03 सम्वित्सिद्धि

मूलम् - 3.1.32

इयं संवित्सिद्धिः सिद्धित्रये प्रथमा ।
अत्र च परमतसंवित्स्वूरूपादि विमृश्य स्वमतं स्थाप्यते ।
शतदूषण्याञ्च संविद्वैतभङ्गवादे (33) , ’ एकैव संविदनेकज्ञातृज्ञेयतदवच्छिन्नज्ञाप्तिरूपेण विवर्तते इति नूनमेतद््ग्रन्थपूर्वपक्षपरमसारः प्रादर्शि ।
एवमेवोपक्रान्तः श्रीभाष्ये महापूर्वपक्षोपि सहसिद्धान्तः प्राय एतद््ग्रन्थशैलीमवलम्बय स्यात् ।
’ प्रकाशश्च चिदचिदशेषपदार्थसाधारणे धर्म इति संवित्सिद्धावेव साधितम् ’ इत्यात्मसिद्धिवचनाच्चात्र मीमांसकादिमतशोधनमपि कृतं लक्ष्यते ।
अत्रत्याः सामप्रतमनुपलभ्यमानाः काश्चित् कारिकाः श्रुतप्रकाशिकायां दृश्यन्ते ।
यथा - यद्यप्रकाशमाना धीः कदाचिदवतिष्ठते ।
घटादाविव तत्रापि कल्पनीयं प्रकाशनम् , ’ घटोऽयमिति विज्ञाने घटमात्रं प्रकाशते ।
न वितिरिति युष्माकं गोष्ठीषु ननु घुष्यते ’ ,’ अतीतेऽनागते चार्थे कथं प्राकट्यसंभव- ।
न हि धर्मिण्यसत्येव धर्मः संभवमृच्छति ।।’ , ’ तदेवापश्यतां सर्वशून्यत्वाद्ब्रभ्यतां सताम् ।
गतिः स्वयंप्रकाशत्वात् ऋते नान्योपलभ्यते ।। ’ इति एवमन्यदपि ।

एवं तत्वटीकायामपि ।
एवमत्रोपक्रमे मध्ये च भागो बहुर्नष्ट इति एतद््ग्रन्थ एव व्यनक्ति ।
तथा ह्यत्र वचनानि - ’ व्यावहारिकसत्यत्वान्मृषात्वोऽप्यविरुद्धता ।
प्रत्यक्षादेरिति मतं प्रागेव समदुदुषम् ।। ’ इति ; मायाऽविद्याभेदं प्रस्तुत्य च , ’ क्षुद्रब्रह्मविदामेतन्मतं प्रागेव दूषितम् ’ इति , अनयत्र च . ’ भेदाभेदविकल्पस्तु यस्त्वया परिचोदितः ’ इति ; ’ सदसद्व्यतिरेकोक्तिः पूर्वमेव पराकृता’ इति च आत्मसिद्धसंविदात्मवादस्थल इव बौद्धमतसहोपलम्भनियमादिप्रसतावोऽप्यत्रेति , ’ नीलाद्युपल्पवापेतस्वच्छचिन्मात्रसंततिः ’ इति वचनान्निश्चीयते ।
भेदस्य प्रत्यक्षाविषयत्वं ब्रह्मसिद्ध्युक्तमप्युपर्यनूद्य स्वण्ड्यते ।
तथा चात्र ज्ञातृज्ञेयादिभेदमृषात्वम् , एकाविद्यामायाविद्याभेदादिमतभेदः प्रत्यक्षस्य व्यावहारिकगोचरत्वेन वा भेदस्य प्रत्यक्षगोचरत्वाद्वा अद्वैतागमाविरोधः , संवित्स्वयंप्रकाशात्वप्राकट्यादि , संविदद्वैतस्य युक्तिभिरागमैश्च गम्यत्वमित्यादि बहुएतदनुसारि श्रीभाष्यमहापूर्वपक्षादाविव विचार्य तत्रेव सिद्धान्तः स्थापित इत्यवगम्यते ।
उपलभ्यमानाश्च काच्चित् कारिकास्तत्रतत्रोपात्तास्सन्त्येव ।
तत्रतत्र शतदूषणीमिमां संवित्सिद्धिञ्च सावधानं सेवमानानामेतद््ग्रन्थसंदर्भविस्तरभूतोऽयमयं शतदूषणीभाग इति सुज्ञानम् ।
तदिदं बहुषु श्थलेष्वत्रापि दर्शयिष्यते ।
तत्रायमुपलभ्यमानाभागोपक्रमस्थोऽद्वितीयश्रुत्यर्थविचारः , ’ स्वतस्सर्वजगत्सूतेः संवित्सिद्ध्यादिभिः स्फुटम् ।
अद्वितीययदोक्त्यैव साधिता सविशेषता ’ इति संवित्सिद्धीति ग्रन्थनिर्देशपूर्वकमेव शतदूषण्यमद्वितीयश्रतिविसंवादवादे (59) व्यस्तारि ।

मूलम् - 3.3.33

इतरः उत्ररः ।
तत्पुरुषपक्षे उत्तरपदार्यप्राधान्यम् ; बहुब्रीहौ त्वन्यपदार्थप्राधान्यमिति ।
ननु द्वितीयभिन्नमित्याद्यर्थे नञर्थस्यैव प्राधान्यात् कथमुत्तरप्राधान्यमिति चेन्न - अब्राह्मण इत्यादौ भिन्नाद्यर्थलाभस्यार्थिकता , आरोपितब्राह्मणत्ववानिति च वाच्यार्थ इति वर्णयद्भिर्वैयाकारणैर्बहूपपत्तिपूर्वकमुत्तरप्राधान्यस्य नञ्समासे स्थापितत्वात् तदनुसारेणेदम् ।
अथ वा इतरः द्वितीयातिरिक्तः ।
2. तत् तृतीयप्रथमादिकम् ।

