02 ईश्वरसिद्धिः

सर्वं हि कार्यम् उपादानोपकरण-सम्प्रदान-प्रयोजन- संवेदि-चेतन-रचितम् अवगतं घट-मणि-कक??-गृहादि ।
कार्यं च विमतिपदम् अवनि-गिरि-महार्णवादीति
तदपि तथाविधबुद्धिमद्धेतुकमध्यवसीयते ।
न च कार्यत्वम् असिद्धम् इति वाच्यम् , अवयवसन्निवेशादिभिर्हेतुभिस्तत्सिद्धेः ।
इह चान्त्यावयविभ्यः प्रभृति आद्व्यणुककमखिलमवयविक्रमनिहीयमाननानावयवव्यतिषङ्गविशेषजनितमवगतमित्यन्तत उपादानं चतुर्विधाः परमाणवः प्रपञ्चस्य ।
तेषामादिपरिस्पन्दश्च तदमुगुणादृष्टविशिष्टतत्तत्क्षेत्रज्ञसंयोगासमवायिकारणकक इति उपकरणमपि समस्तभेत्रज्ञवर्तीनि धर्माधर्मलक्षणान्यदृष्टानि ।
प्रयोजनं पुनस्तदभिनिर्वर्तितविचित्रार्थक्रियाकारश्चेतनोपकारप्रकारभेदोऽपयन्तः ।
तदुपभुजस्त एव क्षेत्रज्ञाः सम्प्र्दानम् ।
न चामी स्वसमवायिनावपि धर्माधर्मावलमवलोकयितुमिति तदतिरेकी निखिलभुवननिर्माण निपुणोऽधिकरणसिद्धान्तसमधिगतनिरतिशयसहजसकलविषयसंविदेश्वर्यशक्यत्यतिशयः पुरुषधौरेयकः किमिति न सामान्यतोदृष्टलिङ्गादनुमीयते ? (इतीश्वरे सामान्यतोदृष्टानुमानस्य प्रमाणताप्रतिपादनम्) तदिदमविदितानुमानवृत्तस्य स्वमतिरचिततरलतर्कोल्लसितमिति परिहसन्ति मीमासंकाः ।
तथाहि - किमिदमेकचेतनाधीनत्वं नामाभिप्रेतं तनुभूवनादेः ? तदायत्तत्वमिति चेत् ; श्लोकार्थमेव प्रपञ्चयति ‘त’ दित्यादिना ।
‘समधिगते’त्यादि बहुव्रीहिवृत्तम् ।
यैः स्वयोग्यार्थसन्निकर्षरूपसहकारिकारणमधिगतम् , एवंभूतानि चक्षुरादीनि स्वविषयप्रत्यक्षज्ञानजनकानीति लोके प्रसिद्धमित्यर्थः ।
‘अत’ इति ।
यतोऽर्थसन्निकर्षस्य सहकारित्वं प्रसिद्धमन्वयव्यतिरेकाभ्याम् , अत इत्यर्थः ।
‘रसनादिभि’रिति ।
‘नयनादिभि’रिति पाठः स्याद्वा ।
अजातातिवृत्तौ - आगाम्यतीतौ ।
इन्द्रियेणातीतानागतयोरग्रहणे प्रयोजकं सन्निकर्षाभावमुपपादयति ‘न चे’ ति ।
रजतादिभिरिति मुद्रितपाठस्तु न सुसङ्गतः ।
तस्य - सन्निकर्षस्य संयोगलक्षणस्य, द्व्याश्रयत्वात् - उभयसमवायिकत्वात् , आश्रयाभावे - अन्यतराश्रयविरहे, तदसम्भवात् - सन्निकर्षोत्पत्त्ययोगात् ।
‘अतः’ इति सहकारित्वादित्यर्थः ।
इन्द्रियेणातीतादिग्रहणासम्भवमुपपादयति सहकारीति ।
कारणाभावात्कार्याभाव इति भावः ।
अमुमर्थं प्रयोगारूढं प्रपञ्चयति भवति चेति ।
यदित्याद्युदाहरणवाक्यम् ।
यत्सहकारि यस्य तद्यत्सहकारीति बहुव्रीहिवृत्तम् ।
यादृक्सहकारिविशिष्टमित्यर्थः ।
एवमग्रेऽपि बोध्यम् ।
जननम् - जनकम् ।
अर्थसन्निकर्षे त्याद्युपनयः ।
तान्यपीति निगमनम् ।
इन्द्रियाणि नातीतादिग्राहीणि, तदसन्निकृष्टत्वादिति प्रतिज्ञाहेतू चानुसन्धेयौ ।
एवं योगिप्रत्यक्षस्यबहिरिन्द्रियजत्वे न सर्वार्थगोचरत्वमित्युक्तम् ।
अतश्चेश्वरे तस्य साधनत्वायोगः फलितः ।
अथ तस्य मनोमात्रजन्यत्वेऽपि न तत्प्रमाणत्वं सर्वार्थद्यग्राहकत्वादेवेत्याह ’ नाप्यान्तरे’ ति ।
’ आन्तरगोचर’ इति ।
कर्मधारयोऽयम् ।
अबाह्यविषये सुखादावेव मनसो बहिरिन्द्रयमद्वाहीकृत्य प्रत्यक्षजनकत्वादित्यर्थः ।
मनसः साक्षादेव बाह्यार्थग्राहकत्वे दोषमाह ’ निरङ्कुशे’ ति ।
निरङ्कुशत्वमत्र बहिरिन्द्रियनिरपेक्षत्वम् ।
एवं मनसि हेतुमुपपाद्य साध्यं प्रयोगमुखतः साधयति ’ भवती ’ ति ।
प्रयोग इति शेषः ।
न प्रवर्ततेन ग्रहणानुगुणप्रवृत्तिमत् ।
तत्तन्त्रवृत्तित्वात् - बाह्यार्थेषु बहिरिन्द्रियसहकारद्वारकग्रहणव्यापृतिमत्त्वात् ।
तन्त्रं - प्रयोजकं, सहकारि वा ।
तत्तन्त्रं यस्याः, एवम्भूता वृत्तिर्यस्य तत्तत्तन्त्रवृत्ति, तस्य भावस्तत्त्वंतस्मादिति च व्युत्पत्तिः ।
उदाहरणं ’ यद्यत्रे ’ ति ।
यद्यत्र कार्ये यत्सहकारिसमवधानाधीनजननव्यापारवत् तत्तदसमवधाने न तत्कार्यजनकतावत् , यथाऽऽलोकसहकारिकं जक्षुर्नालोकाभावे स्वार्थघटादिचाक्षुषजनकमित्यर्थः ।
शङ्कते ’ न चे ’ ति ।
आजन्मसिद्धेरपि प्राक्तनतपः फलत्वात्पृथगनुक्तिरत्र ।
सिद्धौषधादिसाध्यश्चेन्द्रियाणां पाटवातिशयः सूक्ष्मविप्रकृष्टादिग्रहणसामर्थ्यलक्षणः ।
समधिगतविषयनियमम् - औत्सर्गिकंवर्तमानयोग्यसन्निकृष्टार्थमात्रग्राहकत्वरूपनियमम् ।
अपजहति - परित्यजन्ति ।
परिहरति ’ सांसिद्धिके ’ ति ।
कर्मप्रतिबद्धसङ्कुचितप्रवृत्तिस्वाभाविककरणशक्तिविकासकत्वमेव सिद्धौष धादीनाम् , नत्वपूर्वशक्त्याधायकत्वमित्यर्थः ।
नन्वस्त्वेवम् ।
तावता योगिचक्षुरादिना सर्वार्थाग्रहणस्य किमायातम् ? अत्राह ’ शक्तेश्चे ’ ति ।
चक्षुषो हि स्वाभाविकं सामर्थ्यं रूपरूप्यादिग्रहण एव, न तु योगादिनाऽपि रसादिग्रहणे सामर्थ्यं तस्य संभवतीत्यर्थः ।
तथाच पाटवातिशयाद्धवीयोऽपि सूक्ष्मतमं रूपं गृह्णातु नाम योगिचक्षुः ।
नैतावताऽतीतादेः रसादेर्वा तद्ग्राहकं भवेदिति भावः ।
अत्र च न्यायमाह ’ भवती’ ति ।
अनुल्लङ्घितसीमा - अनतिक्रान्तस्वमर्यादः ।
मर्यादा च चक्षुषो रूपादिषु चतुर्षु रूपस्यैव ग्राहकत्वमिति ।
एवं रसनादावपि अनुसन्धेयम् ।
’ दृश्यमाने ’ ति ।
अयोगिनामपि चाक्षुषतेजोमान्द्यप्रकर्षाभ्यां रूपादिग्रहणतारतम्यं हि दृष्टम् ।
एवमेव योगिचक्षुस्तेजःप्रकर्षोऽपि ततोऽप्यधिकगोचरोऽनतिक्रान्तमर्याद एव सिध्येदित्याशयः ।
एवमैन्द्रियिकत्वे योगिज्ञानस्य सर्वार्थाद्यग्राहकत्वमुपपाद्यानैन्द्रियिकत्वेऽपि तस्य यथात्वमत एवेश्वरे प्रमाणत्वासंभवं चोपपादयति ’ भावने ’ ति ।
भावनाप्रकर्षप्रयन्ते जन्म यस्येति बहुव्रीहिः ।
विशदनिर्भासत्वे - विशदप्रकाशकत्वे - लौकिकविषयतानिरूपकत्वे ।
प्राच्यानुभवगोचरात् - पूर्वानुभवविषयात् ।
अध्यवस्यतः - प्रकाशयतः ।
पूर्वानुभूतादनधिकविषयत्वे स्मृतित्वम् ।
