मूलम् - 1.0.1
गूढप्रकाशः
श्रीवेंकटेशमस्मद्गुरूंश्च सर्वान् समाश्रये येषु ।
यामुनशरणसमुच्छ्रित सुमनस्संदर्भसंस्तवो जयति ।।
भगवद्बादरायण-बोधायन-द्रमिडाचार्यादिप्राचीनानार्यदर्शितः परमार्थः पश्चात्तनकतिपयपृथंमतिप्रविर्तितविविधविसंष्ठुलार्थविक्षिप्तचितानां हृदि न प्रतिष्ठास्यतीति, पारम्पर्येण प्रवर्त्यमानं समुपसन्नशिष्यजनोपदेशमात्रमपर्याप्तमाकलय्य प्रकृष्टयोगप्रत्यक्षित- -परावरयाथात्म्यैः प्रपन्नजनसंतानप्रभवभूतैः उभयवेदान्तप्रवर्तकैः परमकारुणिकै र्भगवन्नाथ- -मुनिभिः न्यायतत्त्वाभिधानं शास्त्रं योगरहस्यञ्चेति ययोर्ग्रन्थरत्नयोर्निर्माणेन निबन्धमुखेन परमार्थतत्त्वहितविज्ञानप्रतिष्ठानं प्रथमादरेण विदधे, तयोः स्वपितामहपादानुगृहीतयोरेकतरस्मिन् सर्वार्थगर्भे गभीरे न्यायतत्त्वे शास्त्रे सर्वेषामपि प्राज्ञमणीनां सरसप्रवेशसंपिपादयिषया तथैव भक्तिविज्ञानवैराग्यैः प्रथितः सरसकविताविहाभूमिः सकलपरममतमर्मभेदिकर्कशतर्कशास्त्रप्रयोग- शास्त्रार्थवर्मनसमार्जितकथासंग्रामजयलक्ष्मीसमेधितप्रभावो भगवद्यामुनमुनिः आत्म- परमात्मतत्संबन्द-तत्प्राप्ति-तत्साधनोपदेशकं प्रकरणग्रन्थं प्रारभमाणो निर्विघ्नपरिसमाप्तये विरचितं मंगलं वक्ष्यमाणार्थसंग्रहरूपतया ग्रन्थे निबध्नाति प्रकृतीति ।
पुरुषः बद्धजीवः ।
व्यक्तं प्रकृतिकायं महदादि ।
मुक्ताः विगालितबन्धा आत्मानः ।
अनुविदधति अनुवर्तन्ते स्वरूपस्थितिप्रवृत्तिषु ।
वक्ष्यति हि ‘स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृतिभेदम्’ इति ।
नित्यसिद्धैः नित्यसूरिभिः ।
सहेति शेषः ।
प्रकृत्यादयो नित्यसिद्धाश्चानुविदधतीत्यर्थः ।
अनेकैरिति सूरीणां संसारिजीवापेक्षया त्रैगुण्यमभिप्रेतम् ।
सूरिणां परमे व्योम्नि पादत्रयमितत्वञ्च श्रुतम्, ‘पादोऽस्य विश्वा भूतानि त्रिपादस्यमृतं दिवि’ इति ।
भोग्य-भोगस्थान-भोगोपकरणान्यपि नित्यविभूतौ नित्यसिद्धानि सन्ति ।
तान्यपि ग्राह्यणि ।
श्रीमति लक्ष्मीनित्ययुक्ते ।
अनेन यच्छब्दग्राह्यवस्तुनिष्कर्षणेन देवतान्तरे प्रकृत्यादिनियन्तृत्वभ्रमव्युदासः ।
भक्तिभूमशब्दः उपायमक्तिमिव साध्यभक्तिरूपां प्रपत्तिमपि वक्ति ।
अत्र आत्मनाम् परमात्मनः, नित्यमनुविदधतीति तत्संबन्धस्यापृथक्सिद्ध्यादेः, स्वपरिचरणभोगैरिति मोक्षाख्यतत्प्राप्तिप्रकारस्य, भक्तिभूमेति तत्साधनस्य च कीर्तिनात् वक्ष्यमाणार्थसंग्रहो भाव्यः ।
इदमत्र बोद्ध्यम् - न्यायसिद्धाञ्जने व्यायतत्त्वाख्यस्य शास्त्रस्य तत्रतत्रोपविंशाधिकस्थलेषु निर्देशात्, तत्रत्यकतिपयवाक्यश्लोकोपादानात्, क्वचित्क्वचित् पादनामसंकीर्तनात्, ‘सप्तमे’, ‘अष्टमे’ इत्यवमधिकरणसंख्याकथनात्, उपात्तसूक्तिशैलीपरशीलनया च तच्छास्त्रं सर्वार्थगर्भं गभीरविस्तृतं वाक्यश्लोकोभयात्मकं परमतपरिमर्दि चेति, तत्र ज्ञानपादः, प्रमातृपादः, करमपादः, प्रमेयपाद इति पादचतुष्कमस्तीति, एकैकोऽपि पादो विषयभेदेन बह्वधिकरणात्मना विभक्त इति चावसीयते ।
आहुश्च, “यो वेत्ति युगपत् सर्वं प्रत्यक्षेण सदा स्वतः ।
तं प्रणम्य हरिं शास्त्रं न्यायतत्त्वं प्रचक्ष्महे” इति तत्राऽऽदौ श्लोक इति ।
श्रीभाष्ये जिज्ञासाधिकरणे अविद्यादूषणघट्टे ‘ज्ञानरूपं परं ब्रह्म ’ इत्यादिना उपात्तास्स्त्रयः श्लोकाः नाथमुनिभिरुक्ता इति श्रुतप्रकाशिकायाम् ।
ते च नीनमत्रत्या एव स्युः ।
श्रीविष्णुचितीये तु श्रीयामुनार्यसूक्तितयः ग्रहणमिव ।
एवमत्रात्मसिद्धावपि बहूनि न्यायतत्त्वाधिकरणानि नाम्ना निर्दिष्टानि ।
“प्रत्युक्तश्चायं प्रतिबिम्बवादः प्रच्छन्नबाह्यमतप्रत्यादेशे” इत्यात्मसिद्धिवचनमपि मन्ये अत्रत्यकिञ्चिद्गागपरं स्यात् ।
अहो बतेदृशं विशिष्टाद्वैतस्थापनेदम्परं कूटस्थकृतं भगवद्यामुनमुनिभगवद्रामानुजमुनिप्रभृतिमहनीयप्रवर्तकाचार्यमार्गदर्शि महच्छास्त्रम् अंशतोऽप्यर्वाचीनैर्न परिपालितमभूदिति ।
अथाप्यपरहयमुखावताराणाम् अशेषपरमतसमूलोन्मूलनेन अस्मत्सिद्धान्तप्रमाणप्रमेयनिष्कर्षणेन च निश्वशेषमुपकृतवतां श्रीमन्निगमान्तमहादेशिकानामिदं सामग्र्येण दृष्टिपथं प्राप्य स्थितमिति तावन्तं वा कालं सर्वं परिपालितमासीदीति कूटस्थाभीष्टसिद्ध्या कथंचिदाश्वसनीयम् ।
तस्यैतस्यायं प्रकरणग्रन्थः नूनं विशिष्य तत्रत्यप्रमातृपादवैशद्यार्थः ।
अत्र च आदौ आत्मपरमात्मतत्संबन्धतत्प्राप्तितत्साधनविषयविप्रतिपत्तिदर्शनपूर्वं तच्छोधन- -प्रतिज्ञानात् ग्रन्थेऽस्मिन् तावानप्यंशो निरूपित इति निश्चीयते ।
उपलभ्यमानात्मसिद्धिभागे तु जीवात्मनिरूपणमपि न समग्रम् ; देहेन्द्रियेति कारिकोत्तरार्धविवरणारम्भ एव शिष्टं सर्वं विनष्टम् ।
अत्र कश्चिताक्षेपः - यद्येवं प्रतिज्ञानुरोधेनात्रैव परमात्मापि न्यरूपीति विमृश्यते, किमिति ईश्वरसिद्धिर्व्यरचीति ।
तत्र - निरीश्वरवादनिराकरणेन तार्किकादृत-आनुमानिकेश्वरसिद्धिप्रकारमात्रकथनाय स ग्रन्थ इति कश्चित् परिहारः ।
अन्यस्तु-भगवता भाष्यकृता ईश्वरसिद्धौ दृश्यमानं सर्वं तथैव शास्त्रयोनित्वाधिकरणेपूर्वपक्षेऽनूद्य उपरि आनुमानिकत्वनिरसनेन श्रौतत्वसिद्धान्तविधानात् भगवद्यामुनमुनिग्रन्थेऽपि सैव रीतिः स्थितेति युक्तम् ।
कथं हि जीवात्मविषय एवानुमानानि प्रदूष्य, “आनुमानिकूमप्यसिद्धिमश्रद्धधानाः श्रौतीमेव तां श्रोत्रियाः संगिरन्ते” इति कथयन्नयं ईश्वरसिद्धिमानुमानिकीं मंस्यते ; अतः प्रक्रमानुसारेण एकस्यैवाऽऽत्मसिद्धिग्रन्थस्य जीवात्मसिद्धिः ईश्वरसिद्धश्चेति भागद्वयम् ।
तत्र चेश्वरसिद्धौ, विप्रतिप्रतिप्रदर्शनरीत्यनुसारेणानुमानेन निरीश्वरवादनिराकरणानन्तरं विवधाद्वैतमत- -पातञ्जलमताति निरस्य श्रौतयथावस्थितेश्वरसिद्धिप्रकारः प्रतिपादितो भवेत् ।
अथवा ‘आनुश्रविक एवेत्येके, आनुमानिकश्चेत्यन्ये, विशिष्टप्रत्यक्षसमधिगम्यश्चेत्यपरे’ इति प्रमाणनिर्देशक्रमानुसारेणाद्वैतादिनिरासेन वैदिकेश्वरसिद्धिप्रकारमुपवर्ण्यानुमानतोऽपि एतत्सिद्धिम् अन्यदर्शितामारभ्य, ‘तत्र कस्यचिदेकस्य’ इत्यादिना पूर्वपक्षोपन्यासपुस्सरं, ‘अत्र ब्रूमः’ इत्यनेनानुमानिकत्वमुपपाद्य, एवमपि एककर्तृकत्वाजीवकर्तृकत्वादिविषये दृढनिश्चयायोगात् व्यक्तिविशेषनिर्धारणायोगाच्च, ‘तदुपपादनन्यायानुगताः पूर्वानुमानभेदा…. आद्रियन्ते’ इत्युपलभ्यमानात्मसिद्धिवचनरीत्या, ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इति श्रुत्यनुसाराच्चनुमानानां यावत्संभवं संभावनातर्कत्वेन ग्राह्यतामवबोध्य विशिष्टप्रत्यक्षसमधिगम्यत्वं पश्चादुपादितं स्यात् ।
न केवलमेतावत् ; तदुपरि तत्संबन्धतत्प्रप्त्यादिस्वरूपमपि शोधितं भवेत् ।
सर्वोपि भागः संप्रति प्रनष्टः ।
तदिदानीं आत्मसिद्धिः ईश्वरसिद्धिरिति पृथक्प्रबन्धता प्राप्तेति ।।अस्मिंश्च परिहारद्वये प्रायः प्राञ्चमेव प्राज्ञाः रोचयेरन्; यतः सिद्धित्रयमिति चिरन्तनी प्रसिद्धिः ।
श्रीमति रहस्यत्रयसारेऽपि गुरुपरम्परासारे, एतदनुगृहीताः प्रबन्धाः आगमप्रामाण्यं, पुरुषनिर्णयः, आत्मसिद्धिः ईश्वरसिद्धिः संवित्सिद्धिरिति सिद्धित्रयम्, श्रीगीतार्थसंग्रहः स्तोत्रं चतुःश्लोकी चेत्यष्टाविति स्पष्टमुक्तम् ।
अतः यथा पुरुषनिर्णयः परमात्मपरोऽपि नारायणपारम्भे श्रुतितात्पर्यवर्णनेदम्परः पृथग्भूतः, तथेश्वरसिद्धिरप्यनुमानादिना तत्साधकः पृथग्भवितुमर्हति ।
यद्यपि अत्रत्यद्वितीयकारिकाद्यनुसारेण आत्मसिद्धावेव परमात्मनिरूपणमेष्टव्यम् ; वक्ष्यति चात्रैव, ‘परमात्मनिरूपणेऽतिनिपुणमुपपादयिष्यामः’ इति - अथपीश्वरसिद्धयुक्तावशिष्टं सर्वं परमात्मविषयेऽभिधायेतरांशस्य तत्रैव द्रष्टव्यत्वमुपदिश्य तदुपरि वक्तव्यसंबन्धप्राप्त्यादिकं विमृश्य आत्मसिद्धिः समापिता भवेदिति ग्राह्यमित्यलमनुपलभ्यमानगोचरानिष्कृष्टविमर्शेन ।
आगमप्रामाण्येऽपि ईश्वरो न्यरूपि ।
संवित्सिद्धिः पृथत्सिद्धिः पृथग्ग्रन्थ इत्यत्रतु नैव विशयः ।
यदुच्यतेऽत्रैव, ‘प्रकाशश्च चिदचिदशेषपदार्थसाधारणो धर्म इति संवित्सिद्धावेव साधितम्’ इति, ‘भ्रान्त्यधिकरणसिद्धान्तारम्भे, संवित्सिद्धौ चानुसंधातव्यम्’ इति च ।
अत एवाऽऽत्मसिद्धेः प्राक्कृता संवित्सिद्धिरित्यपि ध्येयम् ।
नैवमीश्वरसिद्धिः प्राक्तनी ।
तत्रात्मसिद्ध्यनुवादात् ।
अत्र धीप्रकरणे संवित्सिद्ध्युक्तसर्वांशनिरूपणस्य प्रसक्तत्वेऽपि प्राक्कृतत्वादेव अत्रानतिविस्तर इति ।।
मूलम् - 1.2.2
विरुद्धमतयो विप्रतिपत्तयः ।
विरुद्धमतय इत्यत्र विरुद्धख्यातय इति, यतो विमतय इति च पा. ।
अनेका इति स्वरूपप्रमाणपरिमाणादिमुखभेदतोऽप्यनेकत्वं विवक्षितम् ।
तत्परिशुद््ध्यर्थम् तयोरात्मपरमात्मनोः अप्रतिपत्त्यन्यथाप्रतिपत्ति- -प्रतिक्षेपियथावस्थितप्रतिपत्तिसंपत्तये अप्रतिपत्त्यादिक्षेपायेति वा ।
एतत्कारिकार्थविस्तरः संमतमित्यारभ्य आकारिकान्तरारम्भात् ।
काकदन्तपरीक्षावैलक्षण्यबोधाय बाह्याबाह्यसर्वस्वीकारेण विप्रतिपत्तिप्रदर्शनौचित्याय चाऽऽह संमतं हीति ! पृथगिति ।
“सर्वाजीवे सर्वसंस्थे बृहन्ते तस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे” इति पूर्वार्धम् ।
बृहन्ते-बृहति ।
हंसः-जीवः ।
आत्मानं जीवं प्रेरयितारं परमात्मानञ्च पृथक् मिथो भिन्नतया मत्वेत्यन्वयार्थः ।
तेन परमात्मना जुष्टिः प्रीतिविषयीकृतः ।
आत्मानमिति ।
“आत्मानञ्चेद्विजानीयादयमस्मीति पूरुषः ।
किमिच्छन् कस्य कामायशरीरमनुसंज्वरेत्” इति पूर्णवाक्यम् ।
मन इतीति ।
पूर्वापरानुसारादत्रापि इतिकरणं न युक्तमिव ; अथापि प्रामाणिकं यत् मनः तद्व्यतिरिक्ते मनस्त्वारोपेण अनआत्मवादो वादिभिः कृत इति ज्ञापयितुं तत् ।
क्रमप्राप्तं बाह्यबौद्धमतमाह अध्यस्तेति ।
शांकरमतं तु, ‘अन्ये तु ज्ञानानन्दस्वभावम्’ इति वक्ष्यति ।
वक्ष्यमाणोऽन्तःकरणोपाधिकरागद्वेषद्यव- -भासोऽद्वैतमतेऽप्यस्ति ।
न तु बौद्धमतेऽन्यगतरागादेरात्मन्यारोपः, बाह्यापलापित्वात् बौद्धस्य रागद्वैषादेर्विज्ञानानतिरेकात् ।
तदुक्तं तत्त्वकौमुद्याम् (1. का) ‘येत्वाहुः विज्ञानमेव हर्षविषादमोहशब्दाद्यात्मकम्’ इति ।
अयमेव चात्मातिरिक्तसर्वाभावो बोधमात्रमिति मात्रपदेन विवक्षितः ।
अध्यस्तज्ञातृभावनहंकारमिति ज्ञातृत्वाध्यासाहम्प्रत्ययाविषयत्वे उक्ते प्रच्छन्नप्रकटबौद्धयोस्तुल्ये ।
अत्रैतत्कथनं बौद्धमतापेक्षया नैयायिकमतस्य आत्मनि ज्ञातृत्वाहमर्थत्वे अनुमन्यमानस्यास्मदन्तरंगत्वज्ञापनार्थम् ।
यद्वा जगपलापाविशेषात्एकहेलयैवात्र प्रच्छन्नप्रकटबौद्धयोर्ग्रहणम् ; तथैव विस्तरे दर्शनात् ।
एवंसति उपरि ‘ज्ञानानन्दस्वभावम्’ इति मीमांसकैकदेशिमतम् ।
यदाहुः - ‘निजं यत्त्वात्मचैतन्यमानन्दश्चेष्यते च यः ।
यच्च नित्यविभुत्वादि तैरात्मा नैव मुच्यते’ (मी.वा.) इति ।
तथाच ज्ञानानन्दगुणमिति तदर्थः ।
वैनाशिकमतमुक्त्वा अर्धवैनाशिकवैशेषिकमतमाह देहेति ।
इदं पार्थसारथिमिश्रादिमीमांसकमतमपि ।
अहंकारगोचरं अहम्प्रत्ययविषयम् ; अहमर्थमिति यावत् ।
सांख्यमतमाह अपरेत्विति ।
वेदासन्निकृष्टपूर्वमतापेक्षया सन्निकृष्टमतपार्थक्यसूचनाय पृथक्तिङन्तप्रयोगेणैतदारभ्य पृथग्वाक्यकरणम् ।
बौधैकेत्येकपदेनाऽऽनन्दस्वरूपत्वस्य बोधधर्मकत्वस्य च व्यवच्छेदः ।
रागद्वेषादिकोटौ ज्ञानास्यापरिगणनात् न रागादिवत् चैतन्यमन्यनिष्ठमारोप्यते इति द्योत्यते ।
‘तदा द्रष्टुस्स्वरूपेणावस्थानम्’ (यो.सू.) इत्यत्र च वाचस्पत्यम्, ‘स्वरुपस्यचाभेदेऽपि भेदं विकल्प्याधिकरणभाव उक्तः’ इति ।
उपधानविशेषः जपाकुसुमसन्निधानम् ।
ज्ञानानन्दस्वभावमित्यस्यद्वैतसमतत्वे स्वभावधवलमित्या- -देरत्रानुषंगः ।
एवमुपर्यपि, सिद्धान्तेपि रागसुखादेर्मनोधर्मत्वस्य वक्ष्यमाणात्वात् ।
तस्य मीमांसकमतत्वे तु न तदनुषंगः ।
एवमुपर्यापि ; नानुषंगः ।
इदमुपरिष्टाद्व्यक्तीभविष्यति ।
मीमांसकमते ज्ञानातिरिक्त आनन्दः ; सिद्धान्ते तु ज्ञानमेवानन्दः ।
आश्रयानुकूल्येति ।
आश्रयं प्रत्यनुकूलत्वात् बोध एवानन्दादिव्यपदेशं प्रतिलभते ।
अनुकूलं ज्ञानं ह्यानन्दः ।
बोधः किंविषयकोऽनुकूल इति त्वनुभवप्रमाणाभ्यामवसातव्यम् ।
सिद्धान्ते आत्मन्यनुभूत्यात्मकबोधरूपत्वस्यानिष्टत्वात् तत्र ज्ञानव्यवहारस्यौपचारिकताया वक्ष्यमाणत्वाच्च बौधरूपत्वानुक्तिः ; स्वयञ्ज्योतिष्टं तु समनन्तरमुच्यत एवेति स्थितनिर्वाहप्रकारः ।
अत्र अन्येत्वित्यारभ्य कृत्स्नमेकं मतमिति युक्तमिति संभावना ।
तदनुकूलः द्विवतीयं अन्य इति पदं विना पाठोऽपि क्वचित् लक्ष्यते, ‘अन्ये तु ज्ञानानन्दस्वभावमिमं मन्यमानाः अस्याश्रयानुकूल्य….स्वाभाविक इति’ मद्रनगरराजकीयपुस्तकभाण्डारकोशे (4933), आन्ध्रमुद्रणे अधस्ताच्च ।
ज्ञानास्वभावतया ज्ञस्वाभाव्येन ।
वक्ष्यति चेदम् ।
अपरोक्ष्यत इत्यत्रागमानुमानयोरनन्वयात् मध्ये विदित इत्येवं पदमपेक्ष्यते ।
अनुमानस्य श्रुतमननरूपत्वे ततो ज्ञानं विशदतरम् ।
कुचिदनुमानं पूर्वमपि निर्देक्ष्यते ।
अन्ततः मुक्तौ ।
अन्ततः - भावनाप्रकर्षपर्यन्त इति वाऽर्थः ; तथोपरि धर्शनात् ।
उपरि नित्यो व्यापीतिनिर्देशात्कालावच्छेदपरीक्षाया एव पूर्वत्वाच्च विप्रतिपत्तिस्थलेपि ‘तथा क्षणिक’ इत्यादिकं पूर्वं, पस्चाच्च, ‘तथा परममहान्’ इत्यादिकं स्थितं स्यात् ।
अथवा क्रमानादरः स्यात् ।
‘व्याप्तिरपि चैतन्यमात्रेण स्वरूपेण’ इति पाठो दृश्यते ।
अत्र पक्षद्वयमभिमतं चेत्, वाकार आवश्यकः ।
एवं स्वरूपपक्षस्यान्ते निर्देशो न युक्तः, सिद्धान्नभिमतत्वात् ।
श्रुतप्रकाशिकायां जिज्ञासाधिकरणे देहेन्द्रियेत्याद्यत्रत्यकारि- -कानुवादिभाष्यव्याख्यानावसरे, “ज्ञानेन व्याप्तिरात्मसिद्धावेवोच्यते, व्याप्तिरपि चैतन्यमात्रेणैव, न रूपेणेति"इत्युक्तत्वात् अन्यत्र तद्वाक्यानुपलम्भात् औचित्यादत्रैव तत् नञ्धटितं वाक्यमित्यालोच्यते ।
ननु स्वयमेवात्मनोऽविभुत्वस्य हृदययायतनत्वस्य च वक्ष्यमाणत्वात् अणुत्वस्य सिद्धान्त्यभिमतत्वाच्च कथं स्वतः परिमाणरहितोऽयमित्युच्यते ? सत्यम् - अथापि स्वतश्शरीरादिपरिमाणरहितोपीति तदर्थः ।
अथवा विभूनां परिमाणाभावस्याऽऽगमप्रामाण्ये उक्तत्वात् अणोरण्यस्य चैतन्यरूपेण विभुत्वात् स्वतः स्वचैतन्यविशिष्टवेषेण परिमाणरहितोपीत्युच्यते ।
यद्वा सिद्धान्ते नैयायिकादिमत इव परिमाणरूपगुणान्तरास्वीकारस्य न्यायतत्त्वानुसारिन्याय- -सिद्धाञ्जनोक्तत्वात् परिमाणानास्थया ततोक्तरिति ।
अत्र सिद्धान्त्यभिमताणुपरिमाणत्वस्य शरीरपमाणत्वक्षात्पूर्व कथनवत् चैतन्यमात्रेणेति सिद्धान्तिपक्षस्यापि पूर्वं कथनसंभवात् स्वरूपेणेति पक्षान्तरपरमेवास्तु ; श्रुतप्रकाशिकादृष्टं वाक्यं तु आत्मसिद्धौ स्थलान्तरे स्यादिति मन्तुमवसरोऽस्ति ।
तथापि सर्वत्र सिद्धान्तिपक्षस्यैवान्ते कीर्तनादिहाप्येवम् ।
तथाच गुणत्वाद् ज्ञानस्य व्याप्त्यनर्हत्वमभिमत्यैवात्मणुत्वं वदतां नित्योपलब्ध्यनुपलब्धिप्रसंगादिना परममहत्त्वनिच्छतां मतं प्राक् ’ अणुपरिमाण’ इति प्रस्तुत्य, ‘पादे मे वेदना, शिरसि सुखम्’ इत्युक्तानुसंधानोपपत्तयेऽणत्वत्यागिनां शरीरपरिमाणपक्षमुपन्यस्य, ततः व्याप्यवस्त्वनुरूपपरिमाणरहितोपि ज्ञानव्याप्तिस्वीकारात् कृत्स्नशरीरसुखाद्यनुभावी भवितुमर्हतीति सिद्धान्तिपक्षेण निगमनमिति ।
शरीरपरिमाण इति क्वचित्कोशे न ।
तदा सिद्धान्तिपक्षोऽन्ते इति निर्बाधम् ।
क्षणिक इति ।
अत्रात्मानित्यत्ववादिनश्चतुर्विधा इति सर्वार्थिसिद्धिरनुसन्धेया (जी.17) स्थैर्यञ्चेदिति श्लोके ।
अत्र चकार एवानुक्तसमुच्चायकः स्वतस्सुखित्वादिविकल्पं समुच्चिनोति ।
तथातथेति पूर्वोक्तसर्वप्रकारपरामर्शीं तद्विकल्पस्यापि परामर्शकः ।
तथातथेत्यनेन स्वतस्सुखित्वतदभावग्रहणम् ।
प्रतिपद्यन्ते इति ।
एवं तत्तद्वादिप्रतिपत्तिकथनात् विप्रतिपत्तिर्दर्शिता भवति ।
मिथ्यावादिमतद्वयं क्रमेणाह अभीत ।
आदिना ईशनग्रहणम् ।
एवंरूपाणां भेदानां विकल्पो वैचित्र्यम् ; तस्य प्रत्यस्तमितत्वं परमार्थतोऽसत्त्वम् ।
पक्षद्रयेऽपि जीवेश्वरयोर्मिथ्यात्वेपि द्वितीयपक्षे अनाद्यविद्यावत् प्रपञ्चहेत्वनादिमायांगीकारादविद्योपहितजीवतुल्यं मायोपहितेश्वरः सेद्धुमर्हति ।
ब्रह्माविषयकजीवाश्रिताविद्यावादिप्रथमपक्षे तु अनाद्यविद्यासिद्धेन जीवेन ब्रह्मणि प्रपञ्चेश्वरकल्पना क्रियत इति तस्येश्वरस्य व्यवहारकाले आस्तिकाबाध्यत्वेपि जीवकल्पितप्रतिभासिकमुक्तिकालनिर्वर्त्यकतिपयशुक्तिरजततुल्यता दुर्वारेत्याशयेनाह काल्पनिकमिति ।
तद््गुणसारता आरोपिताविद्यिककर्तृत्वादिकत्वम् ।
स्वभावमायेत्यत्र स्वभावं मायेति पा. ।
सकलजीवात्मवत् शुद्धचिन्मात्ररूप एवेश्वरः प्रकृतिपरिणामशुद्धसत्त्वचितोपहितोऽस्पृष्टाविद्यो जगदुद्दीधीर्षया संप्रदायप्रवर्तकोऽनुग्राहकश्च भवति ।
प्रलयप्राक््क्षणे शुद्धसत्त्वचित्तसत्ताकाले, ‘अहमेतावन्तं कालमतीत्य पुनः प्रवर्तिष्ये’ इतीश्वरकृतप्रणिधानवशात् प्रलीनं सुद्धसत्त्वं प्रलयान्ते पुनः प्रकृतितः पृथग्भवति ।
यथा अहं तदानीमुत्थास्यामीति प्रणिधानवशादभीष्टसमये सुप्तचित्तप्रबोधः, तद्वत् ।
अतः प्रधानपरिणामभूतचितबलसिद्धं प्रलयेऽनीश्वरस्य सृष्टावैश्वर्यमिति पातञ्जलाः ; तन्मतमाह तथान्ये इति ।
प्रकृष्टसत्त्वरूपमुपादानकारणं निमित्तं जनकं यस्य परिणमविशेषस्य तन्मात्रे नियमेन संकल्पव्यवस्थानुसारेण निर्वाहिता सर्वैश्वर्यमर्यादा यस्य तादृशमित्यर्थः ।
