श्रीरामचरितम्

[[श्रीरामचरितम् Source: EB]]

[

॥ श्रीः ॥

S R I R A M A C H A R I T A M

I N S A N S K R I T P R O S E

for the use of High Schools and Colleges.

PPROVED BY THE GOVERNMENT OF MADRAS.

BY

R. SIVA RAMA SASTRI,

Sanskrit Pandit, Town High School,

Kumbakonam.

<MISSING_FIG href="../../../../../books_images/U-IMG-1703160323Screenshot2023-07-21172948.png"/>

PRINTERS:

THE ORIENTAL PUBLISHING COMPANY, LIMITED.

Registered Copy-right.

॥ श्रीः॥

Sri Ramacharitam

in Sanskrit Prose

for the use of High Schools and Colleges.

BY

R. SIVA RAMA SASTRI,

Sanskrit Pandit, Town High School,
Kumbakonum.

<MISSING_FIG href="../../../../../books_images/U-IMG-1703160501Screenshot2023-08-08170946.png"/>

PRINTERS:

The Oriental Publishing Company, Limited.

Mylapore, Madras.

1906.

Registered Copy-right.

ROJA MUTHIAH
KOTTAIYUR. P.O
RAMNAD DISTRICT
MADRAS STATE (S. INDIA)

Preface.

I beg to bring to the notice of the reading public this humble attempt on my part to meet a long-felt want in the High schools of this Presidency. The absence of a graduated series of Readers in Sanskrit that would prepare the student for such standard works in prose as Vâsavadatta, Daśakumâracharita and Kâdambari is too conspicuous to need any comment of mine, nor has the necessity of bringing home to the minds of the rising generation of India, the basic truths of Hindu religion, morality and ethics that lie imbedded in the Itihasas, the Puranas and the Smritis, attracted the serious attention of either the Educational authorities, or the Pandits of this Presidency. The Râmâyana champu, the Bhârata champu and the Bhagavata champu are in no way more calculated to meet this end than the classical works mentioned above

I have selected the Râmâyana, to begin with, from the great familiarity the story and its universal popularity, from its divine, origin, from the extreme sanctity attaching to the bare readingof the ślokas themselves and from the incalculable benefits here and hereafter that are said to accrue to a person therefrom.

I have spared no pains to graduate the various parts of the work, in point of diction, grammatical difficulty and style with a view to its suitability for the High School and the College.

I feel no hesitation in saying that I crave not in vain the indulgence of a broad-minded reading public in placing before it the first fruits of my labours in the field of sanskrit literature.

R. SIVA RAMA SASTRI.

॥ श्रीः ॥

<MISSING_FIG href="../../../../../books_images/U-IMG-1703160829Screenshot2023-12-21174304.png"/>॥ श्रीरामचरितम् ॥<MISSING_FIG href="../../../../../books_images/U-IMG-1703160872Screenshot2023-12-21174419.png"/>

प्रथमस्स्तबकः।

कोमलमुदिरशरीरं स्वाररवक्षो निषण्णमारामम् ।
आत्मारामं रामं पारावारेशयं वन्दे ॥

अस्तिकिल कोसलेषु निजगुणश्रेणीकूणितपुरन्दरपुरविभूतिः, सीमा जलजासनकौशलस्य,निरन्तरा श्रोत्रियैः स्वधर्मनिरतैः भूसुरैः सूतैःमागधैश्च, नित्यसिक्तराजमार्गविराजिता, योजनत्रयविस्तारा, द्वादशयोजनायता, सर्वशिल्पिसमावृताश्रीमती अयोध्येति अम्बरम णिवंभ्यानां महीभुजांराजधानी ।

तां च पर्यपालयत् दिनकरवंशमुक्तारत्नं, मित्रं बिडौजसः, पात्रं जननुतीनां, गात्रं धर्मनिवहस्य, तोत्रमधर्माश्वस्य, आकरो गुणानां, विहारभूमिर्विद्यानां, निवासस्थलं कलानां सकलानां, सुरतरुरर्थिनां, परागतिश्श्रद्धायाः, सागरः करुणायाः, आवासः शान्तेः, निवासस्सौहार्दसौजन्यविनयानां, नाम्नादशरथो राजर्षिः।

यं च वरयामास गोप्तारं पुनः पुनः महेन्द्रो देवसेनानाम्। येन च वसुन्धरा राजन्वती । यस्मै च स्पृहयन्ति सर्वाः प्रकृतयः। यस्माच्च बिभ्यति सर्वे सामन्ताः महीक्षितः। यस्य च शुचय एकबुद्धयः रक्षितारश्च विषयवासिनां शुचीनां धृष्टिजयन्तविजयसिद्धार्थार्थसाधकाशोकमन्त्रपालसुमन्त्राभिधानाः अष्टौ बभूवुर्मन्त्रिणः। यस्मिंश्च शासति पृथिवीमण्डलमखिलं मिथ्यारसानभिज्ञाः रसनास्सर्वासां प्रजानाम् । यश्च श्रोत्रियतयाऽऽत्मनः यायजूकतया च ऋणद्वयविनिर्मुक्तः श्रीमानपि विद्याभिः विद्वानिव परिवृतोऽपि पत्नीभिः पित्र्यमृणमपाकर्तुं अपारयन् मुमुक्षुरिव निरविद्यत सर्वेष्वप्यर्थजातेषु।

अथ स राजा समानाय्य मन्त्रिणः पुरोधसं. सुयज्ञादींचाब्रवीत्।

भोः ऋत्विजः चिराय अनपत्योऽहं भविष्यामि क्रोधस्य पात्रं पितॄणाम्।

न प्रीणयति चेदं राज्यं सम्पन्नमपि चतुरङ्गबलेन मदीयमन्तरङ्गं; किं सुखमुत्पादयिष्यन्ति वित्तानि गोधनानि आदेशकरा भृत्याः अप्रतिहता वा आज्ञास्सामन्तेषु ।

न लभे च निर्वृतिं सुशीलाभिः अनुरक्ताभिः सुरूपाभिः कुलीनाभिः अन्तःपुरवधूटीभिः; तद्यष्टुमिच्छामि अश्वमेधेनेति ।

