरण्यस्य दशरथस्य ज्येष्टो गुणवत्तमः पुत्रोऽयं मदग्रजः पितृवाक्यपालनाथ राज्यं हित्वा वनमागतः। तस्य भार्या सीता च केनापि रक्षसा हृता। ‘सुग्रीवस्य साहाय्येन तां शास्यसि’ इति शापान्मुक्तेन दनुनाऽभिहितम्। सर्वलोकानां शरण्यःसोऽयं मत्पूर्वजः सम्प्रति शरणार्थी सुग्रीवं प्राप्तः। यदत्रोचितं तत्सानुगः सुग्रीवो विधातुमर्हति’ — इति। एवं करुणां गिरमुदीर्य लक्ष्मणो विरराम॥
‘ईदृशा बुद्धिसम्पन्ना महात्मानो वानरेन्द्रेणाभिगम्या दिष्ट्या स्वयमन्विष्यागता इत्यहो सुग्रीवस्य सुकृतपरिणामः। अवश्यं च समानव्यसनः सूर्यतनयः साहाय्यं युवयोः करिष्यति’ इति हनूमान् समयोचितां प्रतिज्ञां वितेने। हनूमतो वचनेषु जातविस्त्रम्भो जानकीजानिः सहसा सुग्रीवं द्रष्टुमियेष। भिक्षुरूपं परित्यज्य वानररूपमास्थितो हनूमान् रामलक्ष्मणौ पृष्ठमारोप्य सुग्रीवसकाशं निनाय॥
‘इक्ष्वाकुकुलालङ्कारावेतौ रामलक्ष्मणौ भवतः सख्यकामौ समागतौ इति सुधासहचरीं वाणीमुदाहरन् हनुमांस्तवृत्तान्तं सुग्रीवमवादीत्। सुग्रीवः संग्रहृष्टो’गृह्यतां पाणिना पाणिः’ इति हस्तं प्रसारयामास। रामः प्रमुदितः सुग्रीवस्य पाणिं जग्राह।ततस्तौ दीप्यमानं पावकं प्रदक्षिणीकृत्य तत्साक्षिकं सख्यं विदधाते॥
‘भ्रात्रा बालिना निकृतो हृतभार्यश्च भयार्दितोऽहं दुर्गमेत दुपाश्रित्य जीवामि, बालिभयार्तस्य ममाभयं भवान् दातुमर्हति’ इति याचमानं सुग्रीवम्’उपकारफलं मित्रं विदन्नहं तव दारापहारिणं बालिनं नियतं निहनिष्यामि’ इति रामो जगाद॥
आत्महितेन रामवचनेन समाश्वस्तहृदयः सुग्रीवो रामं पुनरुवाच— ‘जनकात्मजां सीतां तव प्रेयसीं रक्षसाऽपहृतां मन्त्रिसत्तमस्य हनूमतो वचसा ज्ञातवानहम्। रौद्रकर्मणो राक्षसस्य निकटे वेपमाना तटिल्लतेव मयाऽऽलोकिता नूनं मैथिलीति सम्प्रत्यनुमानेन पश्यामि। राक्षसेन ह्रियमाणा विलपन्ती सा मामत्मनापञ्चमं25.") शैलतले स्थितमालोक्य शुमान्याभरणानि कौशेयमुत्तरीयं च सन्निकटे मुमोच। तानि प्रत्यभिज्ञातुमर्हसि’ — इति। एवमुक्त्वा तानि रामाय दर्शयामास च। बाप्पावरुद्धया दृशा तानि मुहुरालोक्य किञ्चिदाश्वस्तहृदयो रामः कं देशं स राक्षसो गतः, क्व वा वसतीति किं ज्ञायते ? इति सुग्रीवमप्राक्षीत्। सुग्रीवस्तं प्रत्यभाषत —‘तस्य पापस्य न स्थानं ज्ञायते। गगने भुवि पाताले जले स्थले वा स्थितं तमभिपत्य सीतां प्रत्यानेष्यामीति तु प्रतिजाने। तदत्रभवता त्यज्यतां शोकः’ — इति॥
ततः कपीन्द्रो निरागसमात्मानं यथा बाली नगरान्निष्कासितवांस्तं प्रकारं तस्याप्रमेयं बलं च रामायावर्णयत्। सुग्रीवं प्रत्याययितुकामो रामस्तेन प्रदर्शितं दुन्दुमेः कायं पादाङ्गुष्ठेन सुदूरं
चिक्षेप।सालांश्च सप्त शरेणैकेन बिभेद, येषु प्रहत्य दुर्मदो वाली करकण्डूतिमपनुदन्नवर्तत॥
प्रतिज्ञातवालिवधेन दाशरथिना सहायेन प्रोत्साहितो मिहिरतनयः किष्किन्धामुपेत्य बालिनं युद्धायाजुहुवे।26 इत्यात्मनेपदम्। हे preceded by आ is आत्मनेपदी in the meaning of challenge.") रणाह्वानममृष्यमाणो वाली सहसा युद्धायोश्चचाल। चिराय चकितस्य सुग्रीवस्य तं संरम्भं सहायावष्टम्भमूलमालोच्य बालिनं रणान्निवारयितुमिच्छती तारा बहुधा प्रायतत। बाली तद्बचांस्यगणयन्रणाय संननाह॥
वृत्रवासवयोरिव सुदारुणे रणे सुग्रीवं हीयमानमवलोक्य राघवः शरममोघं सन्धाय धनुरापूरयन् बालिवक्षसि पातयामास। बाली रामबाणेनाभिहतो महीतले निपपात च॥
कनीयसो भ्रातुर्दाराभिमर्शेनाधार्मिकं बालिनं निहत्य रामः सुग्रीवं किष्किन्धायां राजानममिषेचयामास। बालितनयमङ्गदं च युवराजं कारयामास॥
तावत्सञ्चारस्य मूर्तिमानिवान्तरायः प्रावृट्कालः समुपस्थितः। वर्षाविरामपर्यन्तं प्रस्रवणं गिरिमधिषस्तुं कृतनिश्चयो राघवः ‘शरदारम्भेमामुपगन्तुमर्हसि इति सुग्रीवमाभाष्य तं गिरिं सह सौमित्रिणा जगाम। सौमित्रिसान्निध्येन परं कान्ताविरहं कथमपि सहमानः स विरहिणां दुःखदं पयोदसमयमयापयत्। ततः सर्वतः प्रसन्नतामापादयन्ती शरत् प्रववृते। तथापि सुग्रीवमनापातं विचिन्त्य राघवस्य मानसं कलुषीबभूव॥
सुग्रीवं कृतघ्नमिव शङ्कमानो रामस्तमुद्वोधयितुकामो लक्ष्मणं प्रेषयामास। रामवैवश्यदर्शनेन समिद्धमन्युर्लक्ष्मणः सुग्रीवमुपेत्य, ‘न हि बालिना यातः पन्थास्त्वां प्रति सङ्कोचं प्राप्स्यति, सुग्रीव! समये तिष्ठ, मास्म27 or the Imperfect ( लङ्) is allowed. अनुगाः =Aorist.")बालिनमानुगाः’ इति परुषां वाचामाददे। अनुस्मृतप्रतिश्रवोऽनुतापवशंवदो वानरपतिः सह सचिवैः प्लवङ्गमसेनया च राममासाद्य कृताञ्जलिपुटः ‘क्षम्यतां कालपर्ययः’ इति प्रार्थयत॥
रामाज्ञया सुग्रीवश्चतसृष्वपि दिक्षु मैथिलीं मार्गयितुं पृथक् पृथक् महाबलैर्नेतृभिरधिष्ठितान् कपिगणान् प्रजिघाय। दक्षिणस्यां दिशि सीताधिगमं सम्भावयन् सुग्रोवो वेग विक्रम सम्पन्नान् सुपरीक्षितवलानङ्गदजाम्ववत्प्रभृतीन् कपिवराननिलात्मजं च हनूमन्तं तस्यामेव नियुयुजे॥
सर्वत्राप्रतिहतगति कर्मभिः परिज्ञातं व्यवसायोत्तरं स्वामिनः सम्मतं पवनतनयं प्रतिष्ठमानं समीक्ष्य कार्यफलोदयं तदायस्तं मन्यमानो राघवः स्वनामाङ्कितमङ्गुलीयमभिज्ञानं प्रेयस्याः प्रत्ययार्थंतत्करे समार्पयत्। कृताञ्जलिर्मारुतिस्तद्गृहीत्वा परया प्रीत्या शिरसि कृत्वा रामसुग्रीवयोश्चरणे वन्दित्वा दक्षिणां दिशं प्रतस्थे॥
उग्रशासनस्य सुग्रीवस्य निदेशेन कपिपुङ्गवा वर्षारम्भे शलभा इव मेदिनीं छादयन्तः सर्वासु दिक्षु सीतां मार्गयितुं प्रतस्थिरे। गिरिषु कन्दरेषु काननेषु सरस्सु सरित्सु सर्वेषु नगरेषु जनपदेषु
चसीतामन्विष्यन्तो हरियूथपाः समचरन्। अथ मासस्यावसाने पूर्वांदिशं गतो विनतः, उत्तरां दिशं यातः शतबलिः, पश्चिमां दिशं प्रस्थितः सुषेणश्च सीतामदृष्ट्वाप्रतिनिवृत्ता राघवान्तिके स्थितं सुग्रीवमुपगम्य ‘न दृष्टा वैदेही’ इति कथयामासुः॥
दक्षिणामाशामाश्रितो मारुतिः सहानुपायिभिर्विन्ध्यस्य गुहासु गहनेषु व विदेहनृपनन्दिनीममार्गयत्। सीतां कुत्राप्यनवेक्ष्य खिन्नमानसास्ते कल्लोलमालाकुलमभिगर्जन्तं दक्षिणसागरं ददृशुः। ‘अतिक्रान्तसमयेष्वकृतकार्येष्वस्मासु तीक्ष्णदण्डः सुग्रीवः पापमेव करिष्यति’ इति भयेन प्रतिनिवर्तितुमप्यनिच्छन्तो दक्षिणाशाश्रिताः सर्वे वानराः प्रायोपवेशेन प्राणपरिहाणाय कृतनिश्चया दक्षिणाग्रेषु दर्भेषु प्राङ्मुखा उपविविशुः॥
तावदेव विख्यातबलपौरुषो जटायुषो ज्यायान् भ्राता चिरजीवी सम्पातिर्नाम विहङ्गराजस्तं प्रदेशमाजगाम। स तु कपीनां मुखादवगतानुजनिर्याणस्तमनुशोचन् ‘केन मे प्राणेभ्योऽपिगरीयाननुजः कथं वा हत’ इति तान् पप्रच्छ। कपयः सीतापहरणवार्ताम्, जटायुषो निधनम्, राममुग्रीवयोः सख्यम्, सीतान्वेषणाय निजोद्यमं च तस्मै शशंसुः॥
भ्रात्रे दत्तोदकः सम्पातिर्वानरानुवाच— ‘सुहृदो मे दशरथस्य सुतो रामः स्वपुत्र एव। तस्य कार्यंप्रथममेव मया कर्तव्यम्। किंतु जराजर्जरितः शिथिलप्राणश्च नाहमुपकर्तु विक्रमेण शक्नोमि। तथापि वचसा साहाय्यं करिष्ये। इतः शतयोजनान्तरे पारेसमुद्रं लड्डा नाम विश्वकर्मनिर्मिता नगरी वर्तते। तस्यां जनकस्यात्मजा राममेव चिन्तयन्ती रावणेनान्तःपुरे निरुद्धा राक्षसीपरिवारिता
शोकपरिप्लुता निवसति। तरसा समुद्रं तीर्त्वा तां तत्र द्रक्ष्यथ’ — इति॥
सम्पातेस्तद्वचनं निशम्य सर्वे वानराः सहसा भूतलावुदतिष्ठन्। ‘गगनान्तरमिवापरिमेयं सागरं कथं तरेम’ इति ते विषेदुः। तेषु न कश्चिदपि समुद्रमुल्लङ्घ्य प्रतिनिवर्तितुमात्मानमलममन्यत। बलिष्ठो जाम्बवानपि जराक्रान्ततया स्वमपर्याप्तं मेने। समर्थमप्यमदं स्वामिभावे स्थितं तत्कर्मानर्हंमत्वा जाम्बवानमितप्रभावं मारुतिमेव प्रभविष्णुमाकलयन्त्रस्य महिमानं वर्णयामास। ‘त्वद्वीर्यं द्रष्टुकामां वानरवाहिनीं महार्णवलङ्गनेनाह्लादय’ इति मुहुः प्रोत्साहितो हनूमानङ्गुलीयकदानेनासाधारणं गौरवमाहितवतो रघुपतेः प्रत्याशापरिपूरणाय सागरं तितीर्षुरुपचितोत्साह उत्प्लवनोन्मुखो महेन्द्रगिरिशिखरमारुरोह॥
हनुमत्समवेताय हरीशाभीष्टदायिने।
वालिप्रमथनायास्तु महाधीराय मङ्गलम्॥
॥किष्किन्धाकाण्डः समाप्तः॥
<MISSING_FIG href="../books_images/U-IMG-1699095285Screenshot2023-11-04162302.png"/>
सुन्दरकाण्डः॥
<MISSING_FIG href="../books_images/U-IMG-1699095335Screenshot2023-11-04162509.png"/>
सुन्दरे यस्य दासोऽब्धिं तीर्त्वा दृष्ट्वाच मैथिलीम्।
दृष्टा सीतेत्यभ्यवोचत् तं रामं नौमि चिद्धनम्॥
महेन्द्रशिखरमाया पद्भ्यांदृढमवतिष्ठमानो मारुतिरुत्पतिष्यन्ननुचरानेवमुचे – ‘यथा राघवनिर्मुक्तः शरः श्वसनविक्रमोऽप्रतिहतं प्रयायात्तथा रावणपालितां लङ्कां गमिष्यामि। यदि लङ्कायां
देवीं जनकनन्दिनीं न द्रक्ष्यामि तर्हि तां पुरीं सरावणां समुत्पाट्यसमानेष्यामि’ — इति॥
तथा तेषां धीरतामापादयन् स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे भूतेभ्यश्च नमोवाकं विधाय रामचरणनलिनयोर्मानसं निधाय तरसा महेन्द्रशिखरादुदप्लवत। रामकार्यार्थसिद्धये तं प्लवमानमवलोक्य देवदानवगन्धर्वाः पुष्पाणि ववृषुः। तस्य तापो मा भूदिति मार्तण्डो निजं रश्मिजालं समकोचयत्। पवनश्चानुकूलतया तं सिषेवे। मध्येमार्गेंविश्रान्तिहेतोराश्रायिष्य28.") इति सागरसलिलात्समुत्थितं महाद्रुमलतावृतं मैनाकमहीवरं मारुतिरन्तरायमाकलयन्नुरसाऽमिहत्य सलिले पातयामास। एवं विक्रमपरीक्षायै देवैः प्रेरितां सुरसामपि प्रतारयन् बहुशः समापतितानन्तरायानगणयन् स पारेसमुद्रं त्रिकूटाचलतटे परिशोभमानां लङ्कां प्रविवेश॥
ततो मारुतिरेवमचिन्तयत् — ‘केनोपायेन राक्षसपतेर्दृशामविषय एव जनकात्मजां पश्येयम् ? इहाहं यदि स्वेन रूपेण चरेयं तर्हि विनाशं प्राप्नुयाम्। स्वामिनः कार्यंच हीयेत। तद्रजन्यामन्येषामदृश्यो ह्रस्वतनुः सर्वतः सञ्चरन् सीतां मार्गयेयम्’ — इति। एवं निश्चित्य स सूर्यस्यास्तमयमकामयत॥
अस्तं जगाम भगवानंशुमाली। आत्मनः साचिव्यमिव कर्तुमभ्युदितं तारागणमध्यगतं ज्योत्स्नावितानेन विततलोकं सरसि पोप्लूयमानमिव29 राजहंसं गगनाङ्गणे विहरमाणममृतांशुमवलोक्य कपिप्रवीरो नितरां ननन्द॥
कामरूपी स कपिवरो लाघवेन समन्वितो लङ्कायां भवताद्भवनं विचरन् भानुभास्वरेण प्राकारेण परिवृतं स्वर्णमयैः परिच्छदैः स्वलंकृतं बहुरलसमाकीर्णं सर्वसमृद्धीनामास्पदं राक्षसेन्द्रसदनमाससाद। विचित्रामिरनेकाभिः कक्ष्याभिरावृते रावणगृहे स मैथिलीं मार्गयन् सर्वतः परिचक्राम। स तस्मिन् गृहोत्तमे पानविहारविवशं भास्वरे शयने प्रसुप्तं राक्षसाधिपं ददर्श। अन्यतः प्रसुप्तानां सुरूपाणां योषितां मध्ये चारुरूपिणीं भूषणभूषितां मन्दोदरीमवलोक्य रूपयौवनसम्पदा सीतेयमिति तर्कयन्नतुलमानन्दमवाप॥