अनुपहितमपीति ।
सन्मात्रं ब्रह्म समुद्र इव फेनतरंगबुद््बुदात्मना चिदचिदीश्वररूपेण परिणमत इति ।
प्रतिबिम्बेश्वरपक्षमाह अपरिणामिनमपीति ।
विश्वतैजसादिनिरूपणं माण्डूक्योपनिषदि ।
चतुर्मूर्तिपक्षमुक्त्वा त्र्यादिपक्षानाह अनभिमतेति ।
चतुरिति ‘विष्णुर्बह्मा च रुद्रश्च विष्णुरेव दिवाकरः ।
तस्मात् पूज्यतमं नान्यमहं मन्ये जनार्दनात्’ इति मूर्तिचतुष्टमयमात्रग्राहि तात्पर्यचन्द्रिकोद््धृतं (गी.8-13) वचनम् ।
- अनादित्यादि अनाद्यविद्यारूपोपादानविशेषमूलक इत्यर्थकम् ।
- परमार्थतत्स्वेकत्वश्रुतेरेकं तत्त्वमिति पा. 3. व्यतिरेको विरहः ।
परमात्मानं विहाय जीवस्थित्यभावेऽपि तदविभक्तोऽयं तदविभक्तोत्यं ततो भिन्न इति ।
सिद्धान्ते नाव्यतिरेकित्वमात्रम्, तस्य परं प्रतीव कालादिकं प्रत्यपि भावात् ।
यद्वा सन्मात्रैकद्रव्यतया विशेषभेदाभावेपि सन्मात्रात् विकृतयोर्जीवेश्वरयोर्भेदः, अग्निविस्फुलिंग्योरिव । - विशिष्टभावेन भिन्नत्वम्, स्वरूपभावेनाभिन्नत्वम् ।
नानात्व इति ।
अयं सिद्धान्तः ।
अन्वयः इत्यनेन’शब्दप्रतीताभेदनिर्वाहप्रकार एवोच्यते ; न तु वस्तुनोरभेदः’ इति सूच्यते । - अंशांशिभावलक्षणसमवाय इति पा. 6. ननु द्रव्ययोरनयोः कथं समवाय इत्यत्राह परतन्त्रतेति ।
वक्ष्यति संयोगविशेषातिरिक्तः समवायो नास्तीति ।
अतो नित्यपारतन्त्र्यगर्भस्संयोग एव समवायः ।
अत्रोत्तरोत्तरं पूर्वपूर्वविवरणरूपम् ।
अभेदो नामान्वय इत्यादिकमवान्तरानेकमताभिप्रायेणापि स्यादित्याहुः । - स्वरूपोच्छित्तिपक्षो बौद्धस्य ।
कैवल्यमन्तःकरणाद्यनुपहितत्वादिरूपं सांख्यमतम् ।
तद्भावेत्यादौ तच्छब्दो ब्रह्मपरः ।
तद्भावरूपं साधर्म्यम् ; न तु सिद्धान्त इव गुणकृतं साधर्म्यम् ।
स्वरूपाविर्भावलक्षणः इति पृथिक्करणात् उपरितनसिद्धान्तपक्षेणैकीकारे लक्षण इति पदस्य व्यर्थत्वात् इदं माध्वमतम् ।
तैरेतावत एव नियतत्वस्वीकारात् ; भगवदनुभवकैंकर्ययोस्तन्मते नियतत्वाभावात् । - अत्र भगवद्बोधायनानुक्तिः स्वयं तद््वृत्तेः साक्षाददृष्टत्वात् स्यात् ।
अत एव हि स्वयं सूत्रभाष्यं निबन्धुकामैरप्येभिर्ननं तत्संपादनार्थबिलम्बेन स्वान्त्यसमये समापतिते श्रीभगवद्रामानुजमुखेन तत् प्रतीक्षितमासीत् ।
ते च स्वान्तेवासिश्रीकूरेशसहिताः उत्तरेषु क्वचित् कथञ्चित् बोधायनवृत्तिं समग्रां समीक्ष्य द्रमिडभाष्ये तदैकस्यमुभूय श्रीभाष्यं प्राणैषुरितीतिवृत्तविदः ।
सूच्यते चेदमादौ श्रीभाष्ये, ‘भगवद्बोधायनकृतां विस्तीर्णां ब्रह्मसूत्रवृत्तिं पूर्वाचार्याः संचिक्षिपुः ।
तन्मतानुसारेण सूत्राक्षराणि व्यख्यास्यन्ते’ इति ।
विवृतानि च तानीति वाक्येन द्रमिडभाष्यं ब्रह्मसूत्रस्यास्तीति ज्ञायते ।
भोक्त्रापत्त्यधिकरणादौ श्रीभाष्योपात्तमत्रत्यमेव स्यात् ।
अयं द्रमिडाचार्यः छान्दोग्यव्याख्यारूप-ब्रह्मनन्दिकृतवाक्यग्रन्थोपरि भाष्यकर्ता ।
वाक्यशब्दो वार्तिकपर्यायः ।
यस्य भाष्यस्योपरि वामनटीकेति श्रुतप्रकाशिकातो ज्ञायते (श्रीभाष्यद्वितीयश्लोके, लघुसिद्धान्ते च) भगवता श्रीवत्सांकमिश्रेणेति पुरस्कृतान्मिश्रादन्य एव सितासितनिबन्धकारिपंक्तिंनिविष्टः श्रीवत्सांक इति अनुक्तिसिद्धम् ।
टंकः प्रशंसितो यतिराजसप्ततौ ‘निरातंकाः टंकद्रमिडगुहदेवप्रभृतयः’ इति ।
एवं वेदार्थसंग्रहेऽपि (154 पु.) भगवद्बोधायन-टंक-द्रमिड-गुहदेव-कपर्दि- भारुचिप्रभृति….व्याख्यानेत्यादि एवभूतस्य सितासितनिबन्धनकारिमध्यप्रवेशनमिह परममुख्यार्थेऽवैषम्येप्यन्यत्रान्यथात्वादिना स्यात् ।
अत्राप्यचार्येति विशेषणेन टंकस्यांशतः प्रशंसाऽपि स्याति ।
अत्र सितनिबन्धकारिणः केचित् ; असितनिबन्धनकारिणश्चान्येइत्यप्यभिप्रयन्ति ।
अद्वैतप्रत्यर्थित्वमात्रेण वेदार्थसंग्रहादौ तत्कीर्तनमिति च युक्तम् ।
भर्तृप्रपञ्चोऽद्वैती स्यात् ।
तदुक्तमनूक्तं प्रकरणपञ्चिकायाम् (8.प्र.) ‘यत्त्विदं प्रपञ्चेन साधितम्-प्रत्यक्षादिविरोधेऽप्याम्नायस्य बलीयस्त्वम्, तद्वशेन प्रत्यक्षादीनामेव भ्रान्तता कल्पनीयेति’ इति ।
‘न दृष्टेर्द्रष्टारं पश्येः’ (वृ.3 4 2) इत्यत्र शांकरोपनिषद्भाष्ये प्रपञ्चकृतं व्याख्यानं दूषितमस्ति ।
तदौचित्यविमर्शश्चास्मत्कृतपरमार्थप्रकाशिकाग्रन्थे (174 पु.) कृतो द्रष्टव्यः ।
भर्तृमित्रं मनसिकृत्यैवाऽऽदौ श्लोकवार्तिके ‘प्रायेणैव हि मामांसा लोके लोकायतीकृता’ इति, इममेव च संस्कारं श्रोत्रघ्रहणकारमम् ।
केचित्तु पण्डितंमन्याः श्रोत्रमित्यभिमन्वते (1-6-130) इति चोक्तमिति न्यायरत्नाकरादवसीयते ।
तदवं नित्यनिषिद्धयोरिष्टानिष्टं फलं निषेधति, श्रोत्रेन्द्रियञ्च यथावन्नेच्छति ।
वेदान्तवादोऽस्य कीदृश इति विमृश्यम् ।
भर्तृहरिः स्फोटस्थापकः शब्दाद्वैतवादी प्रसिद्धः ।
ब्रह्मदत्तो भेदाभेदवादीति परमतभंगे भास्करबंगाधिकारे ।
सर्वार्थसिद्धौ च जीवसरे (16) ब्रह्मदत्तादिभिरुक्तं जीवानां स्वरूपतस्सृष्टिसंहृतिविषयत्वमिति ।
तदयं यादवप्रकाशतुल्यः ।
मूलम् - 1.3.3
- ‘न्यायतत्त्वशास्त्रप्रकरणं ह्यात्मसिद्धिः इति न्यायसिद्धाञ्जने बुद्धिपरिच्छेदे ।
शास्त्रैकदेशसंबद्धं शास्त्रकार्यान्तरे स्थितम् ।
आहुः प्रकरणं नाम ग्रन्थभेदं विपश्चितः’ इत्याहुः ।
‘प्रक्रिंयते आरभ्यतेऽनेनेति प्रकरणम्’ इति च । - ‘बुद्धीन्द्रियशरीरेभ्यो भिन्न आत्मा विभुर्ध्रुवः ।
नानाभूतः प्रतिक्षेत्रमात्मवित्तिषु भासते ।।’ इति पञ्चिका (त.प्र) ।
अत्रोक्तं वित्तिभास्यत्वादि ‘अनन्यसाधन’ इत्येतद्विवरणादौ निराकरिष्यते ।
एतदात्मसिद्धिकृतादेहेन्द्रियादिभेदप्रतिपादनसरणिर्नन्दीश्वरकृते प्रभाकरविजयेपि ।
विशिष्य देहेन्द्रियविषयमात्रे, न केवलं प्रमेयतः, पदवाक्यपरिस्थितितश्च बहुलमनयोस्संवादो विस्पष्टमस्ति ।
परन्तु नन्दीश्वरग्रन्थादत्र गाम्भीर्यं संदर्भसौष्ठवमधिकांशबोधनञ्च स्थितमपह्नोतुमशक्यम् ।
नन्दीश्वरश्चशालिकनाथ - भवनाथरूप नाथद्वयादर्वाचीन इति ‘नाथद्वयात्तसारे’ इति तच्छलोक एव दर्शनतीत्यलमत्राल्पके विस्तरेण ।
अनन्यसाधनः स्वप्रकाशः ।
व्यापी - ज्ञानद्वारा सर्वव्यापनशीलः ; अतिसूक्ष्मतया तत्रतत्रकालभेदेनान्तःप्रवेशसमर्थ इति वा ।
एतत्पदद्वयार्थोऽत्रैव विस्तरे व्यक्त इति तत्त्वटीका । - स्थूलद्यभिन्नाहमर्थविषयकतयाऽयम् अहम्प्रत्ययः ।
- प्रतीतिविरोधमुक्त्वा व्यवहारविरोधमाह नचेति ।
- मुख्यवृत्तिः शक्तिः ; तद््भूमेः - शक्यार्थस्य ।
- शरीररूपावयव्यविषयकत्वसाधकहेतुमाभासयति ।
जानामीति प्रत्ययः न शरीरविषयकः तदवयवाद्यविषयक प्रत्यक्षत्वादित्यत्र सामान्यमुखव्याप्तौ बाह्यप्रत्यक्षत्वमुपाधिरिति भावः । - तदवयवाविषयकत्वरूपहेतोर्व्यभिचारं बाह्यएव दर्शयति अनवधृतेति ।
महिमगुणः महत्त्वम् ।
गुणान्तरं परिमाणादि ।
चैतन्यं न शरीरविशेषगुणः शरीरसमवायिकारमसमवेतगुणाजन्यत्वात् शरीरसत्ताकालाव्या- -पित्वाच्चेति प्रयोगद्वयम् ।
तत्र प्रथमहेतुसिद्धये शरीरकारणपरमाण्वाद्यसमवेतत्वं चैतन्यगुणस्योच्यते प्रत्येकमिति । - प्रसंग इति ।
विशेषनिषेधस्सामान्याभ्यनुज्ञानार्थ इति न्यायादिति भावः । - शरीरं न चैतन्यरूपविशेषगुणवत् तद्रहितद्रव्यारभ्यत्वात् घटवदित्येवं प्रथमानुमानस्थानापन्नानुमाने इमे व्यतिरेकिणस्सत्प्रतिपक्षहेतवोऽपि ।
- कण्ठोक्तानुमानस्यानैकान्तिकत्वं स्थलत्रये आह ।
- पीलुपाकमतेन हेतोरदुष्टत्वं शंकतेअपिचेति वाक्यं काठिन्यानेकान्तनिगमनानन्तरं स्यात् प्रभाकरविजये ह्ययमंशस्ततः पश्चादेव लक्ष्यते ।
मूलम् - 1.4.4
- नच नास्त्येवेत्यन्वयः ।
प्रथमानुमाने स्थलान्तरेणानैकान्तिकत्वमाह विशेषगुणश्चेति । - विशेषिकैः ; न्यायतत्त्वशास्त्रकृद्भिश्च ।
न्यायसिद्धाञ्जने द्रवत्वरूपाद्रव्यप्रस्तावे निर्विरल संयोगप्रयुक्तस्पर्शः कठिन इति विशेष उक्तः ।। 3. ज्ञानस्य फलं प्रकाशः व्यवहारः ।
आत्मानं जानामीति द्वितीया तु नैयायिकादिमत इव गौणकर्मत्वे ।
कर्मणि द्वितीयेत्यनुशासनं मुख्यगौणसाधारण् ।
कर्मकर्तृविरोधव्यवहारस्तु मुख्यकर्मविषये इति भावः । - इदं सूत्रत्रयमिति क्वचित् ।
किण्वमंकुरः सुराबीजम् । - अनया कारिकया देहात्मवादे प्रत्यक्षबाधः काणादानुरोधेन कथ्यते ; उत्तरकारिकया च स एव सांख्यानुरोधेन ।
प्रायः कारिकोपरितनानि वाक्यानि कारिकाविवरणरूपाणीति ध्येयम् ।
प्रतिविधिः प्रत्युत्तरम् ।
अहमिदंकारौ अहमिति च प्रतीति ।
स्वस्य परात्मनि अयमिति धीसत्त्वादेकस्यैकत्रेत्युक्तम् । - अहं जानामीतिस्थाने अहमिदं जानामीति स्यात्? ।
न्यायसिद्धाञ्जने, गीताद्वितीयाध्याय चन्द्रिकायाञ्च देहात्मवादनिरासविस्तरः ।
निष्कृष्टम्-अतिरिक्तम् ।
‘अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तरप्रत्यक्षः’ इतिसूत्रम् (वै. 3.2-14) ।
अहंबुध्या परागर्थात् प्रत्यगर्थो हि भिद्यते ।
अतः पराक्त्वाविशेषात् घटादित इव देहादपि भेदो गृह्यते ; एवं इदम्बुद््ध्या प्रत्यगर्थात्परागर्थश्च भिद्यत इति अयं देह इति धिया देहेऽहमर्थभेदग्रह इत्याह परागिति । - अवतयः - जानतः पुरुषस्य ।
- अतोऽवयवाभावादेव त्रसरेणुप्रत्यक्षे तदप्रतीतिः ।
अतस्तत्र त्र्यणुकव्यवहारोऽप्ययुक्त इति भावः । - अभ्युपगम्यवादेनाह प्रत्यक्षेति ।
- यत् अवयबिप्रत्यक्षं तत् बहिरिन्द्रियजन्यमिति व्याप्तेरिति भावः ।
सिद्धान्तेऽवयवातिरिक्तावयव्यनंगीकारात् सुतरामवयविप्रतिभासानुपपतिरिति ध्येयम् । - तथा च स्थौल्यादियोगिदेहावच्छिन्नात्मा प्रत्यक्षविषय इति भावः ।
स्थूलोऽहमिति वाक्ये तु स्थूलाभेदोपपत्तयेऽहंशब्दो लाक्षाणिक इति वक्ष्यति ।
देहाभेदस्वीकारापेक्षया लक्षणाकल्पनं ज्याय इति तदाशयः ।
वेदान्तव्युत्पत्तौ तु स्थूलशब्दस्य स्थूलवच्छिन्नात्मपरत्वान्न लश्रणाऽपि । - प्रतायमान इत्यत्र प्रतीयमान इति पा. तथैव च नीतिमाला ।
मूलम् - 1.5.5
- अविवादात् देहात्मवादिनापि तत्र तथैव निर्वाह्यत्वात् ।
स्फुटत्वादिति ।
भेदप्रतिभासाभावेपीति शेषः । - घटादौ मिथोभेदकत्वेन बहिस्मिद्धो य आकारस्ततुल्याकाराग्रहणात् समानाकारग्रहणाच्च भ्रम इति ।
- स्मरत्यप्यूहतीति पाठान्तरमयुक्तमिव ।
उपसर्गादस्यत्यूह्योर्वेति वार्तिकम् । - लौकिकप्रत्यक्षमुक्त्वा योगजप्रत्यक्षं दर्शयति ।
- एवमुपवर्णितं प्रत्यक्षस्यातिरिक्तग्राहित्वं प्रयोगाभिनयेन निष्कर्षति भवन्ति चेति ।
भवन्तिचेत्येतावन्मात्रोक्तावपि प्रयोगा इत्यर्थसिद्धम् ।
ईदृशसूक्तिशैल्या ईश्वरसिद्धौ बहुलमुपलम्भात् । - प्रकाशमानशरीरावयवकपरति- -भासभिन्नप्रतिभासत्वात् ।
- घटाजाविति शेषः ।
न हि घटाविज्ञानं शरीरावयवविषयकम् ; तद्विदिति भावः ।
‘यथा घटोऽयमिति प्रतिभास’ इति प्र. ।
‘यथाऽयं घट इति प्रतिभास’ इति आत्मसिद्धावेव पा. क्वचित् (डि. 15284)
मूलम् - 1.6.6
- उद्देशत्वोपपत्तेः ।
संघातं प्रत्युद्देश्यत्वे भोक्तृत्वशक्तिरेव प्रयोजिका ; न संघातत्वमिति । - अयावद्द्रव्यभावित्वादिरूपात् ।
- कारिकायां तदसंभवादिति संगृहीतं विवृणोति सर्व इति ।
- तेषा द्रव्याणां यत्कार्यं तत्समधिगम्यः ।
अयंन्यायसिद्धाञ्जनदृष्टः पाठः ।
(425.पु.) पा. तत्तत्कार्येति ।
तत्प्रतियोगी कार्यविषयकः । - चैतन्यं विशेषगुणः कार्यत्वे सत्येकेन्द्रियगुणत्वादिति ।
रूपत्वज्ञानत्वादौ व्यभिचारवारणाय सत्यन्तम् ।
अत्र गुणपदमद्रव्यार्थकम् ।
अतश्च कार्यत्वे सतीति मूलोक्तसार्थक्यम् ।
द्वीन्द्रियग्राह्यसंयोगादिवारणाय एकेति ।
त्वक्चक्षुर्मात्रग्राह्ययोर्वायुप्रभयोर्वारणाय गुणत्वम् ।
मास्तु वा तत् सामान्यगुणभिन्नत्वस्य साध्यत्वे । - उपकार्योपकारकभावाभावः ।
- प्रतिसन्धानस्य व्यवहारस्य च लोपः ।
मूलम् - 1.7.7
- अनेकविजातीयरूपत्वं चित्रशब्दप्रवृप्रवृतिनिमित्तम् ; न रूपसमुदायत्वम् ।
नीलादिरूपाण्येव चित्ररूपम् ।
तत् अवयविनीवायवेष्वप्यस्तीति भावः । - अनुद््भूतचैतन्यैरित्यर्थः ।
- अनुद््भूतानामुद््भूताजनकत्वाच्च ।
4.तद्वगुणान्तरवैधर्म्यांदित्युक्तमुपपादयति ।
स्वविरोधिगुणाभावविशिष्टस्वाश्रय- -सत्ताकालाव्यापित्वं हेतुः ।
काठिन्यादौ व्यभिचार इति विशिष्टान्तम् । - विलेपनं मृगमदादि ।
- चैतन्यं न शरीरगुणः पराग्राह्यत्वात् बहिरिन्द्रियाग्राह्यत्वाच्चेति वैधर्म्यान्तरद्वयमाह ।
- प्रतिज्ञादिसमुदायो न्यायः, तदनपेतै ।
- अनिदमरथभूतानन्यार्थात्मविषयकप्रत्यक्षविरोधात् ; नेशत इत्यत्रावन्यः ।
- विषयः साध्यं तदपहारो नाम बाधः ।
अन्यध्यपेक्षया व्यतिरेकिणो दुर्बलाः, व्यतिरेकव्याप्तेरन्वयप्तिसंपादनमुखेन कार्यकरत्वस्वीकारात् ।
समबलत्वेपि प्रत्यक्षोपष्टब्धत्वात् प्रकृते प्राबल्यम् । - उक्तं हि, ‘ज्योतिष्टोमे तीर्थे स्नातीति विहितस्नानफलं स्नातृगतमालिन्यापनयादि ; न तु क्रतुगतोपकारः (मी. 6-4-9) ; अध्ययनफलञ्चाध्येतृगतार्ज्ञानाक्षरग्रहणादि ; त्वाचार्यस्याचार्यकसिद्ध्यादि (मी. 1 1-1) इति ।
- प्रायणं मरणम् ।
- ज्ञानमिन्द्रियनिष्ठं तद्व्यापारजन्यत्वादिति शाश्त्रवृतिनि आत्मनिष्टे पापेऽनेकान्तिकम् ।
- अन्यथा - अकथने ।
कुत्र वराह इति प्रष्टुः तदकथने क्षुधा मुत्यापत्तिः ; कथने चाश्रमागतवराहत्यागाच्छरणागतत्याग इत्यालेच्य किमपिसत्यतपसोक्तम् ।
अतो न तत् तत्त्वसाधकमिति ।
इमौ व्याधवराहौ ऋषिगुणपरीक्षार्थमागताविन्द्राविप्णू ।
प्रभाकरविजये, “अत एव वचनं सत्यतपसः, द्रष्टुश्चक्षुषो नास्ति जिह्वेति” इति, “यत्तु सात्यतपसं वचनम्, तत् शरणागतपरित्राणस्यावश्यकर्तव्यतामन्यथा च व्याधस्य प्राणयात्रापतिञ्चाऽऽलोच्यो-कुटम्बः सीदत्यस्य न संशयः’, ‘दृष्टञ्चक्षुर्निहितं जंगमेषु जिह्वा वक्तुं मृगयौ तद्विसृष्टम् ।
द्रष्टुञ्चक्षुर्नास्ति जिह्वेह वक्तुं मृगयौ तद्विसृष्टम्।
द्रष्टुञ्चक्षुर्नास्ति जिह्वेह वक्तुं जिह्वायास्स्यातत्त्वतोऽस्तीह चक्षुः’ इति ।
अत्रैवं जिह्वेह वस्कुं जिह्वाया वा….इत्येवम् ।
द्रष्टृत्वं चक्षुषः ; वक्तत्वं जिह्वायाः न चैकाधीनमन्यदिति तदर्थः ।
स्वानुपयुक्तमिदमिति व्याध उपेक्ष्य गच्छतु इति धिया कालहरणार्थं कृतोऽयं वादः स्वस्यासत्यवचस्त्वपरिहाराय । - बाह्यन्तरेत्यत्र बाह्यमादावुपपाद्यते ।
इन्द्रियं ज्ञानजनने मनस्ययोगरूपकारणसापेक्षमित्यर्थः ।
तदुक्तम्-युगद््ज्ञानानुत्पतिर्मनसो लिंगम् (न्या. 1-1-16) इति ।
तथेत्यादिना आन्तरेत्येतदुपपाद्यते । - स्वतन्त्रः कर्तेत्युक्तं स्वातन्त्र्यं शक्तिविशेषः, स्वेच्छाधीनप्रवृतिर्वा ।
अचेतनगतप्रवृत्तिवारणाय तन्त्रीकृत्येत्यन्तम् । - उक्तं मनस्साधनप्रकारमाक्षिपति आहेत्यादिना, ‘उच्यते-यदि बुद्धिरेव मन (24-पु.)’ इत्यतः प्राक्तनेन ग्रन्थेन ।
- युगपदिति सन्तीत्यत्रान्वेति ; स्मर्यन्त इत्यत्रानुषज्यते ।
- सुस्मूर्षया - स्मर्तुमिच्छया ।
- एकदा एकज्ञानजनकत्वमात्मनस्त्व- -भावः ।
समबलनानाज्ञानसामग्रीकाले ज्ञानविशेषप्राथम्येऽदृष्टं नियामकम् । - तस्यचेत्यादि ।
अत्रायं (प्रकरणपञ्चिका. तत्त्वा) ग्रन्थोऽनुसंधेयः - “तच्चात्ममनस्संनिकर्षाख्यम् ।
तस्य चासमवायिकारणं मानस एव परिस्पन्दः ।
तस्याप्यात्ममनस्सनिकर्षान्तरमात्मसमवेतं प्रत्नमदृष्टञ्चापेक्षमाणमसमायिकारणम् ।
प्रयत्नादृष्टयोश्चात्मनस्सन्निकर्षान्तरमेवेत्यनादिरेषा कार्यकारणपरम्परा” इति ।
आत्मसिद्धिग्रन्थे चात्र मनःस्थाने इन्द्रियमेवोक्तम् ।
विभुतयाऽऽत्मेन्द्रियसन्निकर्षस्य सूपपादत्वात् तद्धेतुरित्यनेन विशेषणसंप्रयोगहेतुत्वं विवक्षितं स्यात् ।
यद्वा विशेष्यभूतेन्द्रियसंप्रयोगपरत्वमेवाऽस्तु ; तस्यापि क्रियामन्तरेणायोगात् इन्द्रियक्रिया- -जन्यतया पञ्चिकाग्रन्थ इवार्थवर्णनसंभवात् । - रूपादि प्रति रूपाद्येवासमवायिकारणमिति नियमः क्वचिदग्निसंयोगान्वयव्यतिरेकबलात् यथा भज्यते, तथा नित्यगतगुणस्य संयोगासमवायिकारणकत्वमपि आत्मनि पूर्वपूर्वगुणान्वयव्यतिरेकबलात् भज्यताम् ; किमप्रसिद्धसंयोगतदाश्रयकल्पनेन असमवायिलक्षणे ज्ञानादिभिन्नत्वनिवेशेन चेति भावः ।
- संयोगासमवायिकारणकत्वाऽऽग्रहेपि मनसो भौतिकत्वापत्येष्टासिद्धिरित्याह एवमपीति ।
- भौतिके भूतपरिणामे ।
अनेन स्पर्शवद््द्रव्यस्य तस्यानित्यत्वमप्युक्तम् । - ज्ञानासमवायिकारणसंयोगा श्रयवस्तु न भौतिकं पार्थिवादिव्यतिरिक्तत्वादित्यनुमानम् ।
तत्र प्रत्येकव्यतिरेकं साधयति तथाहीति । - धर्मिणि पक्षे अभिमतो यो विशेषः अभोतिकत्वम्, तद्विपरीतपाथसीयत्वादिसाधनात् हेतुर्विशेषविरुद्ध इति ।
- यद््गुणग्राहि - यद््गुणमात्रग्राहि ।
- गन्धमात्रग्राहिता पृथिवीमात्ररब्धत्वे प्रयोजिका, घ्राणे पृथिवीतरानारब्धत्वविशिष्टपृथिव्यारब्धत्ववर्णनात् ।
अतो मनसि गन्धमात्रग्राहित्वाभावात् तन्मात्रारब्धत्वाभावसिद्धावपि न तदारब्धत्वासिद्धिरिति भावः ।
साधनतयेति ।
इयं शरीरदृष्टान्तेन भौतिकत्वसाधकहेतुः ।
भौतिकत्वं सकलभूतोपादनकत्वं वा किञ्चिद््भूतोपादानकत्वविशिष्टान्य भूताप्यायितत्वं वा । - उपनिषद्वाक्यमिदं उपरि उदाहरिष्यते ।
तत्र यथासिद्धान्तं धर्ममूतज्ञानपरत्वे मनःपदं स्वरसम् ।
वक्ष्यति च मनश्शब्दस्येह बुद्ध्यनतिरेकं स्वयमेव । - नवममिति तार्किकं प्रति तदनुसारेण ।
- बुद्ध्यपेक्षया पृथक्करणतया व्यपदेश इत्यर्थः ।
