मूलम्

[[चम्पूरामायणम् Source: EB]]

[

बालकाण्डम्

लक्ष्मीं तनोतु नितरामितरानपेक्ष-
मङ्घ्रिद्वयं निगमशाखिशिखाप्रवालम्।
हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नं
विघ्नाद्रिभेदशतधारधुरन्धरं नः ॥ 1 ॥
उच्चैर्गतिर्जगति सिद्धयति धर्मतश्चे-
त्तस्य प्रमा च वचनैः कृतकेतरैश्चेत्-
त्तानन्तरेण निपतेत् क्व नु मत्प्रणामः ॥ 2 ॥
गद्या नुबन्धरसमिश्रितपद्यसूक्ति-
र्हृद्या हि वाद्यकलया कलितेव गीतिः।
तस्माद्‌दधातु कविमार्गजुषां सुखाय
चम्पूप्रबन्धरचनां रसना मदीया ॥ 3 ॥
वाल्मीकिगीतरघुपुं गवकीर्तिलेशै-
स्तृप्तिं करोमि कथमप्यधुना बुधानाम्।
गङ्गाजलैर्भुवि भगीरथयत्नलब्धैः
किं तर्पणं न विदधाति नरः पितॄणाम् ॥ 4 ॥
वाचं निशम्य भगवान् स तु नारदस्य
प्राचेतसः प्रवचसां प्रथमः कवीनाम्।
माध्यन्दिनाय नियमाय महर्षिसेव्यां
पुण्यामवाप तमसां तमसां निहन्त्रीम् ॥ 5 ॥
तत्र कंचन क्रौञ्चमिथुनादेकं पञ्चशरविद्धमपि व्याधेनानुविद्धं निध्यायतो बद्धानुकम्पस्य भगवतो वाल्मीकेर्वदनारविन्दाच्छन्दोमयी काचिदेवं निःससार सरस्वती।
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ 6 ॥
तदनु समयोचितकृत्यं निर्वर्त्य स्वाश्रमं प्रति गतवति भगवति वाल्मीकौ।
वाणीविलासमपरत्र कृतोपलम्भ-
मम्भोजभूरसहमान इवाविरासीत्।
आभाति यत्कृतिरनेकविधप्रपञ्च-
व्याजेन्द्रजालविधिसाधकपिच्छिकेव ॥ 7 ॥
ततः परमहर्षेण महर्षिण विधिवदभ्यर्चितः परमेष्ठी मध्यलाकेऽपि स्ववृत्तं प्रकाशयितुं किल भवन्तमेवो पतिष्ठमानयानया भारत्या रामचरितं यथाश्रुतं व्याक्रियतामिति व्याहृत्यान्तरधात्।
अथ सरसिजयोनेराज्ञया रामवृत्तं
करबदरसमानं प्रेक्ष्य दृष्ट्या प्रतीच्या।
शुभमतनुत काव्यं स्वादु रामायणाख्यं
मधुमयभणितीनां मार्गदर्शी महर्षिः ॥ 8 ॥
एनं प्रबन्धं प्रयोक्तुं कः समर्थ इति चिन्तामुपगतवति सति भगवति वाल्मीकौ।
उपागतौ मिलितपरस्परोपमौ
बहुश्रुतौ श्रुतिमधुरस्वरान्वितौ।
विचक्षणौ विविधनरेन्द्रलक्षणौ
कुशीलवौ कुशलवनामधारिणौ ॥ 9 ॥
एतौ मुनिः परिगृह्य स्वां कृतिमपाठयत्।
तौ पुनरितस्ततो गायमानौ दृष्ठ्वा रामः प्रहृष्टमनाः स्वभवनमानीय भ्रातृभिः परिवृतो निजचरितं गातुमन्वयुङ्‌क्त।
छन्दोमयीनां निलयस्य वाचामन्ते वसन्तौ मुनिपुङ्गवस्य।
एतौ कुमारौ रघुवीरवृत्तं यथाक्रमं गातुमुपाक्रमेताम् ॥ 10 ॥
अस्ति प्रशस्ता जनलोचनानामानन्दसंदायिषु कोसलेषु।
आज्ञासमुत्सारितदानवानां राज्ञामयोध्येति पुरी रघूणाम् ॥ 11 ॥
तामावसद्‌दशरथः सुरवन्दितेन
सक्रन्दनेन विहितासनसंविभागः।
वृन्दारकारिविजये सुरलोकलब्ध-
मन्दारमाल्यमधुवासितवासभूमिः ॥ 12 ॥
अथास्मिन्ननपत्यतया दूयमानमानसे पुत्रार्थं क्रतुमश्वमेधं विधातुं मन्त्रिभिः समं मन्त्रयमाणे दशरथे सुमन्त्रः प्रहृष्टमना महर्षेरङ्गदेशसङ्गतावग्रहनिग्रहशौण्डस्य विभाण्डकसूनोरवश्यमृष्यश्रृंगस्य प्रसादात्प्रभवो भविता कुमाराणामिति सनत्कुमारोदीरितं पुरावृत्तमस्मै दशरथायकथयामास।
सोऽपि सुमन्त्रवचनाच्छान्ताधिः शान्ताकुटुम्बिनं सम्बन्धिनं मुनिमानीय वसिष्ठादिष्टमश्वमेधाध्वरं सरयूरोधसि विधाय तत्र पुत्रीयामिष्टिं विधिवत्कर्तुमारभत!
तदनु हविराहरणाय धरणौ कृतावतरणाः सर्वे गीर्वाणगणाः शतमखप्रमुखाश्चतुर्मु खाय दशमुखप्रतापग्री ष्मोष्मसंप्लोषणमा वेद्य तेन सह शरणमिति शार्ङ्गधन्वानं मन्वाना नानाविधप्रस्तुतस्तुतयः क्षीराम्बुराशिमासेदुः।
संतापघ्नं सकलजगतां शार्ङ्गचापाभिरामं
लक्ष्मीविद्युल्लसितमतसीगुच्छसच्छायकायम्।
वैकुण्ठाख्यं मुनिजनमनस्चातकानां शरण्यं
कारुण्याप त्रिदशपरिषत्कालमेघं ददर्श ॥ 13 ॥
क्षीराम्भोधेर्जठरमभितो देहभासा प्ररोहैः
कालोन्मीलत्कुवलयदलाद्बै तमापादयन्तम्।
आतन्वानं भुजगशयने कामपि क्षौमगौरे
निद्रामुद्रां निशिलजगतीरक्षणे जागरूकाम् ॥ 14 ॥
प्रह्लादस्य व्यसनममितं दैत्यवर्गस्य द्‌म्भं
स्तम्भं वक्षःस्थलमपि रिपोर्यौगपद्येन भेत्तुम्।
बद्धश्रद्धं पुरुषवपुषा मिश्रिते विश्वदृष्टे
दंष्ट्रारोचिर्विशदभुवने रंहसा सिंहवेषे ॥ 15 ॥
नारायणाय नलिनायतलोचनाय
नामावशेषितमहाबलिवैभवाय।
ननाचराचरविधायकजन्मदेश-
नाभीपुटाय पुरुषाय नमः परस्मै ॥ 16 ॥
इति प्रणम्योत्थितानेतान् स्तुतिरवमुखरितहरिन्मुखान् हरिहयप्रमुखानखिलान मरानरुणारुणतामरसविलासचोरैर्लोचनम रीचिसंतानैरानन्दयन्नरविन्दलोचनः स्फुटमभाषत।
अपि कुशलममर्त्याः स्वागतं सांप्रतं वः
शमितदनुजदम्भा किं नु दम्भोलिकेलिः।
अपि धिषणमनीषानिर्मिता नीतिमार्गा-
स्त्रिदशनगरयोगक्षेमकृत्ये क्षमन्ते ॥ 17 ॥
एवं भगवतः कुशलानुयोगपुरःसरीममृतासारसरसां सरस्वतीमाकण्यं संपूर्णमनोरथानां सुमनसां संसत् पुंसे परस्मै विज्ञापयामास।
देव, कथमकुशलमाविर्भवेद्‌भवता कृतावलम्बानामस्माकम्। किन्तु।
अस्ति प्रशस्तविभवैर्विबुधैरलङ्‌घ्या
लङ्केति नाम रजनीचरराजधानी।
माणिक्यमन्दिरभुवां महसां प्ररोहै-
स्तेजस्त्रयाय दिनदीपदशा दिशन्ती ॥ 18 ॥
एनां पुराणनगरीं नगरीतिसालां
सालाभिरामभुजनिर्जितयक्षराजः।
हेलाभिभूतजगतां रजनीचराणां
राजा चिरादवति रावणनामधेयः ॥ 19 ॥
यद्वाहुराहुरसनायितशस्त्रधारा
दिक्पालकीर्तिमयचन्द्रमसं ग्रसन्ति।
यद्वैरिणां रणमुखे शरणप्रदायी
नैवास्ति कश्चिदमुमन्तकमन्तरेण ॥ 20 ॥
अम्भोजसम्भवममुं बहुभिस्तपोभि-
राराधयन् वरमवाप परैर्दुरापम्।
तस्माद शेषभुवनं निजशासनस्य
लक्षीकरोति रजनीचरचक्रवर्ती ॥ 21 ॥
तेन वयं पराधीना इव भावमः।
तथा हि। सोऽयं कदाचित्क्रीडाधराधरमारुह्य सावरोधवधूजनश्चरणाभ्यां सञ्चरेत चेदागमिष्यत्याग इत्यनाविष्कृतातपो भयेन भगवान्सहस्रभानुरपि सङ्कुचितभानुरेव तत्सानूनि नूनं संश्रयते।
एष मृगाङ्कोऽपि मृगयायासपरिश्रान्तिविश्रान्त्यै ससंभ्रमं नमज्जनपरिवृते मज्जनगृहाभिमुखे दशमुखे तत्रत्यविचित्रतरशातकुम्भस्तम्भाग्रप्रत्यग्रप्रत्युप्तस्फटिकशिलाशालभञ्जिकापुञ्जकरतलकलितनिजोपलमयकलशमुखादच्छाच्छाम विच्छिन्नधारामम्बुधारां निजकराभिमर्शादापादयंस्तस्य प्रसादपिशुनानां सुनासीरचिरकाङ्क्षितानां विंशतिविधवीक्षणानां क्षणमात्रं पात्रं भवति।
तेन पुलस्त्यनन्दनेन सङ्‌क्रन्दननन्दना त्स्वमन्दिरोद्यानमानीतस्य मन्दारप्रमुखस्य वृन्दारकतरुवृन्दस्य बन्दीकृतसुरसुन्दरीनयनेन्दीवरद्वन्द्वाच्च करारविन्दकलितकनककलशाच्च मन्दोष्णं स्यन्दमानैरम्बुभिर्जम्बालितालवालस्य पचेलिमानामपि कुसुमानां पतनभयमाशङ्कमानाः पवमानाः परिस्पन्दितुमपि प्रभवो न भवन्ति।
एतेऽपि पावका रूढिशङ्कावहां हुतवहाख्यां वहन्तस्तद्‌गृहे गार्हपत्यपुरोगाः पौरोगवधुरं दधते।
स एष मानुषादवमाननमागमिष्यतीत्यमन्वानस्तदितरैरवध्यत्वं चतुराननवराल्लब्ध्वा समुद्धतः सम्प्रति सम्प्रहारसमाक्रान्तदिगन्तदन्तावलदन्तकुन्तव्रणकिणस्थपुटितवक्षःस्थलः स्थलकमलिनीं वनवारण इव रावणस्त्रिलोकीमभिभवन्भवदीयानित्यस्मान्न जातु किंचिदपि जानातीति।
अथ भगवानाकर्ण्य गीर्वाणगणवाणीम्।
इन्द्रनीलाचलोदञ्चच्चन्द्रिकाधवलस्मितः।
वाचमूचे सुधाधारां मधुरां मधुसूदनः ॥ 22 ॥
भवतामपराधविधायिनस्तस्य यातुधानस्य निधनमधुनैव विधातुं शक्यम्।
किंतु सरसिजासनशासनमप्यमोघीकुर्वन्नुर्वीतले पुत्रीयतः सुत्राममित्रस्य दशरथस्य मनोरथमपि पूरयितुमादृतमानुषवेषः सन्नहमेव तं हनिष्यामीति व्याहृत्यान्तरधात्।
ततः सा परिषदनि मिषाणामुन्मिषितहर्षा हृषीकेशादेशात्प्रशमितदुर्दशानि निर्दशाननानि चतुर्दशभुवनानि बुद्‌ध्वा दुग्धसागरान्निरगात्।
ततस्तानमरान् प्राह स्म पितामहः।
भवन्तस्तावदनतरिष्यतो लक्ष्मीसहायस्य साहाय्यार्थमप्सरः प्रभृतिषु युवतिषु वानराच्छभल्लगोपुच्छनीलमुखवेषभृतः प्रथितप्रभावाः प्रजाः प्रजनयेयुरिति।
पुरैव किल मम जृम्भारम्भे सम्भूतवाञ्जाम्बवानिति।
ततस्ते गीर्वाणास्तथाकुर्वन्।
अथ वैतानाद्वैश्वानरान्नरः प्राजापत्यः सहेमपात्रः कश्चिदुत्थाय पुत्रीयते दशरथाय पायसममृतप्रायं प्रायच्छत्।
कौसल्यायै प्रथममदिशद्‌भूपतिः पायसार्धं
प्रादादर्धं प्रणयमधुरं केकयेन्द्रस्य पुत्र्यै।
एते देव्यौ तरलमनसः पत्युरालोच्य भावं
स्वार्धांशाभ्यां स्वयमकुरुतां पूर्णकामां सुमित्राम् ॥ 23 ॥
अवभृथेऽवसिते सरयूतटादथ यथायथमुच्चलिते जने।
दशरथ परिपूर्णमनोरथः पुरमगात्पुरुहूतपुरोपमाम् ॥ 24 ॥
अपाटवात्केवलमङ्गकानां मनोज्ञकान्तेर्महिषीजनस्य।
शनैः शनैः प्रोज्झितभूषणानि चकाशिरे दौहृदलक्षणानि ॥ 25 ॥
मान्दमन्दम पयद्व लित्रया गाधताविषयनाभिगह्वरा।
कोसलेन्द्रदुहितुः शनैरभून्मध्ययष्टिरपि दृष्टिगोचरा ॥ 26 ॥
न्यग्रोधपत्रसमतां क्रमशः प्रयाता-
मङ्गीचकार पुनरप्यदरं कृशाङ्गयाः।
जीवातवे दशमुखोरगपीडितानां
गर्भच्छलेन वसता प्रथमेन पुंसा ॥ 27 ॥
अपि च–
मध्यं तनुत्वादविभाव्यमानमाकाशमासीदसितायताक्ष्याः।
गर्भोदये विष्णुपदापदेशात्कार्श्यं विहायापि विहाय एव ॥ 28 ॥
ततः–
उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यां तिथौ
लग्ने कर्कटके पुनर्वसुयुते मेषं गते पूषणि ।
निर्दग्धुं निखिलाः पलाशसमिधो मेध्यादयोध्यारणे-
राविर्भूतमभूत पूर्वमपरं यत्किंचिदेकं महः ॥ 29 ॥
अपि च–
अथ रामाभिधानेन कवेः सुरभयन् गिरः।
अलंचकार कारुण्याद्रघूणायन्वयं हरिः ॥ 30 ॥
तमेनमन्वजायन्त त्रयस्त्रेताग्नितेजसः।
अग्रजस्यानुकुर्वन्तस्तैस्तैर्लोकोत्तरैर्गुणैः ॥ 31 ॥
भरतस्तेषु कैकेयेयास्तनयो विनयोज्ज्वलः।
अन्यौ लक्ष्मणशत्रुघ्नौ सुमित्रायां कृतोदयौ ॥ 32 ॥
एते ववृधिरे वीरा ब्रह्नक्षेमाय दीक्षिताः।
लोकानन्दमुकुन्दस्य चत्वार इव बाहवः ॥ 33 ॥
अथ कदाचिदपरिमेयमायाभयानकयुद्धसमुद्धतदैत्यबलावस्कन्दकांदिशीकवृन्दारकानीकपरिवार्यमाणरथः पङ्क्तिरथस्तपश्चर्याजातानामाश्चर्याणामायतन त्रिशङ्कुयाजिनं भगवन्तं पद्यप्रबन्धमिव दर्शितसर्गभेदं प्राकृतव्याकरणमिव प्रकटितवर्णव्यत्यासं बुधमिव सोमसुतं कुशिकसुत मद्राक्षीत्।
तदनु तथाविधि कृतसपर्येण मर्यादातीतमहिम्ना महितेन गाधेतर हृदयेन गाधिनन्दनेन सत्रपरित्राणार्थमित्थम भ्यर्थितोऽभूत्।
राजन्, भवतस्तनयेन विनयाभिरामेण रामेण शरासनमित्रेण सौमित्रिमात्रपरिजनेन क्रियमाणक्रतुरक्षो रक्षोदुरितमुत्तीर्य कृतावभृथो भवितुमभिलषामीति।
एतदाकर्ण्य कर्णपरुषं महर्षिभाषितमतिमात्रपुत्रवात्सल्यात्कौसल्याजानिः सशल्यान्तःकरणोऽभूत्।
ततस्तस्मिन्हुबप्र कारैर वार्यनिश्चये भगवति विश्वामित्रे दशरथस्तपनकुलहितेन पुरोहितेनैवमभिहितोऽभूत्।
पर्याप्तभाग्याय भवानमुष्मै कुर्यात्सपर्यां कुशिकात्मजाय।
निर्यातुधानं वसुधां विधातुं निर्यातु रामः सह लक्ष्मणेन ॥ 34 ॥
एवं वसिष्ठेन प्रतिष्ठापितधृतिर्दशरथः सुतप्रदानेन कुशिकसुतमनोरथमेव पूरयामास।
योगेन लभ्यो यः पुंसां संसांरापेतचेतसाम्।
नियोगेन पितुः सोऽयं रामः कौशिकमन्वगात् ॥ 35 ॥
तत्र सत्रं परित्रातुं विश्वामित्रो महामुनिः।
सौमित्रिसहितं रामं नयन्नयमवोचत ॥ 36 ॥
बलेन तपसा लब्धे बलेत्यतिबलेति च।
विद्येते मयि काकुत्स्थ विद्ये ते वितरामि ते ॥ 37 ॥
ततो गृहीतविद्यस्य दाशरथेः प्रदेशमेकं प्रदर्श्य भगवानित्थमकथयत्–
अस्मिन् पुरा पुरभिदः परमेश्वरस्य
भालान्तरालनयनज्वलेने मनोभूः।
सद्यः प्रपद्य शलभत्वममुञ्चदङ्गं
तस्मादमुं जनपदं विदुरङ्गसंज्ञम् ॥ 38 ॥
तदनु मानससरःप्रसृतां सरयूमतिक्रम्य वृत्रवधप्रवृद्धवृद्धश्रवःपङ्कक्षालनल ब्धमलयोर्मलदकरूशानाम्नोर्जनपदयोः सीम्नि कृतपदयोर्दाशरथ्योः पुनरप्येवमब्रवीत् ।
यक्षः सुकेतुर्द्रु हिणप्रसादाल्ले मे सुतां कामपि ताटकाख्याम्।
सुन्दः किलैनां परिणीय तस्यां मारीचनीचं जनयांबभूव ॥ 39 ॥
एकदा सुन्दे निहते मारीचः सुम्भसंभवमभिभूय तस्य शापादवाप कौणपताम्। ताटकाप्यभूत्पुरुषादिनी।
सेयमब्जासनसिद्धसिन्धुरसहस्रप्राणात्मजेन सह जनपदविपदं विदधाना व्यापादनीया त्वयेति।
रामस्तमाकर्ण्य स्त्रीवधशङ्कामकरोत्।
किञ्च, वैरोचनीं मन्थरां वसुन्धरापराधधुरन्धरां पुरन्दरेण निहतां जनार्दनकृतमर्दनां च भार्गवजननीं प्रदर्श्य दाशरथेरमन्दां सुन्दवधूवधविचिकित्सामुत्सारयामास ।
आश्रुतः श्रुतवृत्तेन तेन सुन्दप्रियावधः।
तमेवान्ववदत्तस्य चापः शिञ्जारवच्छलात् ॥ 40 ॥
तत्काले पिशिताशनाशपिशुना सन्ध्येव काचिन्मुने-
रध्वानं तरसा रुरोध रुधिरक्षोदारुणा दारुणा।
स्वाधीने हनने पुरीं विदधती मृत्योः स्वकृत्यात्यय-
क्रीडत्किंकरसंघसंकटमहाश्रृङ्गाटकां ताटका ॥ 41 ॥
अथ दाशरथेः कर्णमविशत्ताटकागुणः।
तथा धनुर्गुणस्तूर्णं प्राविशत्तज्जिघांसया ॥ 42 ॥
ततो भाविनि संग्रामे बद्धश्रद्धस्य ताटका।
स्वप्राणान् रामबाणस्य वीरपाणमकल्पयत् ॥ 43 ॥
मुनिर्भृशाश्वोपज्ञानि ताटकामाथिने ददौ ।
अस्त्राणि जृम्मकादीनि जम्भशासनशासनात् ॥ 44 ॥
तत्र कञ्चन विरञ्चिलोकप्रत्यादेशं प्रदेशं प्रदर्शयन्नवोचत।
प्रतिदिनमवदातैर्ब्रह्ननिष्ठैः
प्रशमितभवखेदैः सादरं सेव्यमाने।
बलिनियमनहेतोर्वामनः काननेऽस्मिन्
बलिनियमपरः सन् ब्रह्नचारी चचार ॥ 45 ॥
अयहृतविबुधार्तेर्वामनस्याजमूर्ते-
रखिलभुवनभिक्षोराश्रमानोकहानाम्।
ततिरियमतिनीला व्याप्तदिग्व्योमसीमा
स्वयमपि परिमातुं लोकमभ्युद्यतेव ॥ 46 ॥
इति विविधरसाभिः कौशिकव्याहृताभिः
श्रुतिपथमधुराभिः पावनीभिः कथाभिः।
गलितगहनकृच्छ्रं गच्छतोर्दाशरथ्योः
समकुचदिव सद्यस्तादृशं मार्गदैर्ध्यम् ॥ 47 ॥
ततः सिद्वाश्रमं प्रविश्य विश्वामित्रः सत्रमारभत।
तदनन्तरमन्तरिक्षान्तरालादापन्तमन्तकानीकभयानकं तं पलाशगणमवलोक्य पलायमानाः करगलितसमित्कुशाः कुशिकनन्दनान्तेवासिनः ससम्भ्रममभिलषिताहवाय राघवाय न्यवेदयन्।
हृत्वाद्रेः शिखराणि तानि परितः क्षिप्त्वा हसित्वा क्रुधा
कृत्वा हस्तविघट्टनं तत इतः स्थित्वा नटित्वा मुहुः।
सिक्त्वा क्ष्मामसृजा स्रजान्त्रकृतया बद्‌ध्वा कचान्खेचरान्
दग्ध्वाग्नेः सदृशा दृशा निशिचरा रुन्धन्ति रन्ध्रं दिवः ॥ 48 ॥
तत्र,
संक्रान्तवर्णान्तरगाधिसूनोः सम्पर्कपुण्यादिव रामभद्रः।
क्षात्त्रक्रमात्पिप्पलदण्डयोग्यः पलाशदण्डादृतपाणिरासीत् ॥ 49 ॥
मारीचनीचमतिराहवमारचय्य
क्षिप्तः क्षणेन रघुनायकसायकेन।
मध्येपयोनिधि भयेन निमग्नमूर्ति-
र्वेषं पुपोष जलमानुषनिर्विशेषम् ॥ 50 ॥
सुबाहुराहवोन्मत्तः कृत्तः काकुत्स्थपत्त्रिणा।
मुनीनामनमिप्रेतः प्रेत नाथातिथिः कृतः ॥ 51 ॥
वंशस्पृशा हृदयहारिफलान्वितेन
रामेरितेन सहसा सहसायकेन।