कपिवरस्य सा भ्रान्तिः क्षणमात्रमेवावतस्थे। ‘अपि लोकाभिरामेण रामेण वियुक्ता वैदेही स्वप्यात्? अपि भूषणैरात्मानं प्रसाधयेत्? अतोऽन्यैव काचिदियं भवितुमर्हति’ इति चिन्तयन् पुनरपि सीतासन्दर्शनोत्सुकः सञ्चरितुमारभत। स रावणान्तःपुरे चतुरङ्गुलमात्रमप्यवकाशमविजहत्30 सीतां विचिकाय। तामेकां जनकात्मजां क्वाप्यपश्यन् सागरप्लवनमपि विफलं मन्यमानो बहु विषसाद॥
‘अपि नाम देवी न ध्रियते ! विनष्टा देवी’ इति को राघवं निवेदयतु ? यदि ‘न दृष्टा सीता’ इति काकुत्स्थं वक्ष्यामि तर्हि स सहसा जीवितं त्यक्ष्यति। तदनुबन्धिनो विपदां परम्परा कियती इति कथं गणयेयम्। यद्यहं न निवर्तेय तर्हि राघवौ सह वानरैराशया धरिष्येते। यदि सीतामदृष्ट्वा निवर्तिष्ये तदा को मे पुरुषार्थो भविष्यति। अतस्तामदृष्ट्वा सर्वथा न निवर्तिष्ये। न चेज्जा-
नकीं द्रक्ष्यामि तर्हि सम्यगपः प्रवेक्ष्यामि’ इत्यादि स्वयमेव चिन्तयन् शोकस्य पारमनधिगच्छन् भृशमुद्विविजे॥
चिन्तां विहाय पुनरपि प्रतिपन्नधैर्यो हनूमान् स्तोकशेषायां शर्षर्यामेवमालोचयामास — ‘महती किलेयमशोकवनिका मया अविचिताऽवशिष्यते। तत्रापि देवीमविचित्य कथं कृतकार्यो भवेयम्’ — इति। एवमालोच्य सलक्ष्मणाय रामाय सर्वेभ्यश्चमरुद्गणेभ्यः कृतनमस्कारः सिद्धिं प्रार्थयमानश्चरक्षिभयेन पुष्पपातोपमैः पदन्यासैश्चित्रकाननामशोकवनिकां प्रविवेश॥
नन्दनं चैत्ररथं चातिशयानायामशोकवनिकायां तत्र तत्र सीतां विचिन्वन् हनूमान् काञ्चनशाखस्य महतः शिशपातरोर्मूले राक्षसीभिः परिवृतामुपवासकृशां पुनःपुनर्निःश्वसतीमश्रुपूर्णमुखींपरिम्लानसर्वावयवामप्यपरिम्लानचारित्रां शुक्लपक्षादौ चन्द्ररेखामिव लावण्यशेषामेकेन पीतवसनेन संवीतां कमललोचनां कामपि संददर्श। तां विशालाक्षीमवेक्ष्य राघवानुकीर्तितैर्लक्षणैः सीतेयमिति च तर्कयामास। यथा यथा मारुतिस्तां निर्वर्णयामास तथा तथा रघुपतेः सत्वोत्कर्षस्तं विस्मापयामास। यदनया हीनोऽपि रामः शोकेनानवसीदन्नात्मनो देहं धारयति, तन्मन्ये, दुष्करं कुरुते प्रभुरिति मुदितेन मनसा तं मारुतिः प्रशशंस॥
सीतां प्रति च मारुतेर्मनस्येवमासीत् — ‘समुचितैः सुखानुभवैः परित्यक्ता बन्धुजनेन च विहीना सेयं रामसमागमकाङ्क्ष्याकेवलं देहं धारयति। क्षितिक्षमा या रामलक्ष्मणाभ्यां रक्षिताऽऽसीत्सेयं सम्प्रति वृक्षमूले विकृतेक्षणाभी राक्षसीभिः संरक्ष्यत इत्यहो भवितव्यतायाः प्रभावः। अथवा मेमा राक्षस्यो जानक्या-
स्त्रासं जनयिष्यन्ति। इयं ह्येकस्थहृदया राममेबानुपश्यन्ती नेमा राक्षसीः, न वा रमणीयामुद्यानलक्ष्मीं कदाचिदपि पश्यति’— इति। एवमादीनि मनसि कलयन् कृतकृत्यतामिव भावयंस्तस्य शिंशपातरोः शाखायां सुखेन कञ्चित्कालं निषसाद॥
अत्रान्तरे श्रोत्रमनोहरैर्मङ्गलवादित्रैः प्रबोधितो दशग्रीवः सर्वाभरणभूषितो मनोरमं मृगद्विजनादितं तत्प्रमदवनं प्रविवेश।तमायान्तमवलोक्यैव वैदेही प्रवाते कदलीव प्रावेपत॥
प्रमुषितविवेको राक्षसचक्रवर्ती भयशोकपरवशां पतिदेवतां सीतामभिगम्य स्तनितगम्भीरेण निस्वनेनात्मनो विनाशमूलं तमसदाग्रहमाख्यातुमारेभे — ‘अयि वामलोचने! किमस्मान्नाद्याप्यभिभाषसे? पेशलाङ्गि! कोऽयं ते हृदि वज्रकठिनो दुर्ग्रहः। शिथिलयैनम्। लोकेभ्यो यानि रत्नानि मया सम्प्रमथ्याहृतानि तानि सर्वाणि ते प्रदास्यामि। विलासिनि! तव हेतोः सर्वांपृथिवीं विजित्य जनकाय प्रदास्यामि। देवि! त्रैलोक्यजयिनो मे विश्वविश्रुतां श्रियमूरीकृत्य यथेच्छं रमस्व। गतश्रीर्वनगोचरो व्रती स्थण्डिलशायी जटावल्कलधरो रामो जीवति वा न वेति शङ्के’ — इति॥
एवमाद्यसङ्गतमरुन्तुदं च प्रलपन्तं तमनार्यमूर्धामिषिकं नक्तञ्चरापशदं तृणमन्तरतः कृत्वा जानकी प्रत्यभाषत — ‘अनार्य, इह सन्त एव न सन्ति किम्? सतो वा किं नानुवर्तसे? यतस्ते विनाशहेतुर्विपरीतेयमधर्मबुद्धिरुत्पन्ना। मामेवमरुन्तुदं भाषमाणस्य ते रसना वा कुतो न शीर्यते? निरीक्षमाणस्य वा विरूपे नयने कथं न क्षितौ पतिते? भास्करादिव प्रभां मां राघवादनम्यामवेहि।
स हि ‘सर्वधर्मज्ञः शरणागतवत्सल’ इति सर्वत्र विदितः। अतो यदि जीवितुमिच्छसि तर्हि तं शरणं गत्वा मैत्रीं विधेहि’ — इति॥
सीतायास्तद्वचनमाकर्ण्य कुपितो दशाननः पुनस्तां प्रत्युवाच — ‘मैथिलि, यानि यानि परुषाणि वाक्यानि मां ब्रवीषि तेषु तेषु दारुणो वधस्ते युक्तः। त्वयि प्रणयेन तु दारुणात्कर्मण इदानीं विरतोऽस्मि। द्वौ मासावपि मया ते कृतोऽवधिः। द्वाभ्यां मासाभ्यामूर्ध्वेतु यदि मां निराकरिष्यसि तर्हि सुदास्त्वां प्रातराशार्थे खण्डशश्छेत्स्यन्ति’ —इति। सीताप्रभावस्थानभिज्ञःस नरभोजी तां तर्जयित्वा घोररूपा राक्षसीरेवमादिदेश - ‘यथा जानकी क्षिप्रं मद्वशगा भवति तथा चतुर्थमुपायं वर्जयित्वा सर्वैरुपायैस्तामावर्जयत’ — इति। ता एवमादिशन् काममन्युपरीतात्मा दशाननो — ‘मया क्रीड महाराज, सीतया किं तवानया’ इति भाषमाणया धान्यमालिन्या समुत्क्षिप्तो गृहमनीयत॥
रावणेनाज्ञप्ता राक्षस्यस्तन्महिमानं वर्णयन्त्यः सीतामनुनेतुमारभन्त। ‘सीते! प्रीत्या प्रणत इति मत्वा दशाननं मावमंस्थाः। तस्येच्छया त्रयो लोका भवन्ति न भवन्ति च दर्पान्धे, यदि नो वचो न करिष्यसि तर्हि न भविष्यसि’ इति ताः सीताममिदधुः॥
राक्षसीनां वचः श्रुत्वा पद्मपत्रेक्षणा सीता बाष्पपूर्णनयना प्रतिबभाषे — ‘यदिह सङ्गता यूयं लोकविद्विष्टं वाक्यमुदाहरथ तन्मे मनसि न प्रतितिष्ठति। दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः। यथा वा वसिष्ठमरुन्धती, अगस्त्यं लोपामुद्रा, सत्यवन्तं च सावित्री तथा राघवं नित्यमनुव्रताऽहमस्मि। कामं मिलिता मां खादत; तथापि न करिष्यामि वो वचः’ — इति। इत्थं तासामेकं प्रतिवचनं प्रददौ॥
तथा वदन्तीं सीतां राक्षस्यः पुनरपि तर्जयितुमारेभिरे। तासां परुषं दारुणं च भाषितमाकर्ण्य जनकात्मजा मुक्तकण्ठं रुरोद— हा राम! हा लक्ष्मण! हा कौसल्ये! हा सुमित्रे! इति क्रोशन्ती, रामेण हीना मुहूर्तमपि जीवामीति हन्त! मृत्युरप्यकाले दुर्लभो देहिनाम्’ — इति। एवं परिदेवमानाऽऽत्मच्छन्देन जीवितं हातुमशक्नुवत् मानुष्यकमेव गर्हयामास॥
अनार्याभी राक्षसीभिः सन्तर्ज्यमानां जानकीं दृष्ट्वा वृद्धा त्रिजटा नाम राक्षसी राक्षसानामभावाय राघवस्य भव्याय चात्मना प्रत्यूषे दृष्टं स्वप्नमाचक्षाणा ता निवारयामास। संवृतशरीरः शिंशपामाश्रितो हनुमान् राक्षसपते राक्षसीनां सीतायास्त्रिजटायाश्च भाषितानि शुश्राव। सीतायाः सतीवृत्तेन विस्मितः क्षणमेवमचिन्तयञ्च —‘यदि शोकोपहतचेतनामेतामनाश्वास्य प्रतिगच्छेयं तर्हि सेयं परित्राणमपश्यन्ती जीवितमपि त्यजेत्। यद्येनामसंभाष्य निवर्तेय तदा किं मां सीताब्रवीद्वच इति पृच्छन्तं राघवं किं प्रतिब्रूयाम्? निशाचरीणां समक्षं कथं वैनामभिभाषेय’ — इति॥
ईदृशीभिः बहुविधाभिश्चिन्ताभिराकुलो हनूमान् यथा जानकी शृणुयात्तथा रामचरितं वक्तुमुपचक्रमे। ‘रावणेनापहृतायाः सीताया मार्गणाय समुद्रं प्लुतवानहं यथोक्तलक्षणां देवीमिदानीमद्राक्षम्’ इत्याख्याय मारुतिर्विरराम। जानकी तदाकर्ण्य नितान्तं विस्मिता मुखमुन्नमय्य शिंशपामन्ववैक्षत।
सा तत्र शाखान्तरे लीनं प्रियवादिनं प्रश्रितं हरिश्रेष्ठं ददर्श। तं दृष्ट्वाऽपि शोकार्तायास्तस्मिन् न प्रत्ययोऽजायत। ‘अपि नामेयमपि राक्षसी माया स्यात्’ इति सीता मुमोह। सा स्वप्ने वानरं
दृष्टमाकलय्य दुर्निमित्तचकिता ‘स्वस्त्यस्तु रामाय सलक्ष्मणाय’ इति हृदा शशंस। ‘नायं स्वप्नो भवितुमर्हति; यतो न निद्रां लभे। सर्वदा राममेव मनसा भावयन्ती तमेव पश्यामि शृणोमि चइत्येवमादि चिन्तयन्ती सा यथाऽनेन वनौकसा व्याहतं तत्तथैव भवतु इति देवान् प्रार्थयामास च॥
विनीतवेषो हनूमांस्तस्माद्द्रुमादवतीर्य शिरस्यञ्जलिमाधाय ‘अहं रामस्य सन्देशादागतो दूतः। कुशली सलक्ष्मणो रामस्त्वां कुशलमब्रवीत्’ इति वचनैः कर्णपुटयोः पीयूषधारां ववर्ष। तद्वाक्यश्रवणनिर्वृता सीता ‘एति जीवन्तमानन्दो नरं वर्षशतादपि’ इतीमां गाथामुदाहरन्ती स्वनिर्वृतिं हरये कथयामास॥
भूयोऽपि दशग्रीवस्य तां मायां विचिन्त्यानाश्वस्तहृदयामात्मनो भागधेयेष्वजातप्रत्ययां जानकीं प्रत्याययितुमिच्छन् मारुतिः ‘महात्मना राघवेण तव प्रत्ययार्थंसमर्पितं मयाऽऽनीतं रामनामाङ्कितमिदमगुलीयकं पश्य’ इति तदभिज्ञानं दर्शयामास। सीता भर्तुःकरविभूषणं तद्गृहीत्वा मुहुर्मुहुः प्रेक्षमाणा भर्तारमेवागतं मन्यमाना परममानन्दमविन्दत॥
‘न ह्यपरीक्षितविक्रमं प्राकृतं पुरुषं रामो मत्सकाशं सहाभिज्ञानं प्रेषयेत्’ इति मत्वा तस्मिन्नुदितविस्रम्भा पुनराबभाषे—‘यदि कुशली काकुत्स्थः कुतो दुःखितां मामुपेक्षते! सुराणामपि निग्रहे शक्तिमन्तौ राघवौ मामेतादृशीमुपेक्षेते इत्यहो मम दुःखानामन्तो नास्तीति मन्ये। कश्चिन्मां राघवो व्यसनादस्मान्मोचायष्यति?’ — इति। इत्थं भूयो भूयः पृच्छतीं सीतां ‘न त्वामिहस्थां जानाति राघवः, मत्तः श्रुत्वा तु महतीं चमूं प्रकर्षन् क्षिप्रमेष्यति इति मारुतिराश्वासयामास॥
यथाश्रुतं यथादृष्टं च सर्वंराघवाय निवेदयिष्यामीति प्रतिशृण्वन् मारुतिः प्रतिप्रस्थातुकामो राघवस्य प्रत्ययार्थमभिज्ञानं प्रयच्छेति सीतामयाचत। साऽपि दिव्यं चूडामणिमुन्मुच्य राघवाय प्रदीयतामिति हनूमते वितसार॥
तमादाय सीतां प्रदक्षिणीकृत्य प्रस्थितः पवनात्मजः कार्यशेषं चिन्तयामास — ‘रावणाय रामविक्रममनिवेद्य गतो नाहमुचितकारी भवेयम्। तदस्य कोपानलमुद्दीपयितुमिदं नन्दनोपमं नेत्रमनःकान्तं वनं विध्वंसयिष्यामि’ —इति। इत्थं मनसिकृत्य मारुतिरशोकवनिकां शकलीकर्तुमुपचक्रमे। भीमविक्रमस्य हनूमतस्तेन चेष्टितेन भीतहृदया राक्षस्यः सहसा रावणाय वार्तां शशंसुः। क्रोधाविष्टेन रावणेन संप्रेषितान् महाबलान् जम्बुमालिप्रमुखान् राक्षसान्निहत्य मारुतात्मजो महाविक्रमं रावणकुमारमक्षमपि समरे पिपेष॥
कुमारवधेन क्रोधान्धो दशकन्धरः प्रथितविक्रमं शऋजितं मारुतिनिग्रहायनियुयुजे। आत्मन्यशतशो विकीर्णेषु विशिखेषु गगनचारिणि हनूमति विफलतां गतेषु शऋजित्तं जिघृक्षुः पैतामहमस्त्रंप्रयुयुजे। पितामहगौरवेण सोढास्त्रो मारुतिर्निश्चेष्टः पपात। राक्षसपतेर्दर्शनकौतुकेन पाशबन्धादिना परिभवमपि सहमानं पवमानसूनुं शूरमानिनो राक्षसा रावणान्तिकमवक्षत31। हनूमन्तमवेक्ष्य शङ्काहतात्मा रोषताम्राक्षो राक्षसपतिः, ‘पृच्छ्यतामेष दुरात्मा कुतो मत्पुरीमप्रधृष्यामागतः, वनभङ्गेन राक्षसानां वधेन च कोऽस्यार्थः’ इति मन्त्रिसत्तमं प्रहस्तमादिदेश॥