एकमेव करणं मत्यध्यवसायाभिमानचिन्तावृत्तिभेदान्मनो- -बुध्द्यहंकारचित्तशब्दैर्व्यपदिश्यत इति ।
यद्वा मनसो भौतिकत्वं इव सात्त्विकाहंकारजन्यत्वेऽपि मोक्षदशानुवृत्त्ययोगादत्र बुद्धिपदं धर्मभूतज्ञानपरम् ।
तदेवमन इति ।
अत एवात्रावस्थाभेदानामपरोक्षत्वकथनमपि सुश्लिष्टम् ; मनसः करमतयेत्यत्र पृथगितिशब्दाश्रवणच्च ।
अयमर्थः-धर्मभूतज्ञानस्य कर्यगुणात्मकस्य करणतया व्यपदेशो वृत्तिभेदात् ।
ज्ञानद्रव्यमेवेन्द्रियसंयोग-संस्कारादिव्यापारं सत् करणम् ।
तदेव प्रत्यक्षस्मरणाद्यवस्थापन्नं कार्यम् ।
करणावस्थायामेव मनश्शब्दः ; यथाऽहंकारे बुद्धिशब्दस्तत्पदविवक्षितवृत्त्यन्यवृत्तिविवक्षयेत्ति । - एवं द्रव्यान्तरप्रतिक्षेपे सिद्धान्त्येकदेशिना कृते स्वयमुपयुक्तमुत्तरमाह उच्यत इति ।
- प्राणस्येन्द्रियादि सर्वनिर्वाहकतया श्रैष्ठ्यं लोकवेदप्रसिद्धम् ।
- इतरथेति ।
आत्मा न स्वयमुतक्रान्तिगत्यागतिमान्परममहत्त्वात्, महत्त्वे सति स्पर्शहितत्वाच्चेति उक्रान्त्यादिरहितोऽप्यात्मा शरीरद्युपकरणगतमुत्क्रान्त्यादिकमादाय तद्वत्तयोपचर्यत इति वक्तव्यमतिरिक्तात्मवादे ।
प्राणात्मवादे न स क्लेश इति भावः । - ज्ञानादिक्रियाहीने ।
मूलम् - 1.9.8
- रसासृङ््मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ।
अन्नादेः रसाद्युत्तरोत्तरात्मा क्रमेण परिणामः । - प्रणविशेषो हि समानाख्यो जाठराग्नेः सहायीभूय भक्तपीतयोः परिणामंजनयति ।
उक्तञ्च प्रश्नोपनिषदि, कानि स्वपन्ति सुषुप्तौ, कानि जाग्रतीति पृष्ट््वा, प्राणविशेषाः अग्निश्च जाग्रतीति । - तनुतरेत्यत्र तनुगतेत्यपि स्यात् ।
कौष्ठ्यमारुतः शरीरे जठसंबन्धी संमानोपि प्राण एव ।
स हृदयादिप्रदेश त्वगिन्दियाग्रह्योपि कण्ठान्तरे मुखान्तरे नासिकान्तरे च अहमिदं स्पृशामीति आत्मभिन्नत्वेन इदन्त्वेनानुभूयत एवेत्यर्थः । - किञ्चेति ।
सावयवे देहे किं प्रत्यवयवं चैतन्यम् अवयविनि वेत्यादि विकल्पद््षणादिक भाव्यमिति । - अविभुत्वेनेति ।
परममहत्त्वादिर्हेतुरसिद्ध इति भावः । - स्वप्रयत्नस्य, अदृष्टस्य, मुक्तावीश्वरादिप्रेरणायाश्चानुरोधेन ।
- व्यापीत्येतद्विवरणासरे ।
- जडत्वप्रतिवद्धं जडत्वव्याप्यम् ।
प्रतिबन्धः - व्याप्तिः ।
व्यापक निवृत्तौ व्याव्यनिवृत्तिरनुभवसिद्धा ।
अतो व्यतिरेकव्याप्तिमुखेनास्य हेतुत्वमिति भावः ।
सत्तयैव प्रकाशमानत्वात् - स्वेतरानधीनप्रकाशवत्त्वात् ।
अयं हेतुरसिद्धः अनुमानाधीनप्रकाशत्वादिति भाट्टः शंकते स्यादिति ।
न खल्विति ।
(भा.भा. 39.) नीलमिदमिति ज्ञानं न ज्ञानप्रिकाशम् नीलेदमर्थमात्राकरवत्त्वात् ।
ज्ञानस्य नीलात् इदमर्थाञ्च भिन्नत्वादित्यर्थः । - प्रकाशः प्राकट््यं मीमांसकसंमता ज्ञातता ; तद्रूपोऽतिशयः ।
अनुमास्यत इति ।
नलेदमर्थ प्रकाशः कारणजन्यः कादाचित्कत्वादित्यनुमाने, स तत्पुरुषगतकारमजन्यः, तं पुरुषं प्रत्येव भावात् इति कारणस्य पुरुषगतत्वसिद्धौ परिशेषात् ज्ञानमेव तदिति सिद्ध्यतीति भावः ।
इदमेव ज्ञातता ज्ञानजन्या ज्ञानतात्वादित्यादिरूपेण कैश्चिल्लिख्यते ।। घटः प्रकाशते, घटो ज्ञातः इत्यादिव्यवहारेण ज्ञानघटयोः संबन्धमात्रं सिद्धयेत् ।
ज्ञानजन्यः प्रकाशो नाम विलक्षणो धर्मस्तु सिध्यति ।
अतस्तदसिद्धौ न तेन ज्ञानानुमानमित्याह तन्नेति ।
वित्तीति ।
विषयेण सह ज्ञानं ज्ञाता अहमर्थश्च भासत इति प्राभाकरपक्षः ।
तदुभयभानं विना विषयभानमात्रस्वीकारे इत्यर्थः ।
इति चेति चकारेण ज्ञानं जातं न वा, जातस्य ज्ञानस्याश्रयोऽहं वाऽन्यो वेति प्रतिभासावपि स्यातामिति च दर्श्यते । - किञ्चातीताद्यर्थानुमानादिस्थले प्राकट्यदर्शनायोगात् कथं प्राकट्येन बुध्यनुमानम् ? तत्र वाचिकव्याहारेण कायिकहानोपादानादिना वा प्राकट्यानुमानमिति न ; तत्र तयोरभावेपि विदितत्क्ज्ञानसत्त्वात् ।
तयोर्भावेति, तदुत्पत्तेः प्रागेव विदितत्वज्ञानाच्च । - अयं शब्दप्रयोग एतज्ज्ञानजनक इति ज्ञात्वा किल व्याहारः क्रियते ।
ततो ज्ञानज्ञानं प्रागेवापेक्षितमिति । - परव्याहारं श्रुत्वा तेन परज्ञानानुमानमिष्टम् ।
यस्मादहमेवव्याहरामि, तस्मादेतद्विषये मे ज्ञानमस्तीति ज्ञायते इति स्वज्ञानानुमानं तु न कश्चिदिच्छेदिति । - धर्ममेद - प्राकट्यम् ।
अतिरिक्तात्मसत्त्वे तदधीनप्रकाशास्वधर्मा च, स्वसंबन्दादर्थान्तरे तथाव्यवहारहेतुत्वात् तथाविधधर्महेतुत्वाच्चेति अनुमानद्वयम् ।
अत्र विस्तरः श्रुतप्रकाशिकादौ । - सत्तायां रूपे चेत्यत्र, ‘उपलभ्यमान’ इत्यादिपूर्ववाक्यांशानुषंगः ।
प्रकाशत इतीति ।
प्रकाशत इति पदार्थघटकः प्रकाशः संवित् ।
तत्संबन्धात् घटः प्रकाशत इति व्यवहारः ।
सैव चानुभूतिः ।
अतः अनुभूतिः प्रकाशत इत्यत्र न प्रकाशः कर्तृभूतानुभूत्यतिरिक्त इति ध्येयम् । - (प्र.प.तत्त्वा–) ‘सैव परं वेदित्री भवतु ।
कृतमन्येन बोद््ध्रा’ इति पूर्वम्, पश्चात्तु, ‘बुद्धिरेव वरमस्तु ; अलं बोद््ध्रेति यदुक्तम्’ इति च परमिति वरमिति च दृश्यते । - मुख्यप्रत्यक्षत्वसंश्रयणमशक्यम्, विकल्परूपत्वादित्यर्थः ।
- दृष्टव्याप्तिकेन संवित्स होपलम्भनियमरूपहेतुनाऽहमित्यंशस्य प्रकाशात्मत्वं संविद्रूपत्वं सिद्धम् ।
अहमर्थः संविदिभिन्नः नियमेव तया सहोपलम्भादिति ।
एममहमर्थस्याप्रकाशरूपत्वे प्रकशयोगः प्रकाशाप्रकाशयोर्विरोधात् ; प्रकाशरूपत्वे च संवेदनत्वापत्तिरिति हेतुनापि ।
एवं संविदभिन्नस्याहमर्थस्य वंविद्भिन्नत्वज्ञानं पारमार्थिकतया सिद्धवत्कृत्यसंविदपेक्षया पृथग्वस्तुतया स्थितिर्दुरुपगमेत्यर्थः ।
पृथग्वस्तुतयेत्यन्तस्य तत्त्वमेव दुरुपगममित्यत्रान्वयः । - अप्रकाशात्मन इत्यादि अद्वैतिभिरुच्यत इति प्रकरण प.त. प्रकरणे ।
- ग्राहकरूपस्य विकल्पस्याहमर्थस्येव ग्राह्यरूपस्य घटादेरपि घटमहं जानामीति सहोपलम्भनियमादिना पृथग्वस्तुत्वनिरासे इत्यर्थः ।
विकल्पो नाम व्यावर्तकांशः समनन्तरेति ।
अव्यवहितपूर्वेत्यर्थः । - ग्राहकरूपस्य विकल्पस्याहमर्थस्येव, ग्राह्यस्य घटादेरपि पृथग्वस्तुत्वनिरासे घटममह जानामीति सहोपलम्भनियमादिहेतूपन्यास एवाभिमतः ।
विकल्पो नाम व्यावर्तकांशः ।
बुद्धिरूप आत्मा ग्राह्यग्राहकाभिन्नोपि भ्रान्तैर्भेदवानिव दृश्यत इत्यर्थः । - अनिवृत्तिप्रसंगात्–अनिर्मोक्षप्रसंगात् ।
- दृष्टमिति, अपरेद्युरिति च प्रत्यभिजानीयादित्यत्रान्वेति ।
- साधनस्य निरालम्बनत्व- -गमकपरामर्शस्य ।
- भागपदेन पूर्वोत्तरमूमांसयोरैकशास्त्र्यं दर्शितम् ।
पूर्वभागे 1-1. सत्संप्रयोगसूत्रवृत्तौ, उत्तरभागे च 2-2. पादे । - शास्त्रे-न्यायतत्त्वे स्वपितामहपादप्रणीते ।
तत्समर्थनप्रपञ्चःश्रीभाष्ये द्रष्टव्यः, “यथार्थं सर्वविज्ञानम्” इत्यादौ । - विज्ञानलक्षणेति प्रायिकः पाठः ।
विज्ञानक्षणेति क्वचित् (4597) ।
प्रभाकर विजये (90), ‘विज्ञानलक्षणसंतानस्थायितया’ इति, अथ विज्ञानक्षणानां भेदेपि सौसादृश्यात् इति च लक्षणपदं क्षणपदञ्चोपलभ्यते ।
बौद्धाः स्वलक्षणपदेन व्यक्तिस्वरूपं व्यवहरन्ति ।
योगसूत्रे (3-1-3) लक्षणपदमतीतवर्तमानाद्यवस्थापरं दृष्टम् (भावागणेशवृत्तौ) ।
अतो विज्ञानलक्षणेति पाठप्रमाण्ये अतीताद्यवस्थविज्ञानव्यक्तीत्यर्थः स्यात् ।
क्षणशब्दार्थस्तु स्फुटः ; क्षणिकानामेव क्षणत्वेन व्यवहारात् । - प्रदीपदृष्टान्तेन प्रत्यभिज्ञानोपपादनं ग्रहीत्रैक््यमंगीकृत्य ग्राह्यमात्रभेदस्वीकारे स्यात् ।
ग्रहीत्रैक््यस्याप्यस्वीकारे तु पूर्वप्रतिसन्धाना- -द्यभावेनाऽऽत्मनः प्रत्यभिज्ञाश्रयत्वायोन्न किमपि प्रत्यभिज्ञाविषयीभवेदिति । - क्वश्चित् इष्टसिद्धिग्रन्थकारो विमुक्तात्मनामा आगमापायिसंवित्सन्तानेत्युक्त- -मसहमानोऽद्वैती ।
इयं संविदात्मशंकासमाधान- -सरणिः प्रायो जिज्ञासाधिकरणभाष्येऽनूदितैव ।
अनित्या - उत्पन्ना स्वतस्सिद्धत्वात् स्वयंप्रकाशत्वात् ।
स्वयंप्रकाशत्वं हि स्वेतराप्रकाश्यत्वविशिष्टस्वप्रकाश्यत्वम् ।
तत्र स्वकाले स्वप्रागभावाभावात्, स्वप्रागभावकाले च स्वभावात् स्वप्रागभावस्य स्वप्रकाश्यत्वं न संभवति ।
नापि ज्ञानान्तरप्रकाश्यत्वम्, स्वप्रागभावस्य स्वात्मकप्रतियोगिनं विहाय प्रकाशनायोगात्, स्वस्य च स्वान्यग्राह्यत्वे स्वयंप्राकाशत्वघटकस्वेतराप्रकाश्यत्वदलभंगापत्तेरिति भावः ।। 3. तद्दलप्रवेशा- -वश्यकतां दर्शयति अनुभाव्यत्व इति ।
इतरे–ऋद्धिपरिणामापक्षयविनाशाः ।
जन्मसत्तापरिणामवृद्ध्यपक्षयनिवाशाः खलुषट्् भावविकाराः ।
तत्प्रतिबद्धत्वात्-जन्मव्याप्यत्वात्् ।
अत एव जन्माभावादेव ।
उत्पत्तीति ।
उत्पत्तिमत्त्वरूपस्य व्यापकस्याभावेन ।
नानात्वस्य सजातीयभेदस्य ।
स एव विभागः ।
भेदः वैजात्यम् ।
“भेदः प्रसिद्धतरो लोके, इतरेतराभावश्च” (2 पु) इतीष्टसिद्धिवाक्यानुरोधेन भेदेतरेतराभावयोः पृथग्ग्रहणम् ।
यद्वा विभागः सर्वविधभेदः ; ‘अजस्यैवात्मनो देहेन्द्रियादिभ्यो विभागस्य’ इति अत्र वक्ष्यमाणत्वात् ।
इष्टसिद्धिग्रन्थे विभागशब्दस्य देशपरिच्छेदपरत्वप्रतीतावपि तत्रापि अजत्वहेतुना अमेनान्तेति कारिकोक्तमेयशून्यत्वत्रिविधपरिच्छेदराहित्ययोः साधनान्न तात्पर्यविरोधः ।
संवित्पश्रकानुसानमुक्त्वा धर्मक्षकानुमानमाह चेत्यत्वादिति ।
चेत्यत्वं चेतनाविषयत्वम् ।
अतो नास्यानुमेयः इति, अतोऽस्यानुमेय इति च पाठः ‘अनु’ इत्यस्यव्यर्थत्वादप्यशुद्धः ; ‘यदपि नास्या मेयो धर्मोऽप्यस्ति’ इति वक्ष्यमामानुवागानुलाराञ्च, इष्टसिद्धिग्रन्थनुरोधाच्च ।
तद्गन्थे आदौ या इत्यनेन स्वतस्सिद्धत्वसूचनात् मेयभिन्नत्वस्य लब्धत्वात् ।
अमेयेत्यत्र बहुव्रीहिः ।
तत्रामेयत्वं प्राक््विवृतम् ; अनन्तत्वं पश्चात् ; अत्रतु अमेयत्वं पश्चादिति भेदः ।
मेदविकल्पः भेदप्रकारः । - “याऽनुभूतिरजाऽमेयानन्तात्माऽऽनन्दविग्रहा ।
महदादिजगन्मायाचित्रभितिं नमामिताम्” इतीष्टसिद्धिमंगलश्लोकः उपरि तद्वक्तव्यार्थसंग्रहरूपः ।
परागर्थेति ।
प्रमेयभूतवाह्यार्थविषये प्रमाणफलत्वेन कल्पिता, प्रमाणवृत्तिप्रतिबिम्बतया सांख्यमता ।
वा संविदेव वेदान्तोक्तं चिद्रूपं ब्रह्म ।
अन्यथा शशविषाणादिवदत्यन्ताप्रसिद्धार्थपरत्वे वेदान्तस्याप्रामाण्यापत्तिः ।
तस्मादतोऽन्यं - प्रसिद्धसंविद्भिन्नमर्थं नकल्पयेदिति कारिकाद्वयार्थः ।
यद्वा सा संविदेवेह व्यवह्रियमाणो मेयः ग्राह्यग्राहकरूपोऽर्थः ।
तदध्यस्ततादृगर्थापेक्षया अन्यवास्तवमेयकल्पने चाद्वैवेदान्ताप्रामाण्यं स्यादिति ।।3. नित्यवत् नित्येन तुल्यमस्मरण् ; नित्यं तदस्मरणमिति यावत् । - अहमितिप्रतीतिविषयस्य विलयात्-अहमर्थविलयादित्यर्थः ।
- सुषुप्तौ अहमर्थाभावो विषयाग्रहणञ्च सुषुप्तिकालाभ्युपगतसंवित्प्रकाशाधीनजागरकालिक संवित्स्मरणरूप- -कार्यप्रतिबन्धके न भवतः ; भिन्नविषयत्वात् ।
अन्यथा पृष्टताडनेन दन्तभंगापत्तेरिति । - ननु सर्वस्मिन्नपि ज्ञाने ज्ञातृज्ञेयज्ञानत्रयभानस्य घटमहं जानामीत्याद्याकारवलादभ्युपेयत्वात् अन्वयव्यतिरेकानुविधानवशात् ज्ञात्रादिभानमपि ज्ञानस्मरणे हेतुः कल्प्यत इत्यत्राह त्रितयेति ।
एकानुभवस्यान्यस्मृतिहेतुताया लोके अदर्शनेन तत्स्मरणं प्रति तत्प्रकाशो हेतुरित्यस्यैव वलृप्ततया कल्पनान्तरे मानाभावात् ज्ञात्रद्यभानात् तदस्मरणेऽपि ज्ञानस्मरणं स्यादिति ।
अपीत्यनेन तदंसंमतिः, तदादरे सुषुप्तौ ज्ञानस्याप्रकाश एव स्यादिति च सूच्यते । - प्रत्यभिज्ञा - योऽहं पूर्वेद्युर्गामपश्यम्, सोऽहमिदानीं क्रीणामीत्येवंरूपा ।
निधनं नाशम् । - नन्वर्थान्तराणामतीतानागतानां ग्रहममस्त्येव ।
संवित्प्रगभावतद््ध्वंसादि- -विषय एवायं नियमः, यत्र गृह्यमाणत्वविशिष्टसंवित्प्रागभावत्वादि, तत्र तत्समकालत्वमित्याकारक इति शंकते अथेति । - एवमिति ।
संवित्प्रागभावस्य परं समकालवर्तिसंविदा ग्रहणमितीदमित्यर्थः । - प्रमाणमात्रस्य - प्रमितिसामान्यस्य ।
- मानमिति ।
मानेस्वयंप्रकाशत्वस्य अत एव स्वतःप्रामाण्यस्य च इष्टत्वात् तस्य सत्त्वे, यत् सत् तत् सर्ववदैव सदिति न्यायेन सदा सत्त्वमिति तत्प्रमेयस्यापि सदातनत्वमेव, मानस्य मेयाव्यभिचारित्वादित्यर्थः ।
अतो मानमेव न स्वीकार्यम् ; नित्यमेयमात्रं वा स्वीकार्यमिति भावः । - स्वयंप्रकाशत्वात् स्वतो मानभूतं सच्चेत्, सदाऽस्तीत्यर्थः ।
स्वतस्सदित्यन्वयो वा । - मेययोगः मेयेन नियतयोगः ।
मानस्य मेययुक्तत्वं न स्वसत्ताकालव्यापस्वमेयकत्वम्, किन्त्वबाधितमेयरूपकत्वम् ।
अयमपि किश्चिदविनाभावप्रकार इति श्रीभाष्ये ।
नायं समानकालिकत्वघटितः, किन्तु तन्मितिः तन्मेयनिरूपितप्रकारतासंबन्धेन यद्देशकालादौ, तन्मेयं दैशिककालिकस्वरूपादिसंबन्धेन तत्रेत्येवंरूप इति ।
प्रसिद्धश्च प्रमायाः प्रमेयाविनाभावः ।
अत एव न्यायसूत्रादौ ‘अव्यभिचारि’ इति भ्रमवारणं क्रियते ।
अत्रापि युगेव हीति हिशब्दैवकाराभ्यां मेययोगनियमप्रसिद्धिर्दर्शिता ।
प्रलाप इति ।
स्मृतेरप्रामाण्य सर्वेष्टम ।
तत् कस्मात् ? न याथार्थ्याभावात् ; किं तु अीतीतादौ अर्थसंबन्धाभावात् ।
वर्तमानार्थस्मृतावप्यप्रामाण्यादेवार्थासंबन्ध एष्टव्यः ।
स्मृतिस्थले इन्द्रियद्वाराऽर्थसंबन्धो दुर्वच एवेत्यादिप्रलाप इत्यर्थः ।। यथार्हं स्मृतावपि प्रामाण्यमिष्टमिति सिद्धान्ती । - अकारणमिति ।
असिद्धेः - प्रागभावो नास्तीत्येतत् प्रति स्वतःसिद्धत्वं न हेतुर्भवेत् ; किन्तु प्रमाणाभाव एव ।
स च नास्ति ; प्रागभावस्यानुपलब्धिप्रमाणकत्वात् संविदनुपलब्ध्यैव संवित्प्रागभावस्योक्तत्वात् (पु. 27-28) । - प्रत्यक्षं कालविशेषावच्छिन्नं भाति ; स्वकाल एव विषयप्रकाशकत्वे सति कालविशेषावच्छिन्नतया तत्प्रकाशकत्वदिति युक्त्यन्तरमाह अपिचेति ।
ज्ञानस्वप्रकाशस्य ज्ञानविषयकप्रत्यक्षतुल्ययोगक्षेमत्वात् प्रत्यक्षेणेव तेनापि प्रकृतकालावच्छिन्नतयैव ज्ञानाभानम् ।
तत्रानया युक्त्या प्रत्यक्षसंवित् स्वस्मिन् किञ्चित्कालावच्छिन्नत्वभानं कालान्तरानवच्छिन्नत्वविशिष्ट मनुमापयतीति ।
अहमिति संविदुच्यते ।
संविदिदानीमेवास्ति नान्यदेति पुरुषो मन्यत इति वस्तुस्थितिरिति तथैव प्रमेये वक्तव्ये, अहमिदानीमेवास्मीति प्रतीतिपराहंपदघटितवाक्यनिर्देश औपचारिकः ; घटो गुणमाकांक्षति, भावना अंशत्रयमपेक्षत इत्यादिवत् ।
सर्वत्राऽऽकांक्षाया इच्छारूपतया पुरुषनिष्ठत्वात् । - इतरथेति ।
प्रत्यक्षसंविदः सर्वकालेऽपि भाने इत्यर्थः ।
सर्वकालावच्छिन्नत्वे इति वा । - एवमिति ।
अनुमानादिसंविदोऽपि कालविशेषावच्छिन्नाएव चकासतीत्यर्थः ।
ननु भूतभविष्यद्विषयकानुमितेरपि संभवात् प्रत्यक्षस्येव न समकालवर्तित्वं तत्रेति चेत् –न ; अनुमानादिसंविदां नित्यत्वे तदपेक्षया भूतत्वभविष्यत्त्वयोः कुत्रापि दुर्वचत्वात् ।
किञ्चि धूमादिरूपहेतुप्रत्यक्षबलात् धूमनित्यत्वे तद््व्यापकस्याग्नेरपि नित्यत्वमर्जनीयम् ।
अतः तासांसर्वकालावच्छिन्नत्वेपि विषयनित्यत्वापत्तिः।
यत्रानुमितिः शाब्दधीरन्या वा संवित् स्वकालवर्तमानतया घटादिग्राहिणी, तत्र तस्याः सर्वकालवच्छिन्नत्वे तद्वस्तुनित्यत्वापत्तिरिति च ।
पूर्वकालाद्यवच्न्नितयाऽभान- -रूपयोग्यानुपलब्ध्या संवित्सामान्यानित्यत्वं प्रागेवोक्तम् ।
तत्र सति इयमपि यथासंभवं युक्तिः ।
एवञ्च एवमित्यस्य प्रत्यक्षवत् वर्तमानविषयग्राहिण्य इत्यप्यर्थो भवेत् ।
तदोद्देश्यविशेषणम् ।
एवं कतिपयसंविदिनित्यत्वे तत्सामान्यादितरत्रापि तथात्वं युक्तमिति च भावः ।
विस्तरस्त्वन्यत्र । - लिंगेति ।
अयमेतद्विषयकप्रतिकूलताज्ञानवान् एतत्कर्मकहानकर्तृत्वात्, एतद्विषयकानुकूलताज्ञानवान्, एतदुपादानकर्तृत्वादित्येवम् । - शब्दार्थग्रहणेति ।
अस्य शब्दस्यायमर्थ इति ग्रहणेत्यर्थः ; शब्दार्थसंबन्धग्रहणेति यावत् ।
तथैव पाठो वा ।
वृद्धव्यवहारादेः प्रयोज्यवृद्धादिज्ञानानुमापकत्वमुखेनैव शब्दार्थग्राहकत्वादिति भावः । - जडभूतज्ञानवादिनैयायिकादिसाधारण्यायेदम् ।
- तत्प्रसंगः अननुभूतित्वप्रसंगः ।
- स्वकीयपरकीयधर्मभूतज्ञानविषयत्वोपगमात् ।
- पूर्ववत् गगनकुसुमवत् ।
- संविदात्मनोर्वित्तिविषयत्वांगीकारे घटादेरिव क्रमेणाज्ञानविरोधित्वासंविदाश्रयत्वे स्यातामिति चत््अवेद्यत्वपक्षेपि गगनकुसुमवत् तत्र तत्र तत्तत् स्यादित्यर्थः ।
- स्वरूपासिद्धौ सत्यां दोषान्तरमप्याह व्यभीति ।
तदपीति ।
अपिना अनुभूतित्वसमुच्चयः ।
यथा अननुभाव्यत्वसाधकोऽनुभूतित्वरूपहेतुर्व्यभिचरति, अज्ञासिपमित्यनुभाव्यव्यक्तावापि सत्त्वात् तथेति । - ते-तव ।
- किं सन्तीत्यनुषंगः ।
- विभाग इत्यनेन भेदसामान्यविवक्षायामनुपपत्तिमाह अजस्येति ।
सजातीयभेदराहित्यं संविन्नानात्वर्शनाद्बाधितमित्युक्तम् । - समर्थितत्वात् ; अत्र, इष्टसिद्धौ च ।
- सिद्धत्वादित्यर्थः ।
- धर्म्यभिन्नाभिन्नस्य तदभिन्नत्वनियमात् धर्माणां मिथस्स्वरूपभेदोपि न स्यादिति भावः ।
- धर्मः प्राकट्यरूपः, यद्वा तस्य मीमांसकतस्य पूर्वं पश्चाच्च खण्डनात् वक्ष्यमाणो ज्ञानादूरत्वरूपोऽर्थधर्मः ।
अस्य धर्मिरूपत्वं न भवति, किन्तु धर्मत्वमेवेति ‘संविदेव न ते धर्माः सिद्धायामपि संविदि’ इति साधितम् । - जडत्वानवच्छिन्नत्वंस्वयंप्रकाशत्वम्, कालानवच्छिन्नत्वं नित्यत्वम्, देशानवच्छिन्नत्वं विभुत्वम्, नानात्वानवच्छिन्नत्वमेकत्वमित्येवमभाव- -रूपत्वात्, अभावस्य चाधिकरणरूपत्वान्न दोष इत्याशंक्य अभावरूपत्वेपि नाधिकरणस्वरूपत्वमित्याहं संविदीति ।