स्नेहार्दितेन निरगादनुरागिणीव
ग्राणावलिर्हृदयतः पिशिताशनानाम् ॥ 52 ॥
अथ निशिचरमा थाद्वीतवैतानविध्नो
मुनिरवभृथकृत्यं विश्वहृद्यं समाप्य।
अमनुत् जयलक्ष्म्या राममाज्ञौ समेतं
यजनजनितमूर्त्या योक्तु मव्याजलक्ष्म्या ॥ 53 ॥
अथ मिथिलां प्रति प्रस्थितः कौशिकः काकुत्स्थमित्थमकथयत।
पुरा खलु कुशेशयासनजन्मा कुशाभिधानो राजर्षिः कुशाम्बप्रभुखैश्चतुर्भिः कौशाम्बी-महोदय-धर्मारण्य-गिरिव्रजाख्यानां पुरीणां कर्तृभिः पुत्री बभूव।
कुशनाभस्तु घृताच्यां कन्याशतमजनयत्।
कन्यास्ताः सन्नद्धयौवनाः कामयमानः पवमानः प्रत्याख्यानात्प्रत्यापन्नमन्युरासामवयवेष्वनार्जवमतनुत।
अथ विदितवृत्तान्तेन कुशनाभेन तेन क्षमामेव प्रतिक्रियां मन्यमानेन चूलिसूनवे सौमदेयाय राज्ञे ब्रह्नदत्ताय दत्तास्ताः प्रकृतिस्था वभूवुः।
पुनरपि कुशनाभस्तु पुत्रीयन्पितुः प्रसादादगाधसत्त्वान्गाधिसंज्ञानस्मत्तातपादानुदपादयत्।
इत्थं दाशरथिः कौशिकोत्पत्तिकथानिश मननिरायामयामिनीयामानुबन्धो बन्धूक्सतवकसुन्दरबन्धुरेण संध्यारागेण प्राचीमुखेन शोणीकृतेन शोणाभिधानं दधानेन नदेन प्रवर्तितप्र त्यूषकृत्यः कृतनियमेन मुनिना सह सङ्गामुपतिष्ठमानेन पाथा प्रातिष्ठत।
आजानपावनक्षीरां वृषानन्दविधायिनीम्।
श्रुतिप्रणयिनीं सोऽयमापगामाप गामिव ॥ 54 ॥
अथ भागीरथीकथां श्रोतुकामाय रामाय भगवानिद मभाषत।
पुरा मनोरमा नाम सुमेरोरभवत्सुता।
गृहमेधी तयैवासीच्छक्रवर्ती धराभृताम् ॥ 55 ॥
कन्याद्वयममुष्यासीदेका मन्दाकिनी तयोः।
अन्या भगवती। साक्षाच्चन्द्रयूडकुटुम्बिनी ॥ 56 ॥
तां नदीं विबुधा लब्ध्वा नाकलोकमनीनयन्।
तपस्यन्तीं गिरिर्गौरीं देवाय महते ददौ ॥ 57 ॥
शिवयोर्युञ्ज तोर्वीर्यं दृष्ट्वा धात्र्यां समर्पितम्।
पावकः प्रतिजग्राह दैवतैरनुनाथितः ॥ 58 ॥
अनपत्यानथामर्त्यान्बहुभार्यां च मेदिनीम्।
अकरोदम्बिकाक्रोधः पुत्रालाभसमुद्‌भवः ॥ 59 ॥
अथ सेनान्यमिच्छद्भिरुक्तः सब्रह्नभिः सुरैः।
वह्निरह्नाय जाह्नव्यां न्यषिञ्चद्वीर्यमैश्वरम् ॥ 60 ॥
सापि सप्तार्चिषा क्षिप्तं तेजस्त द्वोढुमक्षमा।
हिमवत्प्रान्तकान्तारे श्रान्ता शरवणे जहौ ॥ 61 ॥
तत्राभूत्कृत्तिकाप्रीत्यै षोढारूढम्‌खाम्बुजम्।
तारकध्वान्तविध्वंसि सद्यः षाण्मातुरं महः ॥ 62 ॥
त्रविध्यं श्रूयतां वत्स सरितस्त्रिदिवौकसाम्।
यथोक्तं हव्यमश्न्तया देवताया हवाध्वरे ॥ 63 ॥
पुरीमयोध्यामध्यास्त सावित्रः सगरो नृपः।
केशिनीसुमतिभ्यां च लङ्घितप्रथमाश्रमः ॥ 64 ॥
स पुत्रीयन् सपत्नीकस्तपस्तेपे समा शतम्।
भृगुः प्रीतमनास्तस्मै ददौ दायादसम्पदम् ॥ 65 ॥
असमञ्जं सुतं लेभे वैदर्भी केशिनी तयोः।
षष्टिं पुत्रसहस्राणां सुमतिश्च यवीयसी ॥ 66 ॥
असमञ्जसचारित्रमसमञ्जमपोह्य सः।
आरब्धहयमेधः सन्नमुञ्चत तुरङ्गमम् ॥ 67 ॥
क्रव्यादवपुषा सोऽयमहारि हरिणा हयः।
ततस्तं नष्टमन्वेष्टुं सौमतेयाः प्रतत्थिरे ॥ 68 ॥
सर्वे सपर्वंतामुर्वीं खनन्तः सगरात्मजाः।
चक्रु र्झर्झरितध्वान्तं नागलोकं नखांशुभिः ॥ 69 ॥
त एते तपसा दीप्ते तमःस्तोमप्रमाथिनि।
कापिले ज्वलने वीरा लेभिरे शलभोपमाम् ॥ 70 ॥
असमञ्जसुतं पौत्रमंशुमन्तमथाब्रवीत्।
सप्तिं हृत्वा समाधत्तां सप्ततन्तुं भवानिति ॥ 71 ॥
सोऽपि गत्वा बिलं तत्र दृष्ट्वा भस्मीकृतान्पिदॄन्।
साश्रुस्तेभ्योऽञ्जलिं दित्सुश्चरल्ँलेभे तुरङ्गमम् ॥ 72 ॥
मातुलो गरुडस्तेषामेनं तत्रैवमब्रवीत्।
गङ्गामिहानयायुष्मन्नेषामेषा गतिः परा ॥ 73 ॥
ततस्तनयवृत्तान्तं श्रुत्वा लब्धतुलङ्गमः।
समाप्य सगरः सत्रं पुत्रशोकाद्दिवं गतः ॥ 74 ॥
अथांशुमानयं राज्यं चिराय परिपालयन्।
दिलीपे न्यस्तभूभारस्तपस्तेपे हिमालये ॥ 75 ॥
दिलीपेऽपि दिवं याते श्रुत्वा वृत्तं भगीरथः।
अमर्त्यसरितं कर्तुं मेने मर्त्यतरङ्गिणीम् ॥ 76 ॥
ततो गोकर्णमासाद्य तपस्यति भगीरथे।
देवो देवापगां वोढुमन्वमंस्त दयानिधिः ॥ 77 ॥
अथवीचिचयच्छन्नदिगन्तगगनान्तरा।
शशाह्कशङ्खसंभिन्नतारामौक्तिकदन्तुरा ॥ 78 ॥
तरङ्गाकृष्टमार्तण्डतुरङ्गायासितारुणा।
फेनच्छन्नस्वमातङ्गमार्गणव्यग्रवासवा ॥ 79 ॥
आविः शाखाशिखोन्नेयनन्दनद्रुमकर्षणा।
एकोदकनभोमार्गदिङ्‌मूढदिवसेश्वरा ॥ 80 ॥
आवर्तगर्तसम्भ्रान्तविमानप्लवविप्लवा।
नीलजीमूतशैवालकृतरेखा हरित्तटा ॥ 81 ॥
अवलेपभराक्रान्ता सुरोलकतरङ्गिणी।
पपात पार्वतीकान्तजटाकान्तारगह्वरे ॥ 82 ॥
अलब्धनिर्गमा शम्भोः कपर्दादमरापगा।
दधौ दूर्वाशिखालग्नतुषारकणिकोपमाम् ॥ 83 ॥
अदृष्ट्‌वा तां नदीं तत्र तुष्टाव परमेश्वरम्।
भगीरथो विधेः क्रौर्यात्परिक्षीणमनोरथः ॥ 84 ॥
गङ्गा सप्ताकृतिर्जाता न्यपतद्धर मूर्धनि।
तेन स्तुत्या प्रसन्नेन क्षिप्ता बिन्दुसरस्यपि ॥ 85 ॥
तासु पाचीं गतास्तिस्रस्तिस्रः प्राचेतसीं दिशम्।
अन्या पितृक्रियोद्युक्तभगीरथपथानुगा ॥ 86 ॥
सैषा भागीरथी जह्नोः सत्रक्षेत्रं समावृणोत्।
तां स पीत्वा ततः शान्तो जहौ श्रोत्रेण वर्त्मना ॥ 87 ॥
तया तटिन्या जाह्नव्या प्रापयत्त्रिदिवं पितॄन्।
भगीरथः पुरं प्राप परिपूर्णमनोरथः ॥ 88 ॥
अथ दाशरथिराकर्णितभागीरथीकथस्तां सरितं विलङ्घय विशालां विलोक्य पुरीं कस्येयमिति गाधिनन्दनमपृच्छत्। सोऽप्येवमवोचत्।
पुरा खलु सुरासुराणां सुधानिमित्तं मिथोविरोधे प्रवृत्ते मायां विश्वमोहिनीं विश्वरूपः प्रदर्श्य दैतेयनिधनं शतधारपाणिनाकारयामास।
तेषां जननी दितिरतिवेलमन्युः शतमन्युशासनं कमपि पुत्रं लब्धुकामा पत्युर्मारीचस्य वचनात्कुशप्लवे सुचिरं तपश्चचार।
तां कैतवेन शुश्रूषमाणः सतधारपाणिः पादकलितकचकलापामापन्ननिद्रामपवित्रेति निर्वर्ण्यावगाहिततदीयजठरः सप्तधा गर्भं निर्भिद्य निर्जगाम।
दितिरपि विदिततनयवृत्तान्ता तान्यपि खण्डान्याखण्डलेन सप्तमरुतः कारयित्वा त्रिविष्टपं प्रविष्टा।
अलम्बुषायामिक्ष्वाकोर्जातः कश्चिन्महीपतिः।
विशालेति स्वनाम्नात्र विशालां विदधे पुरीम् ॥ 89 ॥
तदनु तद्वास्तव्येन सुमतिनाम्ना नृपतिना कृतातिथ्यः सराजपुत्रोभगवान् विश्वामित्रस्तत्र निशीथिनीं नीत्वा मिथिलां प्रति प्रस्थितः प्रतपसामुत्तमस्य गौतमस्याश्रमं प्रदर्श्य तद्दारानुषक्तां कथामित्थमकथयत्।
अत्रागमद्‌गौतमधर्मदाराननार्यजुष्टेन पथा महेन्द्रः।
स च क्रुधा निर्वृषणं वृषाणं भार्यामदृश्यां च मुनिश्चकार ॥ 90 ॥
वनमेतद्‌गते रामे शापान्मुक्ता भविष्यसि।
इत्युक्त्वा गौतमः पत्नीं हिमार्दिं तपसे ययौ ॥ 91 ॥
इत्थं विदितवृत्तान्ते देवतानां गणे तदा।
पिदॄणां प्राभवाल्लेभे मेषस्य वृषणं बृषा ॥ 92 ॥
तदेनामेनसो मुक्तां प्रतिगृह्णातु गौतमः।
इति तस्याश्रणं भेजे साकं रामेण कौशिकः ॥ 93 ॥
दुःखे सुखे च रज एव बभूव हेतु-
स्तादृग्विधे महति गौतमधर्मपत्न्याः।
यस्माद् गुणेन रजसा विकृतिं गता सा
रामस्य पादरजसा प्रकृतिं प्रपेदे ॥ 94 ॥
तस्मिन्न हल्यया गौतमेन च कृतमातिथ्यं विश्वामित्रः सराजपुत्रः प्रतिगृह्य मिथिलोपकण्टभुवि जनकयजनभवनमभजत।
तदनु जनकेन विधिवदभ्यर्चिते तस्मिन्निमिकुलपुरोधाः शतानन्दो रघुनन्दनमेवमभाषत।
तिष्ठन् क्षत्रार्हवृत्तौ मुनिरगमदसावाश्रमं ब्रह्नसूनो-
रातिथ्यं तत्र लब्ध्वा निरवधि सुरभेः प्राभवादित्यवेत्य।
सा तेन प्रार्थिताभूत्तदनु मुनिवरे नाभ्युपेते चकर्ष
क्रोशन्तीं तां तयैव प्रचुरवलजुषा कान्दिशीको बभूव ॥ 95 ॥
बहुशस्तद्वलचकितस्य तपोबलाधिगतविविधायुधनिगमस्य भूयोऽपि सुरभिनिमित्तं समारब्धसमरस्य दिव्यास्त्रपरम्परां ब्रह्यदण्डेन निरुन्धन्नरुन्धतीजानिरवतस्थे।
ततोऽयं जातव्यलीकः क्षात्रात्तेजसः परं ब्राह्नमेव महो महीय इति निश्चित्य तत्सिद्धये दक्षिणस्यां दिशि तीव्रतरं तपश्चचार।
अथ सावित्रः श्रत्रियस्त्रिशङ्कुः सशरीरः स्वर्गसिद्धिम भ्यर्थंयमानो भावस्तमेनं शरणमभजत।
असावपि तन्मनोरथ परिपूर्तये क्रतुमेकं प्राक्रमत।
तत्र समागतेषु ब्राह्नणेषु जुगुप्सया त्रिशङ्कोरनागतान्वसिष्ठपुत्रानयं शापेन श्वभक्षकानकरोत्।
ततः क्रतुभुजां वर्गेंऽपि स्वर्गादनवतीर्णे।
अयं महात्मा तपसः प्रभावादारोपयामास दिवं त्रिशङ्कुम्।
नीलाम्बरं निह्नुतराजवेषं वर्षानिशीथादविशेषवेषम् ॥ 96 ॥
अपातयत्स्वर्गमुपाश्रयन्तं संजातमन्युः शतमन्युरेनम्।
ततोऽवलम्ब्यास्य नियोगशङ्कुं लेभे त्रिशङ्कुर्गगने प्रतिष्ठाम् ॥ 97 ॥
ततो गीर्वाणगणप्रार्थनया परित्यक्तभुवनान्तरनिर्माणकर्माणं तत्र तपःप्रत्यूहः प्रत्युद्‌भूत इति पश्चिमायां दिशि पुष्करे पुष्कलं तपश्च रन्तममु मम्बरीषयज्ञपशुविनाशप्रायश्चित्तार्थं बह्वीभिर्गोभिः क्रीत्वा नरपशुतां नीयमानस्तावदृचीकस्य मध्यमपुत्रः शुनःशेपः शरणमयाचत।
अयं भगवान्निजतनयविनिमयेन रक्षितुमेनमुन्मुखः पराङ्‌मुखेभ्यस्तेभ्यो हविष्यन्दादिभ्यः शापेन वसिष्ठपुत्रदशां दत्त्वा गाथाद्वयप्रीताभ्यामिन्द्रोपेन्द्राभ्या मम्बरीषं शुनःशेपं च परिपूर्णमनोरथौ कारयामास।
ततस्तपस्यन्तमेनं मेनकासङ्गतस्तपोभङ्गश्चिरमङ्गीचकार।
पश्चात्पश्चात्तापाभिभूतोऽयमुत्तरे भूभृति कौशिकीतीरे घोरं तपश्चचार।
तत्र जम्भारिप्रहितां रम्भां शैली भवेति शप्त्वा पूर्वंस्यां दिशि निरस्तनिःश्वासं तपश्चरत्यमुष्मिन्नूष्मणा तपोग्नेरु द्बिग्नितामरसखस्तामरसासनः सन्निधाय जितेन्द्रियत्वाद् ब्रह्नर्षिरसि, वसिष्ठोऽप्येवं व्याहरतु भवन्तमित्यभाषत।
असौ वसिष्ठनिर्देंशाद् ब्रह्नर्षित्वमविन्दत।
यथोपनयसंस्काराद् द्विजन्मा ब्रह्नवर्चसम् ॥ 98 ॥
इति जनकपुरोधःश्लाघितो गाधिसूनुः
सह नृपतनयाभ्यां शर्वरीं तत्र नीत्वा।
विधिवददिशदर्श्यं पुष्पदर्भाग्रगर्भं
सरसिजदयिताय ज्योतिषे छान्दसाय ॥ 99 ॥
तदनु जनकराजधानीं रामलक्ष्मणनिरीक्षणकौतुकादनवरतपतितेन विकचकुवलयनिचयोपचीयमानमेचकमरीचिमलिम्लुचेन पौरनारीलोचन रोचिषा कवचितनरपतिपथां विश्वामित्रः विश्वामित्रः प्रविश्य दशरथतनयाविदम भाषत।
अस्यां खलु नगर्यामारब्धयज्ञस्य जनकस्य भागधेयात्सीता नामधेयभाजनमजीजनत्कन्यारत्नं रत्नगर्भा भगवती।
अस्याः पुनः किमपरं माहात्म्यम्।
देव्या यस्या वसनमुदधिः पीठिका हाटकाद्रि-
र्हारः सिन्धुः सगरतनयस्वर्गमार्गैकबन्धुः।
क्रीडाशैलः प्रथमपुरुषक्रोडदंष्ट्रा च तस्याः
सीतामातुर्जगति मिथिलां सूतिकागेहमाहुः ॥ 100 ॥
तत्र सीताविवाहाथममरैरपि दुष्करम्।
जनकः कल्पयामास धनुरारोपणं धनुरारोपणं पणम् ॥ 101 ॥
ततो महर्षिर्जनकस्य राज्ञः सभां सुधर्मासदृशीं प्रपेदे।
तौ चापतुश्चापविलोकलोलौ सचापकौ कोसलराजपुत्रौ ॥ 102 ॥
तत्र विधिवदभ्यर्चितः कथितदशरथतनयवृत्तान्तः कौशिकः कौशिकप्रमुखैरमरैरस्मत्कुलमहत्तरे देवराते निक्षिप्तं विशेषतः सीताशुल्कार्थं मया रक्षितमिदमिति जनकेन प्रदर्शितस्य चापस्या रोपणायराममादिदेश।
ततः–
रामे बाहुबलं विवृण्वति धनुर्यज्ञे गुणारोपणं
मा भूत्केवलमात्मना तिलकिते वशे।पि वैकर्तने।
आकृष्टं नितरां तदेव न परं सीतामनोऽपि द्रुतं
भङ्गस्तस्य न केवलं क्षितिभुजां दोःस्तम्भदम्भस्य च ॥ 103 ॥
रामाकर्षणभग्नकार्मुकभुवा ध्वानेन रोदोरुधा
दृप्तक्षत्रयशः सितच्छदकुले जीमूतनादायितम्।
वीरश्रीप्रथमप्रवेशसमये पुण्याहघोषायितं
सीतायाः किल मानसे परिणये माङ्गल्यतूर्यायितम् ॥ 104 ॥
नवः कठिनकर्षणत्रुटितचापजन्मा क्षणा-
द्दिशां द्विरद धीङ्कृतः कृतहरित्पतिस्वागतः।
जगद्‌भ्रमणकौतुकोच्चलितरामकीर्त्यङ्गना-
प्रयाणपटहध्वनिं प्रथयति स्म तारध्वनिः ॥ 105 ॥
तत्र दशरथ- सीतापरिणयकृतनि श्चयजनकप्रहितदूताहूतः पुरोहिताभ्युपगमान्मिथिलामुपागमत्।
यत्कीर्तिस्तिलकायते सुरवधूसंगीतगोष्ठीमुखे
येनाद्यः पितृमान्पुमान्वसुमती येनैव राजन्वती।
इन्द्रः संगरसंकटेषु विजहौ वीरस्य यस्यो न्मुख-
प्रेङ्खत्स्यन्दनकेतनाम्बरदशासं दर्शनाद्‌दुर्दशाम् ॥ 106 ॥
जनकः स्वकनीयांसमाजुहाव कुशध्वजम्।
हत्वा युधि सुधन्वानं साङ्काश्ये स्थापितं पुरे ॥ 107 ॥
तदनु ताभ्यामभ्यर्चितः सपुरोहितो दशरथस्तत्र पुत्राणां गोदानमङ्गलं निर्वर्तयामास।
जग्राह जनकात्सीतां तातादेशेन राघवः।
आम्नायशासनेनार्चां यजमानादिवानलः ॥ 108 ॥
आश्चर्यमेतत्।
गुणमनिमिषचापे कञ्चिदारोप्य सीतां
किशिकतनयवाक्यादग्रहीद्रामभद्रः।
तदनु तदनुजन्मा मैथिलेन्द्रस्य चित्ते
निहितबहुगुणः सन्नूर्मितां लक्ष्मणोऽपि ॥ 109 ॥
ततो भरतशत्रुघ्नौ कुशध्वजनियोगतः।
माण्डवीश्रुतकीर्तिभ्यामभूतां गृहमेधिनौ ॥ 110 ॥
अथ दशरथः तनयैः सह कृतविवाहैर्विदेहेभ्यः प्रतिनिवर्तमानः संवर्तसमयसभुज्जृम्बितहुतवहदुः सहरोषं भीषणदुर्वारपराक्रमं क्षत्रवर्गगर्वसर्वंकषपरश्वधधाराधीनरुधिरधारा कल्पितपितृतर्पणं दर्पवतामग्रेसरमुग्रप्रतापिन तपः समुचित वल्कलवसनमपि वासनावशादनतिपरिमुषितयुद्धश्रद्धं मध्येमार्गं भार्गवं मुनिं राममद्राश्रीत्।
अप्राक्षीच्च तन्निरीक्षणादेव प्रक्षीणहर्षोऽपि महर्षिभिः सह विधाय सपर्यामा र्यशील, कुशलमिति।
अथ दशरथवाणीं तामश्रृण्वन्प्रसन्नां
भृगुपतिरिदमूचे प्रश्रितं रामभद्रम्।
अवजिगमिषरासं जीर्णचापात्तकीर्ते-
रविदितपरशोश्ते दोर्मदं कार्मु केऽस्मिन् ॥ 111 ॥
आदाय तत्सगुणमाशु विधाय तत्र
सन्धाय बाणम वधार्य तपोधनत्वम्।
तज्जीवितस्य दयमानमना मनीषी
सम्भूतघोरसमराद्बिरराम रामः ॥ 112 ॥
तावुभौ भृगुवंशसम्भवौ चापदण्डजमदग्निसम्भवौ।
प्रह्वभावमवलम्ब्य केवलं राघवार्पितगुणौ बभूवतुः ॥ 113 ॥
युगपत्प्राप्तगुणयोश्चाप भार्गवरामयोः।
ऋजुता वक्रतां प्राप वक्रतापि तथार्जवम् ॥ 114 ॥
ततस्तत्क्षणममोघेन राघवः शरेण भार्गवस्य स्वर्गतिं रुरोध।
स्थाने हितत्।
नूनं जनेन पुरुषे महति प्रयुक्त-
मागः परं तदनुरूपफलं प्रसूते।
कृत्वा रघूद्वहगतेः क्षणमन्तरायं
यद्भार्गवः परगतेर्विहतिं प्रपेदे ॥ 115 ॥
अथ सङ्‌क्रान्तया जामदग्न्यशक्तिसम्पदा सम्पन्नं पन्नगपरिवृढ़ भोगभुजाभिरामं राम मविरलमालिङ्गय मूर्ध्न्युपाघ्राय दशरथः परिखयेव परिसरे परिसरन्त्या सरयूसरितानुविद्धामयोध्यां दारकान् सदारान् सादरमवलोकयन्तीनां पौरपुरन्ध्रीणां नीरन्ध्रितगवाक्षैः कटाक्षैः सौन्दर्यवञ्चितता पिञ्छैः पिञ्छातपत्रायमाणधवलातपत्रः प्रविवेश।
लज्जावशादविशदस्मरविक्रियाभि-
स्ताभिर्वधूभिरतिवेलमवाप्रसौख्यान्।
इक्ष्वाकुनाथतनयान् प्रथमो रसानां
तारुण्ययोगचतुरश्चतुरः सिषेवे ॥ 116 ॥
विद्ययेव त्रयीदृष्टया दर्भपत्राग्रधीः सुधीः।
राजपुत्र्या तया रामः प्रपेदे प्रीतिमुत्तमाम् ॥ 117 ॥
॥ इति बालकाण्ड ॥