ततश्च तद्वाक्यं साध्विति पूजयन्तो ब्राह्मणाः “लप्स्यसे पुत्रान् अभिमतान्” इत्याशिषा राजानंअन्वगृह्णन्; अथ सुमन्त्रः भूपं रहस्यवादीत् “भगवान् सनत्कुमारः सन्निधावृषीणां पुरैव त्वत्पुत्रागमम्प्रति भविष्यद्विषयामिमां कथां कथयामास। तां कथयतो मे श्रोतुमर्हसि पुरा किल आह स्म सनत्कुमारः। अङ्गेषु रोमपाद इति प्रथितो राजा भविष्यति। स च स्वविषयप्रवृत्तां घोरामनावृष्टिं परिजिहीर्षुः संमन्त्रय विप्रैर्मन्त्रिभिश्च वन एव नित्यसंवृद्धं पितृशिश्रूषामात्रवेदिनं विभण्डकसुतमृश्यशृङ्गं वारविलासिनीभिः आनाय्य, तक्षणाभिवृष्टे देवे पर्जन्ये समुपजातकौतूहलः शान्तान्नामकन्यां तस्मै प्रदाय स्वगृहे निवासयिष्यति । तस्य जामातुः ऋश्यशृङ्गस्य प्रसादात् ऐक्ष्वाको राजा दशरथः चतुरः पुत्रान् प्राप्स्यतीति”।

राजा च निर्मितमिव सुधया तद्वचनमाकर्ण्य, सम्प्रहृष्टः वयस्यस्य रोमपादस्य गृहात् सजानिं जामातरं विभण्डकसुतं स्वपुरमानीय, सुसत्कृतं तंअन्तःपुरं प्रवेश्य अमन्यत कृतकृत्यमात्मानम्।

ततश्च गते गणरात्रे समाहूतागतेष्वखिलेषु विप्रेषु राजसु च, प्राप्ते च वसन्ते, सम्भृतेषु सम्भारेषु, उत्तरेतीरे सरय्वाः यष्टुमश्वमेधेन दीक्षां जग्राह पुरोहितानुमतो दशरथः।

अथ च दीयमानेषु वस्त्राभरणेषु, भोज्यमानेषु विप्रेषु, सत्कृतेषु च सर्वेषु जनेषु, यथाविधि राजा यज्ञं समाप्य, दत्वा च समग्रां दक्षिणामृत्विग्भ्यः, सजानिः कृतावभृथः पुत्रीयामिष्टिं आरभत विभण्डकनन्दनानुमतः। तत्र च इष्टौ भागप्रतिग्रहार्थं समवेतैः स्वयम्भुवरदानप्रमत्तरावणनिर्भत्सितैः दिवस्पतिप्रमुखैः पुरस्कृतकमलासनैः अखिलैः निलिंपैः अनुनाथितश्शार्ङ्गधरः, वधाय नक्तञ्चरपतेः अवतितीर्षुः, भुवि मानुषेषु रोचयामास पितरं दशरथं अपुत्रं यजमानं च पुत्रीयेष्ट्या।

अथ अवतरिष्यतः लोकानुग्रहार्थं भगवतःश्रीनिवासस्य साहाय्याय, आदेशेन पितामहस्य बलिनः कामरूपिणः ऋक्षवानरगोपुच्छरूपान् आत्मभवान् अजनयन् ऋतुभुजः।

ततश्च इष्टौ दशरथस्य हूयमाने चाग्नौ विभण्डकापत्येन, प्रदक्षिणज्वालात्तस्माज्जातवेदसः निर्गतेन प्राजापत्येन नरेण वितीर्ण दिव्यं पायसं प्रतिगृह्यप्राशयत् तत्पायसं पत्नीः प्रहृष्टान्तःकरणो महीपतिः।

अथ स नरनाथः यथाऽर्हे पूजितेषु पृथिवीपालेषु अन्येषु च यज्ञागतेषु प्रतिप्रयातेषु, सभार्यः सभृत्यबलवाहनः द्विजर्षभान् पुरस्कृत्य, प्रविश्य स्वां पुरीं तुराषाडिवामरावतीं विचिन्तयन् पुत्रोत्पत्तिं सुखमासामास; ततस्तासां राजमहिषीणां अवर्धत गर्भः अनुदिनं राज्ञः हर्षेण सह; अनन्तरं प्राप्ते च वसन्ते चैत्रेमासि शुक्लनवम्यां कर्कटेलग्ने रविभौमगुरुशुक्रशनैश्चरेषु स्वोच्चस्थानस्थेषु चन्द्रे स्वर्क्षस्थे तदात्मजे च मेषस्थे मिथुनगते केतौ धनुर्गतेराहौ पुनर्वसूयुक्ते शुभे दिवसे, जगन्मङ्गलविग्रह विष्णोरधशं पुरुषोत्तमं जगत्पतिं पुत्रं प्रासूत कौसल्या।

अनन्तरं मीनलग्ने पुष्यर्क्षे दशम्यान्तिथौ, प्रसन्नधियं विष्णोरष्टमांशं अजीजनत्तनूभवं कैकेयी।

सुमित्रा तु अन्येद्युः कर्कटे लग्ने आश्लेषर्क्षे जनयामास यमलौ तनूभवौ। एवं चतुर्षु जातेषु पुत्रेषु, नदत्सु देवदुन्दिभिषु, नृत्यत्सु अप्सरोगणेषु, च्युतायां च खात् वृष्टौ पुष्पाणां, प्रवृत्ते चोत्सवे अयोध्यायां वादित्रवादनपरेषु गायनेषु, परं प्रहृष्टो दशरथः वित्तं गोधनानि च प्रददौ श्रोत्रियेभ्यः।

अथ च त्रयोदशे दिवसे, भगवान् मैत्रावरुणिः, संचस्कार तान् कुमारान् रामलक्ष्मणभरतशत्रुघ्नाख्यया, राजा तु तस्मिन्नामकरणोत्सवे शिशूनां, अमितानि रत्नानि प्रदाय पौरजानपदेभ्यः विप्रेभ्यः, भोजयामास च तान् सर्वान् ।

ततः तेषां लोकसम्मतानां निखिलकल्याणगुणालयानां सौजन्यभूमीनां वर्धमानानां शुक्लशशिवद्दिनेदिने, यथाकालं विहितसंस्कारसंस्कृतानां चतुर्णामप्यात्मभवानां मध्ये ज्येष्ठः केतुरिव रामःविशेषतः पितू रतिकरो बभूव।

अथ यथावदुपनीतास्ते वेदेषु तदङ्गेषु गजस्कन्धेऽश्वपृष्ठे रथचर्यासु धनुर्वेदे च पारगा अभवन् ।

