मूलम् - 2.1.24
अयं ग्रन्थ आत्मचिन्ताग्रन्थादर्वाचीनः, न संवित्सिद्धिवत् प्राजीनः, अत्र देहान्तरप्रापक - उपपादितमात्मचिन्तायाम् ’ इति वक्ष्यमाणत्वात् ।
अत्रात्मसिद्धावित्यनुक्त्वा आत्मचिन्तायामित्युक्तिरस्य ग्रन्थस्यात्मसिद्ध्यन्तर्गतत्वपक्षमुपष्टभ्नातीव निर्विवादपारम्परिकप्रसिद्धिप्रामाण्यात्त्वयं ततोऽन्यएव ग्रन्थः ।
करिण्यमाणैतदीश्वसिद्धिग्रन्थविवक्षितार्थस्येत एव द्रष्टव्यतामुपदिश्य अभिसंधाय वाऽन्यांशमात्रचिन्तनेन तं ग्रन्थं समाप्य संगृहीतांशविशेषे विस्तरायायं ग्रन्थ इति पक्षान्तरञ्च प्रागेवावाचि ।
मन्ये इष्टसिद्धि - नैष्कर्म्यसिद्धिब्रह्मसिद्धिरूपप्राक्तनाद्वैतग्रन्थत्रयप्रतिभटभूतमिदं सिद्धित्रयमिति ।
आस्तामेतत् ।
अत्र मङ्गलश्लोकाभावात् अथेत्यादिपदं विना तत्रेतिप्रयोगाच्चैतद््ग्रन्थोपक्रमभागोऽपि कश्चिन्नष्टस्स्यात् ।
अत्र ‘पूर्वपक्षं प्रचक्ष्महे’, इत्युपक्रान्तपूर्वपक्षसमाप्तिः अत्रब्रूम इति कारिकातःप्रगेव चेत् - ईश्वरस्यानुमानिकत्वं सिद्धान्तितं भवेत् ।
श्रीभाष्यशास्त्रयोनित्वाधिकरणे त्वयमीश्वरसिद्धिग्रन्थभागःस्पष्टमक्षरशोऽपि पूर्वपक्षमध्ये निक्षिप्त इति, तत्रत्यसिद्धान्तग्रन्थोप्येतत्सिद्धान्तभागसंग्रह इत्यवसीयते ।
अत्रापि मीमांसकेन, ‘तत्स्वल्वनुमानमागमो वे’ त्यागमोपि विकल्पमध्ये प्रवेशितः ।
न च, अत्रव्रूम इत्यतः प्राक्तदुपपादनमस्ति ।
अतः प्रथमं सर्वप्रमाणविरहप्रतिज्ञापूर्वकं मीमांसकेन प्रत्यक्षस्यासाधनत्वोक्तिः, तार्किकेणानुमानप्रस्तावः,मीमांसकेन तद््दूषणम्’ पुनस्तार्किकेण अत्र ब्रूम इति तत्प्रतिविधानम् , भूयो मीमांसकादिना तन्निरास आगमनिरासश्च, अथागमप्रामाण्यग्रन्थवदिहापि श्रौतीमीश्वरसिद्धिमादृत्यानुमानप्रत्यक्षयोः पश्चादवसरवर्णनमिति रीतिर्विभाव्यते ।
प्राभाकारा अपीश्वरानुमानिकतामेव निराकुर्वन्ति ।
उक्तश्च प्रभाकरविजये, ‘आनुमानिकत्वमेवेश्वरस्य निराकृतम् - तत्समर्थनञ्च वेदान्तमीमांसायाम् ’ इति ।
तथा नयविवेकेऽपि ।
2. बहुव्रीहिः ।
3.कतिपयस्वयोग्यार्थमात्रनियतम् ।
मूलम् - 2.2.25
देशादीनां विप्रकर्षः ।
देशस्य विप्रकर्षः दूरस्थता ।
कालस्य पकर्षः अतीतन्वादिः ।
स्वभाव विप्रकर्षो मिथोविरोधः ।
2.विद्यमानः सन्निकर्षो येषामिति बहुव्रीहिः ।
3. अतोऽसर्वग्राहित्वान्न सर्वज्ञत्वविशिष्टग्राहीति ।
4. इन्द्रियलिङ्गादिप्रसिद्धकारणाभावेऽप्यर्थविशेषस्य कारणविशेषात्प्रतिनीयतं भानं प्रतिभा ।
अत्र ‘प्रतिभाति हि ’ ‘प्रतिभाति यत् , इत्यपि पाठः ।
योगिप्रत्यक्षातिरिक्ततया आर्षे प्रातिभं ज्ञानं प्रशस्तपादभाष्ये भाषितम् ।