************************************************

.

अथ अयोध्याकाण्डम्

गच्छता दशरथेन निर्वृतिं भूमुजामसुलभां भुजाबलात्।
मातुलस्य नगरे युधाजितः स्थापितौ भरतलक्ष्मणानुजौ ॥ 1 ॥
अथ दशरथः पुत्रं रामं स्वतस्त्रिजगत्पतिं
स्वविषयमहीमात्रे कर्तुं पतिं विदधे मतिम्।
भुवनभरणे कल्यं कल्याणभूधरमादरा-
त्स्वगृहपटलीधुर्यस्तम्भं विधातुमना इव ॥ 2 ॥
तदनन्तरमसौ संमन्त्र्य मन्त्रिभिः सह पौरवृद्धान् वृद्धश्रवः पुरोधः समान्समाहूय समादिदेश।
विदितमेव हि भवतां शिवतातिमेव मतिं दधानाः सुपथा संचरणाणाः प्राणिनां दयमानमानसा मानधनाः यशः समार्जनजागरूकाः जनोपताप संमर्जनतत्पराः परां निर्वृ तिमुपेत्य देवभूयं गताः सर्वे नः पूर्वपुरुषा इति।
तस्मादस्माभिरपि तेषां मनीषामनुसरमाणैरेतावन्तं कालं परिपालिताः किल सकलाः प्रजाः।
प्रमाणमत्र परिपालन क्रियामिमां मदीयामनुभवन्तो ननु भवन्त एव।
भवताम भ्युपगमानां निगमानां प्रतीपगामिनीं पदवीं न प्रत्येति खलु लोकस्तदस्ति किंचिदभ्यर्थनीयम्।
मम सुरनरगीतख्यातिभिर्हतिभिर्वा
दिवि भुवि च समानप्रकमैविंकमैर्वा।
नियतमपरिहार्या या जरा सा मदङ्गे
विकचकमलषण्डे चन्द्रिकेवाविरासीत् ॥ 3 ॥
तस्मात्समस्तक्षत्रवर्गगर्वपाटन वरिष्ठधारापरश्वधभरणभीषणवेषभार्गवभङ्गादपरिच्छिन्नतरशौर्यशालिनि सौजन्यभाजने जनानु रागनिलये निर्मत्सरे वत्सले वत्सेऽस्मिन्विश्वंभराभारं चिरकालधार्यमाणमा र्यैरनुमतः सन्नवतार्य विश्रान्तिसुखमनुभवितुमभिलषामिति।
ततः प्रावृषेण्यपयोवाहव्यूहस्तनितनादाकर्णनसमुदीर्णनिरतिशयाह्लाद संसर्गनिरर्गलनिर्गलत्केकालापिनः कलापिन इव जनाः प्रमदभवकलकलरवमुखरितहरिन्मुखा बभूवुः।
आनन्दबाष्पविसरो वदने प्रजाना-
माविर्बभूव मकरन्द इवारविन्दे।
रामस्य कान्तिमभिषेकदिने भवित्रीं
प्रक्षाल्य चक्षुरिव वीक्षितुमादरेण ॥ 4 ॥
राजापि तेषां संपत्स्यमानमहोत्सवोत्सुकजनसंमर्दजनिष्यमाणरजोराजिपात परिजिहीर्षयेव रोमाञ्चप्रपञ्चेन कञ्चुकिताङ्गानां प्रमाणातीतां प्रीतिं प्रपन्नानां हषप्रकर्षेण द्विगुणीकृतमानन्दमन्तर्नियम्य सुमन्त्रप्रमुखान् मन्त्रिमुख्यानेवमाचख्यौ।
अस्माननाश्रिततपोवनभूमिभागा-
नुन्मुच्यमार्ग परिपालनजागरूकान्।
अम्लानमौग्ध्यमचिरादवलम्ब्य राम-
मेवंविधः कथमुदेति जनानुरागः ॥ 5 ॥
तेऽपि नियमितनिजमनोरथाय दशरथाय सविनयमेवं व्यजिज्ञपन्। तेऽपीति।
देवे स्थितेऽपि तनयं तव रामभद्रं
लोकः स्वयं भजतु नाम किमत्र चित्रम्।
चन्द्रं विना यदुपलम्भनहेतुभूतं क्षीरोदमाश्रयति किंतृषितश्चकोरः ॥ 6 ॥
तदनन्तर तत्वरे तत्परस्तत्त्वविदां वरिष्ठस्य वसिष्ठस्य शासनादभिषेकोपकरणाहरणाय सामात्यः पौरवर्गः।
आहूय रामं विनयाभिराममाविः प्रमोदः प्रभुरेवमूचे।
तवोत्तमाङ्गे मुकुटं विधातुमह्नाय तिष्ये दिवसे यतिष्ये ॥ 7 ॥
अथ दशरथमनोरथं सौशल्यायै निवेद्य स्वभवनमुपागतस्य रामस्य भगवान् वसिष्ठः संजातकौतुकः कौतुकमङ्गलं निर्वर्तयामास।
आपूरयन्मङ्गलतूर्यघोषैराशावशावल्लभकर्णतालान्।
उज्जृम्भितः कोऽपि गिरामभूमिरुन्मस्तकः पौर जनप्रमोदः ॥ 8 ॥
यामेवाहुर्निशिचरकुलोन्मूलने मूलहेतुं
यस्याश्चित्तं प्रकृतिकुटिलं गात्रमित्रं बभूव।
अम्भोजिन्याःशिशिर सरसं कासरीवाच्छमम्भः
कैकेय्याः सा हृदयमदयं मन्थरा निर्ममन्थ ॥ 9 ॥
अलघुचलितझञ्झावातनिष्पेषदोषा-
दशनिरिव कठोरः शीतलाम्भोदपङ्‌क्तौ।
अपहृतजनसौख्यान्मन्थराभेदवाक्या-
दपि भरतजनन्यां हन्त दौर्जन्यमासीत् ॥ 10 ॥
सैषा मन्थरा भिधानपिशाचिकावेशपरवशनिजाशया पूर्वं दण्डके वैजयन्तपुरवास्तव्यशम्बरासुरसंगरसंगतर्वेदना पनोदनाथ मात्मने वितीर्णं वराय दशरथाय वरद्वयं न्यवेदयत्।
तयोरेकस्य संकम्भो भरतस्याभिषेचनम्।
अन्यस्य वन्यवृत्त्यैव वने रामस्य वर्तनम् ॥ 11 ॥
तस्मिन् क्षणे वरयुगं चिर तप्तताम्र-
नाराचवेधपरुषं श्रवसी विदार्य।
सत्यप्रहाणचकितस्य नृपस्य काम-
मूरीचकार हृदये पुटपाकरीतिम् ॥ 12 ॥
तनयविरहवार्तामात्रसंतप्यमाना-
दथ दशरथचित्ताच्चेतना निर्जगाम।
दवहुतवहरोचिर्ज्वालया लेह्यमाना-
ज्झटिति गहनगुल्मादुज्जिहाना मृगीव ॥ 13 ॥
अथ दशरथः कथमपि लब्धसंज्ञः कैकेयीमभाषत।
रामः काममुपाश्रयिष्यति वनं त्यक्त्वा धृतं कौतुकं
लोकस्त्यक्ष्यति कौतुकं चिरधृतं तस्याभिषेके कथम्।
धर्मापायभयेन वत्सविरहं वक्ष्यामि वक्ष्यामि किं
यावत्कल्पमकीर्तिरातिजननी जायेन जाये तव ॥ 14 ॥
वत्सं कठोरहृदये नयनाभिरामं
रामं विना न खलु तिष्ठति जीवितं मे।
धातुर्बलादुपयमस्त्वयि जातपूर्वः।
कैकेयि मामुपयमं नयतीति मन्ये ॥ 15 ॥
तदनु निजमनोरथैक परिपूरणे कृतादरा कैकेयीसोपहासमवादीत्।
सत्यविप्लवमपत्यसंगतः संगतं भृशमपश्यतस्तव।
आश्रुतस्य विफलत्वमस्ति चेदाः श्रुतस्य रचितोऽयमञ्जलिः ॥ 16 ॥
किं नागतस्ते श्रवसोः सकाशमरिंदमः सत्यगिरां पुरोगः।
श्येनामिषीभूतकपोतपोतजीवातवे शस्त्रनिकृत्तगात्रः ॥ 17 ॥
किञ्च–
अभ्यर्च्य कस्मैचिदुपाश्रिताय वितीर्य विप्राय विलोचने स्वे।
आपूरयत्कश्चिदलर्कसंज्ञः प्राज्ञः प्रतिज्ञां प्रथितप्रभावः ॥ 18 ॥
असुरसमरवेलाजातबाधावसाने
वरयुगमदिशस्त्वं प्रीतिपूर्वं यया मे।
अशिथिलगुणबन्धाः सत्यसंधा नरेन्द्रा
जललिपिरिति कामं संगिरन्तां गिरं ताम् ॥ 19 ॥
सत्योद्यां गिरिमिह निर्वहस्व मा वा
सन्मानं भुवि न सहेय राममातुः।
संस्थास्ये विषमुपभुज्य पश्यतस्ते
संनाहं त्यजसि न चेत्प्रवर्तमानम् ॥ 20 ॥
एवं वादिनीमेनां भूयोऽपि भूपतिरवदत्।
नैवाभवस्त्वमिह शीलवतीषु गण्या-
नैवाभजत्पितृमतां गणनां स रामः।
नैवापमात्मजसुखान्यहमप्यनार्ये
नैवापमम्बु भरतेन न मे प्रदेयम् ॥ 21 ॥
किञ्च–
वासस्त्वचां भवतु किञ्चन तारवीणां
छायाद्रुमाश्च भवनानि भवन्तु धन्याः।
कैकेयि तस्य शयनानि कथं भवेयु-
स्त्वच्चेतसोऽपि कठिनानि शिलातलानि ॥ 22 ॥
एवं भर्त्रा भर्त्सिताप्याद्रचित्ता नाभूदेषां मन्थराक्रान्तवृत्तिः।
राकाचन्द्रे राजमानेऽप्य बाधं वीरुच्छन्ना चन्द्रकान्तस्थलीव ॥ 23 ॥
तदनु मुहूर्तमात्रमपि राममुखावलोकनसुखम नुबुभूषुर्दशरथः कुमारमानयेति सुमन्त्रमादिदेश।
तेन सत्वरं राजभवनं प्रवेशितो रामः कृतप्रणामः पितरमयथाभूतमुखविका समारादालक्ष्य चकितः किमिदमिति कैकेयीमन्वयुङ्‌क्तः।
सापि पापाशया प्रत्यवादीत्।
वत्स, प्रतिश्रुतवरद्वयनिर्वहणे निपुणेतरस्तातस्ते सम्प्रति सानुशयस्तनयवात्सल्यात्सत्यव्यत्यासत्रासाच्च गाढम गाधे शोकसागरे निमज्जतीति।
वरद्वयं तावत्तव मुनिवृत्त्यैव वने वर्तनमवनेरवनं भरतस्येति।
रामस्तदाकर्ण्यं प्रमुदितहृदयः कृताञ्जलिरेनां प्रति व्यजिज्ञपत्।
भीतो भूभरतः किमम्ब भरतः किंवा वनात्पावना-
त्त्रस्तोऽहं सगरान्ववायककुदस्तातः कुतः शोचति।
दिव्यायाः सरितो निवापकरणाल्लध्वीं प्रतिज्ञामिमा-
मावाभ्याम भिपूरयिष्यति न चेत्पुत्री कथं स्यादयम् ॥ 24 ॥
वनभुवि तनुमात्रत्राणमाज्ञापितं मे
सकलभुवनभारः स्थापितो वत्समूर्ध्नि।
तदिह सुकरतायामावयोस्तर्कितायां
मयि पतति गरीयानम्ब ते पक्षपातः ॥ 25 ॥
किञ्च–
तातः स्ववाचा व्यवहृत्य हृद्यं वत्साभिषेकोत्सवमङ्गलं मे।
प्रणामसंज्ञस्य मयार्पितस्य किं पूर्णपात्रस्य न पात्रमासीत् ॥ 26 ॥
तत्क्षणमशनिहत इव पर्वतः सर्वतः परीतदवदहन इव वनस्पतिः दिवस्पतिपदभ्रंशविधुर इव नहुषः पपात निःसंज्ञः पङ्क्तिरथः।
ततः सा पितृनिदेश माचरेति राममादिदेश।
मातुराज्ञां वहन्मूर्ध्ना मालामिव महायशाः।
वनाय रामो वव्राज जगतामवनाय च ॥ 27 ॥
असौ समासाद्य सद्यः सौसल्यासदनमभिषेकप्रतिबन्धं कैकेयीनिर्बन्धमात्मनश्च वनवासं प्रशामानन्तरं तस्यै न्यवेदयत्।
सैत दाकर्ण्य विदीर्णहृदया विषदिग्धमुखशिलीमुखविद्धश्रवणयुगलेव सहसा निपत्य विललाप।
रेखारथाङ्गसरसींरुहशङ्‌कचिह्ने
क्षेमङ्करे तव करे जगतां त्रयाणाम्।
कान्तारकन्दखननं रचयेति नून-
माबद्धवान्प्रतिसरं भगवान्वसिष्ठः ॥ 28 ॥
तत्रसौमित्रिरतिमात्रप्रवृद्धमन्युः शतमन्युसमानमेवमग्रजमकथयत्।
आर्य, अकार्यमिदं लोकगर्हणार्हायाः कैकेय्या वचसा रजसा जरसा च समाक्रान्तस्वान्ततया कृत्याकृत्यविवेकमूकस्य राज्ञः प्रज्ञाशैथिल्यान्निःसृतेन वचसा सन्त्यज्य राज्यमटवीपर्यजनं विधातुम्।
किन्तु, तुभ्यमनभ्यर्थमानाय प्रथममेव पित्रा प्रदत्ता ननु पृथिवी।
क्षत्रधर्मोऽपि धर्म्यात्पथः प्रमाद्यापि वर्णाश्रमरक्षणतः समीचीनः प्रायेण पुरुषं निःश्रेयसे नियोजयेत्।
नियतं नियतिबलमतिलङ्घय पौरुषमेव वीरस्य पुरुषार्थान्समर्थयेत्।
मा भूत्त्वत्पदपझयोररुणिमा कान्तारसंचारतः
पाणौ पाटलिमा मनाक्प्रसरतु ज्याकर्षणादेव मे।
कैकेयीपरिभूततातवचने नम्रो भवान्मा स्म भू-
त्किञ्चिन्मामकमार्य शौर्यजलधे नम्रं धनुर्वर्तताम् ॥ 29 ॥
एवमाचक्षाणं लक्ष्मणं रामः सान्त्वयन्नेवावोचत्।
वत्स, सवितृवंशजातानां पितृनिदेश एव देशिकः सर्वकर्मसु।
बहवः खलु पितृनिदेशगौरवाद्‌गोहत्यामपि मातृवधमपि तारुण्यविनिमयमपि कण्डुरैणुकेयपूरुप्रभृतयः कुर्वाणा निर्विचारमाचारवतामग्रण्या इति गण्यन्ते।
तस्मादवश्यं वश्य एव पितुरवगाहे गहनमिति।
तत्र विस्तृतपुत्रवात्सल्या कौसल्या तेन सह गन्तुमभिलषन्ती कृतप्रणामेन रामेण सविनयमेवमभिहिता।
कान्तारभाजि मयि केकयराजपुत्र्याः
कार्कश्यकन्दलितया दलितस्य वाचा।
तातस्य शोकदहनग्लपितं शरीरं
मातस्त्वया न तु कदाचिदुपेक्षणीयम् ॥ 30 ॥
ततः सा तनयस्य स्वस्त्ययनाय समस्तदेवताकीर्तनपुरःसरीमाशिषमाचचक्षे।
तदनु रामस्तामभिवन्द्य निष्क्रान्तः प्रक्रान्तनेपथ्यायाः सीतायाः प्रसादमाससाद।
कल्याणवादसुखितां सहसैव कान्तां
कान्तारचारकथया कलुषीचकार।
अम्भोदनादमुदितां विपिने मयूरीं
संत्रासयन्निव धनुर्ध्वनिना पुलिन्दः ॥ 31 ॥
अयमेनामनु गन्तुमुपक्रान्तामकथयत्।
प्रिये जनकनन्दिनि प्रकृतिपेशलामीदृशीं
कथं ग्लपयितुं सहे तव सिरीषमृद्वीं तनूम्।
गृहीतहरिणीगणत्रिकविसारिनानाशिरा-
क्षतक्षरितशोणितारुणवृकानने कानने ॥ 32 ॥
तदनु नानाविध प्रयत्नेनाप्यनिन्मिषदनुजिगमिषाशैथिल्यां मैथिल्यां लक्ष्मणेऽप्यनवसितानुगमनव्यवसाये वासिष्ठाय सुयज्ञाय भूषणमशेषं नाग सहस्रेण सह शत्रुञ्जयाह्वयं मातुलदत्तं मत्तहस्तिनमगस्त्यकौशिकाभ्यां च महार्घाणि रत्नानि वितीर्यं तदनु निर्जरारिवीर्यमुषी धनुषी निरपायत्राणकर्मणी वर्मणी निर्मर्यादशिलीमुखकृतानुषङ्गौ निषङ्गौ निर्वर्तितवीरपाणौ कृपाणौ वरुणेन जनकसदसि दक्तमेतत्स मस्तमायुधजातमादाय मामनुगच्छेति सौमित्रिमन्वग्रहीत्।
सीतापि निजाभरणजातं सुयज्ञपत्न्यैन्यदात्।
ततः सौमित्रिरपि स्वाधीनेन धनेन कञ्चित्कौसल्याश्रितमुपाध्यायमतोषयत्।
तत्र सकुटुम्बाय त्रिजटाभिधानाय निर्धनाय द्विजातये स्वहस्तनिक्षिप्तदण्डपतितदेशावधिकंगोधनं च कपिञ्जलादिभ्यो द्विजातिभ्यश्च रघुपतिर्वित्तानि विविधानि विततार।
ततस्ते पौरनारीणां निःश्वासझञ्झानिलचलदधरकिसलयाना मस्रसलिलासारेण शोकपावकेन च वपूंषि मनांसि च सिक्त्वा दग्ध्वा च निषिद्धपरिजनानुगमनतया प्रकाशितप्रवास सिद्धान्ताः शुद्धान्तान्निश्चक्रमुः।
तत्र–
सीता पुरा गगनचारिभिरप्यदृष्टा
मा भूदियं सकलमानवनेत्रपात्रम्।
इत्याकलय्य नियतं पिदधे विधाता
वाष्पोदयेन नयनानि शरीरभाजाम् ॥ 33 ॥
ततः–
रुद्धापि यान्तमनुगच्छति मैथिली मां
वत्सो जहाति न कदाचन लक्ष्मणोऽपि।
इत्येतयोरनुगतिं प्रतिबोध्य गन्तुं
भूयोऽपि राजभवनं प्रविवेश रामः ॥ 34 ॥
तस्मिन्सुमन्त्रेण विज्ञाय प्रदर्शिते भूपतिर्भूताविष्ट इव विष्टरान्निपत्य सदारः सदारचितपरिदेवनो वनोत्कण्ठां स्वयमप्यकरोत्।
तदा सुमन्त्रः कैकेयीमब्रवीत्।
देवि, विरम रामाभिषेकसमुन्मिषिताह्लादाङ्कुरावग्रहादाग्रहात्।
पुरा खलु वरदप्रसादादवगतसकलप्राणिभाषणतया पर्यङ्कपर्यन्तपरिसरत्पिपीलिकालापे कृतहासं तव पितरं हसनकारणं पृष्ट्वा तद्विवरणं पत्युर्मर णकरमित्यवेत्यापि भूयसो निर्बन्धात्कुपितेन राज्ञावज्ञाताया मातुस्ते विधां मानुकुर्वीथा इति।
कृतासमञ्चनिर्यासं सगरं केकयात्मजा।
निदर्शनत्वे निर्दिश्य निरबध्नान्निजं पतिम् ॥ 35 ॥
तत्र–
सिद्धार्थको महामात्यस्तत्परित्यागमब्रवीत्।
सरयू पातितानेकप्रजामरणकारणात् ॥ 36 ॥
अथ दशरथेन रामः सपरिच्छद एव गच्छेति निदिंष्टः केवलं खनित्रिपिटकौ वल्कलयुगलं च प्रार्थयत।
सुखोचितानां सुव्यक्तदिव्यलावण्यसम्पदाम्।
त्रयाणामपि कैकेयी वल्कलादीन्युपाहरत् ॥ 37 ॥
अथ रघुकुलनाथो मध्यमाम्बानियोगा-
द्‌गुणवति परिधाने मङ्गलार्हे निराशः।
अधिकुचतटवल्गज्जानकीबाष्पसेका-
दपगतखरभावं वल्कलं पर्यधत्त ॥ 38 ॥
तत्राचित्रीयन्त सर्वे निविकारवदनक्ष्मीकमिक्ष्वाकुकुलाध्यक्ष्मध्यक्षयन्तस्तेषामेव शोक शङ्कुकीलितमानसानामाननेषु पारम्पर्येणास्फुरद्विकारः।
किन्तु–
सवल्कले दाशरथौ विषादादामीलिताक्षो यदभूद्वसिष्ठः।
तदेव जातं करणं महर्षेः काकुत्स्थयाथार्थ्यविलोकनस्य ॥ 39 ॥
अस्य पीताम्बरत्यागे किं जाता विक्रियाऽपुरा।
इति प्रत्यग्दृशां श्रेष्ठो वसिष्ठो नातिविव्यथे ॥ 40 ॥
सोऽयं मैथिलीवल्कलधारणमरुणदरुण सारथिकुलगुरुः।
तत्र प्रयाणाय प्रणिपतन्तीं स्नुषा माश्लिष्य प्रस्नुतपुत्रवात्सल्या कौसल्या बाष्पगद्‌गदमवदत्।
घर्मे निदाघकिरणस्य करैः कठोरैः
कान्तारमद्यपदवीषु नखंपचासु।
त्वां वीक्ष्य संस्थुलपदां वनदेवताभि-
र्निन्दिष्यते नियतमेव निमेषहानिः ॥ 41 ॥
अथ मैथिलीनाथः सलक्ष्मणः सप्रदक्षिणं राजानं जननीजनं च प्रणम्य प्रतिषिद्धप्रतिहारचक्रो निश्चक्राम।
रथोऽपि दशरथाज्ञापरतन्त्त्रेण सुमन्त्रेण द्वारि समानीतः।
प्रारब्धयात्रस्य रघूद् वहस्य प्रागेव सीता रथमारुरोह।
आनीलरथ्यं रथमारुरुक्षोरह्नां प्रभोरग्रसरी प्रभेव ॥ 42 ॥
दाशरथी च रथमारुरुहतुः।
यथा यथा राघवराजधानीं विहाय सीता विपिनोत्सुकाभूत्।
तथा तथाऽजायत यातुकामा लङ्कां विना राक्षसराजलक्ष्मीः ॥ 43 ॥
आबालबृद्धमनुगच्छति रामभद्र-
मेषा पुरी तदिह मा खलु निर्गुणा स्याम्।
इत्यादरादिव धरा बहुधा विधाय
धूलिच्छलान्निजतनुं तमनु प्रतस्थे ॥ 44 ॥
नृपसुखविमुखेन स्वेन कान्तेन साकं
दुहितरि विधिपाकात्काननाय व्रजन्त्याम्।
अकुशलमिति मत्वा नूनमह्नाय धात्री
परिजनमुखबाष्पं पांसुभिः पर्यहार्षीत् ॥ 45 ॥
रामानुसारर सनिर्गतपौरवर्गा
संस्थानमात्रगृहचत्वरराजमार्गा।
निर्मुक्तभोगभुजगगिव क्षणेन
लध्वी बभूव रघुपुंगवराजधानी ॥ 46 ॥
अथ दशरथः सानन्तःपुरजनः पुरान्निर्गत्य गत्यन्तराभावात्तमेव रामं सुचिरमा लोकयन्नालोकपथमतिक्रान्ते सुमन्त्राक्रान्तस्यदने रघुनन्दने स्यन्दमानबाष्प्परवाहो मोहमुपगम्य भूम्यां पपात।
ततः परिजनकृताश्वासाल्लब्धसंज्ञायराज्ञे कौसल्यासदनमरोचत।
अथ दाशरथिरहमहमिकया सम्मूर्च्छन्महाजनौघदुरवगाहतया मन्दायमानस्यन्दनवेगः सकलजनविवेककोकनदं मुकुलयन् मोहतमसा तमसातटमुपगमत्। चरमगिरितटमपि सहस्रदीधितिः।
आविः प्रलापमटवीं भजतो जनस्य
काकुत्स्थपादविरहासहमानसस्य।
आस्तीर्णपर्णशयनान्यभवन्गृहाणि
मूलस्थलानि तमसातटभूरुहाणाम् ॥ 47 ॥
अथ निशीते दाशरथिः सुमन्त्रेण संमन्त्र्य वञ्चितजनसंहतिरतिविनतानन्दनेन स्यन्दनेन वेदश्रुतिगो मतीनिष्यन्दिकानामनदीत्रयपरिष्कृतामिक्ष्वाकवे मनुना दत्तां वसुमतीमतीत्य विविधवनगहनवीरुत्तृणप़टलपिहितरथतुरगखुरमुद्रया पदव्या गङ्गातरङ्गसंगतमूलं गगनगङ्गालिङ्गतश्रृङ्गं श्रृङ्गवे रपुरालंकारमिङ्गुदीपादपमुपागमत्।
दृष्ट्वा राममनेकजन्मरचितैदृ श्यं शुभैः कर्मभिः
श्रुत्वा मातृवरद्वयादुपगतां वृत्तिं च वैखानसीम्।
अत्युज्जृम्भितहर्षशोकजनितैर्बाष्पैर्निषादाधिपः
शीताशीतगुणान्वितैरविरलैःसम्पृक्तवक्त्रोऽभवत् ॥ 48 ॥
सोऽयं प्रियसुहृत्समासाद्य गुहः कृताञ्जलिरञ्जसा रघुनाथमनुनाथितवान्।
देव, पितृनियोगप्रवणान्तःकरणमपि भवन्तं विज्ञापयितुम ज्ञजानपदरीतिर्भारती मां मुखरयति।
अस्त्येतदनिवार्यवीर्योद्भट भटदुर्गवर्गयुक्तमनुषक्तभोग्यजातमन्थरं मन्थराहृदयतोदावहमस्मदीयं राज्यम्।
तदेतदनिदम्प्रथमप्रवृत्तं परिगृह्य किञ्चिदनुगृह्य च परिजनयोग्य भाग्यभाजनममुं जनममुञ्चन्नेव तातादेशं देशेऽस्मिन्विस्मयनीयानुभावमुनिवृन्दे मन्दाकिनीसन्दर्शनेन मन्दायमानजननीजनवियोगदुदशख्चतुर्दशदशरथकथिताः समाः समापयतु भवानिति।
तस्मिन्नित्थं प्रार्थनाबाजि सख्यौ प्रत्याचख्यौ रामभद्रः प्रियोक्त्या।