मूलम् - 3.6.34

तथा विरुद्धत्वेन स्पृष्टाः अद्वितीयमित्यत्र विरुद्धत्वद्वारा द्वितीयस्यान्वयः ।
तत्राद्वितीयमिति प्रथमबिवक्षायां पदार्थद्वयसिद्धिः ।
तृतीयचतुर्थादिविवक्षायां त्रयचतुष्टयादिसिदिधिः ।
2. निषेधः अभावः ।

मूलम् - 3.12.35

3.अस्य श्लोकस्य तत्पुरुषपक्षनिविष्टत्वादेवमर्थः - यस्य यत् प्रति द्वितीयं नास्ति , यदपेक्षयाद्वितीयाभावोऽद्वितीयपदार्थः , तद्ब्रह्मेत्युक्तौ अद्वितीयश्रुतिर्गुणतोपि सद्वितीयतां न सहत इति सत्यादिवाक््यं लक्षणपरं न स्यादिति ।
4. ब्रह्मणो द्वितीयाभावरूपत्वस्वीकारेण विशेषणत्वेपि प्रतियोग्यभावयोरेक त्यवायोगेन प्रतियोगिनो द्वितीयत्वे यदपेक्षया प्रकृताभावप्रतियोगि द्वितीयं तत् प्रथमम् ; अभावरूपं ब्रह्म तृतीयम् ।
अभावापेक्षयैव प्रतियोगिनो द्वितीयत्वे च ब्रह्म प्रथममिति सिद््ध्यतीत्यर्थः ।
तथाच लोके परमार्थस्यैव प्रतियोगित्वान्नैकमात्रसिद्धिरिति भावः ।
अत्रप्रावप्रध्वंसात्यन्तान्योन्याभावविकल्पेन ब्रह्मणोऽनित्यत्वं कार्यत्वं, प्रपञ्चस्य तुच्छत्वम् , इष्टासिद्धश्च; द्वितीयाभावस्य स्वप्रकाशत्वे द्वितीयस्य प्रतियोगनिनोऽध्यासायोगश्चति शतदूषण्याम् ।
5. ब्रह्मणो यत् प्रथमं , ब्रह्म प्रति यानि तृतीयादीनि , तानि सर्वाणि ब्रह्मण्यबाधितानि; कुतः ? ब्रह्मणो यत् प्रथमं , ब्रह्म यानि तृतीयादीनि, तानि सर्वाणि ब्रह्मण्यबाधितानि; कुत? तस्याद्वितीयत्वात् ।
द्वितीयमात्रहितत्वादिति ।
तदुक्तम् ’ प्रथमादिविधिकटाक्षणे’ ति ।
सर्वनिषेधाभिप्रायेण बहुव्रीहौ दोषमाह किञ्चेति ।
क्वचित्तालकोशे व्रत्यर्थस्येति पाठः ; अनत्र सर्वत्र ’ वत्यर्थस्ये’ ति ।
वृत्त्यर्थस्य वृत्त्युपस्थाप्यस्य, नञर्थस्य निषेधस्य द्वितीयाभावरूपस्य ।
तदुक्तम् -’ द्वितीयनिषेधवत्त्वञ्च ब्रह्मण उपस्थापयन्त्यां वृतौ कथं निर्विशेषत्वसिद्धः ’ इति ।
8. प्रकृत वाक्यस्याग्रशब्द - कर्मकाण्ड - कर्मकाण़्ड - सृष्टिश्रुत्यादिना ।
चः श्रुत्यार्थापत्तिसमुच्चये ।

मूलम् - 3.17.36

1.’ असमात्पक्षे तु वृत्तिद्वयमपि समयक् ।
द्वितीयव्यतिपेकोक्त्या सतः स्यादग्रगण्यता ।
द्वितीयशून्यतोक्त्या च ततस्माननिषेधनम् ’ इति श-दू ।
निमित्तरूपकारणान्तरिषेधेन ब्रह्मणस्स्वतर्स्सवजगत्सूतित्वबोधकोऽद्वितीयशब्द इति भाष्यार्थस्य प्रकृतग्रन्थार्थसामरस्यमिभिप्रेत्य च ’ कारणपरत्वे च सति …. अद्वितीयपदस्य स्वतन्त्रभेदनिषेधपरत्वे प्राप्ते सति अविभक्तनामरूपताप्रतिपादकेन एकमिति पदेनोपादानत्वस्य सिद्धत्वान्नि मित्तान्तरस्य बुद्धिस्थत्वाच्च निमित्तान्तररूपस्तुनिषेधपरमद्वितीयपदम् ’ इति श्रु.प्रय जि.; एवं शतदूषण्यपि ।
2 . अस्यैव राज्ञस्सभायां वादिनोविजित्य निजवैष्णवसिद्धान्तस्थापनादेते परमाचार्याः गार्हस्थ्ये ’ आल वन्दार्् ’ इत्याभिनन्दनेनार्धराज्यप्रदानेन संमानिताः ।
3. ’ यथा शरीरजाति … गुणवसनभूषणादि … पुरुषेऽवस्थिते तत्रैक एव तिष्ठनि …. इति व्यपदिशन्ती’ ति शतदूषणी (36) ।
4. ’ अविद्याऽस्मितारागद्वेषाभिनिवेशाः क्लेशा; र्कम पुण्यापुण्यरूपम् , तत्फलं विपाकः , आशयो वासना ।। 5. प्रधानसंख्येयः इति सर्विसर्गपाठः सर्वत्र ।
6. अन्यतया स्थितातीत्यर्थः ।
अपृथवसतीतिच्छेदे अपृथविसद्धत्वान्न गण्यत इत्यर्थः ।