प्रहस्तेनानृतवादे जीवितनाशमुद्भाव्य स विभीषिकं वार्तां पृष्टो वातसूनुस्तमगणयन्नेव रावणं प्रतिबभाषे — ‘अहं रामसख्येन प्राप्तराज्यस्य सुग्रीवस्य सन्देशमादाय समागतो दूतः। मारुतस्यौरसं सुतं हनूमन्तं नाम मामवेहि। जनस्थानादपहृतायाः सीतायाः कृते शतयोजनमायतं समुद्र लङ्घयित्वाऽस्मि त्वां दिदृक्षुरागतः। अत्र चान्विष्यता मया त्वद्गृहे वैदेही दृष्टा। धर्मज्ञश्च भवान्न परदारानुपरोद्धुमर्हति। भवद्विधा हि बुद्धिमन्तो धर्मविरुद्धेषु बह्वुपायेषु मूलघातिषु कर्मसु न सज्जन्ते। तत्त्रिकालहिते मद्वाक्येऽवधेहि। जानकी सद्य एव नरशार्दूलाय रामाय प्रतिदीयताम्। जनस्थानवधं बालिहननं सुग्रीवसख्यं चावबुध्य त्वमात्महितं प्रतिपद्यस्व। नहि रामम्यापकुर्वन् साक्षात्पुरन्दरोऽपि सुखं प्राप्नुयात्। सर्वलोकेश्वरस्य तस्य राजसिंहस्येदृशं विप्रियं कृतवतो जीवितं ते सीतामददतो दुर्लभमेव भविष्यति’ —इति॥
एवं हनूमताभाषितमदीनं हितमप्यप्रियं वचनं निशम्य क्रोधमूर्छितो रावणस्तस्य वधमाज्ञापयामास। दुरात्मना रावणेनाज्ञप्तंनिवेदितदूतभावस्य तस्य वर्धं धर्मात्मा रावणानुजो बिभीषणो नानुमेने। स रोषदूषितविवेकमग्रजं सामवचनैरनुनयन्नप्रमेयमप्रियं कृतवतोऽपि दूतस्य इननं सतामननुमतममिघाय रावणं ततो वारयामास॥
केनापि प्रकारेण मारुतिं दण्डयितुमिच्छन्निशिचरपतिः कपीनां लाङ्गूलप्रियतामालोच्य लाङ्गूलमस्य दीप्यतामिति राक्षसानादिदेश। ते च कोपकर्कशाः साहसिका लाङ्गुलं कार्पासिकैः पटैरावेष्ट्य तैलेन परिषिच्य तस्मिन्नग्निं योजयामासुः। तस्य साहसकर्मणः फलं कतिपयैः क्षणैरेव तेषामुपननाम॥
लाङ्गूलमाश्रितस्य हव्यवाहनस्य सन्तर्पणमीहमानो हनूमान् पाशानाच्छिद्य तरसा गृहाद्गृहं उत्प्लवमानः कृत्स्त्रां लङ्कापुरीमग्निमयीं विततान। लाङ्गूलानलं निर्वाप्य युगान्तजलद इव नदन् प्राणपरीप्सया प्रधावतां पौराणामाक्रन्दितानि ततो निशमयन्नवर्तत॥
राक्षसैरनुभूयमानस्यापूर्वस्य तस्य सन्तापस्यांशं कपिरपि किञ्चिदभजत। ‘यदर्थमयमारम्भस्तदेव मयाऽवसादितम्, मया हि लङ्कामग्निसात् कुर्वता सीता न परिरक्षिता’ इति तप्यमानः स कपिः शिंशपामूलं झटिति निववृते। तत्र स्वेन तेजसा रक्षितां तामवलोक्य विस्मितः पुनरपि कृतप्रणामो राघवान्तिकं गन्तुमैहत॥
स्वामिसन्दर्शनोत्सुकः कपिशार्दूलो गिरिश्रेष्ठमरिष्टमारुह्य कृतप्लवनः सागरस्योत्सरे तीरे धृतोपायनान् सिद्धार्थस्यात्मन आगतिं प्रतीक्षमाणाननुचरान् युवराजं चोपगम्य सीतादर्शनवृत्तान्तं संक्षेपेणाचचक्षे। तावदेव प्रमोदपरवशानां तेषां तानि तानि नर्तनक्ष्वेडनादीनि प्रहर्षचिह्नानि प्रकटीबभूवुः। जाम्बवता पृष्टो मारुतिः सर्वंवृत्तान्तं विस्तरेणाख्याय युवराजं पुरस्कृत्य सहानुचरैः काकुत्स्थस्य सन्निधि पुप्लुवे॥
‘दृष्टा32सीता’ इति हनूमद्वदनादमृतोपमं वचनमाकर्ण्य सलक्ष्मणो रामो महान्तं हर्षमवाप। स सीतां नियतामक्षतां च निवेद्य चूडामणिं राघवायार्पयामास। प्रियाया मूर्ध्निं परिलसितं तमादाय हृदये धारयन् रामः प्राप्तामिव सीताममन्यत। ‘कुत्र
सीता वसति? कथं मयि वर्तते? किं मामब्रवीत्’ इति पुनः पुनः पृच्छन्तं राघवं हनूमान् दृष्टं श्रुतमनुभूतमनुष्ठितं च विस्तरेणाख्याय ‘मासादूर्ध्वं न जीवेयम्’ इति कृशाङ्गी वैदेही मामब्रवीदिति च विज्ञापयन् सर्वथा सागरतरणाय प्रयत्नो विधीयतामिति चावेदयामास॥
वन्दे विदेहतनयां रामस्य दयितानघाम्।
हनूमता समाश्वस्तां भूमिधां शरणं भजे॥
॥ सुन्दरकाण्डः समाप्तः ॥
<MISSING_FIG href="../books_images/U-IMG-1699097990Screenshot2023-11-04162406.png"/>
युद्धकाण्डः॥
<MISSING_FIG href="../books_images/U-IMG-1699098040Screenshot2023-11-04162249.png"/>
युद्धे रक्षोगणान् हत्वा पुष्पकेण निजां पुरीम्।
सीतया सह चागत्य रेजे रामोऽभिषेचितः॥
प्रियाप्रवृत्तिमधिगम्य प्रमोदभरितो रामो हनूमन्तं भूयो भूयः प्रशशंस — ‘धरणीतले यदन्येन मनसाऽपि न मन्तुं शक्यते तत्सुमहत्कार्यंहनूमता साधितम्। महोदधिं तरीतुं यदि प्रभूयते तर्हि त्रिभिरेव गरुत्मता, समीरणेन, तत्सूनुना च हनुमता’—इति। ‘ईदृशं मे प्रियं कृतवतः कथं प्रत्युपकरिष्यामि’ इति मुहुरालोच्य प्रीतिपुलकितैरङ्गैस्तं केवलं परिषस्वजे॥
ततः सह वानरसेनया प्रस्थातुकामो रामः कथं हरयः समुद्रस्य दक्षिणं पारं गमिष्यन्तीति चिन्तया कतिपयान् क्षणान् विवशोऽवर्तत। ‘धैर्यसागरोऽपि भवानुत्साहोषिते समये कथं
प्राकृत इव सीदति’ इति वदता सुग्रीवेण धीरतां लम्भितः शुभे मुहूर्ते सह प्लवङ्गसेनया लङ्कामभिप्रतस्थे। शोभनैर्निमित्तैः सूचितशुभागमः सुखेन गच्छन् महेन्द्रशैलं चाससाद। सागरतरणोपायं चिन्तयन्ती प्लवङ्गमानीकिनी सागरतीरे सुखं विशश्राम॥
लङ्कायां हनूमता कृतं भयावहं कर्म दृष्ट्वा विषादं व्रीडां च प्राप्तो रावणो राक्षसानाहूय किञ्चिदवाङ्मुखः प्रोवाच — देवदानवादिभिरपि दुष्प्रधर्षा सेयं लङ्का तेन वानरमात्रेण कथमाविलीकृतेति जानीथ, बलिनश्च राक्षसा हताः। किमितः परं करणीयम्, यत्कृतं सुकृतं भवेत्। यतो मनस्विनो मन्त्रमूलं विजयं प्रवदन्ति। ततः सर्वैः संमन्त्र्यपरस्तात्कार्यं प्रतिपत्तुमभिलषामि’— इति। राक्षसेन्द्रेणैवमुक्ता महाबलाः प्रहस्तदुर्मुखप्रमुखा राक्षसा अद्य रामंसलक्ष्मणं ससुग्रीवं हनिष्याम इति वदन्तो रणाय समनह्यन्त॥
युद्धसन्नद्धान् गृहीतायुधान् प्रहस्तप्रमुखान्निवारयन् रावणानुजो धार्मिकाणामग्रणीर्विभीषणोऽभाषत — ‘अप्रमत्ते जितरोषे दुराधर्षे च राघवे नास्माकं विक्रमः फलिष्यति। परेषामपरिमेयं बलम विज्ञाय मा सहसा तानवशासिषुर्भवन्तः। दुस्तरं सागरं विलङ्घ्यहनूमत आगतिः केन वा तर्किता ?। जनस्थानाद्दयितां हृतवान् राक्षसराज एव रामे कृतापराधः। अतिवृत्ताः स्वरादयः स्वप्राणरक्षायै यदि राघवेण निहतास्तत्र को नामास्माकममर्षस्थावकाशः? अधर्मेणापहृता सीता यदि प्रत्यर्प्यते तर्हि सर्वतः कुशलं भविष्यति। अन्यथा तु समस्तमेव राक्षसकुलं विनशिष्यति’ — इति। ‘भ्रातः, प्रसादये त्वाम्। यदि स्वयं सीता न दीयते तथापि मद्वचनात्सा दीयताम्। प्रसीद। सीतां दाशरथये प्रयच्छ’ इति भाषमाणः स ज्यायांसं भ्रातरं बद्धाञ्जलिः प्रार्थयत॥
विभीषणवचांस्यनुसृत्य रावणस्तदानीं तान् राक्षसान् विससर्ज। तथापि तस्य हृदयाद्दुर्ग्रहो नापजगाम। अपरेद्युःप्रत्यूष एव विभीषणो ज्यायांसमनुनेतुकामो मिथस्तं हितं बोधयितुमनास्तन्मन्दिरं जगाम। प्रमानन्तरं राजदृष्टिसम्पन्नं हेमभूषितमासनमध्यासीनो विभीषणः सान्त्ववचनैरग्रजं प्रसादयन् देशकालसंवादि वचनं बभाषे — ‘भ्रातः! यदा वैदेहीह संप्राप्ता तदाप्रभृति दुर्निमित्तानि दृश्यन्ते। तत्सर्वेषामशुभानां प्रायश्चित्तमिदमेव मे क्षमं भासते; यत् वैदेह्या राघवाय प्रत्यर्पणम्। अस्य च मन्त्रस्य प्रापणात्सर्वे सचिवा अपि विरता इति काममवगच्छामि। मया तु दृष्टं श्रुतं चावश्यमाख्यातव्यमिति प्रेम्णा प्रबोध्यसे। ममेदं वचनं मोहाल्लोभाद्वाव्याहृतं भवतु ; तथापि मयि दोषं न मन्तुमर्हसि’ —इति॥
विभीषणस्य कालत्रयहितं तद्वचनं निशम्य जातज्वरो रावणः ‘कुतश्चिदपि नाहं बिभेमि, न जातु राघवो मैथिलीं प्राप्स्यति’ इति च प्रतिभाष्य तं विसर्जयामास; महान्तं रथमारुह्य सभामेव प्रययौ च। वसूनां वज्रपाणिरिव सचिवानां मध्ये परिषदि विराजमानो रावणः प्रहस्तं नगरगुप्तये समादिदेश॥
सभामेत्य दशाननः सदस्यानुवाच — ‘अहं खलु सचिवैः संमन्त्र्यकर्तव्यं प्रतिपत्तुमुद्यतः। षण्मासान् प्रसुप्तं ममानुजं कुम्भकर्णंतु नामुमर्थे पृष्टवानस्मि। इदानीं समुत्थितेन शस्त्रभृतामग्रेसरेण तेनापि मन्त्रयितुममिलषामि। मदनार्दितोऽहं नात्मन इदानीमीशे। तद्भवन्त एव सर्वत्र मे शरणम्। यथा सीता न देया यथा वा राघवौ वध्यौ तथा संमन्त्र्य सुयुक्तमभिधीयताम्’ — इति॥
कामविवशस्याग्रजस्य तद्वचनं श्रुत्वा कुम्भकर्णः क्रुद्धः प्रतिबभाषे — ‘प्रसह्य सीतां हरता महाराजेन समीक्ष्यकारिणा सुनिश्चितमतिना न वयमपृच्छयामहि। सर्वथा तदविचिन्तितमप्रतिमं कर्म भवताऽनुष्ठितम्। इतः परं चापलं विहाय तदेव समीकर्तुं साम्प्रतम्। पावकमारुतौ शक्रविवस्वन्तौ वा समराय संनह्येताम्। अहमेक एव सर्वानपि प्रतियोद्धुमलम्। अलमस्थाने भयेन। प्रागिव महाराजो विज्वरः कार्याणि कुर्वाणः सुखं रमताम्॥ सलक्ष्मणं रामं रणे निहन्तुमेपोऽस्मि समुद्यतः’— इति॥
विभीषणः पुनः सभां प्रविश्य प्रदीयतां जानकीति रावणमाचचक्षे। कुपितो रावणः परुषां गिरमाददानस्तं तर्जयामास — ‘यथा स्वार्थैकप्रवणा ज्ञातयो भयमावहन्ति न तथा निशितान्यपि शस्त्राणि। अन्यश्चेदेतादृशं वचो मामवक्ष्यत् तर्ह्यस्मिन् क्षण एव निधनमयास्यत्’ — इति॥
न्यायवादी परुषंश्रावितो विभीषणो जातमन्युः सहसा सह चतुर्भीराक्षसैरुत्पतितः, वाक्पारुष्यं क्षन्तुमपारयन्, ‘स्वस्ति तेऽस्तु मया विना सुखमेधस्व’ इति वदंस्ततो मुहूर्तेन रामान्तिकमाजगाम। सहानुचरैस्त्वरयाऽऽपतन्तं गदापाणिं तममिलक्ष्य सुग्रीवादयः समरसन्नाहमभजन्त॥
महाप्राज्ञो विभीषणो दूरत एव महता स्वरेण निजगाद — ‘दुर्वृत्तस्य राक्षसपते रावणस्यानुजोऽहं विभीषणो नाम। जनस्थानात् प्रसह्य हृता वैदेही प्रत्यर्प्यतामिति पुनः पुनरुच्यमानं हितवाक्यमप्रतिगृह्णता रावणेनावज्ञातः पुत्रदारादीनपि परित्यज्य राघवं शरणं गतोऽस्मि। तत्सर्वलोकशरण्याय महात्मने राघवाय क्षिप्रं मामुपस्थितं निवेदयत’ — इति॥
शत्रुपक्षादागतस्य राक्षसजातेर्विभीषणस्य परिग्रहं प्रति वानराणां विसंवादः समजनि। शरणागतवत्सलस्य राघवस्याश्रयेण प्राप्तैश्वर्यः सुग्रीवोऽपि विभीषणस्य स्वीकारे विमर्ति प्रकाशयामास। जानकीवचनादिवात्मपरित्रयादपि विभीषणस्य स्वभावं सम्यगवगतवान् हनूमांस्तमभयप्रदानेनानुग्रहीतव्यमनिराकरणीयं चामन्यत। आत्माभिप्रायसंवादि हनुमतो वचनमाकर्ण्य दुर्धर्षो राघवः प्रजहर्ष। रावणस्येव राघवस्यापि तस्मिन्नवसरे सचिवैः सह मन्त्रः प्रववृते। रावणस्य मन्त्रः पापमार्ग इव, राघवस्य धर्मपथे पर्यवास्यत्। ‘मित्रभावेन संप्राप्तं सदोषमपि न कथञ्चन सन्त्यजेयम्। सर्वभूतानामभयप्रदानं च मे परमं व्रतम्। अभयार्थिनमागतं रावणमपि न त्यजेयम’ इति वदन् दाशरथिः ‘समानयत रावणानुजम्’ इति सुग्रीवादीनादिदेश॥
