[[श्रीमदुत्तरचम्पूग्रन्थः Source: EB]]
[
[TABLE]
[TABLE]
॥उपोद्घातः॥
** **आर्याः अभिरूपचूडामणयः दत्त सदयमिह श्रवसी अवधत्त च किञ्चिदिव मयोच्यमानं।
यद्यपि न ह्यविदितं किमपीह भवतामावेदयिष्यते नाश्रुतं श्रावयिष्यते नादृष्टं दर्शयिष्यते तथापि करुणया केवलं कारणेन मदभ्यर्थनाङ्गीकरणस्य वो भवितव्यं। अद्य खलु विजृम्भमाणे कलिमाहात्म्यपरिमाणे, विद्राणेषु विद्वज्जनभद्राभिध्यानपरेषु पूर्वतरनृपेषु प्रायः प्रलीनमिव लोके सुकविवचसामभिनन्दनमपि। सुदूरे किल सम्माननादिभिः प्रोत्साहनं कवीनां। केचन पुनः सारग्रहणचतुरंमन्याः प्राचीनान् सुप्रसिद्धयशोऽवभासान् कालिदासादिकानेव कवीन् करणैस्त्रिभिरपि सम्मन्यमाना अकालिदासीयमपि कालिदासस्येदमिति मनोरमतया गीयमानं पद्यमभिनन्दन्तः कालिदासीयायापि पद्याय परस्येदमिति श्रताय चातितरामसूयन्तो विवृण्वन्तश्च दूषणशतानि तुदन्ति सहृदयानां हृदयानि।
प्रभवश्च केचन यत्रकुत्राप्यविदुषि विदुषि वा बद्धाभिमाना रसिकशिरोमणितां स्वनिष्ठतया तदभिवर्ण्यमानामाकर्ण्य प्रमोदमानमानसा मानसादनमप्यविगणय्य अगतिकतया स्वनिकटमुपागतानां पण्डितानां कवीनां वा वचनानि घूका इव दोषैकदृष्टयः शयनासने शयाना एव दूषयन्तः अस्थानव्ययितबहुधना निधानायमाना असूयायाः शुचा मलिनयन्ति मानसानि मनीषिणां। तदेवं सञ्जातदुर्भिक्षे सरससाहितीपक्षे भाग्यवशाद्भारतवर्षस्य यत्र कुत्रापि वर्तमाना अपि मणय इव सागरस्य जगतो गौरवमादधाना दत्तावधाना विरलानामपि गुणलेशानां सङ्ग्रहणे नन्दन्तश्च कविचांसि कुर्वन्तश्च निर्वञ्चनमेव प्रोत्साहनं सम्मानयन्तश्च यथाशक्ति दरीदृश्यन्त एव विदितवेदितव्याः प्रभवः। यानेवाश्रित्य जिजीविषन्ति पण्डिताः। यैरेव पोष्यमाणा विवर्धन्ते कवयः। यानेवोघ्नान् मन्यते सुमनसामामोदेन माननीया समुन्न-
तस्थानाभिलाषिणी गीर्वाणवाणीलता। तदवलम्बनबलादेव बहवः सरसमचुरप्राचीनग्रन्थरसास्वादतुन्दिलानपि रसिकप्रणीन् परवशीकुर्वाणा घृतगर्वाणा केषाञ्चन बोधसरणिमतिदूरमतिक्रान्ताः प्रणीयन्त एवनणीयांसः प्रबन्धाइदानींतनैरपि कविभिरिति सत्यमिदं हर्षस्थानमेव महतामित्यशङ्कमावेदनीयमिह भवति।
तदेवं सत्स्वपि बहुषु प्रबन्धेषु यशोनिबन्धेषु, प्रकाशमानेषु चन्द्रतरागणेषु खद्योत इव स्वतेजः लोकानुपयुक्तमपि कमप्यहमपि प्रबन्धं प्राकाशयमिति जिह्रेमि युष्मभ्यमिदमावेदयितुमपि। नाहमुत्तमकाव्यकर्तृतासञ्जातयशःसंपिपादयिषया प्रावर्तिषि। न च निजग्रन्थरसस्रुतिसंपदा लोकान् रज्जयितुं शक्नोमीति धैर्यतः। नापि वृत्तवर्त्तिप्यमाणसकलकथांशसङ्घटन XXस्तीति धिया। किन्तु भगवतः श्रीरामभद्रस्य चरितमुपवर्ण्य वाचं स फलीकुर्यामिति। उक्तं किल भगवता बादरायणेन
“स बाग्विसर्गो जनताघविप्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि।
नामान्यनन्तस्य यशोङ्कितानि चेत् शृण्वन्तिगायन्ति गृणन्ति साधवः” इति।
तस्य च भगवतः श्रीरघुनन्दनस्य चरितं चतुरानानुग्रहसमासादित्सरस्वतीप्रसादेन चतुरानन-समुच्चारितसरसतरसरसिजासनसुन्दरीधम्मिल्लगतमल्लिकाकुसुमसुकुमारवाग्विलासमहनीयेन भगवता वाल्मीकिना चतुर्विंशति सहस्राख्याकनिरवद्यपद्यहृद्यतरकाण्डसप्तकपरिमण्डितेन रामायणाख्ये महाकाव्यरत्नेन पण्डितपामरसाधारण्येन हृदयरञ्जकमञ्जसा समुपन्यबन्धि तच्च सर्वेतिहासानां मूर्धन्यतामासाद्य सर्वलोकाभ्यर्हितं वरीवर्तीति विदितमेवेदं विश्वेषां। तद्गतमाधुर्यसौकुमार्यादिप्रशंसा च विश्वजनविदितत्वात्पिपेषणन्यायाध्वनीना भवेदिति विरम्यते। तस्य चातिपुष्टार्थत्वादतिविस्तृतत्वच्च पठनपाठनादिषु Xलानशक्नुवतो निर्धार्यस्पर्धाविजितमाध्वीकं साधु शैलीमनुसृत्यपठतामनादरमपसारयितुं गद्यपद्यात्मकतामुपगतया सरण्य
चम्पूरामायणाख्यं ग्रन्थरत्नं रत्नहार्यपि विदर्भराजो भोजो महत्या करुणस्य प्राचीकशत्। तच्च शब्दार्थगतसारव्ठ्यबाहुव्ठ्यादतिसौन्दर्याच्च सारं सारस्वतमधिजिनमिषुभिरद्यापि पठ्यत इति सार्वजनीनोयं विषयः। परन्तु तत्केन वा कारणेन पञ्चकाण्डपिरिमितमेव निरमायीति नाद्यावधि केनचिदपि विमर्शकेन स्फुटीकृतं। ततश्च नायकाभ्युदयान्तं काव्यमिति न्यायमनुसृत्य पण्डितवरेण लक्ष्मणकविना अविनाभूतरसमर्यादः पर्याप्तशब्दरत्नरञ्जितः प्राणायि युद्धकाण्डोपि।
एवं भगवतो रामायणकथापुरुषस्य जनकृतक्षेमस्य रामस्य राज्यप्राप्तिपर्यन्तचरितवर्णनेन सम्पूर्णे चम्पूप्रबन्धे उत्तरश्रीरामायणकथामपिसंजिग्रथिषुणा सर्वशास्त्राब्धिपरिदृश्वना विश्वकाव्यगुणगरिष्ठविश्वगुणादर्शादिग्रन्थकर्तृतासंपादितयशस्केन श्रीमदात्रेयवेङ्कटाध्वरिणा प्रौढमधुराभिर्वाग्भिर्जग्रन्थे ग्रन्थ उत्तरचम्पूर्नाम। स च महाकविर्भूयिष्ठविघ्नविध्वस्ततया वा श्रीरामकृतजानकपिरित्यागादिकथावर्णनविहस्ततया वा श्रीमदुत्तररामायणपूर्वभागस्थदशाननविजयादिकथान्त एव विररामेति विज्ञायते। तेन च बालानां रामकथालोलानां च विदुषां समग्रकथाविच्छेदतस्तुद्यमानं हृदयमालोच्य पुनरपि कश्चनोत्तरचम्पूरिति ग्रन्थो निर्माय प्रकाशितः श्रीवेङ्कटकविना। सा चेदानीं स्मार्तोत्तरचम्पूरिति प्रतीता पठ्यते पाट्यते च।
एवं च सति तामेवोत्तरश्रीरामायणकथां गद्यपद्यात्मकचम्पूप्रबन्धरूपेण पुनरपि किमर्थं निरमिमीथा इत्ययमनुयोगः केषाञ्चन स्वत एव प्रानुर्भवेत्। तत्रेदमुत्तरं भवितुमर्हति। उत्तरश्रीरामायणकथाप्रतिपादकं चम्पूद्वर्थं विद्यते। तत्र च उत्पत्तिक्रमाच्छब्दार्थगतगुणविशेषाच्च प्रथमगणनार्हा श्रीवेङ्कध्वरिकृता चम्पूः। सा तावत्सुतरां प्रौढार्थत्वाच्चम्पूप्रबन्धपठनयोग्ये काले वर्तमानानां बालानां नात्युपकारकत्वादसमापितकथत्वाच्च साधूनां व्यापृतहर्षं चेतस्तनोति। द्वितीया पुनः कथासमाप्तिमत्यपि संक्षिप्ततरचरितनिरूपणत्वान्नातीवमोदावहा भवति। न लभ्यते चापरा काचिदुत्तरश्रीरामायणकथाप्रतिपादिका चम्पूर्बहुत्र बहुना प्रवासेन मृग्यमाणाऽपि पठितृभिः
पाठकैश्च। तदिमामवस्थामालोक्य रसिकशिरोमणिभिः कैश्चन मे सुहृद्भिः सुतरां प्रेर्यमाणो नातिसंक्षेपविस्तरचरितं प्रबन्धममुं प्राणैषं। बहुतरमहाविध्नपाथोधिमुल्लङ्घ्य समापितेऽस्मिन् प्रबन्धे तदवलोकनसंहृष्टमानप्तास्त एव मे सुहृदः सम्मुद्र्य प्रकाश्यतामयं ग्रन्थ इति मां प्रोदसाहयन्। मया तु स्वग्रन्थस्य सकलसहृदयहृदयाह्लादकतायां सन्दिहानेन मुहुः प्रणुन्नेनापि नाङ्गीकृतोऽस्य मुद्रणारम्भः। अन्ततश्च मया महाकविश्रीकालिदासप्रणीतं।
“आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम्।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः”॥
इति पद्यं मनसि निधाय पण्डितपरितोषान्वेषणाय प्रवृत्तं। बहवश्च खलु सुप्रसिद्धाः पण्डिताः पठित्वा श्रुत्वा च मदीयमिमं ग्रन्थं सर्वात्मना सन्तुष्टान्तरङ्गाः स्वकीयमप्याशयमभिलिख्य सर्वथा मामनुगृह्य च सद्य एवैतन्मुद्रणाय सप्रणयं समादिशन्। ततश्च सोऽहं बहुद्रव्यसाध्यं मुद्रापणमस्य ग्रन्थस्य निश्चित्य कांश्चिद्रसिकमणीन् पण्डितान् प्रभूंश्च संप्राप्य सबहुमानादरं तैः समुपकृतेन द्रव्येण समापयमस्य मुद्रापणकर्म।
अत्र चभगवतः श्रीरघुनन्दस्य चरितमुत्तरमुपवर्णयितुमुपक्रान्ते ग्रन्थे महर्षिश्रीवाल्मीकिक्षुण्णात्कथावर्त्मनो न मया रेखामात्रमपि व्यतीतं। प्रक्षिप्तत्वेन चाधिकपाठत्वेन च व्याख्यातृभिरव्याख्यातानां केषांचित्सर्गाणां कथांशा अवाल्मीकीयत्वादनैहिकामुष्मिकफलसाधका इत्युपेक्षिताः। तत्तत्समयोचितत्वेन प्रसक्तं तत्तद्रसवर्णनमपि न किल मया नादृतं। किन्तु न तिविस्तरोऽस्य ग्रन्थविस्तरभयात्कृतः। प्रसङ्गानुसारेण हरेर्हरस्य च वर्णनापराणि स्तुतिपराणि च कानि चित्पद्यानि सगद्यानि संयोजितानि। बालानां सुबोधताभङ्गभिया श्लेषादयश्शब्दालङ्काराः क्वाचित्का एव समादृताः। तेषामपि सुबोधतासम्पादनाय मदनुजेन आयुष्मता साम्बशिवशास्त्रिणा कृता काचन टिप्पण्यापि तत्रतत्र निवेशिता। नांशतोऽप्यादृतः कव्यन्तरकृतादरो भुव्यन्तरिक्षे चाप्रसिद्धोरामकाथाविपर्यासः अवाल्मीकीयोयं न किञ्चिदष्यदृष्टं जनयिष्यतीति। न च वैरस्यापादकानि बीभत्सरसादिवर्णनानि प्रदर्शितानि।
एवंविधस्यास्य ग्रन्थस्य मुद्रापणे ये मह्यमुपकृतवन्तस्तेषां कृते सुमहतीं कृतज्ञतां वहामि। अस्य च ग्रन्थस्य मुद्रणविषये शोध्यपत्रशोधनादिद्वारा बहूपकृतवर्तां**“अभिनवभट्टबाणशब्दतर्कालङ्कारविद्याभूषण”** बिरुदभाजां पण्डितमणीनां मत्प्रियसुहृदां रा. च. वि. कृष्णमाचार्यमहोदयानामुपकारस्सर्वथा न मे हृदयादपयास्यति। अस्मिंश्च मुद्रणे स्वीयग्रन्थमुद्रण इह सबहुश्रद्धं प्रचारितकार्याणां श्रीविद्यामुद्राक्षरशालाध्यक्षाणां श्रीमतां नारायणस्वाम्यार्यमहाशयानां सुबहून् धन्यवादान् वितनोमि।
एनं च ग्रन्थं अकृतपुरातननूतनविचारमवलोक्य विरलतमानपितत्र तत्र लभ्यमानान् गुणलेशानास्वाद्य च सन्तोष्टव्यं तत्रभवद्भिर्विद्यावद्भिः न द्वेष्टव्यं च नवीनमिदं किमत्र लभ्येत यत्प्राचीनेषु प्रबन्धेषु न लभ्यत इति। आनेतव्यं च स्मरणपथं कालिदासीयं
** “पुराणमित्येव न साधु सर्वंन चापि काव्यं नवमित्यवद्यम्!**
** सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः”॥**
इति पद्यमिति सविनयाञ्जल्यभ्यर्थये।
रघुवरगुणसङ्गान्नीरसं मेऽपि वाक्यं
सहृदयहृदयानां नूनमाह्लादकं स्यात्।
पतितमशुचिदेशे मेघतोयं नदीनां
मिलति यदि जलेन स्नानयोग्यं सतां हि॥
तिप्पराजपुरग्रामः सहृदयसमुदायवविधेयः
सौम्यफाल्गुनशुक्लतृतीया<MISSING_FIG href="../books_images/U-IMG-1734769040Untitled27.jpg"/> व. कृ. सुब्रह्मण्यः
अथेदानीमेतद्ग्रन्थपठनश्रवणसंतुष्टमानसानां पण्डितवराणामाशया अभिप्रदर्श्यते॥
(१) तिरुविशनल्लूरग्रहारवास्तव्यानां स्तव्यानां महामहोपाध्याय, श्रीरामसुब्रह्मण्यशास्त्रिणामयमाशयः।
श्रीमद्रामायणाख्यो भुवि खलु विदितः शास्त्रसारस्तदीये
खण्डाख्ये ह्युत्तरेस्मिन्गदितबहुविधानर्थसारान् विदित्वा
सुब्रह्मण्यः कवीन्द्रः अतिमतिरमणी चम्पुसंज्ञां तु कृत्वा
तिष्ठत्यस्थास्तु मुद्गायदि भवति तदा मादृशांXXX
(२) तिप्पराजपुरवास्तव्यानां विष्णुपुराभिजनानां गौतमतंत्रपारारपारीणानां पण्डितवरश्रीस्वामिशास्त्रिणां मताभेदं॥
सुब्रह्मण्याख्यकविप्रणीतमतिसरलपदपदार्थचयं।
उत्तरगुणं व्यलोकयमुत्तरचम्पूसमाह्वयं ग्रन्थम्॥१॥
हृद्या वर्णनचातुरी सुमधुरः पोषो रसानां तथा
सालङ्कारतया विभान्ति नितरां गद्यानि पद्यानि च।
पुण्या श्रीरघुनन्दनस्य च कथाप्यन्यस्मिन् दरीदृश्यते
तन्मन्ये महतामयं खलु भवेद्ग्राह्यो रसैकात्मनाम्॥२॥
विष्णुपुराभिजनोयं विस्तरशो वीक्ष्य कृतिमिमां हर्षात्।
श्रीस्वामिशास्त्रिविबुधो दत्ते स्वां सम्मतिं सद्यः॥३॥
** **(३) कुम्भघोणनगरनिवासिनां पण्गानाड्ग्रामाभिजनानां श्री"वेदान्तकेसरि” विरुदभाजां पण्डितमणिश्री गणपतिशास्त्रिणामयमाशयः॥
सुब्रह्मण्याख्यबुधैः सुघटितमुपदर्शितं च तैरेव।
उत्तरचम्पुग्रन्थं ह्यत्साहादशृणवं यथावदहम्॥१॥
ललितः पदसन्दर्भश्चरितं रघुनायकस्य पुण्यतमं।
अर्थाः शब्दाश्चास्मिन्नलंकृता भान्ति सहचमत्कारम्॥२॥
काव्यपथकुतुकिमनसां मन्ये कमनीयमेतदपि काव्यम्।
एवं गणपतिशास्त्री स्वाशयमाविष्करोति निर्व्याजम्॥३॥
(४) चिदम्बरक्षेत्रे विराजमानानां विबुधवरश्रीहरिहरशास्त्रिणां सम्मतिरियम्॥
सुब्रह्मण्यकविप्रवीणभणितः शब्दार्थभूषोज्वलः
श्रीमद्दाशरथेर्गुणौघकलनात्सन्दर्भसारल्यतः।
सारग्राहिगुणाकरैः सहृयैः सम्माननीयो भृशं
ग्रन्थो ह्युत्तरचम्पुनामविलसन् लोकोत्तरः शोभते॥१॥
त्यागराजमखीन्द्राणां शिष्यो हरिहरः सुधीः।
इत्थं सम्मन्य कुतुकात्प्रादात्सम्मतिपत्रिकाम्॥२॥
** **(५) पञ्चनदक्षेत्रवासिनां परमपवित्रबहुविधक्रतुयाजिनां विद्वज्जनमान्यानां ब्रह्मश्री बालकृष्णमखिनां पण्डितमण्डलीपरिवृतानामियं स्वाशप्रदर्शनी पत्रिका॥
सुब्रह्मण्यकवीन्द्रस्य कृतिरेषा सुधाधिका।
सबालकृष्णविदुषां धिनोति सुधियां धियम्॥१॥
** **(६) पञ्चनद (Tiruvadi) क्षेत्रविराजमानगीर्वाणवाणीमहापाठशालाप्रधानोपाध्यायता (Head-Master Sanskrit College) पदमधितिष्ठतां विविधपण्डितमण्डलीविभासितसभानायकत्वमधिगतानां पण्डितमणीनां श्रीमाधवाचार्याणामयमाशयः॥
तर्कालङ्कारशब्दागमगणितमहापण्डितैः साकमेत-
त्सुब्रह्मण्याभिधश्रीकविवरचितं चम्पुरत्नं रसाढ्यं।
श्रुत्वा क्षिप्तावृतित्वात्परिगलितसुविज्ञेयमाभातसंवि-
द्ब्रह्मानन्दाब्धिमग्नो निभृत इह न चोत्थातुमीशोऽस्मि सत्यम्॥१॥
सालङ्कारा सरसवचना साधुचित्तं हरन्ती
रम्यां शय्यामलुलितपदां भूषयन्ती स्वभासा।
रामासङ्गाद्बहुतरगुणा लब्धसद्वृत्तवृत्ति
र्योषेवेयं प्रकृतिसुभगा तोषयत्यन्तरङ्गम्॥२॥
श्रीमत्पञ्चनदस्थसंस्कृतकलाशालाबुधाध्यक्षतां
नीतः श्रीनिधिमाधवार्यविबुधो न्यायाब्धिजैवातृकः।
सुब्रह्मण्यकवीश्वराय विबुधोत्तंसाय मत्सम्मतेः
प्रादां पत्रमिदं चिरं विजयतामाचन्द्रतारं भुवि॥३॥
(७)पञ्चनदक्षेत्रालङ्कारभूतानां गणिताद्यागमनिष्णातधियां सुप्रसिद्धवाक्यपञ्चाङ्गप्रचारणप्रचारितयशसां ब्रह्मश्रीस्वांमिनाथशास्त्रिणामिदमामोदनं॥
तिप्पराजपुरस्थानसुब्रह्मण्यबुधेरिता।
कृतिरुत्तरचम्प्वाख्या समालोकि मयाधुना॥१॥
श्लेषप्रसादसमतासुकुमारतार्थ
व्यक्त्यादिभासुरतनुः कृतिरद्य तोषम्।
धत्ते च तादृशममूल्यमपूर्वमेषा
वल्मीकरप्रप्नुनिवर्यगताध्वनीना॥२॥
इयं कृति कोकिललापशीला गुणान्विता दोषवियुक्तदेहा।
रसातिपोषो ज्वलवर्णसक्ता सा कामिनीषोवार्द्रयतीह चित्तम्॥३॥
श्रीमत्तञ्जापुराभ्यंचितधरणिपतिश्रेणिराजच्छिवाजि
क्ष्मापालान्तःपुरस्त्रीमणिगणितकलाशालिकापण्डितो यः।
धर्मे तर्केसकाव्ये प्रकलितधिषणो ज्योतिषि स्वामिनाथः
सुब्रह्मण्यार्यचम्प्वा व्यतनुत शिरसा श्लाघितं मोदपत्रम्॥४॥
** **(७) त्रिशीर्षनगरप्रतिष्ठितमहाविद्याशालाप्रधानसंस्कृताध्यापकपदमश्नुवाना(Senior Sanskrit Pundit S P. G College Trichinopoly) “अभिनवभट्टबाणशब्दतर्कालङ्कारविद्याभूषण” इति बिरुदभाजां पण्डितप्रकाण्डानां रा-च-वि-कृष्णमाचार्याणां दृढोऽयमभिप्रायः॥
श्रीमता कविमणिना वि-के-सुब्रह्मण्यशास्त्रिमहाशयेन प्रणीतमुत्तरचम्पूनामकं ग्रन्थरत्नं बहुषुस्थलेषु पठ्यमानं कविनैवाहमशृणवं। श्रुते च तस्मिन्महानानन्दः भूयानादरश्च मे सद्य एव समभूत्। नवीनमपि काव्यमिदं प्राचीनच्छायामनुवर्तत इति यत्सत्यमिदं कवेरसाधारणो गुणः। स्वयमेव रसिकमणिणा पण्डितवरेण कविना सरसमधुराभिर्वाग्भिरागुम्यमानमिदं काव्यं भगवतः श्रीरामभद्रस्य उत्तरं चरितमुपश्लोक्यत इति नूनमसाधारिणीं चमत्कारकारितामात्मना वहतीति मन्ये सोऽयं कनकस्य कल्याणो गन्धः। प्राचीनसंप्रदायानुसारेण कविना तत्रतत्रोपयुक्ताः श्लेषादयः कवेरस्य कादम्बर्यादिषु बहुषु प्रौढग्रन्थेषु प्रशंसनीयं परिशीलनमक्षरमावेदयन्ति। किं बहुना। साम्प्रतं तत्तत्कविभिरारचितानामाधुनिकानां साहित्यग्रन्थानां सर्वात्मना समाटीकते प्रथमां कोटिमिदं काव्यमिति अस्ति मे द्रढीयानभिप्रायः॥
रा-च-वि- कृष्णमाचार्यः
** **(९) मद्रपुरसंस्थानस्थितसकलसंस्कृतविद्याशालापरिशोधकपदमधिष्ठितानां विदितवेदितव्यानां विद्यानिधिश्रीकृष्णमाचार्यमहोदयानामयमभिप्रायः॥
“I went through portions of this Manuscript of “Utharachampu" by Brahmasree, V. K. Subrahmania Sastriar of Tipparajapuram. His style is fairly good and some of the churnikas are smoothflowing. The production shows not only his powers of Sanskrit Composition but also his intimate acquintance with standard authors like Bana and Magha.
Purasawalkam. } (Sd.) R. KRISHNAMACHARIAR M.A.,
9-11-1999
Sub-assistant Inspector of
Sanskrit Schools.
(१०) मद्रपुरप्रतिष्ठापितसंस्कृतमहाविद्यापाठशालाप्रधानपण्डितत्वमयतां विदितवेदितव्यानां पण्डितमणिश्रीकुप्पुस्वामिशास्त्रिणामामोदनम्॥
THE MADRAS SANSKRIT COLLEGE,
MYLAPORE.
8th November 1909.
I have had the pleasure of hearing many portions of the “Uthararamayana champu” read to me by the Author himself Brahma Sree Subrahmania Sastrigal of Tipparajapuram. I am glad to say that the work speaks much in favour of the poetical talent and litarary taste of the Author. I think it would fairly stand the test of Sound criticism and I hope it would not fail to occupy, when published, a respectable place in the list of Sanskrit Champus.
(Sd), S. KUPPUSAMI SASTRIAL, M.A.
Principal,
Sanskrit College, Mylapore.