तेषु च इष्वस्त्रपरिनिष्ठितं पितृशिश्रूषातत्परं सर्वलोकस्येष्टतमं रामं, आबाल्यादनुससार सौमित्रिः। रामोऽपि तेन विना निद्रां शयनं अशनं यानं विहारगोष्ठीं उपवनविहृतिं वा नाभिननन्द। किञ्च राघवः यदा यदा हयमारुह्य मृगयार्थ याति, तदा तदा लक्ष्मणोऽपि पृष्टतः परिपालयन् तमनुययौ। अवरजोऽपि लक्ष्मणस्य यथारामस्य अग्रजः तथैव भरतस्यापि प्राणेभ्योऽपि प्रियतरो बभूव । इत्थमनुरक्तैः प्रियैः प्राज्ञैः गुणालङ्कृतैः दीर्घदर्शिभिः कीर्तिमद्भिः, तैश्चतुर्भिः नन्दनैः, दशरथः देवैः पितामहइव परां प्रीतिमानशे।

अथ स्वतनुजानामेषां प्रत्यासन्ने समावर्तनोचिते काले दारक्रियार्थममीषां तुल्यशीलाभिजनलक्षणां कन्यकां अन्विष्यतिसति पङ्किरथे, महर्षिर्विश्वामित्रः दिदृक्षू राजानमभ्याजगाम। सज्जनमनोरथसहृक्षास्सद्य एव फलन्ति हि अनृतुप्रतीक्षम् ।

आगतेन तेन महर्षिणा निजागमनं राज्ञे निवेदयितुमादिष्टाः दौवारिकाः सरभसगतयः संप्राप्तं कुशिकनन्दनं शशंसुर्भूपाय। स च तुष्टो राजा समाहितस्सपुरोधाः “शचीपतिर्ब्रह्माणमिव” गाधिनन्दनं प्रत्युद्गम्य, अर्घ्यमुपाहारयत् पुरोधसा वसिष्ठेन। स तु कौशिकः प्रतिगृह्यार्हणां, राजानमवादीत् “अपि कुशलं बान्धवेषु, सुहृत्सु, जानपदेषु, पौरेषु; अपि सम्यगनुष्ठितं दैवं मानुषञ्च ते कर्म अपि सन्नताश्शत्रवः ये पराजिताः अपि लब्धकामाः कृतार्थाः अर्थिनः प्रतिनिवर्तन्त” इति । ततश्च मुनिः पृष्ट्वा कुशलमन्यांश्च मुनीन् यथार्हमुपविष्टैस्तैस्सहासनं जग्राह। अथ राजा पङ्किरथः अवादीत्, हे ब्रह्मन् अद्य मे जीवितं सफलं, धन्यश्चात्मा, निर्वृतं च मे मनः चिरायाप्रजसः पुत्रलाभइव, भवदभ्यागमोऽयं मां प्रहर्षस्य परां कोटिं आरोपयति, पूज्या हि भवन्तो मम, कं च करोमि काममकामस्य तवेति विचारयन्नपि न शक्नोम्यवधारयितुं; ब्रवीतु भगवानागमनकृत्यमशेषेण, कर्ताचाहमसंशयं तस्य, दैवतं हि मे भवान् इति। इत्थमुक्तं श्रुतिसुखकरं हृदयतोषणं वचनपीय्यूषं निपीय अतीव तुष्टेन महर्षिणा गाधिनन्दनेन, ऊचे दशरथः, सदृशमेवैतत् महावंशप्रसूतस्य तस्य भवतः।

यश्च तिष्ठते भवान् अर्थसंशयेषु विनेतरि पत्यौ अरुन्धत्याः, ब्रवीमि हृद्गतं, भव त्वं सत्यप्रतिश्रवः,वीर्योत्सिक्तौ महाबलौ सुबाहुमरीचनामानौ रक्षःपाशौ सानुगौ गृहीतदीक्षे मयि परितो वेदिं समांसरुधिरौघेण वर्षंवर्षं बहुधा दूषयतो मदीयन्नियमं, न चेच्छामि शप्सुन्तदानीन्तौ, यतः क्रोधानर्हस्स कालः।

अतः काकपक्षधरमपि राक्षसक्षपणसमर्थं रामं गोप्तारं वृणे, बालेनाप्यनेन स्वकीयदिव्यतेजोगुप्तेन घानिष्यते विपक्षगणः, न हि भिदा विष्फुलिङ्गमहाग्न्योर्दाहविधौ, न वयस्समीक्षितव्यं तेजस्विनां, किञ्च राघवाणां लिखितपठितो हि, विजयश्शात्रवाणां उत्सर्गविजय इवापवादस्य; प्रदास्यामि चास्मै श्रेयः बहुरूपमसंशयं, येन त्रैलोक्ये अपि ख्यातिं गमिष्यति, न शक्नोति च रामादन्यः तौ निहन्तुं निशिचरौ, न जानाति भवानपत्यस्नेहपाशबद्धः रामस्यातिमानुषं महिमानं, अहन्तु योगबलापोहितदेशकालविप्रकर्षः यथावद्वेद्मि रामस्यतत्वं, वसिष्ठः परे च मुनयः प्रमाणमत्र भविष्यन्ति,न नियुञ्जेरन् मद्विधाः असमर्थमीदृशे कर्मणि, तद्यद्यनुजानीयुर्मन्त्रिणः यदीच्छसि धर्मयशसोः स्थितिं तर्हि आत्मजं रामं दातुमर्हसि, न मे विलम्बस्य कालः इति।

तच्च श्रवणविदारणं अप्रत्याख्येयं मुनेर्वचो निशम्य सुतवियोगकातरः भूपः मुहूर्तं निस्संज्ञः ततः कृछ्रेण प्रतिलभ्य संज्ञां व्याजहार मुनिवरं तम् ।

“द्वादशवर्षोऽयं बालः अपरिनिष्टितश्च धनुर्वेदे, प्रजागरभीतश्च मे रामः, कथं कूटयोधिभिः अबालैः मे युद्धविशारदैः निशिचरैः योद्धुं शक्नोति, अपि च न शक्यते रामं विरहय्य क्षणमात्रमपि स्थातुं, अथ वा किमकृतास्त्रेण रामेण, अहमेव शूरैः विक्रान्तैः अस्त्रविद्भिः अक्षौहिणीपतिभिः परिवृतः अधिज्य धन्वा निहत्य रक्षांसि निरन्तरायां व्रतचर्या करिप्यामि, कथञ्च वर्तितव्यं मया रणमुखे, किं प्रमाणाः किं वीर्याश्च ते राक्षसा इति”।