मूलम् - 1.10.9
- अनभ्युपगताधिकरणस्वरूपाताकमपि किञ्चिद्दर्शयति चेत्यञ्चेति ।
विरुद्धार्थम् - पक्षनिष्टस्वविरुद्धदर्मकम् । - सिद्धिसंविदौरैक्यात् संविद सिद्धिरिति व्यधिकरणप्रयोगो न कार्य इति भावः ।
- वेदान्ताय-वेदविनाशाय ।
- एवं, ‘कश्चिदाह’ इत्यादिनाऽनूदितं क्रमेण निरस्य, अथ ज्ञानमात्रनित्यत्ववाद्यद्वैतिमतेपि बौद्धमत इव प्रत्यभिज्ञानुपपत्तिः, तया ज्ञातुर्नित्यत्वस्यानुभूतेरनित्यत्वस्य चागाहनादित्याह अपिचेति ।
- अनुभूतिरपि परमार्थतो मा भूदित्यत्राह नहीति ।
अधिष्ठानं तु सत्यमपेक्षितमिति नानुभूतेरप्यपारमार्थ्यमित्यर्थः । - भास्वरद्रव्यस्याऽऽकारतया रजतता, संख्याऽऽकारतया पीतता, मुखाकारतया मुकुरस्थता, चन्द्राकारतया च द्वित्वं यथा प्रकाशते, तथाऽनुभूतिविशेषणतयाऽनुभवितृत्वं प्रकाशेत, ज्ञानमहमिति ।
अहंशब्दवाच्यादनुभवितुर्भिन्नतया त्वनुभूतिरवभासते, अहमर्थविशेषणतया च ।
अनुभवामीत्येतद्धि दण्डीतिवत् विशिष्टपरम्, न विशेषणमात्रपरमित्यर्थः ।
एतेन - अहंशब्देनाध्यस्तज्ञातृताकमनुभवमेवोक्त्वा धात्वर्थानुभूतौ विषयविषयिण्यां तदभेभानस्वीकारोऽप्यपास्तः, तङन्तस्यानुभूतिमात्रपरत्वाभावात् ; यदि जानामीति ग्रहणात् ज्ञातृतया भानम्, तर्हि तथाभानमहमर्थस्यै, नानुभूतेः ।
न चाहंशब्दोऽनुभववाची ।
अहंशब्दस्यानुभवपर्यन्तार्थकत्वे मानाभावाच्च ।
अत एव - अहंशब्देनाहमर्थत्वमुखेन गौण्याऽनुभूतिरुच्यते सिंहशब्देनेव माणवकः ।
तत्रानुभवामीति ज्ञातृत्वभानमित्यपि - निरस्तम् ; गौण्यां मानाभावात्, अहमर्थे वास्तवानुभवितृत्वग्रहणेन प्रतीत्यभ्रमत्वस्य युक्तत्वात् ।
घटमनुभवामि, पटमनुभवामीत्यनुवृत्तधात्वर्थः परतत्त्वरूपानुभूतिरिति भवदुक्ततया स्वाभिमतिविरुद्धतया तस्या अहंशब्दार्थत्वायोगाच्च ।
एवम्-अहंशब्दोऽहमर्थविशिष्टानुभूतिपरः ;तत्रानुभवामीत्यनुभूतिवैशिष्ट्यं भासमानं विशेष्यभूतायां धात्वर्थाभिन्नायामनुभूतौ बाधात् विशेषणेऽहमर्थे पर्यवस्यतीत्यपि अनुभवविरोधादिना निरस्तमेव ।
अहंशब्दः प्रत्यवाची ; तत्र प्रतीचि अनुभवामीति वास्तवमनुभवितृत्वमित्येवानुभवात् । - अवभासयन्नयं प्रत्यय इत्येतावत् स्यात् ।
अहमित्यधिकम् । - तथेति ।
अध्यस्तेत्यर्थः ।
किमिति ।
‘निरस्ताखिलदुःखोऽहमनन्तानन्दभाक् स्वराट् ।
भवेयमिति मोक्षार्थी श्रवणादौ प्रवर्तते’ इत्युक्तं स्मर्तव्यम् ।
अनुभवाभावे किं चिदान्दरूपत्वस्वीकारेण ? भ्रान्त्येति ।
अत एव प्रलयापेक्षया सृष्टिः श्रेयसी ।
बह्विति ।
दुःखेपि सुखभ्रान्त्या सुखित्वमेव प्रायः । - नन्वहंकारस्य ज्ञातृत्वे तदतिरिक्ते आत्मनि किं मानम् ? तत्राह तत्फलेति ।
‘पुरुषोस्ति भोक्तृभावात्’ ।
‘पुरुषस्सुखदुःखानां बोक्तृत्वे हेतुरुच्यते’ इति ह्युच्यते ।
ज्ञानस्यान्तःकरणवृत्तेर्व्यापारात्मनोऽहंकारस्थता ।
भोगस्सखदुःखागोचर- -स्साक्षिप्रकाश इत्यात्मनो भोक्तृत्वम् ।
तत्फलभुगकर्तेति विवक्षितमनुमानं विवरिष्यति दृष्टञ्चेत्यादिना ।
ज्ञानकर्ता स्वान्यभोक्तृविशिष्टः कर्तृत्वात् अहम्प्रत्ययगोचरत्वाच्च देहवदित्यनुमानम् ।
अनात्मत्वं वा साध्यम् ।
अहमर्थे भोक्तृत्वमात्मसंबन्धबलादौपचारिकमिति पश्चान्निश्चीयत इति भावः । - कर्तृत्व इत्यादि ।
आत्मन कर्तृत्वेऽहम्प्रत्ययगोचरत्वे च सतीत्यन्वयार्थः । - साक्षीप्रत्यगात्मेति वदतः, प्रमातुरहमर्थाद्विलक्षण इत्युक्तिर्व्याहतेत्याह देहेति ।
अञ्चतीति शत्रन्तं सप्रम्यन्तम् ; वस्तुनीति शेषः ।
इवेत्युक्तिरञ्चुधातुमुख्यार्था- -विवक्षासूचनाय ।
प्रतीपगामित्वञ्च वैलक्षण्यं ज्ञानाश्रयत्वमेव । - अजानन्निति ।
न हि कर्ता साक्षीति व्वपदिश्यते, किं तु निर्व्यापार इति परे ।
तन्न - न ह्याक्षिप्ताकर्तृत्वरूपार्थरक्षणाय द्रष्ट्वरूपवाच्यार्थत्यागः ; दर्शनकर्तैव च साक्षिशब्दवाच्य इति भावः । - चकासत इति शत्रन्तं चतुर्थ्यंन्तम् ।
- देहदृष्टान्तादिस्त्वदुक्तस्त्वदनिष्टसाधक इत्याह नचेति ।
अहंकारशब्दो बुद्धिशब्दश्चाहमर्थभिन्नत्वं बुद्धिमद्भेदञ्च साधयतः ।
अहमर्थः किं महत्तत्वरूपा बद्धिः, तज्जन्योऽहंकारो वा, बुद्ध्यहंकारशब्दवाच्यमन्यत् मनस्तत्त्वं वा ; सर्वथा अव्याकृतपरिणामत्वान्न ज्ञातृत्वमिति ।। 6. ननु सांख्यरीत्या वृत्त्याश्रयत्वरूपं ज्ञातृत्वं प्रकृतिपरिणामे नानुपपन्नम् ।
एवमपि नित्यचैतन्यस्यैव ज्ञाधात्वाद्युपात्तताया अस्मदभिमतत्वात् ज्ञानानुभूत्यादिशब्दमुख्यार्थाश्रयत्वमनुभवसिद्धं कथं निर्वाह्यमिति भवत्प्रश्नः ।
तत्र चिच्छायापत्त्या वा चित्संपर्केण वा चिदाश्रयत्वभ्रान्तिरिति समाधिरिति शंका क्रमेण क्षिपति नचेत्यादिना ! तयोः - अहंकारे बुद्धौ च ।
यद्वा चिदहंकारयोः ।
अहंकारे छायापत्त्या ज्ञातृत्वम् ।
अथ तस्य चिति अपि अध्यास इति भावः ।
छाया प्रतिबिम्बः ।
चैतन्ये अहंकारः प्रतिबिम्बितः ; अतो दर्पणस्थमालिन्यस्य मुख इवाहंकारेतत्प्रतीतिः ; यद्वा चैतन्यमहंकारे प्रतिबिम्बितम् ; तेन जले चन्द्रवत्त्वस्येवाहंकारे चिदाश्रयत्वस्य प्रतीतिः–इतीदमुभयमपि न भवतीति भावः ।
मूलम् - 1.11.10
- सम्पर्कपक्षं खण्डयति नचेति ।
वास्तवमिति ।
अग्नावौष्ण्यमिवेति शेषः । - व्यञ्जकत्वपक्षं शंकते यदीति ।
- स्वाश्रयतया स्वाश्रयकतया ।
आत्मस्थतया स्वगततया 4. अत एवेति ।
व्यञ्जकत्वकृतत्वादेवेत्यर्थः ।
व्यञ्जकविलयादिति शेषः । - अहम् - अहन्त्वम् ।
सुषुप्तेति भावे क्तः ।
भवेदित्यस्य अयमिति कर्ता ; अतः प्रथमपुरुषः । - असंबद्धमिति ।
अहंकारस्य चैतन्यव्यञ्जकत्वाच्चैतन्येऽहंकारवृ- -त्तित्वभ्रम इत्युच्यते ।
तत्र व्यञ्जकत्वं, व्यक्तिस्वरूपं, व्यञ्जकत्वस्य तादृशभ्रमनियामकत्वं, सुषुप्तावहमुल्लेखविगम इत्यादि सर्वं दुर्वचमिति भावः । - ननु जडस्यापि दर्पणगोघृतादेर्मुखकुंकुमगन्धादिव्यञ्जकत्वं दृष्टम् ; प्रकाशरूपादित्यादेश्चक्षुर्व्यंग्यत्वञ्च ।
अतः कथमयुक्तरित्यत्र दृष्टान्तद्योत्यं विशदयति आत्मत्वेति ।
दर्पणादिदृष्टान्तायोगो भाष्ये (79) द्रष्टव्यः ।
अहंकारो नानुभूतिव्यञ्जकः तद्व्यंग्यत्वात् अंगारवत्, अनुभूतिर्वाहंकारव्यंग्या तन्निरपेक्षप्रकाशत्वादिति प्रयोगद्वयं विवक्षितम् ।
मूलम् - 1.12.11
- ननूपकार्योपकर्तृभाव-स्तव्यस्तोतृभावादिकमिव व्यंक्तृव्यङ््ग्यभावोोपि मिथः किं न भवति? न खल्वादित्यांगरस्थले अदर्शनमात्रेण निषेधसंभवः ।
एवं सिद्धान्ते निरपेक्षप्रकाशस्यात्मादेर्ज्ञानादिव्यंग्यत्वस्यापि स्वीकारात् कथं व्यंग्यत्वनिषेधोऽपीति हेत्वोरप्रयोजकत्वशंक्यां प्रयोगद्वयमर्धद्वयेन समर्थयते किञ्चेत्यादिना ।
प्रातिकूल्यतः विरुद्धत्वात् ।
अत्र यादृशं व्यञ्जकत्वं व्यंग्यत्वञ्च विवक्षितम्, तादृशं मिथोविरुद्धम् ।
अन्योन्यव्यंक्तृव्यंग्यत्वे सति यत्र परस्परव्यक्त्यधीनव्यक्तिकत्वप्रसक्तिः, तत्रान्योन्याश्रयदोषात् ।
तथाहि व्यञ्जकं हि व्यक्तिकारणं व्यक्तेः प्रागावश्यकम् ।
तत्र यद्यहंकरः स्वरूपसन्नेवानुभूतिव्यञ्जकः, तर्ह्यमुल्लेखाभावात् तत्स्थतयाऽनुभूतिग्रहणमिष्टं न सिध्द्येत् ; अहमर्थस्य यावत्सत्तं साक्षिद्ध्ये भास्यत्वसिद्धान्तभंगश्च ।
अतोऽहंकारो व्यक्तस्सन्ननुभूतिव्यञ्जको वाच्यः ।
तथाऽनुभूतिरप्यहंकारव्यक्तेः हेतुरव्यक्ता पूर्वं न स्थातुमर्हति, प्रकाशश्वभावत्वात् ।
नाप्यहंकारं विना व्यक्ता, तथासति तस्याहेतुत्वापत्तेः ।
अतो व्यक्त्योः परस्परपूर्वकत्वमिति ।
अतोऽनुभूतेर्व्यञ्जकत्वमात्रम्, अहंकारस्य व्यंग्यत्वमात्रमितिप्रकृतप्रथमहेतोः प्रकृतविवक्षितव्यञ्जकत्वविरुद्धत्वात् प्रकृतसाध्यव्याप्यत्वमक्षतम् ।
द्वितीयानुमानपि त्वन्मतानुसारेम प्रयुक्तं त्वया दुर्निषेधम् ; एवमनिष्टस्यैवापादनादिति ।
यद्वाप्रथमकारिकायाम् अहंकारो न प्रकाशव्यञ्जकः अप्रकाशत्वात्, संविन्न जडव्यंग्या प्रकाशत्वादिति सामान्यतो विवक्षितम् ।
पूर्वोक्तानुमानद्वयं तूत्तरकारिकायाम् ।
पूर्वव्याख्याने तमनुर्भव तदधीनसद्धिरिति वाक्यस्वारस्यम् ; द्वितीये किञ्चेत्युत्तरत्रारम्भस्वार्यम् । - सिद्धिः उत्पत्तिः ।
- अत एव तद्विषयकज्ञानाभावादेव ।
- तद्विषयकज्ञानमस्ति न वेत्यस्त्वेतत् ; करणानुग्रहोऽपि प्रकृते दुर्वच इत्याह सहीति ।
चक्षुष इत्यादौ अनुग्रह इति विभज्यानुषंगः । - मुख्यो गौणो वा ज्ञातृरूपार्थे वेत्तृशब्दश्शास्त्रदीपिकादावात्मवादे ।
अत्र तु वेदितृशब्द एव सर्वत्र ।
एतत्स्थलीय श्रीभाष्यानुसारे तु बोद्धृशब्दः ।
मूलम् - 1.13.12
नन्वज्ञानमेवापनेयमस्त्वित्यत्राह अज्ञानमिति ।
तदुभयभावविरहिणि- ज्ञानाश्रयत्वज्ञानविषयत्वरहिते ।
वेद्यगतज्ञानोदयप्रतिबन्धकेत्यनेनाज्ञानग्रहणे (1) तस्य वेद्यगतत्वं तद््वृत्तित्वरूपं तद्विषयकत्वरूपं वा नास्ति, (2) अज्ञानस्याहंकारापनेयत्वमपि नास्ति, (3) अनुभवगतस्य तस्योच्छेद्यत्वमपि त्वन्मते न भवति, (4) अज्ञानमभिमतं प्रागभावरूपं वा भावरूपं वा ।
आद्यं प्रतिबन्धकमपि न भवति ।
अन्त्यं तु त्वदिष्टमप्रसिद्धम् ।
(भावरूपाज्ञाने प्रत्यक्षानुमानादिप्रमणाभावप्रपञ्जनं श्रीभाष्यादौ द्रष्टव्यम्) इत्येवं वेद्ये किञ्चित्कारमुखेनानुग्रहरूप प्रथमशिरः खण्डितम् ।
अथ, वित्तिकरणे वेदितरि वा किञ्चित्कारमुखेनेति शिरोद्वयं शिष्टमर्धद्वयेन खण्डयिष्यति करणानामिति ।
- संबन्धनिरूपणे - ग्रन्थोपक्रमदर्शितात्मसंबन्धविषयविप्रतिपत्तिविषयनिरूपणा- -वसरे ।
करणानामभूमित्वात्=अनुभूतेरिन्द्रियासंबन्धित्वात् ।
अहमर्थस्येति काकाक्षिन्यायात् प्रागप्यन्वेति ! तेनैवेति ।
स्वस्वरूपस्यैव स्वकल्मषप्रतिभटत्वे कल्मषप्रसक्त्यभावादिति भावः । - न किञ्चिदिति ।
अद्वैतज्ञानमप्यपरमा स्यात् । - तस्मादिति ।
अहमर्थस्याहंकारत्वे तत्र देह इव वास्तवज्ञातृत्वायोगस्य, छायापत्त्या संपर्केण वा ज्ञातृत्वाध्यासायोगस्य च पूर्वमिव, इदानीं व्यञ्जकत्वाधीनज्ञातृत्वाध्यासायोगस्य चोक्तत्वादित्यर्थः । - सुषुप्तिगतं वैलक्षण्य दर्शयति यदिपरमिति ।
यदिपरमित्यव्ययं समुदितं ‘परन्तु’ पर्यायकल्पम् ।
अतोऽत्र तर्हीत्येवं वाक्यापेक्षा नास्ति ।
यदि विशेषो विमृश्यः, तर्हि वक्ष्यमाणं परमस्तीतियदिपरमित्यस्यार्थः ।
इयं प्राचीनप्रयोगसरणिर्न्यायसिद्धाञ्जनेऽपि जडद्रव्यपरिच्छेदे (57), ‘यदिपर तन्निमित्तत्वमात्रं महतः’ इति । - तथैव अस्फुटतयैव ।
- ज्ञस्वभावस्य-त्वदुक्तज्ञानस्याश्रयापेक्षत्वात्संमन्तव्यस्य, अतएव प्रभातुल्यप्रकाशा- -श्रयत्वात् स्वयंप्रकाशस्य ।
वक्ष्यति च, ‘चैतन्यस्वभावतया स्वयञ्ज्योतिष्ट्वात्’ इति ।
अतएव ‘चैतन्यस्वभावता हि स्वयम्प्रकाशता’ इति भाष्यं चैतन्यस्वभावत्वात्स्वयम्प्रकशतेति 1व्याख्यातम् ।
प्रकाशमानं वेति ।
नन्वज्ञानसाक्षित्वम् अहमज्ञानं जानामीत्येवंरूप नेष्यते, किन्तु ‘न जानामि’ त्येवंरूपमितिचेत्-एवमपि जानामीत्युत्तमपुरुषेणास्मदर्थप्रकाशो दर्शित एवेति । - वार्तम् असारम् ।
वैनाशिकदर्शने क्षणिकज्ञानसंतत्युच्छेदो मोक्ष इति बौद्धमते । - नन्वात्मन्यविद्याया इवाहमर्थस्याप्यध्यस्तत्वात् अध्यस्तनाशेष्यधिष्ठानभूतात्मस्थितिर- -पवर्गे निर्बाधेति शंका क्षिपति नो इति ।
धर्ममात्रमिति ।
अविद्यापि नाध्यस्ता, किन्त्वात्मधर्मः ।
अहमर्थस्तु न धर्मोपि ।
अतो ‘धर्मनाशेपि धर्मिस्थितिः’ इति रीतिरपि न भवतीति । - आत्मा स्वरूपेणेति वा, आत्मनः स्वरूपमिति वा, आत्मन इत्यस्याविद्यानिवृत्त्यामित्यत्रान्वयविवक्षया, अविद्यानिवृत्त्यामिवात्मनः, आत्मा स्वरूपेणेति वा पाठः स्यात् ।
अन्यथा आत्मेत्यध्याहारः स्यात् । - केति ।
ज्ञानस्यावस्थितिरेव तदाऽमर्थनाशे न सिद्ध्यतीति स्थिते कुतस्तस्याहमर्थभिन्नस्यात्मत्वप्रसक्तिरिति । - “यद्यात्मधर्मोऽहंकारो नित्यत्वं तस्य बोधवत् ।
नित्यत्वे मोक्षशास्त्राणां वैयर्थ्यं प्राप्नुयाद््ध्रुवम्” इति सौरेशोक्तदोषस्तस्यैवेत्यभिसंधायाह अन्यच्चेति ।
(प्राप्नुयात्-प्रसजेत्।
)6. एतेन मुक्तावहमर्थानुवृतेरावश्यकत्वेन ।
अस्मदित्यादि ।
अहमिति प्रतीतावहंकारोऽनुभूतिश्चेति द्वयं भासते ।
तत्रानुभूतिश्चिद्रूपा स्वयंप्रकाशतया प्रत्यग्रूर्पोशः परग्रूपेदमंशादन्या । - तद्धलनिर्भासिततया चिदधीनप्रकाशतया ।
लक्षणतः पराधीनप्रकाशत्वरूपपराग्लक्षणवत्तया ।
अहम्प्रतीतिगोचरत्वाहंशब्दार्थत्वयोः सत्त्वेऽपि सोऽर्थो लक्षणथो युष्मदर्थ एव-इदमंश एव, परागर्थ एवेति ।
सिध्यन्-ज्ञातृत्वेन सिध्यन् ।
अत्र अनुभूतिरात्मा प्रत्यक््त्वात्, अनुभूतिः प्रतीची स्वयम्प्रकाशत्वात्, अनुभूतिः स्वयम्प्रकाशा चित्त्वादिति व्यतिरेकिहेतुत्रयम्, अहमर्थो नात्मापराक््त्वात्, अहमर्थः पराक्् ज्ञानाधीनप्रकाशत्वात्, अहमर्थो ज्ञानाधीप्रकाशः चिद्भिन्नत्वादित्यन्वयिहेतुत्रयञ्चाभिसंहितमिति श्रुतप्रकाशिकादौ । - उत्तरेणैकवाक्य- -मिदम् ।
यद्वा यथाभाष्यमत्र वाक्यच्छेदः । - असौ अहमर्थः ।
स्वयंज्योतिष्ट्वात्–स्वयप्रकाशत्वात् ।
ननु प्रकाशतदाश्रययोस्स्वप्रकाशत्वेउभयोः प्रत्यक्त्वापत्तिः ।। नैवम्, अहन्त्वस्यैव प्रत्यक्त्वरूपतया केवलप्रकाशे तदप्रसक्तेरिति । - अन्वयिव्यतिरेकिपञ्चावयवन्यायेन मुक्तावहन्त्वानुवृत्तिकथनमुखेनाहन्त्वरूप- -प्रत्यक्त्वस्य स्वरूपं विवृणोति सचेति ।
स्वस्मै प्रकाशमानत्वं प्रत्यक््त्वम्, पराक्त्वञ्च परस्मै भासमानतवमिति शिक्षितं भवति । - आदिना ज्ञानस्यापि परिग्रहः ।
- एवं प्रकाशमानत्वे-अहमिति प्रकाशमानत्वे ।
- वामदेवशब्दोऽत्र महर्षिं महादेवञ्चाभिप्रेत्य ।
आदिशब्देन वा रुद्रग्रहणम् ।
479 अतत्प्रत्ययदर्शनादित्यशुद्धम् ।
तत्प्रत्ययदर्शनादिति वा पाठस्स्यात् । - ऋषिमध्ये वामदेवानुसन्धानं बृहदारण्यकवाक्येन प्रदर्श्य, देवमध्ये सर्वज्ञस्य वामदेवस्य महादेवस्यानुसन्धानमप्यथर्वशिरोवाक्येन भविष्यामीति इति ।
अत्र तत्त्वटीकायाम्, ‘अथर्वशिरसोऽप्येवमेव निर्वाहो वेदार्थसंग्रहे स्थापित’ इति वाक्यम्, अहमेवेत्यादेरथर्वशिरोवाक्यत्वस्य तत्र भगवद्भाष्यकृत्संमतेश्च सूचनायेति ज्ञायते ।
अविद्येति ।
अविद्याऽस्मितारागद्वेषाभिनिवेशाः क्लेशाः (यो.सू.) ।
‘महाभूतन्यहंकार इत्येतत् क्षेत्रमुच्यते’ (2.43) इति सौरेशकटाक्षेणाह एवञ्चेति ।
आत्मन एवाहन्त्वे स्वतएव सर्वदाऽहमिति भासमानत्वे च सतीत्यर्थः ।
अहंकारशब्दे भावे करणे च घञ् ।
कृञर्थश्च प्रकृते ज्ञानक्रिया ।
तथाच अहंबुद्धिस्तत्करणञ्च तदर्थः ।
तत्राऽऽत्मन्यहम्बुद्धिस्तात्त्विकी ।
तदभिप्रायेण क्वचित्प्रयोगः ।
यथा, ‘अथातोऽहंकारादेशः’ इति ।
अनहमर्थे अहमिति बुद्धिरप्यहंकारः ।
अयमेव देहादावात्मभ्रम इत्युत्यते ।
अयं सर्वप्राणिसाधारणः ।
अयमेव यदा प्रशस्तदेहादिविषयकात्मभ्रमरूपो भवति, तदा गर्व इत्युच्यते ।
आत्मगुणादिभिरुत्कृष्टस्य जनस्य यत् देहादि, ततः स्वदेहादौ प्राशस्त्यमभिमत्य देहात्मभ्रमवशादात्मानमेव तादृशप्रकाशस्त्यविशिष्टतया गृह्णन् हि परात्मनस्तदभावमाकलय्य तमवधीरयतीति ।
‘अहंकारं बलं दर्पम्’ इत्यादौ बलदर्पादिसाहचर्यात् अयमेव गुणविशेषो हेयत्वेनोपदिष्ट इति ज्ञायते ।
आत्मन्यहम्बुद्धेस्स्वतसिद्धत्वान्न तत्र करणापेक्षा ।
करणेघञन्तस्त्वहंकारशब्दः अनहमर्थे देहादावहम्बुद्धिकरणे क्षेत्रज्ञार्थचतुर्विंशतिक्षेत्रतत्त्वान्तर्गते अहंकारतत्त्वे प्रवर्तत इति तस्य क्षेत्रान्तर्भावोपपत्तिरिति ।
मूलम् - 1.14.13
- अद्वैतिमतदूषणं निगमयति अत इति ।
अत्र संविदनित्यत्वसाश्रयत्वादि निरूप्य, बौद्धमत इवैतन्मतेपिप्रत्यभिज्ञानुपपत्तिं प्रस्तुत्य, ‘अहं जानामीति प्रत्यक्षं न ज्ञप्तौ ज्ञातृत्वभ्रमरूपम् ; नाप्यन्तःकरणे वस्तुतो भ्रान्त्या वा ज्ञातृत्वसंभवः, अतो ज्ञाताऽहमर्थएवात्मा, न ज्ञप्तिमात्रम्’ इति वर्णनेन आत्मनि ज्ञातृत्वाहन्त्वयोः प्रत्यक्षसिद्धिर्दर्शिता ।
अथ सुषुप्तौ मुक्तौ चाहमर्थस्फुरणोपपादने प्रवृत्य, अन्यथा वैनाशिकमताविशेषः, मोक्षशास्त्रमुमुक्षुप्रवृत्तिवैघट्यञ्चेति तर्कमुक्त्वा, आत्मनि स्वस्मै भासमनत्वेन सर्वदाऽहमिति भानं साधयतः पञ्चावयवन्यायस्य कथनादहम्भाने न्यायोऽप्युक्तः ।
एवमहम्भाने वामदेवादिविषय आगमोप्युक्तः ।
ज्ञातृत्वविषये तु आगम उपरिष्टाद्वक्ष्यते ।
अविद्यायोगो नाम अविद्याया अनात्मनि देहादावात्मभ्रान्तेर्योगः उपपत्तिः ।
यद्वा तस्या अयोगोऽनुपपत्तिः ; आत्मनि वस्तुतोऽहन्त्वसत्त्व एव स्थूलोहमित्यहम्भ्रमस्यात्मभ्रम्वोपपत्तिः ; तत्र वस्तुतस्तदसत्त्वे च तस्य तद्भ्रमत्वायोग इति ।
अयमनन्तरमेवोक्त इति । - एवं विशिष्य प्रच्छन्नबाह्यमतं निरस्य प्रकटप्रच्छन्नसाधारण्येन प्रथममनूदिते संविदात्मवादे शिष्टं खण्डनं वर्तयिष्यन् तद्वादारम्भोक्तमजडत्वहेतुमाभासीकरणायानुवदि यदुक्तमिति ।
- अव्यभिचरितः प्रकाशो यस्याः सा सत्ता अव्यभिचरितप्रकाशा ।
अत्र स्वसत्ताव्यापकप्रकाशवत्त्वं, स्वसत्ताप्रयुक्तप्रकाशवत्त्वं, स्वस्मैभासमानत्वमिति पक्षत्रये मध्यमपक्षः प्रथमपक्षत्वेन भाष्ये आदृतः, औचित्यविशेषात् । - संवित् आत्मा स्वसत्ताप्रयुक्तप्रकाशवत्त्वादित्यत्र, स्वमते अहमर्थे आत्मत्वसद्भावात् साध्यतदभावसाधारणतया हेतुरनैकान्तिकः स्वमतरीत्या ।