(११) मधुरानगरविराजमानानां विदितवेदितव्यानां रसिकशिरोरत्नायमानानां श्रीमतां सुब्रह्मण्यार्यमहोदयानां नटेशार्यमहाशयानां च प्रमोदसूचनं पत्रमिदम्॥
Brahma Sree Subrahmania Sastrigal belongs to Tipparaja puram in the Tanjore District. His poetical talent is unique, and some of his works are highly praiseworthy, Among them, “Uthararamayana champu” deserves a special appriciationhaving been composed in a style indicative of his great scholarship, free from pedantry and it owns characteristics peculia to the “Bhoja champu” Being desired by many appreciative critics, the Gentleman has resolved to print and publish the “Uthararamayana champu” and if it is accomplished the publication will serve as a valuable addition to the Sanskrit library, * *
* * * *
(Sd), N, Natesaiyer, (Sd), P, S, Subramania aiyar,
**एतग्रन्थे तत्रतत्र निवेशनीयाः
प्रमादादनिवेशिताश्च केचन टिप्पण्यंशा इह निवेश्यन्ते। **
_____
श्लोकः १७५॥ “प्रभास” इति वरुणमन्त्रिणो नाम॥
श्लोकः २२६॥ अमृतेति॥ अमृतात्मतां मोक्षस्वरूपत्वं सुधातनुत्वञ्च। पादसक्तानां चरणसेविनां किरणसेविनां च। तापाः आध्यात्मिकादयः तापः आतपादिजन्यश्च। सद्भिः साधुभिः नक्षत्रैश्च परिवृतः। सुवृत्तः शोभनचरितः सुष्ठु वर्तुलाकारश्च। अतएव चन्द्र इवाभासि॥
श्लोकः॥ २३६॥ श्रुत्वाऽमुमिति “विप्रर्षिः” पुलस्त्यइत्यर्थः “रावणग्रहणं तत्तु वायुग्रहणसन्निभं। ततः पुलस्यः शुश्राव कथितं दिवि दैवतैः”॥
इति रामायणोक्तत्वात्॥
गद्यं ३४३॥ अवापितेति। “नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः"॥ (इतिनिमिः) बाढमित्येव विबुधा निमेश्चेतस्तदाब्रुवन्”। नेत्रेषु सर्वभूतानां वायुभूतश्चरिष्यसि। त्वत्कृते च निमिष्यन्ति चक्षूंषि पृथिवीपते"॥इत्युत्तरश्रीरामायणे सप्तपञ्चाशे सर्गे॥
श्लोकः॥२१७॥ “सर्वसहावस्त्रहरो मुनीन्द्रः। समुद्रपायी ऋषिश्रेष्ठःअगस्त्यइत्यर्थः॥
<MISSING_FIG href="../books_images/U-IMG-1735522801Untitled28.jpg"/>
॥ॐ॥
॥श्रीरामचन्द्रो विजयते तराम्॥
अथ श्रीसुब्रह्मण्याख्यकविवरप्रणीतः
॥श्रीमदूत्तरचम्पूग्रन्थः॥
<MISSING_FIG href="../books_images/U-IMG-1735523067Untitled29.jpg"/>
वैदेहीदाशरथ्योः परिणयसमये रत्नवेदीप्रविष्टां
पार्श्वस्थां भूसुतायाः प्रतिकृतिममलां पश्यतो भ्रान्तवृत्तेः।
अत्रागच्छ त्वमेतं कुरु विधिमिति तां वेदिमुद्दिश्य वक्तु-
श्श्रुत्वा वाक्यं वसिष्ठाद्भवतु महिभुवो मन्दह्रासश्श्रियै नः॥१॥
त्रैलोक्याम्बुजिनीमतङ्गजवरं हत्वा रणे रावणं
सानन्दं त्रिदिवालयैव सभयं दोषाचराणाङ्गणैः।
साश्चर्यञ्च विभीषणेन मरुतस्सप्रश्रयं सूनुना
सस्नेहं प्लवगेश्वरेण तनुयाद्रामस्स दृष्टश्शिवम्॥२॥
यन्मूर्तिद्वितयं दधद्धरिहराभिख्योज्वलं मायिकं
मूढानामधिकापकृष्टधिषणोत्पादावहं कर्मभिः।
प्राज्ञानामपवर्गदं पुरुषइत्याम्नायमौलौ श्रुतं
तद्वः पातु निरस्तदोषगुणकं किञ्चिन्महस्सर्वगम्॥३॥
हृदि वसति यो यं ब्रह्माहुश्च येन विना जग-
च्चलनरहितं यस्मै लोको विधाय नमस्सुखी।
भवति च जगद्यस्माद्यस्याप्यबोधवशाद्भव
स्सुखमनुपमं यस्मिन् ज्ञाते सनोऽस्तु हरिर्मुदे॥४॥
टिप्पणी॥ अभिवाद्य रघूत्तंसं ससाराब्जनिशाकग्म्।
टिप्पण्युत्तरचम्प्वाख्यग्रन्थस्य क्रियते लघुः॥
वैदेहीति॥ इह खलु सीतारूपिण्याश्श्रीदेव्या मन्दहासस्य श्रीकरत्वेन ग्रन्थारम्भे प्राथैततमा कवेः प्रारिप्सितग्रन्थस्याविघ्नेन परिसमाप्तिः पठितृश्रोत्रादीनां सर्वाभीष्टसिद्धिश्च भवतइति प्रतीयते॥
मन्देनापि यदीयसन्निधिजुषा शास्त्रज्ञता प्राप्यते
शिष्या यस्य च विद्यया बुधततेरानन्दसन्दायिनः।
योऽन्तेवासिजनस्य वीक्ष्य विजयं मोमुद्यते सादरं
तं श्रीस्वामिबुधोत्तमं गुरुमणिंमूर्ध्ना नमाम्यन्वहम्॥५॥
येन श्रीः स्वयमेव याति पुरुषं निष्कल्मषा शेमुषी
बाभाति प्रथमाननैजमहिमा वाणी प्रसीदत्यलम्।
यत्साहाय्यमुपेयुषां विजयिता सर्वत्र चाव्याहता
सख्यं तत्सह साधुभिर्दृढतरं बोभोतु नश्श्रेयसे॥६॥
वन्द्या सत्कविविततिर्निन्द्या न मया तु कुकवयो लोके।
किं द्यावाभूमितले भिन्द्यान्निन्दाऽसतां दुःखम्॥७॥
वाणि त्वां विनताघमोषणचणां विश्वस्य1विश्वेष्टदां
श्रीरामस्य कथां प्रवक्तुमयमस्म्यारब्धसत्साहसः।
तन्मां देवि विभातपङ्कजवनीदम्भप्रियम्भावुकैः
पश्यन्ती नयनाञ्चलैर्मम मुखे नित्यं प्रसन्ना वसेः॥८॥
सल्लीलयेक्षणानां हृल्लीनं मे निवार्य चाज्ञानम्।
वल्ली विधुतरुनिलयामल्लीसुमतुल्यवाचमा2धेयात्॥९॥
जन्मी यदीयचरणस्मरणाद्गिराऽल
ङ्कर्मीणवाग्जयति संसदि भूपतीनाम्।
वर्मीभवेद्भ्रमशराहतिभाजनस्य
वल्मीकजन्ममुनिरद्य मुदे ममासौ॥१०॥
श्रीकालिदासभवभूतिमुखान्कवीन्द्रान्
वन्दे महायशस उत्तमकाव्यकर्तृृन्।
येषां कृतीस्समवलोकयता यदिस्या-
ल्लोकः पुनर्न भविता कविताभिलाषी॥११॥
कर्तुं यतेऽहमपि रामकथाभिलेखा-
न्मल्लेखिनीमतितरां कृतधीः कृतार्थां।
सन्तः प्रसन्नहृदयादृशमर्पयन्ता
मस्मिन्नलज्जरचितेऽपि मम प्रबन्धे॥१२॥
रघुवरचरितस्यालापतस्स्वीयजिह्वां
रचयितुमतिधन्यां शून्यमानो यतेऽहं।
सफलयतु मदीयं तीव्रमुद्योगमेतं
दशरथसुकृतानामेकरूपं फलं सः॥१३॥
कलितविनतिः पित्रे कृष्णाभिधाय च सूरये
धृतगुरुपदाम्भोजद्वन्दो हृदन्तरसद्मनि।
कलयति कविस्सुब्रह्मण्यो विलेखितुमुत्तरां
रघुवरकथां गद्यैः पद्यैश्च चम्पुविधात्मना॥१४॥
गद्यं हि यद्यपि बुधाशयमोदकं स्या
त्पद्यञ्च तद्द्वयमिदं मिलितं यदीह।
कुर्यात्सतामतितरां हृदयं प्रहृष्टं
सह्यात्मजोद्धृतजलं सितयेव युक्तम्॥१५॥
मृद्बुद्धेः कवनं हि मे प्रतरणं नावं विना वारिधे-
र्ग्रन्थैस्सत्कविनिर्मितैस्सह तु तद्भूयः प्रहासास्पदम्।
तत्रापि प्रभुणा3 विदर्भविभुना भोजेन यो निर्मितः
श्रीमल्लक्ष्मणपण्डितेन च पुनस्तं पूरयाम्यत्रपः॥१६॥
तथापि काकुत्स्थपदाम्बुजद्वयं
विधाय चित्ते विलिखामि वस्तु चेत्।
विलोकयेद्वर्धितया दयारसै-
र्वलीमुखाधीशसुहृद्दृशा प्रभुः॥१७॥
हत्वा राक्षसनायकं रणभुवि क्षिप्त्वा त्रिलोकीशुचं
कृत्वा पङ्क्तिशिरःपदे तदनुजंनत्वाऽब्जभृशङ्करौ।
धृत्वाऽऽज्ञां शिरसा पितुर्निजपुरं गत्वा सुहृद्भिस्समं
भृत्वा पौरनुतीर्भुवः पतिरभूद्दत्वाऽधिकं राघवः॥१८॥
अवाप्तराज्यं रघुवंशरत्नं निशाचराणां विलयेन तुष्टाः।
अगस्त्यमुख्या मुनिसार्वभौमाः प्रतस्थिरे हन्त दिदृक्षमाणाः॥
गत्वा ते रघुकुलराजराजधानीं द्वारस्थैस्सभयमथ प्रवेश्यमानाः।
पूजाभीरघुकुलकेतुना कृत्याभिस्सन्तुष्टास्सद उपजग्मुरस्य विप्राः॥
अथ ससंभ्रमं निर्वर्तितसपर्याणां पर्याप्तप्रभावाणां पादयोः प्रणिपत्य कृत्यपटुभृत्यगणसमास्तीर्णब्रसीगणे सभाङ्गणे यथेष्टमुपविष्टानामतिहृष्टानां मुनिवरिष्ठानामनुज्ञया स्वयमप्युपविष्टश्शिष्टजनकष्टहरणनिविष्टश्शिरसि निवेशिताञ्जलिर्दाशरथिः कुशलानुयोगानन्तरमित्थमकथयत्॥२१॥
अद्यैव राघवकुले महिता जनिर्मे
पुण्यावनीरूह उदग्रफलश्च जातः।
देवा अनुग्रहपराः पितरश्च सर्वे
यन्मे गृहं भगवतां पदधूलिचिह्नम्॥२२॥
म्रियमाणलब्धममृतं महादरिद्रेण चाप्तमतुलनिधिम्।
मन्ये भवत्समागममहितजयं कान्दिशीकसैन्यस्य॥२३॥
अलभ्यलाभोद्भवदुर्निवारमहामुदम्भोनिधिमग्नमग्नम्।
समीहते मे हृदयं मुनीन्द्रा भवत्समादेशतरीं तरीतुम्॥२४॥
** **इति प्रतिश्रुतिमतीं श्रुतिमधुराममृतधुराधरां धराधुरावहस्य वाचं निशम्य मुनयो मुदितान्तःकरणसीमानो दुर्विज्ञेयभूमानो भूमावाविर्भूतस्य चिरन्तनपुरुषस्य स्तुतिरूपं वचनमिदमवोचन्त॥२५॥
काकुत्स्थ कोऽयं विनयोऽस्मदग्रे भूमीमिमां रक्षसि लोकनाथः।
प्राप्ता वयन्त्वद्य कृतार्थभावं जातो यदस्मन्नयनातिथिस्त्वम्॥२६॥
दिष्ट्या राम त्रिभुवनजुषां कारणा4कारिणस्ते
प्राप्ता नाशं दशमुखमुखा धर्मबिक्षोभदक्षाः।
येन प्राप्तारघुकुलविभो पारिकाङ्क्षिप्रकृष्टा-
वीताशङ्कं मखशतविधिप्राप्यमानन्दमग्य्रम्॥२७॥
तथा तेनास्माकं मनसि न सुखं यद्दशमुखः
परे वा क्रव्यादा जगदहितसक्ताः क्षगभगुः।
यथा रक्षश्क्षेष्ठश्शतमखजयी क्रूरचरितो
महामायादक्षोऽप्यनशदिति वाक्यश्रवणतः॥२८॥
** **इति रावणवधमप्यनादृत्य रावणिवधमेव प्रशंसतां भृशंसतां मुनि महतां निशम्य मोदकोलाहलमेदुरां गिरं रघुपतिरपि विस्मयदस्युसमपहृत मानसधनस्तपोधनगणान् साञ्जलिबन्धमिदमवादीत्॥२९॥
भो भोस्तपोधना महद्धिनामैतदाश्चर्यस्थानम्॥३०॥
तथाहि। पङ्त्यास्यं कुम्भकर्णं प्रघसखरमुखांश्चापि रक्षोनिकायां-
स्त्यक्त्वा बालं तनूजं रजनिचरपतेः किं भवन्तः स्तुवन्ति।
किं वीर्यं कः प्रभावः कथमपि च बलं कीदृशी तस्य माया
का बुद्धिः कि तपोवा कथमिव जनितस्सर्वमाख्यातमह्यम्॥
** **इत्थं प्रार्थयमानमधिमकुटतटविलुठदञ्जलिकञ्जकुट्मलं कुट्मली कृतवैरियशसं कञ्जविलोचनं कलशसम्भव इत्थमभाणीत्॥३२॥
नानटीति कुतुकं हृदयान्ते तां कथां कथयितुं सरसां ते।
सावधानहृदयश्श्रृणु राजन्वर्णयामि परमादितएव॥३३॥
सरसिजभवजन्मा साधुभिः स्तूयमान-
स्त्रिभुवनततकीर्तिस्रेतया तुल्यकान्तिः।
शमविमलमनोऽव्जस्थापिताब्जाक्षहंस-
स्सकलमुनिवरोऽभूद्राम नाम्ना पुलस्त्यः॥३४॥
कनकगिरिसमीपे तातपीति स्म सोऽयं
तदुटजमतिहृद्यं नित्यसर्वर्तुकृत्यम्।
सुरदनुजनृपाणां कन्यकाः प्राप्य नित्यं
मुनिनियमविघातं साधु चक्रुर्विहारैः॥३५॥
तदागमं वीक्ष्य दिनेदिनेऽसौ तपोविधिं स्वस्य च भज्यमानम्
क्रुधा पराभूतमना मनाक्स मुनिस्तु शापं दददेऽथ ताभ्यः॥३६॥
इतः परं योटजमेत्य कन्या मद्दृष्टिमार्गे निपतेदधन्या।
तपोविघातोद्भवमन्युना मे सद्योभवेत्सा भृतगर्भमूर्तिः॥३७॥
** **एवं कृतमनस्तापं शापमाकर्ण्य ससम्भ्रममाश्रितान्यारामासु कन्यासु कानने तत्रैव तपः कुर्वाणस्य निर्वाणस्पन्दिमनसस्तृणबिन्दुसमाख्यस्य राजर्षेस्तनया विनयावनताङ्ग्यनङ्गविजयपताकेव रम्यतरमूर्तिरार्तिमती सखी गवेषणेनानभिज्ञतया मुनिशापस्य तदेवाश्रमपदमासदत्॥३८॥
पुलस्त्यस्तदानीं समाप्य स्वजप्यं
समागात् स्ववासाद्बहिश्शुद्धचेताः।
तदा तां चरन्तीं महाराजपुत्री-
मदर्शत्तमेषाऽप्यथो निर्विकारा॥३९॥
अन्विष्य तत्र च सखीरथ राजकन्या
यान्ती स्ववासभुवमद्भुतगात्रयष्टिः।
हेतुं विना मनसिजस्य गता वशं सा
स्वं देहमैक्षत मनोहरगर्भचिह्नम्॥४०॥
** **अचिन्तयञ्चैवमाधिभूयिष्ठमानसा॥
विनापि हेतुं किमिवाद्य चित्तजः प्रहारपात्रं प्रकरोति मेङ्गऽकम्।
उपैति चालस्य महो तनुं च मे सुधासवर्णत्वमिह प्रदृश्यते॥४१॥
तनुरियमहो पुष्टिं प्राप्ता तथापि सुदुर्बला
कुचयुगमिदं पीनं स्रस्तं भृशासितचूचुकम्।
अहह मद्दतीं कष्टावस्थां गताऽस्मिविधेर्वशा-
त्किमिह बहुना गर्भोऽकस्मात्तनौ मम दृश्यते॥४२॥
कुप्येत्पिता यदि मम प्रवदानि किं वा
श्रुत्वाऽपि वा मम गिरं स कथं प्रतीयात्।
चिन्तागुणग्रथितचित्ततयेतिमन्दं
यान्ती स्वतातनिकटं सभया जगाम॥४३॥
तां विलोक्य शुभगर्भलक्षणां वेपमानतनुकाञ्च साध्वसात्।
लज्जया नतमुखीञ्च भूमिपो ध्यानमीलितविलोचनोऽभवत्॥४४॥
विज्ञाय वृत्तं विमना महीन्द्रो मुनीन्द्रमासाद्य च सान्त्वयित्वा।
पत्नीमथास्याभ्यकरोत्स्वकन्यां धन्यां च सोऽमूंस्वपरिग्रहेण॥४५॥
तयोस्ततोऽभूत्तनयस्तु विश्रवा स्सुतां भरद्वाजमुनेरयं ततः।
उदुह्य कन्यामथ देववर्णिनीं सुतं सुतेजस्कमजीजनत्ततः॥४६॥
** **अनन्तरं श्रवणसुखदायिश्रवणस्सवैश्रवणस्तपः परितुष्टास्त्रिविष्टप पतिमुखामरपरिवृताच्चतुर्मुखाद्धनपतित्वं दिशापतित्वञ्च सह पुष्पकेण प्रपन्नोऽभिपन्नो मुदा, विनुन्नो निर्लयनिलयनिवासकौतुकेन पितुराज्ञया उषिता पसृतपूर्वशर्वरीचरां चराचररमणीयतया वरामोदकारिणीं समपहृतद्रष्टृजना तङ्कां लङ्कामासाद्य दिनेदिने विरचितसन्मानो विमानेन तेनैव पितसमीप गतागतमाचरन् सुखमासामास॥४७॥
एतदाकर्ण्य विस्मेरचेता रामो “भगवन् किं वैश्रवणतपूर्वमपि राक्षसास्समभवन्, मया खलु पौलस्त्याएव राक्षसा इति प्रतीयते, विदलयतु मे संशयं विस्तरशः पूर्वतरराक्षसवृत्तान्तवर्णनेन भगवान्” इति सप्रश्रयम-श्रावयन्मैत्रावरुणिम्॥४८॥
महीन्द्रस्योक्तिमाकर्ण्य मुनीद्रो मोचितस्मितः।
आशराणां कथां सर्वामादितो वक्तुमादृतः॥४९॥
आकर्णयार्कान्वयरत्नसादरं हेतिप्रहेती दनुजौ बभूवतुः।
तत्र प्रहेतिस्सति वर्त्मनि स्थितो हेतिस्तु लोकत्रयबाधकोऽभवत्॥
स च देवदानवयक्षराक्षसकिन्नरकिंपुरुषादिसुखासहिष्णुर्विष्णुभक्तविद्वेषणपरः पर्यटंस्त्रिलोकीं कालस्य भगिनीं निजरूपसञ्जनितसकललोकभयां भयां नाम भार्यां संप्राप्य तस्यामहृद्यविद्युत्केशं विद्युत्केशं नामतनयं परित्यक्तनयं कौशिक5इव कादम्बिन्यामशनिं शनिमिव च छायायां जगच्चक्षु6र्जगदहितायोत्पादयामास॥५१॥
तेन च तृणीकृतसकलनभस्सदा सदामदोत्कटा सालकटङ्कटा नाम सन्ध्यासुता परिणीता चापन्नसत्वा प्राप्तप्रसवसमया च समया कन्दरं सुन्दरे मन्दरे पर्वते जगदनर्थसार्थमिव मूर्त्तं सुकेशनामानमर्भकं निर्भयमेव प्रसूय प्रसूनशरनिर्भिन्नहृदया हृदयदयितसङ्गममभिलषन्ती विषन्तीव्रमिव सुतसमा गमं मन्वाना तन्वा निजायाश्शिशुं तं रुदन्तं विमोच्य विद्युत्केशसकाशमवाप॥५२॥
तदनन्तरम्।
वामाङ्कस्थितभूधरेन्द्रतनयावाहालवालिङ्गितः
कैलासप्रतिमल्लविग्रहमहाभद्रस्य7पृष्ठे स्थितः।
गच्छन् पुष्करवर्त्मना गिरितटे क्रोशन्तमेतं शिशुं
कारुण्यार्द्रमनास्समीक्ष्य दयितावाक्येन जातश्शिवः॥५३॥
अनुग्रहेणाथ पुरामराते र्गातुर्वयो8ऽसौ चिरजीवितां च।
अवाप, शम्भोर्जलदोपमस्य प्रसीदतो नो सदसद्विचिन्ता॥५४॥
** **तेनापि9ग्रामणीनाम्नो गन्धर्वस्य सुतायां समुत्पादिता माल्यवत्सुमालिमालिनामानो मानोन्नता नतारिशिरसस्तपोबलपरितुष्टात्पद्मविष्टराद्दुर्जयत्वादिकान् वरान्प्राप्य प्राप्याप्राप्यविवेकशून्या मान्यानपि वितीर्णदैन्यान्विदधाना यातुधाना मालुधाना इव भेकानेकान्ततस्समाक्रामन्तस्सुरान्वरावासहेतोर्विश्वकर्मणो विश्वकर्मणाऽङ्कितां त्रिकूटालङ्कारभूतां लङ्कामासेदुः॥५५॥
यत्सालमूर्धनिलयो गण आशराणां
मन्दाकिनी10 पयसि तीव्रतरं निपत्य।
कुर्वंश्चकेलिमधिकां सुरवामनेत्रा-
स्स्नानागताः परवशा विदधुर्भयेन॥५६॥
यद्गोपुराग्रगतशीतकरोपलानां तत्रागतार्कगतमाधववामनेत्रम्।
दृष्ट्वा द्रवत्वमयतां पृषतैस्सुशीतैश्छन्नो रविर्वितपते नहि दक्षिणाध्वा॥
** **ततश्च सन्मानसकृतशल्यानां माल्यवदादीनां दुष्कर्मविष्कम्भितमहारम्भास्सम्भावितमन्यवः11पुरस्कृतशतमन्यवस्सर्वेपि बर्हिर्मुखाश्चतुर्मुखेन समं समस्तभक्तशङ्करस्य शङ्करस्य चरणयोः प्रणिपत्य कृत्यविदां वरिष्ठा विज्ञाप्य स्वागमनप्रयोजनं जनहितकृतां वरेण हरेण च “मयैव वर्धितं मथैव न हन्तव्यमिदं निशाचरकुलं तद्गच्छत गरुडकेतन” मिति समादिष्टाश्शिष्टापदम्भोधिकुम्भोद्भवस्य पद्मनाभस्य नाभिसरसीरुहरससरसीकृततरपयसं पयसां निधिमासेदः॥५८॥
तत्र च श्वासमरुत्प्रवेशनिर्गमनिरर्गलसंप्राप्तशरीरपोषतदभावतया मुहुरुत्क्षेपावक्षेपसञ्जनिततोषे नमनपरदुरितमोषेशेषे शयानं, जङ्गममिव जगदानन्दं, प्राणजुष्टमिव प्राणिजातसौख्यजातं, सदेहमिव साधुजनमनोरथं, सशरीर मिवसकललोकपुण्यनिकरं, प्रत्यक्षयोग्यमिव प्रपदनजुषां भाग्यं’ कलितकायमिव कमलवासिनीनयनसुकृतनिकायं, मूर्तमिव मुनिजननियमफलं, सेतुं भवाम्बुधेः, केतुं त्रिभुवनस्य, पातुं नरकेषु पातुकान् प्रवृत्तं, स्तोतुं मुनिभिरप्यशक्यं, आदर्श12माश्रितविषादस्य, आस्पदं दयायाः, आलयं प्रभवस्य आश्रयं प्रेम्णां, आरामं गुणानां, आकरं सहसां, दिवाकरं दिविषदघान्धतमसस्य, निशाकरं नीरधिकन्याहृदयकुमुदस्य रक्षाकरं रक्ष मामिति वदतां, प्रलयकरं प्रथितामरविद्विषां रमणीयतमं त्रिलोक्यां, गमनीयतमं योगिबृन्दस्य, स्पृहणीयतमं स्वयमेव लोचनानां, कमनीयतमं कलुषेतरचि-'
त्तवृत्तीनां, भाग्यं कविकुलगिरां, योग्यं योग्यन्तःकरणचिन्तायाः, सोपानमार्गं मोक्षमहाप्रासादस्य, प्रपाप्रदेशं भवमरुप्रचारतान्तजनस्य, गतिं विपापानां, पतिं सकलसरसिजभवाण्डानां, ततिं सौन्दर्याणां, पात्रं मनोविहारस्य, दात्रं दुरुच्छेदमायामहीरुहस्य, पारं तत्व^(१) महोदधेः, सारं सकलकृतकेतरवचसां निर्मितमिव नीलोत्पलैः, निबद्धमिव निरहङ्कारचेतोगुणेन, निलीनमिव वारिधौ, लिप्तमिव मरकतद्रवेण, रूपान्तरमिव महेन्द्रनीलशैलस्य, स्थानान्तरमिव नीलाम्बुजकदम्बकस्य, स्थलान्तरमिव तमालकुमुमनिकरस्य, निवेशान्तरमिव शतपर्विकावनस्य^(२), निवासान्तरमिव सतोयतोयधरबृन्दस्य, निधानं भाग्यस्य, विधानं विनतजनसम्पदां, प्रधानं मूर्तित्रयस्य, पिधानं दीनजनविपदां शेवधिं दयायाः, तोयधिं सकललोकनमस्कृतितरङ्गिणीनां, प्रतीतं ज्ञानिभिः, अतीतं गुणत्रयीं, शतक्रतुमिव सहस्रविलोचनदर्शनीयं^(३), अग्निमिवाश्रिताशनकरणबद्धादरं, वैवस्वतमिव सुकृतेतरवचनश्रवं, निर्ऋतिमिव सकलपुण्यजनसमाश्रयं, वरुणमिव, जलाशयनिवासपरं, वायुमिव स्पर्शनसमुपजनितमुदं, कुबेरमिव उत्तराशासंपूरकं, ईशानमिव सर्वमङ्गलालिङ्गितं, सूर्यमिव स्वालोकसमुपशमिततमसं, चन्द्रमिव
________________________________________________________________
१. तत्वानि पृथिव्यादीनि पञ्चविंशति, तान्यतीय स्थितमित्यर्थः॥
२. दूर्वातु शतःपर्विका इत्यमरः॥
३. सहस्रेति,। सहस्रं लोचनानि यस्य तं, अतएव दर्शनीयं, अन्यत्र, अतिसुन्दरत्वात्सहस्रेण लोचनैर्दर्शनीयं। आश्रितेति। आश्रितस्य वस्तुनः, अशनकरणे भोजनेबद्धादरं; अन्यत्र, आश्रितानामशनकरणे (उपलक्षणमिदं) अशनादियोगक्षेमकरणेबद्धादरं। सुकृतेति। सुकृतेतरेषां पापिनां वचनानिशृणोतीति तादृशं, अन्यत्र, शोभनेषुकृतवचनेषु वेदवचस्सुश्रूयतइतितादृशं। सकलेति। पुण्यजनाः राक्षसाः, पुण्यकृतो जनाश्च। जलेति। जलाशया जलाधारस्थानानि तत्र निवासपरं। अन्यत्र, जलाशयस्समुद्रः। स्पर्शनेति। स्पर्शनेन स्पर्शाख्यविशेषगुणेन, अन्यत्र, दानेन, समुपजनिता मुत्, प्रीतिर्येन तं। उत्तरेति। उत्तराशां, उत्तरदिशं सम्पूरयतीति, अन्यत्र उत्तराशाः- श्रेष्टान्यभीप्सितानि सम्पूरयतीति तादृशं। सर्वेति। सर्वमङ्गलया पार्वत्या आलिङ्गितं, अन्यत्र, सर्वैरपि मङ्गव्ठैः (आश्रितेभ्यो देयैः) आलिङ्गितं विशिष्ठमिति यावत्। स्वेति। स्वालोकेन शोभनया कान्त्या समुपशमितं नाशितं तमः तिमिर येन तं। अन्यत्र, स्वालोकेन स्ववीक्षणेन समृपशितं तमः अविद्या येन तं।
सन्मार्गानुधावनप्रियं, लोहिताङ्गमिव बुधाग्रगण्यं, बुधमिव सौम्याभिख्यं, गुरुमिव त्रिदशाविहीनं, शुक्रपिव देवयानार्पितसुखं, शनैश्चरमिव सूर्यादरपात्रभूतं, राहुमिवोपकण्ठविलोलाजितचक्रं, केतुमिवानुत्तमाङ्गं, आकाशमिव स्वगुणसफलीकृतजनश्रवसं, त्रिविष्टपमिवप्राप्तामृतपरिसेवितं, सगरमिव रत्नाकरजनकनिजप्रभावं, भगीरथमिव गीर्वाणसरस्वतीजातस्तुतिं, ब्रह्माणमिव सत्यालयं, प्रयागक्षेत्रदेशमिव त्रिभुवनरमणीयं सुमेरुमिवानन्तमणिकुलप्रभाभासितं, सानुमत्प्रदेशमिव सुरभिकुसुमावभासितवनमालाधारिणं, कृष्ण-