इत्थं सान्त्वितोऽपि यदा राममेव देहीति अयाचत। तदा प्रेषयामास रामं प्रतिज्ञाप्रहाणकातरो दशरथः, अनुनीतश्च पुरोहितेन वसिष्ठेन; ‘किन्नुदुष्करं साधूनां, किं वा अकार्ये कदर्याणां, किन्नुदुस्त्यजं यतात्मनाम्’।

ततः पित्रा कृतस्वस्त्ययने रामे, भाविनि वनचासे, वैदग्ध्यमभ्यसितुकाम इव विश्वामित्रमनुगते सलक्ष्मणे, नेदुर्देवदुन्दुभयः, ववौ च वायुः सुखस्पर्शः, ववृपुश्च पुष्पाणि देवाः, प्रशशंसुश्च पौराः “अहो राजर्षेरस्य सत्यभङ्गभीरुता, अहो बालस्यापि रामभद्रस्य गुरुवचनानुवर्त्तिता, अनुशिष्टास्मो वयं सर्वधाऽपि पालयितव्यः प्रतिज्ञातार्थः, अनतिलङ्घनीयं गुरोर्वच इति राज्ञा राजपुत्रेण च” इति। साधुवाचश्च प्रादुरभूवन् सर्वासां प्रजानाम्। एवं सर्वैरभिनन्दितप्रस्थानो मुनिः सहराघवाभ्यां सार्धयोजनमध्वानं गत्वा, दक्षिणेतटे सरय्वाः आचचक्षे कौसल्यानन्दनं, राम गृहाणेमे विद्ये पितामहसुते क्षुत्पिपासाहारिण्यौ, यशोवृद्धिकारिण्यौ, समार्जिते मया तपसेति ।

अनन्तरं आचान्ताय रामाय उपदिदेश च बलातिबले ते विद्ये, गृहीतविद्यश्च राघवः तत्र तां विभावरीं नीत्वा परेद्युः प्रातः कृताह्निकं तम्मुनिं पुरस्कृत्य अभ्याजगाम तं देशं, यत्र सङ्गमस्सरयूभागीरथ्योः, अपृच्छच्च मुनिं निर्दिश्याश्रमंकञ्चित् श्रमनाशनं, कस्यायमिति। प्रत्यभाषत चेत्थं कुशिकनन्दनः, “पुरा किल मूर्तिमान् कामः तपस्यन्तमिह नीललोहितं प्रलोभ्य, अवदग्धस्तस्य रौद्रेण चक्षुषा अनङ्गो बभूव, ततोऽयं देशः अङ्ग इति प्रथितोभूत्” इति, ततश्च पवित्रे तत्र क्षेत्रे मुनि निदेशेन तामतिवाहयन्निशां कृतातिथ्यच तत्रत्यैर्महर्षिभिः दाशरथिः, प्रातः मुनिभिरुपस्थापितया नावा त्रिपथगांसन्तीर्य, अवगाह्य च दारुणं किञ्चिद्वनं, अप्राक्षीत् तद्वनोदन्तं कौशिकम्। स च कथयामास “पुरा किल वृत्रवधेन ब्रह्महत्यासमाविष्टश्शतक्रतुः स्वां गजं मलं कारुशं चात्र विसृज्य मलदकारुशाभिधौ चकारतौ देशौ, ततश्च सुकेतुनाम्नो यक्षस्य दुहिता ब्रह्मदत्तनागसहस्रप्राणा सुन्दप्रिया, सुन्दादनन्तरं निशाचरीभूता शापात्कुम्भजन्मनः, तनयेन मारीचेन सह, विनाशयामास मलदकारूशावेनौ, अतस्ताटकावनमिदमिदानीम्। सा च इतः अध्यर्धयोजने प्रतिवसति गन्तव्यश्चाध्वास्माकं स एव, हन्तव्या च, सा तत्र भवता, कर्तव्यश्च निरुपद्रवोऽयं देशः, न च कार्या विचिकित्सा दुष्टस्त्रीदमने, साधुरपि मोदेत वृश्चिकसर्पहत्येति अभियुक्तवचनमपि प्रमाणमत्र। किं च अनुष्टितचरमेवेदं दुष्टस्त्रीदमनं विष्ण्वादिभिरपीति”।

अथ राघवस्तु गुरुनियोगप्रवणः आकर्णयन्नेवमुनिवचनं विष्फारयामास कार्मुकम् ।

ततः तदश्रुतचरनिनादनिशमनकुपितागतां, विकृताननां, सन्ध्यामिव सरागां, अपरामिव मूर्तिमन्त कस्य, विहतमुनिजनव्रतनिकरां, मूर्तामिव पापसंहतिं, वर्षतीं च शिलाः, ताटकां, राघवः छित्वा भुजयोः, सौमित्रिहृतकर्णनासिकां तां, प्रागेवोपगमात्सन्ध्यायाः जवान आदेशाक्तौशिकस्य, ततस्ताटकावधप्रीतैस्सुरगणैस्संस्तुतो रामभद्रः सावरजः, सकौशिकः, तत्र तां रजनीमतिवाह्य, कल्यएवोत्थाय, मुनिनोपदिष्टानि, सोपसंहाराण्यस्त्राणि प्रतिगृह्य, मूर्तानि तानि पाणिना समालभ्य, मानसा मे भवन्तु भवन्त इत्यनुज्ञाप्य च, गच्छन्नेव पप्रच्छ तं मुनिराजं “कस्यायमाश्रमः, प्रशान्तमृगपक्षिगणाकीर्णः, निरन्तरतरुषण्डमण्डितः, अपूर्व” इति। ततः प्रत्यभाषत कुशिकदायादः, “पुराऽत्र श्रीभगवान् श्रीनिकेतनः वामनो भूत्वा तपस्यन्, जिगाय बलिं,अतस्सिद्धाश्रम इति प्रथितोऽयं, अत्रैव प्रवर्तनीया मदीया याज्ञिकीक्रिया, हन्तव्याश्च त्वया तदन्तरायकारिणो यातुधानाः, इति। प्रविवेश च तं सिद्धाश्रमं सह राघवाभ्यां, जग्राह च सवनाय दीक्षां, यत्तौ च बभूवतू राघवौ, अधिज्यधन्वानौ रक्षितारौ च तस्याः क्रियायाः, एवं व्यतीतेषु पञ्चसु दिवसेषु षष्ठेहनि हुतप्रज्वलिते यागानौ प्रवर्तमाने सवनकर्मणि, साट्टहासमभिधावतः वर्षतश्च वेदिं परितः रुधिरं, मारीचादींन् रात्रिञ्चरान् सन्दर्शयन् लक्ष्मणाय रामः, निरास्थदुधौ मानवेन मारीचं, जघान च सुबाहुमाग्नेयेन, अन्यांश्च वायव्येन; युक्तमेवैतत् निग्रहायासतां, अनुग्रहाय च सतामवतीर्णस्य शार्ङ्गधरस्य, समालिलिङ्ग च जयलक्ष्मीस्तं राघवं, अपूजयंश्च महर्षयस्सकौशिकाः, अत्यवाहयच्च तां रात्रि काकुस्थस्सुखेन तस्मिन् सिद्धाश्रमे, अथ प्रयातायां रजन्यां हतशेषेषु रात्रिचरेप्विव, प्रकाशमाने च सवितृमण्डले मुनिमण्डल इव, मैथिलस्य यज्ञं जिगमिषवः सकौशिकास्तपोधनाः राममित्थमाचचक्षिरे, “वत्स रामचन्द्र गमिष्यामो वयं राज्ञो विदेहानां यज्ञं द्रष्टुं, द्रष्टव्यं च भवता लोकैकवीरेण तत्र तद्धनूरत्नं, यस्य च धनुषः तोलनादानारोपणेषु न शेकुस्सर्वे देवा महीक्षितश्च, तदागच्छतु भवानपीति”।