मूलम् - 3.26.37
  1. प्रकारतापराः ।
  2. विशिष्टे विशेष्यतयान्तर्गतत्वात् कारणत्वाच्च प्राधान्यम् ।
    कारणदशायां चिदचिदीश्वरत्रयसत्त्वेष्येतन्मात्रिर्देश ईदृशप्राधान्यात् ।
    अन्यत्तुविशेषणं , कारणतावच्छेदकञ्चेति ।
मूलम् - 3.33.38
  1. ब्रह्मरूपेणात्मनाऽन्तर्यामिणा ।
    आत्मनः स्वरूपस्य लाभो यस्येति बहुव्रीहः ।
  2. एतत्प्रघट्टार्थश्च शतदूषण्यां सत्त्वासत्त्वविवेकाद (60) ते द्रष्टव्यः ।
  3. अनेन बौद्धमतनिरासः ।
  4. मीमांसकाः सिद्धान्तिनश्च 1.5 जैनमतं निरस्यति घटेति ।
    धिय इति वक्ष्यमाणत्वादत्रापि धियां कर्तृत्वे अबूबुधन्निति बहुवचनं युक्तम् ।
  5. स्याद्वादस्येति पाठो युक्ततरः ; जैनवादस्येत्यर्थः ।
  6. साङ्ख्यमतमुत्यथापयति ।
  7. आद्यन्तवत्त्वेनाभिमन्यमानः ।
    9 जन्ययोगात् जनेरुपत्तेरयोगात् ।
  8. प्रागसतः कार्यत्वाभिमतस्य , अत्यन्यतासतः खपुष्पस्य च ।
मूलम् - 3.51.39
  1. अत्रोक्तानां जैनसाङ््ख्याद्वैतिमीमांसकमतानां मध्ये जैननिराकरणर्वकसांख्यप्रस्तावमात्रोपल्भ्यात् सांख्यदूषणाद्वैतिप्रस्तावतद्दबषणभागो लुप्त इत्यालोच्यते ; उत्तरोपलब्धांशेनासङ्गतत्वाच्च ।
    ’ सदसद्व्यतिरेकोक्तिः पूर्ममेव पराकृता ’ इत्युपरितनवाक्यमत्रत्यपराकरणप्रकाराभिप्रायमपि स्यातत ।
  2. तत्त्वमसिवावयादखण्डैकमात्रसिद्धिरिति प्ररोक्तं निरस्यति श्वेतकेतु मिति ।
  3. मूलभूतं सारभूतं वा वस्तु धातुशब्देन तत्रतत्रोच्यते , आकाशधातुः , तेजोधातुः , विज्ञानधातुरित्येवम् ।
  4. उपलक्ष्येक्ये उपलक्षणद्वयवैयर्थ्यादुपलक्षणवैलक्षणयाच्चोपलक्ष्यधर्मभेद आवश्यक इति विरुद्धगुणत्वमवर्ज्यमिति ।
  5. तथाच तत्रापि न व्यक्तिमात्रे लक्षणेति ।
  6. विभिन्नोपाधिमप्यन्तरेण चिति अज्ञत्वासर्व ज्ञत्वस्वूकारे विरुद्धसमावेशदोषो दुर्वार इति भावः ।
  7. उपाध्यभावे विरोधपरिहारायोग इति हेतुना ।
    अस्य यन्मतमित्यत्रान्वयः ।
  8. उपरि परजीवाविभागत इति दर्शनादत्रापि ’ विभागेन ’ इति स्यात् ।
  9. विशिष्टेमायादसंबन्धवादिनापि विशिष्टानतर्गते विशेषणे तदयोगात् विशेष्यांशे तदुक्तौ सर्वसांकर्यदोष एवेति ।
  10. अतो मायाद्यतिरिक्तं विसेषणमपि दुर्वचमिति ।
  11. तदुक्तम् , ’ न चोपलक्षणं सर्वं बहिःष्ठमितिनियमः , गोत्वपृथिवीत्वाद्युपलक्षणसास्नादिमत्त्वगन्धवत्त्वादेर्बहिःष्ठत्वाभावात् ’ (शू.दू.38)इति ।
    न ह्यज्ञत्वादिकमविद्यादिमात्रगतम् ; तथासति मायाविद्ययोरेव जीवत्वेश्वरत्वापत्तेः ।
    अत इह तटस्थतावादिना उपहितस्वरूपगत्वमेव वाच्यमिति ।
    दण्डीत्यत्र दण्ड्येति स्यात् , अज्ञत्वादौ अविद्याशबलत्वादेरिवळिरश्छेदे दण्ड्यतया ः प्रयोजकत्वसंभवात् ।
मूलम् - 3.64.40
  1. मायाविद्योपाधिपक्षदूषणं निगमयति ।। अत इत्यस्य तत्वम्पदयोः मायाविद्यावच्छिन्नचिद्वाचकत्वाभावादित्यर्थकस्यासुन्दरमित्यत्रान्वयः ।
  2. त्वमर्थ आत्मनि अब्रह्मत्वस्य , तदर्थे ब्रह्मण्यनात्मत्वस्य चाभावे पदद्वयार्थस्यात्यन्ताभिन्नत्वे केवलचिन्मातरमर्थः स्यात् ।
    तथा च प्रवृत्तिनिमित्तभेदविसिष्टवेषेण वस्तुभेदप्रयुक्तत्वात तादात्म्यस्य , तदत्र न भवतीति ।
  3. यत्र प्रवृत्तिनिमित्तरूपेण भेदः , विशेष्यरूपेणाभेदश्च , तत् भेदाभेदि , तदन्यस्य, घटः पटः घटो घट इति च तादात्म्यसंबन्धे असति उक्तविकल्पो व्यर्थ इति ।
    सतीत्यत्र ’ स तु ’ इति वा पाठः ।
  4. ब्रह्मसिद्धि कारादिना भेदभादयोस्स्वरूपभेदसिद्धान्तमभ्युपेत्यैव तद्विरोधिवचनान्निग्रहस्थानमित्याह ।
  5. बाधारूपो विरोधः ।
    बाधादिति पाठो वा ।
  6. भिन्नयोस्संयोगश्चेत , विन्ध्यहिमवतोस्सयात् ।