_________________________________________________________________
“जायमानं हि पुरुषं यं पश्येन्मधुसूदनः। सात्विकस्म तु विज्ञेयस्स वै मोक्षार्थचिन्तक” इत्युक्तेः। सदिति। सन्मार्गः आकाशः, अन्यत्र साधुमार्गः, तत्रानुधावनप्रियं। बुधेति। बुधाग्रे बधात्पूर्वंगण्यं, गणनायोग्यं। नवग्रहगणनाप्रस्तावे कुजानन्तरमेवबुधो गण्यते। अन्यत्र विद्वच्छ्रेष्टं। सौम्येति। सौम्यइति अभिख्यानाम, यस्य तं, अन्यत्र, सौम्या प्रसन्ना अभिख्या शोभा यस्य तं। त्रीति। त्रिदशैर्देवैरविद्दीनं, समासेवितमित्यर्थः। अन्यत्र तिसृभिर्दशाभिर्बाल्ययौवनजरात्मिकाभिर्विहीनं। देवेति। देवयानायै स्वपुण्यै, अर्पितं दत्तं मुखं येन तं। अन्यत्र देवयानेभ्यः (अर्शआद्यवा) मार्गविशेषविशिष्टेभ्यः, अर्पितं - दत्तं, सुखं अपुनर्निवृत्तिरूप आनन्दः येन- तं। सूर्यादरेति। सुर्यादरस्य सूर्यप्रेम्णः (पुत्रत्वात्, पात्रभूतं। अन्यत्र, सूरीणां विदुषां ब्रह्मज्ञानिनामिति यावत्; आदस्य भक्त्यपरपर्यायस्य पात्रभूतं। उपेति। उपकण्ठं - कण्ठे (विभक्त्यर्थेऽव्ययीभावः) विलोलं, अजितस्य - विष्णोश्चक्रंयस्य तं। अन्यत्र उपकण्ठे समीपे, विलोलं, अजितं, न कुत्रापि पराजितं चक्रं यस्य तं अनुत्तमेति। अविद्यमानं, उत्तमाङ्गं-शिरः, यस्य तं। अन्यत्र अनुत्तमान्यतिश्रेष्ठान्यङ्गानि यस्य तं। स्वेति। स्वगुणः-शब्दः, शब्दगुणकमाकाशमितिगौतमीयोक्तिः तेन सफलीकृतानि श्रवांसि कर्णा येन तं (कर्णानां शब्दैकग्राहकत्वात्।) अन्यत्र।स्वगुणै रामायणादिगतेःसपलीकृतश्रवसमिति पूर्ववत् कर्णप्राप्तेर्भगवद्गुणाकर्णनैकफलात्वात्; प्राप्तेति। प्राप्तामृतैर्देवैरिति यावत्, अन्यत्र, मृक्तैः परिसेवितरत्नेति। रत्नाकरः समुद्रः, तस्य जनकः उत्पादकः निजप्रभावः यस्य तं। अन्यत्र, रत्नाकरः श्रेष्ठवस्तुपुञ्जःतज्जनकनिजप्रभावं। गीर्वाणेति। गीर्वाणसरस्वती गङ्गा, तथा तदानयनेनेत्यर्थः। अन्यत्र, गीर्वाणानां देवानां सरस्वतीभिर्वाग्भिर्जातस्तुतिं। सत्येति। सत्यलोकनिवासं। अन्यत्र, सत्यस्य आलयं। त्रिभुवनेति। त्रिभिर्भुवनैः (गङ्गायमुनासरस्वतीनां) जलैः रमणीयं। अन्यत्र, लोकत्रयमुन्दरं। अनन्तेति। अनन्तानां मणिः कुलानां प्रभाभिर्भासितं रत्नसानुत्वान्मेरोः। अन्यत्र। अनन्तस्य शेषस्य मणिकुलानां शिरोरत्नसमूहानां प्रभाभिर्भासितं शेषफणानां छत्रायमाणत्वाद्भगवतः। सुरभीति। वतमा-
पक्षनिशाकालमिव तारकाभिख्याशोभनं, कैलासमिव राजराजाञ्चितपादं, हिमवन्तमिव शिवाभिजननकरं, सञ्चारिण्येव काञ्चनलतया, स्थिरीभूतयेव विद्युता, पक्षान्तकालवृद्ध्येव लावण्यरत्नाकरस्य, शुक्त्येव मुक्ताश्रितया, सरम्येव पद्माभिख्याविलसितया, विहङ्ग्येव विष्णुपदा- सेवनतत्परया, पद्मया परिसेवितं सविधस्थितेन, बद्धाञ्जलिपुटेन, कायकान्तिपरिहसितकाञ्चनशैलेन, मण्डनेन दुग्धोदस्य, खण्डनेन विद्विषां पिण्डीभूतेनेव दैतेयमहाविपज्जालकेन, वैनतेयेन विनीताकारेण विहितार्हणं, सकललोकवन्दनीयतादशार्हं, दाशार्हं दिविषदः प्रणिषत्य सत्यमेवमस्ताविषुः॥५९॥
श्रियमिह कुर्यादधिकां श्रितजनदुःखौधतिमिरहरणचणम्।
श्रीशेषभोगदृश्यं श्रीपतिनामाङ्कितं तेजः॥६०॥
कल्याणाय तदास्तां करुणाकूपारवीक्षणं कामम्।
कलशीपयोधितनयाकटाक्षपुनरुक्तकालिम महो नः॥६१॥
सारं श्रुतिवचनानां भारं नमतां वहन्तमतिहर्षात्।
पारङ्गतैर्भवाब्धेस्तीरं विनुतं भजामहे देवम्॥६२॥
कृत्यानि ते प्रतुष्ट्यै क्वत्यान्यस्माभिरच्युत कृतानि।
अत्याहितानि नाशय मत्या कलितोऽसि विपदि जातायाम्॥६३॥
देव त्वदङ्घ्रिकमलं नियतात्मनामप्यत्यन्त दुर्लभतरं महतामृषीणाम्।
तत्तादृशं कथमिमे विषयावसक्ता जानीम इष्टद ततः परिपाहि दीनान्॥
________________________________________________________________
ला वनपङ्क्तिः भगवता ध्रियमाणा माला च। तारकेति। तारकाणां नक्षत्राणां अभिख्यया शोभनं, कृष्णपक्षे चन्द्राभावात् नक्षत्राणां प्रकाशवत्त्वात्। अन्यत्र तारिकया संसारतो भक्तानुद्धर्तुं समर्थया अभिख्यया आख्यया, भगवन्नाम्नां पठनमात्रेण संसारनिवर्तकत्वात्। राजेति। राजराजः कुबेरः तेनाञ्चितः वासत्वेन प्राप्तः पादः प्रत्यन्तपर्वतःयस्य तं, कैलासैकदेश एव कुबेरस्य निलयात्। अन्यत्र कुबेरपूजितचरणं। शिवेति। शिवायाः पार्वत्याः अभिजनां जन्म, तत्करोतीति अन्यत्र। अश्रितानां मङ्गलोत्पादनतत्परं। सञ्चारिण्येवेत्यादीनि लक्ष्मीविशेषणानि। मुक्तेति। मुक्ताभिः मौक्तिकैः श्रितया प्राप्तया। अन्यत्र।मुक्तैस्सनकादिभिराश्रितया सेवितया। पद्मेति। पद्माभिख्यया कमलशोभया, अन्यत्र “पद्मा” इति नाम्ना, विलसितया। विष्ण्विति। विष्णुपदं आकाशं हरिचरणञ्च॥
एवमभिष्टुत्य मुहुर्मुहुः प्रणिपत्य च विज्ञापितस्वागमनकृत्यानत्याहितशङ्किनोऽमर्त्यानत्यादरेण नयनारविन्दनिष्यन्दिमकरन्दबिन्दुसन्दोहस्यन्दिभिरिव सदयावलोकनैरनुगृह्य “प्रगृह्य निखिलान्यायुधानि युध्यध्वं तावदमीभिस्तमीचरैरहमप्येनानभिलुनामी"ति आज्ञापयन्नेवान्तर्धिंजगाम॥
देवास्ततस्तेऽप्यभिषेणनो13त्कैश्चक्रुर्युधं रात्रिचरैस्सृभीमाम्।
तदन्तरे दन्तुरकोणपौघे पक्षीन्द्रमारुह्य हरिर्जगाम॥६६॥
भयेन धावत्सु निशाचराणां गणेषु दम्भोलिधरस्य वाणैः।
माली महास्यन्दनमारूरोह महीय्यमानः कुशलेन यन्त्रा॥६७॥
तदनु शरसमूहैर्मालिनारायणीयैः
क्वचितइव भाति व्योम्नि सर्वत्र सर्वे।
न च निशिचरवर्गा नैव चास्वप्नसङ्घा—
नयनपथमनैषुस्स्वामिनं स्वं स्वप्नार्ताः॥६८॥
कृत्वा माली दुस्सहं सैन्यघाता-
त्कोपं कृष्णे स्वां गदांनिर्मुमोच।
दैत्यारिस्तां भञ्जयित्वाऽथ रक्षो
हत्वा दध्मौ पाञ्चजन्यं स जन्ये॥६९॥
वनमालिनि हतमालिनि सुमालिमुरूणा भिया विह्स्ततराः।
निगमतनौ14निहतनिशे सङ्घास्तमसो यथा द्रुता दुष्टाः॥७०॥
** **अथ भयविह्वलितमानसेषु मा मुज्झित्वोपह्वरे समालोच्य निश्चित्य कृत्यजातं परित्यज्य लङ्कां तरसा तरसाशनेषु रसातलं प्रविष्टेषु हतावशिष्टेष्वहृष्टेषु, कदाचन सदातनभोगरसाभिलाषां कुसृष्टिमन्यादृशीमिव वैधसीं कैकसीं सुतामादाय मेदिनीमवाप्य इतरानवाप्येन पुष्पकेण निष्पतन्तं निजपितृसमीपतः पतिं निधीनामधीनं धर्मे दुर्मेधास्सुमाली समानातीतनिजपुरसमाक्रमणविमानितस्समीक्ष्य समीपतस्समीकतो जेतुमेनमक्षमतया सावेगं तनयामिदमवादीत्॥७१॥
वत्सेऽमुनास्मन्नगरी प्रभुज्यते तनूभुवा विश्रवसोऽतनुश्रिया।
त्वयाप्यमुष्मान्मुनिसार्वभौमतो ह्यवाप्यतां शीघ्रममूदृशरसुतः॥७२॥
** **अथ सा तरसा तरसाशनप्रवरस्य जनकस्य कनकपुरीनिवासविहितेहितस्य तस्य शिरसा प्रतिगृह्य शासनं पाकशासनमहितान् नाकसद्मनिवहनुत्पत्स्यमानेनात्मजेन पराजेतुकामा कामाभितापितहृदयसीमा सीमाविरहितभूमानं मार्ताण्डमण्डलजैत्रधामानं विख्यातनामानं विश्रवसमपि लोकान्तरगत भाषणानामपि श्रवणनिपुणंमुनिमुपेत्यावन्ध्या भवितुमिच्छन्ती सन्ध्याकाले प्रणनाम॥७३॥
स तु विज्ञानचक्षुषा विज्ञ ततन्मनोगतमनोरथो ‘भद्रे भवतु भवत्या ईप्सितं सिद्धिगतं जनिष्यन्ते च ते यथाभिमतं सुताः, परन्तु कालस्यास्य क्रौर्यवत्तया क्रूरा एव ते भविष्यन्ती” त्युक्त्वापुनरपि तया सप्रणामं प्रसादितः “तेष्वन्तिमस्सत्ववान् सत्यवांश्च भवत्वि"ति तामनुगृह्य स्वमाश्रममशिश्रियत्॥७४॥
सा ककसी तदनु गर्भमधत्त भूयः-
काले गतेऽथ सुषुवे तनयं दशास्यं।
तं कुम्भकर्णकमथो जनयांबभूव
तस्मात्परन्त्वजनि शूर्पणखा तनूजा॥७५॥
जा तेषु तेषु जननीजठरात्सुतेषु
क्रुरो बवौ च पवनो धरणिश्चकम्पे।
रक्तं ववर्ष मरुतामधिपः पयोदै
र्जज्वाल नैव सुशिखोऽध्वरवेदिवह्निः॥७६॥
विभीषणमजीजनत्तदनु केकसी देहभा-
विलज्जितदिनेश्वरं विनुतवृत्तमिन्द्रादिभिः।
शिशुस्स तु सुराङ्गनाकरसरोजमुक्तैस्सुमैः
सहैव सुरुभूरुहां भुवमगात्समां तुष्टये॥७७॥
तदनु मातृसमानवयोगता दशमुखादिसुमालिसुतासुताः।
स्वपितुरेव कृतावसथा वने समभवंश्च कलासु विशारदाः॥७८॥
अथ कदाचन पुष्पकेण समागच्छन्तं वैश्रवणं विलोक्य त्रैलोक्यविनुतमहिमानं मानधनं धनञ्जयकरकरं15 करोतीति तादृशः करः देहकान्तिर्यस्य तं॥”) अधृष्यया महेर्ष्यया सम्पूर्ण मानसा, मानसादनपरा परस्य वृत्तिं परिगता तामसीं केकसी स्वतनयानाहूय “वत्सा निशामयतामुं प्रशान्तारिमस्मत्पूर्वतरोषितपूर्वं पूर्वं विश्वकर्मणा निर्मितं वैरिगणगरं नगरमनुभवन्तं। भवन्तोऽपीदृशीमवस्थामात्मन्यवस्थापयन्त्वचिरेणे” ति समादिश्य तथात्वाधिगमाय तपःकरणमेव प्रथमतरं करणमुपदिदेश॥७९॥
मातुर्वाक्यं क्षेमदं साधु बुद्ध्वाबद्ध्वाचेतोऽतुल्यसम्पत्समृद्धौ।
गोकर्णे सम्मोचितर्णे श्रितानां तप्तुं तीव्रं ते तपः प्रारभन्त॥८०॥
तत्र च॥ याते वर्षसहस्रके दशमुखश्छित्वैकमग्नौ शिरो
हुत्वा ब्रह्मण एतदित्यभिजपन्मन्त्रं प्रपेदे मुदम्।
एवं स्वस्य शिरांसि पङ्करुहभूसात्कृत्य हर्षांन्नवा-
प्यायाते न तथापि वेधसि शिरश्छेत्तुं प्रवृत्तोऽन्तिमम्॥८१॥
** **तदात्वएव सात्विकवरसनकसनत्कुमारादिसमुपवर्ण्यमानबिरुदभासुरपुरःप्रदेशः, पन्नगपतिशायिपत्रपत्ररथराजस्पर्धयेव स्वयमपि कुम्भीनसानिव पद्मनालानास्येन बिभ्राणं, सप्राणमिव सत्वगुणनिकरं, परमप्रमाणं मल्लिकाक्षमल्लमारुह्य समस्तैरपि विहस्तैस्सुधाशनवरैरन्वीयमानः, सञ्छिन्ननवकन्धरं धरमिव वज्रधरनिकृत्तकतिपयशिखरं खरतरतपसमुपेत्य “वत्स मामैवं साहसं कृथा वृथा। वृणीष्व वरान्। घृणी तावदहमस्मी"त्याचष्ट पद्मविष्टरः॥८२॥
दशवदनस्ततो जलजसम्भवपादयुगे
प्रणिपतनं मृहुर्विरचयन् गिरमेवमधात्।
भुवनपते दिशेस्सकलदेहिभिरप्यमृतिं
मनुजविनाकृतैस्तु स ददावथ तांद्रुहिणः॥८३॥
चतुर्मुखोऽथो मघवन्मुखैर्वृतः
स कुम्भकर्णं समवाप्य दुर्धियम्।
सरस्वतीदूषितवाक्प्रवृत्तये
सुदीर्घनिद्रां प्रददौ प्रयाचिताम्॥८४॥
विभीषणस्सत्ववतां वरिष्ठो वब्रेऽच्युते भक्तिमजाद्ररिष्ठाम्।
सोऽनेन तुष्टस्सुतरां स्वयम्भूः प्रादात्स्वमस्त्रं चिरजीविताथ॥८५॥
एवं वितीर्य वरमब्जभवे प्रयाते
पेतुस्स्वमातृपदयोरथ कैकसेयाः।
नीत्वा दशाननमथो जननी स्वमङ्कं
वाचं सुमालिसहिता निजगाद हृष्टा॥८६॥
** **वत्स त्वत्सनाथाया अपि ममाधिरयं सरयं हृदयं पीडयति, यत्किल तव वैमात्रेयः कुवेरः कृत्स्नस्य निधिगणस्य महेश्वरः प्रतिवसति मत्पितृसमार्जितामेव लङ्कां। अलङ्कातर्येण। तमेनं विद्राव्य भद्राय तस्यामेव वसन् सकलनिशाचराणामविता भवितासि चेदतिताम्यदिदमस्मत्स्वान्तं कान्तं मुदा भविष्यतीति॥८७॥
निशम्य तां वाचमसौ दशास्यः प्रहस्तमुख्यैस्सचिवैर्विचार्य।
संप्रेषयामास सहोदराय प्रहस्तमेवार्पितवाचिकं तम्॥८८॥
** **अथ वैश्रवणेऽपि प्रहस्तवचनश्रवणविहस्ततरे समस्तैरपि स्वजनैस्सह निदेशात्पितुः परित्यज्य लङ्कां कैलासमभ्येत्य, तपःप्रसादितस्य समासादितोपकण्ठस्य शितिकण्ठस्य कृपया तत्सख्यं तत्रैवालकाभिधानं पुटभेदनञ्च संप्राप्य सुखं रममाणे, दशाननोऽपि स्वज्ञातिर्वर्गण सह त्रिकूटशिखरालङ्कारभूतां लङ्कां प्रविश्याभिषिक्तश्च राक्षसाधिपत्ये सुखमासामास॥८९॥
वनमथं मृगयायै जातु पङ्क्त्याननोऽगा-
न्मयमसुरवरेन्द्रं तत्र वीक्षाम्बभूव।
तदनुं दनुजरक्षोनायकौ स्वस्ववार्ता16-
प्रवचनकुतुकाढ्यौ जातवन्तौ नितान्तम्॥९०॥
ततः परस्परालापकालविज्ञातनिशीथिनीचरनायकत्वसम्प्रीतेन पूर्वदेवदेवेन विश्राणितां, निजसौन्दर्यसन्दानितमन्दाक्षबृन्दारकसुन्दरीबृन्दां,आधारं शृङ्गारस्य, आवासं विलासस्य, आस्थानीं जननयनहारित्वनृपस्य, दम्भोलिं मनोजयमहीधरस्य, कुम्भोद्भवं स्वावलोकनपरदुःखपारावारस्य, दम्भोद्रेकहारिणीं शिरीषकुसुमानां, अम्भोजविजयिनीमाननकरचरणेन, स्थिरामिव विद्युतं, परामिव स्त्रीरत्नसृष्टिं, वरामिव मनसिजसाम्राज्यसिद्धि, नतां पूर्वाङ्गे, गतामभिरूपकुसुमशरजयसाधनातां, नुताञ्चक्षुष्मद्भिः, कृतामिव ज्योत्स्नादिभिर्मनसिजेन, शोणामधरे, वीणां स्वरे, स्त्रीणां वरां, ह्रीणां निसर्गत एव, एणापमाननपरकोणारुणचपलनयनां, प्राणापहारिणीं सकृद्दर्शनमात्रेण यूनां, सूर्यमण्डलीमिव^(१) पद्मावभासकरशोभितां, यमुनामिव विविधकुसुमालंकृतवेणीसमुज्ज्वलन्महानैल्यां, लतामिव सुमधुरोत्कम्पां, उद्यानभूमिमिव आमोदबहुलकुचाभोगभूषितां, पार्वतीमिव शिवाङ्गालङ्कार
_________________________________________________________________
१. पद्मेति, पद्मानि अवभासयन्तीति पद्मावभासाः कराः किरणास्तैश्र्शोभितां। अन्यत्र पद्माविवा वभासेते इति पद्मावभासौ, तादृशाभ्यां कराभ्यां हस्ताभ्यां शोभितां। विविधेति। विविधैः कुसुमैः पद्मादिभिरलंकृतायां वेण्यां प्रवाहे समुज्ज्वलत् महानैल्यं यस्यास्तां। अन्यत्र विविधैः कुसुमैर्जातीमल्लिकादिभिरलङ्कतायां वेण्यां एकीकृते कचकलापे समुज्ज्वलन्महानैल्यां। सुमधुरेति। सुमधुरया-पुष्पभारेण उत्कम्पां अतीव कम्पमानां। अन्यत्र सुमधुरः अतिसुन्दरः उत्कम्पः पाणिग्रहणकालिकः श्रृङ्गारवेपथुर्यस्यास्तां। आमोदेति। आमोदेन गन्धेन बहवः पूर्णाः लकुचाः जम्बीरवृक्षाः यस्मिंस्तादृशेन, आभोगेन विस्तारेण भूषितां अन्यत्र आमोदबहुलयोः चन्दनादिगन्धपूर्णयोः कुचयोराभोगे विस्तारे भूषितां हारादिभिरलंकृतां। शिवेति। शिवाङ्गस्येश्वरशरीरस्यालङ्कार इवालङ्कारस्तस्य भावस्तत्ता तामापन्नां, अन्यत्र शिवा मङ्गलात्मकाः अङ्गालङ्काराश्शरीरभूषणानि यस्यास्तस्या भावमापन्नां।
तापन्नां, लक्ष्मीमिव पुण्डरीकेक्षणदर्शनसञ्जनितानन्दां, सरस्वतीमिव चतुराननगतविलासां, पौलोमीमिव सहस्रविलोचनदर्शनीयां, अमरावतीमिवानिमेषानुभवयोग्यां, बाणासुरनगरीमिव सोमलसन्मुखभागां, क्षीरोदस्थलीमिवाधरस्थितसुधां किष्किन्धामिव सुग्रीवोपकण्ठशोभमानाङ्गदां, सुमेरुस्थलीमिव शोभमानमणिकटकां, चोलविश्वंभरामिव कांचीपरिदृश्यमानाधिकलोकां न्यग्रोधदलराजमानमन्दोदरीं मन्दोदरीं तदीयतनुभवां पाणौकृत्य गृह गयासीत्केकसीतनुजः॥९१॥
रक्षोनाथस्स्वनगरगतः कुम्भकर्णस्य पत्नीं
पुत्रीपुत्रींपरुषहृदयां हन्त वैरोचनेस्सः।
वज्रज्वालामकुरुत, तनूजाञ्च शैलूषनाम्नो
गन्धर्वस्यालभत सरमां तत्कनिष्ठोऽपि पत्नीम्॥९२
काले गते बहुतिथे मयपुत्रिका सा
वंशंकलङ्कयितृमब्जभवस्य भूयः।
पुण्डरीकेति। पुण्डरीकेक्षणोहरिस्तस्य दर्शनेन संजनितःआनन्दो यस्यास्तां अन्यत्र पुण्डरीकेक्षणाभ्यां पद्मसदृशनेत्राभ्यां दर्शनेन मञ्जनितानन्दां। चतुरेति। चतुराननं ब्रह्माणं गतः प्राप्तः तदेकविषय इतिभावः विलासः विभ्रमो यस्यास्तां। अन्यत्र चतुराः आननगताः विलासाः यस्यास्तां। सहस्रेति। सहस्रविलोचन इन्द्रः तेन द्रष्टुं योग्यां अन्यत्र सह स्त्रेण विलोचनैर्द्रष्टुं योग्यां। सुन्दरत्वात्। अनिमेषेति अनिमेषाणां देवानां अनुभवस्य भोगस्य योग्यां अन्यत्र अनिमेष पक्ष्मव्यापारशून्यं यथा तथा अनुभवस्य दर्शनस्य योग्यां। सोमेति। सोमश्शिवस्तेन लसन् मुखभागः द्वारभूमिर्यस्यास्तां अन्यत्र सोमवच्चन्द्रवल्लसन्मुख- भागः वदनप्रदेशो यस्यास्तां। अधरेति। अधो अधोभागे स्थिता सुधा यस्यास्तां अन्यत्र अबरे दन्तच्छदे स्थिता सुधा यस्यास्तां सुधामधुराधरामित्यर्थः। सुग्रीवेति। सुग्रीवस्य वानरगजस्य उपकण्ठे समीपे शोभमानः अङ्गदः बालिसूनुः (तस्य युवराजत्वात्) यस्यां तां अन्यत्र सुग्रीवायाश्शोभनकण्ठस्य उपकण्ठे समीपे शोभमाने अङ्गदे यस्यास्तां। शोभमानेति। शोभमानः मणिकटकः रत्नप्रचुरः नितम्बापरपर्यायः पर्वतमध्यप्रदेशः यस्यां तां अन्यत्र शोभमानं मणिकटक रत्नकङ्कणम् यस्यास्तां। काञ्चीति। काञ्च्यां तदभिधानायां पुरि, परिदृश्यमानः अधिकलोकः जनः यस्यास्तां तस्या राजधानीत्वात्। अन्यत्र काञ्च्यां तदभिवायां भूषायां परिदृश्यमानोऽधिकलोकः प्रपञ्चः यस्यास्तां तस्यारत्नमयत्वात्॥
मन्दोदरी सुतमसूत सुरार्तिहेतुं
कादम्बिनीव जगतामशनिं भयाय॥९३॥
जाते सूते दशमुखः प्रमदाभिपूर्णः
कल्पान्तवारिधरवत्प्रतिमुक्तनादम्।
साकं समस्तसचिवैर्महमारचय्य
नाम्ना च तं समतनोदथ मेघनादम्॥९४॥
लोके शूर्पणखां न कोऽपि च यदा स्वीकर्तुमैच्छत्तदा
विद्युज्जिह्व इतीरिताय दनुजश्रेष्ठाय रक्षोऽधिपः।
दत्त्वा तां स्वयमेव भूरिवसुभिस्सन्तोष्य सम्प्रेष्य च
प्राप्तो विज्वरतामुवास सुखितो मूर्ध्नि स्थितो रक्षसाम्॥९५॥
अथैकदाऽदसीयदुश्चरितसमाकर्णनविदूनमानसेन निधीश्वरेण प्रहितं हितमुपदेष्टुं कमपि दूतं कालदूतवशंवदतां नीत्वा, तदैव विलोक्य त्रिलोक्या विजयं करणीयकोटौ, भरणीयैश्च वैधेयैरपि विधेयैः महोदरमहापार्श्वप्रहस्तमारीचशुकसारणादिभी रिपुमारणादृतैः परिवृतस्सचिवैर्मोह इव कामादिभिर्विवेकमिव त्र्यम्बकसखं प्रथमतो जेतुं तत्पुराभिमुखमेव प्रतस्थे कृतलोककदनः पङ्किवदनः॥९६॥
कैलासं समवाप्य राक्षसपतिश्चाहूय यक्षान् युधे
योद्धुं स्वानपि सैनिकानगणितान् सम्प्राहिणोत्साधुयान्।
जाने तत्र महारणेऽथ दलिते रक्षोवलेऽमर्पितो
मारीचो मरुता समः परबलं चक्रे च तुलोपमं॥९७॥
अथ राजराजवचनात्समागतं
युधि माणिभद्रमवलोक्य राक्षसाः।
तरणिं यथान्धतमसस्य सञ्चया-
भयकृष्यमाणतनवः पलायिताः॥९८॥
मारीचादीन् सीदतो वीक्ष्य वीरान्
क्रोधाद्युद्धं माणिभद्रेण कृत्वा।
तेनोन्मुक्तैर्मार्गणैर्मर्मघाता-
त्सुस्रावास्याच्छोणितं राक्षसेन्द्रः॥९९॥
** **अथ मायामय्या मर्मातिवेधनिर्मापितारातिगदया गदया निहत्यैनं पार्श्वमौलि17 तामापाद्य तच्छ्रवणसञ्जातरोषेण भीषणाकारतामुपेयुषा ससैन्येन शिववयस्येन समागतेन सत्वरं युद्धचत्वरं सुचिरं नियुध्य दम्भोद्रेकेण दम्भोलिसदृशेन तलेनाभिहत्य निपात्य च विसंज्ञमेनं, तदनु समाश्वासनाय समानीतेऽस्मिन्नन्दनं विश्रवोनन्दने, निश्शङ्कमलकापुरमलर्क इव देवालयं प्रविश्य तत्रत्यं पुष्पमिव पुष्पकमपहृत्य निर्जगाम दुर्जनाग्रगण्यः पुण्यजनाधिपतिः॥१००॥
ततस्तत इतः सञ्चरन् क्रौञ्चारिजन्मस्थानमवाप्य तत्रत्याश्चर्यपर्यालोकनसन्तुष्टमानसो यथामानसोत्कल्पनसञ्चारकृतमानेन विमानेन कैलाससानुमभ्येत्य तत्र गतिभङ्गं विमानस्य विलोक्य तत्कारणमवजिगमिषुरवतीर्य तत्रैव कृतस्थितिं पिण्डीभूतमिव खण्डपरशुभक्तिमण्डलं तण्डुमपश्यत्॥१०१॥
सोऽप्येवमत्रब्रवीत्॥
रे केकसीयौवनदाववह्ने मा प्राणनाशं गम एहि लङ्काम्।
मृडो मृडानीं रमयत्यमुष्मिन् गिरौ ततो नात्रगतिः खलानाम्॥
निशम्य शम्भोरनुगस्य वाचं
सहस्ततालं विकटं विहस्य।
निशाचरेशो निजगाद वाक्यं
मारीचमुख्यान् प्रति मन्त्रिमुख्यान्॥१०३॥
को नामात्र मृडाह्वयस्स्वदयितासम्भोगसक्ताशयो-
मामप्यागतमाकलय्य सहसा नो पूजयामास यः।
तत्तस्यावसथं गिरिं सुरपथे क्षिप्त्वा करैर्लीलया
दर्पं तस्य नयामि नाशमखिलं पश्यन्तु सर्वेऽपि माम्॥१०४॥
** **इति तस्य सर्वलोकजुगुप्सनीयनिजाभिलषितप्रकाशनं भाषणं कर्ण परुषमाकर्ण्याभ्यर्णस्थितो महाशैलामश्शैलादिस्सरभसमस्मै चुक्रोध जहास च॥१०५॥
तद्वीक्ष्य नन्दिवदनं दशकन्धरस्य
कोऽयं कपिर्हसति मामिति गां सहासां।
शापं मुमोच स निशम्य रुषा"कपिस्ते
दर्पंहरे” दिति सहामरसाधुवादैः॥१०६॥
इति वचस्स निशम्य रुषान्वितः सरभसं निखिलैरपि बाहुभिः।
तमवनीधरमीशनिकेतनं चलयति स्म मनश्च नभस्सदाम्॥१०७॥
उदस्ते वासाद्रौ, प्रमथनिकरे धावति भया-
त्सफूत्कारे शम्भोरधिकरुषि भूषाफणिगणे।
व्यपास्ते नागास्ये, गिरिनिलयपञ्चास्यनिवंहे
दरीलीने, गौरी सभयमथ शिश्लेष गिरिशम्॥१०८॥
तां वीक्ष्य तादृशभयाकुलकम्पिताङ्गीं
गङ्गाधरोऽधिकरुषामनसा विचिन्त्य।
अङ्गुष्ठकेन चरणस्य गिरिं धरान्तः
प्रापप्य रावणभुजालिमपीडयत्ताम्॥१०९॥
व्यलापीदथासौदशास्यो विभास्यो18
भुजानां विकर्षेऽपटुर्भग्नदर्पः।
स्तवीति स्म पश्चान्महापार्श्वमख्यै-
शि्शवे स्तूयमाने स्वयं चादृतोऽमुम्॥११०॥
एवं सहस्रं समास्समभिष्टूयमानः प्रसन्नान्तःकरणः पार्वतीरमणः स्वमरणार्थमुद्यतं खेदमधिकं धरन्तं दशकन्धरं तमतिक्षामशरीरं साक्षात्सगासाद्य निजपुङ्खप्रभापहसितचन्द्रहासं चन्द्रहासं नाम कञ्चन काञ्चनकोशोपसञ्चितं निस्त्रिंशं, त्रयस्त्रिंशत्कोटिसङ्ख्याकदेवताविद्रावणं “रावण” इति नामधेयञ्च वितीर्य पश्यतएवास्य तिरोदधे॥१११॥
दशाननोऽथो विचरन्नितस्ततो
हिमालयोपत्यकयाभुवा व्रजन्।
शिलातले शून्यमले समाधिगां
समाग्रहीत्कामपि सुन्दरीं दृशा॥११२॥
दृष्ट्वा तां स मतिं व्यधात्किमियमाकोप्याच्युतं भूतलं
प्राप्ता श्री, र्गिरिजाऽथवा पितृवनेपितृवने बीभत्सयेता हरात्19।
किं वा नागवधूस्सुपर्णविजयं तप्त्वा तपोऽन्वीहते
किं जेतुं तपसि स्थितानपि कृता माया नवामान्मथी॥११३॥
मनसि कलयन्नेवं रक्षःपतिस्स विमानतो
भुवमभिगतः पप्रच्छैनां सुसास्त्रसमाहतः।