अधिकविषयत्वे तु भ्रमत्वम् , कामिनीभावयितुः कामिनः पुरोवर्तित्वेनासत्याः कामिन्याः प्रतिमानस्येवेत्यर्थः ।
समुदिताशयस्त्वयम् - अनुभूतस्य पौनःपुन्येन स्मृत्यभ्यासेन संस्कारप्रचयः संपद्यते ।
तत्पर्यन्ते स्मृत्यभ्यासे सति जायमाना स्मृतिरेवप्रत्यक्षवद्विशदविषयावभासा भवतीति प्रत्यक्षसमानाकारं स्मरणमेव चेद्योगिप्रत्यक्षं विवक्षितम् , तर्हि तस्य पूर्वानुभूतार्थमात्रगोचरत्वान्नेश्वरगोचरत्वम् ।
सर्वार्थग्रहणादिसमर्थस्येश्वरस्य प्रमाणाभावेन प्रागननुभूतत्वात् ।
स्मृतित्वे च यथार्थानुभवत्वलक्षणमज्ञातार्थज्ञापकत्वलक्षणं वा प्रामाण्यं तन्नार्हत्येव ।
अत एव प्रमाणविशेषप्रत्यक्षरूपत्वं तस्य न तरां घटत इति ।
’ प्रत्यक्षत्वे ’ इति श्लोकार्थोपसंहारः ’ प्रत्यक्षस्य वे ’ ति ।
विदितत्वं - प्रसिद्धत्वम् ।
’ न विश्वे ’ ति ।
सर्वसाक्षात्कर्तरि सर्वकर्तरि सर्वनियन्तरि चेश्वरेऽस्मदादीनां योगिनां वेन्द्रियरूपं प्रत्यक्षं न प्रमाणं - न प्रमितिजनकमित्यर्थः ।
ननु केवलस्य बहिरस्वातन्त्र्येऽपि योगजप्रकृष्टादृष्टसहकृतस्य तस्य बाह्येष्वतीन्द्रियेषु त्रैकालिकेषु चार्थेषु प्रवृत्तिः संभवेन्नाम ।
तत् प्रकृष्टादृष्टसहकृतमनोजन्यमेव प्रत्यक्षं योगिनां स्यादीश्वरे प्रमाणम् ।
प्रत्यक्षस्य वर्तमानमात्रग्राहित्वमिति व्यवस्था चायोगिप्रत्यक्षैकगोचरेति चेत् ; अत्र ब्रूमः - प्रकृष्टादृष्टविशेषसहकारादपि प्रामाणिकसर्वार्थग्रहणमेव भवेन्नाम।
सर्वेश्वरे चैकस्मिन् न प्रमाणं किञ्चित् ।
अतो न तत्सिद्धिर्योगजप्रत्यक्षेणापीति हार्दमाक्षेप्तुः ।
एतेन परमात्मध्यानजनितमेव परमात्मविषयमानसप्रत्यत्रं प्रमाणं तस्मिन्नित्यपि निरस्तम् ।
परमात्मनो ध्यानं हि तज्ज्ञानमन्तरा न संभवति ।
तच्चान्ततो गत्वा शास्त्रजनितमेवेति वक्तव्यम् ।
शास्त्रस्य च कार्यपरस्य न तत्र तात्पर्यम् ।
श्रुतिपौरुषेयत्वनये पुनरन्योन्यसंश्रयः स्पष्ट एवईश्वरसिद्धौ तदुक्तत्वाच्छास्त्रप्रामाण्यसिद्धिः, तत्सिद्धौ चेश्वरसिद्धिरिति ।
अनुमानं च न प्रमाणं तत्रेत्यनन्तरमेव वक्ष्यते ।
तथा चेश्वरप्रमितेरेवाभावात्तन्मूलतद्ध्यानाद्यसिद्धिरेवेति ।
एवं लौकिकयौगिकभेदेन द्विविधस्य प्रत्यक्षस्येश्वरे न प्रमाणत्वमित्युक्तम् ॥ 5 ॥न खलु शरीरमेकचेतनाधीनोत्पत्तिस्थिति ।
ये हि यद्देहाधीनसुखदुःखोपभोगभागिनः, भवति हि तदुचितादृष्टशालिनां सर्वेषामेव तेषां तद्देहिन इव तदुत्पत्तिस्थितिनिमित्तत्वम् ।
अपि च शरीरावयविनःस्वावयवसमवायलक्षणा स्थितिरवयवव्यतिषङ्गविशेषादृते न चेतयितारं परमपेक्षते ।
या पुनस्तदपेक्षिणी प्राणनलक्षणा स्थितिः, न सा पक्षीकृते क्षित्यादौ सम्भवतीति स्थितिमपि नैकरूपां पक्षसपक्षानुयायिनीमुदीक्षामहे ।
एकचेतनाधीनप्रवृत्तित्वे तु प्रबलबहुजनसरभसप्रयत्नप्रचाल्यैरुपलतरु रथादिभिर्व्यभिचारः ।
आरब्धत्वादेव चैतत्साध्यसिद्धावधिकमिदमुपादान विशेषवचनम्।
अनेनानुमानेनाभिमतेश्वराकारविशेषसिद्धिप्रकारं विशदयति ‘सर्व’ मिति ।
उपादानं-समवायिकारणम् ।
उपकरणं-सहकाररिकारणम् ।
संप्रदानं-कार्यं यद्भोगार्थं सृष्टं, स उपभोक्ता ।
प्रयोजनं-क्रियमाणवस्तुसाध्यं फलम् ।
उपादानादीनां संवेदी-साक्षात्कर्ता यश्चेतनः तेन निमित्तहेतुना क्रियमाणं दृष्टंघटादिकार्यमित्यर्थः ।
मणिको-महाघटः ।
एतद्वाक्येन कार्यत्वस्य सकर्तृकत्वव्याप्यत्वं प्रतिपादितं भवति ।
उपादानादिगोचरापरोक्षज्ञान चिकीर्षाकृतिमत्त्वं कर्तृत्वमत्र विवक्षितम् ।
उपनयनिमने ‘कार्यं चे’ति ।
विमतिपदं सकर्तृकत्वाकर्तृकत्वविप्रतिपत्तिविषयीभूतम् ।
अनेन सन्दिग्धसाध्यकत्वलक्षणं पक्षत्वमवन्यादेरुपपन्नमिति सूचितम् ।
स्वरूपासिद्धिमाशङ्क्य परिहरति ‘न चे’ ति ।
पक्षे मह्यादाविति शेषः ।
आकृतिमत्त्वादिभिः क्षित्यादेः कार्यत्वसिद्धिरिति भावः ।
पक्षधर्मताबलात्कर्तृविशेषसिद्धिरिति प्रतिपादनार्थं कार्यसामान्योपादानादि निर्धारयति ‘इहे’ ति ।
अवयवत्वासमानाधिकरणावयवित्वामन्त्यावयवित्वम् ।
अन्त्यावयवित आरभ्याद्यावयविद्व्यणुकमभिव्याप्य सर्वमवयविकार्यद्रव्यजात मवयवसंयोगविशेषजनितं प्रसिद्धमित्यर्थः ।
उत्तरोत्तरापेक्षया पूर्वपूर्वकार्येऽवयवाल्पत्वं ‘क्रमनिहीयमाने’-त्युच्यते ।
अवयवसंश्लेषविशेषजनितत्वं च क्वचित्प्रत्यक्षादनुमानाच्चक्वचित् सिद्धमिति भावः ।
अन्त्येपादनत्वम् अवयवित्वासमानाधिकरणावयवत्वम् ।
चतुर्विधाः परमाणवः पृथिवीजलज्वलनपवनपरमाणवः ।
प्रपञ्चस्य-कार्यद्रव्यप्रपञ्चस्य ।
‘तेषा’ मिति ।
परमाणूनामादिपरिस्पन्दःसर्गाद्यकालीनारम्भकसंयोगजनकक्रियालक्षणः अदृष्ट वदात्मसंयोगरूपासमवायिहेतुज इत्यदृष्टानामुपकरणत्वमित्यर्थः ।
आद्यपरिस्पन्दस्यादृष्टहेतुकत्वं च कणादमुनिना सूत्रितम् ‘अग्रेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनमणूनां मनसश्चाद्यं कर्मादृष्टकारित’ मिति ।
‘प्रयोजन’मिति ।
सृष्टिप्रयोजनमनवधिर्जीवोपकार प्रकारभेदः सृज्यपदार्थनिर्वाह्यनानाविधार्थक्रियारूपः नानाविधभोगनिष्पादन लक्षणोऽसङ्ख्यात इत्यर्थः।
सम्प्रदानं च साक्षात्परम्परया वा कार्यपदार्थनिष्पादितं भोगमनुभवन्तो जीवराशय इत्याह ‘तदुपभुज’ इति ।
एवं सर्वविधपरमाणुसर्वजीवादृष्टसर्वजीवोपकारप्रकाररूपनिखिल जगदुपादानोपकरण- प्रयोजनसाक्षात्कर्तृत्वादि जीवेषि न स भवतीति कैमुतिकन्यायेन साधयितुं स्वीयादृष्टासाक्षात्कर्तृत्वमपि न तेष्वित्याह ‘न चामी’ इति ।
तदतिरेकी-जीवविलक्षणः ।
‘यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः’इति न्यायसूत्रम् ।
यत्सिद्धिमन्तरा प्रकृतोऽर्थों न सिध्यति, तथाभूतः प्रकृतार्थसिद्धेर्नान्तरीयकतया सिध्यन्नर्थोऽधिकरणसिद्धान्तसिद्ध इत्यर्थः ।