दत्ताभयो विभीषणः सहानुगो राघवस्य पादयोः पतित्वा ‘मित्राणि धनानि लङ्कां च विहाय भवन्तं शरणं गतस्य मे जीवितं सुखानि च भवदायत्तानि’ इति निवेदयामास। रामस्तं परिष्वज्य तन्मुख द्रावणस्यापरिमेयं बलं च सम्यगवबुध्य जीवति रावणे नाहमयोध्यां प्रवेक्ष्यामीति प्रतिज्ञाय लक्ष्मणेन सागरजलमानाय्य सद्य एव लङ्काधिराज्ये विभीषणमभिषेचयामास॥
ततः सागरं तरीतुमना विश्वकर्मात्मजेन वानरश्रेष्ठेन नलेन सेतुं कारयामास। दशयोजनविस्तीर्ण शतयोजनायतं च नलनिर्मितं सेतुमवलोक्य देवगन्धर्वादयोऽपि विस्मयमभजन्त। सेतौ समापिते व्यूहरचनया समेधित बलेन वानरसैन्येन सुग्रीवधिभीषणाभ्यां लक्ष्मणेन चानुगम्यमानः पुरतो गच्छन् धनुर्धरो दाशरथिः
लङ्कामभिप्रतस्थे। प्रचलदम्बुधिसन्निभा वानरचमूः सेतुना तीर्णाम्बुधिः सुवेलाचलतटमाससाद॥
वानरसेनाया बलप्रमाणे जिज्ञासमानो दशग्रीवः शुक्सारणादीनू दूतान् प्रेषयामास। वानराणामपरिमेयं बलं चारमुखादवगम्य जातोद्वेगो रावणः सीतां मायाप्रयोगेण मोहयितुमियेष। ‘विद्युज्जिह्वेन राघवं निहत्य शिर आनीतम्’ इति वार्तामुद्घोषयन् स जानक्याः पुरोभुवि रामस्येव मनोभिरामं शीर्ष भास्वरं कार्मुकं च पातयामास। सीता तदुभयं दृष्ट्वैव छिन्ना कदलीव घरण्यां पपात॥
राक्षसेन्द्रेण मोहितां सीतामुपेत्य मृदुभाषिणी सरमा नाम राक्षसी समाश्वासयामास — ‘जनकनन्दिनि, मा त्वं राक्षसानां मायया मोहं गमः। तव शोकस्यावधिरायातः। मङ्गलानि ते भविष्यन्ति। काकुत्स्थः सलक्ष्मणः सह वानरसेनया सुवेलतटमागतो मया दृष्टः। रावणोऽपि चकितमानसो मन्त्रिभिः सह मन्त्रयितुमितो गतः। यदि मे वाक्येषु न ते विश्वासस्तर्हि श्रूयतां भुवनकम्पनो मेरीनादः’ — इति॥
इति ब्रुवाणायामेव सरमायां शङ्खध्वनिसमाकुलो हरिसैन्या नामागच्छतां मेरीनिनदः शुश्रुवे। ‘बलशालिना राघवेण युद्धं न मे रोचते, तत्सीतां प्रदाय सन्धिः क्रियताम्’ इति मातामहो माल्यवान् रावणमुपदिदेश। क्रोधवशं गतः कालचोदितो राक्षसपतिरात्मनो बलं स्वयं श्लाघमानः परुषैर्वचनैस्तमपि तिरश्चस्कार॥
द्विधा भग्नो भवेयं, न पुनर्नमेयमिति कृतनिश्चयो रावणः कपीनामनीकिनीं लङ्काभिमुखं प्रसृत्वरीमालोक्य नगरगुप्तिं
विधित्सुः सह महत्या सेनया प्रहस्तं पूर्वद्वारे, शत्रुजित पश्चिमद्वारे, महापार्श्वमदोदरौ दक्षिणद्वारे च नियुज्य स्वयमुत्तरं द्वारमधितष्ठौ33। रक्षसां व्यूहरचनामवगत्य तदनुरूपान् व्यूहान् राघवो रचयामास। स पूर्वस्मिन्नील दक्षिणे बालिपुत्रं पश्चिमे मारुति चादिश्य सानुजः स्वयं रावणममियोक्तुमघटत ॥
सकृदपि दशग्रीवं हितं वक्तुकामः कृतसन्नाहो राघवः कपिवरमकदं दृत्येन तदन्तिकं प्रेषयामास। न चेद्वैदेहीं प्रणिपत्य प्रदास्यसि, सहामात्यं सपुत्रशातिबान्धवं त्वां हन्तास्मि’ इति राघवेण सन्दिष्टं यदि बालिपुत्रादन्यो रावणमवदिष्यत् तर्हि सप्राणो न न्यवर्तिष्यत। अङ्गदस्तु परिबुभूषयाऽऽगतान्निशाचरान् मशकानिव विधूय व्योमपथेन राममुपेत्य ‘समारभ्यतां समर’ इति निवेदयामास॥
पिकलैरङ्गैरपरमिव हेमप्राकारं कुर्वाणाःकपयोः वृक्षपाषाणपाणयः केसरिण इव गर्जन्तः समन्तालङ्कां परिवव्रुः। राक्षसा अपि खङ्गपाणयः शक्तिशुलादिधराश्च कपीनभिजग्मुः। सागरयोरिव सङ्गतयोःकपिरक्षःसेनयोः सुदारुणः सुतुमुलश्च संग्रामः प्रववृते। गजानां बृंहितैईयानां हेषितै स्थानां नेमिनिघांपैः पदातीनां च क्ष्वेडितैः कोलाहलमयीव जाता लङ्कापुरी। सर्वत्रापि शोणितनद्यः प्रसुस्रुवुः। छिन्धि, भिन्धि, जहि, दारय, तिष्ठ, क्व पलायसे, इति निनदः सर्वतः शुश्रूवे॥
रविरस्तं जगाम। बद्धवैराः कपिराक्षसास्तु युद्धान्न निववृतिरे। महाघोरे रोमहर्षणे व रात्रियुद्धे बालिपुत्रेण पराजितः
शक्रजिदन्तर्धानमाश्रितो रामलक्ष्मणौ नागमयैः शरैरवाकिरत्। इन्द्रजिता सर्वगात्रेषु शरशतैः प्रहतौ नागपाशेन च सन्दानितौ तौ महावीरौ रुधिरोक्षितौ धरणीतले पेततुः। राघवौ तामवस्थां गतौ दृष्ट्वा सर्वे हरिप्रवराः परमं विषादमभजन्त। रावणिस्तु राघवौ निहताबुद्घोषयत् पितरमुपजगाम॥
रावणः सुतमङ्कमारोप्य तद्विक्रमं प्रशशंस। राक्षसा विजयमुद्युष्यन्तः सर्वत्र सञ्चेरुः। पुष्पकमारोप्य नीता सीता शरशयने हरिभिः शायितं प्राणवल्लभं सुमित्रासुतं च दृष्ट्वा मुमोह। त्रिजटा निर्विकारं राघवयोर्वदनमालक्ष्य ‘राघवौ केवलं विसंज्ञौ पतितौ, न कथञ्चन प्राणैर्वियोक्ष्येते’ इत्युदाहरन्ती सीतां सान्त्वयामास। वानराणां शीतोपचारादिना जातसंज्ञः स्थिरसत्त्वो रामः सुमित्रानन्दनस्य तां दशां दृष्ट्वा बहु शुशोच॥
एतस्मिन्नन्तरे पक्षवातेन पर्वतानपि कम्पयन् महाबलो वैनतेयो राघवयोः पुरस्तादाजगाम। तस्मिन् दृष्टमात्रे पाशभूताः सर्वेनागाः सवितुरुदय इवान्धकाराः शिथिलाः प्रदुद्रुवुः। गरुत्मतः स्पर्शमात्रेण रूढवणौ दाशरथी पूर्वाधिकेन प्रभावेणोदतिष्ठताम्। भूयोऽपि गर्जतां हरियूथपानां निनदं निशम्य चिन्ताकान्त चेता दशाननः समराय धूम्राक्षप्रमुखान् वीराग्रेसरानेकैकशः प्रेरयामास। ते च समराङ्गणं प्राविशन्॥
धूम्राक्षमकम्पनं च पवनात्मजः सञ्जहार। वज्रदंष्टोबालिसूनुना पञ्चतामनायि। प्रहस्तः शिलां क्षिपता नीलेनाहन्यत। महाबलेषु तेषु निहतेषु मन्युवशंवदो दशाननः स्वयं युद्धाय प्रतस्थे। स हनूमन्तं सेनापति नीलं च बलवत्प्रहृत्य सौमित्रिमभिगतस्त-
दुरसि ब्रह्मदत्तां शक्तिं पातयामास। शक्तिपीडितं सौमित्रिं मारुतिर्बाहुभ्यां परिगृह्य राघवाभ्याशमानिनाय। अनुजस्य व्यथया दीप्तमन्यू रामो रावणमभिपत्य निशितान् शरनिकरान् विकिरंस्तं निकृत्तचापं हताश्वसूतं छिन्नकिरीटं च कृत्वा जीवितमात्र शेषं विसर्जयामास॥
मातङ्ग इव सिंहेन, राघवेण पराजितो भग्नदर्पो रावणः स्वयमननुभृतपूर्वेण पराभवेन प्रव्यथितो गाढनिद्रासुखं सेवमानं कुम्भकर्णंप्रबोधयितुं पार्श्वचरान् प्रेषयामास। प्रबुद्धः कुम्भकर्णो भ्रातुः परिभवं विज्ञाय तस्य प्रियचिकीर्षया राघवयोर्वधं प्रतिश्रुत्य सहसा समराङ्गणं प्रययौ॥
नगरप्राकारं लङयित्वाऽऽपतन्तं गिरिकूटोपमं दिगीशानामप्यवध्यं तमवलोक्य हरयः पलायितुमारभन्त। बालिसूनुना प्रत्यवस्थापिताः कथमणि प्रतिपन्नधैर्या मरणे कृतनिश्चया हरयः कुम्भकर्णेन सुदारुणं रणं वितेनिरे। कुम्भकर्णः शूलेनाङ्गदं निपात्य सुग्रीवमभिजगाम। सुग्रीवेणापि गिरिशिखरैः प्रहृतः स क्रोधाविष्टः कपीन् खादितुमारेमे शतशो गृहीत्वा भक्षयितुमारब्धवति कुम्भकर्णे पलायनपरायणाः कपयो रामं शरणमुपेयुः। सौमित्रिमप्यनादृत्य स्वाभिमुखमभिद्रवतः कुम्भकर्णस्य वक्षसि रामो निशितान् शरानुत्ससर्ज। छिन्नायुधस्यापि करेण वृक्षमुत्पाटय समापततस्तस्य सुररिपोः शिर उत्कृत्य रामस्तं पुनः प्रबोधशुन्यां दीर्घनिद्रां गमयामास॥
महाबले भ्रातरि निहते शोकसन्तप्तो रावणो मुमोह। तस्मिन्निपतिते रावणः स्वं दक्षिणं भुजं लूनममन्यत। नरान्तकादयो
रावणस्य सुनवोऽपि महान्तं विषादमभजन्त। युद्धाय सन्नद्धा रावणसुनवो नरान्तकदेवान्तकत्रिशिरोऽतिकायाः महाबलौ विमासतृजौ भ्रातरी महोदरमहापार्श्वों च कुम्भकर्णमनुगता बभूवुः॥
विपुलस्य रक्षोबलस्य स्वजनानां च विनाशेन शोकार्णवे परि प्लवमानं दशाननं समाश्वास्य ज्येष्ठपुत्रः शऋजित्समराय समनह्यत। रथोत्तममारुह्य संग्रामाजिरं प्रविष्टः शऋजिन्नीलाम्बुधर इवासारं शरनिकरं प्रवर्षन् वानरचमूं शातयामास॥
स हनूमदनदादीन् सर्वान् हरियूथमुख्यास्तपनीयवर्णैर्वाणनिर्भिद्य सलक्ष्मणं राममासाद्य भास्कररश्मिकल्पं शरवर्षंससर्ज। ‘स्वयम्भुवा दत्तवरस्यान्तर्धानमाश्रितस्य शऋजितः शरवर्ष क्षणं सहावहै, आवां रणाद्विरतौ विसंज्ञौ विलोक्य स दुर्मतिर्निवर्तताम्’ इति भ्रातरमभिदधानो रामः शक्रजित्प्रयुक्तेन पैतामहात्रेण विवशः सलक्ष्मणः क्षितितले पपात॥
बाणविद्धः क्षितौ शयानो जाम्बवान् ‘अपि जीवति हनूमान्’ इति पप्रच्छ। राघवावयतिक्रम्य हनुमन्तं पृच्छतस्तस्याशयं को जानातु ? हनुमांस्तमुपसृत्य किं मया करणीयमित्यन्वयुङ्क। ‘इनूमन्, त्वत्पराक्रमस्यायं समयः, इतो नगश्रेष्ठं हिमवन्तं गत्वा ऋषभकैलासशिखरयोरन्तर ओषधिपर्वतं प्राप्य मृतसञ्जीवनीं, विशल्यकरणीं, सुवर्णकरणीं, सन्धानकरण, चौषधीः सद्यः समानेतुमर्हसि’ इति जाम्बवांस्तं जगाद॥
तत्क्षणमुत्प्लुतो मारुतिर्योजनसहस्राणि समतीस्य तं पर्वतमवाप। अदृश्यमानास्वोषधिषु स तं पर्वतशिखरं समुत्पाट्य वियत्पधेन समानिनाय। तासामोषधीनां गन्धेन सर्वेऽपि विशल्याः
विरुजः प्रत्यूष इव खापात्प्रबुध्यमाना उदतिष्ठन्। मारुतिस्तत् पर्वतशिखरं हिमवति पुनः प्रतिष्ठाप्य प्रत्यागतो हर्बोत्फुल्लनयनं सानुजं राघवमुपतस्थे॥
दाशरथी पुनरपि गृहीतकार्मुकौ ज्यानिनादमकुरुताम्। हतावशिष्टा राक्षसाः संग्रामाय सज्जीबभूवुः। कुम्भकर्णसुतयोः कुम्भनिकुम्भयोः खरसुते मकराक्षे च कथा शेषतां नीतेषु सर्वथा राघवौ अहीति पित्रा चोदितः शत्रजित् समराय भूयः प्रतस्थे। स मायया सीतां निर्माय वानरसमक्षं शितधारेण खङ्गेन तां चिच्छेद। ततः शोकाकुलेषु हरिवरेषु राघवयोरपि विषादपरयोनिकुम्भिलां गत्वा स्वस्याहन्तव्यतां साधयितुकामो होममारभत। विभीषणस्तस्य मायां राघवयोरुद्धाटयामास॥
विभीषणवचसा नियमितशोको रामो मायाविनामग्रेसरस्याजय्यस्य रावणेर्निग्रहाय सह विभीषणेन ससैन्यं लक्ष्मणं प्रजिघाय। असमापितहोमं शक्रजितमुपेत्य लक्ष्मणः समराय समाह्वयत। विकत्थनो रावणिरात्मना कृतं राघवयोः पराभवमनुस्मारयन् वानरांत्रासयितुमैहत। ‘अन्तर्धानगतेन त्वया चरितो मार्गः स्तेननिषेवितो न वीरजनोचितः’ इति वचसा लक्ष्मणस्तस्य क्रोधमुद्दीपयामास। इन्द्रजित्कार्मुकमादाय लक्ष्मणे निशितान् बाणान् ववर्ष। लक्ष्मणोऽप्यभूतपूर्वेण विक्रमेण रावणिंप्रतिजग्राह। सुतुमुले रोमहर्षणे च समरे सौमित्रिरैन्द्रास्त्रेण रावणःशिरश्छित्वा भूतले पातयामास। सर्वलोकानां भयावहे शत्रुजिति निपातिते प्रहृष्टाःसर्षिगण्यादेवगन्धर्वाः सौमित्रिममिनन्दन्तः पुष्पाणि ववृषुः॥
सर्वाशानामवलम्बे विक्रमसागरे सुते निहते रावणस्य शोकसन्ततिः सीमानमतिचकाम। ततः श्रोकामर्षपुरितो दशवदनः
कृपाणपाणिः सीतां हन्तुमभिदुद्राव। सुपार्श्वेन सचिवेनस्त्रीवधमतिगर्हितं मा कार्षीरिति बोधयता निवारितः सभांप्रविश्य हतावशेषान् सर्वान् राक्षसान् युद्धाय प्रस्थापयामास। रामेण तु सम्मोहनास्त्रेण मोहितास्ते ‘इतो रामस्ततो राम’ इति राममयं जगदाकलयन्तः शक्तिशूलादिभिःपरस्परं प्रहृत्य पञ्चतां प्रपेदिरे॥
व्यसनपरम्परया राक्षसीनां प्रतिगृहं परिदेवमानानां विलापेन चोत्तेजितो रावणः ‘अरावणमरामं वा जगदद्य भवतु’ इति निश्चित्य समराङ्गणं निर्जगाम। सोऽस्त्रवर्षेण वानरान् विद्राव्य सलक्ष्मणं राममाससाद। ‘रामरावणयोर्युद्धं रामरावणयोरिव’ इति श्लोकार्धेनैव तयोः समरसंरम्भो वर्णितो भवति। तथाविधे संमर्दे रावणं रथस्थं राघवं च भूमिष्ठमवलोक्य तयोरसाम्यपरिहाराय पुरुहूतः स्यन्दनोत्तमं समातलिं राघवाय प्रेषयामास॥