सुममृदुतनुः कल्याणि त्वं तपस्यास किंकृते,
कथय कतमस्तातो माता निवासपुरी च ते॥११४॥
यत्सौन्दर्यलवैकपात्रिततनूर्लब्धुं सुपर्वस्त्रियो
यज्वानो यजनोत्सुका मुनिगणा घोरं तपस्तन्वते।
सा त्वं सुन्दरि मन्मथस्य करणं श्लाघ्यं त्रिलोकीजये
घोरेऽस्मिंस्तपसि स्थिता मम मनो दात्रं विना कृन्तसि॥११५॥
इति कृंतवचनेऽस्मिन् सा नताङ्गी बभाषे
मुनिनिगमवचोभ्यो वेदवत्याह्वयाऽहं।
उदभवमथ देवा अर्थयन्ते स्म तातं
न स दनुजरिपुं मां प्राददात्प्राप्तुमिच्छुम्॥११६॥
अथैकदा दम्भुनाम्ना सीम्नाऽविनयस्य पूर्वमुपर्वराजेन गर्वभाजा मां संप्रार्थ्य विफलीभूतेन कुशध्वजनाम्नि मे पितरि पितृलोकं प्रापिते साध्वी च मे माता साध्वी भर्तुरनुमृतिः स्त्रीणाति मन्वाना तन्वातमन्वागात्॥
हते तु ताते सरसीरुहाक्षं भर्तारमाप्तुं विहितादराहं।
प्रसादये नान्यगतिः प्रभुतं तपोविशेषेण यथास्वशक्ति॥११८॥
तां वीक्ष्य तादृशतनुं तपसाऽपि रम्यां
मूर्त्तामिवास्य विपदं हृदयं हरन्तीं।
पञ्चास्त्रवञ्चितमनाः पिशिताशनेन्द्र-
स्सञ्चारिणीमथ चकार गिरं मुखे स्वे॥११९॥
**अयिसुन्दरि मन्दिरे मणीढ्येत्रिजगन्नायकभोग्ययौवनेड्ये।
गिरिसानुनि गैरिकाश्मरूक्षेऽनुचितं श्वापदबृन्दनन्दिताऽसि॥ **
नीलाम्बुवाहचितहेममहीध्रकूट-
शोभाहरेण कुचयोर्द्वितयेन बाले।
चेतो हरस्यहह, मां स्मरसर्पदष्टं
सञ्जीवयाधरसुधां सदयं प्रदाय॥१२१॥
वक्त्रामृतांशुकिरणैर्निचितं कुचाम्भो-
जातद्वयं मुकुलितं त्विति युक्तमेतत्।
चित्रं तु तन्नयननीलसरोजयुग्मं
यन्मीलनं सुतनु याति समाधिदम्भात्॥१२२॥
मुक्तानामपि चित्तमोहनकरे मुक्तादिहारार्पण-
स्थाने ते कुचमण्डले, न तुलसीदामाऽत्र धामार्हति।
कौशेयस्य सुवर्णहंसितदशस्पार्हं यदङ्गं तव
प्रोतं तत्र हि वल्कलं मम मनो धत्ते भृशं व्याकुलम्॥१२३॥
विख्यातोऽहं त्रिभुवनतले रावणो नाम राजा
क्रव्यादानां भुजबलवशस्थापिनाशेषलोकः।
भीतो यस्मात्सुरपतिरपि प्रत्यहं, रत्यवज्ञा-
कारिण्यद्धा स विनतिपरो याचते ते प्रसादम्॥१२४॥
आयातस्सदृशः पतिर्दशमुखस्त्वत्पुण्यपाकोदया-
द्भाग्यान्मे च दृगध्वनित्वमभवस्तन्नौ प्रसन्नो विधिः।
तन्मां पश्य यदृच्छयाऽऽगतममुं पुण्यैर्विना दुर्लभं
भुञ्जीथाश्च शुभे गृहे सह मया भोगान्नभोगोचितान्॥१२५॥
** **इत्थं संप्रार्थ्यमानाऽपि, मानाथनिहितमानसा सा मानिनीकुलशोभिनी बहुशो निराकृत्यापि कृत्याकृत्याविवेकेन तेन प्रसभमेव मूर्धजेषु गृहीता सुभीताऽपि तानाच्छिद्य पाणिना कृपाणतामाप्तेन सद्यः समापिततपः- करणा मरणाय कृतादरणा समयोचितकरणीयेषु चतुरा चतुराननजनकं मनसि निधाय विधाय च वधाय रिपोराशयं वर्धमानरोषहुताशना हुताशनसमीपमुपेत्य सुधाशनद्विषमित्थमकथयत्॥१२६॥
^(१)यन्मामनन्यशरणां कमलानिवासजात-
स्पृहां स्पृहयसि प्रसभं ततस्त्वां।
नेतुं यमस्य निकटं जननान्तरे वा
हेतुर्भवानि यदि मे सुकृतं तपस्स्यात्॥१२७॥
** **इति वितीर्णशापायामपापायां वीतिहोत्रपात्रीकृतपवित्रशरीरवत्यां वेदवत्यां सदागतिसमानेन विमानेन विविधान् देशानटित्वा क्रमेण प्रशान्तचारो निशान्तमगमन्निशाचराधिपतिः॥१२८॥
_________________________________________________________________
१. यन्मामिति। अनन्यशरणामित्यनेन रक्षकान्तराभावात् स्त्रिया अपि स्वस्याः शापदानस्वातन्त्र्यं उचितमिति ध्वनितं। कमलानिवासजातस्पृहामित्यनेन, अन्यकामुकस्त्रीकामुकत्वात्तस्य शापपात्रत्वं सूचितं। स्पृहयसि प्रसभमित्यनेन निग्रहस्यावश्र्वकत्वं व्यञ्जितम्।
अथ समतीते बहुतिथे काले कदाचित्कस्मिंश्चित्सरोवरे सहस्रभानुसमाने सहस्रपत्रे काञ्चन काञ्चनमये समुदञ्चितबाल्यां धन्यम्मन्योऽयं कन्यकामवलोक्य त्रैलोक्यदुर्लभेयमिति मुदासमादाय समासाद्य च गृहममन्दानन्दतुन्दिलो मन्दोदर्यै दर्शयांबभूव॥१२९॥
साप्येवमब्रवीत्ः—
नाथेयमेव सदृशी तव रूपरम्या
रामा तथापि तव नाशकरी स्वचिह्नैः।
एनां विसर्जय ततो भवनाद्बहिष्टा-
न्मा गा विनाशममुया गतया निरोधम्॥१३०॥
** **रावणोऽपीदमाकर्ण्य कनकपेटिकान्तर्गतां कान्ततनुत्वात्तां विरचय्यापारेऽकूपारे विसर्जयामास॥१३१॥
या रामाग्निमुपाश्रिता कृतयुगे पङ्क्त्याननाद्भीतित-
स्त्रेतायां समजायताम्बुरुहि सा याता च रक्षोगृहम्।
क्षिप्ता चाम्बुनिधौ विदेहनृपतेर्जाताऽथ यज्ञावनेः
प्राप्य त्वां दशकण्ठनाशविधये सीताऽभवत्कारणम्॥१३२॥
शिष्टां कथां शृणु रघूत्तम वदवत्या
शापं वितीर्य परुषं ज्वलनं विशत्याम्।
आरुह्य पुष्पकमथातिजवेन गच्छन्
जेतुं मनो धरणिपानकरोद्दशास्यः॥१३३॥
ततो मरुत्ताख्यमिलाधिनाथं सह द्विजेन्द्रैस्सवमाचरन्तम्।
प्रहस्तमुख्यैरभिवीक्ष्य रूक्षै रक्षोभिरक्षोभि मखो महार्हः॥१३४॥
आयाते हविषोंऽशमाप्तुममरवाते द्रुतं विद्रुते
देवेशश्शिखिनो यमो बलिभुजो हंसस्य यादःपतिः।
वित्तेशः कृकलासकस्य च तनुं सम्प्राप्य याता दिवं
सम्भ्रान्तेन धरेश्वरेण ददृशे पङ्क्त्याननः क्रोधतः॥१३५॥
विद्राणेषु च याजकेषु विहते रक्षोगणैः कर्मणि
व्यालीने श्रुतिमूलमन्त्रनिचये वित्ते हृते चान्ततः।
साटोपं वचनं जगाद नृपतिं रात्रिश्चराधीश्वरो
युद्ध्यस्वाद्य मया जिनोऽहमिति वा ब्रूया ह्रियं मा गमः॥१३६॥
निशम्य तद्वाक्यमुदारविक्रमः स दीक्षितः प्राह निशाचरेश्वरम्।
दिदृक्षसे संयमिनीं यदि द्रुतं रणाय मां प्राप्नुहि मा च दुद्रुवः॥१३७॥
एवं सुपर्वशत्रुस्सगर्वमस्य वचनमुर्वीपतेस्सर्वमपि निशम्य निशाम्य च क्रूरमेनं सात्मप्रशंसं नृशंस इत्थं वचनमुत्थापयामास॥१३८॥
स्मृत्वा यस्य यदृच्छया धनपतिर्मारारिमित्रं भिया
साकं गुह्यकपुङ्गवैरतितरां मद्ध्येसभं वेपते।
तस्याग्रे वरपुष्पके स्थितिजुषः पङ्क्त्याननस्यापि मे
साफल्यं नु भजेत किं शठगिरां गुम्भो हि दम्भोदितः॥
** **तदाकर्ण्य कर्णकठोरं रे रे पिशिताशन सर्वथा प्रशंसनीयमेव ते बाहुबलं, यस्त्वं सकलवर्मवाराशिपारदृश्वानं, विदितविश्वागमसारं, नयपथप्रचारं, आश्रितजनापदम्बुनिविपारं पितृतुल्यं ज्येष्ठभ्रातरमप्यभिभूतवानस्मीति सस्मयं विकत्थसे, धिक्त्वामनुचितकृत्यतः कृतकृत्यंमन्यं, अस्तु, किमनेन वृथावाक्कलहेन, तिष्ठ तावदिदानीमेव न भवसीति धीरं पर्जन्यइव जगर्ज॥१४०॥
कोपाद्वाचमिमां विधाय स महातापावहं विद्विषः
पापानां प्रवरस्य तस्य तु मृतेस्सोपायमापादने।
रोपासं परिगृह्य यन्त्रितमना रोपान्सृजन्विद्विषे
भूपालो गुरुणा निजेन यजनं गोपायितुं प्रोद्यतः॥१४१॥
निर्वर्त्य सद्यो मखमेनमुग्रं क्षितीश युद्धाय ततोऽभियाहि।
श्रुत्वैवमुक्तं गुरुणा मरुत्तो विवेश यज्ञायतनं सविप्रः॥१४२॥
एवं यदा सवमवाप नृपो मरुत्तः
पङ्क्त्याननः परिकलय्यजितं तमेषः।
उद्धोष्यं तस्य नगरे विजयं विमाने-
नासेदिवान् पुरमथो अनरण्यगुप्ताम्॥१४३॥
ततस्तत्पुरवास्तव्यस्य स्तव्यस्य महीपतेस्त्रिविक्रमस्येव लोकमातृपदस्य^(१) हिमवत इव समस्ताचलेशस्यैक्ष्वाकस्य सकाशं प्रति “युद्धायसन्नद्धव्यं जितोऽस्मीति वा वक्तव्यम्” इति सन्दिश्य दूतमेकं प्रेषयामास॥१४४॥
परारण्यदावोऽनरण्योऽथ गत्वा दशास्यं निशाम्येत्थमाह स्म रुष्टः।
अरे तिष्ठ नूनं परेताधिनाथं प्रपद्येहि^(२) शान्तिं मयाद्येह कृत्तः॥१४५॥
** **अथ परस्परवाक्कलहमुखरे, सकललोकभयंकरे, सविस्मयसुरासुरे, पलायिताशरनिकरे, रुधिरनदीमज्जनोन्मज्जनपरमारितमतङ्गजादिसेनाङ्गप्रकरे, कल्पान्तसलिलाकर इवादृष्टचरे समरवरे वर्तमाने, मायया शस्त्राशस्त्रि विदधानो यातुधानो निपात्य पतिं साकेतस्य, पाकेनाथ दुरितस्य सोपहासमिदमवादीत्॥१४६॥
राजन् पूर्वं वीरवादान् गभीरान्
कृत्वाऽलज्जो युद्ध्यमानो मया त्वम्।
विद्धो बाणैर्मामकीनैः कृतान्तं
द्रक्ष्यस्यस्मात्का परा मानहानिः॥१४७॥
श्रुत्वैतद्धरणिपती रुपावलीढः
प्रावोचन्निशिचरनाथमार्तचेताः।
यज्जानन् विजयपराजयावनित्यौ
मौढ्यान्मामुपहससीह तच्छपे ते॥१४८॥
उत्पत्स्यते मम कुलेकिल धर्मसेतु-
र्विख्यातिमान् दशरथाभिधया प्रसिद्धः।
________________________________________________________________
१.लोकेति। लोकानां मातृणी मानकर्तृणी पदे-चरणे यस्य। अन्यत्रलोकमातुर्लक्ष्म्याः स्थानस्य। समस्तेति। समस्तानामचलानां गिरीणामीशस्य। अन्यत्र समस्ताया अचलाया भूमेरीशस्य॥
२.प्रपद्य - इहि - इति च्छेदः, यमं प्रपञ्चशान्तिं इहि प्राप्नुहि इत्यन्वयः॥
तस्यात्मजो निशिचराधम रामनामा
स त्वां हनिष्यति सपुत्रसुहृत्सगर्भ्यम्॥१४९॥
शापं प्राप्य महीपालाच्चापं निक्षिप्य दोस्ततौ
पापं प्रहस्तमालम्ब्य तापं नावाप्य निर्ययौ॥१५०॥
पुष्पकमारुह्य ततो गच्छन्व्योमाध्वनाऽऽशराधीशः।
घनमण्डलमद्ध्यगतं ददर्श वीणाधरं मुनिश्रेष्ठम्॥१५१॥
ब्रह्मर्षिमुख्योऽथ पलाशमुख्यं
पदोर्नमन्तं परिगृह्य दोर्भ्याम्।
महाशिषा वर्धयमान एनं
वचो गभीरं स्मयमान ऊचे॥१५२॥
रजनिचरपते त्वां वक्तुमिच्छामि किञ्चि-
न्निशमय हितमेतत्सादरं साधुबुद्धे।
किमिह मनुजसङ्घैर्निर्जितैर्हीनवीर्यै-
र्जनिमरणजराद्यैः पीडितैर्दुःखजातैः॥१५३॥
किञ्च॥ नरानेतान् सर्वान् य इह समवर्तीति हरति
त्वमेनं हत्वैनान् कलय परिहीनान् मरणतः।
यदीत्थं कीर्तिस्ते तदनु भविता लोकविशदा
भयं नो जन्तूनां पृथुतरमिहास्ते हि मृतितः॥१५४॥
इति तस्य वचो निशम्य हृष्टो
दशवक्रस्सह मन्त्रिभी रणोत्कैः।
विजिगीषुरवाप याम्यलोकं
न हि दृप्ताः कलयन्ति शक्तिचिन्ताम्॥१५५॥
पूर्वं गतेन मुनिना विदिताखिलार्थो
रक्षोऽधिपंसमितयेऽथ समागतं तम्।
संवीक्ष्य किङ्करगणे भयकान्दिशीके
शस्त्री रथी पितृपतिर्भृधभूमिमागात्॥१५६॥
रक्षोनाथविमुक्तमार्गणगणैर्मृत्यौ तु मृत्युं गते
काले बाल इव प्रशोचति भिया प्रोते च सूते शरैः।
तप्तः क्रोधमहानलेन रिपवे सन्नाहवान् दण्डमु-
द्दण्डं प्रेरयितुं दधौ करतले मोघेतरं प्राणिषु॥१५७॥
अलातचक्राभमथास्य हस्ते
बम्भ्रम्यमाणं प्रसमीक्ष्य दण्डम्।
प्रस्थापिता भीसुहृदा पलाशाः
प्रवेपिताङ्गाः प्रययुर्दिगन्तान्॥१५८॥
तत्क्षण एव राक्षसाधिपकर्मसाक्षिनन्दनयोस्तादृक्षं रूक्षतरं युद्धमवेक्षितुमक्षमा अपि ऋभुक्षिप्रमुखा बर्हिर्मुखाः कथञ्चन कृतक्षणा एव वीक्षमाणाः खण्डितारातिमुण्डेन दण्डेन परिहिण्ड्यमानकरदण्डं मार्तण्डनन्दनमालोक्यालोच्य च लोकेशवितीर्णं रावणयमदण्डयोर्वरनिचयं चिन्तासन्तानतान्तान्तःकरणा रणावलोकितमखिलमपि वृत्तं कमलभवाय वाङ्मनसागोचरविभवाय विज्ञापयामासुः॥१५९॥
अथ कमलजश्श्रुत्वा वाचं सुपर्वसमीरितां
समरधरणिं प्राप्तो वेगादुवाच यमं मृदु।
शृणु वच इदं वत्स त्वम्मे समस्तहितावहं
त्रिभुवनहिते धुर्याणां त्वं यतोऽसि पुरस्कृतः॥१६०॥
अमोघपातस्तव नाम दण्डः सुरैरवध्यश्च दशाननोऽसौ।
कृतौ मया तद्भवताऽद्य कार्यं यथाऽनृतत्वं न वचो ममेयात्॥१६१॥
उपदिशामि तदद्य निशम्यतां मृधभुवं परिहृत्य निजं गृहम्।
निखिलराक्षसनेत्रपथाऽस्थितो व्रज सवाजिरथौघकंरिव्रजः॥१६२॥
आकर्ण्य वाक्यमिदमम्बुजसम्भवस्य
धर्मं विचिन्त्य जलजासनगौरवञ्च।
अन्तर्धिमाप शमनोऽथ यथोक्तमेव
मानात्सतां गुरुतरं गुरुगौरवं हि॥१६३॥
ततोऽट्टहासं विपुलं विमुच्य
प्रपूर्य शङ्खं परिहृष्टचेताः।
जयं समाघोष्य च संयमिन्यां
पातालमागात्सह सैनिकौघैः॥१६४॥
** **अथ तत्र ततस्ततः सञ्चरन्नक्तञ्चरपतिर्निवातकवचाभिधैर्विद्रावितामरैर्गृहीतप्रासकार्मुकखङ्गतोमरैः पूर्वामरैस्सह बहूनि दिनानि कृतयुद्धोऽतिविद्धोऽदसीयैः शरनिचयैस्तेषु च बहून्निपात्य, कृपात्ययघस्मरैः सस्मयैरतिलाघवकृतविस्मयैस्तैरेव दृढमभिहन्यमानो विमुक्तविमानो विमानो मुमोह॥१६५॥
अत्रान्तरे शतधृतिस्सह देवसङ्घैः
प्राप्तो निवातकवचैरभिपूजितश्च।
ऊचे वचः परिमृशन् किल कार्यजातं
सान्त्वोक्तिभिस्सकलपूर्वसुरान्वराढ्यान्॥१६६॥
वचो दैत्योत्तंसाः शृणुत मम सम्मानयत मां
दशास्यो मद्वाक्यात्सुरदनुजबध्यो न भवति।
मृधोद्योगं त्यक्त्वा सह तदमुना सख्यमधुना
कुरुध्वं वैरं मा मनसि कलयध्वं कथमपि॥१६७॥
तन्निशम्य परमेष्ठिभाषितं भाषितं दनुभवा दशाननम्।
संविधाय सुहृदं निजान् गृहानानयन्त चतुरास्यगौरवात्॥१६८॥
उषित्वाऽथ मासं दशास्यः सुहृद्भिः
समासाद्य मायाः प्रचण्डाश्च तेभ्यः।
चरन्पुष्पकेण प्रहस्तादियुक्तो
ययौ कालकेयैः पुरं साधु गुप्तम्॥१६९॥
तं वीक्ष्य तत्र दशकण्ठमनुप्रपन्नं
ते कालकेयदनुजा अनुजातकोपाः।
अभ्याययू रचितभीममहाट्टहासा-
श्रुत्वा तत्सचिववरैर्वृतस्समन्ता-
द्गत्वा तन्मधुपुरमाशु रुष्टचेताः।
विक्षोभ्य प्रथितबलान्मधोः सहाया-
व्याहत्य व्यमुचदथो महाट्टहासम्॥१८५॥
वृद्धोग्रकोपमथ तं निशमय्य, युद्धो-
द्वद्धोद्यमं निजपतिं परिसांत्व्य शीघ्रं।
कुम्भीनसी दशमुखं शरणं प्रपन्ना
स्त्रैणं हि नाम समयोचितनद्धबुद्धि॥१८६॥
त्रायस्व मामविधवां कुरु वीर, भर्ता
भ्रातर्मधुर्मम मनः सदृशो न चान्यः।
इत्थं विलोचनजलैः सह गां सृजन्तीं
कुम्भीनसीं निशिचरेश इदं जगाद॥१८७॥
वत्से त्रिलोकजयिनो मम किं जितेन
त्वन्नायकेन जहिहि त्वमतो भयं मत्।
सोऽयं सुरेश्वरजयाय दिवं प्रयातुः
पार्श्वं ममैतु यदि मद्विजयाभिलाषी॥१८८॥
इति कुम्भीनसी भयकुम्भीनसगरुडं विरुडभिहितं भ्रातुर्वचनमाकर्ण्य, कर्णयोरथ पत्युर्निपात्य कृत्यमुचितं, रचितं रणोद्योगं निवर्त्य, प्रवर्त्य च तं सहोदरसाहाय्ये सुखमगारे विहारेऽर्पितमना आसीत्॥१८९॥
तदनु मधुना युक्तोऽयुक्तोद्यमः स दशाननः
त्रिदशनगरीं गच्छन् व्योम्नाऽसमानविमानतः।
निलयमकरोत्कैलासाख्ये गिरौ सह सैनिकैः
रविरपितदा पाश्चात्याम्भोनिधौ निखिलैः करैः॥१९०॥
चित्रमिदमत्र दृष्टं यातेऽप्यस्ताचलं दिनाधीशे।
चन्द्रोदयेऽतिरम्येपुष्करमा20भासते स्मरक्तरुचि॥१९१॥
अथ शनैश्शनैरपहृततमसि चंद्रमसि, मकरन्दभोजनस्पृहयालौतामरसाधिगमतन्द्रालौ कुतुकोपसेवितकुमुदालौ चालौ, परिहृतक्षुधे च राजकरैकसंपादितभोजने द्विजयूथे,(१) परिदर्शितमहाकारे च निपतितहिमकरकरे सलिलाकरे॥१९२॥
सतारका शुभ्ररुचा परीता
पर्यन्तदेशोज्ज्वलरक्तवर्णा।
गता तथा पुष्करसाध्वभिख्यां
दिवःस्थली दृष्टिसमा रराज॥१९३॥(२)
धृतास्थिमालोडुगणैर्वहन्ती
सितांशुबिम्बेन कपालमग्र्यम्।
रुचं दधाना भसितावदातां
शिवस्य भाति स्म तनूरिव द्यौः॥१९४॥(३)
सतां समूहैः परिवार्यमाणः
कुरङ्गशृङ्गञ्च वहन्निजांगे।
प्राग्वंशसंस्थापितषाद एष
भस्मावदातः किल दीक्षितोऽब्जः॥१९५॥(४)
_______________________________________________________________________________
(१) द्विजयूथे—चकोरसमूहे॥ (२) सतारकेति। सतारका—नक्षत्रसहिता अन्यत्र कनीनिकया युक्ता। शुभ्ररुचा परीता चन्द्रिकालिप्तत्वात्, अन्यत्र तारकायाः समन्तात् शुक्लवर्णो नैसर्गिकः पर्यन्तदेशे पश्चिमोपान्तप्रदेशे उज्वलः रक्तवर्णः सन्ध्यारागः यस्याः। अन्यत्र नेत्रान्तः स्वभावतो रक्तवर्णः। पुष्करमिति साध्वीं शुभां अभिख्यां नाम गता। अन्यत्र। पुष्करस्य कमलस्य साध्वीं अभिख्यां शोभां। अतएव दिवः स्थली दृष्टिसमा रराज॥ (३) भसितवदवदातां शुक्लां। अन्यत्र भसितेन भस्मना अवदातां। अन्यत्सुगम। (४) सतां मनीषिणां, नक्षत्राणां च समूहैः, परिवार्यमाणः। कुरङ्गशृङ्गंनिजाङ्गे वहन् अङ्कस्थितकुरङ्गकत्वात्। अन्यत्र विधिविहितत्वात्। प्रागुदयोत्तरक्षणं वंशेषु वेणुषु संस्थापिताः पादाः किरणा येन सः, उदयकालिकचन्द्रकिरणानामुन्नतदेशमात्रस्पर्शित्वात्, वंशानाञ्चोन्नतत्वात्। अन्यत्र प्राग्वंशे हविर्गृहप्राग्भागे संस्थापितपादः सञ्चरणवान् भस्मवदवदातः। भस्मना चावदातः। अब्जःचन्द्रः, दीक्षितः तत्तुल्ये लक्षणा, आसीदिति शेषः॥
कुरङ्गवासः कृतयोगिहर्षः
समुद्रजाताऽऽदृतादिव्यपादः।
अनन्तशोभो ह्यमृतैकरूपो
विधुर्विभाति स्म तमो विनिघ्नन्^(१)॥१९६॥
इत्थमतिमात्रविवृतांशुममृतांशुमालोक्य सोत्कण्ठस्य दशकण्ठस्य मनसीत्थमस्फुरत्॥१९७॥
सिञ्चन्नप्यमृतेन हन्त सकलान् पीयूषभानुश्चिरं
तप्ताङ्गारवितापिभा भवति यन्नित्यं वियुक्तावलौ।
तन्नूनं जलधावयं समुषितो हालाहले स्नेहवां-
स्तत्खण्डं शशदम्भतो हृदि वहत्यातापि दुर्दैविनाम्॥१९८॥
** **इत्थं विरहिजनमारे, साहाय्यकसमृद्दीपितमारे, कुमुदिनीचाटुकारे प्रदर्शितजगदाकारे, शूर्पकारातिप्रहितशरततिप्रहतिसञ्जातखेददशाननो दशाननस्तत इतः तुहिनांशकरप्रतिफलनपुनरुक्तप्रसादे रजतगिरिप्रासादे सञ्चरन्, पञ्चशरविजयवैजयन्तिकामिव, सुरलोकशुभादृष्टतरुप्रसूतिमिव जननयनपुण्यपरिपाकमिव, आकरं लावण्यस्य, आचार्य जनचित्ताकर्षणविद्यायाः, आश्रयं प्रेम्णां, आवासं कोमलतायाः, आस्पदं मदनसौभाग्यस्य, समुद्रं सकललोकप्रीतिनदीनां, निधानं कुसुमशरसर्वस्वस्य, पिधानं मुनिमनसामप्यात्मबोधस्य, जङ्गमीभूतामिवजातरूपलतां, मेघच्युतामिव विद्युतं,
________________________________________________________________
१. कुरङ्गेति। कौ भूमौ रङ्गे तदाख्ये विमाने वासः यस्य सः। कुरङ्गस्य हरिणस्य वासः वासस्थानञ्च। कृतः योगिनां मुनीनां संयुक्ततरुणानाञ्च हर्षो येन सः। समुद्रजातैः समुद्रसमुहैरादृताः आदरात्प्रत्युद्गताः दिव्याः देवाः पादाः किरणः यस्य, समुद्रजातयालक्ष्म्या आदृतौ दिव्यपादौ यस्य स इति च। अनन्ता अपरिमिता शोभा यस्य. अनन्ते शेषे शोभत इति च। अमृतं सुधा एकं केवलं रूपं शरीरं यस्य। मोक्षैकस्वरूपश्च। तमः ध्वान्तं अविद्याञ्च विनिघ्नन् विधुश्चन्द्रो हरिश्चविभाति स्म॥
लोकमोहनार्थमटन्तीमिव कन्दर्पसुन्दरीं, जृम्भामिव मुखविकासोद्गमां, द्रौपदीमिव नकुलस्त्रियं, गङ्गामिव त्रिभुवनसञ्चरिणीं, मन्दाकिनीमिव वेणीलब्धपरभागसुमनसं, यमुनामिव विष्णुपदजातरङ्गनर्तनकरीं, कादम्बिनीमिव अमृतधाराधरां, सरसीमिव रमणीयकोकनदमुखभागां, चन्द्रिकामिव योगिजनमानसोल्लासनचणां, मातङ्गवधूमिव मदजातमन्दगमनां, विपुलां नितम्बयोः, चटुलां नयनयोः, पृथुलां कुचयोः, कुटिलां कचेषु, मृदुलां तनौ, विमलां स्मिते, कमलां सकलाङ्गेषु, सुमलाञ्छितकबरिकां,सकलाब्ज21वदनां, सलीलां गतौ, सुनीलां दृगन्तयोः, विध्वान्तदिविषदध्वान्तरचारिणी, विध्वंसितमुनिजनमहारम्भा22मूरुस्तम्भावजितरम्भां रम्भां सम्भावयामास नयनैः॥१९९॥
** **ततश्च रावणस्य॥
धेयै जगाम23विलयं भ्रमिताञ्च चित्तं
लज्जा विनाशमुदयं स्मरचापलीला।
तद्दर्शनात्स्रुतजलश्च बभूव देह-
श्चन्द्रावलोकनवशादिव चन्द्रकान्तः॥२००॥
मुखेति। मुखविकासेन आस्यव्यादानेन उद्गमः उत्पत्तिर्यस्यास्तां, अन्यत्र, मुखे विकासोद्गमः शोभाप्राप्तिः यस्यास्तां। नकुलेति। नकुलस्य स्त्रियं पञ्चानामपि पाण्डवानां तस्याः पत्नीत्वात्तस्यापि पत्नीत्युक्तं। अन्यत्र कुलस्त्री न भवतीति तादृशीं। त्रिभुवनेत्युभयत्र तुल्यं। वेणीति। वेण्यां प्रवाहे लब्धः परभागः भूयान् प्रदेशो यैस्ते सुमनसो देवा यस्यां तां। अन्यत्र, वेण्यां बद्धकचेषु लब्धपरभागाः वर्णोत्कर्षमाप्ताः सुमनसः पुष्पाणि (अर्थाच्छुक्लानि मल्लिकादीनि) यस्यास्तां। विष्णुपदेति। विष्णुपदजायाः गङ्गायाः तरङ्गेषु नर्तनं जलोत्प्लवनं करोतीति, तस्या गङ्गाजलप्रवेशित्वात्। अन्यत्र विष्णुपदे व्योम्नि जाते रङ्गे नर्तनस्थले नर्तनकरीं, अप्सरसामाकाशनर्तनस्य स्वाभाविकत्वात्। अमृतेति। अमृतधाराः जलासारान् धरतीति। अन्यत्र अमृततुल्यरसविशिष्टाधरामित्यर्थः। रमणीयेति। रमणीयः कोकनदः चक्रवाकशब्दः मुखभागे यस्यास्तां। अन्यत्र रमणीयं कोकनदं रक्ताम्बुजमिव मुखभागः वदनप्रदेशो यस्यास्तां। योगीति। योगिनां मुनीनां संयुक्ततरुणानाञ्च मानसस्य उल्लासने कामवशवर्तित्वकरणे समर्थो। मदेति। मदेन दानेन जातं मन्दगमनं यस्यास्तां। अन्यत्र। मदः आसवादिजन्यः। सम्भोगान्वेषणेन गमनशीलत्वात्। चटुलामिति। चञ्चलामित्यर्थः॥
तामेनां सुरंसुन्दरीमथ बलादाकृष्य रक्षोऽधिप-
श्चाटूक्तौ चतुरः “प्रियेऽमृतभृतै24रङ्गैः समालिंग्य मां।
कन्दर्पाहिमहाविषावशतनुं सञ्जीवये, स्त्वंपुन