तथाचनिखिलार्थसाक्षात्कारित्वाद्यन्तरा कर्तृः क्षित्यादेः सकर्तृकत्वरूपः प्रकृतार्थो न सिध्यतीति विशिष्टकर्तृलाभोऽधिकरणसिद्धान्तनयेनेति फलितम् ।
तार्किकाभिमतमीश्वरानुमानप्रकारमिमं निरस्यन्ति मीमांसकाः ‘तदिद’ मित्यादिना ।
दृष्टाजातीयस्यैव साधकमनुमानं, न त्वतीन्द्रियार्थस्येत्यनुमानवृत्तमजानतः स्वबुद्ध्यत्प्रेक्षिताव्यवस्थिततर्काभास मूलमिदंविलक्षणपुरुषसाधनमित्यर्थः ।
तर्कस्वभावानभिज्ञस्य तार्किकत्वव्यपदेशःसुशोभन इति चोपहासो गर्भितः ।
परोक्तस्य तर्कस्याभासत्वमुपपादयितुमुपक्रमते ‘तथाही’ ति ।
‘किमिद’ मिति ।
तनुमुवनादेः-पिण्डब्रह्माण्डादेः ।
पिण्डो देहः ।
तथाच पुराणरत्ने ‘पिण्डः पृथग्यतः पुंसः शिरःपाण्यादिलक्षणः’इति ।
पक्षसपक्षयोरिति वाऽर्थः ।
एकचेतनायत्तत्वं जगतो विकल्प्य दूषयति ‘किमस्ये’ ति कारिकया ।
आयत्तं-कार्यत्वेन संबद्धम् ।
एकचेतनहेतुकत्वं किं भुवनजन्मनः साध्यते, उत भुवनस्थितेः, आहोस्विद्भुवनप्रवृत्तेः ? आद्ययोः कल्पयोरन्वयदृष्टान्तो नीरोगदेहः साध्यविकल इत्यर्थः ।
तथाच व्याप्त्यसिद्धिर्व्यभिचारश्चेति भावः ॥ 6 ॥युक्तं चैतत्-यदुभयवादिसिद्धानामेव चेतनानां कर्तृत्वाभ्युपगमः लाघवात् ।
न चोपादानाद्यनभिज्ञतया तत्प्रतिक्षेपः ।
दृष्टान्ते साध्यशून्यत्वमुपपादयति ‘न खल्वि’ त्यादिना ।
स्वशरीरोत्पत्तिस्थित्योः स्वस्याप्यदृष्टद्वारा हेतुत्वं वाच्यम् ।
तच्छरीराधीनोपभोगोपकारभाजामन्येषां च तत्रादृष्टद्वारा हेतुत्वं तद्देहिन इवास्तीति एकचेतनायत्तोत्पत्तिस्थितिकत्वं दृष्टान्ते नास्तीत्यर्थः ।
द्वितीये कल्पे स्थितिशब्दार्थविकल्पनमुखेन दूषणान्तरमप्याह ‘अपि चे’ ति।
शरीरावयवुन इति कर्मधारयवृत्तम् ।
आरम्भकसंयोगेऽवयवसमवेते दृढे सति स्वावयवसमवेतत्वलक्षणाऽवयविनः स्थितिः शरीरस्य निराबाधा घटादेरिव प्रसिध्यत्येवेति नैवंविधस्थितेश्चेतनापेक्षता ।
प्राणवृत्त्यधीनाशैथिल्यावस्थानलक्षणा शरीरधृतिः परं जीवनयोनियत्नहेतुकत्वाद्भवेन्नाम चेतनापेक्षा दृष्टान्ते व्यापकत्वेन साधनस्य गृहीतैवंविधा स्थितिस्तु न पक्षे मह्यादौ ।
तथाच कार्यत्वावच्छेदेन एवंविधैकचेतनाधीनास्थितिकत्वसाधनेंऽशतो बाध इति भावः ।
तृतीये कल्पे एकचेतनायत्तप्रवृत्तिकत्वेऽनैकान्यमाह ‘एके’ ति ।
सरभसप्रयत्नः-तीव्रप्रयत्नः ।
बहुजनैकसाध्यचलनप्रवृत्तिमति महोपलादौसाध्यशून्ये सत्त्वादनेकान्तता हेतोरित्यर्थः ।
हेतोर्व्यर्थविशेषणत्वं चाह ‘आरब्धत्वादेवे’ ति ।
जन्यत्वस्यैव हेतुत्वे व्यभिचाराप्रसक्तेरचेतनोपादाननिरूपितत्वस्य तद्विशेषणस्य वैयर्थ्यम् ।
तथा च व्याप्यत्वासिद्धिः ।
अधिकं नाम निग्रहस्थानं च प्रयुञ्जत इति भावः ।
यद्यपि समवेतद्रव्यत्वरूपे फलिते हेतौ न वैयर्थ्य प्रसक्तिः ।
अथापि यथाश्रुतहेत्वभिप्रायेण व्यर्थविशेषणत्वाबिधनम् ।
फलितेऽपि हेतावनैकान्यं तु दुर्वारमेवेति दिक् ।
नन्वनैकान्त्यप्रसङ्गादेकत्वविशेषणं त्यज्यते ।
चेतनाधीनत्वमेव तु साध्यत इति चेत्तत्राह ‘चेतन’ ति ।
यद्यप्युक्तहान्याद्येवं वदतः प्रसज्यत एव ।
अथापि तस्यक्तिदोषत्वत्तदुपेक्ष्यार्थदूषणमेवात्रोच्यते ।
‘ही’ ति प्रसिद्धौ ।
अस्माकमपि कार्यसामान्यस्य जीवादृष्टहेतुकत्वेन चेतनाधीनत्वस्य सम्प्रतिपत्तेः चेतनाधीनत्वमात्रसाधने जीवैः स्दिधसाधनम् ।
भवतश्चार्थान्तरमिति भावः ॥ 7॥अद्यवदेव विश्वम्भरादयः कर्मप्राप्तागन्तुकोपचयापचयैकदेशशालिनो न युगपदेव निरवशेषविलयजननभागिन इत्यन्तिमपरमाणुसाक्षात्कारो न कर्तृभावोपयोगी ।
नन्वदृष्टद्वारा चेनप्रयोज्यत्वमात्रं न साध्यते।
किं तु चेतनकर्तृकत्वम् ।
कर्तृत्वं च क्षित्यादौ जीवानां नसंभवतीति चेत् ; एवं सति द्वितीयानुमान एव विश्रान्तिः ।
तत्रापि सिद्धसाधनमेवेत्याह’युक्त’मिति ।
लाघवपक्षपातित्वादनुमानस्य सकर्तृकत्वानुमानस्यापि संप्रतिपन्नजीव मात्रविश्रान्तिरिति भावः ।
ननु जीवस्य जगत्कर्तृत्वमनुपन्नम् ।
अनुपपन्ने चार्थे लाघवमकिञ्चित्करम् ।
तदीश्वरसिद्धिरप्रत्यूहेति शङ्कां प्रतिक्षिपति ‘न चोपादाने’ति ।
जीवस्याप्युपादानादिसाक्षात्कार उपपन्न एवेत्याह ‘उपदान’मिति ।
अयमाशयः-तत्तद्वैदिककर्मणोऽतिशयिततत्तत्फलसाधनत्वमवगत्य वेदाद्वैदिकानां वचनाच्च तदनुग्रहत एवानुष्ठाय तत्तत्कर्म यथाविधि समधिगतसामर्थ्यविशेषा जीवविशेषा एव पृथिव्यादिभूतचतुष्टयं भौतिककार्यवर्गोपादानभूतं सहकारिवर्गं च साक्षात्कृत्योपादाय च जगत्सृजेयुरिति न कर्त्रन्तरकल्पनावकाश इति ।
यत् यस्मात्, क्षमन्ते, अतोन तत्प्रतिक्षेप इत्यन्वयः पूर्वेण ॥ 8 ॥न खलु कुलालादयः कुम्भादिकार्यमारभमाणास्तदुपादानोपकरण- भूतमृद्दण्डचक्रादिकार्योत्पादनशक्तिं साक्षात्कृत्य तत्तदारभन्ते ।
यदि परं शक्तिमविदुषामभिलषितसाधने तदुपादानादिव्यवहारोऽनुपपन्नः, इह तु-ननु प्रलये पृथ्व्यादेराद्यद्व्यणुकं विनाशाज्जीवानां च तदा करणकले वरविधुरत्वेन ज्ञानोपादानसामर्थ्यविरहान्न तेषां सर्गाद्यजगत्सृष्टिकर्तृत्वं संभवतत्यत्राह ‘अद्यव’ दिति।
न पृथिव्यादीनां सर्वाशेन प्रलयोत्पादौ ।
किंतु वर्तमान इव काले भागभेदेनैव तौ क्रमशः ।
आगन्तुकैकदेशवृद्धिह्रासलक्षणौ ।
तथाच जीवेष्वेव केषाञ्चित्साधनविशेषसमासादितज्ञानशक्त्यतिशयानां हीनांशप्रपूरणात्मकं सर्जनं पृथिव्याद्युपादानसाक्षात्कारादितः संभवेदेव विश्वामित्रादीनामिवेत्यर्थः ।
निरवशेषप्रलये न पुनःसर्गः ।
सावशेषलये तु जीवविशेषाणां तत्तद्भागभेदकर्तृत्वं संभविष्यतीति नेश्वरकल्पनावसर इति भावः।
नन्वदृष्टमप्यस्ति सहकारि पुण्यपापरूपम् ।