    अभिन्नगश्चेत् , स्वात्मना सहापि घटादेस्स्यादित्येतादृशः ।
  7. मोक्षेपि ब्रहमभिन्नजीवस्थितेरावश्यकत्वं दर्शयति ।। अन्तः स्थपदेन नदीसमुद्रजलयोरिव मुक्तब्रह्मणोर्भेदः , त्वम्पदस्य प्रकारभूतजीवविशिष्टपरत्वञ्च दर्श्यते ।
    फले फलकाले ।
    पाठे सहयोगे तृतीया ।
  8. अनयेषां प्रापढ्चिकपगार्थानाम् ।
मूलम् - 3.77.41
  1. एवं वस्तुभेदपि वित्तिभेदो नास्तीत्युक्तम् ।
    अथ वस्तुभेदोपि मिथ्येति वित्तिभेदसत्यत्वं दूरापास्तमित्याह किञ्चेति ।
    स्वतो नीरूपायाः निराकारायाः न हि भ्रम इत्यन्वयः ।
    अवग्रहो वैशिष्ट्यमवगाहनं वा ।
  2. भेदो नाम वस्तुस्वरूपम् ; वस्तुखरूपम् ; वस्तुग्रहणमात्रेण भेदव्यवहाराभावात् ।
    नापि वस्तुधर्मः , तुल्यन्यायेन वस्तुनि धर्मभूतभेदाद्् भेदस्यापि धर्मतयाऽनवस्थापत्त्यादिदोषात् ।
    न प्रत्यक्षः , प्रतयक्षस्य सन्मात्रग्राहित्वात् ।
    अत एव क्वचिदप्यप्रत्यक्षतया अग-हीव्याप्तिरूपसंबन्धत्वात् अलैङ्गिकोपीत्यर्थः ।
    श्रीभाष्यादावेतद्विस्तरः ।
  3. भ्रान्तिसिद्ध इत्यर्थः ।
    4.5. किञ्चेत्याद्योरनयोर्विवरणमात्मसिद्धौ ।
  4. प्रीतित्यादिकारिकाद्वयं श्रु. प्र.जि. व्याख्यातम् ।
    तत्र नः इत्यत्र चेति पाठः ।
    श-दु. मेविदद्वैतभङ्ग (33) वादात् इह प्रायो र्विशतेः कारिकाणामर्थो ग्राह्यः ।
    7 संबन्धिना आश्रयेणैव संयोगादेः संयोगाद्यन्तरात् भेदो ज्ञाप्यते ।
    तावता न विश्वसंयोगौक्यम् ; एवमिच्छादावपीत्यर्थः ।
मूलम् - 3.90.42
  1. ननु काचित् संवित् कञ्चिदेवार्थे भासयतीति स्वभावत एव व्यवस्थेत्यत्र , एवं संविद्भेदेऽपिसिद्धान्तं इत्याह न चेति ।
  2. ’ न युज्यते ’ इति मुद्रितपाठः।
  3. अनुभवानुगुण इति परिहासः ।
  4. इदं पञ्चिकायामपि (8.प्र) ब्रह्मसिद्धिखण्डनावसरे ।
  5. अविद्याया भिन्नाभिन्नानिर्वचनीयतया तद्विलासे नीलादावपि सेति नेत्यर्थः ।
    इदमेवोक्तं (श.दू) ’ अनिरूपितभेदाभदाविद्याविलासदौर्धट्यविश्रमेऽस्मदुक्तदूषणाभ्युपगतिम्नतरेणापसर्पणासिद्धेः ’ इति ।
  6. अविद्येत्यत्र विद्याशब्दार्थः क इति विचारयति अपिचेति ।
  7. अविद्या यन्निवर्त्या सा हि विद्या ।
    न च वेद्यवेदितृभ्यामविद्यानिवृत्तिर्लोके ।
    प्रत्युत तयोरपि विद्यानिवर्त्यत्वात् न विद्यात्मिति भावः ।
मूलम् - 3.107.43
  1. ’ किञ्चासौ कस्य’ प्रश्ने ब्रह्मण इति समाधिमनूद्य निरस्यति ।। अविद्येति किं ज्ञानसंसर्गाभावादिरुच्यते , उत ज्ञानानयोन्याभावः ? आद्ये आह सर्वज्ञमित्यादिः ।
    अन्त्ये वक्ष्यति आश्रयप्रतियोगित्वे इति ।
    चदुक्तं शत.दू. 19. ’ नापि ज्ञानानयोन्याभावः , ज्ञानान्तरान्भ्युपगमात , खप्रतियोगिकभेदायोगाच्च ’ इति ।
  2. सर्वज्ञत्वं मिथ्या अयथार्थंभेदावगाहित्वात् इति ।
  3. कर्म भेदकप्रमाणानि षट्् पू. मी. द्वितीयाध्याये कथितानि ।
    ददाति , जुहोतीत्यादौ शब्दान्तरमू; समिधोयजति; तनीनपातंयजतीत्यभायसः ’ तिस्न आहुतीर्जुहोतीति संख्या; अथैष ज्योतिरयैष विश्वज्योतिरिति संज्ञा; वाजिभ्यो वाजिनमित्युक्तः सा वैश्वदेव्यामिक्षेत्युक्तात् अन्यो गुणः ; मासमग्निहोत्रं जुह्वतीति नित्याग्रिहोत्रतः प्रकरणान्तरमिति ।
    एषां कर्मभेदकानां शास्तरभेदकत्वपक्षानुसारेण शस्त्रभेदका इत्युक्तम् ।
    तदुक्तम् श्रु.प्र.जि. ’ शास्तरभेदः कर्मभेदो वा ’ इति ।
  4. विद्याभेदरूपाविद्याश्रयत्वं प्रत्यक्त्वेनरूपेण; विद्यारूपस्य तस्य प्रतियोगित्वं ब्रह्मत्वेनेति ।
    पुनः जीवाविद्यापक्ष इव ।
  5. तथाचैषां दोषाणां दोषता कुत्रापि न स्यात् ।
    सर्वमिथ्यात्ववादिना चावस्तुन्येवैषां दोषत्वमेष्टव्यमिति ।
मूलम् - 3.117.44