युद्धपरिक्षान्तस्य चिन्ताकुलस्य च रामस्य भगवानगस्त्यः आदित्यहृदयोपदेशेनानुग्रहं ततान। निकृत्तमपि रक्षसः शिरः पुनः प्ररूढमुपलक्ष्य राघवोविस्मयं भेजे। अनन्तरमृषीणां देवगन्धर्वाणां च विजयमाशंसूनां स्वस्तिवाकैः समेधितप्रभावो दाशरथिरगस्त्यदत्तं ब्रह्मास्त्रममोघं धनुषि सन्धाय लोकत्रयकण्टकं परिपाकोन्मुखेन पापकर्मणा हसितजीवितं रावणं प्रति विससर्ज। अशनिहत इव गिरिकूटो दशाननः कृत्तशीर्षःस्यन्दनादवनीतले च पपात॥
तावदन्तरिक्षे देवदुन्दुमिर्ननाद। दिव्यगन्धं वहन् पावनः पवनो ववौ। साधु साध्विति रामं सर्षिगणा देवाः प्रशशंसुः। सुग्रीवाधिष्ठिता हरयः सर्वेऽपि कृतकृत्यतामभजन्त। राघवोऽपि स्थिरप्रतिज्ञतां सम्पाद्य सुतरां विरराज।
भ्रातृस्नेहेन प्ररुदितो विभीषणः कालगतिमपरिवर्तनीयां प्रबोध्य राघवेण प्रत्यवस्थापितस्तदाशया प्रमीतस्य भ्रातुरौर्ध्वदैहिकं निर्वर्त्यावरोधजनमाश्वासयामास। विमुक्तकवचः शिथिलीकृतकार्मुको रामः शक्रसारथिं मातलिं त्रिदिवं प्रति विसर्जयामास। ततः सौमित्रिमामन्त्र्य ‘भक्तमनुरक्तं च रावणानुजं लङ्कायाममिषिक्तं द्रष्टुकामोऽस्मि’ इत्यावभाषे। संप्रहृष्टोलक्ष्मणः सुवर्णघटेन समुद्रसलिलमानीय शमितकण्टके लङ्काधिराज्ये विभीषणं यथा — शास्त्रमभिषिषेच। शरणागतवत्सलस्य रामस्यानुग्रहेण लब्धराज्यं विभीषणमुपायनपाणयः सर्वाः प्रकृतयोऽभिननन्दुः॥
रघुपतेः शासनात्सन्तोषभरितो मारुतिः सीतासमीपं गत्वा विजयवार्तां निवेदयामास। परमेण प्रहर्षेण स्तब्धवचनाम्, ‘किं ते हनूमन् पारितोषिकमद्य प्रयच्छेयम्’ इति पृच्छतीं देवीम्, ‘इदं वचनमेव मे परमं पारितोषिकम्’ इति हनूमानब्रवीत्। विभीषणेन शिबिकामारोप्य राजपत्नीसमुचितया रीत्या रामसमीपमानीता सीता सुचिरादवलोकिनं भर्तुः सौम्यं मुखं मुहुर्निर्वर्णयन्ती लज्जावनतमुखी तस्थौ। लोकापवादचकितेन राघवेण परुषमप्रियं च ‘यथेष्टं वर्तस्व’ इति वचनं श्राविता पतिदेवता जनकदुहिता वह्निप्रवेशेन परिपूता द्विगुणितप्रभावा भगवता हव्यवाहनेन सतीवृत्ते साक्षिभूयमभिवहता राघवाय समर्पयांबभूवे। लोकप्रत्ययहेतोः पावकशुद्धिमनुभूतवतींदयितां करुणार्द्रचेता राघवो जग्राह॥
रावणवधेन प्रीतः पुरन्दरः समरे हतान् हरीनुज्जीव्य तदधिष्ठितेषु प्रदेशेषु फलमूलसम्पदर्थं चवरं विततार। बिभीषणेन सक्रियास्वीकारं प्रार्थितोऽपि राघवः सहसा भरतं द्रष्टुकामः
प्रस्थानाय तत्वरे। रत्नैरथैश्च विभीषणोपहृतैः सर्वान् हरीन् संमान्य रामःसुग्रीवविभीषणाभ्यां वानरमुख्यैश्च सह ससीतालक्ष्मणः पुष्पकं विमानोत्तममारुरोह॥
व्योमयानेन गच्छन् रामः प्रियायै समराजिरम्, सरित्पतिम्, सेतुबन्धम्, महेन्द्रागिरिम्, ऋश्यमूकम्, पञ्चवटीम्, गोदावरीम्, चित्रकूटम्, तांस्तांश्च रमणीयान् पर्वतोद्देशान्, पावनानि चाश्रमपदानि दर्शयन् भरद्वाजाश्रमं प्रपेदे। ज्ञानचक्षुषा ज्ञातसमस्तवृत्तं तं मुनिं प्रणम्य ‘अपि कुशल भरतस्य, कञ्चिन्मातरः ससुखं जीवन्ति’ इति सोत्कण्ठं पर्यपृच्छत्॥
‘जटावल्कलधरो भरतः पादुके पुरस्कृत्य सह जननीजनेन भवदागमनं प्रतीक्षते’ इति प्रतिभाष्य स मुनिः समुत्खातलोककण्टकं सत्यप्रतिज्ञंरामं प्रशशंस। ‘इहाद्य मदीयमर्घ्यंप्रतिगृह्यायोध्यां श्वो गन्तासि’ इति मुनिना निमन्त्रितः कालातिपातभीतो रामो मनोजवं मारुति भरतं प्रति प्रेषयामास। ‘मध्येमार्गे निपादराजं गुहं प्राप्य मम कुशलं ब्रूहि’ इति च मारुतिमादिदेश॥
मारुतिगिरा ससीतालक्ष्मणं राममुपागतमवगम्यभरतः प्रहर्षपरवशः स्तब्ध इव बभूव। समस्तमेव जगन्नवीभूतमिवाकलयन् भरतः प्रमोदाश्रूणि वर्षन् प्रहृष्टं शत्रुघ्नमनुजं नगरालङ्करणाय समादिश्य सामात्यभृत्यो जननीजनेन सार्धमनजसन्निधिं प्रतस्थे। सुदूरादेव प्रणमन्तमानन्दपारवश्येन वचसामनीशं भरतं पुष्पकादवतीर्य रामः सुदृढं परिषस्वजे। चिरविश्लेषतप्तानां पुनस्सङ्गतानां च तेषां परस्परं प्रणामाश्लेषकुशलप्रश्नादयो व्यापारा यथानुरूपं प्रववृतिरे। विमानमारोपितो भरतो राघवम्य गुणगरिम्णाऽऽसादितान् सुग्रीवप्रमुखानपि सुहृदः प्रहृष्टो वह्वमन्यत॥
भरताश्रमगतेन रामेणानुज्ञातंपुष्पकविमानं वैश्नवणान्तिकं प्रययौ। जटास्त्यक्तवतो रामस्य चरणाभ्यां पादुके योजयित्वा ‘अद्य मे जन्म चरितार्थम्’ इति भरतः पुनः प्रणनाम॥
भ्रातृभिः सह राजोचितेन प्रतिकर्मणा विराजमानो रथमारुह्य मानुषवपुर्धरैर्वानरैरनुगम्यमानः प्रमोदभरितैःपौरैरमिनन्द्यमानः समुच्छ्रितपताकं पुरं प्रविश्याभिषेकोचितं रामो रत्नासनमध्यास्त। वसिष्ठो, जाबालिः, काश्यपः, कात्यायनो, गौतमो, वामदेवो, विजयश्च महानुभावाः कनककलशप्रंभृत स्तीर्थ सलिलैस्तं राज्येऽभ्यषिञ्चन्। कृताभिषेको रघुपतिः सुग्रावायाङ्गदाय विभीषणाय व महार्हाणि पारितोषिकाणि प्रदाय, दिव्यहारं कण्ठादवमुच्यकस्मै देयमिति कुचुकेन सीतया करे कलितं हनूमतेदापयामास। सर्वेऽपि हरिप्रवराः सम्मानिताः सुग्रीवानुपताः स्वनिवासान् प्रययुः। सुग्रीवविभीषणावपि रामानुमत्या निजराजधानीं प्रतस्थाते॥
बहुशः पर्यनुनीतोऽपि लक्ष्मणो यदा यौवराज्यं नोररीचकार तदा भरतं यौवराज्ये रामोऽभिषिषेच। प्रजानां सर्वतः कुशलमातन्वानो भूरिदक्षिणैर्यशैर्यजंश्च सर्वसम्पत्समृद्धं राज्यं रामः सुचिरं पालयामास॥
श्रीमते रघुवीराय सेतूल्लङ्घितसिन्धवे।
जितराक्षसराजाय रणधीरायं मङ्गलम्॥
आसाद्य नगरीं दिव्याम् अभिषिक्ताय सीतया।
राजाधिराजराजाय रामभद्राय मङ्गलम्॥
॥ युद्धकाण्डः समासः ॥
॥ श्रीमद्वाल्मीकिरामायणप्रशंसा ॥
बालकाण्डे :—
यावत् स्थास्यन्ति गिरयः सरितश्च महीतले।
तावत् रामायणकथा लोकेषु प्रवरिष्यति॥ स. 2, श्लो37
चतुर्विंशत्सहस्राणि श्लोकानामुक्तषानृषिः34।
तथा सर्गशतान् पञ्च षट् काण्डानि तथोत्तरम्॥ स. 4, श्लो2
हास्यशृङ्गारकरुणवीररौद्रभयानकैः।
बीभत्सादिरसैर्युक्तं काव्यमेतदगायताम्35॥ स4, श्लो9
युद्धकाण्डे —131– सर्गः
कुटुम्बवृद्धिं धनधान्यवृद्धिं
स्त्रियश्च मुख्याः सुखमुत्तमं च।
श्रुत्वा शुभं काव्यमिदं महार्थे
प्राप्नोति सर्वो भुवि चार्थसिद्धिम्॥ श्लो117
आयुष्यमारोग्यकरं यशस्यं
सौभ्रातृकं बुद्धिकरं सुखं च।
श्रोतव्यमेतन्नियमेन सद्भिः
आख्यानमोजस्करमृद्धिकामैः॥ श्लो 188
बुधकौशिकविरचितश्रीरामरक्षास्तोत्रे :—
धन्याऽयोध्या दशरथनृपः सा व माता च धन्या
धन्योवंशो रघुपतिभवो यत्र रामावतारः।
धन्या वाणी कविवरमुखे रामनामप्रपन्ना
धन्यो लोकः प्रतिदिनमसौ रामवृत्तं शृणोति॥
Notes, Vigraha Vakyas and Grammatical Peculiarities.
बालकाण्डः ॥
<MISSING_FIG href="../books_images/U-IMG-170075914178.png"/>
Page 1.
** पाथेयम् = पथि साधु** Provision for a journey.
** मोक्तुं इच्छुः = मुमुक्षुः, तस्य। कविषु वराः = कविवराः, तेषां वबांसि = क-सि, तेषाम्। धर्मः एव द्रुमः = धर्मद्रुमः तस्य॥**
** अयोध्या नाम नगरी।** Here is indeclinable. रामनाम is a noun. Note the difference between the two. वैश्रवणः उपमा यस्य सः वैश्रवणोपमः। राजा चासौ ऋषिश्च राजर्षिः। पुत्राय = पुत्रार्थम् Ind. Adverb. प्रजापतेः अयं = प्राजापत्यः। नृपशार्दूलः- At the end of a compound the words शार्दूल, व्याघ्र, रस्न etc. denote a thing best or excellent of its kind. See पुरुषव्याघ्रः, स्त्रीरत्नम् etc**. नृपः शार्दूलः इव नृपशार्दूलः॥**
** करोति इति करं, प्रजायाः करं प्रजाकरम्। पयसः विकारः (पयसि संस्कृतं) पायसम्। गृहाण (गृहीतात्) गृह्णीतं गृह्णीत (लोट् Imperative mood). **
** प्रयोगविपरिणामः — त्वया पायसं गृह्यताम्, त्वया पायसं प्रदीयताम्, त्वया पुत्राः लप्स्यन्ते।**
** Page 2.**
** नृणां पतिः, नृपतिः। नराणां पतिः = नरपतिः।**
** द्वितीयात् other form is द्वितीयस्मात् (एवं तृतीयस्मात् तृतीयात्) ।**
** म चिरेण नचिरेण also अचिरेण।**
सत्यः पराक्रमः यस्य सः, सत्येन पुरारान् (शत्रून्) आक्रमयतीति वा सत्यपराक्रमः।
जज्ञे जज्ञाने जज्ञिरे — Perfect लिट्3rd person of जन्।
साङ्गेषु वेदेषु — The अङ्ग’s of वेद are six :—
शीक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं तथा।
कल्पश्चेति षडङ्गानि वेदस्याहुर्मनीषिणः॥
दारक्रिया - दाराणां किया — Marriage.
दशरथे चिन्तयति— This is an instance of the Locative Absolute (सति सप्तमी).
विश्वस्य मित्रं (विश्वं मित्रं यस्य सः) = विश्वामित्रः। मित्रे चर्पौ(Panini) इति सुत्रेण पूर्वपदस्य दीर्घः।
विधिं अनतिक्रम्य यथाविधि (Ind.)।
पुरे, कोशे etc सप्तसु अङ्गेषु कुशलं पर्यपृच्छत् इत्यर्थः।
राज्याङ्गानि are seven. स्वाम्यमात्य सुहृत्कोश राष्ट्र दुर्गबलानि च (अमरकोश.)।
Page 3.
दातुमर्हसि — अर्ह used with infinitive (तुमुन्नन्त) represents a mild form of command, advice of courteous request and may be translated by ‘pray’, ‘deign’, ‘be pleased to’, ‘will be pleased to.
निस्सज्ञः = निर्गता संज्ञा यस्मात् सः।
ऊनानि षोडश वर्षाणि यस्य सः = ऊनषोडशवर्षः।
योत्स्यते 2nd Futureलृटofयुध्(आत्मनेपदी)।
धनुःपाणौयस्य सः धनुष्पानिः।
गोप्तास्मि गोप्ता स्मःगोप्तास्मः — 1st Future लुट् of गुप् ; also गोपायितास्मि।
प्राणान् — The words प्राण, अप्, मसु, वर्षा etc. are used only in the plural:
Note the difference between निशम्य and निशाम्य।निशम्य having heard, निशास्य having seen.
जिहाससि is one word for हातुमिच्छसि।
कुरुष्व— आत्मनेपदी। कुरु - परस्मैपदी।
आगतम् अनतिक्रम्य यथागतम्। मिथ्या प्रतिज्ञा यस्य सः =मिथ्याप्रतिज्ञः। Opp. सत्यप्रतिज्ञः।
वसूनि धत्ते इति वसुधा।
न विद्यते उपमा यस्य तत् = अनुपमम्।
इक्ष्वाकोः गोत्रापत्यानि पुमांसः इक्ष्वाकवः, तेषाम् इक्ष्वाकूणाम्।Note the declension of this शब्द—ऐक्ष्वाकस्य ऐक्ष्वाकयोः इक्ष्वाकूणाम्।
कौशिकम् अनुयाति इति कौशिकानुयायी, तस्मिन् कौशिकानुयायिनि।
Page 4*.*
मत्तः — From me (Ind). Note the other word मत्तः (Past participle of मद्) = Intoxicated.
मलदकरूषे अभिघाने यस्य तत् मलदकरूपाभिधानम्। जनपदयोः द्वयं = जनपदद्वयम्।
ममार Perfect of मृ। The root is आत्मनेपदी। But it takes in the Perfect, the two Futures and the conditional. म्रियते, ममार, मरिष्यति etc.