ततः प्रस्थितास्सराघवास्ते महर्षयः शोणाकूलमागत्य अस्तङ्गते भगवति मरीचिमालिनि, सरागे च नभस्थले मनसीव विषयिणां, तत्रावासमकुर्वन्त, तत्र च कौशिकः, मध्ये मुनीनां अनुयुक्तो रामेणसविनयं, मद्वंश्यानामयं देश इति विवक्षुः स्वान्वयमित्थं कथयामास, “पुरा किल कमलासनस्य मानसपुत्रस्य भूमिष्ठत्वात् कुशाभिधानस्य राजर्षेः कुशाम्बकुशनाभाधूर्तरजोवसुनामधेयाश्चत्वारः पुत्रा बभूवुः।

ते चास्थिताः क्रमेण कौशाम्बीं, महोदयं, धर्मारण्यं, गिरिव्रजं, च पर्यपालयन् प्रजाः प्रजाखा इव, तस्य वसो राज्ञः विषयोऽयं गिरिव्रजाख्यः, पञ्चैते च गिरयः प्रकाशन्ते, कुशनाभस्य तु समजनि कन्याशतं, ताश्च विहरन्तीः उद्याने मनोहराङ्गीः, शतं कन्याः चकमे भगवान् पवमानः, प्रत्याख्यातश्च पित्रा परवतीभिः, ताभिः देवस्सर्वगः कोपपरवशः तासामङ्गेषु कौटिल्यमतानीत्।

अथ वातेन भग्नापघनास्ता निजसुता विज्ञाय,कुशनाभः शक्तोऽपि प्रतिकर्तुं तस्य, अक्षाम्यत्तदागः पवमानस्य, साधूनां नैसर्गिको हि स गुणः यदपकारिणामागसश्चित्तेऽप्यकरणम्।

तदनन्तरं स कुशनाभः अग्राहयच्च पाणीन् तासां कन्यानां चूलीतनुजेन सौमदेयेन ब्रह्मदत्तेन, पाणिगृहीत्यश्च ताः ब्रह्मदत्तस्य, तदात्व एव नीरुजरवस्था अभवन्।

ततश्चास्मत्पितामहः सः कुशनाभः अजनयद्स्मत्तातं, भगिनी च मम ऋचीकदारास्सत्यवती सशरीरा स्वर्गे गता, पुनश्च लोकहिताय प्रवृत्ता महानदी कौशिकीति, अहं च भगिनीस्नेहात् कौशिकीतीरे तपश्चरन् हिमवतः पार्श्वे अवसं, नियमार्थ सिद्धाश्रमं प्राप्तः, सिद्धश्चेदानीं त्वदीयेन तेजसेति ।

ततः काकुस्थः निशम्य कौशिकोत्पत्तिकथां तां, विस्मितस्सन्, अभिवाद्य तम्मुनिं, सुखप्रसुप्तः, सुप्रातः कृतपौर्वाह्निकक्रियः, सन्तीर्य शोणां तपस्विभिस्सह, सुदूरमध्वानं अतीत्य, सवितरि नभोमध्यमारूढे सति त्रिपथगान्नदीं अद्राक्षीत्, तत्र च कृतमध्यन्दिनक्रियः स रामचन्द्रः निषसाद मध्येसभं मुनीनां पुरतो विश्वामित्रस्य, अपृच्छच्चैनं किं प्रभावेऽयं नदी, कीदृशीति, प्रत्यव्रवीच तदा मुनिवरः, पुरा किल धरणीधरेन्द्रस्य हिमवतः पत्न्यां, मनोरमायां मनोरमायां, जज्ञातेऽप्रतिमे उभेकन्ये, तयोश्च यवीयसी उमा, या त्र्यम्बकस्य धर्मदाराः, यस्याश्च तनुजः कार्तिकेयस्सेनानीः देवानां, ज्यायसी तु देवैरभ्यर्थितेन पित्रा हिमवतानुमता मन्दाकिनी बभूव।

या पुनाना सर्वलोकान् अद्यापि विजयते। यां च भुवं नेतुं भगीरथः दुष्करेण तपसा ब्रह्माणमाराधयन्, प्रसन्नेन विधिना समनुज्ञाते च मेदिनीगमने मन्दाकिन्याः, तस्याश्च पतनं न सहिप्यते पृथिवीति तां धर्तु, महादेवं तपसा तोषयामास। यया च भगीरथतपःप्रसन्नेन रुद्रेण, मस्तकेन धृतया, अवलेपादलब्धनिर्गमया च जटाजूटादीश्वरस्य, पुनश्च भगीरथनुतिप्रतुष्टशङ्करेण विसृष्टया बिन्दुसरसि, स्वर्गमनीयन्त सौमतेयाः सगरस्य यज्ञे नष्टं यज्ञीयमश्वं विचिन्वन्तः, दुग्धाश्च कपिलमहसा भस्मीभूताः सागराः । यस्यै च बिन्दुसरसः भगीरथपथमनुगतायै दिव्यायै व्यवासृजन् स्तुतिगिरस्सर्वेऽपि, यस्याश्च बिभ्यति सर्वे पापसङ्घाः, यस्याश्च पीतोत्सृष्टायाः जह्रुना महर्षिणा समजनि जाह्नवीति समाख्या, यस्यां च सप्तधा प्रवहन्त्यां स्नायं स्नायमधिगच्छन्त्यभीष्टं सर्वे जनाः, सेयं त्रिपथगा लोकानुग्रहकारिणी, वन्दनीया भवतेति।