परेण संविदतिरिक्तस्य सर्वस्यानात्मत्वस्वीकारात् हेतुः साध्याभावैकसमानाधिकरण इति तद्रीत्या विरुद्धत्वम् ।
तेन प्रकाशरूपधर्मास्वीकारात् प्रकाशवत्त्वरूपहेतोरसिद्धिश्चेति । - अथ संविदात्मवादोक्तस्य प्राकट्याभावादेः स्वसंमतत्वात् तदुपर्युक्तमेव विम्रक्ष्यन्, ‘संविद एवात्मत्वे लाघवात् किमन्येन कल्पितेन’ इति तदुक्तविषये समाधानरूपं, ‘कल्पनायां ह्येष दोषः, प्रत्यक्षसिद्धत्वादन्योो दुरपलपः’ इत्यर्थपरं नन्वित्यादिग्रन्थं दूषयितुं तेनोपन्यस्तं यत् सहोपलभ्भनियमादि, तत् खण्डयति न चेति ।
- तेन अहमर्थेन ।
सह उपलम्भो यस्य तदिति बहुव्रीहिः ।
नियमेन सहोपलभ्यमिति वा नियतसहोपलम्भमिति वा पाठः स्वरसः । - अभदं साधयतश्च संविदि अहमर्थस्य कल्पितत्वसाधन एव तात्पर्यम् ।
नीलतद्धियौ, अहमर्थतत्संविदौ वा अभिन्ने परस्परोपलम्भनियतोपलम्भकत्वादिति प्रयोगे मिथ्यात्वरूपपर्यवसितसाध्यस्य पक्षैकदेशे बाधादिकमत्र विवक्षितम् ; अहमर्थो ज्ञानाभिन्नः स्वोपलम्भव्यापकसंविदुपलम्भकत्वादिति प्रयोगे च यत् स्वोपलम्भव्यापकयदुपम्भकं तत् तदभिन्नमिति सामान्यमुखव्याप्तिविवक्षायां, संविदिस्वोपलम्भव्यापकाहमर्थोपलम्भकत्वरूपहेतुसत्त्वात् साध्याभावाच्च तद्दष्टान्तेनात्रापि साध्याभावसाधनसंभवाद्धेतोर्विरुद्धता, तत्रैव व्यभिचारश्चेति ज्ञापितम् ।
अत्र सहत्वघटितहेतुनिर्देशस्तु सहत्वस्य भेदाधिष्ठानत्वात् स्वभिन्नाहमर्थोपलम्भव्यापकोपलम्भगोचरसंवित्कत्वादिति ग्राह्यः ।
स्वं संवित् ।
एतदनुसारेण सामान्यमुखव्याप्तिवचनप्रकारोऽप्यूह्यः । - घटपटाद्टेकैकसंविदुपलम्भेपि चालिनीन्यायेनाहमर्थोपलम्भव्यापकत्वरूपक्शेषणाभावात् साधनाप्रसिद्धिरिति ।
- अत्र विशेषातिरिक्तमित्येतदर्थपरः पाठस्स्यात् ।
प्रत्यक्षादिवित्तिविशेषमादाय व्यापकत्वाभावेपि वित्तिमात्रमादाय व्यापकत्वं भवतीति न, निर्विशेषं न सामान्यमिति न्यायेन विशेषातिरिक्तसामान्याभावात् ।
एवं घटसंविदित्येवं विषयवैशिष्ट्यं विसृज्य निर्विषयवित्तिमात्रग्रहणमपि दुष्करम्, तादृशवस्त्वभावादिति । - ननु सविषयव्यक्त्यतिरिक्तवित्त्यभावेपि प्रकृते तादृशव्यक्तीनामेव संवित्त्वेन रूपेण सामान्यतो ग्रहणेन व्यापकत्ववर्णनान्न दोष इत्यत्राह सामान्यमिति ।
अतद्व्यावृत्त्यात्मकापोहातिरिक्तभावरूप जातिः सौगतासंमता ।
अदद्व्यावृत्तिश्च व्यक्त्यनतिरिक्तेति । - प्रकारान्तरेण साधनाप्रसिद्धिमाह समस्तेति ।
सुषुप्तिप्रलयादावहमर्थप्रकाशोस्ति, न संवित्प्रकाश इति न व्यापकत्वमिति भावः ।।अभिन्नं सहोपलभ्यत्वादिति साध्यहेतुनिर्देशः एकं द्वाविति निर्देश एव, सहेति द्वयोरुक्तेः ।
तथाच पूर्वोक्तसहत्वघटितहेतावयं वाग्विघात इत्याह स्ववागिति ।
अपि चेति ।
सहोपम्भनियमादभेदो नीलतद्धियोरिति तत्कारिकातः नीलतद्धियौ अभिन्ने इति प्रतिज्ञानिर्देशः प्रतीयते ।
तत्र पक्षतावच्छेदक हेत्वोरद्वित्वैकत्वयोर्विरोधात् प्रतिज्ञाविरोधोपीत्यर्थः । - जडत्वमूर्तत्वादिकं हि सौगतैरपि संविदि नेष्टम् ।
तत्र जडत्वादेरपिसंवित्प्रकाश्यतया संवित्सहोपलम्भनियमसत्त्वात् तत्र संविदभेदरूपसाध्याभावाद्व्यभिचारः ।
अभेदस्वीकारे च तस्याः जडत्वाद्यापत्तिः ।
ननु जडे व्यभिचार इति वक्तव्यम्, न तु जडत्वे इति ; तथा हि सति संविदो जडत्वत्वापत्तिरेव स्यात्-सत्यम्-सौगतमते धर्मधर्म्यभेदादेवमुक्तम् ।
ननु जडे व्यभिचार इति वा कथं सुवचम्, नीलादेर्जडस्य पक्षत्वात् ।। सत्यम् ।
जडत्वादेस्संविदि बौद्धैः प्रतिषिद्धत्वाज्जडस्य पक्षत्वे बाधस्स्यादिति नीलत्वादिना पक्षता, न तु जडत्वेनेत्युक्तौ जडत्वेन जडेपि हेतुसत्त्वाद्व्यभिचार इति तात्पर्यम् । - सर्वज्ञस्य सुगतस्य ज्ञानं हि संसारिज्ञानविषयकम् ।
तथाच तस्य ततो भेदे व्यभिचारः, अभेदे बुद्धस्य बद्धत्वापत्तिरिति।
ननु संसारिज्ञानोपम्भव्यापकत्वं सर्वज्ञज्ञानोपलम्भस्य कथम्, जीवेपि व्याप्यस्य सत्त्वादिति चेत्-उच्यते, संविद्विशेषैर्नियसहोपलम्भाभावस्योक्तत्वात् तदर्थं संवित्त्वसामान्येन व्यापकत्वविवक्षया पक्षे स्वविषयकसंविदभेदसाधनेऽयं दोषः ।
यद्वा व्यापकत्वं नियमश्चेत् पूर्वदोषः, व्याप्यत्वरूपश्चेत्, अयं दोष इति । - अयं हेतुस्सहत्वाघटित इति पूर्वोक्तकिञ्चिद्दोषपरिहारः ।
एवं पूर्वं सहोपलम्भे विषयोपम्भस्य संविदुपलम्भस्य चैकत्वनिर्बन्धो नासीत् ।
विषयोपलम्भव्यापकत्वं संविदुपलम्भे तदभिन्ने भिन्ने वा यथायथमिति विवक्षितम् ।
अत्रोभयोरेकज्ञान सिद्धत्वमुच्यते ।
तच्च स्वप्रकाशकज्ञानमात्रप्रकाश्यसंवित्कत्वं वा ।
आद्यं नीलादावसिद्धम्, संविदो नीलाप्रकाशकपीतज्ञानप्रकाश्यत्वात् ।। घटसंविद्व्यक्तेः घटज्ञानमात्रप्रकाश्यत्वमस्तीति चेत्, जडगोचरसंविद्व्यक्तेर्जडज्ञानामात्रप्रकाश्यत्वस्य, सर्वज्ञसंविद्व्यक्तेस्संसारिज्ञान- -ज्ञानमात्रप्रकाश्यत्वस्य सत्त्वादुक्तदोषः । - द्वितीयसाधारण्येनाप्रयोजकत्वमाह विपक्षेति ।
हेतोर्विपक्षेऽमावो न निश्चितः, अभेदरूपसाध्यं मास्तु, संवित्प्रकाशकमात्रप्रकाश्यत्वमस्त्विति शंकासत्त्वादिति ।
तदुपपाद यति भवत्विति ।
संविदं विना अप्रकाश्यत्वं जडत्वप्रयुक्तम्, नाभेदप्रयुक्तमिति ।
मूलम् - 1.15.14
- दिवादिगोऽयं रूधधातुः ‘अनो रुध काम’ इत्यनूपसृष्टः कामार्थकः ।
कर्तरि तिङ् ।
अत्र अनुरुणद्वित्यपेक्षया एतत्प्रयोगो युक्ततरः ।
भवित्विति हेत्वंगीकारोपि ज्ञातरि नेत्याह बोध्येति ।
ज्ञानानुरोधनियमो नीलादौ वेद्यमात्ररूपे जडे स्यात्, न बोद्धरि, तस्य स्वप्रकाशत्वात् ।
अतोऽहमर्थस्संविदभिन्नस्तदेकप्रकाश्यत्वादित्यत्र स्वरूपासिद्धिरिति । - प्रत्यक्षत्वं प्रत्यक्षरूपज्ञानत्वम् ।
भेदप्रत्यक्षे प्रतियोगिप्रत्यक्षमेव तन्त्रम् ।
तत्र वित्तेस्स्वप्रकाशतया प्रत्यक्षान्तरानपेक्षा प्रत्यक्षवित्तावेव, तत्स्वप्रकाशस्य प्रत्यक्षरूपत्वात् ।
अनुमित्यादिस्वप्रकाशस्य त्वनुमित्यादिरूपतया प्रत्यक्षान्तरविषयतयैव तन्त्रात्वमिति शंकितुराशयः । - सिद्धिमात्रेण सामान्यतः प्रतियोगिप्रकाशेन ।
- अनवेति ।
गोत्वेन गोज्ञानम प्यश्वरूपप्रतियोग्यभानेप्यश्व- -भेदज्ञानरूपमेव ।
प्रतियोगिभाने तु सुतराम् ।
एतावता, ‘भेदज्ञानसिद्धवत्कारः कथम्’ इति तेन कृता संका परिहृता । - प्रत्यक्षस्यापि तृणीकारेण सहोपलम्भनियमे अभेदनिरूपितव्याप्तिग्रहणमित्यर्थः ।
- ज्वालाभेदानुमानम् इयं ज्वाला पूर्वणवर्तिज्वालातो भिन्ना तन्सामग्रीभिन्नसामग्रीजन्यत्वादिति ।
7.तद््भेदादर्शिनः निर्वायणारोपणाद्यदर्शिनः ।
पुष्कलेति ।
वर्त्यवयवः तैलांशश्च ज्वालाकारणम् ।
तत्र पूर्वक्षणदीपादुत्तरक्षणदीपो भिन्नः पूर्ववर्त्यंशभिन्नवर्त्यंशे तदंशस्पृष्टतैलवलादुत्वद्यमानत्वात् ।
अन्यथा आरोपणसमन्तरं शिष्टवर्ति तैलापनयनेऽपि ज्वालानुवृत्त्यापत्तेः ।
अवयवविश्लेषः - प्रदीपावयव विशरणम् । - एकस्मिन्निति युक्तम् ।
एकन्नानात्वेत्यत्र एकमिति पदच्छेदे आलम्ब्येति पदमावश्यकम् ।
वृत्ति वपर्ययेति ।
इन्द्रियप्रसरणे अंगुल्यवष्टान्भादि- -कृतान्यथाभावेत्यर्थः । - अन्यपुरुषीयाणि प्रत्यक्षाणि अनवद्यानि ।
- घटमहंजानामीति मिथोभेदग्राहिप्रत्यक्षम् एवं कारमदोषजन्यं नेत्यर्थः ।
- सहोपलम्भनियमादभेदसाधनार्थात् तथात्वं कारणदोषजन्यत्वमपीति न ; विभक्षे कारणदोषजन्यत्वरूप प्रकृतसाध्यविपरीतपक्षे बाधकाभावात् ।
अप्रयोजको हेतुरिति भावः । - नन्वत्रापि द्विचन्द्रादाविवेन्द्रियप्रसरणविपर्यास एव मूलमित्यत्राह अनैन्द्रियकेति ।
इन्द्रियग्राह्यविषये हि तद््वृत्तिविपर्यासस्य भ्रमहेतुता, न तु तदयोग्याहमर्थादिविषये इति ।
6.कारणदोषनिश्चयाभावेपि बाधकप्रत्ययात् भ्रमत्वनिश्चयोऽस्तु इत्यत्राह योग्येति । - संविदधीनसिद्धित्वेपि संविदुपलम्भनियमः कुत इत्यत्राह अपि चेति ।
- संविधीनसिद्धित्त्वमेव कथिमित्यत्राह न चेति ।
भेदोपि-संवित्प्रयोगिकभेदरूपत्वेन संप्रत्युच्यमानो घटादिरपि ।
ज्ञातृज्ञेयग्रहणमेव भेदप्रहणमिति हि प्रागुक्तम् ।
‘न च भेदोपि सिद्धिमन्तरेण’ इत्यत्र, ‘नचाभेदोपि सिद्धिमन्तरेण’ इति वा पाठस्यात् । - प्रकाशइतीति ।
इतीदमित्यर्थः ।
इदं प्रार्थनाकर्तृ ।
अतः प्रकाशाप्रकाशयोर्विरोध प्रागुक्तोऽयुक्तः, कालभेदेनाविरोधात् ।
प्र. पञ्चिकायां प्रमाणपारायणे, ‘अप्रकाशात्मकस्यैव प्रकाशव्यतिरिक्तस्य प्रकाश इति प्रकाशादेव सिद्धम्’ इति वाक्यम् । - प्रकाशस्वाभाव्ये च संवेदनत्वमित्युक्तं निरस्यति आत्मेति ।
- तथापि अभिलापेऽपि लोकप्रसिद्धसकर्मकसकर्तृकज्ञानरूपत्वाभावात् तद््गतमनन्ययाधीनप्रकाशत्वरूपं धर्ममादाय गौणोऽयं निर्देशः असिंहे माणवके सिंहवद्भावात् सिंह इतिवदिति भावः ।
न ज्ञप्तिमात्रमित्येतावदेव पाठस्स्यात् ।
तथेत्यधिकम् । - एवं सौगतोक्तं निरस्य तदुनुसाप्रच्छन्नमतनिरासायात्मनो ज्ञातृत्वे श्रुतीरपि दर्शयति अत एवेति।
विज्ञानमयः तद््गुणाप्रचुरः ।
अन्तर्ज्योतिः स्वप्रकाशः ।
अत्र अयं हृदीति हृदयावच्छेदेनोपलम्भो दर्श्यते ।
अत एव सिद्धो नासादिगप्राणभेदः प्राणेष्विति तत्पृथक््कारेण ज्ञाप्यते । - हि यतः द्रष्टा…. दर्शनादिरूपप्रकाशधर्मकः, अत एव विज्ञानात्माप्रकाशस्वरूपोऽपि प्रकाशधर्मकः प्रदीपवदिति ।
- प्रश्नोपनिषदि सप्राणमसृजतेत्यादिना प्राणश्रद्धा- -पञ्चभूतेन्द्रियमनोन्नवीर्यतपोमन्त्रकर्मलोकनामाख्याः षोडश कलाः (6-4-) उक्ताः ; पाञ्चा भौतिकदेहेन्द्रियाणि वा कलाः ।
पुरुषयनाः पुरुषधीनस्वरूपस्थितिप्रवृत्तिकाः ।
पुरुषं परमात्मानम् । - जीवात्मनीव परमात्मन्यपि ज्ञातृत्वस्वभावे श्रुतिं दर्शयति सत्यमिति ।
पुरुषं परमात्मानम् ।
तादृशप्रत्ययात्पूर्वस्योदात्तविधानादिति भावः ।
परमात्मानिरूपणा इति ।
विप्रतिप्त्तिघट्टप्रदर्शितरीत्या इदमपि आत्मसिद्धिग्रन्थानुप्रविष्टम् ।
एवं देहेन्द्रियमनःग्राणधीभ्योऽन्य इति विवेचितम् ।
अथानन्यसाधनत्वं विव्रियते ।
अनन्यत् स्वं साधनं ज्ञापकं यस्येत्यन्यसाधनः ।
तत्रानुमानादेस्साधनत्ववादिनां मतं विमृश्यते ।
विप्रति पत्त्यवसरदर्शितक्रमेण गौतमकापिलदितार्किक-श्रोत्रिय-कौमारिल-प्राभाकरमतानि उपन्यस्य सिद्धान्तं वक्ष्यति ।
धूमादाविवेच्छादौ व्याप्तिग्रहणाभावादनुमानमपि नेति शंकते किमिति ।
धूमो ध्वजो यस्य सोग्निः धूमध्वजः ।
उदर्याद्यग्नेर्धूमादननुमानात्, जलसिक्तांगारजन्यधूमादेरग्न्यसाधकत्वाच्चोभयत्र विशेषपदम् ।
ततः दर्शनात् ।
विशेषतो दृष्टं सामान्यतो दृष्टमिति द्विविधेऽनुमाने अग्निधूमवत् विशेषतोदृष्टाभावेपि वायुस्पर्शवत् सामान्यतोदृष्टमनुमानं संभवतीति तार्किकःपृच्छति माभृदिति ।
इच्छादेर्गुणत्वमसिद्धमिति तत्साधकं परिशेषानुमानमाह न सामान्येत्येत्यादिना ।
अनित्यत्वादिति ।
अत एव न गगनादिद्रव्यमपि ।
न द्रव्यमिति ।
अवयवः परमाणुः अवयवि चान्यत् परिच्छिन्नमेव ।
कर्म च तन्मात्रे ।
व्यापक समवायात् विभुसमवेतत्वात् ।
विभुत्वञ्चेच्छाद्याश्रयस्य, सर्वदेशावच्छेदेन शब्दोत्पत्त्या गगनस्येव, सर्वतो जन्मलाभादिकार्येण सिद्धम् ।
इच्छादयो न दिक्कालमनोगुणाः विशेषगुणत्वात् प्रत्यक्षत्वाच्चेति । - एवं तत्तदवृत्तित्वे प्रत्येकहेतुमुक्त्वा अनुगतमेकं विशिष्टप्रयोगमाह तेनेति ।
- यथोक्तमित्यनुषज्यते ।
पूर्वोक्तरीत्या व्यतिरेक्युदाहरणघटितव्याप्तिप्रदर्शनं कार्यमित्यर्थः । - पृथिव्यादिभ्य इत्यतः परम् अर्थान्तरस्य गुण इत्यनुषंगपूर्वकमर्थो वक्तव्यः ।
- एवं तार्किकाशयमनूदितं दूषयति इदमिति ।
इच्छादयः किञ्चिदाश्रिताः गुणत्वादिति प्रथमानुमानम् ।
इच्छादीनां शरीराद्यसमवेतत्वसाधकानि अन्यानि अनुमानानि ।
इच्छादयः शरीराद्यतिरिक्तसमवेता इत्यन्तिमानुमानम् ।
तत्र प्रथमानुमानेनाऽऽत्मनिसाधनीये मध्यानुमानानि सहायभूतानि, अन्तिमानुमानं च प्रथमवत् आत्मसाधकम् ।
तत्र नाद्यः, साध्यघटककिञ्चित्पदेनात्मरूपविशेषालाभात् ।
सहायभूतानुमानहेतवस्तु केवल्यतिरेकित्वादहेतवः ।
अत एव नान्त्यपक्षोऽपीतित्यर्थः । - साधारणेति अनेकान्तिको हेत्वाभासः त्रिविधः साधारणासाधारणानुपसंहारिभेदात् ।
अतः असाधारणोऽपि हेत्वाभासः ।
शब्दो नित्यः शब्दत्वादित्यसाधारमहेतुर्हि सपक्षवृत्तित्वरूपांगवैकल्यादसाधकइष्टः ।
हेतोः पञ्च रूपाण्यपेक्षितानि, पक्षसत्त्वं विपक्षासत्त्वमबाधितत्वमसत्प्रतिपक्षितत्वञ्चेति ।
पक्षे सत्त्वं हेतोः पक्षसत्त्वम् ; एवमुपरि । - यथा धूमवान् वह्नेरित साधारणहेतुः विपक्षे सत्त्वात् तदसत्त्वरूपतृतीयरूपाभावादसाधनम्, तद्वत् केवलान्वय्यप्यस्तु ।
वह्न्यादौ विपक्षः प्रसिद्धः ; तत्र हेतोरसत्त्वं नास्ति ; केवलान्वयिनि विपक्ष एवाप्रसिद्धः ; एवं मिथोविशेषे सत्यपि विपक्षासत्त्वस्य दुरुपपादत्वमुभयत्र तुल्यमिति शंका ।
देशेति ।
न हि साधारणस्थल इव व्यभिचारनिश्चयोऽस्ति ।
तदभावात् केवलान्वयिनि न विपक्षसत्त्वनिश्चयप्रयुक्तं तद्रूपवैकल्यम् ; किन्तु विपक्षाप्रसिद्धिप्रयुक्तम् ।
विपक्षप्रसिद्धिस्थल एव तत्र सत्त्वं शंक्येतेति तत्रैवासत्त्वज्ञानमपेक्षितम् ।
अप्रसिद्धिस्थले तु न तदपेक्षा ; प्रसक्तौ सत्यामेव प्रतिषेध प्रवृत्तेः ।
यद्युच्येत–अप्रसिद्धिनिश्चय एव दुर्लभः, देशान्तरे वा कालान्तरे वा हेतोस्सोपाधिकत्वशंक्या व्यभिचारसंख्यासत्त्वादिति–तर्ह्यनुमानान्तर इवानुकूलत- -र्केणोपाधिशंक्याविगमः संपाद्यते ।
एवं शंकितोपाधिविगमे सति यत्रक्वचित्साध्साहचर्यदर्शनत एव साध्यव्याप्तिपरिनिश्चयश्चान्वयव्यतिरेकिण्यपि क्लृप्तः ; तथैव केवलान्वयिन्यपि ।
सर्वोपाधिविगमेप्यन्वयो हि न व्याप्तिं विनेति ।
विगमेपीति ।
अत्र अपीति न स्यादिति मन्यते ।
ननु सपक्षसत्त्वमप्यन्वयव्याप्तिग्रहोपयोगित्वान्न प्रकृतेऽपेक्षितवित्यत्र व्यतिरेकव्याप्तेर्दुर्ग्रहत्वमाह न चेति । - साधनाभावे सति क्वचित्साध्याभावदर्शनमात्रेणेत्यर्थः ।
अन्वये हेतोः साध्यव्याप्यत्वम् ; व्यतिरेके तु साध्याभावस्यैव हेत्वभावव्याप्यत्वम् ।
अथापि न्यायभाष्ये समव्याप्तत्वाभिप्रायेण साध्याभावव्याप्यत्वं हेत्वभावे उक्तम् ।
अत्र यथार्हं ग्राह्मम् ।
अनवयवेन कृत्स्नतः ।
दुष्करत्वादिति ।
निमित्तान्तरेति ।
अत एवोक्तम, “अन्ये परप्रयुक्तानां व्याप्तीनामुपजीवकाः ।
तैर्दृष्टैरपि नैवेष्टा व्यापकांशावधारणा” इति । - अन्तिमानुमानेऽन्वयिनि दोषोऽयमेव ।
प्रतिज्ञायां पक्षांशे विशेषण साध्यम् ; तच्च पृथिव्याद्यर्थान्तरगुणत्वम् ।
पृथिव्यादिमिन्नवस्तुसमवेतगुणत्वमिति यावत् ।
तत्अप्रसिद्धमित्यर्थः । - पश्चात् तन्निराससुगमत्वायेति शेषः ।
- शरणं गृहम् ।
- तद्वदेव शरीरादिवदेव ।
असंहतपरार्थत्वस्येति ।
असंहतः–असंघातरूपो यः परः तदर्थत्वस्येत्यर्थः । - विरुद्धहेत्वाभासे विशेषविरुद्ध इति कश्चित्प्रभेदः ।
स च धर्मिंविशेषविरुद्धो धर्मविशेषविरुद्ध उभयविशेषविरुद्ध इति त्रेधा ।
धर्मी पक्षः ।
धर्मस्साध्यम् ।
तत्रतत्र सिद्धान्त्यभिमत आकारो विशेषः ।
तद्विपरीतसाधकत्वं विशेषविरुद्धत्वम् ।
अत्र च शयनादिदृष्टान्तेनेन्द्रियेषु परार्थत्वसाधकः संघातत्वहेतुः तद््दृष्टान्तेनैव तेष्वनाहंकारिकत्वं साधयतु ।
तथा प्रकृतानुमाने परार्थत्वरूपसाध्यघटकस्य परस्य असंघातरूपत्वमेव सिद्धान्त्यभिमतम् ; प्रकृतहेतुस्तु प्रकृतदृष्टान्तेनासंहतपरार्थत्वविपरीतं संहतपरार्थत्वं साधयत्विति हि शंका द्वयमात्र ।
तत्रेन्द्रियाणामनाहंकारिकत्वसाधनमनुभवागमबाधितमित्याह प्रथमम् ।
इन्द्रियोत्यत्तेः प्राक् अहंकारोऽस्ति ।
अहंकारव्यतिरेके इन्द्रियं नास्ति इति तदन्वयव्यतिरेकानुसरणम् ।
देवाः इन्द्रियाणि ।
अहंकारभेदेति ।
वैकारिकस्तैजसश्च भूतादिश्चेति क्रमेण सात्त्विकराजसतामसाहंकारणां नामाति ।
तत्र सात्त्विकाहंकारजत्वे युक्तिः प्रकाशेति ।
‘सत्त्वं लघु प्रकाशकम्’ इति ह्युच्यते । - धर्मविशेषविपरीतसाधनमप्यप्रयोजकत्वेनानिष्टप्रसक्त्या च दुष्टमित्याह आत्मनश्चेति ।
शेषित्व इति ।
शेषित्वं प्रति अप्रयोजकत्वादित्यन्वयः । - तदसंघातत्वस्य चेति चकारः क्विचिन्न ।
अस्ति चेत्, असंभवापत्तेरित्यत्रान्वेति ; इन्द्रियाहंकारिकत्वसमुच्चयार्थो वा । - संघातत्वहेतुना संघातस्य पारार्थ्यं साध्यमानमबाधितं देहादौ भवत्येवेति ।
- संहतत्वरूपं यत् व्यापकं तदवरुद्धं तद्व्याप्यं यत् त्रैगुण्यं तदभाववान् सिध्यति, संहतत्वरूपव्यापकाभाववत्त्वादिति ।
एवं त्रिगुणादिविपर्ययादिति व्याख्यातम् । - अधिष्ठानादित्येतत् विवृणोति ।
यन्त्रादिभिरिति ।
यन्ता आदिर्येषां ते, तैः ।
यन्ता-सारथिः । - भोक्तृ- -भावादित्येतत् व्याख्याति अपिचेति ।
सुस्वमनुकूलनीयवत् अनुकूलतया वेदनीयत्वात् भृत्यवदित्येवमनुमानम् ।
दृष्टान्ते अनुकूलनीयेति देहस्य ग्रहणम् ; पक्षे पुंसः ।
भ्रातृव्यो रिपुः । - भोक््तृभावादित्यस्य सांख्यग्रन्थस्था द्रष्टृत्वादित्यपरा व्याख्या ; तदनुसारेणाह दृश्यत्वादिति ।
कारिकागत अधिष्ठानादिहेत्तत्रयस्य त्रैगुण्यादिरहितात्मसाधनपर्यवसानं पूर्ववत् अनवस्थापरिहारायेत्वाह अधिष्ठातुगिति ।
कैवल्यार्थे प्रवृत्तेरिति हेतुं व्याचष्टे तथेति ।
1.परापरेति ।
अन्यान्येत्यर्थः ; उपर्युपरीति यावत् । - धर्मविशेविरुद्धतां पूर्वोक्तां स्थापयति नचेति ।
उपक्रियत इति आरादुपकारकप्रयाजाद्यभिप्रायेण ।