5.सहकारिपदान्तं सर्वमत्र बहुव्रीहिवृत्तम् ।
6.अजाताति वृत्तेति ।
अनागतातीतेत्यर्थः ।
7.स्वविषये घटादौ ।
मूलम् - 2.4.26
न च संभवतीत्यन्वयः ।
2. अनुभूतमात्रगोचरत्वे स्मृतित्वम् ; अधिकगोचरत्वे च विभ्रमत्वं भ्रान्तित्वमिति प्रामाण्यस्यैवाभावे तदवान्तरप्रत्यक्षप्रमाणत्वं कथमिति ।
3.सिसाधयिषितव्यक्तिगोचर (प्राक्कालिक) साक्षात्कारेत्यर्थः ।
4.निर्माणे साक्षात्कारे च ।
सामान्यतोदृष्टं हि व्याप्तिग्रहोपयुक्तदृष्टान्तगत व्यक्त्यनुगतसामान्याकारमात्रेण वस्तु साधयेत् ; न त्वभिमतं सर्वविलक्षणाकारविशिष्टकर्तारमिति भावः ।
5.अवयवीति जनितमिति च दृष्टान्ते हेतुसाध्यान्वयप्रदर्शनम् ।
अत्र “एषा च दिक्् क्रमेणान्त्यावय विभ्योऽवतरन्ती आद्व्यणुकमवतिष्ठतै’ इति प्रकरणपञ्चिकावचनं स्मार्यते ।
- द्व्यणुकादिकं त्वान्तरालिक मुपादानम् ।
2.अर्थक्रिया - कार्यमिति वावत् । - ‘यत्सिद्धावन्यप्रकरणसिद्धिः सोधिकरणसिद्धान्तः’ (न्यायद. 1-1-30) ।
‘यस्यार्थस्य सिद्धावन्येऽर्था अनुषज्यन्ते ; न तैर्विनासोऽर्थः सिध्यति ; तेऽर्थाः यदधिष्ठानाःसोष़धिकरणसिद्धान्तः’ इति न्यायभाष्यम् ।
न हि सहजसार्वज्ञ्याभावे सर्वपक्षीकारेण प्रवृत्तं सिध्यतीति ।
इदमेवानुमानस्थले पक्षधर्मताबलमित्युच्यते ।
यदाह, ‘पक्षधर्मतयाऽधिकरणसिद्धान्तापरपर्यायया’ इति ।
(नयवि. पु. 181)
मूलम् - 2.6.27
- ‘तरुभूवनादिकं सर्वं सावयवमवसीयते ।
यच्च नाम सावयवं तत् अवयवव्यतिषङ्गबलसमासादितात्मलाभम्’ इति पञ्चिका (7 . प्र.) अतोऽत्र ग्रन्थेश्रीभाष्ये चेह सर्वत्र तनुशब्दस्तरुशब्दो वेति विमृश्यमिति चेत् - न तनुशब्दोऽनुपपन्नः न्यायवार्तिकतात्पर्यटीकायां (4-1-21) ‘तनुतरुमहीधर,’ ‘तनुभुवनादि’ इति नानारूपप्रयोगदर्शनात् । - हेतुकोटाव चेतनरूपोपादानविशेषोक्तिर्व्यर्थेति व्याप्यत्वासिद्धिमाह आरब्धत्वादिति ।
मूलम् - 2.7.28
- उपलादौ व्यभिचारपरिहाराय एककेत्यंशत्यागे इत्यर्थः ।
- इतीति शेषः ।
3.न तु परमाणवः ।
न कदाचिदनीदृशं जगदिति पृथिव्यादेस्सदा स्थितेः ; सृष्टिप्रलयविषये बाधकसत्त्वात् मानाभावाच्च (न्या . कु. 2 स्त) 4. शक्तिमद्वस्तु अक्षगोचरो हि ; तदलमिति । - यदिपरं - परन्तु ।
- निर्मान्तु ।
- कार्यत्वमिति पाठे अनुभवेदित्येवं क्रियापदं स्थितं स्यात् ।
कार्यत्वसाध्यकत्वे शक्यक्रियत्वमुपाधिः, चेतनाधिष्ठितत्वसाध्यकत्वे शक्यज्ञानत्वमुपाधिरिति नयविवेके (194) प्राभाकरविजये (82, 79) च ।
अत्र चेतनकर्तृकत्वे साध्ये उभयमुपाधिरुच्यते ।
मूलम् - 2.11.29