तत्साक्षाताकरमन्रा च न तदनुगुणकार्यसर्जनं संभवेत् ।
तत्साक्षात्कारो न च जीवानां घटत इत्यत्राह ‘कर्मणः ’ इति ।
अन्यकर्तृकयागादिधर्माणां चौर्याद्यधर्माणां च साक्षात्कारे क्षमा एव साक्षिभूताजीवविशेषाः ।
शास्रतश्च तत्तत्कर्मणः फलविशेषजनन सामर्थ्यमधिगतवन्तस्ते ।
तथाच तत्तदनुगुणं सृजेयुर्नाम।
शक्तिमतः साक्षात्कारः शक्तेर्ज्ञानमात्रं च कर्तृत्वोपयोगि, नतु शक्तेरपि साक्षात्करणम् ।
स्वस्य पुनः ।
करणसामर्थ्यं चापेक्षितम् ।
तथाच पुण्यपापशब्दितकर्मशक्त्यसाक्षात्कारेऽपि नोपरोधः कर्तभावस्येति भावः ॥ 9 ॥अपि च तदेव चेतनकर्तृकं जगति परिदृश्यते, यदेव शक्यक्रियं शक्यज्ञानोपादानादि च ।
न च तथा महीमहीधरमहार्णवादीति कथमिव तत्तत्कार्यत्वम् ? कथन्तरां च तदुपादानोपकरणादेः साक्षात्कारगोचरता ? यादृशं हि कार्यमुपादानाद्यभिज्ञपूर्वकमवगतं घटमणिकादि, तादृशमेव हि तथाविधबुद्धिमद्धेतुकत्वानुमानाय प्रभवति ।
अपि चानीश्वरेण परिमितशक्तिज्ञानेन विग्रहवताऽनवाप्तकामेन कृतमवगतं घटादिकार्यमिति तथाविधं बोद्धारमुपस्थापयन् हेतुरभिमतपुरुष सार्वज्ञ्यसर्वैश्वर्यादिविपर्ययसाधानाद्विरुद्धः स्यात् ।
न चैवं सति सर्वानुमानव्यवहारोच्छेदप्रसङ्ग शङ्कितव्यः ।
प्रमाणान्तरगोचरे हि लिङ्गिनि लिङ्गबलादापततो विपरीतविशेषांस्तत्प्रमाणमेव प्रतिरुणाद्धि ।
इह पुनरतिपतितसकलमानान्तरकर्मभावे सर्वनिर्माणनिपुणे सिषाधयिषिते यावन्तोऽन्वयव्यतिरेकावधारिताविनाभावभाजोधर्मास्तानप्यविशेषेणोपस्थाप यति ।
उपपादयत्येतदेव निदर्शनतः ‘ने’ ति ।
तुशब्दार्थेऽयं प्रयुक्तोऽयं ।
यद्वा इहेत्यतः पूर्वं इति, सत्यम्, इति योज्यम् ।
‘आगमा’ दिति।
तेन-कर्मनिष्ठशक्तीनां शास्रतोऽवगमेन, कर्मभिः-नानाजीवीयकर्महेतुतः, कर्मानुगुणमिति यावत्, आत्मानः-शक्तिमन्तो जीवाः, पृथक्-विभागेन, तत्तदेकेशभेदेनेति यावत्, सर्वं जगत्कार्यद्रव्यजातम्, निर्मिमताम्-सृजन्तु इत्यर्थः ॥ 10 ॥अवाप्तकामत्वान्न तावदात्मार्थे सृजति ; प्रलयसमये प्रलीनसकलकरणकलेवरादिभोगोपकरणतया च चेतनानां दुःखाभावात् दुःखिदर्शनजनितकृपाप्रयुक्तिरपि नास्तीति व्यापकभूतस्वार्थकारुण्य निवृत्तेर्व्याप्यभूतया प्रेक्षावत्प्रवृत्त्याऽपि निवर्तितव्यम्।
अथ कार्यत्वहेतौ दोषानाह ‘अपिचे’ त्यादिना ।
तत्रादौ स्वरूपासिद्धिरुपाधिमुखेन व्याप्यत्वासिद्धिश्च कीर्त्येते ।
शक्या क्रिया-करणं यस्य तच्छक्यक्रयम् ।
कर्तृं शक्यमिति यावत् ।
शक्यं ज्ञानं यस्य तच्छक्यज्ञानम्, शक्यज्ञानामुपादानादि यस्य कार्यस्य तच्छक्यज्ञानोपादानादि ।
एवंभूतमेव कार्यं सकर्तृकं भवितुमर्हतीत्यर्थः ।
चेतनकर्तृकत्वरहितं कार्यं नास्तीति चानुसन्धेम् ।
‘न चे’ ति ।
तत्तत्कार्यत्वम्-तस्य तस्य कार्यत्वं क्षित्यादेरशक्यक्रियस्येत्यर्थः ।
अनेन स्वरूपासिद्धिर्भागासिद्धिर्वाक्ता ।
‘कथन्तरा’ मिति ।
उपादानोपकरणपरमाण्वदृष्टादेःसाक्षात्कर्तुमशक्यतयोपादानादिसाक्षात्कारचिकीर्षाकृतिमत्पुरुषपूर्वकत्वं कथन्तरां घटते क्षितिद्व्यणुकादेरित्यर्थः ।
क्षित्यादेः कार्यत्वे चेदाग्रहः , इष्यताम् ।
सकर्तृकत्वं तु अुपपन्नमेवेति भावः ।
सोपाधिकत्वमाह ‘यादृश’ मिति ।
यादृशं-कृतिसाध्यत्वार्हं ज्ञेयत्वार्होपादानादिकं च ।
अनेन शक्यक्रियत्वं शक्यज्ञानोपादानदिकत्वं चोपाधिरित्युक्तं भवति ।
अस्य व्यभिचारोन्नायकत्वं सत्प्रतिपक्षोन्नायकत्वं वा बोध्यम् ।
एवं कार्यत्वहेतोरभिमतकर्तृपूर्वकत्वासाधकत्वमुक्त्वाऽनभिमतापादकत्वं चाह ‘अपि चे ‘ति ।
सपक्षे हि घटादौ विग्रहवत्त्वस्वार्थापेक्षत्वानीश्वरत्वादिविशिष्टकर्तृपूर्वकत्वेन कार्यत्वस्य व्याप्तिर्गृहीता ।
विशिष्टसाध्येन गृहीतव्याप्तिकं च शरीरादि विशिष्टमेव कर्तारं साधयेत् पक्षे ।
ते चाकारा अभिमतविपरीता इति विरुद्धव्याप्यत्वाद्धेतोर्विरुद्धत्वमिति भावः ।
नन्वेवं सपक्षे महानसादौ कारीषत्वादिमता वह्निना गृहीतव्याप्तिना धूमेन पक्षे पर्वते कारीषादिवह्नेरेव साधनं स्यात् ।
स च तत्र नास्तीति अप्रामाण्यप्रसङ्गोऽनुमानमात्रस्येत्यत्राह ‘नचैव’ मिति ।
‘प्रमाणान्तरे’ति ।
साध्यस्य प्रमाणान्तरग्रह्यत्वे लिङ्गबलात्प्रसक्तानां विरुद्धविशेषाणां प्रत्यक्षादिनाऽपवदनात् वह्निमात्रे प्रामाण्यमनुमानस्यव्यवस्थाप्यं भवेन्नाम ।
प्रमाणान्तरागोचरे तु साध्ये लिङ्गबलप्रसक्तानां विपरीतविशेषाणामपवादकाभावात्तथैवावस्थानं स्यादित्याशयः ।
अन्वयव्यतिरेकसहचारग्रहाद्यद्यद्धर्मावच्छिन्नकर्तृपूर्वत्वेन कार्यत्वस्य व्याप्तिर्गृहीता, ते कुलालाद्यनुगता अनीश्वत्वसंसारित्वादयो भवन्ति व्यापकतावच्छेदकत्वेन गृहीताः ।
व्यापकतावच्छेदकधर्मप्रकारेण साध्यानुमापकत्वस्वाभाव्याच्च लिङ्गस्यानीश्वरसंसारिकर्तृमात्रपर्यवसायित्वं कार्यत्वहेतुकसकर्तृकत्वानुमानस्येति ‘यावन्त’ इत्यादिना विवक्षितम् ।
ईश्वरस्य जत्कर्तृत्वासंभवादपि निरुक्तानुमानमनीश्वर एव विश्राम्यतीत्यभिप्रयन्नाह ‘अपचे’ ति ।
स्वार्थः-स्वप्रयोजनम् ।
कारुण्यम्-परप्रयोजनसम्पादनोपयोगिगुणविशेषः परार्थपर्ययवन्नः ।
स्वार्थेच्छायाः कारुण्यस्य वा सत्तया व्याप्यं बुद्दिमत्प्रवृत्तिसामान्यमिति पूर्वार्धस्यार्थः ।
सिषाधयिषितस्येश्वरस्य त्ववाप्तकामत्वान्न स्वार्थः साधनीयः कश्चन सम्भवति सृष्टिहेतुः,न वा कारुण्यम्, परदुःखदर्शनाधीनोद्धोधत्वात्तस्य प्रलये च परेषां दुःखस्यैवाभावात् ।
अतःस्वार्थाभिसन्धिसमुद्बुद्धकारुण्यान्यतररूपव्यापकनिवृत्त्या जगत्करणरूपप्रवृत्तेर्निवृत्तिरित्युत्तरार्धस्यार्थः ॥ 11 ॥न चोपादानादिसाक्षात्कारिण एव कर्तृत्वमित्यपि नियमः ; उपीदानमुपकरणं चाविदुष एवात्मनो ज्ञनादिषु कर्तृत्वात् ।