अत्र यस्येति शेषः ।
क्रियत इति स्वरूपनिष्पादकसन्निपत्योपकारकावहननपुरोडाशाद्यभि- -प्रायेण यदिति कर्म अध्याहार्यम् । - तलम्-तलमन्तः (धः)प्रदेशः कार्योपयुक्तः, मूर्तरूपं वा ।
तथा ह्युपरि नभो दृश्यते ।
‘तलमध्यस्यन्ति, अवांमुखीभूतमहेन्द्रनीलमणिमयमाहाकटाह- -कल्पमित्यर्थः इति भामती ।
अतः तलत्वाध्यासः, मलिनत्वाध्यासश्च पृथक््पृथक् । - तेनैवेति ।
कथं चेतनायत इत्यत्र अजडायमानतयेति हेतुनिर्देशे यदेवोपपाद्यं तदेवोपपादकमिति दोष इत । - ‘संप्रतिभ्यामनाध्याने’ (1-3-46) इत्याध्याने परस्मैपदम् ।
आध्यानमुत्कठापूर्वकस्सरणम् ।
परायत्तप्रकाशेऽन्तःकरणे कथं स्वप्रकाशत्वरूपमजडत्वं सोत्कण्ठं स्मरेदित्यर्थः । - चितिर्बिम्बः, स्वान्तं प्रतिबिम्बाधारः ।
न तत्र कुत्रापि भ्रान्तिमत्त्वम्, किन्तु चित्प्रतिबिम्बे इत्याशंक्याह न चेति । - प्रत्यादेशे इति पूर्वम् अचक्षुषस्वच्छायाऽदर्शनादित्युक्तवात् ।
यति नीरूपायाश्चिते रितीहानन्तरोक्तवाक्य इव तत्रापि किञ्चिदेवोक्तमित्यपरितोषः, तदा न्यायतत्त्वादिगतभाग इह विवक्षितोऽस्तु । - ननु ज्ञातृत्वमिति न चैतन्यवत्त्वं विवक्षितम् ; किन्तु वृत्तिरूपज्ञानवत्त्वम् ।
वृत्तिश्चान्तःकरणे वस्तुतोऽस्तीति आत्मनि तदारोपः शक्यवचन इत्याशयेनाह यदुच्यत इति । - पराक्रमीय इति ।
पराक्रमवत्तरमित्यर्थः ।
पराक्रमवच्छब्दात् ईयसुन्प्रत्यये द्वयोरेकस्यातिशयार्थे परे, ‘विन्मतोर्लुक्’ (पा. 5-6-65) इति मतुपो लुक् ।
पातञ्जलयोगभाष्ये (1-18) “यथा जयः पराजयो वा योद्धृषु” इति । - यत्किञ्चिदेतदिति ।
न च पुंसो द्रष्टृत्वाभावेप्यतः करणकर्तृकशेषित्वारोपविषयत्वमेव बद्धत्वमिति वाच्यम्, विषयत्वस्यापि तुल्यनयान्निर्विकारेऽयोगात्, मुक्तस्यापि भ्रान्तकर्तृकतादृशारोपविषयत्वे बद्धात्वापत्तेश्च । - व्यतीत्यादि ।
त्रैगुण्यादिविपर्ययसाधकानाम् असंहतत्वाधिष्टातृत्वभोक्तृत्वरूपा- -णामनुमानविशेषाणाम् ।
तेषां व्यतिरेकव्याप्तेरिष्टतया व्यतिरेक्यनुमानत्वमपि ।
प्रसिद्धेत्यनेन केवलव्यतिरेकिणोऽननुमानत्वमप्यस्फुटं दूषणमस्तीति सूच्यते । - ननु सिद्धपरवाक्यप्रमाण्येऽपि आम्नायस्य क्रियार्थत्वान्न सिद्धवस्तुन्यात्मनि तात्पर्यम् ।
न च तच्छेषतयापि तद््बोधनैदम्पर्यम् ; अप्रप्ति हि शास्त्रमर्थवत् ।
आत्मा च प्रत्यक्षप्राप्त इति श्रोत्रयोपरि मीमांसकः शंकते नन्विति ।
प्राभाकरस्तु मामांसकः कार्यपरतयैव सर्वशब्दप्रामाण्यमाह ।
भाट्टस्तु वेदस्य प्रवृत्तिनिवृत्तिमात्रे तात्पर्यमिति । - श्रोत्रियः खण्डयतिमैवमिति ।
- व्यतृणत् हिंसितवान् अनादृतवानिति वा उतृदिर् हिंसानादरयोरिति धातुः ।
वीत्युपसर्गबलात् हिंसादिकृद््भूत्वा सृष्टवानित्यर्थो वा । - प्रतिबद्धः व्याप्यः ।
आत्मा नेन्द्रियग्राह्यश्चित्त्वादिति व्यतिरेक्यनुमानमिह विवक्षितम् ।
तत्र व्यतिरेकव्याप्तौ इन्द्रियग्राह्यत्वमचित्वरूपहेत्वभावव्याप्यं भवति । - मनस आत्मत्वविचारघट्टे अधस्तात् ।
- ऐन्द्रियकत्वमिति ।
अहमितिप्रत्ययः इन्द्रियजन्योः अपरोक्षावभासत्वादिति प्रयोगः । - नन्वस्मत्पक्षे ज्ञानस्यातीन्द्रियत्वात् प्रत्यक्षत्वरूपहेत्वंशाभावात् कथं तत्र व्यभिचार इति भाट्ट शंकायां तदतीन्द्रियत्वं निरस्यति न चेति ।
- असिद्धिरेवेति ।
ज्ञानस्य या सामग्री तयैव ज्ञानकार्योपपत्तौ ज्ञानमिति वस्त्वेव न सिद्ध्येदित्यर्थः ।
उक्तमिदं न्यायकुसुमाञ्जलौ न्यायसिद्धाञ्जनादौ च । - कथं व्यभिचारः ; साध्यस्यापि सत्त्वादिति तार्किकशंकां क्षिपति नेचेति ।
- किं संवेदनजनकेनाऽऽत्ममनस्संयोगेनैव संवेदनविषयकज्ञानान्तरमप्युत्पाद्यते इत्यर्थः ।
- जन्मेति ।
घटज्ञान-तद््ज्ञानज्ञान- तद््ज्ञानज्ञानज्ञानेत्येवमनन्तज्ञानोत्पत्तिः स्यादित्यर्थः ।
तत्कालमिति पदे बहुव्रीहिः ।
असमसमयेति ।
भिन्नकालेत्यर्थः ।
युगपदिति पूर्वं स्थितमिन्द्रियसन्निकर्षबलात्, पश्चाज्जातेन विषयीक्रियत इति युक्तम् ।
अन्यथा युगपदनेकौत्पत्तौ एकस्य विषयत्वमन्यस्य विषयित्वमेवेत्यत्र गमकं नास्तीति । - अग्रिमेति ।
पूर्वेत्यर्थः । - कार्यनाश्यत्वे इत्यर्थः ।
कार्यं विरोधि यस्येति बहुव्रीहिः । - ननु संवेदने प्रत्यक्षत्वघटितहेतोरप्यभावान्न व्यभिचार इति पूर्वं भाट्टशंकायां परिहारं पूर्वकृतं स्मारयन् तत्र व्यभिचारं निगमयति नचेति ।
- व्याप्यस्यैन्द्रियकत्वस्य साधको हेतुर्व्यापकानात्मत्वसाधकोपीति धर्मिविशेषविपरीतसाधनात्सिद्धान्तहानेश्चविरुद्धता ।
न्यायप्राच्यग्रन्थेषु विरुद्धत्वं साध्याभावसाधकत्वरूपंसिद्धान्त विरोधरूपञ्चोक्तम् । - खम् इन्द्रियम् ।
शोभनं खं सुखम्; दुःस्थं खं दुःखमिति व्युत्पत्तिरपह भाव्या । - चक्षुषा पश्यामीत्यादौ ।
अनुमेयेति ।
अहमर्थभूतमन्तःकरण मनः साक्षिमास्यमिति पक्षे कामादि मनोवस्थाभानं युज्यते।
अन्यमते त्वपरोक्षत्वाभिमान एवेति । - अधिकरणमिदं न्यायतत्त्वस्थम् ।
- देहेन्द्रियेतिकारिकास्थान्तिमपदविवरणं भावि ।
तथा च सुखदुःखयोरात्मविशेषगुणत्वेपि धर्मभूतज्ञानाव स्थादिरूपत्वेन स्वयंप्रकाशत्वान्मनोग्राह्यत्वानङ्गीकारात् साध्यवैकल्यमेवेति भावः । - तदेव चेतन्यमेव ।
- तथाचरागादौ स्वयंप्रकाशे साध्यं नास्ति, शोकादौ च चेतोवृत्तौ हेतुरपि न कश्चित् दृष्टान्तइति ।
- कर्मकर्तृविरोधादित्यर्थः ।
- अंशो ह्यवयव - एवेति - सावयवत्वापतिरित्यर्थः ।
- एवमात्मनो मानसप्रत्यक्षग्राह्यतेवे ।
दूषिते, प्रमाणकरसंमतग्राहकावभासपक्षादरेण स्वपक्षदूषणं क्रियत इति मत्वा भाट्टस्तत्रानुपपत्तिं प्रदर्श्य खाशयमाह नन्विति ।
ग्राहकावभासो ना इन्द्रियजन्यघटादिविषयग्रहिवित्षु आत्मनो गृहीतृत्वेन रूपेणावमासः ।
अत्र श्रुतिः, ‘अथ यो वेदेदं जिघ्राणीति स आत्मा’ इत्येवमादि ।
श्रुत्या अन्यथा गृहीतार्थया ।
यद्वा श्रुत्याः इति षष्ठ्यन्तं खसिद्धान्तेत्यत्रान्वेति ।
श्रुत्येति स्थाने वित्त्येति स्यात् ।
तदा घटपटादिवित्तिकृतो ग्राहकावभास इत्यर्थः । - मात्रेतिघटादिप्रकाश एवानुभवसिद्धः, न ज्ञानज्ञात्रोरिति ।
- ज्ञाने जातेऽर्थ आत्मनं प्रति प्रकटो भवतीति आगन्तुकः अर्थस्य धर्मः प्राकट्यम् आत्मप्रतियोगिकः आत्मनिरूपित इति ।
तथा च पूर्वम् अयं घट इत्येव ज्ञानं जायते ।
घटमहं जानामीति तु न सर्वत्र ।
कचिदेव तु ज्ञात तया, प्राकट्यं, प्रकाश इत्युक्तेन तेनार्थधर्मेण ज्ञानेनुमिते अनुमितज्ञानवान् आत्म मनसा प्रत्यक्ष्यते तथेत्यर्थः ।
मत्तया गाहकत्वं, प्रत्यक्त्वादिमत्तया ग्राह्यत्वमिति रूपभेदादेवोपपत्तेः ।
रूपमेवात्रांशः ।
ईदृशस्थले कर्मकर्तृविरोध एव नास्तीति वा स्वीक्रियत इति । - अतिशयः संदेहप्रतिभटत्वरूपः ।
ज्ञानज्ञात्रोरमाने यथा परस्य घटज्ञाने सत्यपि, ‘घटः परेण ज्ञायते न वा’, ‘घटस्तस्मै भासते न वा’ इति संदेहोस्माकम्, तथा खविषयेपि स्यादिति भावः । - नन्वम्भसि पिपासोपशमनशक्तेरिवाप्रत्यक्षस्यापि ज्ञानस्य झटित्यनुमानात् संदेहानुदय इति शंकायां तदुपेक्षया दोषान्तरमाह अनुमेतेति ।
- आत्मा - त्वं ज्ञानस्वरूपं ग्राह्यो यस्यास्सा धीरतया निरस्तम् ।
धियो मनोग्राह्यत्वरूपतार्किकपक्षोपि धियस्स्वप्रकाशत्वस्वीकारन्निरस्त इत्यर्थः ।
यद्वा आत्मा जीवो ययेति ।
जीवस्य मानसप्रत्यक्षत्वं भट्टोक्तं धिय एव ग्राहकात्मावबासकत्वस्वीकारान्निरस्तमित्यर्थः ।
अत्र ‘मानसप्रत्यक्षञ्चात्मग्राहि अधो निरस्तम्’ इति पाठः स्यादिति पूर्वमालोचितम् ।
स्थितसमर्थनं त्वेवं कृतम् ।
मानसप्रत्यक्षत्वमित्यस्य मानसप्रत्यक्षसिद्धत्वमित्यर्थः मानं प्रत्यक्षं य्सेयति बहुव्रीहि विना न सुलभः ।
परन्तु पूर्वमपि (65) तथा प्रयोगोऽस्ति ।
अत्र ग्राह्येत्यक्षरं पूर्वे संयोज्य, मानसप्रत्यक्षग्राह्यत्वञ्चात्मनो धीव्यभिचारनिरस्तमिति स्यादित्यपि तर्कयन्ति ।
यदत्र आत्मग्राह्यत्यनन्तरं धीत्यतः प्राक् अक्षरभ्रंशचिह्नं क्वचिदस्ति (1598) 4. ज्ञानं स्वस्य वा भवतु, परस्य वा ।
सर्वथा घटस्य वेद्यत्वमविशिष्टम् ।
एवं सति परवेद्यात् स्ववेद्यैऽतिशयः विशेषः स्वस्मैभासमानवित्तिविषयत्वरूपो वाच्यः स च ग्राहकानवभासे न भवतीति । - अन्ते उक्तं स्वपरवेद्ययोरनतिशयं परिहरन् ग्राहकावभासं खण्डयति नन्विति ।
परवेद्ये परसमवेतवित्तिविषयत्वं; स्ववेद्ये स्वसमवेतवित्तविषयत्वमित्ययमतिश्य एव स्वपरवेद्ययोरतिशयः; तत्र स्वस्मैभासमानवित्तिविषयत्वं स्ववेद्यत्वमिति न निर्वाच्यमिति शंकार्थः ।
अत्र स्वपरवेद्ययोरनितिशय इत्यत्रातिशयपदेन पूर्वोक्तस्य संदेप्रतिभटत्वरूपातिशयस्य ग्रहणे नन्वित्यादिसमनन्तरवाक्योच्यमानेन स्वसमवेतबोधोत्पत्ति रूपविशेषण यथाश्रुते संदेहनिवृत्तयुपपादनायोगात् अत्र विवक्षितोऽतिशयोऽन्यः ।
अनुमितेत्यादिपूर्वग्रन्थस्तु पूर्वोक्तातिशयानिर्वाहदोषपरिहराभिसंधिपूर्वकः ।
अस्तु वा पूर्वोक्तातिशय एवात्र विवक्षितः ।
नन्वित्यादिग्रन्थतात्पर्यं त्वित्थम् - स्वपरवेद्यस्थलेहि स्वस्मिन् बोधः, परस्मिन् बोध इति विशेषोऽस्ति ।
तथाच परगतबोधस्य स्वयं ज्ञाततालिङ्गानुमान - मानसप्रत्यक्षान्यतरग्राह्यत्वायोगेपि स्वगतबोधस्य तथाग्रहणसंभवात् झटित्येव तद्ग्रहणस्वीकारात् क्षणविलम्बस्य दुर्ज्ञानत्वाच्च दुर्ज्ञानत्वाच्च न कश्चिद्दोष इति ।
जन्मना उत्पत्त्या । - ग्राहकावभासे सत्येव स्वेद्यत्वरूपोऽतिशयः सुवच इति वदतः को भावः किं पूर्वमात्मावभासः, ततस्स्वस्य घटवित्तिरिति, किं वा घटवित्तिरेव घटमिवात्मानमपि गृह्णातीति विकल्प्य द्वयमपिक्रमेण दूषयति न चेत्यादिना ।
- नन्विदमस्मदाकूतम् - विषयवित्तौ नात्मसिद्धिः कारणम्, न वा वित्तावात्म विषयः; तस्यः विषयमात्रगोचरत्वात् ।
किन्तु विषयवित्तवेलायां वेदितुस्सिद्धिः प्रकाशो भवति; वित्त्यभावे च न प्रकाश इति वित्तिभास्यत्वमात्मनः, वित्तिश्च स्वप्रकाशेति घटमहं जानामीति त्रितयावभासोपपत्तिः ।
अत्र वित्तिजनकसामग्रयेव वितिं वेदितारञ्च भासयतीति प्राभाकरो भाट्टं खण्डयति अस्त्विति । - अधिकरण इति ।
न्यायतत्त्वे इति शेषः । - धटादेरेव स्वप्रकाशत्वं कुतो नेत्यत्राह सतोऽपीति ।
अनेन वित्तिरात्मसाधनी अर्थान्तरसाधनत्वेन क्लृप्तत्वादिति विवक्षितोऽनुमाने हेत्वसिद्धिशंकापरिहारः । - वेदान्तिपक्षं प्राभाकरः खण्डयन् आत्मनो वित्त्येकभास्यत्वं समर्थयते यत्त्विति ।
- सुखमहमस्वामित्यादिभिः ।
- अहम्भाने तदा सति ’ अहमात्मानमन्वभूव’ मिति व्यवहारस्स्या ।
" सुष्वापादुत्थिताश्चैवं निर्विद्यन्ते हि कानुकाः ।
वृथेयमन्तरेणैव कामिनिं यामिनी गता ।। आश्लिष्टामप्यबुध्वैनां मुतवच्छयितं मया " (शास्त्रदी. 1-1-5) इत्यपि व्यवहरन्तीति । - अपवृक्तस्य अपवर्गधाप्तस्य ; मुक्तस्य ।
एतत्कारिकाविवरणमेव निर्धूतेत्यादिना ।
संवेदनोदयस्य निबन्धनम् मूलम् । - शुक्लेतरेति पुण्यतदितरेत्यर्थः ।
- अत्र जित इति पाठ उपलभ्यमानः फलनिर्देशेषु इमान् लोकान् जयतीत्येवं जिधातुप्रयोगादुपिषदि चित इत्यत्र जित इति पाठं रोचयमानानामनुकूलः ।
- आत्मसतैवेति पाठमपीह मन्यन्यते ।
आत्मसत्तया पुष्कलकारणात्ममात्रसत्त्या ।
कारस्कोक्तमनः तदिति परामृश्यते ।
पृथक्पदम् ।
तदपीत्यस्यापि मनोपीत्यर्थः ।
आत्मा सत्तयोति पाठसत्त्वे तज्ज्ञानेत्येकपदमात्मज्ञानार्थकम् ।
सत्तयैव स्वमात्रम् ।
तदपि आत्मज्ञानमपि ।
विद्यते विद्येतेत्यर्थः । - तदभावः ज्ञानाभावः ।
- तस्यैव देहादेः ।
- वादाः ’ सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक्् ’ , ’ सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः इत्यादयः ।
गुणवादेन गौण्या वृत्त्या ।
अज्ञानकार्यस्य कस्याप्यभावात् ज्ञानित्वोक्तिः , दुःखस्येषदप्यभावात् सर्वसुखोक्तिरिति भावः । - घटवित्तितदाश्रयौ न घटवित्त्याधनसिद्धकौ घटवित्त्यविषयत्वादित्यनुमाने हेतौ वेद्यत्वे सतीति विशेषणं देयम् ।
यो हि यत्संविद्विपयो न भवतीति पूर्वोक्तसामान्यमुखव्याप्तौ हेतुकोटौ वेद्यत्वे सतीति विसेषणमिष्यते ।
तथा च घटवितितदाश्रयावित्यनुमानं हेतौ वेद्यत्वविशेषणमन्तरा दुर्वचम् ।
तद्विशेणे च स्वरूपासिद्ध्या न प्रकृतसाध्यानुमानसंभव ’ इति प्राभाकरश्शङ्कते नन्वित्यादिना असंभवश्चेत्यन्तेन । - वित्तिवेदित्रोः प्राकाशे विषयत्वं नापेक्षितमिति सत्यम् ।
वित्त्यधीना न वेदितृसिद्धिरिति वदता वित्तिसिद्धिः किमधीनेति वक्तव्यमिति सिद्धान्ती पृच्छति कुत इति ।
प्राभाकरः प्रत्याह स्वत इति ।
अत्र तालकोशे ’ स्वतन्त्र एतेति विलिख्य ‘न्त्र’ इत्यक्षरोपरि निरासचिङ्णंनिक्षिप्तम् ।
तदनधानेन तदक्षरमपि गृह्णद्भिः स्त्रीतिङानुसारेण स्वतन्त्रैवेति शोधयित्वाऽन्यत्रमुद्रितम् ।
स्वत एवेत्येव पाठः ।
सिद्धान्त्याह मैववमिति ।
स्वतःसिध्यन्ती चेति ।
स्वतः प्रकाशते चेदित्यर्थः । - प्राभाकराशयः पुनरपि तदिति ।
तत्समवायादिति स्वोक्तं स्वयमेव प्राभाकरो विंवृणोति यदिति । - सिद्धान्त्याह यदीति ।
3.आत्मसंबन्धादात्मनेप्रकाशत इयं संवित् , अन्यसंवित्तु आत्मसंबन्धाभावादात्मने न प्रकाशत इत्यात्माधीनसिद्धरेव संविदस्त्वित्यर्थः । - ममेयं संवित् , मह्यं प्रकाशत इति आत्मवैसिष्ट्यमानाय आत्मापेक्षेति ।
उपरि आश्रयप्रतियोगीति प्रतियोगिपदेन विषयग्रहणेप्यत्र प्रतियोग्यवच्छेदायेत्यत्र तत्पदेनात्मग्रहणम् ।
अन्ययत्किञ्चिद्भानेआत्मसबन्धस्यापेक्षितत्ववर्णनापेक्षय स्ववैशिष्ट्याभाने स्वसंबन्धापेक्षावर्णनं ह्युचितम् ।
अस्तु वा विषयवैशिष्ट्यमेव प्रतियोग्यवच्छेदः स्वारस्यात् ।
संविदो न स्वप्रकाशाया त्मापेक्षा, किन्तु विषयसंबन्धायेति ।
तथाच भाष्यम् , " स्वसंबन्धितया ह्यस्यास्सत्ता विज्ञप्तितादि च " इति । - संयोगादिकं हि अनुयोगिप्रतियोग्युभयापेक्षमत्ताप्रकाशोभयम् , संयुक्तयोर्द्वयोरग्रहे संयोगाग्रहात् तथा पितापत्राग्रहे पुत्रत्वाग्रहात् ।
तद्वदिति । - त्वन्मत इति ।
स्वमते तु संविद एव स्वतस्मिद्ध्यभावात् सुखादेर्ज्ञनास्थारूपत्वाद्वा संवित्तुल्ययोगक्षेमतैवेति भावः । - वरमिति पाठे आश्रयितुमिति उचितमिव ।
परन्तु प्रकरणपञ्चिकादौबहुलमदृीशः प्रयोगः । - अनेकेत्यादि ।
सुखादिस्वयंप्रकासत्वेत्यर्थः ।
ननु वित्तेस्स्वतस्सिद्धिं विहाय आत्मसंबन्धमात्रात् प्रकाशस्वीकारे आत्मनित्यत्वाणुत्वधर्माधर्मादयोपि तत एव प्रकाशेरन् ।
अतो वित्तिप्रकाशः स्वरूपप्रयुक्त इत्यास्थैयम् ।
एवमपि वित्तेरात्मानं प्रत्येव प्रकटत्वादात्म संबन्धोऽपि कामं तत्प्रकाशसामग्रीप्रविष्टोऽस्तु ।
न चैवं विषयं विना वितिप्राकाशाभावद्विषयस्यापि वित्तिप्रकाशकारणत्वापत्तिः , अतीतानागतादिरूपतया तस्य तदयोगादित्याक्षेपे , वित्तिस्वतस्सिद्धं संमत्यैवाह किञ्चेति । - न लौकिकी लोकानुभवोपेता न ।
वित्तिर्नात्मसाधनी तत्साक्षिकत्वात् घटादिवदिति प्रयोगः । - कारिकां विवृणोति सन्त्बिति ।
- ननु संविदप्रकाश्यत्वेप्यन्याधीन आत्मप्रकाशौऽस्तु ; तत्रेयं कारिका ।
सजातीयखसाध्यार्थत्वन्नाम साध्यत्व-सजातीयत्वान्यतरसंबन्धेन स्वविशिष्टार्थत्वाम् ।
साध्यत्वं प्रकाश्यत्वम् ।
आत्मसिद्धिः स्वरूपक्रकाशः ।
तथाचात्मा निरुक्तसंबन्धेन स्वविशिष्टार्थनिरपेक्षप्रकाशः पादर्थत्वात् घटादिवदिति प्रयोगः ।
साध्यत्वसजातीयत्वैकैकघटनया प्रयोगद्वयं वा ।
एतत्कारिका विवरणं तत्त्वटीकायां (275 पु.) न्यायकुलिमशे (75पु) च द्रष्टव्यम् । - अनन्यापेक्षेति।
न च विजातीयापेक्षा आत्मसिद्धाः , तस्यापि वित्तिवेद्यान्यतरतया स्वसाध्यत्वात् तदपेक्षणायोगात् ।
एवमात्मनः स्वरूपेण प्रकाशे नानुमानं , नागमः , न मानसप्रत्यक्षं , नापिविषयवित्तिः कारणमित स्वरूपांशेऽन्याप्रकाश्यत्वं स्वप्रकाश्यत्वञ्चोक्तम् , नित्यत्वाणुत्वाद्याकारान्तरवत्तयाऽऽगमानुमानप्रत्यक्षप्रकाश्यत्वमपि वक्ष्यते ।
तदेवमित्यस्य चित्स्वभास्येत्यत्रान्वयः ।
उक्तहेतुना स्वरूपेण स्वयंप्रकाशतयासिद्धस्येर्थः ।
संप्रति ’ चैतन्यप्रयुक्त एवात्मप्रकाशः ।
स चैतन्यानित्यताया स्वापमूर्च्छामोक्षादौ नानुवर्तत इति वादंचैतन्यनित्यत्वस्वीकारेणापि निरसितुमारम्भः ।
तदाह पुंसः स्वाभाविकीति । - तत्तद्वित्तित्वमिति पाठ ईशावास्यकूरनारायणीयभाष्ये 16 मन्त्रे दृष्टः , ’ तत्तच्चितत्वम् ’ , ‘तत्तच्चिह्नत्वमिति पाठद्वयमुपेक्ष्येहाऽऽदृतः ।
- प्रख्या बुद्धिः ।
उपाख्या शब्दः । - चैतन्यगतावस्थाविशेषाणामात्मधर्मत्वं परम्परया ।
यद्वा आत्मनो यो धरमस्तदीयविशेषत्वादित्यर्थः । - विषयभेदावच्छेदः विषयविशेष वैशिष्ट्यम् ।
आदिना ग्राह्मः प्रत्यक्षत्वानुमितित्वादयः । - अथ चैतन्यमनित्यमिति पूर्वपक्षी प्रत्यवतिष्ठते नन्वित्यादिना अत्राहुरात्मेतिकारिकाप्राग्ग्रन्थेन ।
- प्रतिकर्मव्यवस्था प्रतिविषयव्यवस्था नियतविषयकत्वम् ।
- अन्यदा अनित्यत्वपक्षे ।
- सिद्धान्तिप्रश्नानुवादः स्यान्मतमिति तन्निरस्यति तदसदिति ।
- अर्थल्तरेति ।
इन्द्रियसन्निकर्षे हीन्द्रियायानुरक्तत्वमेव वस्तुनस्स्यात् , न ज्ञानानुरक्तत्वमिति । - घटादेर्मूर्तत्वादन्तःप्रवेशः शङ््क्येतापि ।
अमूर्तजातिगुणादिविषये तु चैतन्यस्येव क्रियानुपपत्तिरेवेति । - सिद्धान्ते प्रत्यगर्थातिरिक्तं तद्धर्मभूतं द्रव्य चैतन्यम् ।