- जगन्न प्रेक्षावत्कर्तृकं स्वप्रयोजनकारुण्यान्यतराप्रयोज्यत्वादिति स्त्प्रतिपक्षमाह ।
- न हि - ज्ञानसुखादिकं कुत्रोत्पद्यते, उपकरणच्च किमिति विविच्य पश्चाद््ज्ञानादिसंपादने यतन्ते ।
- अनेन स्वरूपासिद्धिर्विशिष्टसाध्यासिद्धिश्चोक्ते ।
एतदुपपादनं प्रयोगश्चेत्यादिना । - यथोदितं कर्तृत्वं न जगन्निरूपितमित्यर्थः ।
अतोऽबहुब्रीहितया न ‘नद्यृतश्च’ इति कप् ।
‘जगती न यथोदितकर्तृका’ इति वा पाठः ।
मूलम् - 2.14.30
- मीमांसकप्रत्युक्तिं तार्किकः प्रतिक्षिपन् आनुमानिकत्वं समर्थयते ।। पञ्चिकान्यायग्रन्थाऽऽगमप्रामाण्येष्विवान्नापि कार्यत्वमुत्पत्तिमत्त्वम् ; तस्यैवाऽऽदितस्साधनदूषणयोः प्रवृत्तत्वाच्च ।
श्रुतप्रकाशिकाकृतश्रीभाष्योजनान्तररीत्येह कृतिसाध्यत्वरूपकार्यत्वपरताऽपि भाव्या ।
सावयवत्वेन कृतिसाध्यत्वानुमानं न्यायरत्नाकरे ।
सावयवत्वेनोत्पत्तिमत्त्वाद्यनुमाय ततस्त दनुमानमन्यत्र । - सावयवत्वात् ।
3.महत्त्वे सति क्रियावत्त्वात् । - महत्त्वे सति मूर्तत्वात् ।
5.बहिरिन्द्रियजप्रत्यक्षविषयत्वे सति सामान्यविशेषवत्त्वात् ।
सामान्यविशेषपदं व्याप्यजात्यर्थकं प्राचीनवैशेषिकप्रसिद्धम् ।
तन्मात्रोक्तौ मनसि व्यभिचारात् सत्यन्तम् ।
आत्मनि व्यभिचारात् बाह्येति ।
सामान्यादावपि भावपदार्थे सदिति व्यवहारात् यथाकथञ्चित्सत्तारूपसामान्याधारत्वसत्त्वात् व्यभिचाराद्विशेषेति ।
न खलु तत्र सदितिव्यवहारवत् द्रव्यमित्यादिव्यवहारोस्ति, येन विशेषाधारत्वमपि तत्र शङ्क््येतेति ।
सामन्याद जात्यतिरिक्तयत्किञ्चिद्विशेषसत्त्वात् स एव दोष इति जातिरूपविशेषग्रहणाय सामान्येति विशेषो नाम व्यावृत्तो धर्मः ।
प्रतिनियतं - घटादौ व्यवस्थितं क्षित्यादिव्यावृत्तम् ।
ननुपक्षे सिध्यतु हेतुः, चेतनकर्तृक्तवे साध्ये पूर्वे शक्यक्रियत्वादिरुपाधिरुक्त इत्यसिद्ध्यन्तरमस्तीत्यत्राह यत्विति ।
क्रियते कृत्या साध्यते । - कर्तु शक्यत्वं ज्ञातुं शक्यत्वञ्च ।
ते च क्रियाईाने च ।
तत्साधकहेतोस्सुतरां तद्व्यापकसाधकत्वमिति साध्यतुल्यत्वान्नोपाधित्वम् ।
साध्यं हि हेतुना साध्यमानं घव्यापकक्रोडीकारेणेव सिद्ध्यतीति ।
नचैवमयोगोलके धूमसाधने आर्द्रेन्धनसंयोगस्यापि नोपाधित्वम् ; मानानन्तरेण तद्वाधनिश्चये विशेषादिति भावः । - अशवयक्रियत्वादिरूपो विशेषो न ।
- अत्र उपाधिदोषस्य सर्वथैवायोगात् कार्यत्वस्वरूपासिद्धिदोष एव चिन्तनीयः ; स च वारिति एवेति कार्यकरमेवानुमानम् ।
क्षित्यादेरपि कार्यतया परमाणुपर्यन्तोपादासिद्धौ तत्साक्षात्कारस्यास्मदाद्यवृत्तेः साधनादित्याहि सिद्ध इति ।