मातुर्वाक्याद्वल्कलेनावृतं मे गात्रं क्षात्रप्रक्रियां नार्हतीति ॥ 49 ॥
ततस्तु तदनुरोधेन रोधस्तरोरधस्तात्सुमन्त्रनियन्त्रितरथ्ययोः दाशरथ्योरातित्यं समधुपर्कं कर्तुमिव मन्दमन्दमरविन्दवृन्दस्यन्दमानमकरन्दबिन्दुसंदोहवाहिनि वाहिनीतरङ्गमरुति वाति काननगमनावस्थांकाकुत्स्थस्य प्रेक्षितुमक्षमायामिव क्ष्माभृति चरमे तिरोहितायामह्नामधिदेवतायां सन्ध्यां चरमां रामः समाप्य तस्यां तरुमूलभुवि लक्ष्मणकल्पितं पर्णतल्पमभजत्।
रामे विदेहसुतया तरुमूलसंज्ञ-
मन्तःपुरं विशति लक्ष्मणसौविदल्लम्।
निध्याय तं नियमितामितबाष्पवृष्टि-
र्निद्रां निरस्य निषसाद निषादनाथः ॥ 50 ॥
व्यतीतायां विभावर्याम र्यममरीचिमालाहारिणि पूर्वोंर्वीधरमूर्ध्नि विरचित जटाबन्धौ सह सीतया दाशरथी भागीरथीकच्छमगच्छताम्।
तत्र रामः प्रहृष्टचेताः सीतामाचष्ट।
मेध्याश्वमार्गपरिमार्गण संभवस्य
दिव्यौषधि कपिलकोपमहाज्वरस्य।
तातानुतर्पणपचेलिमभागधेयां
भागीरथीं भगवतीं शरणं भजामः ॥ 51 ॥
तदनन्तरं रामः सान्त्ववचननिवारितसुमन्त्रः ससौमित्रिर्मङ्गलानि प्रार्थयमानया तया मैथिल्या सह गुहेनानीतां नावमारुरोह।
स एष निषिध्य निषादाधिपतेरनुगमनमपि तूर्णमेव वितीर्णसुरसरित्पूरः संपूर्णसस्ये वत्साभिधाने जनपदे कृतपदश्च लक्ष्यवेधनचतुरश्चतुरो मृगान्निहत्य कुत्रचिद्वनस्पतिमूले निशामनैषीत् ।
अन्येद्युर्वन्येन पथा प्रयातास्ते प्रयागे प्रतायमानहोमधूमप्राग्भारं भारद्वा जाश्रमं श्रयन्तश्चाभिवन्द्य तममन्दहर्षं महर्षिमनेनादिष्टवर्त्मना वैकर्तनीपूरोपत्लवं प्लवेन वैणवेन निस्तूर्य समधनजनसन्निधानशमित शात्रवसकलसत्त्व चरित्रिविचित्रं चित्रकूटाचलम भजन्।
अनुजरचितपर्णागारहृद्यासु माद्य-
त्परभृत गलचञ्चत्पञ्चमैर ञ्चितासु।
जनकदुहितृयोगाज्जातसाकेतसौख्य-
श्चिरमरमत रामश्चित्रकूटस्थलीषु ॥ 52 ॥
अथ मां वनवासनैर स्यादपि नाम रामः समाह्वयेदिति प्रत्याशया परतन्त्रः सुमन्त्रः कानिचिदहानि गुहसकाशे नीत्वा निराशस्ततः प्रतिनिवृत्तो निवृत्तोत्सवामयोध्यामासाद्य निर्दाशरथिरयं समागत इति शोकातिरेकातुरपौरजनजनितदीनाक्रन्तमन्दीभूतनेमि घोषादवरुह्य रथादृशरथं प्रयाणोन्मुखप्राणम् प्राणंसीत्।
एतद्दर्शनेन विसंज्ञो दशरथ- कौसल्यासुमित्राभ्यां समाश्वासितः कथं प्रयातं रामेण कथं कतितं मैथिल्या किंवुत्तः सौमित्रिरिति मुहुर्मुहुरश्रुकुण्ठितकण्ठः सुमन्त्रमन्वयुङ्‌क्त।
देव, कथं ब्रवीमि, कठिनहृदयोऽहम्।
सेवारसानुगतपौरमनोरथस्य
दूरे रथस्य च सुतौ तव वर्तमानौ।
भूत्वा विदेहदुहितुर्नवसौविदल्लौ
भागीरथीतटवने पथिकावभूताम् ॥ 53 ॥
किञ्च–
देव त्वत्तनयस्य कुन्तलभरं क्षीरैः स्वधेनूद्धवैः
सेक्तुं नालमरुन्धतीपतिरभूत्तस्याभिषेकोत्सवे।
सिक्तो हन्त स एष मैथिलसुतावाष्पोदकोत्पादक-
र्न्यग्रोधक्षरितैर्जटां रचयितुं क्षीरैर्निषादाहृतैः ॥ 54 ॥
तस्या विदेहदुहितुःपदयोर्नखेषु
लाक्षां विनाप्यरुणिमा सहसा बभूव।
वन्ये पथि प्रियतमेन सह ब्रजन्त्या
वैवर्ण्यमाविरभवन्न कदापि वक्त्रे ॥ 55 ॥
सीतापतेः किसलयैः परिकल्प्य तल्पं
सञ्चार्यं सत्त्वदमनाय निशासु दृष्टिम्।
धन्वी तदङ्‌घ्रिभजनादिव पुण्यलभ्या-
दस्वप्न एव वनवर्त्मनि लक्ष्मणोऽभूत् ॥ 56 ॥
एवं सुमन्त्रनिवेदितपुत्रचरित्रश्चरमगिरिशिखरजिषि निगमवपुषि ज्योतिषि हृदयलग्नशोकशल्यां कौसल्यां समाश्वास्य नरपतिरित्थमकथयत्।
पुरा खलु सरयूरोधसि विविधतरुनिवहपिहितदिव स्पतौ मृगयास्पृहया कमपि समयमगमयम्।
तत्र,
तोयादान सनादपुष्करगजभ्रान्त्या तपस्वी मया
विद्धः कश्चन शब्दवेधनविदा पाथः सरय्वां हरन्।
तत्पित्रोर्जरदन्धयोरनुमृतिं कर्तुं चितिं चिन्वतोः
शापो मय्यपतद्भवानपि सुतप्रेम्णा प्रणश्येदिति ॥ 57 ॥
अहं वैश्यस्य शूद्रायां जातस्तस्मान्न संभवेत्।
ब्रह्नहत्येति मामुक्त्वा स्वर्गतो दुर्गतो मुनिः ॥ 58 ॥
तदवश्यं वश्य एवास्मि मृत्योरिति स्मृतिपथगतराम एव विरराम।
मुनिशापकृतोत्पत्तिर्विपत्तिर्निष्प्रतिक्रिया।
दशरथायाशु दिदेश दशमीं दसाम् ॥ 59 ॥
नाक्रान्तस्त्रिदिवः परः सुमनसां कान्ता न वन्दीकृता
नाकीर्णं पुरुहूतशासनधरैः साकेतबाह्याङ्गणम्।
नादिष्टाः सचिवाक्च भूतलपरित्राणाय यद्यप्यसौ
नाकं शोकवशादगाद्दशरथो नास्थां वहन्वाहने ॥ 60 ॥
अथ दशरथप्रशंसामांसलैः कैकेयीनिन्दाकन्दलितै रामगुणकीर्तनगुणितैरवरोधवधूजनपरिदेवनारवैर्मुखरितेषु दिङ्‌मुखेषु।
अभूदराजकम्लानसद्‌गणं गगनाङ्गणम्।
आलोक्येव तदा शान्तमशेषं च महीतलम् ॥ 61 ॥
ततः प्रभाते वसिष्ठवचसा सचिवास्तैलद्रोण्यां निक्षिप्य क्षितिपतेस्तनुं क्षिप्रमेव भरतमकथितदशर थकथा एव आनयतेति दूतान् केकयेषुप्रेषयामासुः।
तेऽपि जितपवनजवनवा जिसंकोचितपथास्तुरगपतिपुरे दुःस्वप्नदूयमानमानसं भरतमभिवन्‌दय गुरुनि योगं व्यजिज्ञपन्।
सोऽयं मातामहेन युधाजिता चानुज्ञातः कतिपयैरेव दिनैरनिमित्तसम्पातेन सातङ्कः साकेतमाससाद।
अतिचकितमतिः पुरैव पस्यन् पुरमयथापुरचारपौरवर्गम्।
न्यविशत भरतः परीतदूतः पितृभवनं पितृकाननादनूनम् ॥ 62 ॥
स पितरमनवेक्ष्य तत्र मातुः सदनगतः प्रणिपत्य तामपृच्छत्।
क्वनु मम गतवान्पितेति सैषा परुषतरं भरताय वाचमूचे ॥ 63 ॥
वनचर इव साकं मैथिलीलक्ष्मणाभ्यां
पितृविधिमभिरोद्‌धुं प्रस्थितो रामभद्रः।
तदनु तव पिताऽभूत्कालधर्मानु यात-
स्त्वमनुभव यथेच्छं निःसपत्नां धरित्रीम् ॥ 64 ॥
मयूरीव महानागं केकया केकयात्मजा।
भारत्या भरतं चक्रे परिक्षुभितमानसम् ॥ 65 ॥
तदनु भरतश्चिरतरं विलप्य विलुप्यमानविवेकः कैकेयीमकथयत्।
परिणतिपरुषाणां पाप्मनां सन्निपाता
न्न हि भवसि चतुर्णां सा त्वमस्माकमम्बा।
तदिह तनयवत्यः संलपिष्यन्ति कामं
श्रुतिपुटरचितार्तेस्त्वां सवित्रीमकीर्तेः ॥ 66 ॥
तदनु तन्मुखादाकृष्टदृष्टिरनुजमिदमवादीत्।
अविरलमिनवंशं दग्धुमाश्रित्य तापं
जनमनसि किरन्त्यां हन्त सत्यां भवत्याम्।
अनुसवनमपापैर्देवता पूज्यमाना
वहति कथमिदानीमाश्रयाशाभिधानम् ॥ 67 ॥
अविरतकृषितान्तं वत्समालोक्य धेनो-
रपि समजशतानां मातुरस्रं बभूव।
तदिह तनयशोकं सन्तरेदेकपुत्रा
कथय कथमिदानीं कोसलोन्द्रस्य पुत्री ॥ 68 ॥
अपिबदियममन्त्रे कालयोगान्नरेन्द्रे
वरयुगरसनाभ्यां प्राणवायुम् तदीयम्।
अपनगरममुष्या वर्तनं युक्तरूपं
पितृवनवसुमत्यां व्कापि वल्मीकवत्याम् ॥ 69 ॥
एषा निकृष्टमतिरात्मगुणोचितेषु
वंशेषुसत्सु बहुधा पिशिताशनानाम्।
माकन्दशालिनि वने विषवल्लरीव
हा हन्त केकयकुले कथमाविरासीत् ॥ 70 ॥
जननीतिविहीना मे जननीति स धर्मवित्।
निरयान्निरयाद्वीरो निरयादिव सानुजः ॥ 71 ॥
तत्र सामात्यः समुपेत्य पत्युश्चिताधिरोहणमभिलषन्ती कौसल्याभरतः शपथशलैर्निवार्य वसिष्टा दिष्टे न पथा दशरथाय सदा यागशीलाय यायजूकाभिप्रेतं प्रेतकृत्यम करोत्।
ताते पितृवनं याते यातुं भ्रातृवनं तथा।
भरतः प्रार्थयामास प्राञ्जलिः प्रकृतीः कृती ॥ 72 ॥
अथ ताभ्यां सुमित्राकौसल्याभ्यामन्तःपुरजनेन च साकमनुनीतो भरतो भवनमभजत।
अथ यथाविधिविहितौर्ध्वदैहिकं गमितचतुर्दंशदिवसं दिवसकरकुलहितेन पुरोहितेन नगरवृद्धैः सार्धममात्याः समुपेत्य मुकुटस्य भरणाय प्रार्थयामासुः।
ततस्तान्निर्बध्नतः सोऽयं प्रत्यवादीत्।
बहुभिरिह किमुक्तैस्त्यक्तसौमित्रि वृत्ति-
र्मुकुटमपि वहयं युष्मदाज्ञा हि पूज्या।
मम परमवकाशः पर्णसालानुकूलः
क्वचिदपि विपुलायां नास्ति चेद्‌ण्डकायाम् ॥ 73 ॥
इत्युक्त्वा श्रीरामसेवोत्सुकमना निश्चक्राम।
तत्र–
अनुपधि रचयित्वा सत्पथे पांसुलत्वं
सुजननयनसौख्यप्रातिकूल्यं च कृत्वा।
नरपतिगृहमद्यात्तूर्णमुद्‌घूर्णमाना
कुटिलगतिरुदस्थान्मन्थरा नाम वात्या ॥ 74 ॥
केशहस्तं स्वहस्तेन गृहीत्वा तद्वधोद्यतम्।
कौसल्या वारयामास क्रुद्धं रामानुजानुजम् ॥ 75 ॥
तत्र सान्तःपुर एव पुरान्निर्गत्य शिल्पिवर्गसमीकृतसरणिर्भरतः पुरतः प्रसृतनरगजरथतुरगचरणक्षुण्णक्षोणीतलसमुत्कीर्णेन रेणुनिकुरुम्बेण जम्बालयन्नम्बरगङ्गां च सुमन्त्रभणितगुणनिवहगुहानुमत्या निस्तीर्य दूरादेवाश्रम द्वारे निवेशितबलभारो भरद्वाजाभिवन्दनमकरोत्।
सोऽयं प्रीतमना मुनिर्भरद्वाजो भरतं जननीजनमपि प्रत्येकमालोक्य सेनामप्याहूय यथोचितमातिथ्यमकुरुत।
तथातिथ्यं चक्रे भरतवलभाजां तनुभृतां
भरद्वाजः सोऽयं भ्रुकुटिभट कल्पाखिलसुरः।
तपस्तप्त्वा घोरं दिवि सुमनसस्तत्फलभुजो
यथा तेषां तोषं क्षणमभिलषेयुर्मुनिकृतम् ॥ 76 ॥
इति तद्दिनं दिनशतकल्पं तत्र नीत्वा मुनेर्निदेशेन सर्वे चित्रकूटवनोद्दे समविशन्।
तत्र संन्यस्तसैन्यस्तत इतो गुहेन सह राममन्विष्यन् हव्यगन्धिना गन्धवहेन धूमगन्धेन च दूरादेव विभाव्यमानम चलमृगगणमदृश्यरूपाभिवनदेवताभिरवकीर्यमाणबलिकुलुमम शेषपिशिताशनपिशाचोच्चाटनमन्त्रायमाणलक्ष्मणचापघोषश्रवणसमुचितसामीप्यप्रदेशं नूतनपरिकल्पितपर्णशालावास्तव्यवैखानसकुटुम्बि निबिरीसभूभागमनोकहशाखावलम्बमानवल्कलाजिनममर तरु शाखापचितैरभिनवपल्लवभङ्गशबलेरम्बरचर पतिपृतनागणकरकिसलयविमुक्तैर विरलैःकुसुमनिकरैरभ्यर्च्यमानजानकीनिवासतरुमूलवेदि कमालक्ष्यमाणखड्गकार्मुकनिषङ्गमतिथिजनसपर्यापर्युत्सुकसौमित्रिसमाहृतकन्दमूलफलकल्पितैकदेशमविनाभूतजनकदुहितृचरणनलिनविन्यासमपहसित साकेतरामणीयकं रामाश्रमं भरतः ससम्भ्रममभजत।
अथावासं शान्तेरकृत सुकृतानामसुलभं
नवाम्भोदश्यामं नलिननयनं वल्कलधरम्।
जटाजूटापीडं मुजगपतिभोगोपमभुजं
ददर्श श्रीमन्तं विपिनभुवि सीतासहचरम् ॥ 77 ॥
ततस्तस्योपान्ते जनकयजनाघीनजननां
ववन्दे वेदेहीं रजनिकररेखामिव नवाम्।
अरण्यानां पुण्यात्पदकमलमुद्रापरिचया-
दयोध्यासध्रीचीमविकलमवस्थां विदधतीम् ॥ 78 ॥
स्वतःसिद्धं यस्मिन्नितरदुरवापं विजयते
सुमित्रापुत्रत्वादपि जगति रामानुजपदम्।
यदीयाक्षिद्वन्द्वप्रतिनिधि भवेदम्बुजयुगं
निशीथे निर्निद्रं यदि तमपि साक्षादकृत सः ॥ 79 ॥
तदनन्तरं मरुपथे पृथुतरग्रीष्मोष्मणि दैवात्कृतोपलम्बमम्भोरुहतटाकं सुधा सारपूरितापं भूरितापः सतृष्ण इव कृष्णसारः सरमसं समुपेत्य पादयोर्निपत्य चिरं रुदन्दशरथकथां कथयित्वा मैथिलीसहिताय सलक्ष्मणाय रामाय शोकमूर्च्छां प्रायच्छत्।
वेलोल्लंघनमेतेषां शोकोदन्वति तन्वति।
अगस्त्यायितमेतस्मिन्वसिष्ठेनात्मवेदिना ॥ 80 ॥
ततः प्रतिपद्य संज्ञामनुज्ञया गुरोरमरसरिति विरचितसमुचितनिवापकृत्यं प्रणिपत्य रामं प्रतिनिवर्तयितुं भरतः प्रावर्तत।
विकर्त्तनकुलस्य यदनुकूलं गुणगणस्य यदनुगुणं यशोरूपस्य यदनुरूपं समाचारस्य यच्समुचितं प्राचीनभाग्यस्य यद्योग्यं लोक गर्हणाय यदनर्हं श्रुतस्य वा यत्सदृशं तादृशमाशयं प्रकाशयन्ती भरतोपज्ञा विज्ञापना।
तत्क्षणं क्षणप्रभाभङ्‌गुरलक्ष्मीसमावेशलक्ष्मणि क्षोणीपतिशतधृतोज्झिते मुकुटे विघटिताशं सादरं प्रणिपत्य मां पादुकाभ्यां परिष्कुरुतं युवमिति रघुवरचरणौ स्वयमेव प्रार्थ्य प्रतिश्रावयितुं स्थण्डिलशायि चरणमिव बभार भरतस्यो त्तमाङ्गम्।
त्वया मया च कर्तव्यः सत्यवाचः पितुर्विधिः।
इति प्रत्यादिशद्रामो भारतीमपि भारतीम् ॥ 81 ॥
तत्र जाबालिप्रार्थनायामपि व्यर्थायाम्।
भरतस्तदनु प्रार्थ्य लेभे लाभविदां वरः।
काकुत्स्थपादुकाकारं महार्घ मुकुटद्वयम् ॥ 82 ॥
स एष सानुजः प्रायादयोध्यां भ्रातृशासनात्।
अटवीं पितृसंदेशाद्ययौ रामः सलक्ष्मणः ॥ 83 ॥
विलङ्‌घ्य विविधान्देशान्भरतो धृतवल्कलः।
विषयं स्वमुपाश्रित्य विषये विमुखोऽभवत ॥ 84 ॥
ततश्चायं यावदार्यस्य प्रत्यागमनं तावदयोध्यां नाध्यासे। तस्मिन्नवधिमतिक्रम्य चिरायति सद्य एवाश्रयाशमाश्रित्यापि प्राणान्नन्दयिष्यामीति नन्दिग्रामसंज्ञमाश्रममशिश्रयत्।
दाशरथिरपि शमधनजनकथितनिसिचरगण रचितकदनपरिहरणाय गहनजठरमवजगाहे।
विस्तीर्णाक्षैर्विपिनहरिमैर्वीतभीतिप्ररोहै-
र्दर्भग्रासेऽप्यकृतरुचिभिः सस्पृहं वीक्ष्यमाणः।
रामः प्राप्य प्रकृतिमहितं स्थानमत्रेर्महर्षे-
र्जग्राहास्य प्रमुदितधियः प्रेमपर्यां सपर्याम् ॥ 85 ॥
सीतामप्यनसूयाभिधानास्य पत्नी स्वभूषणैस्तोषयत्।
खण्डनाय वसुधावधूमनःपुण्डरी कतुहिनत्विषां द्विषाम्।
दण्कावनमवाप राघवश्चण्डभानुरिव मेघमण्डलम् ॥ 86 ॥
इति विदर्भराजविरचिते चम्पूरामायणेऽयोध्याकाण्डः समाप्तः।
॥ इति अयोध्याकाण्ड ॥

*************************************************

.