जीवातुर्मम दैन्यभाज” इति च प्रोवाच गामत्रपः॥२०१॥
प्रत्यब्रवीत्सा भयकम्पिताङ्गी स्नुषा तवाहं मयि मुञ्च वाञ्छाम्।
त्वद्भ्रातृपुत्रोनलकुवरो मांवृत्वा निशोऽस्या दयितामकार्षीत्॥२०२॥
“हुताशनं साक्षिणमाकलय्य
पाणौ गृहीता कुलसुन्दरी या।
तस्या व्रतं खल्विदमात्मनीन”
मितीरयामास वचो दशास्यः॥२०३॥
** **इति प्रयत्नशतेनाप्यनुदितकामां सौन्दर्यस्य सीमामतिवामां सुरवामां सामाविषयभूतां तामालोक्य पञ्चबाणबाणप्रपञ्चवञ्चितहृदयसञ्चितविवेकतया सहनीयेतरतापः, पापमप्यगणयन् कोणपगणनायेकः, दुःखविस्मृतलीलां भयजनिततापपरिग्लषितकुसुममालामैलविलनाथ25॥")तनयैकलोलामपरित्यक्तनिजशीलां तां बालां बलादाक्रम्य बुभुजे॥२०४॥
बिभ्राणा परमाकुलान् श्र्लथतया विभ्रष्टकाढ्यान् कचान्
प्रस्वेदप्रविलुप्तचित्रकमुखी श्वासापरक्तायरा।
मन्दाक्षेण कृतेक्षणा स्वपदयोः कम्पायमानाङ्गका
सा श्रीदात्मजमाप सोऽपि बुबुधे सर्वं प्रतीच्या दृशा॥२०५॥
शापं च रक्षःपतये ददौ सो-
ऽ"कामां स्त्रियं चेदित ऊर्ध्वमेषः।
भुञ्जीत, मूर्ध्ना शतधाऽस्य सद्यः
फलिष्यते नून” मिति क्रुधान्धः॥२०६॥
_________________________________________________________________
इत्येतेषु प्रत्येकमन्वेति।
श्रुत्वातदार्ततरधीर्नव्ठकूबरोक्तं
गत्वा परम्परितशापगणेन चिन्ताम्।
धृत्वाऽथ धैर्यमचलत्सह सैनिकौघै-
र्न त्वाहवे मतिमुदास समं सरौघैः॥२०७॥
** **तदनुपृतनाऽधिनायकपदमधिगतेन मधुना सह महावातेनेव कल्पान्ताश्रयाशो विरचितविविधजयकोलाहलोऽयं त्रिदशालयं प्रविश्य तत्रत्यान् धृताधिपत्यान् मत्याप्यनाकलितरणकृत्यानत्यादरमत्याहितशङ्काकरीं युद्धकाहलीमतिव्यलीकामबोधयद्वृद्धश्रवःप्रमुखान् विश्रवःकुलकलङ्कः॥२०८॥
तदनु दनुजनिकरविहस्तीकृतामरवत्याममरावत्यां विप्रकीर्णश्रवसि चोच्चैरश्रवसि, संक्षोभितान्ते समन्ततो वैजयन्ते, जयन्ते च किञ्चिदधिगतविजयान्ते चिरविरचितसमरतान्ते मूर्च्छाक्रान्ते विश्रान्तेः कृते पुलोम्ना निजनिलयान्ते विनिहिते, रोषदीर्घीभूतमुखश्वसनो द्विरसनोत्तममिव खङ्गंकटितटे निबध्य वामशयकुशेशयशयशरासनो मातलिसारथिं रथमारुह्य निगृह्य च रिपुवाहिनीं, वाहिनीजलमिव शकुलः26 (१) प्रतीपं प्रविश्य प्रतिपक्षानीकं, सम्मुखागतेन दशमुखेन दुर्जयेनापि निर्जराधिपतिश्चिरं युयुधे॥२०९॥
क्रमेण च॥
निष्कृत्तक्रूरचापं निरवधिविगलद्रक्तसिक्ताखिलाङ्गं
निर्वाणप्राप्तभूतं नयनगणगलद्बाप्पसंक्लिन्नवस्त्रम्।
कालाक्रान्तस्वरथ्यं कलितशरगणाक्रान्तितान्ताङ्गसन्धिं
निर्धूताऽनीकदर्पं व्यतनुत सुमनोनायको राक्षसेन्द्रम्॥२१०॥
तादृक्षं रिपुनिर्जितं स्वपितरं रक्षोऽधिनाथात्मजो
दृष्ट्वाऽदृष्टरथे स्थितोऽम्बरतले मायावलालम्बितः।
संस्तब्धंविरचय्य शक्रमिपुभिर्बद्धं दृढं रज्जुभिः
पश्चात्स्वस्तिकमानिनाय नगरं तातं समाश्वासयन्॥२११॥
कारागृहेस्थितिजुषोऽथ सुराऽधिनेतु-
र्निर्मोचनाय विबुधैर्मुहुरर्थ्यमानः।
तैः संवृतः करुणयाऽऽर्द्रमना विरिञ्ची
रक्षोऽधिनाथसविधं समुपाजगाम॥२१२॥
तदनु रावणेन रावणिना च विधिवदधिकतरादरमभ्यर्चितो विधिर्निरवधिकविनयवितीर्णभद्रासनोपविष्टस्त्रिविष्टपपतेर्मोचनार्थं तज्जयिने वितीर्णविविधवरो विरोचनमिव विधुन्तुदभक्षितमृभुक्षाणं धृतक्षामशरीरं शोच्यतरंपरिमोच्य, हृदयशल्यायितैः “अहल्यासङ्गमसञ्जातपापफलमिद” मित्यादिभिः सत्यानपेतैर्वचनजातैः सन्तर्ज्य विसर्ज्यच याजितसप्ततन्तुपवित्रीकृतमेनं हृष्टः स्वविष्टपमध्यासिष्ट॥२१३॥
तदारभ्य काकुत्स्थ देवेन्द्रजेते-
त्यवाप्तः समज्ञां त्रिलोकीप्रसिद्धाम्।
अतस्तद्वधेन प्रमोदाम्बुराशे-
स्तलं प्राप्तमस्मन्मनो मानवेश॥२१४॥
एवंविधां तिरस्कृतसुधारसां रसाधिपतिः कथां तथा समाकर्ण्य कर्णानन्दममन्दं विन्दन् सुन्दरतरेण स्वरेण जम्भभेदीवाम्भोजासनं कुम्भसम्भवमभाणीत्॥२१५॥
शुश्रूषां करवाणि ते कुलपते सद्यः प्रसीद क्षणं
शुश्रूषा महतीयमस्ति हृदये तामद्य निर्वापयेः।
तत्काले प्रवला नृपाः किमभवन्नैवेह यद्रावणः
क्वापि प्राप पराजयं क्षितितले युद्धाय बद्धादरः॥२१६॥
आकर्ण्य तां वाचमपारभूमा
रामेरितां श्रोत्रमनोऽभिरामां।
सर्वंसहावस्त्रहरो मुनीन्द्रः
सर्वंयथावत्कथयाम्बभूव॥२१७॥
पुराऽऽसीदैक्ष्वाकप्रवर भुवनाल्युद्गतयशा
महीपालो नाम्नाऽर्जुन इति महावीर्यनिलयः।
कदा चिद्रेवांसोऽगमदयुतयुक्तोऽम्बुजदृशां
जलक्रीडाञ्चाधाद्दशशतकरोबद्धकुतुकः॥२१८॥
नत्रान्तरे दशमुखो नगरं तदीयं
गत्वा रणाय तदभावनिवर्तमानः।
विन्ध्यावनीधरमवाप्य विमानतोऽसौ
सिष्णासुरापदथ मेखलकन्यकां तां॥२१९॥
स्नात्वा तत्र यथाविधि प्रयतहृत्पीताम्बरालंकृतः
पूतात्मा निजभृत्यवर्गसमुपानीतैःप्रसूनोच्चयैः।
लिङ्गं चन्द्रकलाधरस्य पुलिन चन्द्राद्भवाया अय
सौवर्णं हृदि भावितेशचरणश्चास्थाप्य पूजामधात्॥२२०॥
पूजान्ते विरचितनृत्त एषरक्षा
राजोऽग्रे पुरमथितुः कृताञ्जलिः सन्।
नत्वाङ्घ्रौतमथ सहस्रकृत्व ईशं
तृष्टावावश इव हर्षरुद्धकण्ठः॥२२१॥
काऽपि मम भाग्यसीमा कामिन्याकलितकायसमभागा।
कलयतु कल्याणं मे कपालपाणिरपि कल्पितमहर्द्धिः॥२२२॥
इन्दुरविवह्निनयनकारिन्द्रियजिन्मानसाम्बुजनिकेतम्।
इन्धां समीक्ष्य लोचनमिदामीति निर्देशवर्जितं तेजः॥२२३॥
भिक्षार्थमटसिशम्भोरक्षां निजपादसंगिनां कुर्वन्।
शिक्षां कुरु मदरीणां दक्षाध्वरवैरिणे नमस्तुभ्यम्॥२२४॥
आधेरन्तं करुणाम्भोधे शिव धेहि शेवधे धाम्नाम्।
बोधेन विमलय मनः क्रोधेनेक्षिष्ट मा भवान् जातु॥२२५॥
अमृतात्मतां प्रपन्नोऽस्यपहृततापोऽसि पादसक्तानाम्।
सत्परिवृतः सुवृत्तश्चन्द्र इवाभासि चन्द्रमोलैत्वम्॥२२६॥
तापाज्जनांस्त्रिविधतो निजपादसक्तान्
गोपायितुं स्वशिरसा वहसे सुधांशुम्।
पापानि हन्तुमपि निर्जरधामसौध-
सोपानवीचिममृताशधुनीं च तेषाम्॥२२७॥
दुग्धोदे यस्य बाणो धनुरपि धरणीमध्यतो ज्याऽहिलोके
वक्रे ऊर्ध्वं रथोऽधो धरणिसुरमुखेष्वासते हन्त रथ्याः।
यन्ताऽऽस्ते सत्यलोके रिपव उडुपथे नित्यमाबद्धचारा
इत्थं भूतेऽपि युद्धोपकरणनिवहे पातु जैत्रः पुरारिः॥२२८॥
निष्कामादिहृदेयुषे निधिपतेर्मैत्रीपदे तस्थुषे
निस्तोयांबुधरत्विषे निकृतिसन्नद्धासमेषुप्लुषे।
निन्दाकृत्परमद्विषे निरुपमानन्दात्मतां जग्मुषे
नीहाराद्रिसुतामायार्धवपुषे नित्यं नमो ज्योतिषे॥२२९॥
अत्रान्तरे हस्तसहस्रकेण पूरो निरुद्धः कृतवीर्यसूनोः।
सोमोद्भवायाः समुदूढवेगः प्रतीपमागाद्दशकण्ठपार्श्वम्॥२३०॥
मल्लीचम्पकजातिमुख्यसुमनःपुञ्जे गिरीशार्चना-
यानीतेऽपहृते जलेन बहुधा सम्प्लाविते चात्मनि।
सद्यः प्राप्ततटः समापितनुतिर्बद्धाञ्जलीन्मन्त्रिणः
प्रोवाच प्रतिघाऽतिरक्तनयनः स्वं चन्द्रहासं स्पृशन्॥२३१॥
कस्येदमन्तकभटानयनैकहेतुः
कर्मेत्यवेत झटितीति दशाननस्य।
श्रुत्वा गिरं गगनमार्गगतः प्रहस्तो
गत्वाऽर्जुनं समवलोकयति स्म नद्याम्॥२३२॥
आसत्य सोऽथ रजनीचरनाथमन्त्री
व्यज्ञापयद्दशमुखाय यथाऽऽत्मदृष्टं।
सोऽपि क्रुधाहृतमना अतिवीरमानी
साकं ययौ निजबलेन रिपुं जिघांसुः॥२३३॥
अथ रजनीचरनायकोद्भटभटरटितविद्रुतेषु रेवातटनिविष्टेषु निजभटेषु, तत्कोलाहलाकर्णनसञ्जातसाध्वसप्रकम्पितप्रतीकप्रमदाजनस्वयङ्ग्रहाश्लेषपात्रीकृतमूर्तिर्निजकीर्तिविरचितभुवनपरिपूर्तिरार्तिमरतिरापिपादयिषू रुषासञ्चारितमार्गाध्वनीनोऽविनीतशिक्षणप्रकाशितवीर्यः कृतवीर्यसुतो विकटमेवतटमवाप्य विहस्तीकृतैः समस्तैरपि रिपुवलैरास्तीर्यवसुन्धरां बन्धुरं निपात्यमानामात्यकन्धरतया विकृतदशाननं दशाननं साधुजनवितीर्णविमाननंविमानतो विनिपात्य, मुष्टीमुष्टिविनिष्पिष्टवक्षसं रक्षस्सङ्घस्य समीक्षमाणस्यैव सलीलमादाय, नगरमानीय काराकुटुम्बिनं कारयामास॥२३४॥
धारालदृष्टियुगला धरणौ कृतेक्षा
मुख्या महोदरमुखा मुखकान्तिहीनः।
लङ्का मवाप्य सचिवा निजनाथमोक्षं
सञ्चिन्तयन्त उपजग्मुरहो न चान्तम्॥२३५॥
श्रुत्वाऽयं निशिचरनायकस्य बन्धं
विप्रर्षिर्मरुतइवाथ दीर्घदर्शी।
निर्मोक्षं सपदि चिकीर्षुरर्जुनस्य।
प्रायासीन्नगरमथार्चितश्च तेन॥२३६॥
अथ वाचमाह कृतवीर्यसुतं परिसान्त्वयन् शतधृतेस्तनयः।
नृपवर्य तेऽद्य यशसा धवलीकृतविष्टपस्य नृतिरस्ति किमु॥२३७॥
तन्मुञ्च राजन् रजनीचरेश्वरं संप्राप्तभङ्गं प्रथमं त्वदन्तिकात्।
एनेन कारागृहवासितेन ते सिद्धिं प्रपश्यामि न कामपि प्रभो॥२३८॥
इति सप्रार्थनं मुनिप्रकृष्टवचनं निशम्य प्रशमय्य च हृदयगतां रुषंजातानुतापेन भूषेन प्रशंसितदशवदनप्रतापेन रिपुजनस्तुतवीर्येण कार्तवीर्येणमध्येसभं वध्येन तुल्यमानीय बन्धाद्विमोचितो “ममोचितोऽयमवमानोमहीपतीनक्रममाक्रामतः” इति तत्प्रियतमायामतिमात्रक्षमायां क्षमायां समापयन्निव निजापराधं विनततरमुखी दशमुखो मन्दतरेण पादचारेण सञ्चरमाणोऽलं कातरो लङ्कामवाप॥२३९॥
कदाचनोऽऽशराधिपो महाबलेन सङ्गरे
समुत्सुकः समासदत्स्वयं कपीशितुः पुरीम्।
अमात्य ऊच उच्चकैरथात्र तारनामकः
“प्लवंगनायको गतः पयोनिधीन्मिमंक्षया॥२४०॥
अमी तमीचरप्रभो प्रमीतबाहुशालिनां
सितास्थिसञ्चयास्ततः कृतालयोऽत्र मा स्म भूः।
यदीदृशं विधीप्सितं किमीरितैः समीपतो
भवेर्द्रुतं रवेर्नतौधृतादृतेः कपिप्रभोः॥२४१॥
इति तारं तारवचनं हृदि विरचय्यापि विधिचर्यावशंवदोऽखण्डरणकण्डूतिविनुन्नः समुन्नतभुजबलपराभूतिदक्षिणो दक्षिणोदधौ क्रियमाणसंध्याकार्यं वलीमुखार्यं ददर्श॥२४२॥
अथ दक्षिणवारिधेः प्रतीरे कपिनाथं रघुनाथ वीक्ष्य पश्चात्।
ग्रहणे समुपेत्य बुद्धिमाधात्तरसाऽयं तरसाशनाऽधिनाथः॥२४३॥
आलक्ष्येदं सूक्ष्मबुद्धिः स वाली यत्तस्तस्थौ बाहुमूले प्रसार्य।
जग्राहैनं राक्षसेन्द्रश्चतत्र व्यग्रान् बाहून् विंशतिं संप्रयुज्य॥२४४॥
परिगृह्य तथैव तं कपीन्द्रोऽप्यगमत्पश्चिमवारिधिं नभस्तः।
स च तत्करमूललम्बमानः प्रतिपेदे गरुडास्यगाऽहिलीलां॥२४५॥
स्नात्वाकक्षगतारिरत्र जलधिं कौबेरकाष्टास्थितं
प्राप्यात्रापि तथैव मज्जनविधिं कृत्वाथपूर्वाम्बुधौ।
कृत्वैवं समवाप्य नैजनगरीं कक्षान्मुमोचाम्बरे
पङक्त्यास्यं, युगपत्त्रपाजलनिधेर्भूमेव सोऽगात्तलम्॥२४६॥
तदनु बहु नमन्तं सख्यमिच्छन्तमन्तः-
करणविधृतलज्जं तं कृतार्थं विधाय।
अगमयदथलङ्कां योऽथ सत्कृत्य सोऽपि
प्लवगपतिरघानि त्वच्छरेणैककेन॥२४७॥
पुनश्च पप्रच्छ स रामचन्द्रः स्थिते हनूमत्यपि वानरेन्द्रः।
किमर्थमाशान्तमभिद्रुतोऽभूद्भीतोऽवसद्भूभृति चर्श्यमूके॥२४८॥
प्रत्युवाचमैत्रावरुणिः॥
महाराज श्रूयतामस्य निदानं। पुरा किल समुपहसिताप्सरोलावण्यां गुणवरेण्यां गृहिणीं केसरिनाम्नो वानरस्य परिस्कन्दितसकलपूरुषमनस्कामयस्कान्तशलाकामिव कठिनतरस्यापि मानसस्य लोहस्येव समाकर्षणचतुरां चतुराक्षिविलोकनसमुत्पादितकञ्जपुञ्जामञ्जनाभिधानव्यञ्जितां स्वभर्तरि शम्बसादनसादनाय सद्मनो निर्गते कामरूपतया गृहीतसुभगतरमानुषरूपामापादितकुसुमचापाशुगतापां विलोक्य सफलीभूतायुर्वायुः सविधमुपेत्यप्रकाश्य च विविधचाटुपटुत्वं तेन सह सङ्गमे पातिव्रत्यभङ्गशङ्किनी “मा भैषीर्मनसैव मे त्वया सह सङ्गतिरस्तु निस्तुलगुणवस्तुविस्तृतयशाः पुत्रस्तु ते भविते”त्यनुगृह्यानुभूय च परममानन्दं, नन्दनोत्पादनेन विरचितसुरर्द्धिरन्तर्द्धिमाजगाम॥२४९॥
अथैवमनुगृहीता मरुता विहितादरा सा सुसुताभिजनने, जननेत्रसफलीकरणपटुतरतेजोभरणं, तरणिमिव कुलिशाभरणदिशा, करिणमिवच वशा, विशालवक्त्रंसकलगुणामित्रं पुत्रं कुत्रचन गोत्रप्रदेशे प्रसूय फलाहरणार्थमगात्॥२५०॥
गतायां जनन्यां परित्यज्य पुत्रं
धरण्यां शयानोऽशनायापरीतः।
समुद्यन्तमाराद्रविं सोऽर्भकोऽथो
फलास्वादनेष्टोऽडयिष्टोद्ग्रहीतुम्॥२५१॥
विधुन्तुदस्तं प्रसमीक्ष्य यान्तं विहस्ततामेत्य सुराधिपाय।
विज्ञापयामास मदन्य एको बुभुक्षते ब्रध्नमिति प्रभीतः॥२५२॥
इत्यरुन्तुदं विधुन्तुदवचनं निशम्य सावेगमारान्नीराजितमैरावृतं तारापतिरिव पूर्वाद्रिमधिरुह्यासह्यविक्रममक्रममेव क्रमं विदधानमतिदानं सुर
मातङ्गमप्यभङ्गमेव भक्षयितुमारब्धवन्तं संरब्धंतं वलीमुखशिशुं सलीलमेववारितदैतेयदम्भोद्रेकेण दम्भोलिना निहत्य बृहत्यवनीधरशिखरे कृपारहितो निपातयामास वासवः॥२५३॥
अथ निजपुत्रनाशनक्रोधनतया वलमाने पवमाने सर्वस्मादपि लोकादात्मानमाकृष्यगिरिगुहां प्रविष्टे सह शिशुना, शुनासीरप्रमुखैर्बर्हिर्मुखैरावेदितः सावेगमेव जगदुद्वेगं, जातशङ्कः पङ्कजासनः सर्वैरपि सुपर्वभिः समंखर्वेतरेण वेगेनोपेत्य, दुर्वारमपि मरुतः कोपं निर्वाप्य पर्वामृतांशुशीतलैःसान्त्वैः सञ्जीव्य च प्रभञ्जनादञ्जनायां सञ्जातं कञ्जातकेसररुचिं पुञ्जीभूतमिव नयं तनयं, वितीर्य च विविधवरजातं, वरजातमेनं विदधानो हनूमदभिधानोज्ज्वलं, विज्वरमेव पुनरप्यनिलं प्रचलय्य यथाऽऽगतं प्रययौ॥२५४॥
काले गतेऽथ स सुतो मरुतो महर्षीन्
हर्षीक्रतून् विदधतः परिबाधते स्म।
शप्तः कदाचिदथ तैर्मिलितैर्बलं स्वं
जानाति न स्म च विना स्तुतिजालमग्र्यम्॥२५५॥
अथ जातु मरुत्सुतो ग्रहेशं
प्रणमन् प्रार्थयते स्म शब्दविद्याम्।
स च तं दिनमात्रतोऽखिलां तां
मुदितोबोधयदप्रमेयबुद्धिम्॥२५६॥
ततो निजपुत्रपरिपालनमेवातिदक्षिणां गुरुदक्षिणां मन्यमानेन गुरुणा करुणावरुणालयान्तःसञ्जातमज्जनेन कञ्जालिबन्धुना समादिष्टस्तद्वचनंप्राभृतकमिव स्वीकुर्वन् प्राभञ्जनिस्तदा प्रभृति सुग्रीवे व्यग्रीभूतहृदयोऽपिदयोज्झित इव मुनिगणवितीर्णशापविस्मृतनिजभुजबलतया न चलतया स्वाभाविक्या सापदमप्येनं नूनमिननन्दनमुपैक्षिष्ट॥२५७॥
एवं मुनिपरिबृढेरितां निजरसतिरस्कृसुधां कथां समाकर्ण्य समासादितामन्दानन्दसन्दोहसन्दानितमना यामिनीचरशत्रुस्तान्मुनीन्यथाविधि सप-
र्यया मर्यादातीतया पर्यायतः पर्याप्तमारादाराध्य, स्वधाम संप्रेष्य शिष्यजनपरिवृतान्, हतारातितया गताधिः कृतामितानन्दः पौराणां मुखमासामास॥२५८॥
तदनु प्रचलितेषु कतिपयेषु दिवसेषु निजराज्याभिषेकमहानुभवमुदिततमान् महानुभावो रामोऽपि सामोपहितया वाचा कामोचितैश्च तैस्तैर्बहूमानैर्मानैकधनो धनोपबृंहितैर्हितैषिणो यथालाभपरितोषिणो यथोचितं परितोष्य, कपीश्वरमुखान् वलीमुखान् नृपांश्चान्यानन्यादृशमेव सम्मान्य, मान्यतरचर्यो वितीर्य चाभ्यनुज्ञां निजावासगमनाय प्रजारञ्जनप्रजागरितमनाबभूव॥२५९॥
अथ यथाक्रमं पराक्रमवशीकृतसामन्तचक्रः शक्रगुरुमपि मतिविभवेन विजितवद्भिरतिवृद्धैर्ज्ञानशीलाभ्यां निजनयोपायकुशलताप्रकम्पितपरराज्यैः शत्रुमित्रोदासीनसमदृष्टिभिः कोशसम्पूरणसादरैः सर्गारम्भकालिकगिरिभिरिव पक्षपातरहितैरहितैधनासहनैरतिहितैस्सचिवैःसुमन्त्रादिभिरन्ववेक्ष्यमाणराजकार्यः, कार्यं किमपि प्रजानामपश्यन्, वश्यमेव जगदखिलं निर्धारयन्, कदाचिदतिसूक्ष्मबुद्धिर्वेदागमपारदृश्वनां मुनीनां सदसिधर्मस्येतिकर्तव्यतां निर्धार्य प्रजासु प्रचारयन्, कदाचिदतुल्यमाल्यमलयजादिसाधनः सरसमधुराभिर्वाग्भिर्मन्दस्मितसुन्दरमुपचर्यमाणो विदेहराजमृतया विषयसुखमनुभवन्, कदाचिदतिविनीतेन नरपतिशतेन समानीतं करनिकरमादाय समुचिततमसम्माननैः “इतोप्यधिकतर एवातः परं करोदेयः” इति तन्मनसि जनयन्नादरं,कदाचिदात्मारामैरतिदुश्शमविषयमधुपिपासापरिहृतैरद्वितीयब्रह्मात्मैक्यविचारसुखमनुभवन्ज्ञानिभिः, कदाचित्सरसतरसाहित्यमाधुर्यास्वादनसुखितः सम्मानयन् कवीन्, कदाचिदखण्डातिप्रचण्डवाग्वैग्वरीप्रकम्पितप्रतिवादिभिः प्रतीततरैः शास्त्रार्थवादतत्परैः पण्डितप्रकाण्डेस्तारतम्यनिश्चायकपदं नीयमानः शास्त्राटवीं प्रविशन्, कदाचित्का-
————————————————————————————————————
कोशस्य द्रव्याधारगृहस्य पूरणे सादरैति पक्षपातेति। पक्षपातः स्नेहः पक्षाणांपतनं च। अहितेति। अहितानां शत्रूणमिधनं वृद्धिः तस्य असहनैः।
व्यनाटकाख्यायिकानां सूक्ष्मतरं विमर्शमादधानः कदाचिद्वीणावेणुमुरजादिवाद्यकलासङ्कलनहृदयङ्गमतरतामुपगतां गानगोष्ठीमश्नुवानः कदाचिदतिरूक्षनियुद्धप्रदर्शितसामर्थ्यैःसपुलकीकृतवीक्षकजनैर्देशान्तरागतैर्मल्लैः परिष्टूयमानसारग्रहणचातुरीकः, कर्ता कमनीयतमकृत्यानां, संस्कर्ता पूर्वतरराजप्रवर्त्तितस्य नातिसुभगस्य नयस्य, कुटिलगामित्वं नदीषु न जनेषु, कञ्चुकनिषेवणंकामिनीषु न भटेषु, तीक्ष्णत्वं सायकेषु न वचस्सु, क्षताधायकत्वं सुरतेषु नकलहेषु विग्रहास्पदत्वं देवालयेषु न सामन्तेषु, प्रौढबन्धत्वं कविप्रबन्धेषु नापराधिषु च प्रतिष्ठापयन्, अनवरतमतिमात्रपरिवारपरिवृतोऽप्यद्वितीयः,मन्मथ इवालक्ष्यविग्रहः, कुमुदाकर इव राजकरसंपूरितविलसत्कोशः, क्षीरोदमथनारम्भ इव लक्ष्मीप्राप्तिहेतुभूतः, चन्द्र इव लक्ष्मणानुगतः, समुद्र इवमुक्तानामप्यालयभूतः, भूतानुकम्पानिधिरधिपतिः साकेतस्य, रामश्चिरमवनीमवनकर्भीचकार॥२६०॥
शासति रामे पृथिवीं शाम्यदवस्थं रजोद्वयं27 समभूत्।
युद्धाय भूपतीनां सर्वेषां चापि पापकरणाय॥२६१॥
विशदितलोके यशसा रामे राजन्यगुर्मुदं हंसाः28।
केचित्तु दूयमाना आसन् काकस्य निजतुलाप्राप्त्या॥२६२॥
कुटिलेति। कुटिलगामिव वक्रगतिशीलत्वं, असन्मार्गप्रवृत्तिश्च। कञ्चुकेति। कञ्चुकः कवचं, स्त्रीभिर्धार्यः वस्त्रविशेषश्च। तीक्ष्णत्वं लघुभेदक्षमत्वं कटुत्वं च।विग्रहा देवतामूर्त्तयः कलहाश्च। प्रौढेति। बन्धा रज्ज्वादिकृताः। आलङ्कारिकोक्ताः सर्वतोभद्रादयश्व। अपराधिनां तत्राभावात्। अद्वितीयः द्वितीयरहितः—असदृशश्च। मन्मथ इति। अलक्ष्यः द्रष्टुमशक्यःविग्रहो मूर्तिर्यस्य, अन्यत्र विग्रहो युद्धं। कुमुदेति। राज्ञश्चन्द्रस्य करैः किरणैः संपूरिता अत एव विलसन्तः विकसिता इति यावत्कोशाः मुकुलानि यस्मिन्। अन्यत्र राज्ञां सामन्तादीनां करैर्देयद्रव्यैः संपूरितःविलसन् कोशः धनागारं यस्य। क्षिरोदेति। लक्ष्मीर्देवता संपत्तिश्च। चन्द्र इति।लक्ष्मणा कलङ्केन अनुगतः। पक्षे लक्ष्मणेन सौमित्रिणा। समुद्र इति। मुक्तानां मौक्तिकानां अन्यत्र मोक्षं प्राप्तानां॥
अथ कदाचिदशेषमानुषमानसविशेषमोदपुषि, सम्फुल्लंसुरभिकेसरकेसरपरागविराजितदशाशाजुषि, पथिकयुवधीरतामुषि, कमनीयतमसुमसमलंकृतकामिनीवपुषि, युवजनविजयोद्यतपुष्पधनुषि, प्रणयकलहकुपितकामिनीनिद्राकृषि विरहिजनाङ्गारायमाणसुधाशोचिषि, कुरवककुसुमासङ्गसङ्गतसुखभृङ्गाङ्गनासङ्गीतभङ्गीनन्दितकृशाङ्गीजनस्तूयमानप्रमदावनतामुपेयुषि प्रतिदिवसापचीयमानकान्तारुषि, यज्वलोकतर्प्यमाणासुरद्विषि, सर्वलोकसमवाप्तश्रेयसि, युक्तयुवजनप्रणुतवेधसि, नात्युष्णनातिशीतनातिवृद्धनातिकृशतरङ्गिणीपाथसि, नातितापावहतिग्मतेजसि, वसन्तानेहसि, लीलोब्द्यानविद्योतमानवकुलतरुमूले गभस्तिमालिगमस्तिगलहस्तिकादानशीले रत्नसिहासनोपविष्टां सम्यगवभासमानरम्यतरगर्भा, अन्तर्मुक्तामिव शुक्तिकां, निगूढबीजामिव नभोमहीं, अनाविष्कृतसुधामिव मथनपूर्वकालिकक्षीरोदस्थलीं, अधिकतरपाण्डरीभूतया शरीरलतया शमितविलोचनातङ्कां, कलङ्कच्छद्मछिद्रवतश्चन्द्रमण्डलात्प्रच्युतामिव चन्द्रिकां, पञ्चमहाभूतमयीमपहाय सामग्रीं केवलेनेव मृणालेन विनिर्मितां, प्राप्तप्राणपरिग्रहामिव गजदन्तपुत्तलिकां, रामपूर्वस्वरूपस्मरणसञ्जातभक्त्यतिशयसमुद्भुतसिषेविषासमागतामिव त्रिस्रोतसं, पुनश्शयनार्थं रामाह्वानाय सम्प्राप्तामिव क्षीरोददेवतां, एकत्र स्थितामिव सत्त्वगुणशकलपरम्परां कुन्दपुण्डरीककुटजादिसितकुसुमकृतशरीरामिव ऋतुदेवतां, हरदग्धमदनाङ्गमस्मविलुठितशरीरामिव रतिं, परमेश्वर गाढालिङ्गनसम्पृक्तभूतिमिव पार्वतीं, क्षीरोदवीचिकानिषिच्यमानतनुमुत्पद्यमानामिव श्रियं प्रणयकलहकुपितागतामिव सरस्वतीं, पुरःस्थितया वयस्यया करचलनझणझ्झणितकङ्कणमावीज्यमानां तालवृन्तेन, कोमलत्वनिर्जितैः सेवार्थमागतैः पल्लवतल्लजैः परिवृतेनेव प्रसृतरक्तद्युतिना मज्जनगृहेणेवकलशरेखा29ङ्कितेन नारायणकरनिकरेणेवलसच्छङ्ख30रथाङ्गकोमलेन प्रभातकालेनेवअरुणकान्ति31समुद्योतितेन चरणयुगलेन च-