अत्र तु कश्चिदेकमेव द्रव्यमंशभेदेनात्मज्ञानोभयात्मकमिति निप्क्रमणाद्युपपादयन् जैनगन्धी खण्ड्यते । - विरलो य आत्मैकदेशस्तत्तया ।
- सक्रियत्वसावयवत्वादिस्वीकारं विना ज्ञानज्ञात्रोर्विभुत्वस्वीकारेण जिर्वहं शंकते अथेति ।
- यथा ज्ञानमर्थे प्राकट्यं व्यवह्नियमाणतां वा जनयत् अतिशयहेतुरेव , न तु ज्ञापकम् , तदेन्द्रियादिकमपि तमःपाटनरूपातिशयमात्रकरं स्यादिति ।
- उक्तं सूर्यालोकदृष्टान्तं खण्डयति अविकृतेति ।
- अत्र अर्थविशेषप्रकाशकत्वेति पाठो भाव्यते ।
- ननु नित्यचैतन्यमङ््गीक्रियतां स्वमात्रविषये; अन्यविषये चानित्यज्ञानमिति कश्चिच्छङ्कते अथेति ।
- अपिशब्देन , आत्मस्वयंप्रकाशतयैव निर्वाहात् आत्ममात्रविषयकज्ञानकल्पनं व्यर्थमिति सृच्यते ।
- अयमातमा स्वापकालिकानुभवगोचरः तत्काले ज्ञानाभावाश्रयतया पश्चात् (जागरकाले) परमृश्यमानत्वात् ।
यत्् यत्काले किञ्चिदभावश्रयतया पश्चात्परामृश्यते , तत् तत्कालिकानुभवगोचरभूतम् , यथा संप्रतिकुञ्जराद्यभाववत्तया परिदृश्यमानं प्रातर्दृष्टतीरादीत्यनुमानम् । - प्रातः कालावच्छेदेन तीरवर्तितया कुञ्जराभावेमध्याह्रकाले परामृश्यमाने सति प्रातः कालीनेन तदाश्रयस्वरूपज्ञानेनेवेत्यर्थः ; अनुषङ्गात् ।
- अनुभवगोचरः इत्यर्थः ; अनुभवगोचरस्वरूपवानिति यावत् ।
- कदाचित् कश्चित्प्रातर्गिरितटाकादिकमज्ञातवानेव मध्याह्ने गिरितटाकादिवृत्तान्तप्रसङ्गे प्रातस्तत्रनाहमासमिति पारमृशति ।
तत्र गिर्यादौ व्यभिचारः , प्रातःकालिकस्वाभाववत्तया परामृश्यमानत्वरूपहेतुसत्त्वात् ,प्रातःकालिकावगतिगोचरत्वरूपसाध्याभावादिति ।। यदि तत्कालावच्छिन्नमाश्रयज्ञानं नापेक्षितम् , किं तर्ह्यपेक्षितमित्यत्राह अभावेति ।
अवगत्या अनवगत्या च भवितव्यमित्यन्वयः समय इत्यस्य अवगत्येत्यत्रान्वयः ।
विद्यमानत्वेतत्कालतयाऽवगमप्राप्तस्येति ।
यदि प्रतियोग्येव तत्राले स्थितं स्यात्, उपलब्धं स्यादिति वक्तुमर्हस्येत्यर्थः ।
अनवगत्येति ।
तत्काल इति शेषः ।
अभावज्ञानस्य - अभावज्ञानं प्रति; यत्कालिकोऽ1. योऽयं पूर्वेद्युरपश्यम्, सोहं स्पृशामीति प्रबोधकालिकप्रत्यभिज्ञया प्रबोधरूपे अभावप्रतिपत्तिकाले स्वापकालस्थतयाऽऽत्मस्वरूपमवगतम् । - यथा कुञ्जराबावाज्ञानं प्रति प्रातस्तीरे कुञ्जरानवगतिरपेक्ष्यते ।
तथा स्वापे विषयानुभवविरहज्ञानं प्रति स्वापकाले विषयानुभवानवगतिरपेक्ष्यते ।
तत्र तदातनकुञ्जरानवगतिरिदानीन्तनकुञ्चरास्मरणेन यथाऽनुमीयते तथा, तदातनानुभवानवगतिरिदानीन्तनेन तदनुभवास्मरणेनानुमीयत इत्यर्थः । - प्रमाणं प्रमितिः, विपर्ययः मिथ्याज्ञानम् ।
“प्रमाणविपर्ययविकल्पनिद्रास्मृतयः” (1-6) इति योगसूत्रम् ।
विकल्पः= आहार्यज्ञानम् । - वेति ।
आत्मनस्स्मरणमित्यनुषङ्गः । - अभावस्य प्रमाणादिवृत्त्यागावस्य प्रत्ययः कारणं यत् तमः तदालम्बना वृत्तिर्ज्ञानविशेषो निद्रेत्यर्थः ।
6 . स्वरूपमुपाधिः प्रयोजकंयस्य ध्रमस्य, तत्त्वात् ; यद्वा स्वरूपस्योपाधिर्नि रुपकः व्यवच्छेदको धर्मस्तत्त्वादिति । - घटादिषुनात्मस्वेव सत्सु केषाञ्चिदात्मत्वं चितिशक्तिप्रयुक्तम्,नचैतन्यप्रयुक्तम् ।
अतश्चैतन्यस्यानित्यत्वेपि न दोष इति चेन्न-तच्छक्तेरप्यात्मनि देहसंबन्धप्रयुक्ततया मुक्तौ नाशापत्तेरविशेषादित्यर्थः ।
एतदुत्तरार्धेभ्रष्टं ‘सतुषतण्डुल ‘इत्येतदनन्तरविवृतसर्वार्थसंग्राहकम् उपर्युल्लिखिताव्यतरप्रकारेण स्यात् । - अन्तिमकारिकां विवृणोतिबुद्धीति ।
ज्ञानापरिलोपश्रुत्यादिनिर्वाहाय नित्यशक्तिस्वीकारिणं मीमांसकं प्रत्याह नतेति ।
3.न च मुक्तौ साक्षाद्बोधस्वीकारे किञ्चिदनिष्टम्, येन श्रुतिस्वारस्यभञ्जनेन शक्तिपर्यन्तधावनमित्यर्थः ।
वरमित्येव तालपाठः। - अनन्तरम्-अद्वैतभङ्गे ।
5.‘यथा कार्यकारणोबयनिरूप्यत्वेपि तद्भावरूपसंबन्धस्य, क्वचित्कार्यत्वमन्यत्र कारणत्वञ्च व्यवस्थितम्, तथा बोधात्मकस्संयोग आत्मन्येव, न विषये’ इति नयुक्तम् ; तत्रैकनरूपितोऽन्यनिष्ठः कार्यत्वादिस्संबम्ध इष्यते, न तुसंयोग ईदृशः, अस्यद्विष्ठत्वादित्यर्थः ।
अत्र विषयसंयोगस्यापि सिद्धान्ते निश्चयादिरूपत्वं वक्ष्यमाणं विमृश्यम् ।
धर्मधर्मिद्वयनित्यधर्मिनिर्विकारत्वधर्मप्रसारणादिगोचरश्रुत्यादिविरोदरूपं बलिष्ठं बाधकमपि चितिमात्रात्मवादे ध्येयम् । - नन्वात्मार्थयोरपि परपरापेक्षानियमलक्षण एव कश्चित्संबन्धोऽस्त्विति शङ्कते इहापीति ।
- सिद्धिरुत्पत्तिश्चेत्, आत्मार्थयोरुत्पाद्योत्पादकभावस्संबन्धः ; प्रकाशश्चेत्, प्रकाश्यप्रकाशकभावः ।
तत्र प्रथमे उत्पाद्यो विषयो वा स्यादात्मा वा ।
नाद्य इत्याह तस्या इति ; नान्त्य इत्याह नित्यस्येति । - गटादेरपि क्षणइकविज्ञानरूपत्वं विज्ञानरूपत्वं विज्ञानरूपात्मजन्यत्वच्च बौद्धमतं सहोपलम्भनियमदूषणादिना प्राङ्निरस्तम् ।
3.द्वितीयपक्षेपि किमात्मनोऽर्थप्रकाश्यत्वम्, अर्थस्यवाऽऽत्मप्रकाश्यत्वम् ? नाद्य किमिति ; नान्त्य इत्याह प्रकाशश्चोति । - ननु सर्वदा सर्वार्थप्रकाशवारणाय तदातदा तत्तत्प्रकाशोपयोगी कादाचित्कोऽतिसय आत्मनि स्वीक्रियत इत्यत्राह आगन्तुकेति ।
- अर्थपकाश आत्मसमवेतासादारणक्रियाजन्यः आत्मभिन्नवृत्तित्वे सति कार्यत्वादिरूपेणात्मासाधारणत्वात् गन्तव्यदेशगतगन्तृसंयोगवत् ।
सामान्यमुखीव्याप्तिः ।
गन्तृगतगमनक्रियायां व्यभिचारवारणाय सत्यन्तम् । - क्रयादिक्रियानिरपेक्षेण पित्राद्यभावे पुत्रादेः स्वतः प्राप्तेन ।
तद्भावभावित्वस्येत्युप्रितन पदानुसारेणात्र अभावप्राप्ते भावप्राप्तेति स्यात् । - व्यापारादेर्व्यापारान्तराभावेपि जनकत्वात् ।
8 . क्षेत्रुजिवनमेव ।
तत्र क्षेत्रादिस्वत्वे । - तदेव जीवनमेव ।
- नन्वेवमन्द्रियप्रत्यासत्त्यादिकादाचित्कापेक्षाबलादेव सदासन्निहितसमग्रकारणकत्वाभावेन सर्वदासर्वार्थप्रकासप्रसङ्गवारणादात्मन्यागन्तुकातिसयाश्रयणमनावश्यकमिति कथं धर्मभूतज्ञानसिद्धिरित्याशङ्कायां पूर्वपक्ष्यनुमानपरिष्करणपूर्वकनिगमनव्याजेनानुमानतोपि ज्ञानसिद्धिं दर्शयति अत इति ।
यथोदितधर्मो यंप्रत्यसाधारणः, तदीयेत्येव योजना ।
एतावदिति न तु धर्मे आगन्तुकत्वक्रियात्वादिकं साध्यघटकमिति । - एवं चेतनस्वाभावश्चैतन्यमित्युपपाद्य तादगन्तुकत्ववाद्युक्तांशान् क्रमेण खण़्डयिष्यन् पूर्वपक्षआरम्भोक्त हेतुद्वयं निरस्यति नचेति ।
हेतुभेदोऽर्थेन्द्रियसन्निकर्षाद्यात्मा कारणविशेषः । - स्वारसिकत्वेपि स्वाभाविकत्वेपि ।
- वर्तमानेत्यर्थः ।
- प्रत्यक्षीभवति।
- इमावेन शङ्कापरिहारौ स्यादैतदितायादिना विर्वियेते ।
ननुस्वापप्रलयादौ चैतन्यप्रकाशं शून्यतया तत्त्वान्तरगोचर इति च प्रागेवावोचम् ।
कर्मानुगुण्येन सुरमनुजादिजातीयतया भिद्यमानासु आगमापाविनीषु तनुषु मनस इवैकस्य वर्ष्मणस्स्वभावानुबन्धित्वेनाश्रयितुमशक्यत्वात् ।
लिङ्गस्य पुजानुवृत्तावष्यप्रत्यक्षत्वान्न व्यभिचारित्वम् ।
(स्वापादावप्यात्मप्रकाशापत्तेस्त्रेधा विकल्प्य विमर्शः)बोध स्वाभाव्ये पुंसः स्वापमूर्च्छयोः प्रकाशप्रसङ्ग इति चेन्न - विकल्पासहत्वात् ।
तथाहि - प्रकाश इति पदार्थमात्रसाधारणं बोधजन्यं प्रकटतादिपदपर्यायं धर्ममभिप्रेत्य वाऽयं प्रसङ्ग, अथ बोधमेव, तदविप्रकर्षे वा ।
आद्ये, तदभावादेव न प्रसङ्ग, अभा वश्च प्रकटित संवित्स्वतांस्सद्धिसमर्थनसमये ।
भावेऽपि, तमाप्रतिबन्धादप्यनु दयस्संमवी।
इतरयो रभिमतमेवापादिनमित्यदोषोद्भावनम् ।
बोधस्वाभाव्ये हि पुरुषस्य स्वापादिदशासु च तथाभावोऽभिमत एवेति न हि तदापादनं दोषाय ।
(व्यवहाररूपप्रकाशस्य स्वापादावनापत्तिवचनम्)अथ मतम् - स्वापादावपि स्वानुभवसद््भावे जागर इव व्यवहारप्रसङ्गइति ।। मैवम् - व्यवहारागोचरत्वात् ।
कः खल्वात्मनि व्यवहारः ? न ह्यसावादातुं हातुमृपोक्षितुं वा शक्यः ।। व्यावहारः प्रसज्यत इति चेत् - किमङ्ग? निर्विकल्प्क - बालमूकादिवेदन - विषयो व्याह्रियत एव ? ।। करणपाटवव्यवजिहार्पादिसहकारिविरहात् तत्र व्याहारानुदय इति चेत् - समानोऽयं विधिरितरत्रापीति निरनुयोज्यानुयोगः ।
(स्वापकालिकात्मानुभवस्य जागरे स्मृत्यापत्तिपरिहारः)स्मृति प्रसङ्ग इति चेन्न, अवृत्तित्वात् ।
यद्युच्येत् - मूर्च्छादावात्मानुभवाभ्युपगमे, अराथान्तरानुभव इव, एवमहमन्वभूवमिति परस्तात् स्मृतिः प्रसज्यते - इति, तन्न - अवृत्तित्वात् ।
न हि मूर्च्छा प्रस्वापो वा बुद्धिवृत्तिविशेषः दर्शनसपर्शनादिवत् ।
येनविना अहमितिप्रकाशस्य संमतत्वात् कथं चैतन्यविशिष्टतयैव तदुपलम्भ इति चेन्न - पूर्वपक्षिणा यदायदाऽऽत्मप्रकाश इष्यते, तदातदा चैतन्यविशिष्टतयैव स्फुरणस्य विवक्षितत्वात् । - स्थूलशरीरविलक्षणसूक्ष्मशरीरात्मकैकलिङ्गशरीरवैशिष्ट्यस्य सुरमनुजादिसर्वदशास्वप्यात्मनि सत्त्वस्वीकारेपि तच्छरीरस्वभावकत्वरूपसाध्यस्यात्मनिविरहेपि च न व्यभिचारः, तद्विशिष्टतयोपलभ्यमानत्वरूपहेत्वभावादिति ।
- स्वापतुरीयेत्यादिना पूर्वपक्ष्युक्तहेतुं खण्डयितुमाह बोधेति ।
प्रसङ्ग इति ।
न हि बोधे सत्यपि पुंसोऽप्रकाशो जागरे दृष्ट इति भावः । - इति - इति पदेन ।
- प्राकट्याभावाश्च ।
- स्वापादिकालेऽनुत्पत्तिः ।
- इतरयोः - बोधस्तददूरत्वं वा प्रकाश इति पक्षद्वये ।
- अनयोरेव शह्खापरिहारयोर्यद्युच्येतेत्यादिना विवरणम् ।
अबृत्तित्वात् स्वापकालिकाहमर्थप्रकाशस्य वृत्तिरूपत्वाभावात् ।
वृत्तिरूपस्सकर्मकानुभवो हि स्मृतौ कारणम् , तस्यास्सकर्मकत्वात् ।
सिद्धान्ते धर्मभूतज्ञानावस्थारूपस्मृतेः तदवस्थारूपानुभवे प्रतेयव सामानाधिकरण्यवशेनकार्यत्वाच्च ।
स्मृतिबीजं संस्कारमादधीयाताम् ।
किंतूद््भ-तेन तमसोपरतव्यापारेषु करगोषु निर्वृत्तिकमांसिद्धिकबोधस्वरूपेणावस्थानमात्रमात्मनः ।। न च बोधस्वभावत्वादेवाय संस्काराधाय कत्वम् ; अनवरतोपचीयमानसंस्कारतयाऽनिर्मोक्षप्रसङ्गात् ।
अनुभवे च स्वानुरूप संस्काराधाननिरुद्धे सदृशसंबन्धिदशेनादिसमुद्धोधितनिजबीजानुसारेण स्परणसुपजायते ।
न चेहात्मस्वरूपबोधस्य जातुचिन्निरोधो जन्म वा ; नित्यात्मसत्ताप्रयुक्तत्वात् ।
निमित्तान्तराभावश्चानन्तरमेव व्याकरिष्यते ।
तदेवमनुवर्तमान एवानुभवे कथं स्मृतिरुदयमासादयेत् ।। य एवाहं पूर्वेद्युरासम् , स एवाहमद्यापीति स्मृतिसंभिन्नप्रत्ययोष़पि कालावच्छिन्नस्वरूपगोचरः, न स्वरूपमात्रे ।
अविद्यदश्च स्वापादौ स्वानुभवः, निर्विकल्पश्च ।
पटीयसासविकल्पकेनावगमेन स्मृतिबीजमाधीयत इति च कुतस्तत्प्रसङ्गः ? साम्याच्चाननु भवाभिमानः शरीरतद्धारण (शरीरधारण? ) प्रयत्नाननुसंधानवत् ।
(सुप्तमुक्तादिव्यवस्थाभावप्रसङ्गभङ्गः)न चाविकृतस्वाभाविकबोधमात्रेणावस्थाने स्वापमोक्षयोरविशेषाएत्तिः, क्लेशदासनानां गुणा भिभवस्य चैकत्र भावात् ; इतरत्र तदत्यन्तनिवृत्तेः (अतः?) (अ?) संप्रज्ञातसमाधावपि परमवैराग्यशालिना पटुतरनिरोधसंस्कारेण चरिताधिकारिणा अपवर्गिणा विशेषः । - एवं संस्कारासंभवात् स्मृतिर्न भवतीत्युक्ता, अनुभवस्यैवानुवर्तमानतयापि स्मृतिर्न भवतीत्याह अनुभव इति ।
- ‘बोधकारणानुवृत्यापि बोधानुवृत्तिरूपपद्यते’इत्येतद््दूषणावसरे ।
- कथं तर्हि स्मर्तुमनर्हस्यात्मनोपि स्मरणविशेष इत्यत्राह यइति ।
संभिन्नेति ।
संवलितेत्यर्थः । - आत्मरूपज्ञानस्य वलृप्तकारणरूपत्वाभावादपि न संस्काराधायकतेत्याह ।
देशकालावच्छेदाद्यनवगाहनादवैशद्यं निर्विकल्पत्वञ्च ।
इति चेति ।
तद्विषयकस्मरणं प्रति तद्विषयकानुभवेस्यैव हेतुत्वात् स्वरूपात्मकबोधं प्रति चाऽऽत्मनोऽकर्मत्वादिंति च भाव्यम् । - अनुभूतस्याप्यननुभूतस्येव पश्चादस्मर्थमाणत्वाविशेषात् ।
- न हि स्वशरीरस्वरूपमात्रं तद्धारणप्रयत्नञ्च कश्चित् स्मरतीति ।
7, तमोगुणादिनाऽभिभूयमानत्वस्य ।
इदं सिद्धान्तमोक्षस्वरूपमप्रतिबोध्यैवोत्तरम् । - समा धिर्द्विविधः संप्रज्ञातोऽसंप्रज्ञातश्च ।
आद्यः स्थूलाचेतन - सूक्ष्माचेतन.सात्त्विकानन्दांश.चेतनरूपचतुर्विधालम्बनभेदाच्चतुर्धा ।
अन्त्यो निरालम्बनः ।
एकाग्रतासंस्कारपर्यन्तसर्वोपमर्दनेन निरन्तरवाहित्वं निरोध संस्कारस्य पटुतरत्वम् ।
चरिताधिकारम् अविसितभोगापर्वगरूपोद्धेश्यं चित्तम् ।
अपवर्गिणा अपवर्गि कृतः ।
अत्र संप्रज्ञातसमाधावपीत्येव पाठो दृश्यते ।
तदा च इतरत्रेत्यारभ्य विशेष इत्यन्तमेकं वाक्यमित्युचिततरम् ।
अयमर्थः - मोक्षे क्लेशादेः अत्यन्तं निवृत्ततया, प्रमाणादिवृत्तिष्विव संप्रज्ञातसमाधिविषयेपि योऽत्यन्तं विरक्तो निरोधसंस्कारपाटवेन चित्तं चरिताधिकारमकरोत् , तादृशापवर्गिकृतो विशेषस्तद्विलक्षणपुरुषसुषुप्त्यपेक्षयाऽस्तीति ।
निवृत्तेरित्यन्तस्य पूर्वान्वयस्वारस्ये संप्रज्ञातेति च पाठो(निद्राया वृत्तित्वे उपपत्तिस्तन्निरासश्च)कथं पुनर्निद्राया अनुत्तित्वे प्रबुद्धस्य प्रत्यवमर्शाः, ‘सुखमहमस्वाप्सम्’ इत्याद्याः न ह्यननुभृतगोचराः स्मृतयः स्मृतयः संभवन्ति ।
सत्त्वसचिवसमुल्लिसिततमोगुणानुभवभावितभावनायोनिः खलु, ‘सुखमहमस्वाप्सम् , प्रसन्नं मे मनः, लघूनि मे गात्राणि’ इति प्रत्यवमर्शः ।
रजस्तमस्समुद्रेगे तु, ‘दुःखमहमस्वाप्सम् , भ्रमत्यनवस्थतं मे चित्तम्’ इति ।
सत्त्वरजसीत्वभिभृय नितान्तमृद््भूते तमपि, ‘गाढं (ढ) मूढं सुप्तोऽस्मि,गुरुणि मे गात्राणि, सुषितमिव मनः, मीलितमिव’ इतिसत्यमेवम् ।
दत्तोत्तरं ह्येतत् - नैवामी वासनायोनयः प्रत्ययाः ; अपितुतात्कालिकशरीरेन्द्रियमनोवस्थाविशेषपर्यालोचननिमित्ता आनुमानिका इति ।
एवंरूपा हीमे, ‘यतः प्रसन्नं मे मनः, सम्यगाहारपरिणामवशाल्लघूनि ; अतस्सुखमहमरवाप्सम्’ इति ।
स्वापावस्थायाे वेन्द्रियोपरमतारतम्यवशाद (दा) विशद - तात्कालिक - तत्तदनुकूलप्रतिकूलविषयानुसंधाननिबन्धनतयाऽपि स्मरणमुपपद्यत इति न वृत्त्यन्तरत्वं निद्रायाः(निद्राय अवृत्तित्वेऽपि योगसूत्राविरोधः)अथं तर्हि पारमर्षे सूत्रम् - ‘अभावप्रत्ययालम्बना वृत्तिर्निद्राया’ इति?।। निरोधपरत्वात् प्रकरणस्य न वृत्तिस्वरूपे तात्पर्ये विंपर्ययवत् ।
नह्यतद्रूपप्रतिष्ठं मिथ्याज्ञानं किञ्चिदस्ति,हनेऽयमर्थः - नन्वस्तु खापमोक्षयोर्विशेषः ; स्वापसमाध्योः ।
संप्रज्ञातसमाधौ सालम्बनवृत्तिरूपविशेषसत्त्वेऽप्यसंप्रज्ञातस्य सर्ववृत्तिनिरोधात्मकतया स्वापतुल्यत्वादित्यत्राहासंप्रज्ञातेति ।
तत्र हि पुंसो वैराग्यं निरोधसंस्कारश्चरिताधिकारचितत्वमपवर्गभाजनत्वञ्च ; नैतानि सुप्त इति ।
निवृत्तेः संप्रज्ञातेत्येव सर्वत्र पाठः ।
निवृत्तेरित्यत्र वाक्यसमाप्तौ असंप्रज्ञातेति पाठन्तरोहो दर्शितः ।
तथावाव्यसमाप्तावपिसंप्रज्ञातेत्यव पाठरक्षणाय मध्ये ‘अत’ इति पदमुचितं तर्कितम् । - निद्राया अवृत्तित्वस्य पूर्वपक्षीष्टत्वेपि सिद्धान्त्येकदेशी तत्त्वं पृच्छति कथमिति ।
- सत्त्वेन सहोद्रिक्तं यत् तमः, तदनुभवजनितसंस्काजन्यः ।
प्रत्यवमर्शाश्चात्र दर्शितप्रकारा योगभाष्ये (1-10) द्रष्टव्याः । - पूर्वपक्षिकृत एतन्निर्वाहप्रकारोऽमसदिष्ट एवजागरारम्भकालिकपुखदुःखमोहोपयोगिमनःप्रसादस्थैर्यस्तैमित्यपरामर्शाधीनास्तथाऽनुमितय इति भावः ।
उक्तत्रिविधप्रत्यवमर्शेषु गाढस्वापप्रत्ययस्यानुमितिरूपत्वेप्याद्ययोर्जागरवदविशदनिद्राकालिकसुखदुःकलवगोचरप्रमाणादिरूपानुभवजन्यस्मृतित्वमस्तु ; तथा च सुखदपःकविषये स्मृतित्वेपि स्वापांशेऽनुमितिरेवेतिन निद्रा नाम वृत्तीरिति ।
4.उक्तं हि ‘योगश्चित्तवृत्तिनिरोधः’ (1-2), ‘अभ्यासवैराग्याभ्यां तन्निरोधः’ (1-12) इति ।
प्रमाणादिवृत्तिगतनिरोद्धव्यात्वसादृश्याद्घौणो निद्रायां वृत्तिशब्दः । - ‘विपर्ययो मिथ्याज्ञानमतद्रूपपतिष्ठम्’ (अतद्रूपप्रतिष्ठत्वञ्चतद्रूपाप्रिष्ठत्वम् ।
तेन संशयस्यापि संग्रहः ।
यथार्थे सर्व विज्ञानमिति हिसांख्यायोगादिमतम् ।
अतो रजतभ्रगो नाम शुक्तिदर्शनरजतस्मृतिसंवलितो रजतभेदाग्रहःअख्यातिः .तत्र दर्शनं स्मृतिश्च प्रमाणदौ अन्तर्भवतीति अग्रहः शिष्यते ।
स चाभावरूपत्वान्न वृत्तिरिति।
अधिकरणेति ।
न्ययतत्त्वशास्त्रगताधिकरणेत्यर्थः ।
योगभाष्ये कैवल्यभागीय शब्दस्य तत्रतत्र प्रयोगात्, ‘चित्तनदी वहती कल्याणाय पापाय च’ इति भाषणाच्चात्र संसारभागं विहाय कैवल्यभागसंबन्धिनश्चित्तस्य निद्रादयः प्रत्यनीका इत्यर्थो युज्यते । - अत्रेद बोध्यम्-निद्राया वृत्तित्वे तया सह तदाऽऽत्मप्रकाशस्स्यात् ; स च नित्यचैतन्याधीनो वा स्वरूपप्रयुक्तो वा कथ्येतेति भिया पूर्वपक्षिणा तस्या वृत्तित्वं पूर्वं निरस्तम् ।
पश्चात् तस्याः वृत्तित्वेपि नित्यचैतन्यमात्मनो नास्तीत्युक्तम् ।
सिद्धान्तिना च तस्या वृत्तित्वे तदधीनप्रकाशः आत्मनआपद्येतेत्यालोच्य पूर्वें तन्निरस्तम् ।
पश्चात् तद्वृत्तित्वमभ्युपगम्य तत एव सहजचैतन्यं समर्थ्यत इति ।। ननु सुखामहमस्वाप्समिति स्मृतिरिति सिद्धान्तः ; अत्रानुमितिरित्युक्तमिति विरोधः ।। न; स्वापांशे ह्यवृत्तित्वपक्षऽनुमितित्वमुच्यते ।
तत् सिद्धान्तसंमतमेव ।
अहमर्थप्रकासस्तु मूलग्रन्थेऽपीष्टः ।
परन्तु दुःखमहमितिवत् सुखांशेऽप्यनुमितित्वं वैषयिकस्वल्पसुखस्मृतित्वं वा लक्ष्येत ।
तत्र तु, दुःखविषयेअगत्या तथास्वीकारेऽपि आत्मनोऽनुकूलत्वरयानुभवप्रमाणसिद्धतया तत्प्रकाशमादाय प्रत्यवमर्शनिर्वाहे बाह्यानुकूलवस्तुग्रहादेर्निद्राकाले कल्पने मानाभाव इत्युत्तरम् ।