पूर्वोक्तं चेतनाधीनत्वस्वरूपविकल्पदूषणमपि न स्थास्यति, चेतनाधिष्ठितप्रेरितोपादानादिजन्यत्वरूपत्वादिति दर्शयितुं तदधिष्ठानेत्यादि उक्तम् । - धर्माधर्मयोः प्रवृत्तिरित्यनुषंगः ।
प्रवृत्तिः फलाभिमुख्यम् ; तच्च निरुतच्यमानरूपम् ।
तादृशेति चेतनाधिष्ठितेत्यर्थकम् ।
ताभ्याम् उक्तरूपेण स्वसाक्षात्कारिचेतनाधिष्ठिताभ्याम् ।
ताभ्यामित्यत्र ‘नाभ्याम्’ इति स्यान् वेत्यपि चिन्त्यम् ।
आभ्यामेव न फलमित्यर्थः ।
तादृशेत्यत्र तादृशतादृशेति क्वचित्पाठः ।
सर्वत्र शब्दप्रक्षेपबहुले कोशे, ‘धर्माधर्मयोः फलोदयानुकूलता ; सा च तादृशदेशकालादिसहकारिसमवहितता ।
ताभ्यां धर्माधर्माभ्यामेव फलं चेतनाधिष्ठताभ्याम् ; सर्वेषामेतेषाम्’ इत्येवमस्ति ।
प्रकृतग्रन्थघण्ड्यः पञ्चिकाग्रन्थस्त्वेवम् , ‘प्रवृतिरपि कीदृशी ? - फलदानमिति चेन्न - देशकालावस्थादिसहकारिसहिताभ्यामेव फलम् ।
नचतेनव्यापारापेक्षम्’ इति ।
एतद्थपरं किञ्चेत्यादिश्रीभाष्यम् । - धर्माधर्मदेशकालादीनाम् ।। ननूपर्यचेतनत्वहेतुना चेतनाधिष्ठितत्वं सर्वेषां पृथग्वक्ष्यत इति किमिति कार्यत्वहेतुप्रस्तावमध्ये तदुक्तिः ।
किञ्चोपकरपदेन धर्माधर्मग्रहणे तयोः कुलालाद्यनधिष्ठितत्वात् दृष्टान्तेसाध्यवैकल्यम् ।। उच्यते - साध्यकोटौ सामान्यत उपकरणेत्येव निवेशाद््दृष्टान्ते यथासंभवं ग्रहणम् ; पक्षे तु धर्मादिकमपि सुग्रमिति गमयितुं पऋग्वक्ष्यमाणानुमानसिद्धार्थस्यैवेह प्रतिबोधनमिति ।
3.वीजेत्यादि सिद्धेरित्यन्तं वाक्यजातं प्रधानप्रकृकार्यत्वहेतुकप्रयोगविषयकं संभवानुरोधादवान्तर - प्रकृताचेतनत्वहेतुकगोचरमपीष्यते ।
‘तथाच प्राङ्गणनिकटवर्तिदूर्वाङ्कुरादिष्वनवसितपुरुषव्यापारजन्मसु अनेकान्तः’ इति अकृष्टजातवस्त्वभिप्रायमागममप्रामाण्यम् ।
अचेतनत्वहेतुः कार्यत्वहेतुश्च न बीजेऽङ्कुरे च व्यभिचरितः ; तस्यापि पक्षत्वादिति भावः ।
1.ननु पुरुषापेक्षत्वमात्रसाधनमुचितम् ; न प्रवृत्त्यनुगुण संकल्पादेरपि ।
न हि पुरुषापेक्षमपि ज्ञानसुखादि स्वोपादानादिसाक्षात्काराझिष्ठानाद्यपेक्षम् ।
अतस्सुखमनधिष्टितोपादानजन्यमेव, स्वयमनधिष्ठितमेव पुलकादिजनकञ्चेत्यत्राह एतेनेति ।
पक्षान्तर्भूतत्वेनेति तदर्थः । - अशक्तिनिश्चयो मा भूत् ।
न च बाधकाभावमात्रे साधकं विना वस्तुसिद्धिः ; तत्राह प्रमाणेति ।
इदमेव वाक्यमन्वभाषि - ‘अतः प्रमाणा्तरतो न तत्सिध्द्यनुपपत्तिः’ इति ।
अन्तरपदं सर्वशक्तेश्वरसाधकप्रमाणे जीवसाधकप्रमाणापेक्षया अबाधितत्वादिरूपं वैलक्षण्यं स्थितं दर्शयितुम् ।