कारिकार्थमेव प्रपञ्चयति ‘अवाप्ते’ त्यादिना ।
प्रकारान्तरेण कारुण्यस्यासंम्भवमाह ‘सुखैके’ ति श्लोकार्धेन ।
प्रत्युतः दुःखालयं जगत्सृजतो न कारुण्यलेशोऽपि घटत इति भावः ।
नन्वीश्वरः कारुण्येनैव स्रष्टुं प्रवृत्तं ।
अथापि सृज्यकर्मापेक्षया सर्जनान्न नैर्घृण्यादिप्रसङ्ग इत्यत्राह ‘तत्कर्मे’ ति ।
तथा सति कर्मपारतन्त्र्यप्रसङ्गादीश्वरत्वं भज्येतेति भावः ।
ऊशअवरो यदि जगत्कर्ता स्यादनवाप्तकामत्वादिमान्् स्यादिति प्रतितर्कोऽत्राऽनुसन्धेयः ।
प्रतिप्रयोगस्त्वग्रे वक्ष्यत एव ॥ 12 ॥अतः - असिद्धत्वाद्विरुद्धत्वादनैकान्त्याच्च वर्णितात् ।
कार्यत्वहेतोर्जगतो नयथोदितकर्तृता ॥ 13 ॥प्रयोगश्च भवति-महीमहीधरादि कार्यंन भवति, प्रसिद्धकार्यविलक्षणत्वात्, गगनवत् ; अशक्यदर्शनोपादानोपकरणत्वाद्वा, व्यतिरेकेण घटादिवत् ।
परमाणवोन प्रत्यक्षाः निरतिशयसूक्ष्मद्रव्यत्वात् तथैव घटादिवत् ।
विमतिविषयः कालो न लोकशून्यः, कालत्वादिदानीन्तनकालवत् ।
तनुभुवनादीश्वरकर्तृकं न भवति कार्यत्वात्तद्वदेव ।
ईश्वरः कर्ता न भवति प्रयोजनरहितत्वादशरीरत्वाद्वा मुक्तात्मवदिति ।
अथानैकान्त्यमप्याहोपादानाद्यभिज्ञकर्तृपूर्वकत्वसाधने ‘न चोपादानादी’ ति ।
ज्ञनादिविशेषगुणोपरागेणैवात्मनः प्रत्यक्षत्वात् ज्ञानार्थप्रवृत्तिवेलायां नात्मनो ज्ञानोपादानभूतस्वात्मसाक्षात्कारित्वं नियमतोऽस्ति ।
न वा तदुपकरणादृष्टमन आदिसाक्षात्कर्तृत्व म् ।
ज्ञानार्थ प्रवृत्तेर्ज्ञने कर्तृत्वं समवायित्वं च परमस्ति ।
तथा चोपादानाद्यभिज्ञपूर्वकत्वाभाववति ज्ञानादै कार्यत्वस्य सत्त्वाद्व्यभिचार इत्यर्थः।
निरुक्तेश्वरानुमानदूषणानि सङ्गृह्णाति ‘असिद्धत्वा’ दिति ।
कार्यत्वस्य क्षित्यादावसिद्धिरशक्यक्रियत्वादिनाऽकार्यत्वानुमानात्तस्य अनीश्वरत्वानवाप्त कामत्वशरीरित्वादिविपरीताकारक्षेपकत्वात् क्षित्यादौ कर्तुः सिषाधयिषितस्य कार्यत्वस्य विरुद्धत्वम् ।
अभिमतविपरीताकाराक्षेपकत्वं हेतोर्विरुद्धत्वमिति हि प्राचां परिभाषा ।
अनैश्वर्याद्यापादकत्वं चानैश्वर्यादिविशिष्टकर्तृकत्वेन व्याप्तेर्घटादौ कार्यत्वहेतोर्गृहीतत्वादेव ।
किञ्चचेतनजन्यत्वमात्रे साध्येऽदृष्टद्वारा जीवजन्यत्वस्य कार्यमात्रेऽभिमतत्वात्सिद्धसाधनम् ।
तदुपादानादिसाक्षात्कर्तृकर्तृपूर्वकत्वं साध्यमित्युररीकार्यम् ।
तत्र चानुपदोक्तमनैकान्त्यं स्थितं ज्ञानाद्यन्तर्भावेन ।
एवमसिद्ध्यादिदोषदुष्टत्वात्कार्यत्वस्य तेन क्षित्यादौ उपादनोपकरणादिसाक्षात्कर्तृ कर्तृपूर्वकत्वं न साधयितुं शक्यत इत्यर्थः ॥ 13 ॥न चेदृश एव सन्निवेशः कार्यः नेतर इत्यवयवसन्निवेशविशेषप्रतिनियतं रूपभेदमुदीक्षामहे ।
यत्तु शक्यक्रियं शक्यज्ञानोपादानोपकरणं च क्रियत इत, तदस्तु नाम ।
किन्तु ते क्रियाज्ञानशक्ती क्रियाज्ञानाभ्यामेव समधिगमनीये ।
ते च क्षित्यादिषु यथोक्तसाधनबलसमुपस्थापिते इति न विशेषः प्रसिद्धप्राकारगोपुरादि कार्येभ्यस्तनुभुवनादेः ।
नचैतावानेव क्रियागोचर इति विषयनियमः कश्चित् क्रियाय दृष्टः ; येनेदमशक्यक्रियमध्यवस्येम ।
सिद्धे च कार्यत्वे तदुपादानादिसाक्षात्करणतदधिष्ठानतत्प्रेरणनिपुणः पुरुषविशेष सिध्यत्येव ।
अधिष्ठानं च तत्प्रवृत्त्यनुगुणसङ्कल्पवदीश्वरसन्निकर्षः, क्षेत्राज्ञेनेव स्वशरीरादौ ।
स च द्रव्यैः संयोगलक्षणः, तद्गुणैस्तिसंयुक्तसमवायरूपः ।
प्रवृत्तिश्च परमाणूनां परिस्पन्दलक्षणा ; धर्माधर्मयोस्तु फलोदयानुकूलतादृशदेशकालादिसहकारिसहितता ।
ताभ्यां धर्माधर्माभ्यामेव फलम्, चेतनानधिष्ठितानां सर्वेषामेतेषामचैतन्येनाकिञ्चित्करत्वात् ।
न हि चेतनेन वर्धकिनाऽनधिष्ठिता वासी ।
देशकालादिसहकारि शतसमधिगमेऽपि यूपादीन्यापादयितुमलम् ।
बीजाङ्कुरादयस्तु पक्षान्तर्भूता इति तैर्व्यभिचारवचनमनभिज्ञतयैव श्रोत्रियाणाम् ।
एतेन सुखादिभिर्व्यभिचारोऽपि प्रत्युक्तः ।
न चोभयवादिसिद्धतामात्रेण क्षेत्रज्ञानामेवेदृशाधिष्ठातृत्वकल्पनमुचितम् ; तेषां सूक्ष्मव्यवहितादिदर्शना शक्तेर्निश्चितत्वात् ।
दृष्टानुसारिणी हि सर्वत्र कल्पना ; न दृष्विरोधिनी ।
न चैवमीश्वरस्याशक्तिर्निश्चिता ; प्रमाणान्तरतस्त(द)त्सिद्धेः ।
यथोदितप्रमाणबलेन सिध्यम् सांसिद्धिकसर्वार्थदर्शनतत्प्रेरणशक्तिसम्पन्न एव सिध्यति ; कार्यत्वस्य समर्थकर्तृपूर्वकत्वेन प्रतिबन्धात् ।
यत्तु परिमितशक्तिज्ञानानैश्वर्याद्यापदनाद्धर्मविशेषविपरीसाधनत्व मुद्भावितम्, तदतिस्थधीयः, अप्रयोजकत्वात्तेषम् ।
न हि किञ्चित् क्रियमाणं कर्तुरर्थान्तरविषयमसामर्थ्यमज्ञानां वा स्वोत्पत्तेऽपेक्षते ; स्वसभ्पादनसमर्थकर्तृमात्राक्षेपात् केवलव्यतिरेकासिद्धेः ।
तावतैवोपपद्यमाने कार्योदये सम्बन्दिनोऽकिञ्चित्करस्यार्थान्तरविषयस्याभावस्य हेतुत्व कल्पनानुपपत्तेः ।
अपि च किं तदितरमस्तवस्तुवि, यमज्ञानादि व्यापकम्, उत कतिपयगोचरमिति विवेचनीयम् ।
न तावदशेषविषयम्, अनुपलब्धेः ।
न खलु कुम्भकारः कुम्भातिरेकि किमपि न विजानाति ।
अथ कतिपयविषयम् ।
तदपि न, अनियतविषयतया तस्य तस्यव्यभिचारदर्शनात् ।
न चास्तिकिञ्चिद्व्यवस्थितम्, यदविद्यादिमानेव कर्तृतामनुभवति ।
न च शरीरिणैव कर्त्रा भाव्यम्, शरीरग्रहणेनैवानैकान्त्यात् ।
न खलु शरीरविशिष्टस्सन्नेवायमात्मा शरीरमुपादत्ते,अयोगिनोयुगपदनेकशरीर ग्रहणायोगात्।
पूर्वद्हपरित्यागेन देहान्तरप्रापककर्मप्रेरितप्राणसहाय एव देहान्तरं प्रविशतीत्युपपादितमात्मचिन्तायाम्।
किञ्चात्मनः शरीरमधितिष्ठतोऽधिष्ठानक्रियातकर्मभूतस्य देहस्याधिष्ठातृदशा (देहा)नुप्रवेशोऽनुपपन्नः, युगपदेकक्रियायामेकस्य कर्मकर्तृत्वविरोधात् ।