अथ आरण्यकाण्डम्

प्रविश्य विपिनं महत्तदनु मैथिलीवल्लभो
महाबलसमन्वितश्चलितनीलशैलच्छविः।
निशाचरदवानलप्रशमनं विधातुं शरै-
श्चचार सशरासनः सुरपथे तडित्वानिव ॥ 1 ॥
तदनु कण्डूलवरशुण्डालकपोलकषणविषमि तामितविटपसालषण्डनिर्यातनिर्यासगन्धानप्यात्तगन्धान्विदधानै राहुति गन्धैरनुमीयमानानविनाभूतजलाशयानाश्रमभागानभितश्चरतोरातिथ्यश मितमार्गश्रमयो रामलक्ष्मणयोरध्वानं रुरोध विराधाभिधानो यातुधानः।
स एष रोषभी षणवेषस्त्रिशिखशि खावतंसितविविधमृगशवशतहृदयः शतहृदातनयः सीतामपजहार, व्याजहार च दाशरथी।
कौ युवां युवानौ, कुतस्त्यौ, वामाचारवत्प्रति भाति वामाचारः। चीरं वपुषि, जटाः शिरसि, करे च चण्डकोदण्डः। क्वायमाकल्पः, क्वच कल्पलताकल्पेयमनल्पाभरणा तरुणीति।
दाशरथिरपि कथितनिजान्वयो विराधाह्के वेपमानां विदेह दुहितरं विलोक्य सकोपः सौमित्रिणा साकं रक्षोवक्षसि शिलीमुखान्नि चखान।
विशिखे विशिखे तस्मिन्विधातृवरवर्मणि।
सीतां विक्षिप्य चिक्षेप शूलं रक्षो रघूद्वहे ॥ 2 ॥
तदनु शूलमखण्डयदञ्जसा शितशिखं रघुनायकसायकः।
नियतमेव विराधविरोधिनां हृतयशूलमपि त्रिदिवौकसाम् ॥ 3 ॥
विराधोऽपि क्रुधा सरभसमभिपत्य स्कन्धे निधाय रामलक्ष्मणौ गतिनिरोधा पराधपरिहाराय हिमकराहि मकरौ प्रस्थे वहन्विन्ध्य इव प्रतस्थे।
रामस्तत्र विराधवधोद्युक्तं सौमित्रिमेवममिदधे।
या तु नः पदवी सैषा यातुमश्चास्य लक्ष्मण।
यातुकामं तयैवेदं यातु कामं न हन्यताम् ॥ 4 ॥
अयि कवलय माममू विमुञ्चेत्यतिकरुणं रुदतीमवेक्ष्य सीताम्।
अरमरचयतामुभावसिब्यां पिशितभुजं भुजभारहीनमेनम् ॥ 5 ॥
ततस्तीक्ष्णतर प्रहरणगवाक्षितवक्षसा रक्षसा न परित्यक्तेषु प्राणेषु पराक्रमाविषयपराक्रमौ प्राक्रमेतामेतौ तदङ्गगलितरुधिरधारासेकेन खननक्षमायां काननक्षमायां राक्षसशवोचितम वटमतिविशङ्कटमुत्पादयितुम्।
तत्क्षणमेव क्षणदाचरोऽपि संजातप्रत्य भिज्ञो रामाय व्यजिज्ञपत।
आत्मनो गन्धर्वकुलसंभवं रम्भापरि रम्भणारम्भसंरम्भं तच्छ्रवणकुपितवैश्रवणदत्तां रक्षोरूपिणींशापव्यापदं तस्यास्तथाविधमवसानम् च।
रक्षोवधः प्रकृत इत्ययमेव शंसेत्
स्वर्गाय गायकपदं गमितो विराधः।
नागालयाय वपुरस्य वदेदितीव
श्वभ्रे तदक्षिपदिषुप्रहतं स रामः ॥ 6 ॥
तदनु नाकलोकभजनाय पुरुहूतेन समाहूतस्य भगवतः शरभङ्गस्याश्रमपदं रघुपतिरभजत।
तत्र–
दशशतनयनेऽपि वीक्ष्यमाणे दशरथपुत्रसिषेविषैव जाता।
मनसिजशरभङ्गकारिवृत्तेर्मनसि मुनेः शरभङ्गनामभाजः ॥ 7 ॥
स मुनिराश्रमस्थं काकुत्स्थमातिथ्येन समाराध्य तत्सान्निध्याच्छुद्धांमन्त्रपूता माहुतिमि वात्मतनुं अतनूष्मणि तनूनपाति पातयित्वा शाश्वतं पदं समाश्रितवान्।
ततस्तीक्ष्णतपसः सुतीक्ष्णस्य निदेशेन देशात्तस्मादुच्चलितः सलिलनिधिपानसम्भावितजीवनाभावशङ्कया शरणाश्रयणाय लम्बमाननीलाम्बुदकुटुम्बसन्देहावहेन नानानोकहनिवहेन पिहिताभोगमगस्त्याश्रमं रामः ससम्ब्रममाससाद। अकथयच्च मैथिलीम्।
तस्येदमाश्रमपदं सरसीरुहाक्षि
संख्यविहीनमहिमैकनिकेतनस्य।
भर्ता समस्तसरितां कुपितस्य यस्य
हसतारविन्दमकरन्ददशामवाप ॥ 8 ॥
इह समदगजेन्द्रन्यस्तहस्तातिभारात्-
पथि नियमितशाखः सल्लकीवृक्ष एषः।
अभिनयति निकामं संगतोच्च्रायहानि-
र्मुनिवरकरपाताद् भुग्नविन्ध्याद्रिमुद्राम् ॥ 9 ॥
अस्मिन्महापथधिया वदनं विगाह्य
निर्गन्तुमक्षमतया जठरे लुठद्भिः।
वन्यैर्गजैरजगराः पिशिताशनेभ्यो
वातापिदानवदशामुपदेशयन्ति ॥ 10 ॥
किञ्च–
चुलु कगतसमुद्रास्वादने कुम्भयोने-
रितरकरनिरस्ता मक्षिकोत्साररीत्या।
गगनगतिविहीना ये घनाः पल्वलान्ते
विपिनमहिषवेषैः केवलं ते वलन्ते ॥ 11 ॥
एवं विपिनविलोकनविस्मितमतिस्तदुट जनिकटमासाद्य रामः शिष्यैः प्रवेशितः सकललोकवन्द्यमानचरणारविन्दमर विन्दसम्भवमिव वृन्दारकैर्मुनिवृन्दारकैश्च परिवृतं कोपहुंकारनिरहङ्काराय नहुषाय भुजङ्गभावदूषिताय दत्तभुजङ्गभावं खगगतिनिरोध कल्य वैपुल्ययोर्दुरवगाहमहावनयोविन्ध्यशैलसिन्धुराजयोर्गाधतागाधतातस्करकरोदर मुदरजातवेदोविरचितवातापिदानवाव लेपलोपं लोपामुद्रावल्लभं सकलसरिद्वल्लभनिःशेषीकरणवाडवं वाडवप्रशस्तमपास्तसमस्ताशमप्युपगतदक्षिणाशं वृषैकतानजन्मानमपि कुम्भजन्मानं भगवन्तमगस्त्यमपश्यत्।
प्रभामिवार्कीं तमसां निहन्त्रीं ब्राह्नीं दधानं नियमेन लक्ष्मीम्।
तपोनिधिं शौर्यनिधिः प्रसन्नः स्वनाम संकीर्त्य ननाम रामः ॥ 12 ॥
ततः परमहर्षेण महर्षिणा प्रणीताभिराशीभिः सह मुरशासनशरासनं सरसिजासनास्त्रं सौत्रामणं तूणीरयुग्मं रुक्ममयकोशं खड्‌गं च प्रतिगृह्य तदाज्ञया गोदावरी तटनिकटप्रकटितां पञ्चवटीमसेवत।
तत्र विस्तृतपक्षद्वन्द्वमप्यप्रति द्वन्द्वं शौर्यावस्था प्रत्ययं कृतापरोक्षमिव तार्क्ष्यं महामहीध्रकल्पं गृध्रराजमद्राक्षीत्।
पानेन हीनजलमब्धिमपास्य नूनं
मैनाक एष मुनिमाश्रयतीति जाताम्।
शङ्खामिमां रघुपतेः कथितात्मवंश-
स्त्वत्तातमित्रमहमित्यहरज्ज्रटायुः ॥ 13 ॥
रामस्तु दशरथमिव तं पश्चन् काश्यपसंभूतं संपातेरनुजमनुजरचितपर्णशालः पञ्चत्रटयां कञ्चित्कालं गमयामास।
अथ कदाचिदुपचीयमानमनोभववैभवः पाककपिश कलममञ्जरीपुञ्जपिञ्जरीभूतकेदारप्रपञ्चः पञ्चबाणरणप्रयाणोचितवीरपाणवत्पत्रपुटपात्रदृश्यावश्यायबिन्दुसंदोहश्चन्द्रातपे निरानन्दतां चन्दनानुलेपने निर्लोलुपतां चन्द्रशालायां निराशतां चन्द्रोपलस्थले निरास्थतां वातायनसेवने निरुत्सुकतां वापीकूपोपकण्ठे निरुत्कण्ठतां वासरावसानेऽनादरतां वारिविहारे निराकाङ्क्षतामुत्पलमालायामुपेक्ष्यतामुपवनभजनेऽप्युद्विग्नतां च जनानां जनयन्गम्भीराभोगगर्भगृहस्य च घनेष्टकारचितभित्तेरश्लक्ष्णतिरस्करिणईपटलस्य च शशोदररोममृदुकम्बलस्य च कालागरुधूमस्य चकाश्मीराङ्गरागस्य च निर्धूमाङ्गारभरितहसन्तिकायन्त्रस्य च सुभगंकरः, रेणु कणायमानतुषारधूलिधूसरवासरः सरसीरुह दावपावकस्तुहिनब्रणितला सिकाधरदलदूरीकृतदंशकृत्यः प्रक्षीणतारुण्यपण्याङ्गनाङ्गवत्प्रयातसौभाग्यप्रपासन्निवेशस्तालवृन्तविश्रान्तिकालः कामिनीस्तनभरगिरिदुर्गसीम्नि निर्भयनिलीननिदाघभावोदिवाभीतव्रातस्याप्यनतिभयंकरदिवाकरश्चकोरनिकरस्याप्यनतिक्षेमङ्करसुधा करः कादम्बकदम्बस्याप्यनतिप्रियं करकमलाकरः कृतकरयुगलस्वस्तिकाबन्धनतया नीहारातङ्कशङ्कया हृदयकमलमिव गोपायन्तमश्रान्तदन्तवीणाव्यापारवेपमानाधरपुटतया शीतिकापिशाचिकानिर्हरणाय निपुणं मन्त्रजपमिव कुर्वन्तमविरलपुलकपालीककम्बलितकलेवरतया सकरुणविधिवितीर्णरोमकम्बलकृताङ्गरक्षमिव भिक्षामटन्तं दुर्गतवर्गं निर्घुणा फदाचिदपि कमलानालो कितवतीति तस्यै सासूय इव तदीयावासताम रसं सपत्रकोसं विनाशयन्गगनमतङ्गजकरपुष्करोत्थि तशीकरनिकराकरैरतिपरुषस्मरशरता पप्रतप्रगगनाङ्गनाङ्गस्रव त्स्वेद सदृक्षैर क्षीणहिमप्रकरैरध्वगान्तःकरणानि सीमन्तयन्हेमन्तसमयः समुदजृम्भत।
यत्र कान्ता न पश्यन्ति क्लान्ता विरहवह्निना
निशावसानवेलां च वेलां च व्यसनाम्बुधेः ॥ 14 ॥
तत्र पर्णशालामध्यमध्यासीनं लक्ष्मणाग्रजमु पससाद शूर्पणखा।
तस्मिन्नुज्जृम्भितोष्णस्तनतनतटदयिताहीनसंहारकाले
काले प्रालेयधाराकवचितगगनाभोगदिक्चक्रवाले।
कामान्धा राक्षसी सा पतिमतिमतनोन्मैथिलीप्राणनाथे
लक्ष्मीलीलारविन्दे नवपिशितधियं तन्वती श्येनिकेव ॥ 15 ॥
ततस्तेन जानकीजानिरिति जानीहि जनमिमं ममानुजमतिमनुजबलमबालमबलावियुक्तं युक्तमाश्रयितुं तवेति रामेण प्रत्याख्याता सौमित्रिमुपेत्य यथामनीषितमभाषत।
तेनापि भद्रे! तस्य दासोऽहं दासभार्यापदमनार्यं नन्वार्यायाः कुलजातायास्तस्मात्तमेव भजेथाः।
अक्रूरसत्त्वां भयानककाननसञ्चाराचतुरां विहाय वैदेहीं तत्रभवतीमेवासौ परिग्रहीष्यतीति लक्ष्मणेनाभिहिता वीतमतिः सा तदीयं वचनमनुमतममनुत।
दशरथात्मजयुग्मनिरीक्षणक्षणसमाकुलबुद्धिरियं दधौ।
उभयकूल समस्थितशाद्वलभ्रमगतागतखिन्नगवीदशाम् ॥ 16 ॥
वृषस्यन्ती वृषस्कन्धं राघवं रावणानुजा।
भूयः शूर्पणखा भेजे शूर्पकारातिबाधिता ॥ 17 ॥
तदनु जनकदुहितुरनितर युवतियोग्यं भाग्यं रामस्य रूपरामणीयकं च निरूप्य पुनरेवमचिन्तयत्।
लावण्याम्बुनिधेरमुष्य दयितामेनामिवैनं जनं
कस्मान्नासृजदस्मदन्वयगुरोरुत्पत्तिभूः पझभूः।
आस्तां तावदरण्यवासरसिके हा कष्टम स्मिन्निमां
कान्तिं काननचन्द्रिकासमदशां किं निर्ममे निर्ममे ॥ 18 ॥
सीतामाहर्तुकामामसुलभविषयप्रार्थनोद्दामकामां
सौमित्रिः शस्त्रपाणिर्दशमुखभगिनीं तामनार्यां निवार्य।
कामक्रोधात्म कानामहमहमिकया प्रेङ्खतामायतानां
तस्याः श्वासानिलानामकुरुत तरसा मार्गविस्तारकृत्यम् ॥ 19 ॥
ततस्तस्या निकृत्तकर्णनासिकायाः कानीयस्याः परिभवं वदने वचने च दृष्ट्वा श्रुत्वा च जनस्थानवर्ती समरमुखमुखरः खरश्चतुर्दशसहस्र संख्याकशाखं चतुर्दशाध्यक्षरक्षितं रक्षोबलं रामलक्ष्मणौ जिघृक्षुः प्रेषयामास।
अथ दाशरथिर्निरीक्ष्य दिक्षु रक्षोगणमुपसर्पन्तमपसर्पभूतया शूर्पणखया दर्शितसरणि मरणिरिव मन्थनात्पूर्वम नाविष्कृततेजः प्रसरः सीतारक्षणे लक्ष्मणमादिश्य यातुधानवधं तथाविधम करोत्।
यथा तपोधननिधनकरकरनिकुरुम्बमदिं परुषभाषणस्पृहयालुतालुजातमिदं परदारनिरीक्षणनिरपत्रपनेत्रवृन्दमिदं तापसावसथचारणचतुरं चरणयुगलमिदमिति निशिततरनिज शरश कलीकृतनिशि चरशरीरा वयवानाहृत्याहृत्य प्रत्युटजं प्रदर्शयद्भिस्तपोधनाध्वसुद्धिं विधद्‌ध्वमिति गृध्रराजनिदेशादिव देशान्तरा दापतद्भिः काङ्कका कप्राचीकप्रायैः पतद्भिरनवकाशमभूदाकाशम्।
ततो निकृत्तशिरसि त्रिशिरसि विस्रगन्धिना शरीरस्रुतवसास्रोतसा प्रेत्यापि क्रियमाणाश्रमदूषणे दूषणे च रोषभीषणवीक्षणखरः खरो राघवमाहवायाह्वयत।
तत्र विपश्चिद्भिरप्यनिश्चीयमानजयापजय मनिमेषैरप्यननुसन्धीयमानशरसन्धानमोक्षमभूदभूतपूर्वं द्वन्द्वयुद्धम् :
ततः खरो गृहीतकोदण्डः सकृदनुभूयमाननमनोन्नमनायासः समरसमापन चतुरं चतुराननास्त्र सन्धानदशाह दाशाहशरासनं ग्राहायतुकाम इव रामहस्तात्प्राक्तनं चापं शरैरपजहार।
सोऽपि कोपपावकेन पावकिताननः कुम्भसम्भवदत्तं धनुराधत्त।
खरपरुषि शरासने गृहीते खरकिरणान्वयशेखरेण तेन।
खररघुवरयो रणं समाप्तं खरनखरायुधयोरिव क्षणेन ॥ 20 ॥
खरवधपरिशुद्धे दण्डकारण्यभागे
मुनिभिरभिहितानामाशिषां तादृशीनाम्।
स्वयमचरमपात्रं स्वैर्गुणैर्मन्थराऽभू-
त्तदनु मनुकुलेन्दुः सानुजः शौर्यराशिः ॥ 21 ॥
तथाहि–
प्राग्मन्थरेति महिषीति वरद्वयीति
धर्मव्ययव्यथितभूपतिभारतीति।
काकुत्स्थकाननकथेति च सन्ति संज्ञाः
पौलस्त्यही नभुवनत्रयभाग्यपङ्क्तेः ॥ 22 ॥
अथ शूर्पणखा लङ्कामपि जनस्थानमिव विजनस्थानं काकुत्स्थेन कारयितुं दशकण्ठोपकण्ठे कृत्येव निपत्य रामलक्ष्मणयोर्याथातथ्यं वदेह्या देहसौन्दर्यं खरप्रमुखैः साकमनीकस्य चतुर्दशसहस्र संख्याकस्य पञ्चताकरणकारणभूतामात्मावज्ञां च विज्ञापयामास।
स दण्डकायां कृतदण्डकायां स्वसारमेनां प्रथितस्वसारः।
निशाम्य रामस्य निशम्य वृत्तं चक्रे रुषं राक्षसचक्रवर्ती ॥ 23 ॥
ततः प्रस्थाप्य जनस्थाने राक्षसानष्टौ नष्टनीतिरयं ताटकेयं हाटकमृगं पुरस्कृत्य सीताह्वां हरिणीं ग्रहीतुं तस्यावसथमाससाद।
मारीचोऽप्याकर्णितरावणमतः प्रयत्नशतैरप्यनिवार्यमाणे तस्मिन्सुबाहुमेव बहुमन्यमानो गत्यन्तराभावात्तदभ्यर्थनामङ्गीकृत्य जातरूपमयमृगरूपं गृहीत्वा सीतां वञ्चयितुं पञ्चवटीमगाहत।
दशमुखोऽपि जलधरपथस्थापितरथो दाशरथिविघट्टने कृतास्थस्तस्थौ।
विपिनमवजगाहे राक्षसानां करोटी
रसकृदसकृदाविर्वाष्पमालोक्य शोचन्।
कृतरुचिरिव वर्त्मन्यङ्कशानां कुशानां
पथिकचरणलाविन्यङ्कुरे न्यङ्कुरेषः ॥ 24 ॥
तदनु जनकपुत्रीयाच्ञया तं जिघृक्षु-
हरिणमनुजगाहे चापमादाय रामः।
समय इति च भेजे वक्त्रमातत्य मृत्युः
कुशिकसुतमखाजौ भ्रष्टमेनं जिघांसुः ॥ 25 ॥
आकृष्य दूरमुटजादथ दर्शिताशः
क्रव्याश एष रघुनाथशरेण विद्धः।
कार्तस्वरैणतनुतां विजहौ हतोऽस्मी-
त्यार्तस्वरेण सह रामवचोनिभेन ॥ 26 ॥
एतदाकर्ण्य विदीर्णहृदया हृदयदयितप्रेम्णा कर्तव्याकर्तव्यमजानाना जानकी जानीहि भ्रातरमिति सौमित्रिमादिदेश।
तत श्चार्ये, न कार्यमिदमादिष्टम्। दिष्टदोषान्मिथ्याप्रतीतिः परिभवति भवतीं परम्।
त्रिभुवनैकधनुर्धरस्य शौर्यराशेरा र्यस्य कः श्रद्दधीत कोण पघुणनिमित्तां विपत्तिमिति प्रणिपत्य प्रत्याचक्षाणं लक्ष्मणं हृदयतोदकारिण्या वाण्या मोहविह्वला सा बह्वतर्जयत्।
भूयोऽपि लक्ष्मणः प्रजावतीं परुषभाषिणीमेवमभाषत।
सुमुखि! मम सुमित्रा सत्यमम्बा यदासी
स्तदभजमवितर्कं मातृसम्पर्कसौख्यम्।
अहह विधिविपाकाद् व्याहरन्ती दुरुक्तिं
त्वमसि विपिनमध्ये मध्यमाम्बा हि जाता ॥ 27 ॥
इत्युक्त्वा भ्रातृसमीपगामिनि लक्ष्मणे तत्क्षणमेव रन्ध्रान्वेषी दशकन्धरः स्यन्दनं विहाय विहायः स्थलादवतीर्य निजान्तः करणेऽप्यमान्तं रागं बहिः प्रकटयन्निव कपटसंन्यासिवेषः पर्णशालाभ्यर्णमासदत्।
रामाश्रमाद्विगतलक्ष्मणसन्निधानात्
सीतां जहार चपलः पिशिताशनेन्द्रः।
मालां नवोत्पलमयीं पललभ्रमेण
देवालयादिव निरस्तजनादलर्कः ॥ 28 ॥
हा नाथ। क्व चिरायमसीति बहुशो व्याक्रुश्य बाष्पाविलं
चक्षुर्दिक्षु विमुञ्चतीं दशरथस्याद्यामवेक्ष्य स्नुषाम्।
रे रे राक्षस मा वधूं प्ररूदतीं मुञ्चे ति गृध्राधिपो
रुद्‌ध्वाद्वानमनल्पकोपमकरोदग्रेवणं रावणम् ॥ 29 ॥
समभूत्समये तस्मिन्समरं समरंहसोः।
मिथोमथनसंक्रुद्धगृध्रराक्षसराजयोः ॥ 30 ॥
दशमुखरथमाशु ध्वस्तरथ्यं विसूतं
शिथिलतरवरूथं शीर्णचक्रं स चक्रे।
गरुदभिहतशक्तिप्रास बाणासखड्ग-
त्रिशिखविशिखतूणीपाशकुन्तः शकुन्तः ॥ 31 ॥
राक्षसासिक्षतः क्षिप्रं पपात पततां वरः।
मैथिलीपक्षपातेन पक्षपात मवाप्य सः ॥ 32 ॥
तत्क्षणमन्यरथाघिरूढेन रावणेन भूयोऽपि नीयमाना जानकी श्रृह्गसङ्गतप्लवङ्गपञ्चके पञ्चचूड इव क्ष्माधरे कस्मिंश्चित्सुप्रीवसात्कृतदशग्रीवप्रतापानलसदृशं वालिविनाशपिशुनमहोल्कापातप्रतिमं रामसाहाय्यकप्रोत्साहनाय पुत्रमभिपतत्पतङ्गबिम्बशङ्कावहं कनकपिशङ्गकौशेयमयोत्तरीयान्तरितमाभरण जालमपातयत्।
तत्पतनमपि स्वतेजः पतनमिव नालक्षयंल्लङ्कालङ्कारभूतामशोकवनिकां मैथिलीमनय दनयाभिज्ञो दशग्रीवः।
अशोकवनिका लेभे राक्षसीपरिवेष्टिताम्।
सीतां मारुतिबालाग्निस्तम्भनार्हामिवौषधिम् ॥ 33 ॥
काकुत्स्थोऽप्यथ रक्षसामधिपतेर्वाग्वागुरावेष्टिते
कृत्वा हाटकताटकेयहरिणे शार्दूलविक्रीडितम्।
आगच्छन्ननुजेन तत्र गदितामाकर्ण्य वार्तां ततः
सीतासङ्गमलालसस्तदुटजं रामः प्रतस्थे द्रुतम् ॥ 34 ॥
अयं कथं स्यादिति बाष्पगर्भमालोक्यमानो वनदेवताभिः।
विलोकयन् केवलपर्णशालां विनष्टचेता विललाप रामः ॥ 35 ॥
हा कष्टमत्र न हि सा किमिदं प्रवृत्त-
मालोकयामि चटुलामिह पादमुद्राम्।
मां वीक्ष्य नूनमगृहीतमृगं मुहूर्त-
मन्तर्हिता तरूषु रोषवतीव सीता ॥ 36 ॥
त्वदभिलषित पूर्त्या वञ्चितः पञ्चवटया-
मचरमचरमोऽहं मोहभाजां प्रजानाम्।
तदिह सरलबुद्धे! नैष रोषस्य कालः
सुमुखि! मम मुखं किं सोढसीतावियोगम् ॥ 37 ॥
यद्यस्ति कौतुकमपूर्वमृगो मृगाक्षि!
चान्द्रं हरामि हरिणं मम सन्निधेहि।
यावन्न मुञ्चसि मया हृतमेणमेनं
तावद्दधातु तव वक्त्रतुलां मृगाङ्कः ॥ 38 ॥
सप्राणा चेज्जनकतनया किं न तिष्ठे त मह्यं
हिंस्रैः सत्त्वैर्न खलु निहता रक्तसिक्ता न पृथ्वी।
गोदावर्या पुलिनविहृतिं रामशून्यान कुर्या-
द्युक्तं नक्तञ्चरकवलनात् संस्थिता सर्वथा सा ॥ 39 ॥
लोकान्तरप्रणयिनं श्वशुरं प्रणन्तु-
माज्ञप्रतकालमतिलङ्घय यदि प्रयासि।
विज्ञाप्य मामपि समाङ्वय साध्वि! तस्मै
सोमित्रिरेव भरते निदधातु राज्यम् ॥ 40 ॥
इत्थं विलप्य दयितां विपिने विचिन्वन्
रामो न तत्र धृतिमान्न च लक्ष्मणोऽपि।
तादृग्विधामपि कथां कथयन् स्ववाचा
वल्मीकजन्ममुनिरेव कठोरचेताः ॥ 41 ॥
ततः प्रारभमाणप्रयाणान् प्राणानवष्टभ्य जटायुस्तत इतः क्रियमाणसीतान्वेषणं सलक्ष्मणं राममालक्षयन्नवोचत।
आयुष्मन्! मां खड्गविक्षतपक्षतिं क्षितितले निक्षिप्य क्षिप्रमपजहार मैथिलीं रावण इति।
स्वयमपि शरभङ्गस्वीकृतां भङ्गहीनां
सपदि गतिमवाप्तः संहृतायुर्जटायुः।
नयनसलिलमिश्रं रामहस्तेन दत्तं
दशरथदुरवापं प्राप नैवापमम्भः ॥ 42 ॥
अथ दक्षिणारण्यानीं प्रति प्रस्थिते काकुत्स्थे राक्षसी काचिदयोमुखीनाम सौमित्रिमभिभूय तदीयेन शस्त्रेण शूर्पणखासिद्धिमभजत।
ततः क्रौञ्चारण्यसरण्या प्रयातावेतौ महर्षेः स्थूलशिरसः शापात् कोणपतां प्रपन्नः पन्नगपतिभोगभीषणाभ्यां भुजाभ्यां बबन्ध यथार्थनामा कबन्धः।
तदनन्तरमनश्रुपात्रेषु राक्षसीनेत्रेषु सदोत्पादिततरवारिभ्यां रामलक्ष्मणयोस्तरवारिभ्यां कबन्धबाहुयुगलं कदलीलावमलूयत।
तदनु तनुकबन्धेनादरादर्थितौ तौ
गिरितटभुवि देहं देहतुस्तस्य भीमम्।
अकथयदथ शापापायतुष्टः स रामं
तपनतनयमैत्र्या मैथिलीं प्राप्नुहीति ॥ 43 ॥
तस्मिन्नृष्यमूकमार्गमुपदिश्य स्वर्गं गते मतङ्गाश्रमवासिन्या तपस्विन्या शबर्या कृतां सपर्यां परिगृह्य रामस्तदनुज्ञया मनोज्ञविविधविहगकूजितं मृगगणविहरण मनोहरं गहनपदमवगाह्य व्याकोशकुशेशयपरिचयकषायैर्वनदेवतालतादेलानुकूलैः कूलायतलीलापरवशवशावल्लभमदाम्बुचुम्बिभिः शम्बरारातिशरधिसदृश तटरुहसहकारशिखरविसरदासवासारशी करशेखरैर्विविधलतालासिकालास्योपदेशदेशिकायमानैः कायमानसमानाभोगलतागृहकेलिलुब्धलुब्धक पुरन्ध्रीशिथिलधम्मिल्लमल्लिकागन्धमांसलैर्मल्लिकाक्षपक्षविक्षोभक्षोदीभूतपाथः पाथेयैस्तटवनपवनैरनुकम्प्यमानः पम्पामभजत्।
इति श्रीमद्विदर्भराजविरचिते चम्पूरामायणे श्रीमदरण्यकाडः समाप्तः।
॥ इथि आरण्य काण्ड ॥

*************************************************

.