इदं स्वतस्सुखीन्येतद्विमर्शावसरे वक्तव्यमिति नात्रोच्यत इति । - जागरवदनित्यः कारणसंपाताधीन एवासतु तदापि बोध इति शङ्कते आहेति ।
- गुमस्य सत्त्वादेः ।
अनुकूलत्वस्येति वा । - एवं वृत्तिस्वीकारेऽप्यात्मप्रकाशो न पूर्वपक्ष्युक्तरीत्या वृत्तिप्रयुक्तोऽनित्यः ; किन्तु नित्यः स्वरूपप्रयुक्तश्चेत्यंसद्वयं प्रयोगद्वयेन साधयति नित्येत्यादिना ।
मूलम् - 1.28.15
- इतःपरम् उक्तप्रयोगघटक प्रकाशपदार्थशोधनव्याजेन आत्मनि नित्यचैतन्यस्वीकारे पूर्वपक्ष्युद्भावितप्रतिकर्मव्यवस्थानुपपत्तिपरिहाराय परसंमतप्रकाशपदार्थखण्डनेन स्वाभिमतं प्राक् सूचितं बोधाविप्रकर्षरूपप्रकाशपदार्थं स्थापयितुं प्रवृत्तः पृच्छति क इथि ।
‘अयमर्थः प्रकाशते’ इत्यत्र प्रकाशो धात्वर्थो ज्ञानम्,आख्यातार्थो विषयिविषयभावः संबन्ध इति तार्किकाः ।
प्रकट्यं प्रकाशः, आश्रयत्वं संबन्ध इति भाट्टाः ।
ज्ञानमेव प्रकाशः, तदधीनव्यवहारानुकूलत्वं संबन्ध इति प्राभाकराः ।
सिद्धान्ते ज्ञानं प्रकाशः, अदूरत्वं संबन्धः ; अदूरत्वपर्यन्तस्य वा तदधीनव्यवहारक्षमत्वस्य वा प्रकाशपदार्थत्वे तु आश्रयत्वं संबन्ध इति विवेकः ।
तत्र तार्किकादिभिरात्मनित्यप्रकाशोऽसंमतः ।
तदर्थं साध्यमानोऽयं तेषु कतमस्यच्छायावलम्बनेनेति प्रश्नाशयः । - तार्किकच्छायया ज्ञानेनात्मनो विषयविषयिभावसंबन्धस्वीकारे उक्तसाध्यासिद्धिमाह अथेति ।
- अनात्मेति ।
आत्मा स्वात्मा । - तर्हि कर्मकर्तृविरोधे आनुमानिकादिज्ञानकर्मत्वं कथमित्यत्र वैषम्यं दर्शयति नित्यत्वेति ।
- नन्विहापि रूपभेदेन निर्वाहोऽस्त्वित्यत्राह रूपेति ।
शब्दशब्दो हि गोशब्दादेरिव स्वात्मकशब्दस्यापिगमकः ।
एवं पदपदम् ।
स्वाध्यायोऽध्येतव्य इति विधिवाक्येन वाक्यान्तरमिव स्वात्मापि गृह्यते ।
तत्र सर्वत्र न स्वतःसिद्धिः ; गम्यत्वं सामान्यरूपेण ; गमकत्वं विशेषरूपेणेति भेदादित्यर्थः ।
अत्र वाक्यान्वया नौचित्येन पक्षस्येति पदायोगादधिकाक्षरानुपलम्भाच्च अपक्षस्येतिच्छेदः ।
न हि शब्दादावपि स्वतःसिद्धिसाधनमेष्टुं शक्यमिति तस्य पक्षत्वायोगसूचनाय अपक्षस्येति तद्विशेषणम् । - प्रमातृत्वादिहेतुबलात् ।
- प्रकाशमानत्वेनोच्यते ।
- प्रकाशः स्वाभाविक इति पूर्वानुमानेनोक्तत्वेन ।
सिद्धान्ते आत्मनि नित्यप्राकट्यसंमतौ तस्य ज्ञानाधीनत्वे स्वाभाविकत्वं न स्यात् ।
अतः लाघवाच्च स्वाभाविकचैतन्यगुण एव स्वाभाविकं प्राकट्यमिति भाट्टच्छाया नालम्ब्येति ।
न प्रकाशसामान्यं चैतन्यम् ;किन्त्वात्मप्रकाशव्यवहारश्चेतनावत्त्वाधीन इति शंकते यदीति । - चेतनया संबन्धात् संविदि प्राकट्यमिति तत्र प्रकाशव्यवहारोपपत्तिः चैतन्याश्रयत्वाभावेऽपीति ।
- चेतनाया आश्रये आत्मन्याश्रितत्वं संविदः ।
- विषयत्वं घटादौ स्यात् ; नात्मनि, न वा स्वस्मिन् ज्ञान इति ।
स्त्रीलिङ्गप्रक्रमात् तस्येति पाठो न युक्तः ।
यद्वा आत्मनः स्वस्य ज्ञानस्थ, तस्य पुंस इति व्याख्येयम् । - प्राक्कृतं प्राकट्यखण्डनप्रकारमपि स्मारयति ।
- तर्हि प्राबाकरसरणिरेवास्तु, तत्राह स्वेति ।
- वक्ष्यति ‘अपर्यनुयोज्यं निमित्तवैरूप्यम्’ इति ।
संवित् घटादिकमिन्द्रियप्रत्यासत्तिविशाद्व्यवहारयति, तदभावेपिवेदितारमिति वैरूप्यं निमित्तवैरूप्यम् ।
यद्वा कार्यान्तरनिमित्तकारणवैलक्षण्येनात्र परं निमित्तानुरोधेन कार्यारम्भो निमित्तवैरूप्यम् ।
व्यवहारानुगुणसंवेदनत्वरूपप्रकाशपक्षे वक्ष्यमाणं प्रवृत्तिनिमित्तवैरूप्यं वा ।
घटज्ञानफलस्य व्यवहारक्षमत्वस्य घटे ज्ञानज्ञात्रोश्चाविशेषे घटस्यैव कर्मत्वं, न तयोरिति वैरूप्यमपीह सुवचम् । - अथ प्रकाशपदार्थत्वेन स्वसंमतस्यार्थज्ञानसंबन्धविशेषस्यावश्यकत्वोपद्घाततया भाट्टप्राभाकरयोरनुपपत्त्यन्तरमाह आत्मनीति ।
- अन्यथा घटस्य कुलालवत्येव देशे उदकाहरणकरत्वं स्यादित्यर्थः ।
- अस्ति ह्यर्थहस्तसन्निकर्षे त्वगर्थसन्निकर्षोपि ।
मूलम् - 1.29.16
- ननु द्वित्वादिसंख्या अपेक्षाबुद्धिनाशान्नश्यन्ती दृष्टेत्याशंकां संख्यारूपकिञ्चित्पदार्थान्तरस्वीकारपक्षेऽप्यनन्त -द्वित्वोत्पत्तिपक्षस्य बीभत्स्यतया वक्ष्यमाणरीत्या तत्वीकार एव लाघवात् युक्त इत्यभिप्रेत्य परिहरति न चेति ।
मूलम् - 1.32.17
- एकत्वं संख्या त्रित्वसंख्याविरुद्धत्वात् द्वित्वसंख्यावदित्यर्थः ।
ननु तर्हि प्रतिद्रव्यमेकत्वसत्त्वात् द्वित्वादि निराश्रयं स्यादित्यत्र विरोधमुत्तरार्धेनोपपादयति ।
मूलम् - 1.33.18
- घटादौ द्वित्वस्य पटादिसापेक्षतया तदभावेऽनुत्पन्नत्वादेवाग्रहः ; उत्पन्नस्यापि, निरूपकान्तरस्य पटादेरग्रहादग्रहः; पटादिग्रहकालेऽपि बुभुत्साविरहादग्रह इत्यर्थः ।
अपेक्षाबुद्धिः स्थितद्वित्वादिव्यञ्जिकेति तदभावे अग्रह इति भावः । - अतः संख्यादिनिदर्शनेन प्रत्यवस्थानायोगात् , इन्द्रियसन्निकर्षनिवृत्तौ ज्ञाननिवृत्त्यनापत्तेः ।
- एवं भाट्टप्राभाकरसंमतप्रकाश -व्यवहारयोरप्यसंबन्धिन्यर्थेऽयोगात् संबन्धं प्रसाध्य प्रभावत्प्रकाशकत्वहेतुनापि तं साधयति ।
5.‘अमूर्तस्याकाशस्येव निष्क्रमणप्रवेशाद्यनुपपत्तेः’ इत्युक्तं निरसितुमनुवदति ।
मूलम् - 1.34.19
- देशादित्यत्र दृशां, दिशामिति पाठद्वयं न्यायसिद्धाञ्जनव्याख्याने ।
- वैशेषिकमीमांसकानाम् ।
- वर्तमानापेक्षाबुद्धिजन्यद्वित्वादियोगः ।
- अतीतानागतयोः ।
तत्र विषयभावादौ । - सिद्धान्ते सर्वस्यापि द्रव्यस्य नित्यत्वादतीतत्वाद्याश्रयद्रव्यं वर्तमानमेवेति संयोगः सूपपन्न इति तात्त्विकं समधिमाह ।
- न लोकानुभवापेतम् ।
- बुद्ध्यपेक्षया दवीयस्त्वमेव नेति साधयति किञ्चेति ।
- अलातचक्रगतानां क्रमिकाणां देशविशेषसंबन्धिनां संयोगविभागानां वस्तुको ग्रहणसत्त्वेऽप्यग्रहणाभिमानवत् ।
- तेनार्थेन ।
यदिति पृथक्पदञ्चेत्, तद्रूपस्य गोचरेणेत्यर्थः । - जातिव्यक्त्यात्मके ।
- दध्ना जुहोतीत्यत्र हिदधिहोमोभयविशिष्टभावनान्वयिनो विधेर्दधिरूपे भावनाया अंशे संबन्धः ।
अत एव हि तदेव विधेयमुच्यते । - यदा करणायत्तश्चैतन्यप्रसरः, तदा करणव्यापारोपलक्षित करणयोग्यार्थसन्निकर्ष एव चैतन्यस्य, ग्रहणपदार्थ इत्याशयः ।
- अस्य नरस्य तदिन्द्रियद्वारा प्रज्ञा निस्सरति ।
क्षरन्तिशब्दो ह्ययं पूर्ववन्निस्सरणार्थक एव । - पूर्वकृतं चोद्यं निरस्यति यत्त्विति ।
- गुणत्वमत्यन्तपरतन्त्रत्वम् ।
तच्चाद्रव्यकतिपयद्रव्यसाधारणम् ।
तत्राद्रव्ये शब्दादौ, द्रव्ये आलोकादौ च गतिमत्त्वम्, यदीयत्वेनास्य प्रसिद्धिः, तद्धर्म्यनुपलम्भदेशेपि सत्त्वरूपं धर्म्यतिवर्तित्वञ्चानुभविके ; शब्दगम्धयोर्भेरीपुष्पानुपलम्भदेशेपि सत्त्वात् ।
परन्तु तत्र शब्दगन्धयोरद्रव्यत्वात् गतिमत्त्वदेशान्तरस्थत्वयोस्साक्षादयोगात् द्रव्यद्वारा तत्स्वीकारः ।
आलोकादेस्तु द्रव्यत्वात् साक्षादेव ।
प्रकृते चाणोरात्मनो देहान्तरेव स्थितेश्चितेः शब्दादिवद्गुणत्वे गत्याद्यनुपपत्तावप्यालोकादिवद्गुणत्वेष्टौ न कश्चिद्दोष इति भावः ।
एतदर्थज्ञापनायैतावद् दृष्टान्तकथनम् । - ननु कथं शब्दो गुणः ; तथात्वेपि भेरीगुणस्य किन्द्रव्यद्वारा गतिमत्त्वादि सूपपादमित्यत्राऽऽरभते अतीति ।
भेर्यादिजनितो वायुगुणः शब्दो वायुद्वारैव गत्यादिमानिति विशिष्टार्थः । - पूर्ववाक्येन शब्दस्य भाट्टमतनित्यविभुद्रव्यत्वनिरासं सूचयित्वा गुरुमतं गगनगुणत्वे सति नित्यविभुत्वं निरसितुमाह ।
- नभोगुणतया द्रव्यद्वारापि गत्युपपादनायोगादेवमुक्तम् ।
7.असिद्धिपरिहाराय हेतुघटकमुत्पत्त्यंशं साधयति ।
कृतकः क्रियाजन्यः । - मिथस्समानाधिकरणान् ।
- कमण्डल्वादीन् ।
- कादिव्यञ्जकेन गाद्यव्यञ्जनात् .
मूलम् - 1.35.20
- प्राभाकरस्य ।
- शब्दसामान्यं ध्वनिः ।
- एतावताप्रयत्नादेरनसिव्यञ्जकत्वादुत्पादकत्वात् वायुगुणः शब्दस्तद्द्वारैव गत्यादिमानिति सिद्धं शब्दसूर्यालोकादिनयाच्चैतन्यस्य गत्यादिमत्त्वमिति ज्ञानार्थयोस्संबन्धो निराबाध इत्युपपादितम् ।
एवमर्थविषये उक्तस्य संबन्धस्य वित्तौ वेदितरि च दुर्वचतया संबन्धस्वीकारेऽपि वैरूप्यमस्त्येवेति संबन्धं विना स्वमावत एव प्रतिनियतप्रकाशकत्वं वित्तेरस्त्विति प्राभाकरः शंकते नन्विति । - अवयवावयविभिन्नद्रव्ययोः ; विभुनो ।
- प्राकठ्यमेव तत्त्वान्तरम् ।
- यस्य वस्तुनो व्यवहारेत्यर्थः ।
तत् वस्तु । - नन्वानुगुण्यमेव केननिमित्तेनेत्यत्राह त्रितयेति ।
- घटवित्तेः पटव्यवहाराजनकत्वं कुत इत्यत्र इदमुक्तम् ।
- तादृशसंवेदनत्वं प्रकाशः ; तद्वत्त्वं प्रकाशमानत्वम् ।
- विदितत्वं वित्त्यधीनव्यवहनुरार्हत्वमिति मतेहीदं द्वयं न घटते ।
सिद्धान्ते तु वित्तिसंयुक्तत्वं विदितत्वमिति न दोषः । - ना ‘क्तस्येन्विषयस्य कर्मण्युपसंख्यानम्’ इति वार्तिकप्रवृत्तौ ‘प्रथमाधिकरणे’ इति सप्तमी स्यात् ।
पूर्वशब्दश्रवणात् ‘इष्टादिभ्यश्च’ इत्येतदप्रसक्त्या क्तान्तस्येन्प्रकृतित्वाभावात् तदप्रवृत्तौ च ‘कर्तृकर्मणोः कृति’ इति कृद्ग्रहणात् ‘सपूर्वाच्च’ इति विहिततद्धितान्तेऽत्र षष्ठी न स्यात्, किन्तु ‘कृतपूर्वी कटम्’ इतिवत् द्वितीयैवेति कथं षष्ठी? उच्यते - कृतीत्यस्य कृदर्थोपसर्जनीभूतक्रियान्वये इत्यर्थः ; न तु वृत्त्यनन्तर्गतकृदन्तयोग इत्यर्थः, भक्ष्याणां पाकशालेत्यादौ षष्ठ्यनापत्त्या द्वितीयापत्तेः ।
पृथक्प्रयोगार्हकृदन्तयोगे इत्यर्थोऽपि न; कृतपूर्वमिति भावविवक्षया पृथगप्रयोगे मानाभावेन कटमिति द्वितीयानापत्तेः ।
अत इह कृदर्थोपसर्जनक्रियान्वयविवक्षया षष्ठी ।
तद्धितार्थोपसर्जनक्रियान्वये तु न षष्ठी ।
सा च क्रियाकृदाद्युपात्ता, तद्धितलक्षिता वेत्यन्यदेतत् ।
अतः षष्ठीद्वितीयान्तप्रयोगद्वयोपपत्तिः ।
किञ्चेह शेषषष्ठ्या न कश्चिदपवाद इति निरवद्यम् । - स्मृतेरनुभूतानुभवोभयगोचरत्वात् तैरुक्तमदूरत्वरूपनिमित्तमुभयसाधारणमभिमतमिति स्वस्मिन्नपिसंविददूरत्वरूपप्रकाशस्तत्रेष्ट इति सिद्ध्यतीति ।
- ‘तदन्य तद्विरुद्धतदभावेषु नञ्’ इतिस्मृतिः ।
- ज्ञाप्यबहिर्भूतस्यैवोपलक्षणतया, ज्ञाप्यस्य प्रकाशस्य प्रतीतौ दूरविरोधित्वादिरूपस्याविषयत्वे उपलक्ष्येण रूपान्तरेणैव प्रकाशस्य विषयत्वं वाच्यमिति भावः ।
मूलम् - 1.40.21
- घटादिकमनुभवादूरमित्यत्राभावरूपार्थपक्षेऽनन्वयात् तमुपेक्ष्याऽऽह ।। ‘प्रकाशत्वं प्रकाशमानत्वम् ।
प्रकाशोऽत्रेति पाठस्समीचीनः’ इति न्यायसिद्धाञ्जनव्याख्या । - विशेषणत्वे न किञ्चिद्बाधकम् ।
स्वरूपत्वात् उपलक्षणत्वेपि प्रकाशमानवस्तुस्वरूपमेव रूपान्तरमिति भावः । - अदूरत्वमप्यन्ततः किं संयोगः समवायो वा, भावातिरिक्ताभावाभावादित्यत्राह एवञ्चेति ।
- रूपरूप्यादौ स्वरूपमेव संबन्धः ।
पृथक्स्थितयोर्द्रव्ययोः संयोगो द्रव्यातिरिक्तः क्लृप्तः ।
तदत्रापृथक्सिद्धयोर्द्रव्ययोश्शरीरात्मभूतयोरन्यादृशयोर्वा संबन्धः स्वरूपं वा संयोगो वेति विमर्शे धर्म्यतिरिक्तसंबन्धानर्हे अद्रव्ये स्वरसतो नैरन्तर्यबुद्ध्यभावात् द्रव्ये च भावाद्विभुद्वय संयोगवत् संयोगः स्वीकारमर्हति ।
अतो ज्ञानज्ञात्रोरप्यस्तु संयोगः ।
वैशेषिकास्त्वेवमपृथक्सिद्धद्रव्यसंबन्धं समवायं परिभाषमाणास्तुल्यनयात् परतन्त्रस्थले सर्वत्र समवायमकल्पयन् ।
वस्तुतोऽद्रव्ये स्वरूपातिरिक्तसंबन्धाभावात् समवायः परतन्त्रद्रव्यसंयोग एवेति ।
एवञ्च संविददूरत्वमनुयोगित्वप्रतियोगित्वान्यतरसंबन्धेन संवित्संयोगवत्त्वम् ।
इदं संविद्यप्यक्षतम् ।
अस्य च संयोगस्य नियमेन ज्ञानाभास्यत्वात्, अहं जानामि, ज्ञातोऽयमर्थ इति विशिष्टव्यवहार इति ।। 1. ननु - ईदृशज्ञानसंबन्धस्य प्रकाशपदार्थत्वे संबन्धस्य संबन्ध्यधीन तयाऽऽत्मप्रकाशस्य ज्ञानाधीनत्वापत्तिः ।
किञ्च ज्ञानपदेन अवस्थापन्नज्ञानग्रहणे स्वापे आत्मनोऽप्रकाशा पत्तिः ।
सामान्यतोज्ञानद्रव्यग्रहणे स्वापेपि धर्मभूतज्ञानप्रकाशापत्तिः ।
न चेष्टापत्तिः ; अद्वैतनिरसनावसरे तदा संविदप्रकाशस्योक्तत्वात् ।
विषयप्रकाशनवेलायामिति च भाष्यम् ।
एवं ज्ञानस्य कृत्स्नदेहादिव्यापितया तत्सर्वांशप्रकाशापत्तिः ; संयुक्ताश्रितत्वरूपसंबन्धबलात् रूपादेरिव सर्वात्मधर्मप्रकाशापत्तिश्च ।
अतो नायं प्रकाशपदार्थः - इत्याशंकायाम् - प्रकाशपदं व्यवहारक्षमत्वार्थकमेवास्तु ।
स चोक्तानुमानादिवशादात्मनि स्वतः ;अवस्थाविशेषविशिष्टज्ञानमात्रे स्वरूप - आत्मसंबन्धोभयबलात् ; घटादौ तु ज्ञानादूरत्वप्रयुक्तः , अन्यथा जानामीत्यादाववस्थापन्नज्ञानक्रियाजन्यसंयोगरूपफलाश्रयत्वादेव कर्मत्वम् ।
आत्मनि तु न तादृशक्रियाजन्यः संयोगः, किन्तु नित्यः ।
अनुमानादिनाऽऽत्मग्रहणे च प्रसरणावस्थज्ञानेन जन्योऽपि स इष्यते ।
अवस्थाविशेषेत्युक्त्या न तदनापन्नज्ञानस्य स्वप्रकाशत्वाद्यापत्तिरित्याद्याशय्याह ज्ञानेति ।
ज्ञानं प्रति अदूरत्वं व्यवधायकराहित्यम् ।
तत् कार्यैकोन्नेयं पर्वकर्माधीनम् ।
अत एव दूरस्थस्य ग्रहणेऽपि मध्यगतस्थाग्रहणम् ।
अत्र पूर्वं वरमिति स्थाने परमिति, अत्र पर इति च दर्शनादुत्कृष्टार्थको वरशब्दतुल्यः परशब्दः स्यात् ।
सर्वानुगत इत्यर्थको वेह ; परजातिरितिवत् ।
अन्यार्थ एव वा; तदा परो वा ज्ञानादूरत्वेत्येवं योजना ।
2.वास्तवशुक्लरूपेत्यर्थः ; चक्षुषा नीलस्य ग्रहणात् ।
मूलम् - 1.41.22
- प्रकाशनित्यत्वस्वाभाविकत्वसाधकप्रयोगद्वयेन ।
उत्तरार्धान्वये तु स्वरूपोपाधिधर्मत्वरूपोक्तहेतुनेत्यर्थः ।
विग्रहशब्दस्वारस्यात् पूर्वं चैतन्यस्वरूपत्वोक्त्यवगमात् स्वभावपदबलेन च धर्मभूतज्ञानाविवक्षाप्रतीतेर्ज्ञानेति पटनं युक्तम् । - सुखादि न स्वरूपोपाधिभूतमित्यर्थः ।
- ननु स्वतस्सुखीत्यात्मनि सुखमुक्तवता कथमनात्मधर्मत्वमुच्यत इत्यत्राह व्येति ।
अयंभावः - तत्रात्मगतस्वाभाविकानुकूल्यप्रकाशरूपं सुखमात्मनीष्टम् ।
भवदुक्तसुखदुःखयोश्च नात्मस्वरूपप्रयुक्तत्वम्, प्रकृतिसंसर्गकृतकर्ममूलत्वात् ।
न च भगवद्विभूतित्वप्रयुक्तं वास्तवमानुकूल्यं प्रकाशते ; किन्तु सौन्दर्यादिकृतं कल्पितमिति सुखस्य दुःखात् अविशेषः ।
एतावता साधनवैकल्यं कथमिति चेत् - अत्रायमर्थः - स्वतस्सुखीत्यात्मनि सुखं वक्ष्यते ।
ग्रन्थारम्भे च आनुकूल्यप्रतिलब्धानन्दसुखादिव्यपदेशबोधविशेष एवेति सुखस्य ज्ञानरूपत्वमुक्तम् ।
तुल्यनयात् प्रतिकूलं ज्ञानं दुःखमिति च सिद्धम् ।
अतो घटादिज्ञानस्येवानयोरपि चितिरूपतया दृष्टान्तत्व मेवासिद्धम् ।
सर्वत्रावस्थांसे आगन्तुकत्वस्याविशिष्टत्वात् चितिशब्दवाच्यविशेष्यांश एव तद्वार्यते ।
तदेतद्दृष्टान्तासिद्धिपरिहाराय ज्ञानातिरिक्तसुखदुःखयोरेव त्वयेहोपादानं वाच्यम् ।
यद्येवंज्ञानातिरिक्ते सुखदुःखपदप्रसिद्धिर्मन्यते, तर्हि श्रुत्यादिविरोधिताकिंकादिप्रसिद्धेरुपेक्ष्यतया इन्द्रियसौष्ठवादिकमेव सुखादीति ।
एवं रागादिकमपि ज्ञानातिरिक्तं त्वया निदर्श्यमानं मनोगुण एवेति ।
इदमुक्तं भवति - प्राकृतं सुखदुःखेच्छादिकं मुक्तिकालासंभवि; एत एवात्मखरूपाप्रयुक्तं नात्मविशेषगुणः ।
आत्मनि तत्तद्वत्ताव्यवहारस्तु तत्तद्गोचरज्ञानविशेषस्यापि तत्तच्छब्दार्थत्वविवक्षया ।
स्वरूपप्रयुक्तं तु मुक्तिकालभावि इच्छासुखादिकं केवलज्ञानावस्थाविशेष एव ।
अत एव द्विविधेप्यर्थे सुखादिपदशक्तौ मानाभावादत्रत्यं सुखादिपदं पूर्वोक्तधीपदनयेन नेयार्थम् ।
एवमपि ज्ञानातिरिक्तसुखादिपदार्थाऽऽग्रहे श्रुत्याद्यनुसारिणीत्थमेव व्यवस्थेति । - एवं सुखादेः क्षेत्रान्तर्भाववचनादनात्मधर्मत्वे अत एव चेतनारूपपक्षेपि हेत्वसिद्धिस्स्यादित्यत्र चेतनाधृतिरिति समस्तमेकं पदमन्यार्थकमित्याह ।
- द्रष्ट्रात्मिका दृष्टिरिति दृष्टिपदस्यात्मपरत्वं निरस्यति नचेति ।
- तार्किकादिमते आत्मनो जडत्वात् ; अद्वैतिमते चाहमर्थस्य विनाशित्वात् ।
- वक्तिरिह शाब्दबोधः ।
श्रुतिः शब्दग्रहणम् । - तदेवं पूर्वार्धं विवृत्य नानापदार्थसंसर्गादित्युत्तरार्धं विवृणोति ।
अनेन पूर्वपक्ष्युक्तः इन्द्रियलिङ्गादेर्ज्ञापकत्वायोगो वारितः । - अयमेव सिद्धान्तः, घटादिपदस्येव निश्चयादिपदस्यावस्थाविशेषापन्नधर्मिपर्यन्ते प्रसिद्धेः ।
- एवं - संयोग एव निश्चयादिरिति पक्षे ।
- न हिस्वनिरूपितस्संयोगस्स्वस्मिन्निति भावः ।
- धर्मभूतज्ञानस्य ज्ञातृत्वापत्तिमात्मनस्तदनापत्तिञ्च वारयितुं दृष्टान्तमाह ।
प्रकाशस्याऽऽन्तरस्य बाह्यो दृष्टान्तः ।
जानातीति व्यवहारः प्रकाशयतीति व्यवहारेण तुल्यः, न तु प्रकाशत इत्यनेनेति भावः ।
अनेन पूर्वपक्ष्युक्तोऽनुभवविरोधोऽपि शमितः ।
मूलम् - 1.43.23
- स्वशब्दः प्रयतमानात्मपरः । 2. वैलक्षण्यस्यापरोक्षज्ञानायेति विग्रहः । 3. एतावता ‘देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः’ इति विवृतम् ; अथोत्तरार्धे प्रथमनिर्दिष्टं नित्यत्वं परीक्षितुमारभ्य प्रागुक्तकल्पेषु प्रथमं सौगतपक्षं प्रस्तौति । 4. क्षणिकत्वव्याप्या भवतीत्यर्थः । क्षणिकत्वव्याप्यव्याप्यतया तद्व्याप्यत्वम् । 5. प्रथमप्रश्नं समाधते । 6. घट - घटाभावादिवत् । तदुक्तम् ‘परसिपरलुरोधे हि न प्रकारान्तरस्थितिः’ (न्या. कु. 3) इति ।7. द्वितीयं प्रश्नं समाधातुमाह ।।8. अत्रात्मसिद्धिग्रन्थेपि ग्रन्थान्तरवत् विनष्ट एव भागोऽधिकः ; प्रतिज्ञातबह्वर्यप्रथमांशैकदेशगोचरत्वादुपलभ्यमानस्येति ।। श्रीगुरुभ्यो नमः।।