अधितिष्ठासितदेहसंयोगवत एव तत्प्रवृत्त्यनुगुण प्रयत्नयोगलक्षणमधिष्ठानं दृष्टमिति चेत् ; अस्त्वेकतत्त्व (सत्व)सम्बद्धस्याधिष्ठानानुपपत्तेः प्रेर्यवस्तुसम्भन्धिना प्रेरकेण भवितव्यमिति ; न पुनर्देहसम्बन्धेन (न्धिना) भाव्यमिति ।
कुतो निर्णयः ? इत एव, यतोऽन्यदप्यधिष्ठीयमानं मानजण्डादि स्वसम्बन्धिनौवाधिष्ठीयते ।
तेनाधिष्ठानक्रियापेक्षिताधिष्ठेयपदार्थसम्भन्धमात्रातिरेकेण देहसम्बन्धो नामपरो नादर्तव्यः अस्ति चेश्वरस्यापि जगदुपादानोपकरणैस्सम्बन्ध इत्युक्तमेव ।
अथ स्वदेहव्यतिरिक्त वस्तुनि प्रवृत्तिविशेषकरत्वं देहद्वारेणैव ।
दृष्टं हि दण्डचक्रादिषु करसंयोगादिना कुलालादेः प्रवर्तयितृत्वमित्युच्येत ; तदपि न ; अभिध्यानमात्रेणैव परशरीरगतगरनिरसनविसारणदर्शनात् ।
कथमसति शरीरे परप्रेरणात्मकः सङ्कल्प इति चेत् ; किं शरीरं सङ्कल्पयति, येन तदभावे न भवेत् ? ।
करणमिति चेन्न; मनसः करणत्वात् किमस्तीश्वरस्य मनः ? बाढम् ।
नन्वेवं वुग्रहधर्माधर्मानैश्वर्यादयः साधारणधर्माः प्रादुःष्युः ।
मैवम् ; कार्यत्वाक्षिप्तसमर्थकर्तृमत्त्वात् (त्त्वार्थ) द्रढिम्नैवापास्तत्वात् ।
मनसो नित्येन्द्रियतया देहापगमेऽपि सम्बन्धाभ्युपगमादनैकान्तिकश्च ।
यावद्धि दृष्टानुगुणं व्याप्त्युपयोगि, तावदनुज्ञायते ।
नचास्मदादेर्मनसाऽप्यचिन्त्यरचनस्यापर्यन्तविस्तारस्य महाभूतभौतिकप्रपञ्चस्य प्रादेशिकशरीरकः किञ्चिज्ज्ञः पुण्यपापपरवशगतिरलं निर्माणायेत्यपरिमितज्ञानैश्वर्यशक्तिः शरीराद्यनपेक्षः सङ्कल्पादेव सकलभुवननिर्माणक्षमः कर्ता सिद्धः ।
ईदृशेन कर्त्रा घटादिषु कार्यत्वस्य सम्बन्धो न दृष्ट इति चेत् ; अतिगहनगिरितटाधिष्ठानेनातिप्रकृष्टादृष्टचरेन्धननिवहसम्बन्धिना हुतवहविशेषेण महानसादौ धूमस्य वा किं सम्बन्धो दृष्टः ? येन धूमविशेषदर्शनात् गिरिशिखरे तथाविधाग्निरनुमीयते ।
यादृशो धूमो यत्रावगतः तत्रैव तादृशस्तत्सम्पादनसमर्थौदृष्टान्तभूमावपरिदृष्टोऽपि सामान्यव्याप्तिबलेन पक्षध्रमतावशात् सिध्यतीतित चेत् ; तदिदमस्माभिरभिधीयमानं किमिति न हृदयमधिहोहति भवताम् ।
इमापि कार्यत्वं समर्थकर्तृपूर्वकत्वेन घटादिषु विदितसम्बन्धनियमं क्षित्यादिषु दृश्यमानं स्वसम्पादनसमर्थमदृष्टपूर्वमेव बुद्धिमत्कर्तारमुपस्थापयति ।
यथैव हि देशकालेन्धनपरिमाणादिविशेषानादरेण धूमस्य स्वोदयानुगुणहुतवहमात्रेण सम्ब्न्धनियमः,तथैवानीश्वरत्वाकिञ्चिज्ज्ञत्वशरीरित्वपुण्यपापपरवशत्वमनुष्यत्वादि- विशेषप्रहाणेन कार्यस्य स्विनिर्माणसमर्खबुद्धिमत्कर्तृमात्रेण सम्बन्धनियमनिश्चय इति न कश्चिद्विशेषः ।
अपि च विभुद्रव्यसंयोगिनः परिस्पन्दवतश्च सर्वत्र स्पर्शवत्त्वाव्याभिचारेऽपि ज्ञानसुखादिनित्यद्रव्यविशेषगुणानुमितात्मसंयोगिनो मनसः कथमिव स्पर्शरहितत्वम् ? कथं न वायवीयद्रव्यस्यमहिमगुणशालिनो नियताधिष्ठानस्पार्शनत्वनियमदर्शनेऽपि त्वगिन्द्रिये तद्विपर्ययः ? तैजसस्य वा रूपस्पर्शयोरन्यत्तरस्य वा प्राकट्यनियमेऽपि रूपोपलम्भसाधनताऽनुमिततैजसभास्य चक्षुषो नियमेन तदुभयानुद्भवाभ्युपगमः ? ।
अथ कार्यदर्शनानुमितसद्भावानां तैजसादिभावेऽपि तत्तद्विशेषाणां योग्यानुपलब्धिबाधितत्वात् तदभ्युपगमेऽनेकनियमभङ्गप्रसङ्गाच्च तथाऽभ्युपगमः, हन्त तर्हि प्रकृविषयेऽपि प्रसढञ्जितधर्मविशेषाणामनुपलम्भबाधाविशेषात् अनेकनियमदर्शनविघातप्रसङ्गाच्च तथाऽभ्युपगम इति सर्वं समानमन्यत्राभिनिवेशात् ।
दृश्यन्ते हि नीतयः ।
यथा-विवादास्पदं परमाण्वादि प्रेक्षावप्रेरितं चेष्टते, अचेतनत्वात् ; यदचेतनं तत्तथा, यथा तथाविधं कन्दुकादि ।
तथा विवादाध्यासिता बाह्याभ्यन्तरप्रवृत्तय-प्रकृत्युपकरणप्रत्यक्षपूर्विकाः कार्यत्वात्तद्वदेव ।
प्रतिप्रयोगानाह ‘प्रयोगश्चे’ ति ।
अशक्यदर्शनोपादानत्वमुपादयति ‘परमाणव’ इति ।
तथैव-व्यतिरेकेणैव ।
कार्यत्वस्य पक्षे क्षित्यादौ असिद्धिसाधनाय प्रयोग उक्तः ।
अथ जीवैः सिद्धसाधनत्वसाधनार्थ प्रलयनिरासे प्रयोग उच्यते ‘विमती’ ति ।
सति हि प्रलये सर्गारम्भेस्रष्टृत्वं जीवानां करणादिविधुरत्वान्न घटत इति कर्त्रन्तरं मन्तव्यं भवेत् ।
तत् सर्वकार्यद्रव्यविरहलक्षणः प्रलयो नास्त्येवेति साध्यते़ऽत्र ।
विरुद्धत्वप्रदर्शनार्थः प्रयोगः ‘तनुबुनवनादी’ ति ।
ईश्वरकर्तृकं न भवतीत्यनीश्वरकर्तृकं भवतीत्यर्थपर्यवसायि ।
तद्वदेव-अन्वयेन घटादिवदेव ।
विपरीतपर्यवसायित्वं कार्यत्वानुमानस्योक्तम् ।
अभिमतपर्यवसायित्वाभावं च स्फोरयति ‘ईश्वर’ इति ।
ईश्वरःईश्वरत्वाभिमतः ।
अयं च सत्प्रतिपक्षरूपः ।
एवं मीमांसकैद्रूषितमेवेश्वरानुमानं तार्किकप्रक्रियामेवावलम्ब्य प्रायशो व्यवश्थापयितुमुपक्रमते दोषोद्धारमुखेन ‘अत्र ब्रूम’इत्यादिना ।
कार्यत्वम्-उत्पत्तिमत्त्वम् ।
क्षित्यादेः कार्यत्वे हेतवः सभागत्वादयः ।
सभागत्वं-सावयवत्वम् ।
‘वित्त्यादिभ्य’इति प्रचीनमुद्रितपाठस्तु न समीचीनः ।
क्रियावत्त्वं, परिच्छिन्नपरिमाणवत्त्वरूपं मूर्तत्वं च नित्यपरमाणुसाधारणमिति सामानाधिकरण्यसम्बन्धेन महत्त्वविशिष्टं तद्देतूकृतम् ।
सामान्यविशेषः-द्रव्यत्वादि पृथित्वादि च, तचच् केवलं नित्यपरमाण्वादिसाधारणमिति बाह्यप्रत्यक्षविषयत्वेन विशेषितं तद्धेतूकृतम् ।
आत्मनो मानसप्रत्यक्षत्वात्सामान्यविशेषवत्त्वाच्च तत्र व्यभिचार इति बाह्यत्वेन प्रत्यक्षं विशेषितम् ॥ 14 ॥ 15 ॥ननु कार्यत्वमस्तु निरुक्तहेतुभिः ।
तावता सकर्तृकत्वे किमायातम् ? कार्यसामान्ये कर्तुः कारणत्वे मानाभावात्, कर्तां विनापि कारणान्तरत एव क्षित्यादेरुत्पत्तिसम्भवादित्यत्राह ‘न चेदृश’ इति ।