अथ किष्किन्धा काण्ड

स तां सतां बुद्धिमिव प्रसन्नां पम्पां वियोगज्वरजातकम्पः।
विलोकयंल्लोकनिविष्टकीर्तिरार्तिं रघूणां प्रवरः प्रपेदे ॥ 1 ॥
ततस्तस्यास्तटवने नानानोकहनिवहपरिष्कृते निभृतेतर भ्रमणपरभृतव्रातचञ्चूमयविपञ्चीसमुदञ्चितपञ्चमाञ्चिता सन्तताकुञ्चितपञ्चशरशरासनवञ्चितपथिकजनसञ्चारप्रपञ्चा प्रमदचञ्चलचञ्चरीककुलकञ्चुकितमाधवी माधवी भूतिरुदजृम्भत।
यत्र कान्तैर्वियुक्तानां युक्तानामपि सुभ्रवाम्।
दोलाकर्म वितन्वन्ति मनांसि च वपूंषि च ॥ 2 ॥
करतल रपचायमथेक्षणैरपचयं च वनेषु जनेषु च।
सुमनसां मनसामपि यद्दिदेने विरचयन्ति विलोलविलोचनाः ॥ 3 ॥
तस्मिन्नसमशरसमरसमये पम्पां समया पर्यटन् पर्याकुलहृदयो हृदयदयितां हृदि लक्षयंल्लक्ष्मणमिदमभाषत।
आधौ सिद्धौषधिरिव हिता केलिकाले वयस्या
पत्नी त्रेतायजनसमये क्षत्रियाण्येव युद्धे।
शिष्या देवद्बिजपितृसमाराधने बन्धुरार्तौ
सीता सा मे शिशिरितमहाकानने का न जाता ॥ 4 ॥
मलयगिरिचरोऽयं मन्मथाथोरणाज्ञा-
मथितपथिकवर्गो मारुत व्यालहस्ती।
विरचयति मदीये शैत्यसौरभ्य मान्द्यै-
स्त्रिविधमदसमृद्धो मानसे वप्रलीलाम् ॥ 5 ॥
ततो दुःसहविरहकृशानुकृशानुभावं भावसंधुक्षणविचक्षणलक्ष्मणवचनधार्यमाणधैर्यं राघवमग्रतः सुग्रीवो विलोक्य वालि प्रहितापसर्पधिया सुदूरमपससर्प।
स तु संमन्त्र्य मन्त्रिभिस्तयोराशयम वजिगमिषुः प्रभञ्जनात्मजं प्राहिणोत्।
तपनपवनयोर्यः प्राप्तवान् पुत्रभावं
शतमखकृत पालिर्विद्यया जन्मना च।
स तु दशमुखकीर्तिस्तोमसोमस्य पक्ष-
श्चरम इव तनूमान् प्राप रामं हनूमान् ॥ 6 ॥
स एवं स्वीकृत भिक्षुवेषः सविनयमेतावाबभाषे।
भवन्तौ कान्ताकारौ कान्तारं कथमिदमवातरताम्।
विचित्रतरजिष्णुकोदण्डमण्डितावपि दिनस्यास्य सुदिनत्वाद्भवन्तौ न जीमूतौ।
जटावल्कलयुतावपि जङ्गमत्वाद्भवन्तौ न कल्पवृक्षौ।
तमोपहालोक कलितावपि यौगपद्य भास्वरतेजःसान्निध्याद्भवन्तौ न पुष्पवन्तौ।
कुशस्तम्भेऽपि संभूतं सौरभ्यमिव भासते।
तपोवेषेऽपि सौन्दर्यं युवयोर्युवयोगिनोः ॥ 7 ॥
युष्मद्वार्तासुधास्वादलुब्धयोः श्रोत्रयोः सुखम्।
स्वयमेव ग्रहीतुं मे जिह्वा प्रह्वा प्रवर्तते ॥ 8 ॥
कश्चिदस्ति समस्तवानरपतिः सुग्रीव इति।
तेन भ्रातृभयादृष्यमूकमुपाश्रितेन युवाभ्यां समं सख्यमिच्छता प्रेषितं हनूमदमिधानं भिक्षुरूपच्छन्नं वानरमिमं जनमाञ्जनेयं प्रभ़ञ्जनसंजातं जानीतमिति।
ततस्तदीयं वचनमाकर्ण्य कर्णयुगलसुधावर्षि देवर्षिप्रतिमो दाशरथि स्तमुपाश्लिष्य तद्दर्शितेन पथा विरचितभुवनसौख्यं सख्यं तपनतनयेन साकमग्निसाक्षिकमकरोत्।
योगं वितन्वति हनूमति राघवस्य
वैवस्वतेन हरिणा समवर्तिना च।
मेने विधिर्घटयितुं कपिमिन्द्रपुत्रं
वैवस्वतेन हरिणा समवर्तिना च ॥ 9 ॥
ततस्तत्क्षणसम्भूतविस्रम्भाय प्रतिश्रुतवालिवधाय कथितनिजमन्मथदशाय दाशरथये सुग्रीवो दशग्रीवनीयमानसीतापातितानि कानिचिदाभरणान्यदर्शयत्।
प्रत्यर्पितानां कपिपुङ्गवेन रामः स्वकान्ताधृतभूषणानाम्।
संस्कारहान्या परिधूसराणां प्रक्षालनं बाष्पजलैश्चकार ॥ 10 ॥
ततः सौमित्रिभणितनिर्बन्धसन्धुक्षितधैर्येण रामेणानुयुक्तो बालिवैरकारणं भानुसूनुरित्थमकथयत्।
पुरा `खलु’ निखिलरिपुकुलतिमिरनिचयमरीचिमालिनं बालिनं मायावी नाम दानवः कश्चन दुन्दुभेर्भ्रता युद्भाय रुद्‌ध्वा तद्ल चलितधृतिरुरगनगरकुहर मगाहत।
तदनु गुहां गाहमानेन मानशालिना हेम मालिना वालिना बिलमुखपालनाय निहितस्तस्योत्थानवेलां परिपालयन्नहं चिरकाले व्यतीते फेनस्त्यानं मांस विसृतमसृक्पूरमवेक्ष्य भ्राता मे निहत इति निरचिनवम्।
तदनु विपुलोपलपटलपिहितबिल मुखस्तस्मै दत्त्वा स्वयमुदश्रुरुदकं नैवापमवापं शोकान्धः किष्किन्धाम्।
अथ विदितवृत्तान्तैरमात्यैरभिषेचिते मयि वाली मायाविनं निहत्य खरतरभुजपरिघविघट्टितबिलवदनपिधानस्तरसा रसातलात्पुरं प्रविष्टोऽतीव रुष्टः प्रभ्रष्टा शयं बहुशः प्रणिपतन्तं प्रतिपादित याथातथ्यममुं जनं निरागसमपि नगरान्निरकासयत्।
तदनु तदनुधावनात्कान्दिशीकस्य मम प्रवतेऽस्मिन्नकुतोभयसञ्चारकारणमाकर्ण्यताम्।
पुरैकदावालिन मतनुभुजबलमखिलकुलाचलचारनचतुरं चतुरर्णवलङ्‌घनजङ्‌घालं दुन्दुभिर्नाम वृन्दारकारिर्लुलायकायः परिभूय समरे समतिष्ठत।
तदनु निहतस्य तस्य शरीरं वाली बलावलेपेन सकललोकविलयविलोलदनिलचलितलघुतूललीलया मतङ्गाश्रमक्षितौ क्षिप्रमक्षिपत्।
तत्र वालिकरनुन्ननिष्पतद् दुन्दुभि प्रभवरक्तविन्दुभिः।
पाटलं तदभवन्मुनेर्वनं तस्य वक्त्रमपि रोषपाटलम् ॥ 11 ॥
ततो मतङ्गशापबलादवालिवश्यमृष्यमूकं विमृश्यास्मिन्विस्मृतपुरनिवाससुखे मयि सुचिरं निवसति सति।
अयमसुखयदेवं देव! धीमान् हनूमान्
रिपुरिति भवतोऽपि त्रस्तमस्तौजसं माम्।
दवहुतवहधूमस्तोम इत्यम्बुवाहा-
च्चकितमिव मयूरं मारुतो वारिशीतः ॥ 12 ॥
श्रुत्वाऽथ रामः शोकोदग्रां सुग्रीवगिरम्, यद्येवं महाभाग। मा भैषीः। मम शिलीभुख एव वलीमुखस्य तस्यासून्कालक्षेपमपास्य पास्यति’ इत्युक्त्वा तत्प्रत्ययार्थं पादाङ्गुष्ठेन प्रेरितदुन्दुभिकलेवर भरस्तत्कर्मणाप्यतृप्तस्य सुग्रीवस्य प्रार्थनया सप्त भुवनस्तम्भसम्भावनया किल सप्तधा धात्रा प्रवर्ध्यमानपरिणाहारोहान् सप्तसालान विधेययातुधानकुल वधविधायकेन सायकेन विव्याध।
सोऽयं सायको निकटगिरिकटमपि पाटयामास।
निर्भिन्नसालकटकोऽस्मि यथा तथा त्वं
पौलस्त्यसालकटकं युधि पाटयेति।
ऊचे शिलादलनजातरवेण नूनं
तस्मै वलीमुखवराय शिलीमुखः सः ॥ 13 ॥
ततस्तत्प्रत्ययादाहूतेन पुरुहूततनयेन सार्धं तस्य तलातलयुद्धे प्रवृद्धे सुजनदुर्जनयोर्भेदं रूपतोऽपि विवेक्तुमक्षमतया सदसि वाचंयमतामुपेत इव वाग्मी तयोरप्येकवेषकर्मणोर्भेदमनवगच्छन्नमुक्तशरोऽभूद्दाशरथिः।
सुग्रीवस्तु वालिवलासहतया लब्धदैन्यो वदान्य इव राममार्गणापातमार्गे चक्षुर्विक्षिपन्नपगतधृतिः सुदूरमपासरत्।
तमेनमृष्यमूके मूकवत्त्रपया निषण्णं विषण्णहृदयं दयालुरालोक्य त्रैलोक्यैकधन्वी रामस्तद्भेदमवगन्तुकामः कामप्यभिज्ञानमालां सुग्रीवग्रीवायां बाणनिवारणनिपुणां सिद्धौषधिमिव बद्‌ध्वा बूयोऽपि वालिनमाहवायाह्वयेति तमादिदेश।
पुनरप्यवाप्य किष्किन्धां पर्जन्य इव गर्जति तस्मिन्सुत्रामपुत्रस्ताराभिहितां हितोक्तिमतिक्रम्य दुरतिक्रमतया नियतेः समारब्धसमरो दाशरथेनिशिततरशरशकलितनिजविशालबक्षःस्थलः क्षितितले निपपात।
अथ विदितवृत्तान्ता सन्तताश्रुनिष्यन्दकलुषित तरतारा तारा नग रान्निर्गत्य वारिवारितं वारणयूथपतिमिव निर्भयनिरीक्ष्यमाणसुग्रीवमुद्‌गतग्रीवमुत्थातुमक्षमतया क्ष्मातलार्पितकूर्परयुगलं गलदसक्प्रसरशारशरीरं शरासनशिखर न्यस्तहस्तेन सन्निकर्षस्थितेन काकुत्स्थेन कृतसंलापमपेताडम्बरमिवाम्बु निधिमस्तोन्मुखमिव मयूखमालिनं वालिनमालिङ्गय स्वाङ्कोत्तंसिततदुत्तमाह्गा रघुनाथमित्थमकथयत्।
कारुण्यं निरवधि यत्तव प्रसिद्धं
शीतांशोः सहजमिवार्तिहारि शैत्यम्।
तत्सर्वं मनुकुलनाथ! रम्यकीर्ते!
मत्पापात्कथय कथं त्वया निरस्तम् ॥ 14 ॥
एवंविधे प्रियतमेऽप्यनपेतजीवां
मां राक्षसीति रघुपुङ्गव! साधु बुद्‌ध्वा।
बाणं विमुञ्ज मयि सम्प्रति ताटकारे!
श्रेयो भवेद्दयितसङ्गमकारिणस्ते ॥ 15 ॥
साधारणी क्षितिभुजां मृगयेति पूर्वृ-
मुक्ता त्वयैव जनसंसदि सत्यवादिन्!।
शाखामृगीं तदिह मारय मां शां शरेण
को नाम राम! मृगयुर्दयते मृगीणाम् ॥ 16 ॥
संत्रस्य पूर्वममुतस्तव बन्धुरेष
भेजे यथाद्रिमकुतोभयमृष्यमूकम्।
भर्ता ममायमपि रामशरैरभेद्यं
प्राप्तो मदीयहृदय च्छलमद्रिदुर्गम् ॥ 17 ॥
नाहं सुकेतुतनया न च सप्तसाली
वाली न च त्रिभुवनप्रथितप्रभावः।
तारास्मि वज्रहृदया विशिखैरभेद्या
धन्वी कथं भवसि राघव! मामविद्‌ध्वा ॥ 18 ॥
क्षितिपतितनयानां हन्त गर्भेश्वराणां
किमु निरवधि मौग्ध्यं शौर्यवज्जन्मसिद्धम्।
मम हृदि निरपाये वर्तमाने कपीन्द्रे
रघुवर! यदमुष्मै तिष्ठसे चापपाणिः ॥ 19 ॥
एवं विलपन्त्या हारायिताश्रुधारायास्तारायाः परिदेवनरवैर्बाष्पाम्बुकणाभ्युक्षणै रक्षीणैर्निश्वासानिलैश्च कृताश्वास इव लब्धसंज्ञो वाली निजनन्दनं रघुनन्दने समर्प्याङ्गदमङ्गसङ्गिनीं काञ्चन काञ्चन स्रजं शोकावनतग्रीवाय सुग्रीवाय दत्त्वा निजभुजबलप्रशान्तासुरोऽयंप्रशान्तासुरभूत्।
तत्र हा सकलभुवनबहुमतबाहु बल गोलभगन्धर्वसिन्धुरपञ्चताकरणपञ्चाननदशभुखभुजभुजङ्गभोग निरोधाहितुण्डिकायितबालवलयवालिन्, कथं गतोऽसीति बाष्पाविलमुखा वलीमुखास्तस्य रामाज्ञया यथाभिप्रेतं प्रेतकृत्यं सर्वं निर्वर्तयामासुः।
ततो जाम्बवत्प्रमुखा वलीमुखगणा दाशरथिनिदेशात्सुग्रीवं काश्चनकलशोदकैरब्यषिञ्चन्।
अभिषिक्ते तु सुग्रीवे रामश्यामपयोमुचा।
अभिषेक्तुं स्थिता मेघास्तन्महीं महिषीमिव ॥ 20 ॥
आर्यार्यान्वेषणा कार्या शरदीत्युक्तसंविदा।
कपीन्द्रेणार्थितो रामः किष्किन्धावर्तनं प्रति ॥ 21 ॥
न योग्या नगरप्राप्तिरित्युक्तवति राघवे।
सुग्रीवप्रार्थनाप्यासीद्भरतप्रार्थनासमा ॥ 22 ॥
दत्तार्जु नविकासेन धार्तराष्ट्रान्निरस्यता।
तेन जीमूतकालेन देवकीनन्दनायितम् ॥ 23 ॥
अस्माकं रूपलक्ष्मीमसकृदुपहसत्यात्मकान्त्या-तदास्तां
भर्तारं नः सुरेन्द्रं किमपि न गणयन्वालिनं द्राग्जघान।
इत्थं मत्वैव वैरं झटिति घनघटा राघवस्याहवोत्था-
माशामाशाश्च रुद्‌ध्वास्तनितमिषमहासिंह नादान्वितेनुः ॥ 24 ॥
उपचितजीवनधारा सत्पथभाजो निरस्तसन्तापाः।
भूपा इव नवमेघाः पौरस्त्यमहाबलाकुलिताः ॥ 25 ॥
तेन किल रघुपतिरतिमात्रप्रवृद्धमन्युः शतमन्युशरासनशारतरतारापथां घनरवमुखरितहरिन्मुखाभोगां कदम्बवनपवना कम्पनिराडम्बरकादम्बकुटुम्बामम्बुदकदम्बकवलिताम्बरां शिलीन्ध्रसंबन्धबन्धुरवसुन्धरां विकचकुटजनिचयकवचितमहारण्यां प्रावृषेण्यां प्रक्रियां प्रेक्षमाणो लक्ष्मणमिदमभाषत।
अयं कालः कालप्रमथनगलाभैरभिनवै-
रहंयूनां यूनामपहरति धैर्यं जलधरैः।
स्मराधारा धारा परिचितजडा वान्ति सहसा
नभस्वन्तः स्वन्तः कथमिव वियोगः परिणमेत् ॥ 26 ॥
महासमरसूचकः प्रतिदिशं मनोजन्मनो
मयूरगलकाहलीकलकलः समुज्जृम्भते।
पयोदमलिने दिने परुषविप्रयोगव्यथां
नरेषु वनितासु वा दधति हन्त के का इति ॥ 27 ॥
अम्भोधरोदरविनिर्गतवारिधारा-
सम्मदमांसलसमीरसमीर्यमाणैः।
आमोदवीचिनिचयैः कुटजप्रसूनै-
राकाशमेतदवफाशविहीनमासीत् ॥ 28 ॥
घनश्यामलपत्रस्य व्योमन्यग्रोधशाखिनः।
प्ररोहा इव लक्ष्यन्ते वारिधारा धरां गताः ॥ 29 ॥
अम्भःपूरसुसंपूर्णास्तटस्थतरुपुष्पिणीः।
नदीः पश्येह सौमित्रे प्रवृद्धाश्च दिने दिने ॥ 30 ॥
अम्भोधिपाने सलिलेन साकमापीतमौर्वाग्निशिखाकलापम्।
तप्तोदरा वारिधारा वमन्ति विद्युल्लतोन्मेषमिषेण नूनम् ॥ 31 ॥
इत्थं प्रवृत्तेषु घनदिनेषु दाशरथिना कथमपि नीतेषु तदाकार कान्तिं गमितमिव शनैःशनैर्मेघमण्डलं पाण्डुरमभूत्।
तस्य चापव्यापारवेलायां न संनिधातव्यमित्यन्त रिक्षादन्तर्हितं किल पाकशासनशरासनम्।
रघुपतिचापघोषसमयो भवितेति किल
व्युपरतमुद्भटं घनघटाजनितं स्तनितम्।
श्वसितमरुद्भिरस्य विजितः किल शान्तिमगात्
परिचितकेतकीकुटजनीपवनः पवनः ॥ 32 ॥
तापोपशान्तिनटनात् कृतलोकहर्षा
वर्षानटी गगनरङ्गतलात् प्रयाता।
अम्भोदवाद्यमचिरेण शशाम सर्वं
निर्वापिताश्च सहसैव तडित्प्रदीपाः ॥ 33 ॥
क्रमेण वाहिनीजातं सकलं भाविनीं वानरवाहिनीपूर्तिमसहमानमिव तनिमानमभजत।
तथा दुर्दिनापाये लङ्कायामपि राजहंसनिःशङ्कसंचारो भविष्यतीति मत्वा किल भूम्यामपि समजनि राजहंसनिःशङ्कसंचारः।
एवं प्रोषितायामपि प्रोषितजनशेमुषी मुषि प्रावृषि।
वीत जाने पर भी–
कामक्षिप्तपृषत्कभिन्नहृदयच्छिद्रप्रणालीगल-
न्मैत्रीसारलघौ प्रतिश्रवभरं निर्वोढुमप्यक्षमे
सुग्रीवे चिर संस्थितां शमयितुं रागान्धतां तादृशीं
किष्किन्धां द्रुतमाप कोपकलुषो रामाज्ञया लक्ष्मणः ॥ 34 ॥
ततः सौमित्रि रतिरुष्टः प्रविष्ट इत्यङ्गदेन विज्ञापितोऽप्यनङ्गसंगरसंगतपरिश्रमादजातजागरः सुग्रीवस्तद्दर्शन त्राससंचलितसकलप्तवंगबल किलकिलायितेन प्रबुद्धः सचिवयोः प्लक्षप्रभावनाम्नोः प्रभावेण प्रकृतिं प्रपेदे।
तस्मिन्सुग्रीवे राघवरोषस्य कारणं निरूपयति सति सद्य एव मुखरित हरिन्मुखोऽभू ल्लक्ष्मणस्य ज्याघोषः।
तत्रासनं द्रुतमपास्य पतिः कपीनां
तत्रास नम्रवदनो घनचापधोषात्।
संतोष मोक्षमिव भूरि भजन्भुजंगः
संतापनाशपिशुनात्तरुणाभ्रघोषात् ॥ 35 ॥
तत्र प्रतिश्रुत कार्यप्रोत्साहनाय कुपितेन भ्राता प्रेषित इति मारुतिना धार्यमाणधैर्यः सुग्रीवः शौमित्रिं सान्त्वयितुं तारां प्रेषित वान्।
द्राग्वारुणीभजननिह्नतराजतेजो
निष्क्रान्ततारमुपशान्ततमोविकारम्।
पूर्वाशया विशति सत्पथभाजि मित्रे
सत्यं निशान्तसममस्य निशान्तमासीत् ॥ 36 ॥
सा तु रामा रामानुजमासाद्य चैवमवोचत।
प्राचीनां व्यसनं सुरेन्द्रतनयाज्जातं वने भ्राम्यतः
सुग्रीवस्य निराकृतं ररिपोर्बाणेन सालच्छिदा।
अद्यास्य व्यसनं तु पञ्चविशिखादासीदुपेन्द्रात्मजात्
सौमित्रे! तदपि प्रशान्तमभवज्ज्याघोषमात्रेण ते ॥ 37 ॥
तदनन्तरं तारा सान्त्ववचनप्रशान्तकोपेन सौमित्रिणा साकं तपनतनयः सविनयमाश्रित्य दाशरथिं प्राञ्जलिर्व्यजिज्ञपत्।
देव! कपिबल मखिलकुलाचलनिलयमनिलतनयेनाहूतं, पुरुहूत इव पुलोमजाप हारिणमनुह्रादं रावणं रणे नि हनिष्यसीति।
ततः–
ककुभि कुलिशपाणेर्मैथिलीं तां विचेतुं
विनतमथ दिशायां मारुतिं प्रेतभर्तुः।
वरुणदिशि सुषेणं यक्षराजाञ्चितायां
हरिति शतबलिं च प्राहिणोद्वानरेन्द्रः ॥ 38 ॥
तदनु दिनेषु केषुचिद्‌गतेषु मासातिपातनासहो नियतमुतग्रदण्डः सुग्रीव इति सत्वरमित रदिगन्तरप्रेषितेषु प्रतिनिवृत्तेषु प्लवङ्गबलेषुपितृपतिहरिति प्रेषिता मारुतिजाम्बवदङ्गदनलनीलप्रभृतयोऽप्यलब्धसीतोपलब्धयस्तनयनाशकुपित कण्डुशापनिः शेषितचराचरम परिचितचारप्रान्तरं कान्तारं क्रान्त्वा कान्तारे कस्मिंश्चिदसुरमेकं निरीक्ष्य रक्षःपतिरिति बुद्‌ध्वा युद्धसंनद्धा बभुवुः।
निशिचरपतिरित्य वेत्य रोषादशनिनिपातनिभेन ताडनेन।
असुरहितममुं प्रहृत्यं दैत्यं सुरहितमेव चकार बालि सूनुः ॥ 39 ॥
ततस्तारेयवचनात्तत इतो विचित्य निकटगिरिसानुशयाः सानुशयाः सलिलाशया जलचरपतङ्गपतनोत्पतनानुमीयमानपल्वलो पशयं किमपि कुहरमवगाह्य कञ्चन काञ्चनमयं मयमायानिर्मितं विहित तपोभङ्गाय सुराङ्गनायै हेमायै द्रुहिणेन वितीर्णं मेरुसावर्णिदुहित्रा स्वयंप्रभया कृतावनं वनोद्देशमविशन्।
ततः कृतातिथ्यायाः स्वयंप्रभायाः प्रभावेण बिलादुत्तीर्णानां समयाति पातादापतिष्यति सुग्रीवदण्ड इति विकृतिमुपेत्य सङ्गतमनोगदेनाङ्गदेन पवनतनयवचन प्रत्ययप्रत्यानीतप्रकृतिना सह प्रायोपवेशमुपेयुषां प्लवङ्गपुङ्गवानां परिदेवनकथा प्रसङ्गे जटायुषो निधनं निशम्य विन्ध्यरन्ध्राद्विहितसंपातः संपातिर्नाम गृध्रस्तानेवमवादीत्।
के यूय मक्षतबलेऽप्यभिधाय पापं
वत्से जटायुषि मम श्रवसी दहन्तः।
तस्मात्पुराकिरणदाहितपक्षयुग्मं
तिग्मांशुमुष्णवचसाशिसिरीकुरुध्वे ॥ 40 ॥
ततस्तै प्रस्तावितप्रवृत्तिः संपातिः प्रोषितायुषे जटायुषे निवापाञ्जलिं निर्वर्त्य पुरा कदाचिदामिषान्वेषणाय प्रेषितेन सुपार्श्वनाम्ना समाम्नातं महेन्द्रमहीध्ररन्ध्रनिर्गतदशवदननीयमानजानकी परिदेवनं जानानः सूक्ष्मचक्षुः पुनरेवमनोचत्।
अलं कातर्येंण। लङ्काभिधानां यातुधानराजधानीमधिवसति सीता दशवदननीता तत्र गच्छन्तु भवन्तः।
किञ्च–
दिवाकरप्लोषभवां मदार्तिं निशाकरो नाम मुनिर्निरस्यन्।
जगाद वः कार्यमहार्यंधैर्याः! क्षणेन तां द्रक्ष्यथ रामपत्नीम् ॥ 41 ॥
इति ब्रुवाणं कृतसौहृदं तं संपातिमापृच्छय परापरज्ञम्।
प्रवृद्धहर्षाः प्रथितप्रभावाः प्रतस्थिरे वानरयूथनाथाः ॥ 42 ॥
पर्याप्तप्रमदमुपेयुषां कपीनां पन्थानं दशमुखमार्गमार्गणाय।
पाथेयीकृतकपिराजशासनानां पाथोधिर्नयनपथातिथिर्बभूव ॥ 43 ॥
सुत्रामपुत्रारिशिलीमुखानां स्मृत्वा गणस्तत्र बलीमुखानाम्।
अपामपारस्य निधेश्च पश्चादवाङ्‌मुखो वक्तुमवाङ्‌मुखोऽभूत ॥ 44 ॥
तदनु वानरसेनामेनामवार्यमाणकातर्यामित्थम वददङ्गदः।
किमिति भजथ मौनं वानरा! मानहीनाः
सगररचित कुल्योल्लङ्घने कुण्ठिताशाः।
अकलशभवलेह्यं दुःशमं वाडवाद्यै-
रनवधिमयशोब्धिं किं समर्थास्तरीतुम् ॥ 45 ॥
ततः पारावारस्य पारीणतायामात्मशक्तेरियत्तां प्रत्येकं कथयत्सु वानरयूथपेषु निर्दिश्याञ्जनेयं प्रभञ्जन संजातं जाम्बवानभिहितवान्।
हे वीरा यूथनाथाः! परिणतिपरुषः कार्य आसीद्विषादः
कस्मादस्माकमेतज्जलनिधितरणे शक्तिरेतावतीति।
स्मृत्वा राज्ञः प्रतिज्ञामयमनिलसुतो लङ्घनायोन्मुखश्चे-
द्भेदः प्रादुर्भवेत्किं कथयत पयसामास्पदे गोष्पदे वा ॥ 46 ॥
उदपतदुपभोक्तुं मण्डलं चण्डभानोः
परिणतफलबुद्धया बालभावेऽपि सोऽयम्।
तदनु कुलिशपातक्षुण्णगण्डाय तस्मै
बलमदिशदमेयं वायुतृप्त्यै विधाता ॥ 47 ॥
इत्थं जाम्बवता परापरविदा संधुक्षितप्राभवः
कृत्वा वृद्धिमुपेयुषा स्ववपुषा त्रैविक्रमं प्रक्रमम्।
आरुह्याद्रितटं यथोचितमसौ सं मान्य सैन्याधिपा-
नासन्नानथ संननाह तरितुं वारांनिधिं मारुतिः ॥ 48 ॥
॥ इति किष्किन्धाकाण्ड ॥

************************************************

.