1.अन्योन्याश्रयदोषो हि स्वस्य स्वसाध्यापेक्षसिद्धित्वप्रयुक्तः , न तु वस्तुत्वप्रयुक्तः ।
अतः अवस्तुत्वादितीदं नोत्तरमिति ।
2. सदसादनिर्वचनीयवादिना , ’ अविद्या न व्सतु नाप्यवस्तु ’ इत्युच्यते ।
तत्र न वस्तु इत्यंशमत्र दूषयति , अवस्तुत्वात् इति हेतुरसिद्ध इति बोधनाय ।
इदमेव स्थापयति नाप्यवस्त्वित्यंशशोधनेनोपरितनकारिकाभ्याम् ।
खपुष्यादिव्यवहारो हि वस्तुशून्यः केवलं शब्दज्ञानानुपाती ।
न चै।
लोकव्यवहारस्तादृशः ।
अन्यथा अवस्तुनि प्रपञ्च इव स्वपुष्पादावप्येवं विचित्रव्यबहारप्रसङ्गात् इति ।
द्वितीयरीत्या पाठक्लृप्तौ तु खपुष्पादीति पृथक्पदम् ।
तदा व्यवहारवत् वव्यवहारविशिष्टम् ।
तथाचार्थक्रियाकारित्वात् वस्तुत्वमेवेति भावः ।
3. तत्प्रतिप्रसवो नाम तन्निषेधिषेधः ।
4. यद्विद्यया - येषां वामदेवादीनां विद्यया ।
चोद्यते -शंक्यते ।
5. प्रत्यूह्यताम् बाध्यताम् ।