सावयवत्वं ह्यवयवसन्निवेशविशेषरूपाकृतिमत्त्वम् ।
तच्च पुरुशकृतिसाध्यमेव दृष्टमिति विचित्राकारस्य मह्यदेरपि सकर्तृकत्वमेष्टव्यमेव ।
कार्यविशेषत्वमेव सकर्तृकत्वव्याप्यमस्तु ।
स च विशेषो न क्षोण्यादिव्यावृत्त इति तस्यापि सकर्तृकत्वसिद्धिरप्रतिहता ।
किञ्च ‘यद्विशेषयो’रित्यादिन्यायेन कार्यविशेषए कुलालादेः कारणत्वात् कार्यत्वावच्छिन्नेऽपि कर्तृत्वावच्छिन्नस्य कारणत्वमस्त्येवेति कार्यत्वमेव सकर्तृकत्वव्याप्यं क्षित्यादौ कर्तारंसमर्थयतीति भावः ।
यद्वा क्षित्यादि न कार्यं प्रसिद्धकार्यविलक्षणत्वादित्यत्राप्रयोजकत्वमाह ‘न चेदृश’ इति।
कार्यः-कृतिजन्यः, उत्पत्तिमान् वा ।
कृतिजन्यत्वे वा प्रयोजकं क्षोण्याद्याकारव्यावृत्तंघटाद्याकारमात्रवृत्तिधर्मविशेषं न पश्याम इत्यर्थः ।
सति हि तस्मिन् विशेषे प्रसिद्धकार्यवैलक्षण्यस्याकर्तृकर्तृकत्वव्याप्तिः प्रसिध्येत् ।
अन्यथा त्वप्रयोजकत्वमेव अदृष्टकर्तृको राजप्रासादो न कार्यो दष्टकर्तृकघटादिकार्यविलक्षणत्वादित्यादिवदिति भावः ।
ननु शक्यक्रियत्वादिरेव तादृशोविशेषः क्षित्याद्याकृतिव्यावृत्त इतिचेत्तत्राह ‘यत्तु’ इति ।
‘तदस्तुनामे’ ति ।
क्षित्यादौ तादृशविशेषाभावोऽसिद्ध इति हार्दम् ।
ते-क्रियाज्ञाने ।
‘यथोक्ते’ति कार्यत्वहेतुकसकर्तृकत्वानुमानलक्षणेति यावत् ।
अयं भावः - उपादानादिगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यत्वं हि साध्येत मह्यादौ ।
तत्र च तद्विधेयककृतिः, तदुपादानाद्यपरोक्षज्ञानं च घटकमस्त्येव ।
ज्ञानक्रिययोरेवं प्रामाणिकत्वं तदनुगुणसामर्थ्यमपि कल्पनीयमेव जगत्कर्तुरित्यशक्यक्रियत्वादेरसिद्धिरिति भावः ।
क्रियागोचर-कृतिविधेयः ।
‘सिद्ध’ इति ।
प्रामाणिके च कार्यत्वे सति कार्यत्वस्य विशिष्टकर्तृपूकत्वव्याप्तिबलात् क्षित्यादौ कर्तृविशेषसिद्धिरप्रत्यूहैवेति भावः ।
‘तदधिष्ठानतप्रेरणे’ ति कर्मधारयः ।
यद्वा परप्रवृत्त्यनुगुणव्यापारः ।
प्रेरमम् ।
तादृशव्यापारवतः प्रेर्येण सन्निकर्षोऽधिष्ठानमिति भिदा ।
एवं कार्यत्वं क्षित्यादेस्ततः सकर्तृकत्वं च साधितम् ।
अथ सकर्तृकत्वानुमानस्य जीवैः सिद्धसाधनतां परिहर्तुं कर्तृत्वेस्वरूपानुप्रविष्टमधिष्टानादि विवृणोति ‘अधिष्ठान’ मित्यादिना ।
यथा जीवस्य शरीरावयवाद्यधिष्टानं तत्प्रवृत्त्यनुकूलसङ्कल्पेन, एवं परमाण्यदृष्टाद्यधिष्ठानं जगत्कर्तृरीश्वरस्य तत्प्रवृत्त्युनुकूलसङ्कल्पेनेति मन्तव्यमित्यर्थः ।
‘स चे’ति ।
ईश्वरसन्निकर्षः परमाण्वादौ संयोगरूपः अदृष्टे च संयुक्तसमवायरूपो विभुद्धयसंयोगस्योपगमे ।
तदनुपगमे संयुक्तसंयोगिसमवायलक्षणो बोध्यः ।
इदं च तार्किकप्रक्रियया ।
‘प्रवृत्ति’ रिति ।
आरम्भकसंयोगानुकूलक्रियारूपा च परमाणूनां प्रवृत्तिरित्यर्थः ।
अदृष्टस्य प्रवृत्तिं निर्वक्ति ‘धर्माधर्मयो’ रिति।
इदं पुण्यं पापं वाऽस्मिन् देशे काले च फलं जनयत्वितीश्वरसङ्कल्पमूलाऽदृष्टस्य प्रवृत्तिः फलोदयानुकूलतादृशदेशकालादिसहकारिसमासादनलक्षणा भवतीत्यर्थः ।
‘ताभ्या’ मिति।
एवकारो भिन्नक्रमः ।
ताभ्यां-चेतनाधिष्ठिताभ्यामेव धर्माधर्माभ्यां पलमित्यान्वयः ।
ननु कर्तारमन्तरैव कारणान्तरतः क्षित्यादि भवेदिति शङ्कामन्तर्निधाय तत्परिहारमाह ‘चेतन’ति ।
अकिञ्चित्करत्वमेवोपपादयति ‘नही’ ति ।
तथा चाधिष्ठातुः कारकचक्रप्रयोक्तः कर्तृश्चेतनस्यापेक्षाकार्यसामान्येऽस्येवेति क्षित्यादौ सकर्तृकत्वं नापह्नवार्हम् ।
अचेतनस्य कारणग्रामस्य चतनाधिष्ठानमन्तरा प्रवृत्त्यनुपपत्तेरिति भावः ।
उपादानदिगोचरापरोक्षज्ञानमन्तरा च तदधिष्ठानलक्षणस्य कर्तृत्वस्यासम्भवात् क्षित्यादिकर्तृः परमाण्वादिसाक्षात्कारोऽप्यावश्यकः ।
चिकीर्षापूर्वकारकचक्रप्रवृत्तिहेतुकृतिनिरूप्यं च प्रेरणमिति कारकचक्रप्रयोक्तृत्वरूपाधिष्ठातृत्वलक्षणस्योपादानादिगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वलक्षणस्य च कर्तृत्वस्य नात्यन्तभेदः ।
ततश्च पूर्वत्रोपादानादिगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वं कर्तृत्वमुक्तम् ।
अत्राधिष्ठातृत्वरूपं तत् समर्थ्यत इति परकृतासाङ्गत्यमिति शङ्काया नावसर इत्यवधेयम ।
एवंभूतस्य क्षित्यादिकर्तृत्वस्य सदा सर्वदर्शिनं सर्वसमर्थं चेश्वरं विनाऽन्यत्र जीवेष्वसम्भवान्न तैः सिद्धसाधनमिति चात्र विवक्षितम् ।
न चोभयवादी’ त्यग्रिमग्रन्थे चैतद्वक्ष्यते ।
मध्येऽनैकान्त्यं परहरति प्रसंङ्गतः ‘बीजे’ ति ।
यत्र यत्र कार्ये न दृष्टः कर्ता, ततत्सर्वमिप कार्यं प्रकृते पक्षीकृतम् ।
पक्षे च व्यभिचारशङ्का न दोषाय, अन्यथाऽनुमानकथाया एव विलोपप्रसङ्गादिति भावः ।
‘एतेने’ ति ।
पक्षान्तर्भूतत्वेनैवेत्यर्थः ।
आदिपदेन ज्ञानादि ग्रह्यम् ।
न हि स्वसुखज्ञानाद्यर्थप्रवृत्तिमान् जीवस्तदोपकरणोपादानादृष्टस्वात्मसाक्षात्कर्ता ।
तत् उपादानादि साक्षात्कर्तृपूर्वकत्वरूपसाध्यभाववति सुखज्ञानादौ कार्यत्वस्य सत्त्वाद्व्यभिचार इत्यपि सुखादेरपि पक्षान्तर्भावत एव निरस्तमित्यर्थः ।
तत्राप्युपादानादिसाक्षात्कर्तृपूर्वकत्वमीश्वरेणैव निरूह्यतेऽस्माभिरिति हृदयम् ।
ननु तर्हि जीवस्य स्वसुखादौ कर्तृत्वं न स्यादिति वाच्यम् ।
सुखादिसम्पादनार्थतस्साधनदर्शनोपादानप्रवृत्तिमत्त्वादेवोपपत्तेः, कुलालादेरिव दृष्टोपकरणादिदर्शनोपादानादिना घटादौ ।
अदृष्टकारणाधिष्ठानं तु सर्वत्र कार्ये परमात्मन एवेति ध्येयम् ।
नन्वेवमपि स्वज्ञानाद्यर्थप्रवृत्तिपूर्वकाले नियमेन स्वस्य साक्षात्काराभावात् स्वज्ञानाद्युपादानभूतस्वात्मसाक्षात्कर्तृत्वं तदा तस्य नास्तीति चेत्, न, आत्मनः स्वप्रकाशत्वनयेन तदा स्वात्मसाक्षात्कारस्यापि संमानयितव्यत्वात् ।