ताटका = Name of a female liend, daughter of सुकेतु, wife of सुन्द and mother of मारीच।
मन्त्रप्रामेण = Collection of मन्त्र’s Generally ग्राम is used in the sense of ‘collection’ at the end of a compound, c. g. गुणग्राम, इन्द्रियग्राम etc.
Page** **5.
अग्निः देवता अस्य इति आग्नेयम्।
गताः असवः यस्मात् सः गतासुः, तं गतासुम्।
वायुः देवता अस्य इति वायव्यम्।
तत्र भवं तत्रत्यम्। शम्भोः इदं शाम्भवम्।
**गौतमशापेन —**Note the शाप referred to. अहल्या the first woman created by Brahma and wife of गौतम was seduced by इन्द्र. When गौतम knew of her seduction, he exepelled her from his hermitage and cursed her to be a stone and become invisible till she should be touched by the feet of which would restore her to her former shape. अहल्या is one of the five very chaste and pure women whose names every one is recommended to repeat in the morning;
अहल्या द्रौपदी सीता तारा मन्दोदरी तथा।
पञ्च कन्याः स्मरेन्नित्यं महापातकनाशिनीः॥
Page** **6.
** देया —** Potential passive participle. The other forms are दातव्या and दानीया. This participle can be used in all genders.
** समक्षम् = अक्ष्णोः समीपे। जनानां समूहःजनता। बुभूषामि is one word for भवितुम् इच्छामि।**
** फलम् इव आचरितं फलायितम्।**
**मतस्थे —**Note: The root स्था with सम्, अव, प्र and वि becomes आत्मनेपदी।
Page7.
** विरराज -** Perfect of राज्with वि.
** रराज, रराजतुः, रेजतुः, रराजुः, रेजुः।**
** विधिना तुल्यं विधिवत्।
धनुः + रामेण - धनुरामेण। Note the सन्धि here.**
** जमदग्नेः अपत्यं पुमान् = जामदग्न्यः।**
** दाराणां कर्म = दारकर्म। कृतं दारकर्म यैः ते कृतदारकर्माणः।**
Page 8.
** समेयिवान् – सम् + आ + ईयिवान्।It is to be de lined like विद्वस्।
नन्दिताः अखिलाः लोकाः येन सः नन्दिताखिललोकः। तस्मै नन्दिताखिललोकाय**
<MISSING_FIG href="../books_images/U-IMG-1699181251Screenshot2023-11-05161651.png"/>
अयोध्याकाण्डः ॥
** अयोध्या आख्या यस्य सः अयोध्याख्यः (काण्डः)।**
** भरताय अदात् —** दा and other roots having the same sense govern the dative case (चतुर्थी).
** भगिन्याः अपत्यं पुमान भागिनेयः।**
** नेतुकामः —** The nasal of the infinitive is dropped when followed by the word or in the compound. नेतुं कामः यस्य सः नेतुकामः, एवं नेतुमनाः। मातुः भ्राता मातुलः।
Page 9.
** श्वःभवति इति श्वोभावी।**
** आचचक्षे —**The root चक्षु has five forms in the perfect :चख्यौ, चख्शौ, चख्शै, चक्शे, चचक्षे।
Page** 10.**
** दुरुपदेशा एव मन्थानः, तेषां शतानि दुरुपदेशमथिशतानि तैः दुरुपदेशमथिशतैः।**
** अन्यासः न्यासः सम्पद्यमानं कृतं न्यासीकृतम्।
अविमनाः विमनाः भूता विमनीभूता। पूर्वे दत्तं दत्तपूर्वम्।**
Page** 11.**
** कृता मतिः येन सः कृतमतिः।**
** आचक्ष्व — चक्ष** with आ. Imperative लोट्
** चक्ष्व चक्षाथाम् चढ्वम्।**
** तत्काले भवा तात्कालिकी तां तात्कालिकीम्।**
** आसामास ‘आमास’** is used in the Periect of आस्. एषः रामं द्रष्टुम् इच्छामि. ‘अहम्’ इति शेषः
** द्रुततरं**— Comparative degree of द्रुत - दूतं द्रूतनरं द्रूततमम्।
** सह महिष्या पिता — महिष्या सह स्थितः पिता इत्यर्थः।**
** दिदृक्षतेis one word for द्रष्टुमिच्छति।**
** पूर्वं दृष्टा दृष्टचरी। न दृष्टवरी अदृष्टचरी।**
** अभिमुखः भूत्वा अभिमुखीभूय।**
** पद्भ्यांन गच्छनीति पन्नगः = सर्पः**
** सा पुत्रवत्सलया भवत्या अपनीयताम् — कर्मणि प्रयोगः।**
** तां पुत्रवत्सला भवती अपनयतु – कर्तरिप्रयोगः।**
** स्वार्थे एकस्मिन् एव प्रवणा स्वार्थैकप्रवणा।**
** ऋजोः भावः आर्जवम्।**
Page 13.
** निर्गता घृणा यस्मिन कर्मणि तत् यथा भवति तथा निर्घृगम् (Adverb),**
** पुमान् गौः (इव) पुङ्गवः रघूणां पुङ्गवः।**
** कर्णात् कर्णंगता — कर्णाकर्णिका।**
** वातानां समूहः वात्या — श्रोतुम् इच्छा शुश्रूषा; तथा शुश्रूषया।**
** स्वस्ति ईयते अनेन इति स्वस्त्ययनम्, तत् काङ्क्षति इति स्वस्त्ययनकाङ्क्षिणी।**
** विदधतु - धा** with वि. 3rd conj. Imperative mood. दधातु (धत्तात् ) धत्ताम् दधतु।
Page** 14.**
** मुनेः वृत्तिः इव वृत्तिः यस्य सः मुनिवृत्तिः, तेन मुनिवृत्तिना।
परम् अयनं यस्याः सा परायणा, धर्मे परायणा, धर्मपरायणा।
न विद्यते अन्यः शरणं यस्याः सा अनन्यशरणा।**
त्वं प्राणाः यस्याः सा त्वत्प्राणा।
** धृष्णोषि — धृष्** 5th conj. Present tense 2nd person.
** सह (भर्त्रा सह) धर्मं चरतीति — सहधर्मचारिणी।**
** मह्यं न रोत्रते**—रुच् governs the Dative case (चतुर्थी) as शङ्कराय अभिषेको रोचते, विघ्नेश्वराय मोदकोरोचते etc**.**
Page** 15.**
**रामं दशरथं विद्धि मां विद्धि जनकात्मजाम्।
अयोध्यामटवींविद्धि गच्छ तात यथासुखम्॥ **
** इति रामायणे अयोध्याकाण्डे ४० सर्गः, १० श्लोकः।**
** परिगतानि अश्रूणि पर्यश्रुणि, तानि नयनानि येषां ते पर्यभुनयनाः।**
Page** **16.
** पूर्वे अनुभूतम् अनुभूतपूर्वम् न अनुभूतपूर्वम् अननुभूतपूर्वम्। हृदि स्पृश्यते (मनोज्ञत्वात्) हृद्यः।**
** अवात्सुः — वस् लुङ्** Aorist 3rd person plural.अवात्सीत् अवात्ताम् अवात्सुः।
** व्यस्मार्षुः— स्मृ लुङ opp. अस्मार्षुः।**
** अस्मार्षित् अस्मार्ष्टाम् अस्मार्षुः।**
Page** 17.**
** द्वौ गुणौ यस्य सः द्विगुणः, अद्विगुणः द्विगुणः भूतः द्विगुणीभूतः, तादृशः शोकः यस्य सः द्विगुणीभूतशोकः।**
** दुःखेन पूर्णे दुःखमयम्।**
** शब्देन (शब्दमनुसृत्य) विध्यतीति शब्दवेधी।**
** प्रजिघाय — हि** with प्र. लिट् Perfect 3rd person singular.
** अत्ययः (नाशः) प्रयोजनमस्य इत्यात्ययिकम्** Emergent.
** भवता प्रस्थीयताम्** Impersonal voice.
** भवान् प्रतिष्ठताम्** Active voice.
Page** 18.**
** तत्वरे — त्वर् लिट् आत्मनेपदी। तत्वरे तत्वराते तत्वरिरे। मातुः पिता मातामहः, तं मातामहम्।**
** न विद्यते यथापूर्वं वृत्तं यस्यां सा अयथापूर्ववृत्ता,ताम् अयथापूर्ववृत्ताम्।**
** बहुशः विरतः विरतप्रायः nearly ended.
वज्रस्य निर्घातः इव निष्ठुरं वज्रनिर्घातनिष्ठुरम्।**
** द्वितीयेन अप्रियविषेण प्रथमम् अप्रियविषं पितुः मरणनिवेदनम् द्वितीयं तु सीतायाः रामस्य लक्ष्मणस्य च प्रवाससूचनम्।**
Page** 19.**
** पण्डितं मन्यते इति पण्डितमानिनी।
मां धिक्— धिक्** governs the Accusative case (द्वितीया)।
** वह्निसात् कृत्वा — कृत्त्वं वह्निं सम्पद्यमानं कृत्वा।**
** पुनः + रामवर्जिताम् = पुना रामचर्जिताम्.** Note the सन्धि.
** भागीरथीम् अनु — भागीरथ्याः सन्निधौ इत्यर्थः।**
Page 20.
रामेण उषितम्, रामेण शयितम् Impersonal voice.
अनवः नवः कृतः शोकः यस्य सः नवीकृतशोकः।
भूमौ शेते इति भूमिशयः।
अन्वयुङ्क — युज् with अनु. लड् Imperfect. अयुङ्क्तअयुञ्जाताम् अयुञ्जत।
अन्यथा गृहीत्वा = द्रोहबुध्या आगच्छतीति ज्ञात्वा इत्यर्थः,अन्यथा = वैपरीत्येन।
वशे भवः वश्यः। क्रोधस्य वश्यः क्रोधवश्यः, तस्य भावः क्रोधवश्यता।
मा कृथाः — अकृथाः अकृषाथाम् अकृढ्वम् लुङ् Aorist 2nd person of कृ.
Page 21.
सेनायां समवेताः सैनिकाः — Those who belong to the army.
ज्यायसः — Comparative degree of प्रशस्य— प्रशस्यः,ज्यायान्, श्रेयान्, ज्येष्ठः, श्रेष्ठः।
कृतापराधः — स्वकारणात् रामः वनं गमितः मात्रा इति स्वयम अपराधी इति भावः।
शोकः एष तरङ्गिणी ताम्। तरङ्गिणी = नदी।
जटा अस्य अस्ति इति जटिलः।
इङ्गुद्याःइदम् ऐङ्गुदम्। ऐङ्गुदंपिण्याकम् — ऐङ्गुदपिण्याकम्।
Page 22.
वक्तुम् इच्छामि विवक्षामि — Desiderative of श्च
यशः एव शेषः यस्य सः यशश्शेषः, तस्य भावः यशश्शेषता। प्रियमाणे = जीवति सति इत्यर्थः।
कनीयांसं — Comparative of युवन् or अल्प
युवा यवीयान् यविष्ठः
अल्पः कनीयान् कनिष्ठः
अल्पीयान् अल्पिष्ठः
अभावःअवसानं येषां ते— अभावावसानाः
Page 23.
अर्पितं राज्यतन्त्रं येन सः — अर्पितराज्यतन्त्रः।
भुक्ताः विभवाः यस्य सः - भुक्तविभवः ।
अन्यत् वनं वनान्तरम्।
यमः (इन्द्रियनिग्रहः।) एषाम् अस्ति इति यमिनः — सर्वे यमिनः सर्वयमिन, तेषाम्॥
<MISSING_FIG href="../books_images/U-IMG-1699183411Screenshot2023-11-05161651.png"/>
आरण्यकाण्डः ॥
Page 24.
स्वस्य पदं स्वपदम् वैकुण्ठम्। भवः ( संसारः) एव अरण्यं भवारण्यम्, तस्मिन्।
ब्रह्मणः इयं ब्राह्मी — तया ब्राह्म्या।
अक्षिभिः आपिबन्तः —चक्षुर्भिः विलोकयन्तः इत्यर्थः।
Note: The root ar to drink (with the eyes orears) may be used in the sense of look at orlisten to intently
Page 25.
द्विधा कृत्वा द्विधाकृत्य। हताः असवः यस्य सः हृतासुः।
प्रयास्यन् Future Participle of या। भूतानां विकारः भौतिकः, तम्।
दत्ताः आशिषः यैः ते दत्ताशिषः। दुःस्थिता दशा दुर्दशा।
आश्रुतः राक्षसवधः येन सः आश्रुतराक्षसवधः।
आश्रमेषुतल्लजाःआश्रमतल्लजाः। तल्लजः = श्रेष्ठः।
Page 26.
पीसागरस्य— Note the allusion here.
आगत्य drank up the ocean because it had offended him and because he wished to help Indra and Gods in their wars with a class of demons called Kalayas who had hid themselves in the waters and oppressed the three worlds in various ways.
विन्ध्यदर्पदमनस्य—The Vindhya mountain. being Jealous of the mount
मेरु demanded that the sun should revolve round himself as about मेरु, which the sun declined to do; whereupon the Vindhya began to raise higher and higher so as to obstruct the path of the sun and moon. The Gods being alarmed sought the aid of the sage Agastya, who approached the mountain and requested that by bending down he would give him an easy passage to the south, and that he would retain the same position till his return. This Vindhya consented to do (because according to one account, he regarded अगस्त्य as his teacher); but Agastya never returned from the south and Vindhya never attained the height of मेरु. Hense sage is called विन्ध्यदर्पदमन।
सूर्यस्य वर्चः इव वर्चः यस्य सः सूर्यवर्चाः, तस्य।
विष्णोः इदं वैष्णवम्। हेम्नः विकारःहैमः, हैमः कोशः हैमकोशः।
समे तिष्ठतीति समस्थः, विषमेतिष्ठतीति विषमस्थः।
Page 28.
कृत्या निर्वृत्ता कृत्रिमा, न कृत्रिमा अकृत्रिमा।
Note the difference between स्थल and स्थली। स्थल a spot dry ground artificially raised anddrained. स्थली — A natural spot of ground as of a forest.
Page 28.
Note the beauty of the adjectives used to शूर्पणखा and राम — दुर्मुखी सुमुखम्, विरूपाक्षी राजीवलोचनम् etc.
कर्णौ च नासिका (नासा) च एषां समाहारः कर्णनासिकम् (कर्णनासम्) see foot-notes.
निकृत्तं कर्णनासं यस्याः सा निकृत्तकर्णनासा ।
Page 29.
विनङ्क्ष्यसि 2nd future of नश्with वि to perish.
Page 30*.*
पद्भ्याम् अतति इति पदातिः। विधोः सुषमा (कान्तिः)विधुसुषमा।
Page 31.
जिघृक्षांचकार is one word for ग्रहीतुम् इयेष।
Page 32.
मा शङ्क्यताम् अपायः—Passive voice. मा शङ्कस्व अपायम् —Active voice.
बहूनि छद्मानि येषां ते बहुच्छद्मानः।
मायाः एषां सन्ति इति मायाविनः or मायिनः, तैः।
Page 33.
प्रच्छन्नं चरति इतिप्रच्छन्नचारी, तस्मिन्।
तप्तनाराचैः तुल्यं— तप्तनाराचसन्निभ्रम, तस्य। The words सन्निभ, निभ, सङ्काश, प्रतीकाश etc. can be used only at the end of a compound.
सर्वस्या भूमेः ईश्वरः सार्वभौमः, राक्षसानां सार्वभौमः।
आर्यैःजुष्टा— आर्यजुष्टा, न आर्यजुष्टा, अनार्यजुष्टा, तया।
तृणायापि अमत्वा। Note: The indirect object of the root मन् ’to think if not animal, may be put in the Accusative or the Dative case when con- tempt is to be shown; न त्वां तृणं मन्ये तृणाय वा। I do not consider you a straw.
Page 34.
सिंहेन तुल्यः सिंहसङ्काशः, तं सिंहसङ्काशम्।
अग्निं वस्त्रेण आच्छाद्य हर्तुमिच्छेत् = तथा अग्निहरणं यथा दुष्करं तथा रामभार्याप्रधर्षणमपि इति भावः।
पलायां चक्रिरे — Perfect 3rd person plural of अय् with पराto run away. Note —The र् of परा followed by अय् is changed o ल्।
शास्सि — Present 2nd person singular of शास्।
शास्ति शिष्टः शासति
शास्सि शिष्ठः शिष्ठ
शास्मि शिष्वः शिष्मः
स्वस्त्यस्तु वः— वः चतुर्थी बहुवचनम्।
स्वस्ति governs the dative case (चतुर्थी).