मूलम् - 3.128.45
  1. सर्वज्ञोऽस्तीति वादिनः सार्वज्ञ्यपादने सर्वज्ञो नास्तीति तन्निषेद्धुरपि तद््ज्ञानावश्यकतया सार्वज्ञ्यापत्तिः ; तत्रेवेत्यर्थः ।
    यद्वा ’ सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा ।
    तावुमौ यदि सर्वज्ञौमतिभेदः कथं तथोः ’ रीत्या एकमते सर्वज्ञसिद्धावन्यमतेपि सर्वज्ञान्तरसिद्धिः ; तत्रेवेत्यर्थः ।
  2. एवंसति, मुक्तेर्भूतत्वस्येव भविष्यत्त्वस्याप्यभावे ।
  3. इति पक्षद्वये किंरूपेयमभिव्यक्तिरिति ।
  4. अहं ब्रह्मास्मीति संविदो यत् पुष्कलं कारणं, तत् आदौ नास्तीति ।
मूलम् - 3.146.46

1.किञ्चेत्यादयः कारिका उपादशाः शतदीषण्या(61-2) मर्थतोऽनूदिनाः ।
2. अबाधितप्रतीतिगोचरत्वात्मकस्वाप्नवैधर्म्यरूपयुक्तिसत्त्वेन ।
8. यौक्तिकमिति विवादाध्यासितं चेतनजातमहं चेतनत्वात् , सर्वाणि शरीराणि मयैवात्मवन्ति शरीरत्वादित्यादियुक्तकल्पितमित्यर्थः ।
4. अनुमित्ताः ।
देहिन इति विशेष्यम् ।
5. अनुमेयस्य स्वाभिन्नत्वेऽनुमानवैयर्थ्यम् , प्रत्यत्रसिद्धत्वात् न च तेषां परोक्षत्वान्मियथोभेदप्रत्यक्षायोगः तेषु परोक्षेषु स्वभेदप्रत्यक्षायोगेऽपि स्वस्मिन् प्रत्यक्षे तद्भेदप्त्यक्षसंभवात् इत्याशयेनाऽऽह यथेति ।
अनुमानाः इतिच्छेदः ।
माहनसादिगतवह्निव्यक्तीनां अनुमितहेतु व्याप्तिग्रहोपयोगितया तद्विषयतया चानुमानत्वम् ।
अन्वयार्थश्चैवम् - अनुमेयपर्वतवह्न्यादिविलक्षणा अनुमापबह्न्यादयो यथा , तथा अन्येभ्यो जीवेभ्यः पृथक् त्वत्स्वरूपं ते न प्रत्यक्षं किमिति ।
’ प्रत्यक्षस्ते’ इति पाठान्तरे त्वत्स्वरूपमितिस्थाने त्वदात्मेत्यध्याहारः ।
विलक्षणा इति बहुवचनं भूयोदरशनस्य व्याप्तिग्राहकस्य संभावितत्वाभिप्रायेण ।
अत्र ’ यथाऽनुमेयाद्वह्न्यादेरनुमात्रा विलक्षणाः ।
प्रत्यक्ष्यन्ते तथा ’ इति पाठोष्यभ्यूह्यते ।
6. अन्येऽपि अस्मरणहेतवो मबलभावप्रकाशिकायां दर्शिताः ।
भोगा इत्यत्र भेदा इति श्रु-प्र-पाठः ।
7. वस्त्वेकत्वभ्रमःष 8. मिथस्समागमादिसत्त्व एव साध्याम् ।

मूलम् - 3.157.47

एवं संविदद्वैतखण्डनसिद्धान्तमारभ्य नीलादेः संविद्भेदाभेदविचारं प्रस्तुत्यतद््दुर्निरूपत्ववर्णनार्थप्रसक्ताविद्यादूषणोऽवतीर्य तत्खरूप - तदाश्रय- तद््वस्तुत्व -तद्गतप्रतिबन्धकत्व -तदेकत्वानानात्वतदाश्रयजीवैकत्वनानात्वानामनुपपन्नतां प्रदर्श्य संप्रति पराभिमतधर्मवशादपि संविदो नाद्वितीयत्वमित्याह 1. किञ्चेति ।
2. ते धर्माः संविद्रूपा एव न भवन्ति ।
3. हेत्वन्तरमाह ।। नित्यत्वविभुत्वादेः मिथोभिन्नत्वाच्चेत्यर्थः ।
4. महिमा महत्त्वं विभुत्वम् ।
5. पूर्वोक्तैव ।
6. ’ सत्यादिवाक्यमखण्डार्थपरं समानाधिकरणवाक्यत्वात् प्रकृष्टप्रकासश्चन्द्र इति वाक्यवत् ’ इति शतदूषण्याम् (38-58-पु) ।
7. निर्भग इति पाठो वा, विभागो विगतभाग इत्यर्थो वा, अविभग इतिच्छेदा वा ।
अखण्ड इति यावात् ।
8. ज्ञानादिशब्दानां व्यावृत्तिपरत्वपक्षं शङ्कतेजाड्यतिः अपोहा इत्यादिना तत्परिहारः ।
वर्तिता- वृत्तिः ।
9. कृतः मसाहितः पक्ष इतरो यस्मात् असत्त्वपक्ष इत्यर्थः ।
बहुव्रीहित्वात् इतरपदमसर्वनाम ।
गतेतरे इति वा अन्यो वा क्श्चित् पाठः स्यात् ।
10. वक्ष्यति च , ’ घटवत्सदसत्त्वाभ्यामनिर्वाच्यम् ’ (141.पु.) इति ।
11.अरोह्यस्य जडत्वादेः विरुद्धभावरूपवत्त्याऽर्थस्याबोधने ।
’ लब्धरूपे क्वचित्किञ्चित् तादृगेव निषिध्यते ’ (ब्र.सि) इति त्वयैव किञ्चिद्रूपविशिष्टतया प्रतिपन्ने एव किञ्चिद्रूपविशिष्टस्यैव व्यावृत्तिर्बोधयितुं शक्यतेत्युक्तत्वात् इति भावः ।
12. तदेकार्थैः धर्मिमात्रर्थकैः , यद्वा निषेधमात्रार्थकैः न खल्वनुयोगिप्रतियोगिरूपद्वयाभावे निषेधकथेति भावः ।