अथ समाकर्णितभागीरथीचरित्रः कौसल्यानन्दनः सुदिवोहमिदानीं इति नमस्कृत्य तां तरङ्गिणीं, गत्वा च परं पारन्तस्याः, विलोक्य विशालां श्रीविशालां नगरीं, अभ्यर्चितश्च तत्रत्येन सुमतिनाम्ना यथार्थाभिधानेन नृपतिना, तत्रैकां निशां नीत्वा महर्षिभिस्सह, प्रातरुत्थाय, गच्छन्विजनं कञ्चिदाश्रमं विलोक्य, समया मिथिलां, अप्राक्षीच्चतं गाधिनन्दनं कैस्तपोधनैरलङ्कृतचरोऽयमुटज इति, स च वर्णयामास मुनिरित्थं, तस्यायमाश्रमों गौतमस्य भगवतो महर्षेः, यस्य च धर्मदाराः अप्रतिमारूपे साऽहल्या, या च दूषिता स्वकामुकेन शचीपतिना, शप्ता च पत्या गौतमेन भूतानामहश्या, निराहारा, भस्मशायिनी च भव यावदागमनं दाशरथेरिति, प्रतीक्षते च भवदागमनं शापविमुक्तये, सोऽपि भुनिर्गौतमः शप्त्वैवं भार्यो वासवे च निपात्य शापदण्डं तदपराधसदृशं हिमाद्रिमभिययाविति।

ततः निशमितमुनिदारोदन्तः, प्रविष्टश्च तमाश्रमं सद्य एव शापान्मुक्तया सङ्गतया च गौतमेन तया वरारोहया कृतातिथ्यः स दाशरथिः पुरस्कृत्य कौशिकं, यज्ञवाटमभिययौ मैथिलस्य राजर्षेः। अथ स राजा विदेहानां मूर्तिमन्तमिव धर्मे उपस्थितं मुनिं कौशिकमुपश्रुत्य, पुरोधसा शतानन्देन सह वाक्पतिना शचीपतिर्ब्रह्माणमिव प्रत्युद्गम्य, तमद्भुततपसं मुनिं सम्पूज्य विधिवद्विष्टरादिभिः, स्वयञ्चोपविष्टस्तदाज्ञया, पृष्टश्च कुशलं, मुनिनाविज्ञाय तौ राजपुत्रौ रामलक्ष्मणौ दाशरथी, विदित्वा च कौशिकमुखात् ताटकोन्मथनं, मारीचादि निहननं, अहल्याशापविमोक्षञ्च रामकृतं, दर्शदर्श साक्षाद्रामं नाविददात्मानमानन्दमयः। तदा च तस्यां राजसभायां स्वजननीशापनिरसननिशमनतुष्टश्शतानन्दः कथयामास राघवायेत्थं कौशिकोदन्तं, पूर्वमयं गाधिनन्दनः क्षत्रियः प्रजापालननिरतः कदाचिदभ्याजगामाश्रमं प्रशान्तं वसिष्ठस्य, प्रणनाम च तम्मुनिवरं, पप्रच्छ च कुशलं, तदाचायं राजा गाधिसूनुः, पृष्टश्च तेन मुनिना अनामयं, निमन्त्रितश्चातिथ्याय, बाडमित्युररीचकार, ततस्समहर्षिर्वसिष्ठोऽपि ससैन्यस्यास्य राजर्षेरकारयदप्रतिममातिथेयं शबलया, अनन्तरं कृतातिथ्यश्च कुशिकनन्दनः अतीव विस्मितः शबलाविधानमेतत्सर्वमिति विज्ञाय, प्रार्थयामास वसिष्ठं दीयतां मह्यं शबलेति, प्रार्थितोऽपि मैत्रावरुणिः यदाप्रत्याचख्यौ, तदा हठादाकृष्य शबलां, तदुत्पादित शकम्लेच्छादिबलपराभूतो निर्विण्णः, तपस्समार्जितेष्वपि विविधेष्वस्त्रेषु वसिष्ठस्य ब्रह्मदण्डेन न्यक्कृतेषु क्षत्रतेजसोऽपि ब्राह्मंतेज एव वरं मन्वानः, तदधिगमाय तपस्यन् दक्षिणस्यान्दिशि, तत्रादेशात्पितामहस्य अधिगतराजर्षिशब्दोऽपि परमं पुनस्तपस्तेपे।

तदानीं सशरीरः सर्गं जिगमिषुस्त्रिशंकुः स्वपुरोहितेन वसिष्ठेन प्रतिषिद्धस्तत्तनूभवैश्च, प्रेप्सुः गुर्वन्तरं, शप्तश्च तदा गुरुपुत्रैः “चण्डालत्वमभिगच्छ” इति, शरणीचकारैनं तप्यन्तं कुशिकदायादं, स एष सद्य एव प्राक्रमत कञ्चिद्यज्ञं त्रिशं कुमनोरथसिद्धये, तद्यज्ञार्थं आहूतेष्वागतेषु अखिलेषु मुनिषु कौशिकभयात्, अनागतान् कृतपरिहासान् तनयानरुन्धतीजानेः शप्त्वा, प्रवर्त्य च तास्ताः क्रियाः, नाभ्यागतेषु हविर्ग्रहीतुं देवेषु,स्वतपसा दिवमारोपयामास चण्डालरूपिणमेव तंः अथ सः त्रिशंकुः आज्ञया दिवस्पतेः पतन् स्वर्गादवाक्शिराः “पाहि पाहि कुशिकनन्दन” इति चक्रन्द; ततः प्रकुपितएतस्मिन्नर्धपथ एव, संस्तंभ्यैतं विहायसि, स्वर्गान्तरनिर्मितिप्रवणे सति, सान्त्वयित्वैनं देवाः तत्रैवान्तराले वासमनुज्ञाप्य त्रिशङ्कोः, प्रतिजग्मुर्दिवं; सुखायते स्म तत्रैव त्रिशंकुः, दुःखायते स्म मुनिः वितशीकृततपःक्रियः।