Page 35.
धर्मस्य मर्म जानाति इति धर्ममर्मज्ञः।
जीवतः मम — This is an instance for the Genitive Absolute जीवन्तं माम् अनादृत्य इत्यर्थः।
ताम्रे अक्षिणी यस्य सः ताम्राक्षः। अक्षि at the end of a compound becomes अक्ष।
मम इदं मामकम्, belonging to me, also मदीयम्, मामकीनम्।
बधान, छिन्धि, मिन्धि — Imperative mood 2nd person singulars of बन्ध्, छिद् and भिद् respectively. (7th Conjugation).
Page 36.
युष्माभिरप्रमत्ताभिः अवेक्ष्यतामियम । यूयम् अप्रमत्ताः इमाम् अवेक्षध्वम् इति प्रयोगविपरिणामः।
अनुजस्य वचः निशम्य= निशान्तानुजवचाः — This is one word for the above.
पद्मानि अस्यां सन्ति इति पद्मिनी, ताम्।
Page 37.
न विद्यते कन्धरा यस्य सः अकन्धरः।
निशायां चरति इति निशाचरः।
सख्युः भावः सख्यम्, तेन।
परीक्षितः स्वादिमाः येषां तानि = परीक्षितस्वादिमानि।
भूतेभ्यः भवं भौतिकम्।
तेजसा पूर्ण तेजोमयम्।
अमराणां शत्रवः अमरशत्रवः, खण्डिताः अमरशत्रवः येन सः, तस्मै।
मुक्तिंददाति इति मुक्तिदः तस्मै।
<MISSING_FIG href="../books_images/U-IMG-1699185303Screenshot2023-11-05172434.png"/>
किष्किन्धाकाण्डः ॥
Page 38.
तुर्ये— चतुर्णां पूरणः तुर्यः, तुरीयः, चतुर्थः।
मारुतस्य अपत्यं पुमान् मारुतिः, तस्य।
द्वौ गुणौ यस्य तत् द्विगुणम्, द्विगुणं कुर्वन्ति द्विगुणयन्ति। Denominative form.
सर्वंस्वं सर्वस्वं, सौभाग्यमेव सर्वस्वम् तस्य धाम।
प्रवेष्टुं शक्यः प्रवेश्यः, न प्रवेश्यः अप्रवेश्यः, तस्मिन्।
वरिष्ठं — Superlative degree of वर। वरः वरीयान् वरिष्ठः
युवां मां जानीतम् A. V. युवाभ्याम् अहं ज्ञायै P. V.
Page 39.
विदग्धस्य भावः वैदग्धी, ताम्।
केनापि रक्षसा हृता P. V. किमपि रक्षः हृतवत् A. V.
सहायस्य भावः साहाय्यम्।
जानकी जाया यस्य सः जानकीजानिः।
सह चरतीति सहचरी। सुधायाः सहचरी सुधासहचरी।
सः साक्षी यस्य तत् तत्साक्षिकम्।
Page 40.
शिलानां समूहः शैलः, तस्य तलम् शैलतलम, तस्मिन्।
निर्गतं आगः यस्मात् सः निरागाः, तम्।
प्रत्याययितुम् कामः यस्य सः प्रत्याययितुकामः। प्रत्यायचितुम्— Causative form. Primitive form is प्रत्येतुम्।
Page 41.
न मृष्यमाणः = अमृष्यमाणः — Present Participle of मृष् (4th conjugation). This roots belongs to 1. Ist conju. मर्षति, मर्षते। 2. 4th conju. मृष्यति, मृष्यते। 3. 10th conju. मर्षपति, मर्षयते।
गिरिम् अधिवस्तुम्। Note the peculiarity here.
Page 42.
सङ्कोचः— Opposite word is विकासः or विकोचः।
अनुगाः — Aorist 2nd person singular of इ with अनु । Note the augment अ is dropped.
Page 43.
हरीणां यूथानि पान्ति इति हरियूथपाः।
विहङ्गानां राजा विहङ्गराजः। Note the similar forms विहगः, विहङ्गः, विहङ्गमः।
समुद्रस्य पारे= पारेसमुद्रम्। अन्ययीभाव — Compound.
Page 44.
तत्कर्मानहम्। तस्य समुद्रलनकर्मणः अनर्हम् अनुचितम् इत्यर्थः।
हरीशः सुग्रीवः तस्य अभीष्टं वालिवधेन स्वभार्यया सह किष्किन्धाराज्यप्राप्तिः तत् अभीष्टं ददाति इति हरीशाभीष्टदायी, तस्मै॥
<MISSING_FIG href="../books_images/U-IMG-170080837078.png"/>
सुन्दरकाण्डः ॥
चिदः (ज्ञानस्य) घनं चिद्धनम्।
Page 45.
नमोवाकं नमः।
मार्गस्य मध्ये मध्येमार्गम् — Avyayibhava compound.
मेनकायां भवः मैनाकः। Name of a mountain son of Himalaya and Mena, who alone retained his wings (when इन्द्र**clipped those of other mountains) on account of his friendship with ocean.
Page 46.
मन्दोदरी — The daughter of मय and wife of रावण। She is regarded as one of the five very chaste women.
न विजहत् अविजहत् —Present Participle of हा with वि 3rd conjugation. It is declined like मरुत् ।
विचिकाय — Perfect of चि. This root has four forms in the perfect. चिकाय, चिचाय, चिक्ये and चिच्ये।
Page 47.
स्तोकं शेषः यस्याः सा स्तोकशेषा, तस्याम्।
रक्षिभ्यः अयं रक्षिमयम, तेन। The root भी and its derivatives govern the Ablative case (पञ्चमी), c. f. चोरात् भयं चोरभयम्।
Page 48.
न सन् असन्, असन् आग्रहः असदाग्रहः।
असति स्वस्य अनर्हे परस्त्रीरूपे आग्रहः इति वा।
तृणम् अन्तरतः कृत्वा रावणं तृणाय मत्वा इत्यर्थः। निकर्षसुचनाय तृणप्रक्षेपः। परपुरुषेण सह स्त्रीणां साक्षात् भाषणम् अनुचितमिति विचिन्त्य व्यवधान सम्पादनाय तृणप्रक्षेपः कृतः इति वा अवगन्तव्यम्॥
Page 49.
सर्वे धर्माः सर्वधर्माः, तान् जानाति इति सर्वधर्मज्ञः।
मित्रस्य भावः मैत्री।
प्रातः आशः प्रातराशः तस्मै प्रातराशार्थे।
चतुर्थम् उपायम् — दण्डोपायम्। सामः, दानम, भेदः, दण्डः इति चत्वारः उपायाः।
मा अवमंस्थाः। अवपूर्वकात् मन् घातोः लुङ् Aorist.
अमंस्त अमंसातां अमंसत
असंस्थाः अमंसाथां अमन्ध्वम्
अमंसि अम॑स्वहि अमंस्महि
Page 50.
सतीवृत्तेन— पातिव्रत्येन।
शाखानाम् अन्तरं (मध्यं) शाखान्तरम्, तस्मिन्।
राक्षसस्य इयं राक्षसी।
Page 51.
वनम् ओकः यस्य सः वनौकाः, तेन वनौकसा।
ककुदि तिष्ठति इति ककुत्स्थः तस्य गोत्रापत्यं पुमान्काकुत्स्थः।
Page 52.
दश कन्धराः यस्य सः दशकन्धरः, रावणः।
पितामहः देवता अस्य इति पैतामहम्। ब्रह्मास्त्रम् इत्यर्थः। विभीषिकया सह वर्तते यस्मिन् कर्मणि तद्यथा भवति तथा
सबिभीषिकम् – Adverb. बिभीषिका – भयजनकः चेष्टाविशेषः।
Page 53.
जनस्थानात् —अत्र रावणः स्वसाम्राज्यरक्षार्थ खरं स्वप्रतिनिधि कृत्वा रक्षसां चतुर्दश सहस्राणि स्थापितवान्।
मूलं घ्नन्ति इति मूलघातीनि, तेषु मूलघातिषु।
जनस्थानवधम् — जनस्थाननामकस्य राक्षससैन्य वासस्थलस्य वधः नाशः, तम्।
पुरन्दरः — इन्द्रः। पुरान् नाम असुरान् दारयति इति पुरन्दरः।
निवेदितदुतभावस्य वधं नानुमेने।हेतुगर्भविशेषणमिदम्।
यतः दूतभावं निवेदितवान् अतः न अनुमेने इत्यर्थः।
प्रमातुं योग्यं प्रमेयं, न प्रमेयम् अप्रमेयम्।
निशि चरन्ति इति निशिचराः — अलुक्समासः।
कार्पासेन निर्मिताः कार्पासिकाः तैः कार्पासिकैः॥
Page 54.
अग्निना पूर्णा अग्निमयी, ताम् अग्निमयीम्।
पर्याप्तुम् इच्छा परीप्सा — Desiderative. प्राणानां परीप्सा प्राणपरीप्सा।
अप्रकटानि प्रकटानि बभूवुः प्रकटीबभूवुः।
Page 55.
भूमेः जायते इति भूमिजा। यज्ञाशालाथै लाङ्गलकर्षणे सीतायाः (लाङ्गलपद्धतेः) समासादिता जनकेन सीता इति कथा॥
युद्धकाण्डः ॥
रेजे — Perfect 3rd person of राज् to shine (आत्मनेपदी) ।
रेजे रेजाते रेजिरे also रराजे रराजाते रराजिरे
त्रिभिरेव प्रभूयते—Impersonal form. त्रयः एव प्रभुचन्ति इति कर्तरिप्रयोगः।
Page 56.
लम्भितः— Causative Past Passive Participle of Primitive form is लब्धः ।
दुःखेन प्रधर्षितुं शक्या। दुष्प्रधर्षा c. f. दुर्लभम्, दुःसहम्,सुलभम्, दुष्करम्, दुर्वचम्, सुवचम् etc.
मन्त्रः (उपायचिन्तनं) मूलं यस्य सः मन्त्रमुलः ।
धर्मे चरन्ति इति धार्मिकाः, तेषां धार्मिकाणाम् ।
अग्रणीःअनं नयतीत्यग्रणी — Decline like सेनानीः। See page 82 in Sabdamanjari.
मा अवहासिषुः — Aorist of ज्ञा with अव to disregard. See footnote on page 20. The augment ‘अ’ is dropped.
विनशिष्यति — Second future, also विनङ्क्ष्यति।
आसनमध्यासीनः — आस्with अघि governs the Accusative case. See foot-note on page 61.
देशकालाभ्यां संवदति इति देशकालसंवादि ।
अस्य मन्त्रस्य प्रापणात् विरताः । अस्य मन्त्रस्य उपदेशे पराङ्मुखाः भवन्ति इति भावः ।
ईशे — Present tense 1st person singular of ईश to be able. Note the conjugation — ईष्टे ईशाते ईशते। ईशिषे ईशाथे ईशिध्वे। ईशे ईश्वहे ईश्म हे।
Page 58.
समीक्ष्य करोति इति समीक्ष्यकारी । Opposite असमोक्ष्यकारी ।
सीतां हरता महाराजेन वयं न अपृच्छयामहि — Passive voice
सीतां हरन् महाराजः अस्मान् न अपृच्छत् — Active voice.
One word for भयम् आवहन्ति is भयावहाः ।
अवक्ष्यत्, अयास्यात् — This is an instance for con ditional form (लङ्) ।
परुषस्य भावः पारुप्यम्, वाचः पारुष्यं वाक्पारुष्यम्।
एधस्व — Imperative 2nd person singular of एधू to live in comfort.
शरणे साधुः शरण्यः, सर्वेषां लोकानां शरण्यः सर्वलोक शरण्यः, तस्मै ।
Page 59.
पर्यवास्यत् — Imperfect ( लङ) 3rd person singular of सो (4th conjugation) with परि and अव to end in. Roots ending in ओ drop their ओ, c. f. शो, इयति ।
दत्तम् अभयं यस्मै सः दत्ताभयः ।
तरीतुं मनः यस्य सः तरीतुमनाः। Note the peculiarity.The nasal of the infinitive followed by काम or मनस्in compound is dropped.
Page 60.
सरमा —Name of the wife of Vibhishana,brother of Ravana.
मातुः पिता मातामहः। प्रकर्षेण सरति इति प्रसृत्वरी।
Page 61.
विधातुम् इच्छुः विधित्सुः। दूतस्य भावः, कर्म वा,दूत्यम्।
हन्तास्मि — First future Ist person singular of हन्to kill.
परिभवितुमिच्छा परिबुभूषा — Desiderative.
व्योम्नः पन्थाः व्योमपथः, तेन व्योमपथेन।
बृंहित हेषित क्ष्वेडित शब्दाः यथाक्रमं गजहयपदातीन शब्दस्यैव वाचकाः।
जहि — Imperative 2nd person singular of हन् to kill.
हन्तु (हतात्) हतां घ्नन्तु। जहि (हतात्) हतंहत। हनानि हनाव हनाम।
Page 62.
नागाः एव नागमयाः, तैः नागमयैः। रावणस्य अपत्यं पुमान् रावणिः — इन्द्रजित्।
पाशाः भूताः पाशभूताः पाशत्वं प्राप्ताः इत्यर्थः।रूढानि (अप्रकाशानि, नष्टानि) व्रणानि ययोः तौ रूढव्रणौ।
अनायि — Passive Aorist. अनैषीत् — Active.
Page 63.
जीवितमेव जीवितमात्रम्, जीवितमानं शेषः यस्य सः जीवितमात्रशेषः।
क्रोधेन आविष्टः क्रोधाविष्टः — Overpowered with anger.
दीर्घा निद्रा दीर्घनिद्रा, मरणम्। लृनं — Past passive Participle of लू to cut.
Page 64.
धरति इति धरः, अम्बूनां धरः अम्बुधरः। नीलः अम्बुधरः नीलाम्बुधरः।
तपनीयस्य (स्वर्णस्य) वर्णः इव वर्णः येषां ते तपनीयवर्णाः, तैः।
पितामहः (ब्रह्मा) देवता अस्य इति पैतामहम्। तादृशम् अस्त्रं पैतामहास्त्रम्।
न गच्छन्ति इति नगाः (also अगाः) तेषां श्रेष्ठः नगश्रेष्ठः।
मृतस्य सञ्जीवनी मृतसञ्जीवनी। विगतं शल्यं यस्मात् सः विशल्यः, तस्य करणी विशल्यकरणी। शोभनःवर्णः सुवर्णः, तस्य करणी सुवर्णकरणी। सन्धानस्य करणी सन्धानकरणी।
Page 65.
विगता रुकू येभ्यः ते विरुजः (विगता रुजा येभ्यः ते विरुजाः)
अक्षणोः समीपे समक्षम्। हन्तुं योग्यः हन्तव्यः, तस्य भावः हन्तव्यता, न हन्तव्यता अहन्तव्यता, ताम् अहन्तव्यताम्।
जेतुं शक्यः जय्यः, न जय्यः अजय्यः। जेतुं योग्यः जेयः ।Note the difference in meaning between the twowords. जयय one can be conquered. one may be conquered.
समाह्वयत —The root ह्वे takes आत्मनेपद termina-tions in the sense of challenge.
इन्द्रः देवता अस्य ऐन्द्रम्।ऐन्द्रं च तत् भस्त्रंच
ऐन्द्रास्त्रम्, तेन।
Page 66.
हतेभ्यः अवशेषः येषां ते हतावशेषाः हतेभ्यः अवशिष्टाः इत्यर्थः।
गृहे गृहे प्रतिगृहं — Indelinable. भूमौ तिष्ठति इति भूमिष्ठः।
आशंसन्ते इत्याशंसवः तेषाम् आशंसृनाम्।
सुतराम् — Comparitive degree of सु. Super.degree is सुतमाम्।
Page 67.
ऊर्ध्वदेहाय साधु और्ध्वदै(दे) हिकम् — Funeral rites.
अधिकृतं राज्यं (राष्ट्र) अत्र अधिराज्यम् — An empire.
लङ्का इति अधिराज्यं लङ्काधिराज्यम्।
साक्षिभूयं साक्षिभावम् इत्यर्थः।
फलमूलानां सम्पत् अर्थः (फलं) यस्य सः फलमूलसम्पदर्थः।
Page 68,
गन्तासि —Ist future 2nd person of गम्। अनवः नवः भूतः नवीभूतः। अनुरूपम् अनतिक्रम्य यथानुरूपम्।
Page 69.