मूलम् - 3.171.48
  1. ’ यदि घटः स्यात् . सोपिदृश्यत, योग्यत्वात् ।
    अतो दृश्ये घटे यतु भूतलमात्रविषयं ज्ञानं तत् ’ घटोऽत्र भूतले नास्ति ’ इति व्यवाहारकारणम् ।
    अतोनाभावरूपं किञ्चित्प्रमेयम् ’ (शा. दी. 1-1-5) इति मतानुसारेणेदम् ।
    इतीहापि इत्यस्मिन् पक्षेपि ।
    यदि ’ केवलब्रह्मज्ञानमेवापोहः , नान्य इति ’ पूर्वपक्षी मन्येत , तदापि ज्ञानरूपैरवापोहैः सद्वितीयत्वमवर्जनीयमिति ।
    अपीत्यनेन वस्तुतो ब्रह्मरूपधर्मिज्ञानमात्रेण जडाद्याशङ्कानामनिवृत्त्या भावरूपत्वेप्यपोहस्य ब्रह्मगतकिञ्चिद्धर्मात्मकत्वमेवेति सूच्यते ।
    व्यवच्छिन्दन्तीति शत्रान्तम् ।
  2. नील इत्येकाकारैव नीले धीःः ; न तु नीलिमान्यस्य कथापि ।
  3. कषायधीनैवं मधुरविषयिणी ।
  4. प्रतीतिनियममुक्त्वा व्यवहारनियममाह ।
  5. व्यवच्छिन्दन्ति जायन्त इत्युक्तम् युक्तमित्याक्षेलं निरसितुमनुवदति ।
    अयमर्थो ब्रह्मसिद्धौ (2-1-7) ’ आहुर्विधातृ प्रत्यक्षं न निषेद्धृ विपश्चिचतः ’ इत्यादौ द्रष्टव्यः ।
    अनेन च न वस्तु वस्तुधर्मो वे (131) त्युक्तं निरस्तं भवति ।
    विधानं स्वरूपग्रहः , व्यवच्छेदो भेदग्रह इति दत्त्वटीका ।
    विधानकार्यत्वात् व्यबच्छेदस्य न यौगपद्यम् ।
    क्षणिकत्वात् प्रत्यक्षस्य न क्रमेण स्वरूपभेदग्राहित्वे ।
  6. (?) तद्भावः तादृशाकारवत्त्वम् ।
  7. प्रत्यक्षं विचारितम् ।
    आगमात् सदसद्व्यतिरेकसिद्धमपास्यति ।
  8. अनुमानस्याधकत्वामाह ।
मूलम् - 3.184.49
  1. ब्रह्मातिरिक्तपरमार्थमिथ्यात्वसत्त्वेनैव ।
  2. न तु मिथ्यात्वप्रमाणमात्रंब्रह्मप्रमाणमात्रं वा ।
    अत्रान्याहृशः कारिकापाठक्रमो मुद्रितग्रन्थस्थोऽशुद्धः ।
  3. धटोस्तीत्यत्र घटशब्दवाच्यमस्तिशब्दवाच्यसन्मात्रब्रह्मणोऽनन्यदन्यद्वा ।
    आद्ये पटोस्तीत्यादाप्येवमिति सदेकतत्त्वसिद्धिः ।
  4. घट इत्येतत् ।
  5. समानाधिकरणास्तिपदार्थत् घटपादाद्यर्थस्य भिन्नत्वे ।
  6. आन्तन्दो ब्र्हमत्यद्यैरानन्दादिभिन्नता ।
  7. सदसद्वयतिरिक्तः प्रपश्च इति प्रयोगे तद्भेदस्यैव प्रपञ्चे सिद्धेः ।
  8. ननु तर्हि समानाधिकरणस्थलेऽभेदस्यैव बोध्यत्वात् कथं सदद्वैतासिद्धिरित्यत्र अस्तीति न ब्रह्मोच्यते , किन्तु घटादिपरन्त्रो धर्म इति वदन्निगमयति तस्मादिति ।
  9. स्वैरित्यादिकारिका शतदूषण्यां 61 वादेषडन्वादि ।
  10. एवं प्रत्यक्षादिप्रतीतेः विधायकत्ववत् व्यवच्छेदकत्वस्यापि संभवात् , सत्त्वेन प्रतीतेषु सदसद्वयतिरेकित्वायोगाच्चापोहा नामपि सदसद्वय्तिरेकित्वायोगात सर्वथा स्वयंप्रकाशत्वादिभिस्सद्वितीयत्वमित्युक्त्वा प्कारान्तरेणापि तदाहनेकि ।
  11. पक्षपात इति श्रु.प्र.पाठः ।
    निर्धर्मिकत्वस्येवान्येषामपि धर्माणां प्रमाणसिद्धत्वे तदेकमात्र स्वीकारे पक्षपात इति ।
    पक्षबाध इति पाठे अद्वितीयत्वसिद्धान्तभङ्ग इत्यर्थः ।
  12. यथावस्थितैः ।
    ब्रह्मै रित्यनेनआन्तरसंविद्वैलक्षण्यं दर्श्यते ।
    अत्र मीमांसाकृता निरालम्बनवाददूषमसरणिरभिप्रेता ।
    अत एव समनन्तरमेतदसहामानस्य सहोपसम्भनियमावलम्बनेन पुनरुत्थानम् ।
मूलम् - 3.197.50