ननु कार्यत्वहेतुना शक्तिमत्साक्षात्कारतदधिष्ठानादिकमेव सिद्ध्येत् , न तु शक्त्यादिसाक्षात्कार इत्यत्राह यथेति ।
सिध्यतो ज्ञासन्य देहादिजन्यत्वे तस्य हदेहादेरपि पुनश्चेतनपूर्वक त्वेनानवस्थापत्त्या सांसिद्धिकत्वसिद्धौ औत्सर्गिकं प्रकृष्टज्ञानत्वरूपसाक्षात्कारत्वम् , अंसकोचात् सर्वार्थ गोचरत्वञ्च सिद्धमिति शक्त्यादिसाक्षात्कारो निर्बाध इति भावः ।
यद्वा प्रामाणान्तरतः अचेतनत्वहेतुतः ।
एवं कार्यत्वहेतुरप्युक्तरीत्या स्वाभाविकशक्त्यादिपरः सर्वगोचरशक्त्यादिसाधक एवेत्याह यथेति । - न हि किञ्चिदश्क्तकर्तृपूर्वकत्वेन व्याप्तिरिति भावः ।
- अनपेक्षित वस्त्वन्तरज्ञानादिव्यतिरेकासिद्धेः ।
यद्वा व्यतिरेकमात्रासिद्धेरित्यर्थः । - यद्विषयकाज्ञानेत्यर्थः ।
- अत्र, ‘न हि युगपच्छरीरद्वयपरिग्रहः संभवति ।
नैवम् ; तत्रापिसूक्ष्मशरीरपरित्यागे सर्वत्र शरीरिण एव कर्तृत्वम्’ इति प्रभाकरविजयपरासो भाव्य इव ।
अधिष्ठातृदशेति ।
अधिष्ठातृदेहानुप्रवेश इति, च पा. 1. अस्त्वेकतत्त्वसंबद्धस्याधिष्ठानेत्यत्र, ‘नह्येतत् ।
किन्तु तदसंबद्धस्य तदधिष्ठाने’ति पक्षेपबहुले कोशे पाठः । - क्षेत्रादिमानार्थदण्डादि ।
- एवं.- समनस्कत्वे ।
- विग्रहादिसापेक्षत्वे असामर्थ्यमेव स्यात्, न पक्षीकृतसर्वनिर्माणसामर्थ्यमिति ।
इदंयावद्धीत्यादिना विव्रियते ।
क्वचित् समर्थकर्तृ - र्थद्रढिम्नेति दर्शनात् समर्थकर्तृमत्त्वार्थद्रढ्रढिम्नेति पाठ ऊह्यते । - मीमांसको मुक्तस्यापि मनोऽभ्युपगच्छति ।
- ज्ञानादिना नित्यद्रव्यीयेण विशेषगहुणेनानुमितो य आत्मसंयोगोऽसमवायिकारणभूतः, तद्वत इत्यर्थः ।
2.नियताधिष्ठानेतिच्छेते नियताधिष्ठानस्यासाधारणस्य स्पर्शस्येत्यर्थः स्यात् ।
अियताधिष्टाेतिच्छेदे नियतशरीराधिष्ठानतीन्द्रियत्वगिन्द्रियत्वगान्द्रियवैलश्क्षण्येन तदन्यवायुद्रव्यसामान्यस्य सदागतेरधिष्ठानानियमः स्पार्शनत्वनियमश्चोच्यत इति स्यात् । - तैजसगतरूपस्पर्शयोः प्राकट्यमग्न्यादौ; अन्यतरप्राकट्यं रत्नप्रभाकापालपावकादौ ।
- ईश्वरस्य विग्रहवत्त्वमनुपलब्ध्या बाध्यते ।
- तथेति पाठे तथा उकक्तनीतिवत् अन्या अपि नीतयो दृश्यन्ते हीत्यर्थः ।
- न्यायकुसुमाञ्जलावपि कार्यत्वानुमानान्तरं कार्यायोजनेतिकारिकास्थाऽऽयोजनविवरणावसरे अचेनत्वहेतु कानुमानं द्वितीयमुक्तं पञ्चमस्तबके ।
मूलम् - 2.16.31
प्रकृतीति । उपादनेत्यर्थः । शक्त्यादेः साध्ये घटने दृष्टान्ते कुलालादौ शक्तिसाक्षात्काराभावात् प्रत्यक्षत्वेन रूपेण ज्ञानस्य साध्यकोटौ निवेशोऽशक्य आसीत् । उपादानोपकरणमात्रग्रहणे तु प्रत्यक्षज्ञानत्वेन निवेशः क्रियत इति भावः