अथ युद्धकाण्डम्

दृष्टे यत्र यदृच्छयापि वचसां देवी पुरोवर्तते
सारस्यं महदभ्युदेति सदसि प्रागल्भ्यमुज्जृम्भते।
जायन्ते सफलाः कला अपि नृणां जागर्ति कीर्तिर्नवा
चेतः स्निहयति तत्र देशिकपदाम्भोजे च भोजे मम ॥ 1 ॥
भोजेन तेन रचितामपि पूरयिष्य-
न्नल्पीयसापि वचसा कृतिमत्युदराम्।
न व्रीडितोऽहमधुना नवरत्नहार-
सङ्गेन किन्न हृदि धार्यत एव तन्तुः ॥ 2 ॥
मुद्रामुद्रितजीवितां जनकजां मोहाकुलं राघवं
चूडारत्नविलोकनेन सुचिरं निद्याय निध्याय च।
प्रारेभे हृदि लक्ष्मणः कलयितु पौलस्त्यविध्वंसनं
धीरः पूरयितुं कथां च विमलामेकेन काण्डेन सः ॥ 3 ॥
आनन्दमन्थरमनन्तरामाञ्चनेया-
दाकर्ण्य वृत्तिमनघां जनकात्मजायाः।
दृष्टिर्दशाननरुषा परुषायमाणा
बाणासनोपरि दधे प्रभुणा रघूणाम् ॥ 4 ॥
अथ सुग्रीवोऽपि दशग्रीवकुपितराघवावलोकन द्विगुणितरणोत्साहः साहाय्यसमनुपालयन्नन्धुमिव सिन्धुमवधार्य धार्यमाण धैर्यादगाधमतिरधिरूढत्रिकूट श्रृङ्गां लङ्कामधिगन्तुमङ्गदकुमुदनलनीलप्रमुखमप्यखिलानीकं समनीनहत्।
वारिदादपि च रामनामतः पूरिता पुनरपाङ्गधारया।
तत्क्षणं प्रति चचाल दक्षिणं वाहिनीशमखिलापि वाहिनी ॥ 5 ॥
तत्क्षणे समचलितऋक्ष समुदेये कुमुदामोदकारिणि शरभाधिकप्रसादशीले नीलेन्दीबरानन्दिनिदशाननदिशाक्रमण्व्यग्रतेजसि समारूढतारानन्दनलक्ष्मणानुगते सरयमुदयसानुमन्तमिव हनूमन्तमधिरोहति निशाचरतिमि रवारणनिस्तन्द्रे रामचन्द्रे समन्ततः कन्दलितबहुलहरिजारलोलाहलभरितहरिदन्तरो निरन्तरास्कन्दितनिकटकान्तारावलिवलीमुखबलमहाम्बुधिः ससंभ्रममुदजृम्भत।
उत्त्रासकासरमुदञ्चितपञ्चवक्त्रं
वित्रस्तहस्ति विशरारुचमूरुयूथम्।
आलोललोचनतरङ्गकुरङ्गशाव-
मासीदसीम विपिनं कपिनर्मघोषैः ॥ 6 ॥
सैन्यैस्ततो रघुपतिः सरितां निवेशं
वेशन्तयन्विरलयन्विपिनान्तराणि।
आरुह्य शैलमपि सह्यमसह्यवातं
मन्दानिलैकनिलयं मलयं जगाम ॥ 7 ॥
गत्वा रामस्तमद्रिं सौमित्रिमिदमवादीत्।
अमी तटसमीपनिर्झरतरङ्गरिङ्गित्पयो-
जडीकृतपटीरभूरुहकुटीरसंसारिणः।
मनो विधुरयन्ति मे मलयमेखलामेदुरा
दुरासदवनप्रियप्रियतमारुता मारुताः ॥ 8 ॥
इत्यालपन्करुणमेष निरुद्धवेलं
शैलं महेन्द्रम धिगत्य महीमहेन्द्रः।
आवर्तमुद्रितमिवान्वयभूपतीना-
मक्षय्यकीर्तिनिधिमम्बुनिधिं ददर्श ॥ 9 ॥
दृष्ट्वा च तमद्‌भुताकृष्टमना रामस्तदिदमाचष्ट।
द्रष्टुं नालमगाधतां फणिपतिः सीमान्तरेखा दिशो
द्वीपाः सैकतमण्डलानि तदयं दूरे गिरां वारिधिः।
येषामेष सुखादखानि नखरैर्येनाथवा पूरित-
स्तेषां नः कुलभूभुजामविहतस्थेम्ने महिम्ने नमः ॥ 10 ॥
अथ हरीन्द्रोऽपि महेन्द्रोपान्तकान्तारशोभिनि लोभवीयमलयजातानिले बेलोपवनदेशे रघुपतेर्निदेशेन निवेशयामास बलमखिलम्।
सरसपटीरकुञ्जवनसंवनाभिपत-
न्मृगमदगन्धगन्धवहमेदुरितेऽम्बुनिधेः।
तटनिकटे लुठत्पनसतालत्सालफलै-
रुदितमदा विचेरुरुदरंभरयो हरयः ॥ 11 ॥
अनन्तर मपरमहाम्भोधिमिव चलितमम्भोधिरोधस्य म्भोधिविलङ्घनविश्रृङ्खललाघवं राघवानीकमनीकोन्मुखं चारमुखादवधार्य धार्यमाणहृदयातङ्कः पङ्कलीनचरणइवैरावणो विधेय मपरमजानञ्जानकीमप्यविमोक्तुकामः काम परतन्त्रो मन्त्रिभिः समं समाजमाजगाम।
रहस्तदानीं रजनीचरेन्द्रः प्रहस्त मुख्यानिदमाबभाषे।
इदं तु मेवाञ्छितमीक्षितं वो वदन्तु यद्वैरिजनोचितं नः ॥ 12 ॥
अमी च पुनराशयज्ञाव्यज्ञापयन्।
देव! जीवत्सु भवदाज्ञापरेष्वनुचरेषु परमस्मासु कस्मादयम पवादो दुरवापोरुभुजपञ्जरानीतां सीतां जातु न जहातु न नाथ इत्याभिदधानेषु।
ततो रम्भोपहितं हराङ्कसंभवं शापमम्भोजभवशापं चैतदुपालम्भान्तरायमावेदयन्तमग्रजन्मानमसमानविनयविज्ञानभूषणो विभीषणः सरोषमिदमवादीत्।
अहह विधिनियोगादद्य नक्तंचरेन्द्र
त्वमसि परकलत्रे दुर्निंवारानुरागः।
अरुणदवशिखायामामिषग्रासमोहा-
दविरलकृतजिह्वाचापलः केसरीव ॥ 13 ॥
आकर्ण्य किंनरमुखादनघे स्ववंशे
काकुत्स्थदारहरणो पगतं कलङ्कम्।
हाहेति मीलितदृशः करयोर्युगं त-
दष्टौ श्रुतीरपि कथं पिदधातु धातुः ॥ 14 ॥
पश्येदानीमुदधिपरिखापालिता कुत्र लङ्का
वाचातीतः व्क नु वनचरादागतो दुर्विपाकः।
कर्तुं नक्तंचरपरिभवं कापि मायेति शङ्के
जाता सीता धरणितनया जानकी मैथिलीति ॥ 15 ॥
किं बहुना–
न गणयसि यदि त्वं वानरं वा नरं वा
ननु परिचितवीर्यौ जिष्णुभूकार्तवीर्यौ।
न कलयसि यदि त्वं नन्दिशापं च धातु-
र्वरमाप नरवर्जं दुर्जयो दैवयोगः ॥ 16 ॥
इत्यादि नीत्या सहितं हितम पिवदन्तं निजमनुजमवज्ञाय ज्ञातिरयमरातिपक्षः शिक्षणीय इति शंसन्तं नृशंसं तमरुंतुदाचरणरोषभीषणोविभीषणो विहाय विहायसि समुत्पतन्तमनूत्पतद्भिश्चतुर्भिरमात्यैः सममतीत्य वारिधिं दूरत एव सवितर्कमुद्‌ग्रीवान्सुग्रीवादीनन्तरिक्षगत एवमा चचक्षे।
पौलस्त्यमग्रजनुषं परुषं वदन्तं
संत्यज्य बान्धवजनं च विभीषणोऽहम्।
रामं विराममिह विद्विषतामवाप-
मापन्नदैन्यहरणं शरणं ममेति ॥ 17 ॥
अनन्तरमतिकरुणं समीरयन्तं समीरभुवा च सप्रत्यभिज्ञं विज्ञापितं निशाचरपतेरनुजं निशाम्य तदागमनाय किं कारणमिति शङ्खापरवशे निवेदयति हरीशे दाशरथिरतिदयमानमानसः स्मयमानो मधुरमिद मवादीत्।
अभयागतो मदपयाति चेन्मुधा
रघवो भवन्ति लघवो न किं सखे।
अनुजोऽयमस्तु तनुजोऽथवा रिपोः
करुणापदं हि शरणागतो जनः ॥ 18 ॥
तदनु हृदयविदा हनूमता सरयमानीतो विनीतोऽयमाशरपतिरवन्दत दाशरथिम्।
रामस्तमाह विनतं रजनीचरेन्द्रं
दत्तं मयाद्य भवते दशकण्ठराज्यम्।
अस्मिन्नुदाहरणमग्रजराज्यभोक्ता
सानुप्लवः प्लवगमण्डलसार्वभौमः ॥ 19 ॥
श्रेयः पदात्पद मुपैति विधेः प्रसादा-
त्प्रायस्तदद्य फलितं हि विभीषणे तु।
रेखातपत्रसहितं पदमस्य गृह्ण-
न्नेकातपत्रसहितं पदमेष भेजे ॥ 20 ॥
असौ पुनरप्रत एव भरताग्रजापाङ्गसुधातरङ्गाभिषिक्तोऽपि पुनरुक्तराज्याभिषेकः सकलविस्नम्भभाजनतया सुग्रीव इवापरो दशग्रीवबलमखिलमावेद्य सद्य एव लङ्कापुरसमार्कन्दनाय सेनासमुत्तरणहेतुं सेतुं विधातुमा राधय वारांनिधिमिति सविनयमेनं विज्ञापितवान्।
अथ वारांनिधिं ध्यायन्नम्भोधिहृदयेशयः।
व्यानशे दर्भशयनं वेदीमिव हुताशनः ॥ 21 ॥
तत्र च कुशास्तरणमध्यमध्यासीने देवे रामभद्रे नियन्त्रित इव नियमवशान्निशात्रयमपि निध्यानवति प्रसादं नाससाद यादसांपतिः।
व्यापारयन्नथ विलोचनकोणमब्धौ
कोपारुणं कुटिलितभ्रुकुटीविटङ्कः।
आदातुमैहत धनुः प्रथमो रघूणां
पैतामहप्रथमसर्गसमापनाय ॥ 22 ॥
आदाय च दुरापं चापमारोपयत विशिखमनलशिखम्।
नाथो विमोक्तुमुदयुङ्‌क्त न यावदेष
पाथोनिधेरुपरि पावकरूपमस्त्रम्।
संतापिनी नयनवारिमिषेण ताव-
न्मन्दाकिनी किमुत वारुणामाललम्बे ॥ 23 ॥
रुषा विशिखमुच्छिखं जहति राघवे लाघवा-
दजायत रुजायत श्वसितनक्रचक्राकुलम्।
रसातलवलत्तिमिस्तिमितकुम्भिकुम्भीनस-
प्रविष्टगिरिकन्दरं तरलमन्तरं वारिधेः ॥ 24 ॥
तत्क्षणं च जलनिधिः क्षन्ता च युगान्तानलस्य सहनोऽपि गरलदहनोष्मणां सोढापि वाडवगाढा वलेह्यस्य तितिक्षुरपि भार्गवतीक्ष्णपरशोः परिशोषयन्तमन्तरङ्गमङ्गारमयं शरवरं निमिषमपि न विषेहे।
शरणमथ शरव्यथानिदानं जलनिधिरेष जगाम राममेव।
परुषकुलिशपातमेव किं वा जलधरमर्थयते न जीवलोकः ॥ 25 ॥
तदनु संहितममोघं वैधात्रमस्त्रं कुत्रचन वनचरधामनि मरुसीमनि विनिपात्यताम्, सह्यते मया सलिलावष्टम्भः, संप्रत्येव नलो विदधातु सेतुमित्यभिदधानो मन्दमन्दमन्तरधात्।
आदिष्टा रघु नन्दनेन हरयोऽप्यष्टासु दिक्षु क्षणा-
त्त्रैलोक्याञ्चितमूलमध्यशिखरान्धात्रीधरानाहरन्।
यैःक्षिप्तैः सलिले नलेन जलधिर्यातोऽपि जम्बालतां
निर्गच्छन्नचिराय निर्झरपयःपूरैः पुपूरेः पुनः ॥ 26 ॥
अथ जलधौ निपेतुरनिदूरनिपातदल-
ज्जलचर जीवजीवनदगन्धमहौषधयः।
स्फुटितधराविराजदहिपुंगवफूत्करण-
क्षुभितगुहा गृहोत्थितमहाहरयो गिरयः ॥ 27 ॥
अलक्षितमहीधरग्रहणमस्फुटक्षेपणं
बिचित्रघटणं ततो विरचितो नलेनामुना।
अबोधि हरियूथपैरधिपयोधि सेतुर्महान्
भुवोमुज इवा भयंनिजतनूभुवो लम्भयन् ॥ 28 ॥
अनन्तरमन्तर्मुखा इव वलीमुखाः प्रबोधेनेव सेतुपथेन संसारमिव दुस्तरं तरंगिणीपतिमतीत्य सद्य एव प्रकाशं गिरीशं गिरीशं सुवेलमवलोकयन्तो मुहु रविन्दन्परमानन्दम्।
वलयिततटदेशैर्वाहिनीनां निवेशै-
रविरलवनरेखामध्यमध्यास्त रामः।
कपिकलकलशीर्यत्कन्दरामन्दिरान्त-
श्चलितकुपितसिंहत्रस्तवेलं सुवेलम् ॥ 29 ॥
तदनुदशमुखोऽपि शुकमुखादतिलङ्घितजलधिगतसुवेलारामं रामं निशम्य सम्यगवगमनाय रघुनायकबलमनु प्रयातयोर्विदितवि भीषणप्रेरणाकुपितकपिलोकनियन्त्रणनितान्तखिन्नयोर्विपन्नाधारदाशरथिविमोचितप्राणयोः शुकसारणयोर्वचसा प्रासादमुदग्रमासाद्य प्रत्येकशस्तदावेद्यमानान्प्र वर्धमानान्समरसंनाहमतीन्प्ल वगसेनाधिपतीनतिधीरतया सावधीरणमवेक्षणाणः प्रतिपक्षबलप्रसंसिना वुभावप्युपेक्षमाणः शादूलप्रभृतिभिः प्रणिधिभिरप्यवगताशेष वृत्तान्ततान्तः सुचिरमनुचिन्तयन्नन्तिकासीनमतिविनयप्रह्वं विद्युज्जिह्वमुपह्वरे किमप्यभिधाय सौधादवततार।
तत्क्षणं क्षणदाचरो निदेशान्निशाचरपतेर्दाशरथिशिरः सशरं धनुरपि निर्मायमायानुभावादाहवानीतमित्यमिधाय निधाय च पुरो निदाघातिशयसंतापिनीं वासन्तीमिव वैद्युतानल श्चिरकालविरहविह्वलीकृतामाकुलीचकार मैथिलीम्।
रक्षोवरोधवसतिं रजनीचरीणां
रक्षोपरोधमपि रावणभर्त्सनं च।
सर्वंसहे यदुपलम्भधिया स एवं
सर्वंसहे भवति! जीवति हन्त सीता ॥ 30 ॥
इत्येवमत्याहितमत्या समेतामेतां सद्य आसाद्य `सखि वैदेहि! देहि मे वचः। मम वचो विदेहि। कथमियं दशा। दशाननकृता माया हि सेयम्। मा याहि मनसि वैधुर्यम्। अखिलजगतीधुयभुजबलाभिरामे रामे किमिदमनार्यमविचार्यम्’ इति भाषमाणा नवीनासारनिष्यन्दिनो कादम्बिनीव धर्मोद्वेगिनीं केकिनीं सरमा चिरमाश्वासयामास।
अथ निगदितनीतिं मुञ्च मुञ्चे ति सीता-
माविरतरणकण्डूभीषणो रावणोऽयम्।
मनसि न बहु मेने मन्त्रिणं माल्यवन्तं
दिवि परममरीणां मण्डलं माल्यवन्तम् ॥ 31 ॥
अथ रामोऽपि कामोचितवेषविभीषणामात्यविदितरक्षोनगररक्षोदन्तो हृदन्तोपजातसमरसंरम्भधीरम्बुधिमेखलालङ्कारमणेर्लङ्कायाः प्राग्द्वारस्थाय प्रहस्ताय पर्यस्ताहितप्राणाविलं नीलं दक्षिणद्वाररक्षणोर्महोदरमहापार्श्वयोर्विश्वत्रयविजयधौरेयं तारेयं प्रत्यग्ध्वारपालनाधिकृते पाकशासनजिते पराक्रममिव तनूमन्तं हनूमन्तमन्तर्व्यूहविहितरक्षाय विरूपाक्षाय रक्षः प्लवगऋक्षाधिपतीन्प्रतिनिधी न्विधाय विधाय च सज्यं धनुरनुजेन समं समीकाभिमुखेन दशमुखेन गुप्तमुत्तरं गोपुरमुत्तरङ्गो बलैरुपरुरोध।
अत्याकुलां हरिबलैरवलोक्य लङ्कां
दत्तार्गलेषु दशकन्धरकिंकरेषु।
आरक्षकैस्त्वरितमन्तकराजधान्या-
मुद्‌घाटिताभिरुदभावि कवाटिकाभिः ॥ 32 ॥
तत्क्षणं लक्ष्मणाग्रजः सुग्रीवेण सह सुवेलाचलकूटमधिरूढस्त्रिकूटावनीधरचूडामणइं सिहलद्वीपकमलकर्णिकां निर्माण कौशलं विश्वकर्मणो निवेशदरीं नशाचरहरीणा मनवरतबन्दीकृतामरपुरन्ध्रीबाष्पनदीमातृकोप वनसीमान्तरां निरन्तरसेवासमाग दिक्पालकुलमातङ्गमदाम्बुपङ्किलबाह्याङ्गणोत्सङ्गा लङ्कामवलोकमानस्तत्र चैकत्र समुन्नतं सौधमधिवसन्तं संतमसमिव सदेहबन्धमन्तिकचरोदस्तविमलमुक्ततपत्रनि भात्सतारकेण विभावरीपतिनेव सव्यमानं वैमानिवधूविधूयमान धवलचामरद्वंद्वशोभितमभितश्चलितमन्दाकिनीपरीवाहमिवाञ्जनाचलमखिलजगद्विजयवर्णावलीमतिनिर्णायकैरनेकावधसमीकाभिघात मग्नभग्नैरावणविषाणकुलिघग्रै रुत्कीर्णविशालवक्षःस्थलफलकमानीलतया लसच्छायमाच्छादिताभिनव लोहितवत्पाटलपटं संध्यारागबन्धुरं कंधरमिव ददर्श दशकन्धरम् ।
कोपादुत्पतितस्तदा हरिपतिः कोटीरमुत्पाटितं
चक्रे चैऋ तनायकस्य सुदृढीचक्रे च वैभीषणम्।
युद्‌ध्वा तत्प्रथमावमानकुपितेनैतेन बुद्‌ध्वा ततो
मायामस्य जगाम कोमलगुणग्रामं स रामं पुनः ॥ 33 ॥
ततो विरचिततत्साहसो पालम्भविधिना दाशरथिना संमन्त्र्य मन्त्रिभिः समादिष्टः साधिष्टभुजशौर्यशाली वालिनन्दनः सलीलं सालमुल्लङ्घ्य लङ्कां प्रविश्य निःशङ्को नृशंसमिति शशंस निशिचरपतिम्।
सोऽहं प्लवङ्गमपतेस्तनयस्त्वदीय-
निःश्वास गन्धिनिजवालधिमण्डलस्य।
कालस्य दूषणखरत्रिशिरोमुखानां
पौलस्त्य! मां रघुपतेरवधेहि दूतम् ॥ 34 ॥
रक्षःपते! रघुपतेर्नयनं तृतीय-
मास्कन्दनीयमिति हा मनुषे कलत्रम्।
अम्भोजमित्यलिकसंभवमक्षि शंभो-
र्मन्दाकिनीमधुकरस्तु यथा मदान्धः ॥ 35 ॥
किञ्च–
एकं हैहयसंभवात्परिभ वान्म्लानं द्वितीयं पुन-
र्दैत्येन्द्राविनायात्तृतीयमपि मे ताताहिताद्वैकृतात्।
इत्थं त्वच्चरितैः पितामह मुखान्येकं विनैवाभवं-
स्तच्चैकं न विधेहि दाशरथये देया त्वया मैथिली ॥ 36 ॥
कौबेरस्य तु पुष्पकस्य हरणं कैलासविक्षेपणं
दिक्पालाक्रमणं च जल्पसि मुहुः किंवा यशस्तावता
वेषं संयमिनां विधाय विजने देवीं वेने जानकीं
वेगादाहरता त्वयाद्य रचितं वीरतव्रस्योचितम् ॥ 37 ॥
किं बहुना–
पूजोपहाररचनाय पुरा पुरारे-
श्छिन्नेषु मूर्धंसु नवस्ववशेषितं यत्।
देवस्तदद्य कुतुकी दशमं सिरस्ते
रामो बलिं रचयितुं रणदेवतायै ॥ 38 ॥
अनन्तरमरुन्तुदभाषणरोषणेन रावणेन गृह्यतां गृह्यतामयम् इति सरयमादिष्टानवलम्बितभुजप्रकोष्ठानशारांश्चतुरोऽयं भुजंगानिव विहंगाधिपो गृहीत्वा दिवि समुत्पत्य चैतान्निपात्य पादेन त त्प्रसादश्रृङ्गं रिपोः शिरोभङ्गमिव विभिन्दन्नविन्द न्कमप्यात्मनः प्रतिरथं पङ्क्तिकण्ठोपकण्ठबुवः पङिक्तिरथभुवो विवेश निवेशम्।
रघुतनयस्ततो विदितरावणदुर्विनयः
कुपितमना मनागिव दधे कुटिलां भ्रुकुटिम्।
अथ परिवव्रुराशरपुरं हरयः सरयं
युगविगमे यथा युगपदम्बुधिमौर्वशिखाः ॥ 39 ॥
ततो मद परिप्लवप्लवगवीर सांराविण-
क्षणक्षुभितकोणपप्रकरपाणिकोणाहतः।
रवैरधिकभैरवैरुपरुरोध रोदोन्तरं
तरङ्गितघनाघनस्तनितबन्धुभिर्दुन्दुभिः ॥ 40 ॥
तेन समन्ततः कन्दलयता दलयतेव जगन्ति दुन्दुबिनिर्घोषेण रोषेण च प्रेर्यमाणा बुद्वाः केसरिण इव किरिकन्दरान्मन्दिरान्निर्गत्य गत्यन्तरामसंधायकान्यपत्यानीवानिमित्ताव्य विलोकमाना विमानाधिगतविबुधसीमन्तिनीभिः सह विजिहीर्षये व प्रस्थानसमयपरिम्लानमुखीः सुमुखीरप्यगणयन्तो निरन्तरजवलितकोपानलनयनकोणारुणालातशतनिपातविंत्रास चलितनिजवारण निवारणावेशपरवशा दिशामुख मुखरशि वारवाम्रडितक्ष्वेलिता कुलकुलमहीध्रा गृध्रायतपक्ष विक्षेपाकुलपताकानीकसमुत्तुङ्गशताङ्गसंघातपरिगता नितान्त निशितकृतान्तदष्ट्रापटलखरतरनखर पट्टसप्रासपरशुगता मुसलपरिघद्रुधारिणो दारुणाजगरसंतानसंवीता इवन विन्ध्यकूटा, व्यूढातिकरालकालायसकङ्कटा विकल्पा इव कल्पाम्बुदानां व्यक्तय इव कालरात्रेर्विवर्ता इव कलि कालस्यापिभयंकराः संसराङ्गणमवतरन्तः, समीरयन्तो वीरवदाना दाय शरासनमासारेरिव गिरिमम्भोधरा दूरापातिभिः शिलीभुखर्वलीमुखबलमखिलमक्षोभ्यन्त रक्षोभटाः।
ततो धुतनखायुधस्तरुपरित्रुटत्तोमरः
शिलानिहतमुद्‌गरः शिखरिभिन्नमत्तद्विपः।
स्वपक्षविजयैषिभिर्दिवि सुरासुरै रातुरै
रलक्षि हरिरक्षसामतिभयंकरः संगरः ॥ 41 ॥
कमेण च कुपितकपिवीर दूरीकृतनैऋतवीर भुजप्रतापानल इवास्तं भजति भानुमति, मथितायुधिकगलनाल प्रणालीपरी वाहलोहितनदीपूर इव दूरमन्तरितहरिदाभोगे संध्यारागे समुदञ्चिते, विक्रान्तहरिनखाक्रान्तदन्तावलविपुलकुम्भस्थलमुक्तमुक्ताकलाप इव विज्जृम्भमाणे वियति तारागणे, रणरभसचलित रथतुरगपदातिगजपदाहतविश्वंभरान्तरालजनुषि रजसीव भुवनमास्कन्दति तमसि, तामसीचरेष्विव यामिनीविरहविहगेषु, आशरकरेष्विव सकोशेषु तामरसेषु दाशरथिबल इव प्रमदाकरे कुमुदाकरे।
आसारधारां विकिरञ्शराणामाश्वासयन्मानसमाशराणाम्।
वीरो हरीन्संयति मेघनादो विव्याध हंसानिव मेघनादः ॥ 42 ॥
रणे तदनु दारुणे रभसमङ्गदो रावणे-
द्रुमेण महता हताखिलधुरीणयानव्रजः।
शितेन शतकोटिना शिखरिकूटमिन्द्रो यथा
ममन्थ च रथं मनोरथमपि क्षणाद्रक्षसाम् ॥ 43 ॥
वियत्तले तदनु निलीय मायया
स लक्षयन् रघुतनयं सलक्ष्मणम्।
अजिह्नगानधिगतजिह्नगाकृती-
नमर्षतः समिति ववर्ष रावणिः ॥ 44 ॥
लक्ष्मणानुगतं रामचन्द्रं राहुभयंकराः।
वबन्धुर्दारुणतमा बन्धच्छिदममी शराः ॥ 45 ॥
यावद्याति पुरं पुरंदरजयी यावद्दशास्याज्ञया
सीतापुष्पकवासिनी रघुसुतौ दृष्ट्‌वा पुरः शोचति।
तावत्ते दलिताः सुपर्णगरुतां वातेन वाताशना
दीप्तौ चन्द्रदिवाकराविव तमोमुक्तौ ततो राघवौ ॥ 46 ॥
दुर्वारे तदनु द्वयोश्च बलयोरुज्जृम्भमाणे रणे
धूम्राक्षं भुजतः प्रकम्पनमथ द्वेधा व्यधान्मारुतिः।
तारेयोऽपि च वज्रदंष्ट्रमचलान्नीलः प्रहस्तं बला-
त्तत्सर्वंदशकंधराय चकितैरुक्तं च नक्तंचरैः ॥ 47 ॥
अथ तदानीमनीकिनीनाथवध जनितकोपोदयादायोधनोत्कण्ठो दशकण्ठः सकलजगदण्डभरित भयानकजयानकनिनादबधिरिताशेषशेषाहिलोचनो रोचिष्णुजिष्णुकोदण्डधरः सलिलधर इव सुमेरुश्रृङ्गसमुत्तुङ्गं रथमलंकुर्व न्सर्वतश्चलितसकलचतुरङ्ग संघातया लङ्कयेव स्वयमनुगम्यमानः क्रमादतिक्रम्य पुरतोरण पुरतो रण प्रचलितमालोकयन्निखिलमपि कपिकुलम्।
जेतारमाहवमुखे दशदिक्पतीनां
दृष्ट्वा पुरो दशमुखं रघुनन्दनस्य।
श्लाघावशेन न चचाल शिरः परं त-
त्सव्येतरं भुजशिरोऽपि समीक्ष्य लक्ष्यम् ॥ 48 ॥
अथ मदगर्जितैरधिकतर्जितदिक्करिभि-
र्दशवदनस्तदा दशदिगन्तरमन्तरयन्।
समरमुखे सखेलपदचङ्‌क्रमतो विदधे
हरिकुलमाकुलं जलधिमादिवराह इव ॥ 49 ॥
अनन्तरमनीकास्कन्दकन्दलितामर्षं वषन्तं गिरीन्हरीणामधिपतिमतिनिष्ठुरेण मुष्टिना गाढम भिघ्नन्तं हनूमन्त ममन्दतरलाघवाक्रान्तध्वजकिरीटाञ्चलं नीलमपि वानरसेनापतिं, निखिलमपि वानरबलं, निखिलजगज्जिता महता बलेन वातूल इव तूलराशिमपसारयन्नवि रतशरासारवर्षिण मभ्यमित्रीणं सौमित्रिमपि शक्त्या महत्या गाढमुरसि विव्याध क्रव्यादाधिपतिः।
अवकीर्य दाशरथिरश्रुझरैरनुजं पुलस्त्यतनुजं च शरैः।
युगपद्वयधात्करुणवीररसौ युधि शोकहर्षशबलं च बलम् ॥ 50 ॥
आधूय मोहमहितोन्मथनाय याव-
त्सौमित्रि रुन्मिषति संयति तावदेव।
पौलस्त्यमेष परिभूय परं तदीयान्
प्राणान्मुमोच दयया न मुमोच बाणान् ॥ 51 ॥
प्राप्य तत्प्रथमं युद्धे पराजयमुदेजयन्।
दशाननः पुरीं प्राप दिनदीपदशाननः ॥ 52 ॥
प्राबौधयत्तदनु पङ्क्तिमुखः शयालुं
कालं विनापि च कथञ्चन कुम्भकर्णम्।
आदेशतः स च विभोरपुनः प्रबोध-
संवेशधाम समराङ्गणमाजगाम ॥ 53 ॥
आगतं च तमञ्जनाचलनिकाश माकाशतलभ्रमितत्रिशूलं शूलधरमिव जगत्क्षयोद्युक्तं नक्तंचरं निशाम्य शाम्यत्सहजभुजतेजोविशेषमशेषासुदिक्षु धावमानं पवमानचलितजलद पारिप्लवं प्लवंगबलमङ्गदो धीरमवादीत्।
कपयः कैकसेयानां कापि सेयं बिभीषिका।
मा बूदभूतपूर्वं वः प्राकृत भयवैकृतम् ॥ 54 ॥
अथ हरयोऽपि सरयमनुनयसंगतमङ्गदवचनमवधारन्तो धारयन्तः समरसंनाहं दिङ् नागा इव प्रतिनिवृत्ताः प्रमत्तमिवैरावणं रावणानुजं विन्ध्याचलमिव युगान्तानिलाः समन्तादाहृतैर्गिरिभिस्तरुभि रप्यवाकिरन्।
क्षिप्ताः संयति पुष्पिताः क्षिति रुहस्ते रक्षसो वक्षसि
प्रस्विन्ने पटवासपांसव इवालीयन्त चूर्णीकृताः।
मुक्ता ये धरणीधरा मुहुरमी तद्‌बाहुसंघट्टना-