  1. सहोपलम्भनियम ’ इति , ’ नचेत् ’ इति चार्धद्वयं विनैव क्वचित्तालकोशे पाठः अस्य च सहोपम्भपक्षदूषणपरत्वात् , उपर्येव पूर्वपक्षप्रस्तावात् . ततः पश्चाद्यत्र क्वापि तत्खण्डनग्रन्थमध्येनिवेशः स्वरसः । नचेदित्यस्य, ’ माभूदिति चेत् - तर्हि ’ इत्यर्थः । यद्वा सौगतैस्सामान्यपलापात् संवेदनास्दं सर्वं समामान्यं न चेत् , संविदः कथमप्यनुदमायोगादेकैकसंविदैव सहोपम्नियमो वाच्य; स चासंभवीति विशेष्टार्थः । अयमर्थः आ. सि. । 2. शङ्कते सहेत्याद्यर्धसप्तकेन ’ सहोपलम्भनियमात् अभेदो नीलतद्धियोः । भेदश्च भ्रन्तिविज्ञानैः दृश्य इन्जाविवाद्वये’ इति बौद्धः । 3.आत्मार्थवाभासनम् - ग्राहकस्यात्मनो ग्राह्माणामर्थनाञ्च भानम् । 4. यस्माद्वस्तुनः यतु ज्ञानम् । तस्मात् ज्ञानविशेषात् । तत् वस्तु । 5. निर्भात इति शत्रन्तात् पञ्चमी ।घटं विनापि भासमानाम् पटात् ऋते घट इव भातीत्यन्वयः ।।एतदुपरि सर्वो ग्रन्थो नष्टः । अद्वितीयश्रुतिविमर्श-सत्त्वासत्त्वाद -तत्त्वमसिविचारेभ्यः पश्चात्प्रवर्तितो यो विस्तरेण संविदद्वैतपूर्वपक्षः , तस्य खण्डनमेतावतापि न समाप्तम् । परत्यक्षानुमित्यादिरूपेण विचित्राणां संविदां प्रमातृभेदात् विषयभेदाच्च भेदं सिद्धान्तारम्भे प्रदर्श्य, तदुपरि सर्वापपलापाय प्रस्तुताया अविद्यायाः स्खरूपादि परदूष्य , ततः संविदससधर्मकत्वादपि संविदद्वितीयत्वं तुर्वचमित्यारभ्य, धर्माणापोहरूपाणां सदसद्वय्तिरेकप्रसङ्के प्रपञ्चसदसद्व्यतिरेकमेव निरस्य , एवं संविद्धर्माणां विषयप्रपञ्चस्य च वास्तवतया सर्वापपायोगमभिधाय , पुनर्बौद्धसरण्या संविदतिरिक्तनिरसनाय सहोपलम्भनियमप्रस्तावे तत्खण्जनमत्र क्रियते । एतत् माप्य शिष्टं संविदद्वैतपूर्वपक्षिप्रस्तुतांशसमाधानं वक्तव्यमस्तीति ।।उपक्रमादिलुप्तांशलिप्सया त्वियमादिमा ।संवित्सिद्धिर्मितृकादिक्रमाच्चान्ते परिष्कृता ।। 1 ।।अभिनन्दन्ति बालस्य स्खलतोपि पदकमम् ।भ्रान्ते ः पुरुषधर्मत्वात् तृप्येद््दृप्येच्च कःपुनः ।।2 ।।स्वोक्तमप्युज्झ्यते स्वेन सता दुष्टं परैः कुमु ।गुणश्लाधिबुधप्रीत्यै गुरुभक्त्योद्यतं ।। 3 ।।इत्थं विरचितानेकशात्रसाहित्यवाङ््मयः ।तर्मकर्णंवाद्युपाख्यो यस्सोऽहं श्रीरारराधवः ।। 4।।प्रणीतानेकसुश्लाध्यप्रबन्धैर्गुणभूषणैः ।यतीन्दैः प्रात्राच्छिष्यबृन्दस्तुतपादम्बजैः ।। 5 ।।श्रीरङ्गलक्ष्मणाभिख्यैर्यैरस्मयपरयामुनैः ।देशिकैर्बोधिताशेषगूढार्यो यैर्दयाघनैः ।। 6 ।।लम्भितोभयमीप्तांसावल्लभाख्यश्च संसादि ।एषां षष्ट्यब्दसंपूर्तिमहसत्वकारकाम्यया ।। 7 ।।प्रत्नं सिद्धत्रयं प्रौढं भगवद्यामुनोद्गतम् ।सुहृत्सप्रेरितः प्रीत्या परिष्कृत्य खकीयया ।। 8 ।।गूढंप्रकाशटिप्पण्या संयोज्याद्य समर्पये ।दैवतं ये ममैतेभ्यो गुरुभ्यो रोचतामिदम् ।। 9।।वाञ्छा परं भवति वक्तुमनुक्तमन्यैः एवं विचिन्त्य कथितञ्च परत्र दृश्यम् ।दृश्यं न यत तदपि हाध्यमहाधितञ्च प्राज्ञे न मृष्यति परस्तु न वेति किञ्चित् ।। 10 ।।’ यतिपतिरवधते यामुनार्यस्स्वयं वा’ इ(वे) त्यानधनिगमचूडासूरिसूक्तप्राकारा ।क्व तु कृतिरियमीदृक् क्वाहमज्ञोऽन्यसक्तः कथमपि गुणमन्विषयत्र तुष्यन्तु सन्तः।। 11 ।।वेधोजिह्वाग्रवासिन्यपि भवति कला भारती यस्य , यस्यत्वास्थानं भावति नित्यं निरवधिमहिमाचार्यजिह्वा स देवः ।सच्चितक्षेत्ररूढस्वकचरणयुगीक्तवल्लीप्रसूतैःतत्त्वज्ञानप्रसबनैः जनमिह निखिलं वासयेद्वाजिवत्रः ।। 12 ।।इति श्रीवात्स्य वीरराघवाचार्य विरचितम् गूढप्रकारशाख्यम्सिद्धित्रयटिप्पणम् ।श्रीमते रङ्गरामानुजमहादेशिकाय नमः।। शुभमस्तु ।।