कासतीं, चन्द्रिकाया भयेन पादरूपतामापन्नं तामरसमत्रापि तर्जयितुमागतयेव चन्द्रिकया नखकान्त्या कान्ततमां, मदनशरधिशङ्कावहेन कोमलतरांबरसमाच्छादितेन मनागुन्नम्य स्थिरीकृतेन उपरिविन्यस्तबाहालनेन वामेनजानुना स्वभावतः सिंहासने निवेशितेन दक्षिणेन च सन्धुक्षितनयनानन्दां, मदनविरचितस्त्रीपुरुषविजयस्तंभाभ्यामिव पृथक्पृथङ्निवेशिताभ्यांमदनोत्सवस्थापितरंभास्तंभाभ्यां द्विरूपतापन्नकुलिशधरहस्तिहस्तशोभावहाभ्यां ऊरुदण्डाभ्यां मण्डितदेहां, हेमन्तकालेनेवविगतमहाकाश32रूपेण दृष्टिगोचरतामुपगतेन वलग्नभागेन विलसन्तीं, रत्नाकरेणेवान्तःसत्वेन33 आम्रेडितपालफल्येनान्तरवकाशाभावादिव बहिर्निर्गतया नाभ्याकृताभ्यासशोभेन जठरेण जनितमुदं, गाधीभूतनाभिबल्मीकतया बहिर्निर्गतयातदुषितपूर्वयेव कृष्णभुजङ्ग्या कुचमहीधरोपत्यकारूढ्येव तमालवनरेखयासुधापरिपूरितकुचकुम्भरसग्रहणार्थमागच्छन्त्येव पिपीलिकापङ्क्त्या रोमावल्यारुचिरतरां, गर्भधारणकालिकतया किञ्चिदिव विस्रस्तबन्धाभ्यां श्यातरचूचुकाभ्यां मरकतशिखराभ्यामिव रजतशिखरिभ्यां शिरःस्थितमधुकराभ्यामिव पुण्डरीकमुकुलाभ्यां शक्रनीलमुखाभ्यामिव मनसिजाभिषेकार्थकरूप्यकलशाभ्यांजतुमुद्रालाञ्छिताभ्यामिव मारसर्वस्वनिक्षेपस्फटिकसमुद्गकाभ्यां,मन्दाकिनीविहारलग्नशैवलाग्रमहेन्द्रकुम्भिकुम्भोपमाभ्यां रघुपतिसंसारकपित्थतरुफलाभ्यां रोमावलीजम्बीरलताफलाभ्यां विषमशरमोहचूर्णपरिपूरितदन्तकुम्भाभ्यां पयोधराभ्यां परिचितमहाशोभां, शरीरलताविटपाभ्यां रत्नोर्मिकामणिवलयमहः पुञ्जरञ्जिताभ्यां सन्ध्यारागसन्दानिताभ्यामिव दुग्धोदतरङ्गरेखाभ्यांहरिचन्दन चर्चितोपरिभागाभ्यां विकचकनककमलकान्तिकरंविताभ्यामिवविष्णुपदीवीचिकाभ्यां लावण्यरसपूरितकायकमलिनीकृतोदयाभ्यामिव बिसाभ्यां भुजलताभ्यां भुवनाभीष्टदानप्रवणां, वल्लकीदण्डेनेव मधुरस्वरालयेन दक्षिणावर्तशङ्खनिभेन कण्ठेन चिरण्टीचिह्नमङ्गलालङ्कारमुद्वहन्ती,
वदनेन्दुलाल्यमानाभ्यामिव सन्ध्याशिशुभ्यां दन्तच्छदाभ्या दलितबिबीफलदम्भां, अन्तःप्रतिफलितताटङ्काभ्यांमुखकमलनयनोत्पलविकासनेच्छासमायातरविविधुमण्डलनिवासभूताभ्यामिव सुमशरमहाराजावलोकनार्थमानिर्मितस्पटिकदर्पणाभ्यामिव द्रष्टृनयनतर्पणाभ्यां कपोलभ्यां कमनीयतममुखभागां, मन्मथमहावीरबाणाभ्यां नीलोत्पलकाननीकृतदिशाभ्यां तिरः प्रफुल्लनीलोत्पलश्रीवहाभ्यां अवलोकितजनभनोगदध्वान्तविरोचनाभ्यां विलोचनाभ्यां विहितजगदीहितां, मुखचन्द्रजिगीषया समागतस्य नासाखड्गाग्रपातद्विधाभूतस्य दुःखकृशीभूतस्य चान्धकारपटलस्य खण्डाभ्यामिव परिहसितपुष्पचापचापदण्डाभ्यां भ्रूलताभ्यां भुवनेष्वनुपमां, वदनसुधांशकलङ्केन कस्तूरिकाचित्रकेण चित्रीयमाणास्यपद्मप्रभां, पक्षार्धशीतांशुशोभावहां ललाटस्थलीमुद्वहंतीं, द्विरेफनिकरेणेव वदनसरोजस्पृहासमागतेन नासिकाचम्पकावलोकनसञ्जातसाध्वसस्तव्येन सुमालङ्कारशोभिना सुवर्णसवर्णदेहलब्धपरभागेन केशकलापेन तुलारहितां, मथनावसानकालिकदुघ्धोदम्भलीमिव ^(१)सुधाभासितां, अमरीमिव सुरणदीप्रलीलापरिगृहीतां, रात्रिसरसीमिव वर्धमानकुमुदशोभां शिवशिरःस्थलीमिव सूक्ष्मतरसितांशुकशोभितां चन्द्रमण्डलीमिव भास्वज्ज्योतिःप्रवेशसञ्जातविशेषरामणीयका शब्दविद्यामिव गोत्रगुणवृद्धिकृत्पदाङ्कितां, साङ्ख्यविद्यामिवप्रधानगुणविस्तरकरा, अरुणामधरे, करुणामाश्रितेषु, तरुणासुपर्वणामकि-
___________________________________________________________________________
१.सुधेति। सुधया अमृतेन भासितां। अन्यत्र। सुधाया आभयेवाभया (शुक्लत्वेन) सितां। श्रुतीति। श्रुतीनां वेदानां रमणीयैः स्वरैरुदात्तादिभिः आढ्यां पूर्णा। अन्यत्र। कर्णानन्दकरकण्ठस्वराढ्यां। सुरणेति। सुरणदी मन्दाकिनी तस्यां परिगृहीता प्रकृष्टालीला ययातां। आहिताग्न्यादित्वान्निष्टायाः परनिपातः। अन्यत्र। सुरणे श्लाघ्ये युद्धे दीप्रया लीलया शत्रुनिपातनरूपया परिगृहीतोयुद्धे महति लीलया रावणमुन्मथ्य रामेण समासादितामित्यर्थः। वर्धमानेति। कुमुदानां शोभत्येकत्र। अन्यत्र कुमुदानां शोभेव शोभेति। सूक्ष्मेति। सूक्ष्मतरः अत्यल्पः सितांशुकः बालचन्द्रः तेन शोभितो। अन्यत्र। सूक्ष्मतरेण सितांशुकेन शुक्लाम्बरेण भूषिता। भास्वदिति। भास्वतः सूर्यस्य यज्ज्योतिः किरणः तस्य प्रवेशेन सञ्जातं विशेषरामणीयकं
ञ्चनेषु^(२),करणमानन्दस्य तरणमघसमुद्रस्य भरणं दीनजनस्य शरणञ्चरणपतितानाञ्च कारयन्तीं, भास्वता नासामुक्ताफलेन सुधांशुना देहेन लोहिनाधरेण सौम्येन मुखेन, गुरुणा नितम्बेन सितेन स्मितेन मन्देन गमनेन तमसा केशकलापेन केतुना नारीकुलस्यात्मना च नवग्रहमयीमिव, सङ्केतभूमिमिव त्रैलोक्यसौन्दर्यस्य, सर्वस्वाधानस्थलीमिव मदनमहाराजस्य, चक्षुर्वन्धनविद्यामिव रामसुकृतैन्द्रजालिकस्य, कृतपापैरिव विलासैः परिह्रियमाणां, कृतपुण्येनेवालस्येनसेव्यमानां दुर्वर्णकलितानीति भूषणानि परित्यजन्तीं, निर्मितामिव नक्षत्रः, निलीनामिव चन्द्रिकायां, लिप्तामिवामृतेन,परिष्वक्तामिव गङ्गया, भोगाभिमतामपि नभोगाभिमतां, खमणिकुलभासमानामपि नखमणिकुलभासमानां, नष्टापदालिमप्यनष्टापदालिं, लङ्केशकुलकृतशोभामप्यलङ्केशकुलकृतशोभां रघुनन्दनो जनकनन्दिनीमवलोकयामास॥
————————————————————————————————————
यस्याः। चन्द्रस्य स्वतस्तेजो नास्ति सूर्यकिरणप्रतिफलनवशादेव प्रकाश इति ज्योतिश्चिन्तकाः। अन्यत्र। भास्वति प्रकाशविशिष्टे ज्योतिष्यग्नौप्रवेशेन (रावणवधोत्तरकालिकेन)सञ्जातविशेषरामणीयकां। अग्निप्रवेशेन न कापि म्लानता किन्तु तेजोवृद्धिरेवेति भावः।शब्दविद्यामिति। “गोत्रं”, “गुणः”, “वृद्धिः” “कृत्”, “पदं” एतैः साङ्केतिकैःशब्दैरङ्कितां। अन्यत्र। गोत्रस्य वंशस्य गुणवृद्धिः उत्तमगुणपूर्तिः, तत्कृद्भ्यां पदाभ्यांचरणाभ्यामङ्कितां। प्रधानेति। प्रधानात्मकानां गुणानां सत्वरजस्तमसां विस्तर जगदात्मनापरिणतिं करोति प्रतिपादयतीति तादृशीं। अन्यत्र आश्रितानां मुख्यमुणाभिवृद्धिकरीं।
२. अकिञ्चनेषु दरिद्रेष्वाश्रितेषु सुपर्वणां तरुणा कल्पवृक्षेण (तुल्यां) भास्वतेत्यादि। भास्वता प्रकाशवता सूर्येण च। सुधांशुना सुधासदृशकान्तिना चन्द्रेण च। लोहितेन रक्तेनकुजेन च। सौम्येन प्रसन्नेन बुधेन च। गुरुणा वृहता बृहस्पतिना च। सितेन शुक्लेन शुक्रेणच। मन्देन मृदुना शनैश्चरेण च। तमसा अन्धकारसदृशेन राहुणा च। केतुना ध्वजवत्प्रकाशकेन तन्नामकग्रहेण च। दुर्वर्णेति। दुर्वर्णकलितानि दुष्टजातिप्राप्तानि। स्वर्णनिर्मितानिच। भोगेति। नभोगाभिमतामिति विरोधः, वस्तुतस्तु नभोगैर्देवरेभिमतां पूजितां। नखमणीत्यादिना विरोधः। वस्तुतस्तु। नखमणीनां। रत्नवदवभासमानानां नखानां कुलेन समूहेन भासमानां, नष्टाः आपदालयः यस्यास्तां। अनष्टेति विरोधः। वस्तुतस्तु। अष्टापदानि लक्षणया सुवर्णाभरणानि अविद्यमानानि यस्यां। (गर्भधारणकालिको भूषणानादरःप्रसिद्धः) लङ्केति। लङ्केशकुले रावणगृहे कृता नाशिता (कृ हिंसायामिति धातुः) शोभा यया।अलङ्केति विरोधः। वस्तुतस्तु। अलमिति च्छेदः अलं पर्याप्तं यथातथा केशकुलेनकचकलापेन कृता शोभा रामणीयकं यस्यास्तां॥
यस्याः करङ्घ्रिवदन तनुमक्षिण च
पद्मैः शिरीषकुसुमैरपि चोत्पलाभ्यां।
वेधा विधाय मधु तन्निलयं समस्तं
वाचि न्यधाद्विरचयन् श्रुतिपेयमेतत्॥२६४॥
यस्याः स्वरस्य मधुरत्वमवेत्य भूयो
लज्जाकुलः पिक उपेत्य वनान्तराणि।
पर्णाशनस्तप उदग्रमिव प्रपन्नो
नादं स्वमिच्छति मनोरममद्वितीयम्॥२६५॥
यस्याः स्मितं जडधियः पयसा समानं
केचिद्वदन्ति न तदर्हमिति प्रतीमः।
यद्दुह्यते पय इहप्रतियत्न34पूर्वं
दोदुह्यतेऽखिलमभीष्टमपिस्मितं तत्॥२६६॥
तामालोक्यामन्दमानन्दमाप्तो
रामः सीतां वंशवृद्ध्यङ्कुराढ्यां।
उत्तिष्ठन्तीं सम्भ्रमाद्वारयित्वा
प्रोवाचेदं साधु नीत्वा निजाङ्कम्॥२६७॥
वामोरु मामिह समागतमद्य वीक्ष्यो-
त्तिष्टस्यतीव समुदाचरणैकनिष्ठा।
स्वं साम्प्रतं ग्लपयसीति न मेऽतिखेदो-
गर्भः स्फुरन्नुदरगस्तव मां हिनस्ति॥२६८॥
प्रिये हृदा स्वेन यदिच्छसित्वं विस्रब्धमाख्याहि विशेषतोऽद्य।
तथा करिष्यामि यथा त्वदीहा संपूरणीयं किल दौहृदं ते॥२६९॥
इत्युक्तयाऽसौ जनकेन्द्रपुत्र्या
प्रोचे स सप्रार्थनमीशितोर्व्याः।
प्रपूरयेर्मानद मेऽद्यकामं
वदामि धृष्टा प्रणयेन किंचित्॥२७०॥
भूयोपि मांयोऽपनिरोधहीनैः
कायापसशापणतीव्रयोगैः।
तपस्विभिः सेवितमादितेय-
नदीतटं सेवितुमादरोमे॥२७१॥
इति सप्रश्रयप्रणयं प्रार्थयमानां, दशनकिरणराकीकृताखिलदिशान्तां,तान्तावयववत्वेऽपि शान्तान्तरङ्गनिषेवणविशेषितरुचिं, कान्तां दृढन्तामालिङ्ग्य नवनीरदस्थिरभासमानशम्पाद्युतिसम्पदमस्याः सम्पादयन्नकम्पानुकम्पानियिरयं “प्रिये भवतु तथैव श्वः प्रभाते लक्ष्मणस्त्वां नेष्यतित्वदुक्तं प्रदेश” मित्यभिधाय विधाय च क्षणं सरससल्लापं, सुहृल्लाभकामनीयां कामपि सभामवाप्य, कदाप्यनावेदितमिथ्यावचनेन तदात्वएवनगरवृत्तान्तजिज्ञासयाऽनुज्ञातप्रवेशेन भद्रानाम्नाचारेण मिथः किमप्यभिहितः प्रकामदूयमानमानसोमानधनो मानवनाथः सुमन्त्रसमानीतसोदर्यसन्निधावावेद्य भद्रादपेतं भद्रादधिगत विरचितमोदान्तं वृत्तान्तं लक्ष्मणमाहूय कृतक्षण एवमादिदेश॥२७२॥
वत्स सूक्ष्मः खलुमूर्धाभिषिक्तानां धर्मः, पालनमेव हि प्रजानांपरमो धर्मः पृथिवीक्षितां, न हि ता अहिताचरणे रमणे पृथिव्या अशक्ताःप्रतिकर्तुमित्युपेक्षितुमर्हाः, स हि नरपतिर्नीलोत्पलमालेति कृष्णसर्पं वेष्टयति,माणिक्यभङ्गा इत्यङ्गारात् शिरसि धारयति, कामिनीकुचकलशावितिमत्तकुंभिकुम्भौ परामृशति, वासवनीलकुट्टिम इति सागरमध्ये निवातस्तब्धेऽवतरति, होमधूमलेखेति कृषाणधारां नेत्रयोरर्पयति, यः प्रजा वशंवदाइति यथेष्टं चेष्टते॥२७३॥
ततः॥श्वः प्रातस्त्वं रथवग्मधिष्ठाय साकं पृथिव्याः
पुत्र्या गत्वा त्रिदशतटिनीपारमह्नाय तत्र।
त्यक्त्वाचैनां दुततरमिहायाहि वाल्मीकिवासो-
पान्तेमा धाः प्रतिगिरमतःशातिपोमे पदाभ्यां॥२७४॥
इत्यशनिपातनिष्ठुरं ज्येष्ठस्य वचनमाकर्ण्य विवर्णतामभ्यर्णस्थितइवार्यम्णश्चन्द्रमा आपेदे, तपान्त इव नववर्षधाराभिषिक्तो मरुर्बाष्पमधिकमुदसृजत्, वडबानलमुखपतित इव मकरो भृशं तताप, कल्पान्तकालिकइव गिरिरनल्पं चकम्पे, पदाहत इव पृदाकुर्विदारितमुखो नितरां निशश्वास,न प्रतिवचनमदात्, नचोत्थातुमशकत्,न कर्तव्यमज्ञासीत्, प्रज्ञावतांधुर्यः सुमित्रातनयवर्यः॥२७५॥
अथ कथमपि कर्तुंभ्रातुराज्ञां प्रभाते
करुणकरुणचेता गद्गदोद्रुद्धकण्ठः।
धरणितनुभवां तां प्राप्य वाणीमभाणी-
च्चरणयुगममुष्याः प्राञ्जलिः सन् प्रणम्य॥२७६॥
आर्ये गङ्गातीरमासाद्य भूयो
लब्धं मोदं दौहृदं ते यदासीत्।
आर्यस्याज्ञां मौलिमालां वितन्वन्
प्राप्तोऽहं तत्पूरयिष्यन् प्रसीद॥२७७॥
एवं तस्योद्गद्गदां वाचमेना-
माकर्ण्यापि प्रेक्षमाणाऽपि वक्त्रं।
प्राप्ता सीता वैकृतं नैव किञ्चि-
त्कालेवक्रेपाटवं क्वास्ति बुद्धेः॥२७८॥
अथावनीजा सह लक्ष्मणेन
द्रुतं समानीतरथेन यन्त्रा।
प्रतस्थ एव त्वरयोपगङ्गा-
तटं स्थितं तां नुदते हि दैवं॥२७९॥
अचिन्तयित्वैवमहीतनूभवा
निमित्तमुद्भूतमुदर्कदुःखदं।
रथेन गङ्गां समवाप च क्षणात्
सतीव शीलेन विमुक्तिमन्ततः॥२८०॥
अथ रथादवतीर्य शृङ्गिवेरपुराधिपत्वरानीततरणिसन्तीर्णसुरापगाजलौ धरानराधिपसुतौ तौ चराचरविहीनं खरतरखराभीशुकरापातदुस्सहंपराभूतपराक्रमशालिधैर्यं पुरातनदुरितानुभवस्थानमिव मरुप्रदेशं, चरणाभ्यामेव सञ्चरमाणावुपेतौ॥२८१॥
दृष्ट्वाऽथ तत्र करुणं तनयामिलाया-
मध्यङ्गते दिनकरे वियतः स धीरः।
सूर्यांशुतापितसुमोपमचारुगात्रीं
वाचं जगाद पदयोः प्ररुदन्निपत्य॥२८२॥
आर्ये प्रकम्पमयते वदतोऽद्य जिह्वा
स्वच्छन्दतोऽक्षियुगलात्स्रवतीह वाष्पं।
वक्तुं विभेमि च हहा वचनं, हतोऽस्मि
दैवं दयाविरहितं किल बाधते मां॥२८३॥
इति विलपन्तं मुहुर्मुहुः पदयुगले निपतन्तं भुविविलुठन्तं, अनन्तदुःखसागरान्तर्मज्जनमाचरन्तं देवरं तं विलोक्य विचिन्तितविविधदुःखसन्ताना सन्तापितस्वान्ता नितान्ततान्ता कान्ता रामस्य कथमपि धैर्यमवष्टभ्य “वत्स लक्ष्मण मा भैषीर्मा च विषीदः, दैवं खलु त्वां नियोजयतिकिमत्रायासेन विशङ्कमाख्याहि शोकशङ्कुनिदान” मितिबहुशः समाश्वासयामास॥२८४॥
अथ तत्र समये ललाटन्तपतरणौ धरणौ च नखम्पचरेणौ, तांधरणीरमणरमणीमणीयसीमिव मृणालिकां क्षणादेव परिशोषमयितामपरिशेषितारिर्मेघनादारिर्मेघनादभीषितामिव महोरगीं पात्रीकृत्य नयनयोर्विनयनतमस्तकोऽयमस्तोकशोकविशोषितजिह्वःशनैरबह्निदमवादीत्॥२८५॥
आर्येऽस्मि वज्रहृदयो वचनं च वच्मि
श्रुत्वा तदद्य मयि मा भव रोपरूक्षा।
दैवं दुनोति वरमेव हि जन्मवनतं
राहुर्यथा ग्रहगणेषु लसत्सु चन्द्रम्॥२८६॥
रहसि विदितवार्तश्चारमुख्यैर्नियुक्तै-
र्विगतरुचिमुखाब्जो वीक्षमाणः सवाष्पं।
अगददवनिजे त्वन्नायकः सायकाभं
वचनमवचनीयं धैर्यमुत्सृज्य दूरात्॥२८७॥
ब्रह्मादिवर्हिर्मुखसन्निधाने वैश्वानरं भूमिसुतां प्रविष्टां।
पौराजना जानपदाश्चनित्यं विश्वासहीनाः परिदूषयन्ति॥२८८॥
तद्गच्छ शीघ्रं धरणेस्तनूजां तीरे तटिन्या अमृताशनानां।
सन्त्यज्य चैहीति निदेशवाक्यं मूर्ध्नावहन्नेवमधांकठोरः॥२८९॥
इति वचोऽस्य खरं क्रकचोपमं श्रवणयोर्विरचय्य महीसुता।
नयनयुग्मभवेन सहाम्बुना भुवमगाद्भृशमुज्झितचेतना॥२९०॥
मूर्छालतां प्राप्य महीसुतासा महीं प्रपन्ना मृतवत्तदानीं।
उपेक्षितानां पतिभिर्वधूनां गतिः किमास्ते जननीं विनाऽन्या॥२९१॥
चिरात्प्रपद्याऽपि सुता धरण्याः संज्ञां न जानाति किल स्म कार्यं
कथांञ्चदासादितधैर्यलेशा सभद्गदं लक्ष्मणमावभाष॥२९२॥
मा त्वं रुदो लक्ष्मण दैवमेवं
करोति कार्यं कृपया विहीनं।
उत्सृज्य मां याहि सधीरभावः
कुरुष्य गत्यार्नितपव्यवन्ध्यम्॥२९३॥
न चागुणज्ञो रघुवंशधूर्वोनचाहमीक्षेऽल्पमपि स्वदोषम्।
इदञ्च दुःखं समुपस्थितं मे विधिं विनाऽहं कमुपालभेय॥२९४॥
आख्याहि ते भ्रातरमप्रमेयं
शोचामि नात्मानमिदंदशापि।
त्वं सर्वथा रक्ष यशः स्वकीयं
प्रजानुवृत्त्येकधूरीणचेताः॥२९५॥
निहत्य रक्षांसि सुरक्षितास्त्वया कथं विदध्युर्मुनयोऽवनं न मे।
धने प्रमुक्ताऽपि तवैव वीर्यतः कृतावना तिष्ठति तेसधर्मणी॥२९६॥
श्वश्रूजनं सर्वमपि क्रमेण प्रणम्य विज्ञापय भक्तिपूर्वं।
दैवं यदि स्यादिह सुप्रसन्नं भवेत्प्रसूतिर्मम दर्शनीया॥२९७॥
नन्दामि ते लक्ष्मण भक्तिमग्र्यामत्राग्रजे रक्षितरि प्रजानां।
द्रुतं निवर्तस्व पुरं प्रति त्वं त्वया सनाथः किल मे स नाथः॥२९८॥
इति मुहुर्मुहुर्वदन्तीं, क्रन्दन्तीं कुररीमिव, निन्दन्तीं च विधिविलसितानि, तत्तादृशे विकर्तनकरविकर्त्यमानमानवबले मरुस्थले महीसुतांविसृज्य सज्जयानेक्षणे तत्रैव लक्ष्मणे तत्क्षणमेव निवृत्ते निवृत्तधैर्या सारामभार्या कार्यान्तरमजानाना नानाविधमित्थं व्यलापीत्॥२९९॥
भूत्वा विदेहतनयाऽहमयोनिजाता
पाणौकृताऽधिकमुदारघुपुङ्गवेन।
वल्लर्युपघ्नरहितेव निराश्रयत्वा-
त्सीदामि हाऽत्र नियतेरिदमेव वीर्यम्॥३००॥
हा नाथ लोकत्रयसन्निधाने
तथा हि संशोध्य तनूनपाता।
ममाऽपि शीले किल संशयानो
यदत्यजो मां विधिरत्र वाच्यः॥३०१॥
हा दैव किं नाम फलं त्वयाऽऽप्तं
सन्ताप्य मामेवमिहाऽतिघोरं।
त्यक्ष्यामि नूनं पतिविप्रयोगा-
त्प्राणानहं त्वं तु कृतार्थमेधि॥३०२॥
हा राम हा वत्सल धर्मबुद्धे
गर्भालसां मामटवीतलेऽस्मिन्।
कारुण्यहीनः कथमत्यजस्त्वं
यद्वा न वाच्योऽस्यहमल्पभाग्या॥३०३॥
विशामि चेदद्य शरारुवक्त्रं स्त्रीहत्ययाऽधं ध्रुवमाप्स्यसि त्वं।
दोषेण युक्ता हि नरेन्द्रपुत्राश्चिरं न राज्यं परिपालयन्ति॥३०४॥
अतोऽहमद्येदमहो शरीरं
रक्षामि यत्नाद्यदि ते शिवाऽऽप्त्यै।
को नाम मे पालयिताऽस्त्यरण्ये
स्त्रियो हि नित्यं परिपालनीयाः॥३०५॥
तस्मादसूनद्य परित्यजेयं सन्तापयेर्मां सुतरां खरांशो।
इयं हि भर्तुर्हृदयाप्रियत्वाद्वध्या, न तेस्त्यत्र तु धर्मलोपः॥३०६॥
इत्थं विलप्य करुणं वसुधातनूजा
प्राणव्यये धृतमतिश्च शनैः शनैः सा।
मूर्तेव शुक्सुरधुनीजलमाजगाम
तामानमच्च जगतां दुरितं हरन्तीं॥३०७॥
तत्रान्तरे मुनिसुताः प्रसमीक्ष्य देवीं
वाल्मीकये प्रजगदुः सदृशा प्रतीच्या।
ज्ञात्वाऽखिलं जनकजासविधं प्रपन्नो
ऽद्राक्षीच्च तां सुरधुनीसलिले स्फुरन्तीम्॥३०८॥
अत्रान्तरे जनकजाऽपि जलेऽवतीर्णा
“जन्मान्तरेऽपि रघुनन्दन एव भर्ता।
भूयाद्दिनेश कृपया तव लोकसाक्षिन्”
इत्थं विलप्य जलगाहनतत्पराऽभूत्॥३०९॥
इति कृतमरणोद्योगां वेगाद्भोगवतीमार्गं प्रपन्नामिव नागकन्यां धरणिकन्यामन्याय्यमिदं कार्यमिति मन्यमानो मुनीन्द्र उपसृत्य “भद्रे काऽसि,कस्य वाऽसि, किमर्थं वेदं साहसं रचयसीति वचसा सान्त्वयुक्तेनानुयुज्यतद्विज्ञापिताखिलवृत्तान्तः प्रज्ञावतामग्रेसरः पुनरपीत्थमभ्यधात्॥३१०॥
मार्जयाऽक्षिसलिलं कुरु धैर्यंतीरमाव्रज बधान च वेणीं।
गच्छ मेऽद्य पुरतः पृथिवीजे स्वाश्रमे सति किमत्र विषादः॥३११॥
हन्ताऽप्युद्धतरावणस्य जगतां हिंसैककर्तुर्नम-
त्सन्तापघ्नपदाम्बुजोऽपेि निरतो धर्मेऽपि शर्मेप्सुभिः।
चिन्त्योऽपि स्वयमेव योगिनिवहैरन्त्योपरोधे तनोः
क्रूरोन्मोचनकार्यतस्तव विभुर्नो रोचते मे हृदे॥३१२॥
आश्वासितेऽतीव विदेहपुत्री कथञ्चिदालंबितधैर्यलेशा।
ततोऽनुवव्राज तमेव विप्रं लक्ष्मीरिव प्राप्तकलं35विनीतं॥३१३॥
उटजमेत्य ततो मुनिपुङ्गवो मुनिवधूषु समर्प्य महीसतां।
दुहितृतुल्यममूं परिपालयन् स्वनिलयं विलयं बुबुधे पदम्॥३१४॥
सौमित्रिः पुनरेत्य सिद्धतटिनीतीरे सुमन्त्रं स्थितं
प्राप्तः शोकमहार्णवे जलनृतां मूर्छालतामानशे।
सूतोऽप्येवमवस्थमेनमनघं नानाविधाश्वासनै-
रुत्थाप्यास्रजलं प्रमृज्य वचनं प्रोवाच नीचैरिदम्॥३१५॥
वत्सावनीजारघुनाथयोस्त्वं
वियोगतः प्राप्नुहि मा विषादम्।
निदानमाकर्णय तत्र वक्ष्ये
निशम्य यत्त्वं न पुनः शुचे स्याः॥३१६॥
कदाचन परमेष्ठिसुतवरिष्ठस्य वसिष्ठस्य कुलगुरोः पादवन्दनार्थंमया सह तदीयाश्रमपदं प्रपद्य विरथो दशरथोऽस्य पार्श्वतः समुपविष्टंविष्टपत्रयविख्यातदुष्टनिग्रहपरकोपं, दुरापं कृतपापस्य जनस्य, विनतजनहृतदुर्वासनं दुर्वाससं गर्वापेतवृत्तिरखर्वादरं विलोक्य द्वावपि प्रणम्यप्रणयोचिताभिः सत्क्रियाभिः पुरस्कृतः कृतसमुचितासनपरिग्रहो रहोऽभिधीयमानविविधकथाप्रस्तावे “भगवन् कियदायुर्मे वत्सो रामः, किंप्रमाणञ्चमे कुलं भविष्यति, प्रसीदतु भगवान् प्रणयतः प्रतिवचनदानेनेति”दुर्वाससमप्राक्षीत्॥३१७॥
सोप्येवं प्रत्यब्रवीत्॥
राजन् श्रूयतामिदं पुराणमाख्यानं। पुरा किल दैवासुरे सङ्गरे पूर्वदेवा देवानामायुधैरायुःक्षयं नीयमाना मानाथानुद्रुता मानापगमेन लघवःपलालवत्पलायंमानाः शिलामयमिव पुरं भृगुपत्निचरणं शरणं प्रपद्य तयादत्ताभया, वित्तापाहरणकृतागसो दस्यव इव गूढमवात्सुः॥३१८॥
दैत्यानामभयार्पणेन कुपितश्चक्रेण नारायण-
स्तच्छीर्षं प्रथमं निकृत्य दनुजांश्चिच्छेद सर्वानय।
“विष्णो स्त्रीवियुतो भवेर्विधुरता यन्मे त्वयाऽऽपादिते”
त्येवं शापमदाद्भृगुर्मुररिपुर्नाङ्गीचकारैव तम्॥३१९॥
ऊरीचकार भगवान्न यदाऽस्य शापं
नारीवियोगदमनेन भृशं विनप्तः।
पारीणतामथ भृगुश्चययौ तपोऽब्धे-
र्घोरीभवन्नियमजाग्निविदग्धलोकः॥३२०॥
तुष्टोऽथ तेन तपसा वचसाऽम्बुजाक्षः
कस्ते मनोरथ इति द्विजमन्वयुङ्क्त।
सोऽप्याख्यदच्युत रुषः फलभूतमेतं
शापं गृहाण मम पाहि च मामिहिति॥३२१॥
इति निर्बन्धपूर्वकं प्रार्थयमाने तस्मिन् ब्राह्मणबन्धुर्दयासिन्धुः सिन्धुसुताजानिर्मुनिदारवधजनितपापफलं शापमेनमभ्युपगम्य तमन्यस्मिन् जन्मन्यनुबुभूषुस्तदपि जन्म देवकार्यार्थं प्रतीक्षमाणः कृती क्षमाभारनिरसनाय द्विरसनाधिपमयाच्छयनाद्भुवमाजिगमिषुस्तव सुतोऽजनि॥३२२॥
एकादशाब्दकसहस्रमितं किलायू
रक्षिष्यतो भुवमिमां भवतः सुतस्य!