त्प्रत्यावृत्य पुनः प्रहतुरभवन् खेदाय भेदाय च ॥ 55 ॥
ज्वलदनलं त्रिशूलमुपरिभ्रमयन्नमय-
न्नयमवनीमनीकमदखेलनदुर्ललितः।
सपदि बभञ्ज नीलमृषभं शरभं च बला-
दहरत गन्धमादनमरुन्ध गवाक्षमपि ॥ 56 ॥
ततश्च सहज भयचापलाधिगतलाघव राघवं शरणमश्नुवानं वानरानीकमाश्वासयन्विश्वाधिकविपुलभुजवीर्यो विकीर्य द्विषति सर्वतः पर्वतान्विधाय च विचित्रमतिचिरं युद्धं नक्तं चरविमु क्तधात्रीधरावलिः कुलिशदारित इव कुलभूधरो धरायामचेतनः पपात् हरिकुलपतिः।
परिगृह्य तं झटिति बाहुपञ्चरे
चलिते पुरं तदनु रावणानुजे।
अविनीतवालिकृतमद्य नः प्रभो-
रयशः प्रमृष्टमिति हृष्टमाशरैः ॥ 57 ॥
तत्र विचित्रकुसुमपरिमल शिशिररथ्योपचारसचेतनोद्‌ग्रीवसुग्रीवनखमुखकलितशूर्पणखामुखानुकारो दारुणाकारः सचमत्कार प्राकारमुत्प्लुत्याक्षिगतमेनमनालक्ष्य वैलक्ष्यतः प्रतिनिवृत्तो वृत्तोरुविषमतारकेक्षणः क्षणदाचरः प्रतिक्षणमतिक्षीबतया प्रतिपक्षबलमिव त्वबलमपि भक्षयन्नलक्षयन्सौमित्रिमद्रिशिखरं विमुञ्चन्नेवायमञ्जसाराममाजगाम।
विच्छिद्याद्रिमथार्धचन्द्रमुखतो वीरो रघूणां पति-
र्बाणानत्र मुमोच वालिदलनान्मारीचमर्मच्छिदः।
आलोक्याथ स तान्विदारित खरानस्मिन्नकिचित्करा-
न्वायव्यं पुनरैन्द्रमप्यरिवधूवैधव्यधुर्यं दधे ॥ 58 ॥
रामास्त्रो द्दलितेषु राक्षसपतेरङ्गेषु तुङ्गो भुजः
प्रागेको निपपात मन्दर इव प्रत्यर्थिसेनाम्बुधौ।
सिन्धौ निष्पतितः परोऽपि ददृशे सेतुर्द्वितीयो यथा
छिन्नं व्योम्नि शिरस्तुरीयमभवत्कूटं त्रिकूटस्य च ॥ 59 ॥
तदनुमोदभरितहरिबलकोलाहलाकर्णनविदितकुम्भकर्णवधपरिम्लानमुखेन दशमुखेन सहोदरमहोदरमहापार्श्वौ सहायौ विधाय समादिष्टाः कुमाराः नरान्तकदेवान्तकातिकाय त्रिशिरसः शिरसादाय िपतुर्निदेशंनिवेशमिव पितृपतेः प्राविशन्नमी समीकभुवम्।
अजनि पुनः समीकमनयोरुभयोर्बलयो-
रवदलिते मुखेऽपियद निज्झितरोषभरम्। अमरमृगीदृशामपि यदाशयपूर्तिकरं
समरसमुत्सुकेन मुनिना यददृष्टचरम् ॥ 60 ॥
ममाथ शैलादथ वालिनन्दनो नरान्तकं संयति वानरान्तकम्।
हनूमता सोऽपि हतः सुरान्तकः पुरान्तकेनेव रुषा पुरान्तकः ॥ 61 ॥
अनन्तरमसमसमरशीलेन नीलेन निहते महोदरे मारुतिमथितशिरसि त्रिशिरसि विशसितेषु महापार्श्वादिषु वाहिनीपतिषु निर्भरविषादरोषपरवशो निशाचराकार इव तमोनिकायः समरमतिकायः समागत्य वृत्रासुर इव सुत्राम्णा सुमित्रासुतेन सह वितेने विचित्रमायोधनम्।
सच सुचिरं नियुध्य तमवध्य इतीशवरा-
दनिलगिरा विबुध्य पुनरस्त्रमधत्त विधेः।
दलितमनेन तद्दिवि समुत्पतितं जगता-
मतनुत राहुभीतिमधिकामतिकायशिरः ॥ 62 ॥
अनुनीय रावणिरथो विधुरं पितरं दधत्पृथुसमीकधुरम्।
स रथी समेत्य सधनुः शरधी चलितश्चमूमि रभिदाशरथी ॥ 63 ॥
आगत्य समरमरातिजयमनोरथाय रथाभिरक्षायै रक्षांसि परितः प्रकल्प्य प्रतर्प्य च हविषा प्रदक्षिणशिखं शिखावन्तं मन्त्राधिगतविविध शस्त्राणि दधानस्तिरोधानं गत एव निशितमुखैः शिलीमुखैर्निर्माय निखिलमर्माहतिं निस्त्रिंशक्रमः क्रव्यादो व्याघ्र इव हरीन्विधुरीचकार।
सहलक्ष्मणं तमपि दाशरथिं परुषो निदाघ इव पझसरः।
विकलाशयं विधुरसत्वमयं विरचय्य धाम च जगाम शनैः ॥ 64 ॥
क्षतार्कभवतेझसि क्षपितरामछन्द्रद्युतौ
विमुच्य सति निर्गते विशिखवृष्टिमस्मिन्घने।
अदीप्तनलस्फुरत्कुमुदमस्तनीलोत्पलं
समुत्तरलजीवनं समभवत्तदा वाहिनी ॥ 65 ॥
अचलमथ सलीलमोषधीनां हरति हनूमति जाम्बवन्नियोगात्।
विचलितमभवद्‌बलं विशल्यं विबुधमनोऽपि विधूतशोकशल्यम् ॥ 66 ॥
पुनस्तेन सहजतेजोभरितेन दावानलेनेव वानरबलेन दह्यमानां दरीमिव पुरी मपहाय पञ्चाननमिव पङ्‌क्तयानननिदेशतश्चलितमखिलभुवनप्रकम्पनमकम्पनमाहतप्लवङ्गसङ्घ प्रजङ्घ मङ्गदभुज प्रतापानलशलभावुभावपि निशम्य निशाम्य च द्विविदमैन्दावदारितौ महारथौ शोणिताक्षवि रूपाक्षावपि कोपा क्षान्तिभ्यां पुरुषसंरम्भौ कुम्भनिकुम्भौ महावीरौ समुत्तम्भ्य बाहू सुबाहुमारीचाविव राघवभुजाभ्यां सुग्रीवहनूमद्भयामद्‌भुतं युद्धमतनिषाताम्।
भूमौ ततः प्लवगराजभुजेन विद्ध-
मालोक्य कुम्भम सहन् विरहं तदीयम्
शोकादगादनिलसूनुहतो निकुम्भ-
स्तन्नामयुक्तममरी स्तनकुम्भमेव ॥ 67 ॥
ततः कुपितरावणाकारणं रणवाहनियुक्तं युक्तमखिलवाहिनीमिराहवाटोपमुखरं खरात्मजं मकाराक्षमैक्ष्वाकशरोऽपि विपक्षमपि सपक्ष एव समक्षमनयज्जनयितुः।
कृत्वा मूर्धनि शासनं पितुरथो गत्वा रणं रावणि-
र्हुत्वा तत्र महाभुजो हुतभुजं धृत्वा महास्त्राणि च।
स्थित्वा व्योमनि मायया शरचयं त्यक्त्वा च भित्वा चमूं
बुद्‌द्वा राघवकोपमाप सहसा लङ्कामलं कातरः ॥ 68 ॥
ततः प्रतीचः प्रतिहारादयं प्रातिहारिको निर्गत्य निकृत्यासिनाकांचिदाञ्जनेयस्य पुरतो कायामयीं मैथिलीमाकुलीकृत मानसे तस्मिन्ना कस्मिकमिदमतथ्यमपि तथ्यमेव विबुध्य चिराय नियुध्य निराशे निवृत्ते विद्वे षि पशुविशसनारम्भिनिकुम्भलां समासाद्य सद्य एव प्रावर्तयत सत्रमतिविचित्रम्।
तदनु हनूमतः प्रतिनिवृत्ताद् दुर्वृ त्तान्तमिममाकर्ण्य विदीर्णमानसो मानसचर इव वज्रनिर्धोंषाद्विषादाकुलो राजहंसः संसदि निपत्य सौमित्रिणा समाश्वास्यमानः सकरुणं निःश्वस्य विश्वस्य पतिरपि विधुरो व्यलापीत्।
जज्ञे तदत्रभवती जनकस्य यज्ञे
देव्याश्चिराय धरणेररणेः शिखेव।
वंशे मनोरपि वधूरभवत्किमन्य-
द्राम स्तथापि विधिना रचितो विरामः ॥ 69 ॥
यत्नो मुधा भवति यत्र समीरसूनो-
र्नालं नलोऽपि नवसेतुनिबन्धनाय।
दूरे च पावक शरो दुरतिक्रमोऽयं
तत्केन शोकजलधिस्तवलङ्‌घनीयः ॥ 70 ॥
इत्यादि परिदेवमानमेनं विदिता सुरमायाविशेषो विभीषणः समागत्य `देव, भवतोऽपि किमिदमस्थाने करुणमवस्थान्तरम्। निरन्तरायं मखनिवर्तनाय पुरंदरारिणा कृतं कृतकमेवैतदवधारय। धारय मनसि धैर्यम्’ इत्यभिधाय तद्वधाय पुरोधाय लक्ष्मणं तत्क्षणादेव निकुम्भिलां बलैः सहोपरुरोध।
हरिकुलारवतश्चलितस्ततो गिरिदरीकुहरादिव केसरी।
अपरिपूर्य रुषाहवमाहवं स विदधे बलशासनशासनः ॥ 71 ॥
वातूल इव तूलानां वानराणां रणाजिरे।
विद्रावणस्ततो मायाविद्रावणसुतोऽभवत् ॥ 72 ॥
अनुपद मनीकोन्मथनसंरम्भं संवर्तंसमयदुर्दान्तं कृतान्तमिव समराङ्गणं समापतन्तं स्यन्दनगतं संक्रन्दनजितं गन्धवहनन्दनस्कन्धवर्ती सौमित्रिः प्रवर्तितनिशि तशरधारः शतधारपाणिरिव जम्भमस्तम्भयत्।
विकस्वरमदोत्कटं प्रचुरवीरवादोद्भटं
पतत्त्रुटितकङ्कटं प्रतिहतास्त्रमस्त्रेण च।
जगत्त्रयभयावहं जयपराजयागोचरं
वितेनतुरुभाविभाविव तदा रणं दारुणम् ॥ 73 ॥
शतधारकठोरशिखैर्विशिखैश्शतधा विरचय्य शरासगुणम्।
विदघे विबुधेशजितं समरे हतसारथिमप्यथ दाशरथिः ॥ 74 ॥
यदुचितमहो मायाशीलस्य यद्‌भुजशालिनः
सदृशमथ वा युक्तं नक्तंचरेन्द्रसुतस्य यत्।
शतमखजितः शौर्यं यद्वानुरूपमथात्मन-
स्तदकृत रुषामन्दौ मन्दोदरीतनयो रणे ॥ 75 ॥
एवं मन्दोदरीतनयस्य लक्ष्मणेन साकं युध्यमानस्य त्रिदिनानि व्यतीयुः। अनुपदम भिषेणनवति विभीषणे तेना विनीतेन मुक्तां शक्तिमर्धचन्द्रेण दारयन्नपारयन्सोढुमदसीयमविनयममर्षाकुलः सौमित्रिरमोघं माघवनममुञ्चदस्त्रम्।
पतति स्म तत्प्रथममस्त्रमुज्ज्वलं
सशिरस्त्रमिन्द्रजयिनः शिरस्ततः।
अनु पुष्पवृष्टि रनघा दिवौकसा-
मथ बाष्पवृष्टिरमरारियोषिताम् ॥ 76 ॥
श्रुत्वा शक्रजितः सुतस्य निधनं शोकेन रक्षःपतेः
क्लान्तं निःश्वसदश्रुपूरभरितं क्रन्दच्च फूत्कारि च।
कोपेनाथ विपाटलं कुटिलितभ्रूवल्लि वृत्तेक्षणं
जज्ञे दष्टघनौष्ठमट्ट हसितोद्रिक्तं समस्तं मुखम् ॥ 77 ॥
अनन्तरमपक्रान्तासुषु विक्रान्तेषु पुरंदरारिमुखेषु नन्दनेषु निहनेषु कुम्मकर्णादिषु भ्रातृषु, विध्वस्ते प्रहस्तपूर्वेषु सचिवेषु, व्यापादितेषु विरूपाक्षप्रभृतिषु सेनापतिषु विकीर्णे भवति निखिले बले समन्ततः करुणपरिपूरितपौरवधूजनपरिदेवनोत्तरङ्गायां लङ्कायामातङ्कातिशयरोषणो रावणस्य त्क्षणमिक्ष्वाकुकुलनायकदयितां धरणीसुतां जिघांसुरदाशरथिविजयविहितसंगरः संगराङ्गणमवततार।
कोपादसौ परिघतोमरकुन्तयष्टि-
चापाशुग द्रुघणशक्तिकृपाणपाणिः।
एकोऽप्यन्कमुखबाहुतया सबन्धु-
र्लोको यथा समिति लो चनगोचरोऽभूत् ॥ 78 ॥
अलक्ष्यत स रक्षसामधिपतिः कृपाणं मुहुः
प्रसह्य विनिपातयन्प्लवगमण्डलीमौलिषु।
अयं तव तवाय मित्यभिसमीकमेकैकशो
वरानिव विनिर्दिशन्नमरवारवामभुवाम् ॥ 79 ॥
तत्क्षणम क्षोहिणीविक्षोमकन्दलितरुषण तिपरुषैर्विशिखैर्विदलितकेतनमर्धचन्द्रनिकृत्तधन्वानमस्त्रधाराविदारितसारथिमतिविस्मयनीयकरलाघव राघवानुज ममर्षवेगमुक्तया शक्त्या मुहूर्तमिव मूर्च्छा संमीलितमुपराग इव कलाधरमाततान यातुधानपतिः।
आलोक्य दूनमनुजं हृदि शक्तिघाता-
च्छोकेन विद्वहृदयः सुतरां स रामः।
कोपेन चापमथ कुण्डलयांचकार
लङ्कापतेरपि ललाटलिपिं विधाता ॥ 80 ॥
अवकीर्य दाशरथिरश्रुजलैरनुजं पुलस्त्यतनुजं च शरैः।
युगपद्‌व्यधात्करुणवीररसौ युधि शोकहर्षशबलं च बलम् ॥ 81 ॥
वलयितचित्र चापवति वारितपङ्क्तिमुखे
विसृजति राघवे विशिखवर्षममर्षवति।
अरिषु न कश्चिदप्यथ निवृत्य गतः समरा-
दमरविलासिनीषु न च काचिदलब्धवरा ॥ 82 ॥
अयं च पुन रञ्जनासुतसमानीतमहीधर महौषधिविधिलब्धजीवितानुजसमाश्लेषसुखलब्धमनोरथः समेधमानसमरकौतुकोपलम्भसंर म्भोदञ्चितपुलककञ्चुकिताकृतिर्दाशरथिरधिसङ्गरममराधिपसारथिना नीत मतिविशङ्कटं रथमपि कङ्कटकं शतक्रतोरनुग्रहान्मातलिना समग्रहीत्।
अन्योन्यस्य सदृशलक्ष्यमिलनादालक्ष्यशौण्डीर्ययोः
शस्त्राशस्त्रि समुन्मिषत्पुलकयोः सश्लाघयोः साहसे।
जाते जीवितसङ्कटे विहरतोमूर्च्छासु विश्राम्यतो-
रश्रान्तं रघुवीरपङ्क्तिमुखयोरासीदसीमा रणः ॥ 83 ॥
अथ तयो रविश्रान्तविमुक्तदिव्यास्त्रयोराखण्डलवृत्रनिभयोरालूनेषु मार्गणेष्वभङ्गुरपरस्पर विवरमार्गणेषु, विच्छिन्नेषु धनुर्गुणेष्वव्याहतसहजसाहस गुणाधीनेषु धुरीणेषु यानेषु निरपाय समराभियानेषु, निभिन्ने सांयुगीने च रथे निर्वैकल्यविजयमनोरथमजायत यशोधनमायोधनम्।
तूणीमुखात्त्वरितमुद्धरणे गुणेन
संयोजनेऽप्यथ शरस्यविमोचने वा।
यत्र व्यलोकि तदधीन इवातिवेगा-
ल्लोकेन राघवकरश्चिरमालुलोके ॥ 84 ॥
अर्घोदीरितवीरवादमहरद्रामो यदस्त्रैः क्षणा-
त्तेनैवाङ्कुरता मुखेन जगदे शेषं च लङ्कापतेः।
साम्ये सत्यपि चारुशारमुभयोर्घानुष्कमायाविनो-
विच्छिन्नाननदर्शनात्समभवद्‌व्रीडा रणे रावणे ॥ 85 ॥
दशाननशरक्षतिक्षरदसृगझरीबुद्बुदै-
स्तरङ्गितमहेन्द्रकङ्कटसहस्रचक्षुःपथः।
रणे रघुकुलोद्भवः क्षणममानि वैमानिकै-
यथा दशशतेक्षणो बलरूषा कषायेक्षणः ॥ 86 ॥
तदनु वारुणेन वैश्वानरं वैनतेयेन वातन्धयं वायव्येन वारिदं प्राभाकरेण तामिस्रं माहेन्द्रेण दानवं माहेश्वरेण वैष्णवं च परस्परमेवमस्त्रमस्त्रेण भिन्दानयोरनयोरनिशमाहवाप्रहादविदितान्यहानि सप्त व्यतीयुः।
शस्त्राशस्त्रिसमुत्सुकोऽपि दयितां सिचिन्त्य पर्याकुला-
मस्त्रेण ज्वलता विधेरपुन रुन्मेषेण तन्मस्तकान्।
रामः कन्दलितान्मुहुर्मुहुरवच्छेदेऽपि लङ्कापते-
रातङ्केन समं समस्तजगतां चिच्छेद सीतापतिः ॥ 87 ॥
रक्षःपतौ पतति लब्धमनोरथाना-
मातन्वतां दिविषदामथ पुष्पवर्षम्।
श्लाघापदं समजनिष्ट परं न रामः
कामोऽपि चाकलितशूर्पणकाविकारः ॥ 88 ॥
अनन्तरमालिङ्गित रणवसुन्धरं शरतल्पमधिशयानमधिगतनिषङ्गोपधानं यातुधानपतिमधिगत्य निपत्य च भुवि सोदर्यस्नेहसुलभवैधुर्यः कदर्योऽहमिति विहितनिजदूषणो विभीषणश्चिरतरं विललाप।
अयि समसुखदुःखैरन्वितं बन्धुवर्गं
सहजमपि भवन्तं मुञ्चतः साहसेन।
कुलविशसनहेतोः कूटधर्मानुवृत्ते-
र्दशमुख! मम यावज्जीवमासीत्कलङ्कः ॥ 89 ॥
आर्यस्य रक्षितुमसूननुजः स एकः
प्राणानमुञ्चत परं युधि कुम्भकणः
त्वज्जीवहृत्स्वयमहं निजजीवहेतो-
रद्यापि हन्त सहते हतको विधिर्माम् ॥ 90 ॥
इत्येवमस्मिन्विलपति विदितवृत्तान्ता शुद्धान्तात्करुणमारटन्तीभि रन्तरितयूथपाभिः करिणीभिरव तरुणीभिः सह समागत्य मघ्येसमरमापतितमशनिहतमिव मन्दरं दशकन्धरं नाथं निरीक्ष्य निहतोपध्नेव लता निपतन्ती विलपन्ती नाथ नाथेत्यपरिमेयविषादा निषादाहतदयितविधुरीकृतकुररीवामन्दं चक्रन्द मन्दोदरी।
या वीक्षिताजनि पुरा यमराजधानी
वीर! त्वया सकलदिग्विजयोत्सवेषु।
तामद्य दुर्विधिबलेन समस्तलोक-
साधारणः पुनरुपैष्यसि हा किमेतत् ॥ 91 ॥
जनकः स्वयं दनुजवंशनायको दयितो जगत्त्रितयजैत्रशासनः।
तनयः पुरदरजयीति गर्विता विधिनाहमेवमधुना विडम्बिता ॥ 92 ॥
राजन्यधर्मविदुषोऽपि रघूद्हस्य हत्वा यथाग्रजमथानुजपट्टबन्धः।
आरभ्य वालिनमसंशयमाविरासीदिक्ष्वाकुवंशसहजः कथमेष धर्मः ॥ 93 ॥
अहह निहता लङ्का वालानलेन हनूमतः
परमवनिजापातिव्रत्यानलेन भवानपि।
सुखमहमिहासीना शोकानलेऽपि यदीदृशे
प्रभवति न मां हन्तुं प्रायः स एष चितानलः ॥ 94 ॥
तदहमिदानीं सायंदिने भगवतः सवितुः प्रभेव प्रविश्य जातवेदसं चन्द्रिकेव चन्द्रमसं तडिदिव तडित्वन्तं भवन्तमनुसरन्ती निर्वापयामि निरन्तरविरहदहनदह्यमानमात्मानम्।
इत्यादिकरुणपरिदेवनवतीं प्रजावतीं निवृत्य निर्वर्त्य च निजाज्ञया निसाचरपतेर्यथाविधि समेधं पितृमेधं सविधमेधमानविषादं विभीषणमशेषराज्याधिपतिं विधातुमखिलतीर्थांहृतैरम्भोमिरम्मोधर इवदावदहनाकुलं वनस्पतिं रघुपतिरभ्यषिञ्चत्।
अथ दशरथनन्दनामिषेकादधिगतराज्यपदो विभीषणोऽयम्।
अनुदिनमभिवृद्धमण्डलोऽभूदरुणकरामृत पूरणो यथेन्दुः ॥ 95 ॥
ततः–
सीतामुदीक्ष्य निभृतेन विभीषणेन नीतामुदारगुणरूपवतीं सतीनाम्।
देवस्य तत्क्षणमभूद्दशकण्ठकृष्टामानन्दशोकरसबन्धुरमन्तरङ्गम् ॥ 96 ॥
अनन्तरमरुन्धतीव पवित्रचारित्र निधेरधिदेवता पतिदेवतेयमनादिपुंसोऽपि परस्य मर्त्यधर्मेण प्रत्यायनाय नायकस्य पुरः पुरंदरमुखान् बर्हिर्मु खान्पुरस्कृत्य भगवन्तमरविन्दासनमिन्दुकलेव पुनरुदेष्यन्ती तपनमिव दहनमनुजगाहे।
प्राविक्षदचिषि परं निजशुद्धिहेतोर्देवी विशुद्धचरिता जनकस्य पुत्री।
अंहश्चिरं हि यदपावनवस्तुसङ्गात्त्यक्तः स्वयं तदमुना दमुना बभूव ॥ 97 ॥
विशुद्धशीला मनलेन सङ्गाद्विदेहजां तत्र विलोक्य सीताम्।
प्रबां पुनः प्रत्युषसीव पूषा प्रत्यग्रहीत्सोऽग्रसरो रघूणाम् ॥ 98 ॥
अथ दाशकथिरधिगतनिजप्रशंसाविधिना विधिना पुरः प्रदर्श्यमानं विमानगतं महारथं दशरथं प्रणिपत्य प्रपद्य शिरसि तदनुशासनं पाकशासनवरप्रत्युज्जीवितैः प्रमुदितैर्हरिबिरनुगम्मानः प्रमोदमानमनाः सुग्रीवेण सह भाषमाणं विभीषणं सकरुणमालोकयन्ननुजेन सीतया च सममयोध्यामभिगन्तुकामःकामचर विमानवरमारुरोह कमपि कौबेरम्।
आरुह्य पुष्पकमयं विदितानि तानि लङ्कोपकण्ठदशकण्ठरणाङ्गणानि।
सिन्धुं गभीरमपि सेतुनिबन्धन च संदर्शयन्मृगदृशः स जगाम रामः ॥ 99 ॥
उपरि यथा यथा मणिविमानमुदञ्चति न-
स्तरुणि तथा तथा विपुलतामुपयाति नभः।
महिवलये तु पल्वलमवेक्ष्य महाम्बुनिधिं
पवनभुवे निवेद्य च हसन्ति परे हरयः ॥ 100 ॥
प्रिये विदेहराजनन्दिनि, विनतानन्दनमप्यतिशेते विमानवेगः।
तथाहि- यद्यद्‌दूरे पुरः पश्यन्निच्छामि तव शंसितुम्।
तत्तदन्वगपि द्रष्टुमपि वक्तुं न पार्यते ॥ 101 ॥
तरुणि धरणीसुते, पश्य ऋष्यमकोऽयम्। बिम्बाधरे, पम्पासर इदम्। कम्बुकण्ठि, कबन्ध निधनभूरियम्। करभोरु, खरादिकलहस्थानमिदम्। मधुरालापिनि, मम पर्णशालेयम्। मत्तेभगामिनि, मायामृगमृगयावनमिदम्। कुटिलायतकबरि, गोदावरीयम्। कुम्भिकुम्भस्तनि, कुम्भसंभवायतनमिदम्। विधुमुखि, विराधविघ्वंसनभूमिरियम्। कञ्जलोचने, महामुनेरत्रेराश्रमपदमिदम्। विदेहराजपुत्रि, चित्रकूटोऽयमिति विविधाः कथाः कथयन्नेवायमञ्जसा भागीरथीपरिसरगतं भरद्वाजमुनेः प्रशान्त पावनं तपोवनमयासीत्। अभाषत च मैथिलीम्।
प्रसुप्त बर्हिणश्वासपारणा सुकृती हरिः।
कण्डूविनोदनोत्कण्ठी कण्ठीरवनखैर्मृगः ॥ 102 ॥
तत्र भरद्वाजविहित विविधातिथ्यस्तथैव पदवीं दवीयसी मतिलङ्घय पुनरयोध्यासविधमासीदन्नग्रत एव हनूमदावेदितोदन्तमरुन्धतीजानिपुरःसरमजस्रमानन्दबाष्पाकुलितालोकैरमात्यादिलोकैः परिगतमतिपावनतपोधनव्रतमाजानभक्तिभरितमागच्छन्तं भरतमवलोकयन्नतिवत्सलतया तद्विमानादवरोहणाय देवो दशकण्ठरिपुरुदकण्ठत।
यानं मदाशयमवेत्य यथा यथैतत्तारापथादवतरत्यवनीकुमारि!।
आसेदुषीं सविधमद्य तथा तथा भूरत्यादरेण भवतीमनु गच्छतीव॥ 103 ॥
इत्थं वदन्निन्दुमुखीं सलीलं देवः प्लवंगाधिपदत्तहस्तः।
विभीषणावेदितया पदव्या विमानतो मन्दमवारुरोह ॥ 104 ॥
प्रणीतमणिपादुकं प्रणतमग्रतः पादयो-
रुदस्य भरतं जवादुपनयन्भुजाभ्यन्तरम्।
उदीक्ष्य च तपःकृशं वपु रमुष्य वात्सल्यतः
करेण समुहुः स्पृशन्न विरराम रामश्चिरम् ॥ 105 ॥
पश्यन्ननन्द भरतः परिरभ्य दोर्भ्यां सौमित्रिमार्यसमदुःख कृशीकृताङ्गम्।
सोऽयं सुखोपनतराज्य पराङ़मुखाय तस्मै पुनः सहजभक्तिदृढव्रताय ॥ 106 ॥
अथ भरतोऽपि पुरतोऽभि वादितपुरुषं पौरुषनिघ्नेन शत्रुघ्नेन समं देवीं प्रणम्य जनकनन्दिनीमुन्ममीकृत्य सावरोधवधूकान्सुग्रीवदशग्रीवानुजादीन्यथोचिताभिरुपचर्याभिर भ्यर्हितवसिष्ठमामन्त्रितमन्त्रिलोकमनुग्रहालोकानुगृहीतपौरवर्गमग्रजन्मान विमानगतमेव सबहुमान मानन्दयन्ननयदपनीतरुजं निजाश्रमपदम्।
तत्र च सौमित्रिसीतासखो दाशरथिरतिलोभनीयवात्सल्यां कौसल्या मतिशयितदुःखातिरेकां कैकेयी मतिक्रमस्नेहपरिष्वक्तां सौमित्रिमातरमपि क्रमादभिवादयन्नि जावलोकनरसनिरताभिरेताभिर्वनिताभिः कलाभिः पूर्णिमाचन्द्र इव पयोनिधिर्वीचिकाभिरिव प्रतिक्षणं परिरभ्यमाणो निर्भरानन्दमविन्दत।
अथाखिल जनेक्षणेक्षितरघूद्वहस्यादरा-
द्विधातुमभिषेचनं विचलता गुरोराज्ञया।
अनीयत समन्ततो हरिगणेन तीर्थं पुन
समाकुलितमन्थरं विजहता गतिं मन्थराम् ॥ 107 ॥
अलंकृतः कृतमभिषेकमादरादमात्यसंहतिभिरवाप्य राघवः।
पुरोन्मुखः पुनरयमानशे रथं मनोरथं स च भरतो महारथः ॥ 108 ॥
तत्र च सेवाविचक्षणाभ्यां लक्ष्मणशत्रुघ्नाब्यामभितो विधूतव्यजनः परिजनाचारनिरतभरतोदन्त विमलमुक्तातपत्रो विचित्रो पहितनेपथ्य चारुरारूढशताङ्ग मातङ्गैराशरप्लवग वाहिनीपतिभिरनुगम्यमानः प्रवर्त्यमानश्वे ताक्षतकुसुमलाजोपचारपौरपुरन्ध्रीकदम्ब संरम्भचलित मञ्जीरमणिकाञ्चीवलय वाचालितां वाद्यमानमाङ्गलिकतूर्यघोषणां वैबोधिकविविधरवश्रवणसमयोच्चलितसामोदपौरसंबाधां सौधान्तरगवाक्षचलित तरुणीजनेक्षणरेखानीलोत्पलदामतोरणाभिराम रथ्यान्तरामयोध्यामाजगाम रामचन्द्रः।
साकेतं समुपेयिवान्स विजयी संसेवितो भ्रातृभिः
सुग्रीवप्रमुखानपि प्रियसखान्स्वेस्वे पदे स्थापयन्।
स्वच्छन्दं सुचिरं सुखान्यनुभवन्देव्या तथा सीतया
रामः पालयति स्म कीर्तिविभवैरामोदिनीं मेदिनीम् ॥ 109 ॥
साहित्यादिकलावता शनगरग्रामावतंसायित-
श्रीगङ्गाधरघीरसिन्धुविधुना गङ्गाम्बिकासूनुना।
प्राग्भोजोदितपञ्चकाण्डविहितानन्दे प्रबन्धे पुनः
काण्डो लक्ष्मणसूरिणा विरचितः षष्ठोऽपि जीयाच्चिरम् ॥ 110 ॥
इति श्रीलक्ष्मणकविविरचिते चम्पूरामायणे युद्धकाण्डः समाप्तः।

***********************************************

]