प्रतिकर्म —Personal decoration महान् अर्हः येषां तानि महार्हाणि।
सेतुना उल्लङ्गितः सिन्धुः येन सः, तस्मै सेतूल्लङ्गितसिन्धवे।
धनं लब्धा धन्यः। रघुपतेः भवः यस्मिन् सः रघुपतिभवः। कविषु वरः (श्रेष्ठः) वाल्मीकिः एतद्ग्रन्थकर्ता च तस्य मुखं कविवरमुखम्। रामस्य वृत्त्ं चरितं रामायणम्॥
<MISSING_FIG href="../books_images/U-IMG-1699193692Screenshot2023-11-05194423.png"/>
शब्दार्थकोशः — GLOSSARY
<MISSING_FIG href="../books_images/U-IMG-1699194137Screenshot2023-11-05195151.png"/>
(This follows the text order.)
<MISSING_FIG href="../books_images/U-IMG-1699194026Screenshot2023-11-05194948.png"/>
ABBREVIATIONS USED
| N. Noun | P. p. Past Participle |
| a Adjective (can be used in all genders) | V. T. Verb Transitive |
| m Masculine (पुंलिङ्गम्) | V. int. VerbIntransitive |
| f Feminine (स्त्रीलिङ्गम्) | adv. Adverb (क्रियाविशेषणम्) |
| n Neuter (नपुंसकलिङ्गम) | ind. Indeclinable |
<MISSING_FIG href="../books_images/U-IMG-170080953378.png"/>
| **बालकाण्डः | ** |
| पुरोधस्N. m Priest | अध्यर्ध a One and a half |
| हुतवह m Fire | निष्कण्टक a Free from peril |
| पायस n Rice-cooked with milk | ज्याशब्द n Sound of the bowstring |
| उपपन्न a Befitting | मन्त्रग्राम m Group of mantras |
| भास्वर a Effulgent | समेधित a. p. p.Enchanced |
| दारक्रिया N. f. Matri-mony | जागरूक a Vigilant |
| उतपन्न a Befitting | राजीव n Lotus |
| निस्संज्ञ a Senseless | अप्रमेय a Immeasurable |
| साम्प्रतम् Ind. Proper | सपर्या f Adoration worship |
| कृत्स्ना a. f All, whole | अनुगत a Connected with |
| व्यतिकर m Juncture | |
| अविप्रहृतa Not frequen-ted by people | |
| दारुण a Dreadful | |
| स्फीत a Flourshing |
| न्यासीकृत a. p p. Entrusted | चत्वर n Yard |
| निर्घातm Thunder | विपणि f Bazaar |
| जनताMass of men | मण्डनविधि m Decoration |
| शुल्कः m. n Purchase price (of a girl) | कुटिल a Crooked |
| वार्ताहर m Messenger | धात्री f Governess |
| रंहस् n Speed | विभूति f Prosperity |
| फलायित a Looking like the fruit | गरकलुषा a Contaminated by poison |
| संसद् f Assembly | अर्हणा f Honour |
| आपृच्छ्य Ind. Having taken leave of | प्रवाजन n Banishment |
| त्रिःसप्तकृत्व Ind. Twenty-one times | संविवे v int.lay |
| अमोघ a Unfailing in effect | उद्विग्नa Distressed |
| भग्नदर्प a Of broken pride | विमनीभूता a Uneasy in mind |
| गुणगरीयसी f Exalted in virtue | विप्रकृताf p p. Injured |
| स्नुषा f Daughter-in-law | विमानिनाF. p. p. Insulted |
| आचख्येV. T. Was explained | ऊषर n Barren soil |
| **अयोध्याकाण्डः | ** |
| जरठ a Old | ब्रह्मवर्चस ल Brahmanic lusture |
| प्रोषित a Gone from home | सम्भार m (Pl) Requisities |
| आकर m Mine | आसामास V. int. Sat |
| दिनमणि N. m The Sun | |
| पर्यङ्क m Cot | |
| पन्नग m A serpant | |
| प्रवण a Bent upon | |
| धृष्टता f Audacity | |
| आर्जव n Frankness candour |
| क्रकच m A saw | अप्रमत्त a Attentive, |
| निर्घृणम्Ruthlessly | निवृति f Peace of mind, happiness |
| हायन n Year | शब्दवेधी a One who is able to hit a target by hearing the sound |
| चीर n Bark of the tree | निशीथ m Midnight |
| वात्या f Storm | कालधर्म m Death, |
| क्षते n क्षारं n क्षिपतिV. T. Applies acid to a wound | आत्ययिक a Urgent |
| समा f Year | क्षुमिततर a Very much perturbed |
| परिस्लान a Faded,Gloomy | तुमुल a Tumultous |
| अननुगुण a Inappropriate | निकृत्तमूल a Cut at the root. |
| गर्हयितुम् Ind. To blame to censure | नृशंसता f Cruelty |
| मृद्गती f Crushing and softening | पण्डितमानिनीa. f Considering oneself very wise |
| नन्दन n Celestial garden | अपत्रपा f Shameless |
| विघात m Frustration | लालस a Eager |
| सौविदल्लN. m A Sentinal Guard | अनुशय m Repentance |
| आम्नाय m Vedic scripture | अभ्यर्ण n Vicinity |
| वल्कलm. n Bark of tree | नवीकृत a Renewed |
| पवनजबन a As swift as wind | वर्त्मन् n Pathway |
| अग्रतःसर a Foremost | अन्वयुङ्क्तV. T. Enquired |
| न्यग्रोध m A banyan tree | प्रत्यूष m Dawn, daybreak. |
| तरङ्गिणी f Stream | कज्जल n Collyrium |
| अन्तराल n Midst | व्याघ्रचर्म n Tiger skin |
| दोलायमान @ Swinging | चकिता f Frightened |
| अभिज्ञातुम् and To recognise | प्रावात N. m Stormy spot |
| दृष्ट्या for ind. Fortunately | विवेपेV. int Trembled |
| प्रतिष्ठा f Stability | द्विधाकृत्य ind Having broken into two pieces |
| पञ्चताप्राप्ति f Death | हतासुLifeless, bereft |
| पञ्चताप्राप्ति | गर्तm Ditch |
| निवापाञ्जलि m Handful of water offered to the dead | भोतिक a Composed of five elements, पृथवीetc. |
| पिण्याक n Oılcake | निर्मक m Slough |
| विपक्षामिV. T. I wish | आश्रुत a Promised |
| ध्रियमान a Alive [to say | आश्रमतल्लुज m The best of hermitage |
| विप्लवm Loss, disorder | चुलुकित a Taken in the palm |
| योगः m Acquisition of new things | हेमराजि f Golden line |
| क्षेम m Preservation of possessions | निषङ्ग m Quiver |
| पादुका f Sandal | हैमकोश m Having a golden sheath |
| सभाजित a Adored. | प्राज्यदोष a Full of evils |
| **आरण्यकाण्डः | ** |
| तिग्मांशुः m The Sun | विद्युत् f Lightning |
| विज्यम् a Having the string untied | दोषासङ्ग m Contact with evil, also connection with night |
| क्षपा f Night | |
| क्षपयित्वा Ind Having spent |
| आविश्चकार V. T Showed | पदाति m Foot-soldier |
| परवान् a Depending on another | पञ्चतां f नयति V. Puts to deat |
| निर्णेतुं नालम् ind. Not competent to decide | दुर्धर्ष a Unassailable |
| विकच a Full blown | राकाशशिन् m Full moon |
| मृत्तिका f Clay | हठात् m By force |
| मस्कर m Bamboo | तर्जन m Threat |
| भगिनी f Sister | रजतबिन्दु m Silver spot |
| यहच्छया f By chance | अपाय m Absence |
| वासवोपम a Equal to Indra | विधुन्तुद m Demon Rahu |
| अन्तराय m Obstacle, Hindrance | सुषमा f Charm |
| करवाल m Sword | उदर्क m Ultimate result |
| सरणि f Path | विरल a Rare |
| चामीकर n Gold | यमक्षय m Abode of the God of death |
| शलभ m Moth | आतङ्क m Agony |
| विकत्थन a Boastful | कामरूपी @ Capable of taking any form at will |
| उत्तेजयन्ती f Kindling | आस्तरणः n Carpet |
| जीमूत m Cloud | प्रलोभितः a Tempted |
| आमुक a Put on | असून् m उत्सृज् T. I.To die |
| स्वस्तिवाक्य n Words of blessings | छद्म n Deceit, Fraud |
| रणाजिर n Battle field | विस्रब्ध a Conliding |
| अमर्ष m Anger | नाराच m Arrow |
| निरङ्कुशः a Un-restrained | भेषज n Remedy,Panacea |
| अन्तर n Opportunity |
| परिव्राजक m Ascetic | पीयूष m n Nectar |
| विहायस् m n Sky, Aerial path | वैदग्धी f Skill |
| सश्रव m Vow | आत्मनापञ्चम m (Com-pound) Accompanied by four others |
| अभिमर्शन n Outrage | निरागस् a Innocent |
| वृन्त n Stalk | (कण्ड्वामृतिः) कण्डूलिः f Desire to scratch |
| परिपाटी f Mann r | मिहिर m The Sun |
| तुण्ड n Beak | प्रावृट्काल m Rainy season |
| क्षतजोक्षित a Smeared with blood | समिद्धमन्यु a One whose anger was kindled |
| कौशेय n Silk | समये m तिष्ठ Int. Stick to the agreement |
| अपक्रोश m Scandal | प्रतिश्रवः m Promise |
| सृद् m Cook | पर्यय m Lapse |
| कणशःः ind. Into pieces | अभिज्ञान n Token |
| देवर m Husband’s brother | कन्दर m f n Cave |
| कामकार m Acting at will and pleasure | हरि m A monkey (alsoIndra, Lion,Vishnu, etc.) |
| एकपदे ind. All at once | कल्लोल m High wave |
| आसन्ननिर्याण a About to die | प्रायोपवेश m Fasting until death (Hunger strike) |
| फेन m Foam | पारेसमुद्रम् ind On the other shore of the sea |
| सव्यः a Left | |
| स्वादिमन् m Sweetness | |
| **किष्किन्धाकाण्डः | ** |
| छदद्मचारिन् a Walking under disguise | |
| चार m A spy |
| अपर्याप्त a Incompetent | स्थण्डिलशायी a Lying on bare floor |
| प्रभविष्णु a Powerful | अपशद m Wretch |
| वाहिनीƒ Army, Host | अरून्तुद a Heart-rending |
| प्रत्याशा Expectation | अनन्य a Not different |
| **सुन्दरकाण्डः | ** |
| विश्रान्तिहेतोःm For thesake of taking rest | चतुर्थ m उपाय m Punishment |
| अंशुमाली m The sun | च्छ्न्द m Will, choice |
| ज्योत्स्ना f Moonlight | मानुष्यक n Humanity |
| अमृतांशु m The moon | भव्य a Well being |
| प्राकारः m Fortwall | लीन a Concealed |
| परिच्छदFurniture | प्रश्रित a Humble |
| कक्ष्या f Apartment | प्रत्यय m Belief |
| अतुल a Unequalled | गाथा f Popular song |
| अविजहत् a pre p: Not leaving out | विशिख m Arrow |
| विचिकाय V. T Searched | पैतामह a Belonging to Brahma |
| चैत्ररथ n The garden of Kubera | विभीषका f Intimidation |
| उपवास m Fasting | साहसिकः m One whoacts thoughtlessly |
| चारित्र n Chastity | कार्पासिक a Made of cotton |
| पीतवासन n Yellow garment | अवसादित a Ruined |
| संवीत a Clad in | उपायन n Present |
| भवितव्यता f Fate | क्ष्वेडन n Roaring |
| द्विजः m A bird | **युद्धकाण्डः |
| उरीकृत्य ind Having accepted | पुलकित a Thrilled with joy |
| अनीकिनी f Army | कृपाण m Sword |
| मिथः ind. Secretly | पुरूहुत m Indra |
| प्रापण n Communication | अपरिवर्तनीय a Not to be averted |
| अवज्ञान. p. p Despised | प्रमीत a Dead |
| विसंवाद m Difference of opinion | और्धदैहिक a Funeral Obsequies |
| संवादि a Confirming to | अवरोध Harem |
| पर्यावास्यत् V. int. Ended | शिविका f Palanquin |
| प्रसृत्वरि f Spreading over | द्विगुणित a Doubled |
| गुप्ति f Protection, | साक्षिभूय a The state of a witness |
| परिबुभूषा f Desire to insult | निमन्त्रित a Invited |
| सन्दानित् a Bound | अतिपात m Lapse |
| चैनतेयः m The king a Cut off | स्रब्ध a Stunned |
| लृन a Cut off | प्रतिकर्म n Personal decoration |
| आसार m Shower | समुच्छ्रित a Hoisted |
| तपनीय n Gold | पताका f Flag |
| उत्फुल्ल a Wide open | महाई a Very valuable |
| ज्या f Bow string | हार m Necklace |
| शितिघाj a Sharp edged | पर्यनुनीत a. p. P. Persuaded |
| उद्घाटयामास V. Tr. Exposed, Disclosed | उररीचकार V. T.Accepted. |
| अजय्य a Invincible |
<MISSING_FIG href="../books_images/U-IMG-1699274628Screenshot2023-11-06181310.png"/>
]
-
“मुमुक्षुः - Desiderative of मुच् to give up.” ↩︎
-
“* ‘रवि भौम शनि गुरु शुक्रेषु’ इति तिलक व्याख्या ।” ↩︎
-
“c. f. वाणाभावे हि शापास्त्राःकुर्वन्ति तपसो व्ययम्। Kalidasa.” ↩︎
-
“क्रीडाऽनुसंपरिभ्यश्चइत्यात्मनेपदम्॥” ↩︎
-
“शेषे – Present tense second person singular of शी to lie down.” ↩︎
-
“कृत्वम् is a nominal suffix added to numerals fromपञ्चन्upwards and वहु to denote the times of action.” ↩︎
-
“This is an instance of the Genitive Absolute अनादरे षष्ठी। (In spite of your sight ↩︎
-
“प्रसितोत्सुकाभ्यां तृतीया च इति तृतीया - Panin सूखम्॥” ↩︎
-
“व्याङ्परिभ्यो रमः इति परस्मैपदम् (Panini ↩︎
-
“शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्येषु तुमुन इति विहिनः तुमुन् प्रत्ययः —Panini.ऋते (without ↩︎
-
“आgoverns the Ablative case. cf. आ उदकात् प्रियं पान्थमनुव्रजेत्॥” ↩︎
-
“बस् with उप, अनु, अघि or आgoverns the Accusative case of the place of action. उपान्वध्याङ्वसः (Panini ↩︎
-
“अनु governs a noun in the Accusative case.” ↩︎
-
“द्रुहू governs a noun in the Dative case. क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः – Panini.” ↩︎
-
“मा(Indeclinable ↩︎
-
“Aorist 2nd person singular of कृ to do (आत्मनेपदी ↩︎
-
“यदन्नः पुरुषो भवति तदन्नाम्तस्य देवताः – Ramayana.” ↩︎
-
॑# “बहिःgoverns a noun in the Ablative case (पञ्चमी ↩︎
-
“एतश्च प्रशान्ताश्रमपदानुगुणं विचेष्टितं वेदितव्यम् ॥” ↩︎
-
“Agent noun of the desiderative of हन्to kill” ↩︎
-
“कराभ्याम् उदरताडनं राक्षसीनां स्वभावः॥” ↩︎
-
“Present tense used along with यावत् and पुरा (Indeclinable ↩︎
-
“The indeclinable हा governs the Accusative of the object of curse.” ↩︎
-
“अधीगर्थदयशा कर्माण (Panini सूत्रम् ↩︎
-
“The Instrumental case of the word आत्मन् in a compound is retained when the following word is anordinal numeral (आत्मनश्च पूरणे— Panini ↩︎
-
“स्पर्धायामाङः (Panini ↩︎
-
“When मा स्म is used either the Aorist (लुङ् ↩︎
-
“Passive second future first person singular.(I shall be resorted to ↩︎
-
“Present Participle of the Frequentative प्लुof to swim.” ↩︎
-
" चतस्रअंगुलयः मात्रा यस्य सः इति विग्रहः ॥” ↩︎
-
“Aorist 3rd person plural of वह्। अवोदअवक्षाताम्अवक्षत” ↩︎
-
“To avoid all misapprehensions the word दृष्ट्वा is uttered first.” ↩︎
-
“शी, स्था, and आस् with अधि govern the Accusative of the place of action.” ↩︎
-
“ऋषिः =वाल्मीकिः।” ↩︎
-
“श्रीरामात्मजौकुशलवौ रामायणगानं कृतवन्तौ।” ↩︎