अनन्तरं विहाय तां दिशं, पश्चिमामाश्रित्य, हरितं तपश्चरन्तमेनं अम्बरीषेण राज्ञा नरपशुतां नीयमानः विक्रीतश्च पितृभ्यां ऋचीकस्य मध्यमपुत्रः शरणमगच्छत् । विदितमेव हि तदिदं सर्वैः यद्रोचते प्रायेण पितृभ्यो ज्यायान्, कनीयान् मात्रे इति। अथ भागिनेयस्य तस्य प्राणपरित्राणाय स्वपुत्रेष्वेकं प्रदित्सुरयं गाधिनन्दनः अवधीरयद्भ्यस्स्वनियोगं, तेभ्यः दत्वा शापं, उपदिश्य द्वे गाधेस्वभागिनेयाय, तेन दीर्घायुषन्तं साङ्गानुष्ठितयज्ञं चाम्बरीषं विधाय, भूयस्समीहितसिद्धये तपश्चचार सहस्रं वत्सराः। तदानीं सन्तुष्टस्य वेधसः अनुग्रहात् लब्ध्वापि ऋषित्वं, भूयोऽपि तपस्यतोऽस्य तत्र पुष्करे मेनकाभ्यागमः तपःप्रत्यूहकरो बभूव।

ततश्च विहाय तामाशां सनाथायां कुबेरेण हरिति हिमवति तपस्यन्नयं, लब्ध्वापि महर्षित्वं, पुनरपि तपस्यन् तत्रान्तरायकारिणीं रंभां च शप्त्वा पूर्वी दिशमनुप्राप्य अनुकसन् सुमहत्ततपस्तेपे। तत्र च परीक्षितोऽप्ययं द्विजातिवेषेण शचीपतिना, अक्रुध्यन्, पितामहपुरस्सरैः देवैः वसिष्ठेन च आहूतः ब्रह्मर्षिशद्वेन, लोकाननुजग्राह तपोनियमनेन। एवमचिन्यत्यमहिमा हि कौशिकस्स एषः, मूर्तिमानेषधर्मः, धन्यश्च भवान्, यतोऽनेन विनीतः। इत्येवमभिष्टुतो गाधिजश्शतानन्देन, संतुष्टं जनकमामन्त्र्य अस्तमयति दिनकरे स्ववाटमुपचक्राम सहराघवाभ्याम् ।

अन्येद्युः प्रातः कृतकर्मणा जनकेन समाहूतस्सराघवः, कौशिकः समेत्य यज्ञवाटं मैथिलस्य, प्रतिगृह्यार्हणां भूपतेः, “सन्दर्शय तद्धनुर्दाशरथये, दिदृक्षया समागताय शैवस्य धनुषः” इत्यचोदयन्मैथिलं नृपतिम् । स च नृपमणिरानयामास “पश्यतु रामभद्र” इति तत्कार्मुकं, यच्च पूर्व निक्षिप्तं देवराते प्रसादितमहादेवैर्देवैः, यच्च अशक्यारोपणं सुरासुरैः पणीकृतं च जनकेन परिणये सीतायाः वसुधातनुजायाः। तदनन्तरं राघवे नियोगेन कौशिकस्य, पञ्चसहस्रपुरुषाकृष्टाष्टचक्रपरिष्कृतशकटारोपितपेटिकान्तर्गतं दिव्यं चापमादाय, लीलया सज्यं च कृत्वा, आकर्णमाकर्षति सति प्रत्नमत्रुटत्तत्कार्मुकम् ।

अथ तन्निनदश्रवणमोहिताश्वस्तेषु सर्वेषु, विश्वामित्रानुमतेन जनकेन समादिष्टाः दूताः, नीत्वाध्वनितिस्रो निशाः, चतुर्थे दिवसे अयोध्यां प्राप्य, प्रणम्य दशरथं व्यजिज्ञिपन् राजनियोगं, देव मैथिलो राजा अनामयानुयोगपूर्वकमत्रभवन्तमाह, कुशलिनावत्र राघवौ, तयोर्यः ताटकाख्यमहारोगचिकित्सकः, यं च सेवते जृंभकाद्यस्त्रग्रामः, येन च मारीचस्सप्राणो मुक्तः, यस्मै च लोकास्स्पृहयन्ति, यस्माच्च बिभेति पलाशगणः, यस्य च विशिखेन निहतास्सुबाहुप्रमुखा नक्तंचराः, यस्मिंश्च रमन्ते मुनीनां मनांसि, तद्रामभद्रवीर्यक्रीती मे वत्सा अयोनिजा सीता तत्सानुगास्तत्रभवन्तः अलंकृत्येमं देशमागमनेन, प्रवर्त्य च प्राणिग्रहणमहोत्सवं सीतारामयोः सत्यप्रतिज्ञं कर्तुमर्हन्तीमंजनमिति ।

तां च निपीय दूतवचनसुधां दशरथः वसिष्ठादिभिर्मुनिभिस्सचिवैश्च सह, सर्वानुमतमैथिलसंबन्धः, पुरस्कृत्य पुरोधसं सबान्धवस्सपौरवर्गःसानुगः अभ्यागच्छद्विदेहान्, परिवृता च दशरथस्य बलेन सा पुरी जनकस्य तद्बलोपरोधं प्रसेहे जननीवार्भकस्य दुर्विलसितम् ।

अथ च राजा जनकः समागतं वयस्यं दशरथं दूरादेव प्रत्युद्गम्य स्वागतकुशलप्रश्नादिभिस्संभाव्य च मध्ये सुनीनां अब्रवीत् धन्योस्मि, अनुग्रहीतोस्मि पावितं चेदं कुलं मदीयं यद्राघवैः वीर्यश्लाघ्यैस्संबन्धं प्राप्ता सुश्वोहं, श्वः सुमुहूर्ते परिणयमनुमन्तुमर्हसि सीतारामयोः इति। ततश्च सज्जोस्म्यहं प्रतिग्रह इत्यूचिवान्, जनकेन समचिंतो दशरथस्सुसुखमतिवाहयांचकार तां निशीथिनीम् ।