पत्नीवियोगमपि चाप्त्स्यति शीघ्रमस्य
पुत्रौ भविष्यत उभौ न पुनः पुरे ते॥३२३॥
निशम्य वाक्यं नृपतिर्मुनीन्द्रा-
त्सुदुर्मनाः स्वं सदनं समागात्।
रहस्यमेतद्ध्यशुचे तवोक्तं
न धीमतां हेतुविदां हि शोकः॥३२४॥
इति तेन वचनेन प्रतिष्ठापितधृतिः सौमित्रिर्मित्रे पश्चिमपयोनिधिंप्रति कृतयात्रे मित्रेण तेन सुमन्त्रेण तत्रैव तां निशां नीत्वा प्रातरयोध्या-
मध्यास्य भ्रात्रे नेत्रे लोकस्य नेत्रेऽश्रुसंपूर्णाय कर्णान्तिके स्वनिर्वर्तितं कृत्यजातं निवेद्य तेन च विषीदन्तं वदन्तं दुरन्तमेवेदं मे व्यसनमिति समाश्वासनैराममवन्ध्यबोध्नंप्रतिबोधयामास॥३२५॥
अथ नृशंसमपि निजशासनमनुष्ठितवन्तं कनिष्ठानुजं तं भृशं सप्रशंसन् रामः “पौरकार्यानवेक्षणतो दोषो नृगस्येव भवेदस्माकमपी” त्यभिधाय तद्विवरणैषिणा सौमित्रिणा प्रार्थितः पुनरेवमभाषत॥३२६॥
अभून्नृपो नृग इति नीतिविक्रमो
गवां शतं कनकशफं स जातुचित्।
शुभां गतिं जिगमिषुरास्तिकोत्तमो
द्विजेभ्य उद्गतबहुवित्त आर्पिपत्॥३२७॥
अथ सङ्घशः स्थितासु द्रोणदुघासु गोषु दैवादविदितमेव निजगोकुलमिलितामन्यस्मै दत्तपूर्वांचार्वाभरणशोभितां गां दत्तवति कैस्म चिद्दारिद्र्यनिधये द्विजातये नृपतौ, पुत्रप्रतिग्रहीता स्वीयां धेनुंं तत्र तत्रविचिन्वन्नतन्वादरः कनखलाख्यग्रामे तस्यापरस्य प्रतिग्रहीनुर्गृहे निवसन्तींदृढसञ्जात प्रत्यभिज्ञस्तां विलोक्य स्वमुखावलोकनस्ववचनश्रवणसम्भूतविस्रंभांसमाकर्षन् स्वग्रामं प्रति प्रतस्थे॥३२८॥
अथ ममेयं स्वं ममेयं स्वमिति परस्परसन्तजनपरार्वर्धृष्येयष्ययाकलहस्य निर्वाणमकुर्वाणौ तौ धरणीगीर्वाणौनिश्चित्यान्ततः “स एवराजाऽऽवयोर्दुर्वादं निर्वापयिष्यतीति”राजद्वारमुपेत्य प्रतीक्षमाणावपि निद्रापरवशं राजानं न द्रागवलोकयन्तौ मुद्रातीतरुषावभद्रायास्य “यस्मान्नौद्वारगतावपि कार्यार्थिनौ ब्राह्मणावुपैक्षिष्ठास्तस्मात्त्वं कृकलासो भूत्वा बहुवर्षसहस्राणि गर्ते निवत्स्यसि, युगान्तरे यदुकुलपयोनिधिपारिजातः पालयिष्यति भवन्तं श्रीकान्तः”इति शापं तदवसानं च वितीर्य गामपि तांद्विजायान्यस्मै प्रतिपाद्य यथागतं ययतुः॥३२९॥
श्रुत्वाऽथ नारदमुनेर्निजशापमेष
क्ष्मारक्षिताऽपि सह मन्त्रिपुरोहिताद्यैः।
सद्योऽभिषिच्य तनयं, विरचय्य गर्ते
शीतोष्णवर्षमरुदादिसहं विवेश॥३३०॥
इति लक्ष्मणाय कृतक्षणाय कथयित्वा प्रथितयशा रामस्तादृशंब्राह्मणकोपं राज्ञश्च क्षमां प्रति विस्मेरचित्तस्य तस्य मानसोत्साहनाय कथामन्यां पुनरकथयत्॥३३१॥
इक्ष्वाकोर्द्वादशोऽभून्निमिरिति तनयो वैजयन्ताभिधानं
निर्मायासौ पुराग्र्यं सवकरणकृते ब्रह्मसूनुं वसिष्ठं।
घव्रे चान्यांश्चविप्रानवददजसुतो जैष्णवे सप्ततन्ता-
वृत्विग्गच्छामि पूर्वं वृत इति तदयं पाल्यतां मे स कालः॥३३२॥
इति वदन्नेव निजागमनकालं प्रतीक्षेत पृथिवीपतिर्निमिरिति दृढंमन्वानः सुरपदमन्वासीनः समाप्य च तत्र तत्कर्म पुनर्निवृत्य तत्रान्तरेतत्स्थाने भृगुं प्रकल्प्य यथाकल्पं यजमानाय कृतनिजावमानाय निमये भृशंचक्रोध वक्रोऽथ भ्रुकुटौ वसिष्ठः॥३३३॥
शशाप चोर्वीरमणाय योगी यन्मामनादृत्य मखं तनोषि।
इदं शरीरं परिहृत्य तस्माद्भ्रमिष्यसि त्वं सकलासु दिक्षु॥३३४॥
अथानागसः स्वख्यानालोच्यैवास्यानेन शापदानेन समेधितमन्युनास्वमन्युकर्मण्यसमाप्तेऽपि तादृश एव शापे भूपेन प्रत्यर्पिते महर्षयेऽप्यहर्षिणौ द्वावपि देहमिह विहाय विहायस्तलमलञ्चक्रतुः॥३३५॥
ततो वसिष्ठः परमेष्ठिपादौप्रणम्य देहीति तनुं ययाचे।
असौ च मित्रावरुणोग्ररेतः प्रविश्य देहं कलयेत्यवोचत्॥३३६॥
अत्रान्तरे दुग्धपयोधिनाथतां
मित्रोऽभजत्कार्यवशेन जातुचित्।
वृतोर्वशी तेन यदृच्छयेक्षिता
प्रचेतसा चापि वृता ततोऽभवत्॥३३७॥
मित्रणाहं यद्वृता पूर्वमेव
न्याय्या न स्यात्वद्वृतिर्मेपुनस्तत्।
इत्युक्त्वाऽगात्सा स तत्कामनोत्थं
रेतोऽमुञ्चत्कुत्रचित्कुम्भिकायाम्॥३३८॥
मित्रोऽपि स्वनिकटमुर्वशीमथेतां
यादोराण्निहितविलोचनां विदित्वा।
कोपेनाकृलितमनाः शशाप चैनां
जानंस्तां जनितविभङ्गनैजशीलाम्॥३३९॥
अथ तस्मिन् “यन्मया वृताऽपि निर्भयमेव पुरुषान्तरमुपेतवती, तत्वमितोऽमर्त्यलोके पुरूरवसमुपेत्यापत्याविर्भावावधि निवत्स्यसी”ति शप्त्वा स्वकीयमपि तदीयमोहजनितं तस्मिन्नेव कुम्भे विसृज्य वीर्यं निर्गते, शोकपरवशीभूतोर्वशी शर्वरीव ग्रहग्रस्तविधुमण्डला विधुतरुचिवदना सदनाम्निजान्मेदिनीमवाप्य, वशस्थापितसकलेलं महाराजमैलमासाद्य तद्गुणगणरञ्जितमानसाशापमपि मित्रस्य मित्रस्य कृत्यमिव हितकरमेव मन्यमानाऽनन्यमानसेनतेन सह सहस्राक्षादीनामपि दुर्लभान् भोगान् सुचिरमनुभूय भूयसि काले गतेगतेर्प्यारोषं दीर्घायुषं सुतमायुषं प्रसूय स्वःस्थानमागतवती॥३४०॥
घटात्तस्माज्जज्ञे सलिलनिधिपायी मुनिवृषा
पुरस्तात्पश्चात्सोऽप्यजनि रघुवंशोत्तमगुरुः।
अथेक्ष्वाकुर्वव्रे निजकुलपुरोधस्त्वविधये
वसिष्ठं सोऽप्यास्ते कुलगुरुरतस्तत्प्रभृति नः॥३४१॥
निशम्यतां वत्स निमेश्चवृत्तं
गते तनोरात्मनि याजकास्ते।
संरक्ष्य गन्धादिभिरस्य देहं
सर्वं यथावत्तु समापयन्त॥३४२॥
अथावभृथान्ते वरप्रदानार्थमागतैरुपागतदयैरादितेयैरवापितजननयननिवासे निभौ, याजकास्तु तद्वंशाङ्कराय देहमस्य मथनक्रियया संयोज्य
तज्जातं मथनसम्भूतत्वान्मिथिरिति नामभाजे तनयमनयन्त निमिसदनम्॥३४३॥
तेनापि शर्मास्पदपौररम्या
निर्मापिता पूर्मिथिलाऽर्यगम्या।
अध्यास्य यां भूर्जुगुपेऽथ तेन
यस्यान्वये नो जनकः प्रसूतः॥३४४॥
एवमाकर्णितकथस्य विप्रशापे प्राप्तेऽपि क्षान्तावेव कर्तव्यकोटौस्थितायां कथमित्थं चुक्रोध निमिरिति विलक्षतरस्य लक्ष्मणस्य मनोविनोदनाय कथामन्यामित्थं वर्णयामास॥३४५॥
पुरा किल नयातिश्रद्धमना ययातिनामा महीपतिःदैतेयगुरु36राजयोरात्मजे देवयानाशर्मिष्ठे बंहिष्ठगुणगणाकृष्टमानसे परिणीय धरणीतलविख्यातयशसो यदुमुखांस्तनयांस्तयोः पूर्वस्यामपरस्यामपि महोजितानूरुसारथीन् पूरुप्रभृतीनपि पुत्रानुत्पादयामास॥३४६॥
दैतेयेशसुता तदीयतनुजाश्चोवींप्रियस्य प्रिया
नाऽन्येऽतो रुषितः कविर्नरपतिं शापाज्जराढ्यं व्यधात्।
राज्ञः सान्त्ववचःप्रसन्नहृदयस्त्वेनां जरामन्यतो
दानादानविधानपात्रमकरोदस्य प्रतुष्ट्यै पुनः॥३४७॥
राजा यदुं मृदु जगाद जरां गृहाण
त्वद्यौवनं दिश समाः किल काश्चिदेव।
तत्ते पुनः प्रतिदिशानि सुखं विहृत्ये-
त्येवं यदुस्तु विफलां पितृवाचमाधात्॥३४८॥
अथ तथैवाभ्यर्थितेन प्रथिततरपुरुषवरगुणगणगुरुणा पूरुणा सप्रमोदं जरग्रहणपूर्वकं निजयौवने प्रत्यर्पिते पृथिवीपतिः प्रहासपराय विनीतेतरतराय मतिमृदवे यदवे राक्षसत्वप्रापकं शापं वितीर्य राज्यादप्येनमपवाह्य
निजसूनुदापिततारुण्यया लावण्यगुणगरिष्ठया शर्मिष्ठया दृढालिंगनत्रुटिनहारया सह विजहार॥३४९॥
कालेगते बहुतिथेऽथ स भूमिपालो
भूमिञ्च यौवनमपि प्रणिधाय पूरौ।
शान्तिं गतो वनमियाय मुमुक्षुसेव्यं
न ह्यासते प्रवयसः सदनेषु सन्तः॥३५०॥
अथ यथाकालमवेक्षितराजकार्यस्य परित्यक्तभार्यस्याप्यपुनरूढान्यकलत्रस्य रघुपुत्रस्य व्यतीयाय सकलजननुतिपात्रं किमपि गणरात्रं॥३५१॥
अथ कदाचिल्लवणोदधिवेलावनान्तसञ्चारिणो ब्रह्मचारिणो चारणोपगीयमानरावणोद्धरणाकर्णनसम्भूतमहानन्दा अमन्दारातिनिग्रहप्रवणं लवणकृतबाधामसहमाना मानधनं तपोधना रामं विरामं स्वबाधाकरस्येच्छन्तःप्रशान्तान्तःकरणाः प्रपद्य यथाविधि जितारिणा पूजितास्तेन पृष्टाश्चागमनप्रयोजनं विपत्परित्रातजनं तमेनमिति विज्ञापयामासुः॥३५२॥
रामाभवन्मधुरिति श्रुतवान् सुरारिः
शम्भुं प्रसाद्य तपसाऽथ समक्षरूपात्।
स्वस्यात्मनस्तनुभवस्य च युद्धभूमौ
नित्यं जयप्रदमवाप हरात्स शूलम्॥३५३॥
तस्याद्य सूनुर्लवणाभिधानस्तेनैव शूलेन मदान्धचेताः।
द्विजान्महीपान्मनुजांश्च हत्वा दिने दिनेऽयं जठरं बिभर्ति॥३५४॥
यस्य प्रभो ते भुजवीर्यवह्नौ दशास्यमुख्याः शलभायमानाः।
नाशं गतास्तस्य तवैव बाहोर्वध्यः स दैतेय इति प्रतीमः॥३५५॥
इति निशमितमुनिजनकथे दाशरथौ महारथौ रथौघकरितुरगादिविनाऽपि बलं रिपुवधनिघ्नौ भरतशत्रुघ्नौसमाहूय कस्यायं भागो लवणासुरदेशस्याभोगो निहत्य रिपुमनुभवनीय इत्यनुयुञ्जाने सञ्जातादरः शत्रुघ्नोविघ्नोपशमनं स्वस्यारात्यभिषेणने चिकीर्षुः “आर्यन कार्यमुपेक्षणमनि-
र्वायादर वदता मम वचसि, भरतस्तु पुरा भवदागमनापेक्षी प्रक्षीणसुखदशश्चतुर्दश हायनानि महायमी भूत्वा दुस्सहं खेदमनुभवति स्म, तदयमेव जनोऽत्र नियुज्यतां”इत्यर्थयांबभूव॥३५६॥
रामोऽपि शत्रुघ्नमवेक्ष्य युद्धसन्नद्धमेनं मणिपीठपृष्ठे।
कृत्वाऽभिषिच्याथ मधोः पुराधिपत्ये बभाषे वचनं गभीरम्॥
वत्स शत्रुघ्न सुमित्रासुभगापत्य सम्प्रत्यन्वर्थतां गमिष्यति ते नाम, चतुराङ्गचतुरङ्गबलसहितो वर्षान्तेऽमर्षात्तत्पुरं प्रतिपद्य बहिर्गतमेनमगृहीतशूलमेव पुरं प्रविशन्तं निषिद्ध्य, मधुकैटभवधाभिनिविष्टविष्टरश्रवःसृष्टेन रिपुभ्यो दर्शितयमलोकमार्गेण मार्गणेनानेन तं निहत्य तस्यामेव पुरि कस्याप्यप्रियमनाचरन् विनाभूतदुःखनिकरान् पौरानानन्दयन् विन्देथा निवासमित्यभिधाय वितीर्य च तं शरं पूर्वप्रेषितसेनमेनं स्वसमीपे मासमावास्य प्रस्थापयामास प्रभुः॥३५८॥
प्रस्थाय सोऽपि क्षितिपालसूनु-
स्त्रस्ताभयप्रापणबद्धकक्ष्यः।
जाल्मीकरिष्यन् लवणं वनान्ते
वाल्मीकिमासाद्य ननाम भक्त्या॥३५९॥
अथ यथोचितमभ्यर्च्य निजोटजं प्रवेशितो मुनिना सनरनाथसूनुविमना रघुनायकदारस्मरणेन तरणेःकिल किरणेभ्यः सुदृरासिकामर्पितवति तस्मिन् दवे निवेशितनेत्रस्तत्रत्यसत्रविभूतिं प्रति पृष्टेन शिष्टजनप्राप्तिहृष्टेन मुनिवरिष्ठेन वचनमिदचमाख्ये॥३६०॥
त्वत्पूर्वकोऽभूत्क्षितिपालवर्यः
सुदासजो वीरसहाभिधानः।
अत्तुंवनेऽस्मिन्नखिलान मृगौघान्
ददर्श स व्याघ्रतनू पलाशौ॥३६१॥
आशुगासनवशौ कुणपाशौ वीक्ष्य चैकतरमत्र जघान।
भूमिपाय रुषितः प्रतिकर्तुं तत्समक्षमपरः प्रतिजज्ञे॥३६२॥
अथ कदाचित्क्रियमाणवाजिमेधक्रियस्य यज्ञायतनकृतवासस्य सौदासस्य पुरो निष्ठितो ब्रह्मनिष्ठस्य वसिष्ठस्य रूपं पापं कर्तुं प्रपन्नःक्षपाचरः स कृपारहितः “राजन् याजनक्रियातान्तस्य मे कान्तं भोजनंसामिषं निमिषकालमात्रेण दीयता” मिति संप्रार्थ्यान्तर्धिमापद्य च सद्यएव सत्यमेतदिति बुद्ध्या समुपगतत्वरेण नृपवरेण “तरसा तरसाऽभियुक्तंभोजनं भाजने रम्ये निधाय सन्निधाय गुरोः समक्षं तस्मै देहि’ इति समादिष्टः भेदरूपेण तथेत्यभ्युपगम्य मानवमांसमस्मै समर्प्य यथागतमगात्॥३६३॥
धातुः सुतो नृपललं प्रसमीक्ष्य रुष्टः
शेषे नृपाय नृपलाशनतां व्रजेति।
शप्तु जलं नरपतिश्च दधौ निरागाः
सामेरितोऽथ मदयन्तिकया^(१) स शान्तः॥३६४॥
अथ निजगुरुशापान्निवृत्ते सुवृत्ते तज्जलं निजपदयोर्विसृज्य तेन कल्मषितपादे कल्माषपादाभिधां जग्मुषि सौदासे वसिष्ठोऽपि राक्षसचेष्टितमिदमखिलमिति विज्ञाय प्रज्ञावतामग्रणीर्गुरुणा करुणारसेन तरणायास्या विपदो“नेतासि द्वादशवत्सरमात्रावधिकं शापमिम” मिति पुनरेनं सकरग्रहमन्वग्रहीत्॥३६५॥
अथाभिभुज्य द्विजवर्यशापं
तदुक्तकालं नरपालवर्यः।
पुनः प्रपन्नो नगरीं स्वकीया-
मशाद्दिशापूर्णयशा धरित्री॥३६६॥
तस्येयमध्वरभूरिति निर्दिशति तपोधने शौर्यधनेड्यः शत्रुघ्नोपि निजवंशसंभूतचित्रचरित्राकर्णनेन मुदर्णवनिमग्नहृदयः शयनीयमगात्॥३६७॥
अथ तस्यामेव रजन्यां निशीथसमये जनकजाप्रसवं सकुतूहलमुनिबालकगणैरावेदितो वाल्मीकिः सत्वरमेव गत्वा हृष्टतरस्तत्रारिष्टस्थितिबद्ध-
————————————————————
१…x..न्तिकेति सौदासपत्न्या ..x..
श्रद्धाभिर्वृद्धाभिर्निजकरस्थितेन कुशमुष्टिना लवेन च भूतरक्षाकरमन्त्राभिमन्त्रितेन बालयोः शरीरे पर्यायशः परामर्श्यतत एव कारणात्कुशलवाविति नामभाजौ तावकरोत्॥३६८॥
श्रुत्वा जातौराघवस्यात्मजातौ
रामभ्राताऽतीव हर्षस्य धाता।
तस्या गत्वा वासमूचेऽथ नत्वा
दिष्ट्या भासीत्यार्द्रया वीक्ष्य दृष्ट्या॥३६९॥
अथ गतयामायां त्रियामायामनुज्ञाप्य मुनिं विज्ञाप्य च तस्मै प्रस्तुतं कार्यमहार्यवरधैर्यपरः परप्राणच्यवनकरश्च्यवनमुखैस्त्वरितमेव रिपुवधकांक्षिभिः पारिकांक्षिभिः सह प्रस्थाय महावीर्यपरिमाणप्रस्थाय मधुपुरस्थाय साधुकृतरणाय लवणाय मरणावस्थामवस्थापयिष्यन्नदसीयवृत्तान्तमन्वयुङ्क्तमुनीन्॥३७०॥
ते चैनमेवमवोचन्त॥
“पुरा किल सकलमार्गणगणप्रार्थितसन्धाता मान्धाता नाम वःपूर्वको राजा विजातीयनिजातिबलविजितरिपुचक्रश्चक्रवर्तितां प्राप्य शक्रार्धासनमन्ते सुधर्मान्ते कान्ते प्रपद्य सद्यः सम्भवदसूयेन जम्भरिपुणा किं विजितास्त्वया सर्वेऽप्युर्वीतले वीराः न ह्यजिताखिलारिसार्थस्य भूनाथस्यसमुचितमिदं स्थान” मिति पृष्टः शिष्टसम्मतशीलतया तया गिरा परांप्रतीतिमुपेत्य धरां पुनरवाप्य निस्सीमधुतपरबलेन मधुपुरं बलेन समंसमासाद्य बहूनि दिनान्यतिशयितरावणेन लवणेन युद्ध्वाविद्ध्वाच तंमर्मसु, तदनु विजितप्रायेणानेन गतमानेन विमुक्तेन विपत्कालपालेन शूलेनपतितेन महत्यनिले तूलेन सदृशीं दशामापेदे॥३७१॥
तस्मादस्माकं भवन्तं विना रिपुन्तं विजेतुं नास्ति प्रत्याशा, असंशयं भवांस्तु विजेप्यते त” मिति प्रोत्साहितोऽहितोपतापनान्वर्थितनामाशत्रुघ्नश्च्यवनाश्रममुपेत्य, परेद्यवि करेऽर्पितकोदण्डोहिण्ड्यमानोदये37
कमलिनीरागोदये तेजसि, सञ्जातपूरामिव लवणायशोराजिं राजीविनीनाथसुतां38 निस्तीर्य विस्तीर्णैरुडुपैः प्रातरेव कातरत्वं विहाय भक्ष्यसंपादनायबहिर्गतलवणं, लवणराशिरिव दुग्धं पुरं रिपोः प्रविश्य विक्षोभयाञ्चक्रे॥३७२॥
पुष्करमध्यं याते पुष्करभाग्यावलीपरीपाके39।
वेगादागाद्रागान्नागादिप्राणिकुणपधृल्लवणः॥३७३॥
नगरद्वारे रोधान्नगतुल्याङ्गो निबद्धदृढमन्युः।
न गतः शूलमुपैतुं नगवृष्ट्या योद्धुकाम आगात्सः॥३७४॥
अथ मथनसमये मन्दरमिव क्षीरबिन्दून् कङ्कपत्रिणः शरौघानमोघान् किरन्तं रघुवरं तं केनाप्यभ्रंलिहेनानोकहेन सन्ताड्य पीड्यमानचेतनं केतनमिवेन्द्रस्य पातयित्वा मत्वा च मृतोऽयमिति स्वानीतंग्रथितमुनिमदावलमृगकुक्कुरद्वीपितरक्षुप्रभृतिकलेवरं वरमुसलं सलीलमादाय पुरं प्रवेष्टुमुद्यतचरणे निन्दिततराचरणे लवणे, शत्रुघ्नोऽपि मूर्च्छामपहाय सरभसमुत्थिततनुर्धनुर्गृहीत्वा स्वाग्रजदत्तं संवर्तिपुरप्रापितसपत्नंबाणरत्नं सन्धाय समनुसन्धाय च रघुनन्दनं हृदा तेन च शरेण तं पूर्वदेवमप्यपूर्वदेवमेव40विरचय्य तद्वधसन्तुष्टविष्टपत्रयसमभिष्टुतप्रभावः प्रभाकरकुलतिलकस्तदनु ज्ञानिजनानुज्ञयैव मधुपुरं प्रविश्य तत्रत्यलोकमपि समाश्वास्य विश्वास्य च निजे विश्वावनीरञ्जनक्षमत्वे सुखं पृथिवीं पालयन्नास्त॥३७५॥
अथ कदाचिदग्रजसेवासमुत्सुकमानसो मानसोत्सुक इव राजहंसोराजहंसोऽयमुत्तराभिमुखं प्रस्थाय कतिचन मित्राणि मित्रादिकानिव सुत्रामापुरस्कृत्य कृत्यविदां प्रवरो वल्मीकजन्मानमतिथिकृतमानमुपेत्य तेन च लवणवधसञ्जनितामन्दानन्दतुन्दिलहृदयेन कृतोज्जवलदयेन41 शुभावहविधिर्येन॥”) भृशं स कृतप्रशंसस्तत्र तां रात्रिमुवास॥३७६॥
सीमानं कवितारसस्य महतो रामायणाख्यां कृतिं
रामापत्यकगीतपद्यसुभगां प्रेमान्ध आकर्ण्य सः।
सोमांशुस्थितचन्द्रकान्तसमहृद्धीमान्मुनेराज्ञया
धामाप्याऽथ रघूत्तमस्य चरणौ नामालपन्नग्रहीत्॥३७७॥
साकेते सप्त निशा नाके किल वासितोऽथ शत्रुघ्नः।
सम्मानितश्च सहजः शर्मास्पदमागमत्पुनः स्वपुरम्॥३७८॥
कदाचिदेत्य प्रतिहारदेशं मृतं सुतं कञ्चन वाल्य एव।
द्विजोऽङ्कमारोप्य निजं सुदुःखश्चिरं व्यलापीदभिहत्य वक्षः॥३७९॥
हा वत्स चेतोहररूप यासि त्वन्नाथमेतं पितरं विमुच्य।
तं मामपीतो नय पुत्र देशं यत्र त्वया गम्यत एष दैवात्र॥३८०॥
हा वत्स पापस्य नृपस्य राज्ये
प्राणान्तहेतोरुषितोऽसि नृनम्।
पूर्वेषु शासत्सु नृपेषु भूमिं
श्रुतः किमल्पायुरवाप्तमृत्युः॥३८१॥
हा राजन् मम पुत्रघातदुरितं पुष्णासि तृष्णा न ते
धर्मेण क्षितिरक्षणे दशरथाद्धर्मात्मनस्त्वं कथं।
पापात्मा जनिमागमो ध्रुवमयं दोषात्तवान्तं गतो
दैवं मां परिपात्य ते जनपदे हा हन्त हन्ति द्रुतम्॥३८२॥
इत्यादि बहु विलपन्तं प्रलपन्तं निन्दन्तं नृपं नन्दनमनुशोचन्तञ्चकटोरशोकशंकुपप्लुतहृदयं सदयं धरणीरमणो धरणीगीर्वाणं निर्वर्ण्यनिर्वाणमितस्य सुतस्य शरीररक्षणं लक्ष्मणेन समादिश्य निखिलमहर्षिप्रमुखाभिर्दशमुखारिः प्रकृतिभिः सभामवाप्य तत्र स्थितेन महानुभावताविराजितेनमुनिराजने नारदेन “राजन् शम्बूको नाम कलियुगतपश्चर्यायोग्यो मर्यादामतीत्य तपस्यति, तत एवाधर्मान्मृतो विप्रसुतोऽयमतोऽसावन्यथाकारीहन्यतामान्विष्येति मन्यते मे हृदयं”इत्यादिष्टः सद्य एव द्विजदिष्टं शुभ-
पुष्टं कर्तुंयममुष्टप्रत्यानयनार्थमतिकष्टमप्यनपराधवधं विधातुमुद्यतः प्रद्योतनकुलमणिः स्मृतिमात्रसमागतेन पुष्पकेण निष्पतन् गवेषितदिशात्रितयोदक्षिणो दक्षिणस्यां दिशि दण्डकायामधोमुण्डकं तपश्चरन्तं कमप्यालोक्यप्रश्नोत्तरविदिततदीयजातिर्जातक्रोधःसमाकृष्य कृपाणमपप्राणमेनमकरोत्॥३८३॥
सोऽयं ततो नभसि लम्बितमप्रमेयं
दिव्याम्बरस्रगनुलेपनभव्यमूर्तिः।
तस्माच्छरीरत उदेत्यमुदेक्षमाणे
रागेविमानवरमद्भुतमारुरोह॥३८४॥
यानेन तेनैव गतो धरित्रीं दिनेशबिम्बोज्जवलचारुणाऽसौ।
दिव्यः पुमानेत्य दिलीपवंशमुक्तामणि तं प्रणनाम भक्तया॥३८५॥
साञ्जलिबन्धमुवाच चैवं॥
एतेनैव42 शरीरकेण सह सम्प्राप्तुं सुपर्वालयं
वाञ्छावानतपं तपस्तदधुना दत्ते स्म भूयः फलम्।
नो चेन्मे क्वनु दर्शनं तव विभो स्वर्गः कथं चाप्यतां
मन्नाथाय नमो नमोऽस्तु जगतामीशाय रामाय ते॥३८६॥
इति विज्ञाप्य प्रणिपत्य च दिवं गते शम्बूकेपरितुष्टसुरदत्तवरलब्धजीवितं द्विजसुतं विरचय्य मुनिगणसमभ्यर्थ्यमानः कुम्भयोनेराश्रममुपेत्य तेन सत्कृतस्तत्प्रतिपादितं मणिवलयं तदुक्त्या43 क्षत्रियोऽपिप्रतिगृह्णानः तदागमनिदानं पृष्टेन हृष्टेन मुनिना जगदे जगदेकनाथः॥३८७॥
पुरा किल त्रेतायुगेऽहं गेहं कुत्राप्यकल्पयन्, वनेऽस्मिन् पक्षिमृगादिहीने चरणाभ्यामेव सञ्चरमाणः प्रमाणातीतं कमपि रमणीयतरतीरंसरोवरं प्रपन्नः स्नानादिकमनुतिष्ठन् तस्य जले प्लवमानं पुष्टप्रतीकं प्रतीरप्र-
तीयमानपूतिगन्धं प्रेतशरीरमभिवीक्ष्य कस्येदं किंनिमित्तं चास्यात्र प्लवनमिति विचिन्तयन्, किङ्किणीनिनादपरितोषितश्रवणं वैश्रवणरथसङ्काशमकल्पान्तेऽपि पतदङ्गपतङ्ग भ्रमकरणचणमप्सरोगणवीज्यमानं वालव्यजनाष्टकेन परमाद्भुतभद्रासनपरिकर्मितमध्यप्रदेशं स्वसमानरहितं विमानवरमधिष्ठितं भूपृष्ठमवतरन्तं कमपि दिव्यपुरुषं क्रमादद्राक्षं॥३८८॥
कष्टं कष्टं स धरणिगतः प्राप्य कासारमध्यं
प्रेतं तत्र स्थितमपि मुदा भक्षयित्वाऽथ तृप्तः।
गत्वा तीरं निहितनयनः सर्वतो विस्मितं मां
वेगादेत्य प्रणतिमकरोत्प्राञ्जलिः पादयोर्मे॥३८९॥
तदनु “कोऽसि किमर्थं चेदृशमतिबीभत्सं कर्माचरसी” ति पृष्टःस पुमानात्मनो वृत्तान्तमित्थमकथयत्॥३९०॥
“अहं किल विदर्भाधिदेवस्य सुदेवस्याग्रजस्तनुजः पितरि स्वर्गतेनिर्गतेर्ष्यादिदुर्गुणो लवणोदधिकृतावधिं भुवं चिरं प्रशास्य दशामवाप्य जरात्मिकामरातिनिषूदनवरिष्ठे धर्मैकनिष्ठे कनिष्ठे भ्रातरि तरिष्यन् भवांबुधिमम्बुधिमेखलां निक्षिप्य पक्षिमृगमात्रसहायः सहादरेण परेण वने विचरन् पर्याप्ततपश्चर्यालंकृतः सरसोऽस्य वरसोपानतले परित्यज्य शरीरं परीप्सुरानन्दंब्रह्मानुध्यानविधूतैनसा मनसा ब्रह्मलोकमगमं॥३९९॥
ततो महाहर्षिमहर्षिवरतोष्टूय्यमानपद्मविष्टरे नारदतुंबुरुप्रमुखसुरवैणिकजे-गीयमानगीर्देवतापदानेसनकादियोगिवरजोघुष्यमाणनिगमनिगमान्तमहारहस्ये सदस्येव क्षुत्पिपासावसादावसन्नमूर्तिरार्तिमापन्नो विपन्नो विधिमुपेत्यकृत्यमात्ययिकं विज्ञाप्य समाज्ञापितश्च तेन “न ह्यशनायातृषादितानामस्त्यशनायात्र दातव्यं, तत्स्वर्ग एवेदं मार्गयितव्य” मिति नाकमभ्येत्य तत्रापिवृत्रारिणा विदितमदीयवृत्तेन “न हि त्रिदिवेऽस्ति किञ्चिदपि तव भोज्यं।यन्न किमपि त्वया पूर्वस्मिन् भवे चार्वभिजनाय दत्तं, तत्तवैव तनुमतनुंनित्यभक्षणेऽपि मत्प्रसादेन भक्षय, यदा कुंभसंभवं संभावयिष्यसि प्रदानेन
ताद किल लप्स्यसे क्षुत्प्रशान्तिं“इत्यादिष्टः प्रतिदिनमिहागत्य गत्यन्तराभावात्परमजुगुप्सितमपि कर्मेदमीप्सितमिवाचरन् प्रतिपालयामि चिरकालयापितं भगवदगमनं”इत्यभिधाय रचिताश्रुविसर्गे स्वर्गिणि तस्मिन्नकम्पानुकम्पासमाकंपिताय मह्यं शंपाविजैत्रप्रभाङ्कनं कङ्कणमिदं वितीर्य प्रतीर्यच दुःखसागरं तत्र च मया प्रतिगृहीतमात्रे क्षणादेव देवपुरुषे सरःस्थस्वशरीरविनाशदर्शनसुखमनुभूयान्तर्हिते हितेहितमना अहमप्यस्य दानपात्रं समुचितं चिरान्निश्चित्य भवन्तं भवतेऽद्य प्रादामिति॥३९२॥
निशम्यैतद्वृत्तं रघुपतिरथो विस्मितमना
वने44 ज्ञातुं हेतुं खगमृगविहीनत्वकरणम्।
अपृच्छद्भूयोऽमुं मुनिवृषभमेषोऽप्यकथयत्
रघुत्तंस श्रीमन् शृणु समवधेह्यद्य कथये॥३९३॥
इक्ष्वाकोर्दण्डनामा चरम उदभवत्पुत्रकः सोऽपि काव्यं
पौरोहित्याय कृत्वाऽशिषदवनिमथो जातु सोऽगादरण्यम्।
गत्वाऽऽचार्यस्य वासं रतिसदृशतनुं तत्र वीक्ष्यास्य पुत्रीं
कामार्तस्तामकामामरमयत बलात्स्वर्गतेऽस्यास्तु ताते॥३९४॥
अरजा45मथ जातमन्युना ता-
मभिवीक्ष्योशनसा कृताऽस्य भूमिः।
रहिता मृगपक्षिवृक्षगुल्मैः