अनन्तरं प्रातः आगते च कुशध्वजे कनीयसि जनकस्य साङ्काश्यात्, आगतयोश्च सभां पुरस्कृत्य मुनीन् जनकदशरथयोः, तस्मिन् जनसभे वरवंशकीर्तनपूर्वकं कृते च वसिष्ठेन वधूवरणे, प्रतिज्ञाते च जनकेन स्वान्वयकथनपुरस्सरं दास्यामि सीतोर्मिले रामलक्ष्मणाभ्यामितिवृतयोश्च भरतशत्रुघ्नयोरर्थे विश्वामित्रेण माण्डवीश्रुतकीर्त्योः कुशध्वजसुतयोः, प्रतिजज्ञे च तेऽपि ताभ्यां दात्यामीति परं प्रहष्टो वैदेहः, ततः कृतपरस्परप्रंशसावुभौ तौ महीपौ परं मुमुदाते। ततः समहीपोदशरथः व्यतानीत्सुतानां गोदानमङ्गलं, तदाचागतं प्रियातिथिं भरतमातुलं केकयराजं युधाजितं अपूजयत् परमादरेण।

अथ परेद्युः कृतप्राभातिकक्रियः दशरथः प्रत्यासन्ने सुमुहूर्ते प्रशंसिते दैवज्ञगणैः, पुरस्कृत्य मुनीन्, परिवृतश्च विवाहोचितवेषैः पुत्रैः, ससचिवस्सानुगः समागच्छन् प्रतिहारं मैथिलस्य, सज्जमात्मानं न्यवेदयत् वसिष्ठमुखेन, समागतं दशरथं श्रुत्वा जनकः, वसिष्ठमुखेनैव विज्ञापयामासेत्थं कोसलपतिं ।

(अत्रेमौ रामायणश्लोकौ)

कस्स्थितः प्रतिहारो मे कस्याज्ञा संप्रतीक्ष्यते ।
स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव ॥

कृतकौतुकसर्वस्वा वेदिमूलमुपागताः ।
मम कन्या मुनि श्रेष्ठ दीप्ता वह्ने रिवार्चिषः॥ इति ।

अथ दशरथः स्वप्रतीक्षं मैथिलं विज्ञाय न्यविशत जनकस्य यज्ञवाटम् । तत्र च वसिष्ठेन अलंकृतायां गन्धपुष्पाक्षतादिभिः आस्तृतायां च वेद्यां समैदर्भैः, प्रदक्षिणं प्रज्वलितस्याग्नेस्समक्षं जनकः रामादिभ्यस्तेभ्यः सीताद्याः कन्याः प्रददौ ।

(अत्रैते आदिकवेश्श्लोकाः)

इयं सीता मम सुता सहधर्मचरी तव ।
प्रतीच्छ चैनां भद्रन्ते पाणिं गृह्णीष्व पाणिना ॥

पतिव्रता महाभागा छायेवानुगता सदा ।
इत्युक्त्वा प्राक्षिपदाजा मन्त्रपूतं जलं तदा ॥

लक्ष्मणागच्छ भन्ते ऊर्मिलामुद्यतां मया।
प्रतीच्छ पाणिं गृह्णीष्व माभूत्कालस्य पर्ययः॥

तमेवमुक्त्वा जनकः भरतञ्चाभ्यभाषत।
गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन ॥

शत्रुघ्नञ्चापि धर्मात्मा अब्रवीज्जनकेश्वरः।
श्रुतकीर्त्या महावाहोपाणिगृह्णीष्वपाणिना इति

अथ ते राजसूनवरसदाराः प्रतिष्ठाप्याग्निं, स्वगृह्योक्तेन विधिना चक्रुर्वैवाहिकं होममशेषं; तदा च मुखरितानि दिशामुखानि दिव्यानां दुन्दुभीनां वादित्राणां गायनानाञ्च निनदेन, कलकलेन च जनानां, स्तुतिरवैश्च वन्दिनाम्। अनन्तरं स महीपो दशरथः वन्दितमुनिगणैः नमस्कृतश्वशुराद्यार्यगणैः गृहीतावितथतत्तदाशीर्भिः सदारैः तनयैस्सार्धे, पूरयति जगतीं मङ्गलतूर्यनिनदे, अभिनन्यमानस्सर्वैः संप्राप्योपकार्यां प्रशंसन् वैदेहस्यगुणान्, सुखेन पश्चाञ्चकार तां रजनीम् ।

परेद्युः प्रातराष्पृष्ट्वा मैथिलदशरथौ गते हिमवन्तन्नगेन्द्रं विश्वामित्रे, राजाप्यापृच्छय वैदेहं तत्प्रहितैः विविधैः कन्याधनैस्सह, प्रकृतिसंयुक्तैः प्रत्ययैरिवसबधूटिभिस्तनयैः सिद्धैरिव सामाद्युपायैः परिवृतः, अनुमतप्रस्थानश्च जनकेन स्वां पुरीं प्रतस्थे ।

अथ “मध्ये मार्गं पातयन् महीरुहान् प्रकिरंश्वरजांसि प्रादुर्बभूव वात्या, अन्धतमसेन च संवृतं नभः, सर्वाश्च न रेजुराशाङ्गनाः, तदा च ससुतं राजानं वसिष्ठादींश्च मुनीन् वर्जयित्वा, अन्यत्सर्वमपि बलं सम्मूढमभवत्, तस्मिंश्च तमसि संक्रुद्धः भार्गवो रामः आदायातीव दृढं वैष्णवं धनुः, अनादृत्य दशरथवसिष्ठादीन् अभजदन्तिकं रामभद्रस्य योगीव शतमन्युमुखान् देवान् अपहाय परात्मनस्सकाशम्। अब्रवीच्च तमित्थं “राघव निशम्याहंमास मानसं पत्युर्जगतां, रामोऽपि सर्वधाऽपि स्वानुरूपया सानुरागया तया सुमध्यमया चिरमतीव पिप्रिये, सङ्गमितानुरूपवधूवरश्च विधाता निर्मुक्तो जनापवादात् परं मुमुदे, महेन्द्रादयश्च देवाः सन्त्यक्तनिशाचरभियः विहरन्तस्सुखमासामासुः, सा च नगरी निवासभूता रमायाः कटाक्षिता च भगवता रामेण अतीवाशोभत ।

राघववाल्यचरित्रं गदितं गद्यात्मना हृद्यम् ।
दयाद्विद्यावृद्धिं विबुधैरास्वाद्यमनवद्यम् ॥

इति श्रीरामचरिते राघववाल्यचरित्रवर्णनंनाम
प्रथमः स्तबकः

<MISSING_FIG href=”../../../../../books_images/U-IMG-1703174121Screenshot2023-07-21172948.png”/>

ओरियन्टल पब्लिषिङ् हौम्, मयूरपुर्ग, मद्रास्.

]