पतितैर्व्योमतलात्तु पांसुवर्षैः॥३९५॥
एवमाकर्ण्य कर्णमधुरां कथां दाशरथिर्मुनिवरमापृच्छ्याथ वियच्छ्यामतनुलब्धपरभागदिव्यकङ्कणोऽयोध्यामध्यास्य बुद्ध्या निश्चित्य यष्टुमिष्टतरौसहोदरौ समानीय सकलराजकमाननीयराजसूयसवविधित्सां धृनोत्साहमाभ्यां निवेदयामास॥३९६॥
अथ वश्यावश्यपरीक्षाशुन्यं सकलानपि महीपतीन् विजितवतैव कर्तव्यस्य राजसूयसवस्यचिकीर्षया खिन्नमना मनागप्यनायासयन्नेव परान्
भरतो “वश्यानामवश्यायविन्दूनामिव रवेर्भवतः सन्निधाने स्थातुमप्यशक्नुवतांराज्ञां निपीडनापेक्षया वरं क्रतुवरमश्वमेधमनुष्ठाय देवप्रीणन”मिति रामं विज्ञापयामास॥३९७॥
निशम्य तां सादरमेव भारतीं
स्तवोचितां लक्ष्मण एषभारतीम्।
कथां स्मरन् कामपि वाजिमेधगां
रघूत्तमं वाक्यमवोचदुत्तमम्॥३९८॥
धर्मात्मा वृत्रनामाऽभूवदसूरवरोवीर्यधैर्यैकभूमि-
स्तिष्ठन्तं वीक्ष्य चैनं तपसि सुरपतिर्भीतभीतो रमेशम्।
संप्रार्थ्यास्मिन् महेन्द्रं कुलिशमपि भुवं चाविशत्यात्तवज्र-
स्तंहत्वा ब्रह्महत्यापरिकलिततनुर्विद्रुतः क्वापि लिल्ये॥३९९॥
संप्राप्याथो महेन्द्रं जलजभवमुखा बोधयामासुरुच्चैः
मोऽकार्षीदश्वमेधं तदनु परिगता दृश्यतां दुर्वसा46सा।
कृत्वाऽऽत्मानं चतुर्धा भुवि च युवतिषु प्रावृषेण्ये च पूरे
विप्रोद्दूषे च लीनाऽभवदथ सुखितः स्वां पुरीमिन्द्र आगात्॥४००॥
अथ हयमेधसमेधितमेध्यताप्रशंसां भृशं साधयितुं रामोऽपि सोमोद्भवसङ्गतेलोपाख्यानमाख्यातुमुपचक्रमे॥४०१॥
आसीद्राजेलनामा मृगयुरयमयाज्जातु शैलेन्द्रपार्श्वं
तत्रादेशेन शम्भोः स्वगततनुमतां स्त्रीत्वदं दावमागात्।
आत्मानं वीक्ष्य नारीकृतमथ विहृतौबद्धतृष्णं ययाचे
देवोदेवीसमेतं पुनरपि पुरुषत्वाप्तिमत्यन्तमार्तः॥४०२॥
देवो नैवानुमेनेऽन्यथयितुमथ गां स्वोदिता, मेषदेवी
प्रापत्स्यापत्प्रशान्त्यै, तदनु गिरिसुता वाचमूचे दयार्द्रा।
शम्भोरङ्गे ममार्धंस्वमत इदमिह प्रोच्यसे मासमेकं
स्त्री भूत्वा मासमेकं पुरुषतनुधरो न स्मरिष्यस्यतीतं॥४०३॥
सेला सर्वाङ्गसुन्दर्यथवनमविशद्विस्मृतातीतकार्या,
तामीक्षामास सौम्यः सरसि कृततपाः कुत्रचित्तत्र चाप्तां।
विद्धः कामेन तीरं समुपगत इमां चाटुभिर्मोहयित्वा
रेमे मासं, ततोऽगात्पुरुषतनुमसौ, सोऽपि तप्तुं सरस्तत्॥४०४॥
याते मासेपुनः स्त्रीमरमयदथ तामेवमापन्नगर्भा
काले पुत्रं प्रसूतेयमथ बुध इमं नित्यपुंस्त्वं चिकीर्षुः।
आलोच्याप्तैर्मुनीन्द्रैररचयत सर्वं वाजिमेधं नृपेण
प्रादात्तुष्टस्ततोऽस्मै सह वरनिकरैर्नित्यपुंस्त्वं महेशः॥४०५॥
पुरं प्रतिष्ठानमवाप्य राजा स्वनिर्मितं भूमिमिलः शशास।
वृद्धो वलं चाप सुते स्वमूते पुरूरवस्यर्पितराज्यभारः॥४०६॥
एवं परस्परसम्मन्त्रणसिद्धान्तितकर्तव्यताके तुरगमेधमखे रामःप्रसन्नमनाः समानाय्य वसिष्ठादीन् गरिष्ठान्मुनीननश्वरमश्वमेधमवश्यं विधेयंनिश्चित्य नैमिशे विशेषतः कर्मणां फलप्रदे प्रदेशंयज्ञस्य कारयित्वा सन्देशसमानीतसकलमुनिनृपप्रमुखजनः जनकनन्दिन्या काञ्चनमय्या पुरतोभरतोपनीतया सह समनुगतश्च महता सैन्येन पादपीठसङ्घर्षितसामन्तकिरटितटो यज्ञवाटं प्रविश्य श्याममश्वं शुभावर्तं शुभे मुहूर्ते विससर्ज॥४०७॥
ततो मखदर्शनार्थमुपागतस्य वाल्मीकेः प्रियान्तेवासिनौसहजतेजःपुञ्जसञ्जातशरीराच्छादनावपि वल्कलाच्छादनौ कुशीलवौ सुप्रसिद्धकुशलवनामानौ विधृतवीक्षकजनकटाक्षदामानौनिजगुरुनिदेशेन तत्र तत्र गीयमानरामायणौ रामः स्वयज्ञवाटमानाय्य सत्कृत्य कृत्यविदां वरः परमेष्ठिसमप्रभावैः प्रभापहसितप्रभाकरैर्मुनिभिर्महीपतिभिरन्यैश्च धन्यैः प्रकृतिमण्डलैः परिमण्डिनोपान्तो वारितश्रोतृश्रावकजनदुरितजातं, ^(१)आतङ्कमातङ्गमातङ्गरिपुं, आश्रयं रसानां आस्पदंगुणानां47, आकरं48रमणीयपद्यमणीनां, विधानं श्रोतृजनमनोरथसिद्धीनां प्रधानं महाकाव्यानां, कमनीयंश्रुतिलयसम्पदा, श्रवणीयं भवसागरतितीर्षावाद्भिः, सुतमिव लालनीयं,निधिमिव पालनीयं, मार्गप्रदर्शकं महाकवीनां, माहात्म्यप्रदर्शनस्थानं महाकवित्वस्य, सर्वस्वाधानस्थलं सरस्वत्याः, सदयावलोकनकारणं सागरकन्य-
————————————————————————————————————
१. आतङ्काएव मातङ्गा गजास्तेषां मातङ्गरिपुं सिंहं। रामायणस्मरणमात्रेण सर्वेऽप्यातङ्का नश्यन्तीन्यर्मः।
कायाः, शशशृङ्गायमाणदोषनिकरे, शुभरङ्गायमाणं शोभनार्थनटानां, पेटकायमानमलङ्काराणां^(१) घोटकायमानं^(२) पदरचनाविशेषाणां, हरिमिव^(३) श्रुतिलयविशिष्टचरणं, सत्कलत्रमिव शुभतरशय्यासमाकलनसम्पादितपुरुषार्थं, सज्जनमिव बहुसर्गंप्रपञ्चप्रदर्शनकलितमुदं,कामिनीकण्ठमिव सुवर्णाकलितमुक्तावलीसमाश्रितं, नगरमिव महापद्याकलितपदकृतानन्दं, रामायणं गातुमादिदेश॥४०८॥
वाग्देवीभुजगाधिपावृततनुं वाल्मीकिमन्थाचलं
श्रीमद्रामकथासुधाजलनिधौ निक्षिप्य निर्लोडिते।
श्रीरामायणनामकामृतमजेनात्तं श्रवःपेयकं
निघ्नोद्रोगजरामृती रघुवरो मत्तोऽनुभूयाभवत्॥४०९॥
————————————————————————————————————
स्थानमित्यर्थः।
१.अलङ्कारा अनुप्रासादयः उपमादयश्च त एव अलङ्कारा भूषणानेति श्लिष्टरूपक।
२. पदानां सुप्तिङन्तानां रचना प्रयोगप्रकारः तद्विशेषाणामेव पद रचनायाः पादविन्यासस्य (धारात्मकस्य विशेषाणां भेदानामिति श्लिष्टरूपकं।
३. श्रुतीत्यादि। श्रुतयः स्वरावयवविशेषाः सङ्गीतशास्त्रे प्रसिद्धाः लयाः तालसाम्यापरपर्यायाः तैर्विशिष्टाः चरणाः श्लोकतुरीयांशा यस्मिन्। हरिपक्षे श्रुतौ वेदे लयःलीनत्वं (प्रतिपाद्यतया) तद्विशिष्टौ चरणौ यस्य तं। शुभेति। शुभतराया अतिश्लाघ्याया शय्यायाः शब्दगुम्भविन्यासात्मिकायाः समाकलनेन मनसाऽनुध्यानेन सम्पादिताःपुरुषार्थाधर्मादयः येन। अन्यत्र शुभतरायां शय्यायां तल्पे समाकलनेन सह स्थित्या सम्पादितःपुरुषस्य अर्थाद्भर्तुः अर्थः स्वपाणिग्रहणप्रयोजनं येन। सद्रीतीति। सद्रीतेः शोभन (अनुष्टानस्य) प्रकारस्य अनुसरणेन वशीकृताः स्वस्मिन् भक्तीकृताः जनाः येन। रामायणपक्षे रीतयो वैदर्भ्यादयः। वह्निति। बहूनां सर्गाणां तदाख्यानां अध्यायानां प्रपञ्चस्य विस्तरस्य प्रदर्शनेन कलितमुदं रचितानन्दं। अन्यत्र बहुषु सर्गेषु दैनन्दिनप्रलयान्तकालिकसृष्टिषु प्रपञ्चस्य जगतः प्रदर्शनेन कलितमुदं प्राप्तहर्षे, कल्पान्तेऽपि मुक्ताना विनाशाभावात्। सुवर्णेति। सुवर्णैःपूजनीयाक्षरैराकलितं पूर्णमित्यर्थः। मुक्तावल्या मोक्षं प्राप्तानां समूहेन समाश्रित सेवितमित्यर्थः। सुवर्णाकलितञ्चतन्मुक्तावलीसमाश्रितञ्चेत्यन्यतरस्य विशेष्यत्वाभिप्रायेण समासः। अन्यत्र सुवर्णाकलितया हेमसूत्रगुम्भितया मुक्तावल्या हारेण समाश्रितं। महापद्येति। महत्सु पूज्येषु पद्येषु श्लोकेष्याकलितैः प्रयुक्तैःपदैःकृतानन्दं। अन्यत्र महापद्या राज मार्गः तत्र कलितपदानां सञ्चरतां कृतानन्दं। नगरे राजमार्गस्यैव रमणीयतमत्वात् दृश्यत्वात् दृश्यवस्तुपूर्णत्वाच्च॥
इति मधुसमधुरमधुरकण्ठस्वरेण पञ्चमादिस्वरप्रपञ्चसमुदञ्चितविपञ्चीनिनादसङ्कलनसमभ्यर्हितसभ्यजनकर्णनिकायेनसकलजनविलक्षीकरणनिपुणतररामसादृश्यदृश्यतरकायेन कुमारद्वयेन प्रतिदिनं विंशतिः सर्गा इतिरीत्या गीयमाने रामायणे, ग्रन्थसन्दर्भपरिज्ञातनिजतनयभावौ कुशलवावादाय प्रदाय चाज्ञां वाल्मीकेः स्वसमीपं प्रत्यानयनाय नयनारविन्दविष्टंभिताश्रुः प्रतीक्षमाणो मुनेरागमनं नमनपरदुरितविरामकरो रामः सभायामवतस्थे॥४१०॥
अथ सदसि सीतास्मरणजदुःखनिमीलिताक्षेण रामेण “क्षेमेण युक्तायदि क्षमातनया सकललोकसमक्षं समानीयताम्” इति वल्मीकजन्मा समादिष्टस्तदिष्टमवष्टभ्य तथैव तामपेतानन्दां बृन्दारकसरितमिव निदाघशुष्कां कृशसितां सीतां समितिमानीय सकलानपि पौरजानपदान् हस्तमुद्यम्य विहस्ततरमिदमवोचत्॥४११॥
सीता पूता न खलु विशयः साधु विज्ञाय नीता
नैजावासं ध्रुवमिह मया सत्यमद्य ब्रवीमि।
स्यादेषा चेद्दुरितकलुषा सिद्धिमान्मा स्म भूवं
जन्मारभ्याकलिततपसां प्रापितानां च वृद्धिम्॥४९२॥
इति मुनिवचनं निशम्यापि निशाम्यापि च पुरतः स्थितामस्थिमात्रशेषावयवां मृतमिव पातिव्रत्यलक्ष्मीं लक्षितक्षितितलाम् क्षितिसुतांरम्येतरमनःसंस्काराणां पौराणां केषाञ्चित्प्रत्यायनाय “कृत्यानि समुचितानिक्रियन्तामस्मन्मात्रविदितसच्चरित्रयाऽपि विदेहराजपुत्र्या” इति भृशदूनचेतसंप्राचेतसमुद्दिश्य सामान्वितां रामादाकर्ण्य गिरं रामाकुलशिरोमणिरियमितिकरणीयमतिशून्येषु मान्येषु जनेषु वचनमिदं रचयामास॥४१३॥
करणैस्त्रिभिरपि नित्यं राघवमेवार्हयामि यदि सत्यम्।
माता भूतानामिह मम च ददातुप्रसद्य विवरं मे॥४१४॥
समनन्तरमेव तद्गिरोऽस्या वरसिंहासनमुत्तमाश्मदीपम्।
भुजगैर्धृतमीक्ष्यते स्म जातं विवराद्भूमितलस्य पाटितस्य॥४१५॥
अथ पश्यत एव राघवस्य द्रुतमारोप्य तदासनं सुतां स्वां।
धरया विवरे तिरोबभूवे मिलितं चाथ दलद्वयं धरण्याः॥४१६॥
अन्तर्हितां स दयितामनुचिन्त्य रामो
दीनं विलप्य दुरवस्थितमानसोऽयम्।
कोपाद्विपाटयितुमुद्यत एष भूमिं
लिप्सू रसातलगतामपि चापमाप॥४१७॥
अथ कमलभवः सुरैः समेतः सविधमुपेत्य रघुत्तमस्य भक्त्या।
विरचितविनुतिर्जगाद वाचं विदधदतिस्फुटमेव रामतत्वम्॥४१८॥
देव न स्मरसि किमिदं भृगवे प्रतिज्ञास्यसे “त्वदीयं शापं दशरथादुद्भविता सन्ननुभवितास्मी”ति। तदशोच्योऽयं विषयः यदि भवान् स्मरतिसवाशनैःसह विहितं मन्त्रं सन्त्रस्तसुररक्षणाय शिक्षणाय च दशवदनस्यमहीमवतरिष्यामीति। तस्माद्विस्मायिताखिललोके स्वीकृत्येमे अपत्ये कृतकृत्योभविष्यसि। शिष्टमप्याभ्यां गीयमानं निशम्य मिथ एव रामायणं विरचितधर्मसंस्थापनः समागमिष्यसि च यथाप्रतिज्ञमेकादशसहस्रवत्सरान्ते वैकुण्ठमकुण्ठप्रभावः। सङ्गंस्यते च तदा त्वया क्षमातलकृताधिवासा क्षमातनूजेतिविज्ञाप्यानुज्ञाप्य च रामं स्वलोकाभिमुखे चतुर्मुखे, समापितावशिष्टमखक्रियःप्रियौ तनुजावादाय तोदावहो विद्विषां स्वपुरमवाप्य मुनिजनमात्रसभ्यःपरममभ्यर्हितं निजकथाशेषं निशम्य नीतिपूर्वमुर्वीं सर्वां परिपालयाञ्चक्रे॥४१९॥
मातॄणां पतिलोकमीप्सिततमं पुण्यैर्गतानां ततो
दातॄणां वर और्ध्वदैहिकविधीनन्यादृशान् कारयन्।
भ्रातॄणामपि चात्मनस्तनुभवैरन्वास्यमानो महीं
नेतॄणां प्रवरोऽशिषद्रघुवरो धर्मेण शर्मैधयन्॥४२०॥
अथ कदाचिद्युधाजिदनुप्रहितेन पुरोहितेन गार्ग्येण निवेदितगन्धर्वहिंसावृत्तान्तेन रामेण कुमारौ तक्षपुष्कलौयगन्धर्वराज्यार्थमभिषिच्य ताभ्यां
सह प्रेषितो विजयैकरतो भरतो निजसैन्यनिवेशीकृतमातुलपुरः पुरस्कृतमातुलः पुनरपि प्रस्थाय स्वस्थानीकृतसिन्धुनदीतीरान् बन्धुभिः सह युद्धायसन्नद्धान् बद्धायुधान् बुद्धावनाहितभयान् सिद्धान्तितस्वविजयान् त्रिकोटिसङ्ख्याकान् सङ्ख्यावनौ गन्धर्वानिन्धनानि शराग्नौ विरचय्य तेषां विषयेपृतनाभिः सह कृतवासः पञ्च समाः समाकलितरामदर्शनादरोऽथादरोदितत्वरोऽसौ तक्षं तक्षशिलायां पुष्कलं पुष्कलावते च पुरे परेणाभिषिच्यविभवेन भवेन समो विक्रमे क्रमेण रामेण सञ्जग्मे॥४२१॥
सौमित्रेःसुतयोस्ततोऽङ्गदमवापय्याङ्गदीयां पुरीं
चन्द्रश्रीवहचन्द्रकेतुकमपि श्रीचन्द्रकान्ताभिधाम्।
राजानावभिषिच्य कारुपथकश्रीमल्लभूदेशयो-
रादिश्यावनिरक्षणाय च रघूत्तंसोऽशिषद्गांचिरम्॥४२२॥
कतिपयदिने काले याते तपस्विवपुर्धरो
रघुवरमगात्कालस्तेनाप्यतीव पुरस्कृतः।
वचनभवद“द्वाच्यं किञ्चिद्रहोऽस्ति तृतीयको
यदि निशमयेत्पश्येद्वा नौ त्वयाऽथ स वध्यताम्॥४२३॥
अथ तथेति प्रतिपद्य सद्य एव लक्ष्मणमाहूयविनिवेद्य च मुनिमनीषितं “द्वाररक्षणधूर्वहेन त्वया न कश्चिदप्यन्तः प्रवेशयितव्यः। यदि कश्चिदावां पश्यति निशमयति वा मिथो जल्पन्तौ नूनमयं वध्यतामध्यारोहेदितिसमादिश्य चावश्याकर्णनीयं परमेष्ठिप्रेषितं वैकुण्ठागमनप्रार्थनासन्देशं समाकर्ण्य तथा करवाणीति वरवाणीमर्पयति रिपुदर्पभङ्गकरे रघुवरे॥४२४॥
दुर्वासा द्वारमागादवददपि वचो लक्ष्मणं पूजयन्तं
रामं मेऽद्यैव नेत्राध्वनि रचय न चेत्संप्रधक्ष्यामि सर्वम्।
श्रुत्वा सौमित्रिरेतद्भयभृतहृदयः स्वैकघातेन तुष्यन्
पार्श्वं रामस्य गत्वा विदितमतनुतास्यर्षिवृत्तं समस्तं॥४२५॥
श्रुत्वैतद्यापयित्वा यममथ मुनिमभ्यागमद्रामभद्रो
दत्त्वा भोज्यान्नमस्मै व्रतविरतिकृते पारणायैगतेऽस्मिन्।
खिन्नः सौमित्रिशिक्षाकरण उपगतो ब्रह्मपुत्रादिगोष्ठीं
विज्ञाप्याशेषवृत्तं तदनु च विललापेत्थमत्यन्तमार्तः॥४२६॥
आन्मा बहिश्चर इवास्ति हि लक्ष्मणो मे
घोरा मया विरचिता किल सा प्रतिज्ञा।
तप्तायसि प्रणिहितस्य कृमेरवस्थां
चेतो ममैति भृशपीडितमाः किमेतत्॥४२७॥
इत्यादि बहु विलपन्तं रघुवरं तमनन्तविज्ञानकृतप्रतिष्ठे वसिष्ठे “द्रढिष्ठोऽयं तव कनिष्ठवियोगनियोजितपाकश्शोकः परमर्षिभिर्दृष्टचर एव तद्विसर्जय लक्ष्मणमपुनर्दर्शनाय न पुनः प्रतिज्ञां। यदाम्नायते “वधो विसर्गश्चद्वयमपि तुल्यमेवेति” करिष्यसि च राज्यं विनैव सौमित्रिं मित्रवत्सलं”इति समाश्वासयति, रामोऽपि “वामो मे जातस्त्वयि स्नेहः” इति सबाष्पगद्गदं शोकशंकुपीड्यमानस्वान्तं स्वान्तादपि रामवियोगमेव शोककरंमन्वानं पक्ष्मभृताश्रुलक्षणं लक्ष्मणमभिधाय विहाय च तं सदश्चसुदुश्चरकृत्यो भृत्योपदर्शितमार्गः स्वमगारमगात्॥४२८॥
सौमित्रिः सरयूतटं प्रतिगतः पादं स्वमंशं हरे-
र्ध्यात्वा श्वासनिरोधतस्तनुमगाद्दिव्यां ततो वैष्णवीम्।
दृष्ट्वा तं पुरुहूत एत्य सुमना नीत्वा विमानं वरं
प्रापय्य त्रिदिवं च नित्यमकरोत्पूजां सुजातादरः॥४२९॥
रामोऽपि सौमित्रिवियोगखिन्नो
धामोत्तमं स्वं प्रति यातुमिच्छुः।
सामोक्तिभिः सभ्यसमक्षमूचे
कामोपपूर्त्यै भरतं भृतश्रीः॥४३०॥
भूमेर्भरं भर चिरं भरत प्रयातुं
धामेप्सितं मम मनस्त्वरते सदाऽपि।
को मे सुखस्य लवआ49हतलक्ष्मणस्य
सीमेयमेव मम चायुष ईहितस्य॥४३१॥
इति गुर्वादेशमिमं सर्वात्मनाऽननुमन्यमाने पर्वामृतांशुनेव शर्वरीचरमयामे रामेण सहैव गन्तुं नितान्तरते भरते व्युपरतेलागतवस्तुस्पृहो धूर्वहो रघुकुलस्य कुशलस्य कृते कोसलानां सकलराजन्यमदावलांकुशं कुशंकुशावत्यां क्रव्यादसमर्पितरिपुशरीरलवं लवं च कामनीयकाधिगतप्रशस्त्यांश्रावस्त्यां राजत्वेऽभिषिच्य पच्यमानमनाः शोकेन त्यक्ष्यमाणमहीस्थानोमहाप्रस्थानोपकल्पितसंनाहः शत्रुघ्नाय दूतान् प्रेषयामास॥४३२॥
अथैतदुपश्रुत्य कृत्यमात्ययिकं मनसि निश्चित्य नन्दिततरजननेत्रयोःपुत्रयोर्वैरिवधोद्यतबाहुं सुबाहुं चिन्तितवस्तुसमर्पणधृतधुरायां मधुरायां प्रवृद्धबलशत्रुघातिनं शत्रुघातिनं रमणीयमणिसदनप्रभाप्रकाशितदिशे वैदिशेच निवेश्यादिश्यच क्षितिरक्षणाय सत्वरमेव प्रस्थाय प्रविश्य च रिपुजनाबाध्यामयोध्यां तत्पूर्वनिध्यातवृत्तान्तैस्तान्तैस्तृणीकृतानिजान्तैः कपिराक्षसैरुपेत्यासेव्यमानं, अतिमानमहिमानं, विरहितलक्ष्मणाश्रयं, लक्ष्मणानुजोरामं सप्रश्रयप्रणामं समभिग्गय रम्यतरां निजामपि तदनुजिगमिषां विषादरहितं विनिवेदयामास॥४३३॥
अथ विदितराघवव्यवसाये दुःखविवर्णीभूतकाये पौरनिकाये विसृष्टाक्षितोये विहायेषणात्रयं कृतरामानुगमनस्पृहे, सहैवापत्यसदृशैः सकलैरपि दिवं जिगमिषुर्विना विभीषणादीन् पञ्च वञ्चितमिवात्मानं मन्यमानान्“मा नाम वो भूत्खेदो मामनुगच्छत” इति सर्वान्निर्वापयन् शोकाग्निमन्वग्रहीत्॥४३४॥
अथ रामः कृतानुगमनेषणं रिपुकुलभीषणं विभीषणमिक्ष्वाकुकुलधना50राधने नियुज्य प्रयुज्य च विविधानि सान्त्ववचानि स्वचरणभक्त्येकविनेयमाञ्जनेयमपि प्लवङ्गवर्यमाभूतसंप्लवं रामायणकथाश्रवणपरान्तःकरणं द्रुहिणवितीर्णमरणाभावं महानुभावं स्थिरतरनिजपदभक्तिप्रदानेनानुगृह्यावस्थाप्य च जाम्बवन्मैन्दद्विविदानपि यावत्काले भूमौ स्थातव्यमित्यादिश्य च प्रस्थातुं कृतक्षणः क्षणदान्तं प्रतीक्षमाणस्तस्थौ॥४३५॥
प्रभाते रामोऽसौ विरचितमहाप्रस्थितिविधिः
पुरस्कृत्याग्निं सद्विजगणमथ प्रास्थित गृहात्।
सपद्मा श्रीर्भूत्वा जनकतनया दक्षिणमगा-
त्प्रभोः पार्श्वं सव्यं धरणिरपि मूर्त्ता श्रितवती॥४३६॥
शत्रुघ्नो भरतोऽप्यथानुययतुः प्रेष्ठं रघूणां समं
शुद्धान्तेन, मुनिव्रजाश्च सचिवाः पौराश्च युक्तानुगाः।
ये द्रष्टुं समुपागता रघुवरं ये वाऽस्य देशे स्थिता-
स्ते सर्वे सचराचरा अनुययुर्हर्षान्न निर्बन्धतः॥४३७॥
तैः साकं रघुनन्दनेऽथ सरयूमभ्येत्य तस्या जलं
पद्भ्यां स्पृष्टवति प्रभौ कमलजः संप्राप्य कृत्वा नतीः।
स्वं स्वं रूपमुपायवद्भिरथ तं सम्मलितं भ्रातृभी-
रामं स्वीकृतविष्णुरूपममरैरानर्चसार्धं रसात्॥४३८॥
अथ हरितनो रामस्याज्ञावशेन पितामहो
भुवनमदिशत्सन्तानाख्यं प्रभोरनुयायिनां।
विविशुरमरांस्तत्तज्जाताःकपीन्द्रमुखास्तदा
प्लवंगनिकराः सर्वंहृष्टं प्रमत्ततरं वभौ॥४३९॥
एवं स्वाश्रितदत्तदिव्यनिलयः सम्मज्जनात्सारवे
तीर्थे गोप्रतरे रमामहियुतो रामात्मकः श्रीपतिः।
वृष्टानां सुमनोगणैः सुमनसां स्थानं मुनीन्द्रैः स्तुत-
स्तूर्यैः साध्वभिनन्दितश्च भुवनं वैकुण्ठमागान्मुदा॥४४०॥
^(१)उद्धर्तुं धरणीभरं पुनरपि प्राप्ते युगेद्वापरे
पुत्रत्वं वसुदेववृष्णिरमणस्यासाद्य कंसादिकान्।
हत्वा दुष्टतमान् विदर्भतनुजारूपामुदुह्य प्रियां
सीतां द्वारवतीपुरे वसुमतीं रामश्चिरादन्वशात्॥४४१॥
दशोत्तरे पञ्चसहस्रवर्षे कलौ युगे जग्मुषि कीलकाब्दे।
माघे किलासावभिलिख्य चम्पूः समापिता रामपदेऽर्पिता च॥
इति श्रीचोलमण्डलमण्डनायमानश्रीकुम्भघोणनगरवर परिसरविराजमानवलङ्गिमान्ग्रामाभिजनेन पण्डितप्रकाण्डमण्डलाभिष्टूयमानयशोडिण्डीर श्रीकृष्णदैवज्ञसूनुना लक्ष्म्यम्बागर्भदुग्धोदमुग्धामृतांशुना विष्णुपुराभिजनानांगौतमतन्त्रपारावारपारीणानां श्रीस्वामिशास्त्रिणां प्रियान्तेवासिना श्रीरामचन्द्रचरणारविन्देन्दिन्दिरायमाणमानसेन श्रीसुब्रह्मण्यकविवरेण प्रणीताउत्तरचम्पूः समाप्तिमगमत्॥
श्रीरामचन्द्राय परब्रह्मणे नमः॥
_________________________________________________________________
१. भगवतः वैकुण्ठप्राप्तिकथनेन ग्रन्थसमापनममङ्गलमिव शङ्कमानः कविरनन्तरावतारे तावेव सीतारामौ रुक्मिणीकृष्णत्वेनाभिवर्ण्य तयोरनुग्रहमात्मन आशास्ते उद्धर्तुमित्यादिना पद्येन।
लोके सञ्जातभीके दशमुखदमनात्प्रार्थितो देवसङ्घैः
कौसल्याकर्मसिद्धिर्दरथसुकृतोर्वीरुद्दाणां फलञ्च।
भूत्वा, भूमीतनूजामयकमलगृहासंयुतः स्थापयित्वा
धर्मं, हत्वा दशास्यं निजभुवनगतः पातु नः पद्मनाभः॥
इत्युत्तरचम्पूग्रन्थटीप्पणीसमाप्ता॥
॥श्रीरामः शरणं मम॥
[TABLE]
[TABLE]
[TABLE]
[TABLE]
[TABLE]
[TABLE]
]
-
“विश्वस्येति ल्यबन्तम्।” ↩︎
-
“वाग्देव्या वल्लीत्वरूपणं मल्लीकुसुमसमानवागाज्ञानयोग्यताभिप्रायगर्भम्॥” ↩︎
-
“प्रभुणा-समर्थेन, महाकविनेत्यर्थः॥” ↩︎
-
“कारणा तीव्रवेदनेत्यमरः॥” ↩︎
-
“कौशिकः—इन्द्रः॥” ↩︎
-
“जगच्चक्षुः सूर्यः॥” ↩︎
-
“भद्रस्य—वृषभस्यऊक्षाभद्रोबलीवर्दः इतिकोशः।” ↩︎
-
“वय इत्र वय इति श्लिष्टोपमा।” ↩︎
-
“तेन सुकेशेनापि।” ↩︎
-
“मन्दाकिनी वियद्गङ्गेत्यमरः॥” ↩︎
-
“सम्भावितमन्यवः प्राप्तदैन्या इत्यर्थः॥” ↩︎
-
“आदर्शो यथा झडिति सन्निहितमन्तर्निक्षिपति तथा दृष्टमात्रस्य दुःखं जानातीत्यर्थः॥” ↩︎
-
“अभिषेणनं सैन्यैस्सह शत्रून् प्रति यानम्॥” ↩︎
-
“निगमतनौ सूर्ये” ↩︎
-
“धनञ्जयः अग्निः तस्य जयं न्यूनीभवनं (जि अभिभवे इति धातुः अभिभवो न्यूनीभवनामिति दीक्षितवर्याः ↩︎
-
“वार्ता वृत्तान्तः॥” ↩︎
-
“पार्श्वमोलिं पार्श्वच्युतकिरीटम् पराजितमिति यावत्॥” ↩︎
-
“विभास्यः निश्र्शोभवदनः” ↩︎
-
“पितृवने बीभित्सया दूरात्इता अपगतेतियावत्॥” ↩︎
-
“पुष्करं पद्मं आकाश्च॥” ↩︎
-
“सकलाब्जः सम्पूर्णकलश्चन्द्रः।” ↩︎
-
“महान्तः आरम्भाः दमशमादयो रोगव्यापाराः।” ↩︎
-
“”जगामे” त्वेतत् " ↩︎
-
“अमृतभृतैरिति विशेषणं विषापनयनसामर्थ्याभिप्रायगर्भे।” ↩︎
-
“ऐलबिलनाथः यक्षराजः (कुबेरः ↩︎
-
“शकुलः - मत्स्यविशेषः॥” ↩︎
-
“रजसी-धूलिः- रजोगुणश्च।” ↩︎
-
“हंसाःज्ञानिनः - पक्षिविशेषाश्च॥” ↩︎
-
“कलशरेखा घटपङ्क्तिः तदात्मिका रेखाश्च।” ↩︎
-
“एकत्र आयुधात्मन अन्यत्र रेखामना। " ↩︎
-
“अरुणः- सूर्यसारथिः अरुणा- रक्ताकान्तिश्च।” ↩︎
-
" विगतं महत आकाशस्य रूपमिव रूपं यस्मात्। अन्यत्र महतः काशस्यशरत्कालिककुसुमविशेषस्य रूपं।” ↩︎
-
“अन्तः सत्वानि प्राणिनः सत्वं गर्भश्च॥” ↩︎
-
“प्रतियत्नोगुणाधानं घासार्पणादि।” ↩︎
-
“प्राप्तविद्यम्” ↩︎
-
“दैतेयगुरुः शुक्रः। दैतेयराजः वृषपर्वा तयोरित्यर्थः” ↩︎
-
“हिण्ड्यमानः प्राप्यमाणः उदयः उदयशैलोयेन।” ↩︎
-
" राजीविनीनाथसुतां रचितनयां यमुनामित्यर्थः” ↩︎
-
" सूर्ये।” ↩︎
-
“अपूर्वदेवंअसुरभिन्नमिति विरोधः। नवसुरमिति परिहारः।” ↩︎
-
" कृतः उज्वलन प्रकाशमानःअयः(लवणवधजातदृष्टिदोषादिहरः ↩︎
-
“एतेनेति खड्गहतस्य पूर्वशरीरस्य निर्देशः।” ↩︎
-
“राज्ञः सर्वलोकपालांशवादैन्द्रांशेन प्रतिग्रहोऽप्युचित इत्याद्यात्मिकय॥” ↩︎
-
“पूर्वमगस्त्यवाक्ये “पक्षिमृगादिहीने” इति वनविशेषणं मनसि निघायरामः सन्दिग्धे॥” ↩︎
-
“अरजेति शुक्रपुत्र्या नाम” ↩︎
-
“दुर्वसाब्रह्महत्याजाता काऽपि कृत्या” ↩︎
-
“गुणानां प्रसादादानां। " ↩︎
-
“आकरं खनिजन्मस्थानमित्यर्थः।” ↩︎
-
“आः इति खेदे।” ↩︎
-
" इक्ष्वाकुकुलधनं रङ्गविमानमिति पौराणिकाः " ↩︎