स्वज्ञानादौ स्वस्य कर्तृत्वस्य स्वस्मृतिमात्रेणापि अभ्युपगन्तव्यत्वाद्वा न दोषः ।
उपादानादिसाक्षात्कर्तृपूर्वकत्वमिति नियमस्तु ईश्वरेणैव तत्र तत्र निर्वाह्येति च न विस्मर्तव्यम ।
तदर्थमेव सुखाद्यपि पक्षीकृतमिति बोध्यम् ।
व्यभिचारं परिहृत्य सिद्धसाधनतां परिहरति ‘न चोभये’ ति ।
परमाण्वदृष्टादिप्रवृत्त्यनुगुणाधिष्ठातृत्वकल्पनमित्यर्थः ।
अुयुक्तत्वे हेतिमाह ‘तेषा’ मिति ।
द्रष्टुमेव तदशक्तानांतदधिष्ठानकथा केति भावः ।
नन्वीश्वरस्यापि अधिष्ठानसामर्थमदृष्टं कथं कल्पते ? तत्राह ‘न चैव’ मिति ।
अदृष्टमपि न दृष्टविरोधीति भावः ।
कुतो न दृष्टविरोधः ? अत्राह ’ प्रमाणान्तरत’ इति ।
अत्र ‘तदसिद्धे’ रिति पाठः स्याद्वेति सन्दिह्यते ।
प्रत्यक्षादिनेश्वरस्यासिद्धेरसामर्थ्यस्य तस्मिन्नदृष्टत्वादित्यर्थः ।
नन्वनेनैवानुमानेन तस्यासामर्थ्यं सेत्स्यतीत्यत्राह ‘यथोदिते’ ति ।
‘तत्सिद्धे’ रिति पाठे तु शक्तिमदीश्वरस्यैव विलक्षणप्रमाणेन सिद्धेरित्यर्थः ।
किन्तत् ?तदाह ‘यथोदिते’ति ।
सिध्यन्नित्यस्याग्रे ‘हि’ इति योज्यम् ।
‘सांसिद्धिके’ ति ।
सर्वस्यार्थस्य क्रियाकारकफलवर्गान्तः पातितया सर्वाधिष्ठानं तदर्थं सर्वसाक्षात्करणमपीश्वरस्य प्राप्ते ।
ते चाकरणकत्वान्नित्ये एवेति भावः ।
‘कार्यत्वस्ये’ ति ।
यत्र कार्यत्वं तत्र तत्र समर्थकर्तृजन्यत्वमिति व्याप्तेरित्यर्थः ।
कुलालदेः किञ्चिद्विषयाज्ञानाशक्ती अपि विद्येते ।
तदल्पज्ञाल्पशक्तिकर्ती व्याप्तिः कार्यत्वस्य गृह्यते भूयःसहचारदर्शनबलात् ।
तदभिमतविपरीतापादकत्वाद्विरुद्धत्वामिति शङ्कां ‘यत्तु’ इत्यादिनानूद्य परिहरति ‘त’ दिति ।
अप्रयोजकत्वात्-कार्यकरणोपयुक्तत्वाभावात्किञ्चिद्विषयाज्ञानादेः ।
अयं भावः-येनाकरेण कर्तुः कारणत्वं तद्रूपावच्छिन्नकर्तृपूर्वकत्वेनैव कार्यत्वस्य घटादौ व्याप्तिर्गृहीता ।
किञ्चिद्विषयाज्ञानादिमत्त्वेन च न घटादौ कारणत्वं कुलालादेः ।
किन्तु तदुपादानादिसाक्षात्काराधिष्ठानक्षमत्वविशिष्टत्वेनैव ।
अन्यविषये ज्ञानाज्ञाने शक्त्यशक्ती वा अप्रयोजके प्रकृतकार्योत्पादे ।
तत्समर्थकर्तृकत्वेनैव व्याप्तिः कार्यत्वस्य ।
यथा धूमस्याद्रैन्धनसंयोगविशिष्टवह्नित्वावच्छिन्नेन्नैव संबन्धनियमः, न तु रक्तत्वकारीषत्वाद्यनुपयुक्तधर्मावच्छिन्नेन, तद्वदिति ।
अप्रयोजकत्वमेवोपपादयति ‘नही’ ति ।
अज्ञानम्-अर्थानत्रोपकरणाद्यज्ञानम् ।
‘स्वे’ ति ।
स्वकारणत्वेनानुमीयमानस्य कर्तुःस्वनिष्पत्त्युपयोगिसामर्थ्याद्येवाक्षिप्यते कार्यत्वस्य मसर्थकर्तृकत्वव्याप्तेरिति केवलव्यरिरेकस्य-केवलस्य पूर्ववर्तिमात्रस्यानुपयोगिनो व्यतिरेकस्य-अर्थान्तरगोचरशक्त्याद्यभावस्य प्रकृतकार्ये प्रयोजकतयाऽसिद्धेरित्यर्थः ।
अर्थान्तरविषयशक्त्याद्यभावस्य व्यतिरेके प्रकृतकार्यस्य व्यतिरेक इतिव्यतिरेकसहचारस्यासिद्धेरिति वाऽर्थः ।
मूलपाठोऽत्रान्यथा स्याद्वा ।
तावतैव-स्वनिष्पादनोपयोगिज्ञानशक्तित एव ।
अर्थान्तरो विषयो यस्येति बहुत्रीहिः ।
अन्यपदार्थो ज्ञानादिरर्थसिद्धः ।
तस्य प्रतियोगितयाऽभावेऽन्वयः ।
सम्बन्धिनः-कार्यनियतपूर्ववर्तिनः ।
अकिञ्चित्करस्य-प्रकृतकार्यानुपयोगिनः ।
अन्यथासिद्धस्येति यावत् ।
अथ विकल्पमुखेनार्थान्तरविषयकाज्ञानादेः नियतपूर्ववृत्तित्वमपि प्रतिक्षिपति ‘अपि चे’ ति ।
व्यापकं-कार्यस्य नियतपूर्ववृत्ति ।
‘न ताव’ प्रकृतकार्यातिरिक्तसकलकार्योपयोगिज्ञानसामर्थ्यविरहः कर्तरि कुत्राप्यसिद्ध एवेति भावः ।
ननु प्रकृतकार्यातिरिक्तकतिपयविषयाज्ञानादि कर्तुरिष्टं दृष्टं चेत्यत्राह ‘अथे’ ति ।
अर्थान्तरयत्किञ्चिदज्ञानादि न व्यवस्थितम् ।
यथा कश्चित्पटकारः घटं न जानाति कश्चित्तु जानाति, कश्चित्त्वन्यन्न जानाति अन्यस्तु तज्जानातीति प्रकृतकर्तुरन्यान्यविषयं ज्ञानमज्ञानं चाव्यवस्थितं दृश्यते ।
पटाद्यज्ञानं घटाद्यज्ञानं वा नियतं कर्तुर्दुर्वचमिति तत्तदज्ञानस्य तत्र तत्रानैकान्त्यान्न हेतुत्वमिति भावः ।
सर्वस्यापि कर्तुः किञ्चिद्वस्तु नियमेन न ज्ञायते इति तु दुर्वचमेवेत्याह ‘न चास्ती’ ति ।
ननु स्वविशिष्टज्ञानाभावत्वेनाज्ञानस्य हेतुत्वमुपेयते ।
स्वपदं प्रकृतकार्यपरम् ।
वैशिष्ट्यं च ज्ञाने स्वनिष्ठविषयत्वानिरूपकत्वस्वान्य निष्ठविषयतानिरूपकत्वोभयसम्बन्धेन ।
तथा च तत्तदज्ञानस्य तत्र तत्र व्यभिचारेऽपि निरुक्तरूपावच्छिन्नज्ञानाभावस्य नियतपूर्ववृत्तित्वसम्भव एवेति चेत्, एवमपि पूर्वोक्मन्यथासिद्धत्वं दुर्वारमेवेति ध्येयम् ।
कार्यत्वस्याज्ञात्वादिविरुद्धाकाराक्षेपकत्वं क्षित्यादिकर्तरि परिहृतमेतावता ।
अथ शरीरत्वलक्षणविपरीताकाराक्षेपकत्वं परिहरति ‘न चे’ ति ।
कर्तुः शरीरवत्त्वमेवेति न नियमः ।
एकं देहं परित्यज्य देहान्तरपरिग्रहणं कुर्वतो जीवस्य तदा।
डशरीरित्वादित भावः ।
योगिनो योगबलाज्जीवतो देहान्तरग्रहणं कुर्वतो जीवस्य तदाऽशरीरित्वादिति भावः ।
योगिनो योगबलाज्जीवतो देहान्तरग्रहणं सशरीरस्यैव दृष्टमित्ययोगिन इत्युक्तम् ।
ननु अयोगिनोऽपि सूक्ष्मशरीरवत एव स्थूलदेहान्तरग्रहणं प्रेत्येति न व्यभिचार इत्यत्राह ‘पूर्वेति’ ।
ननु श्रुतिबलाद्भूतसूक्ष्मैः परिष्वक्तस्यैव जीवस्य गत्यादिरेष्टव्या ।
तान्येवेन्द्रियप्राणसंसृष्टानि सूक्ष्मदेह उच्यते ।
तथा च कर्तुः शरीरत्वनियमे न व्यभिचार इति चेत् ; अत्र ब्रूमः ।
एवमपि स्थूलशरीरवत्त्वनियमेऽनैकान्त्यं स्थितमेव ।
सूक्ष्मस्य तु न मुख्यं शरीरत्वम् ।
अमुख्यं च तदीश्वरं प्रति परमाणूनामप्यक्षुण्णमेव ।
तथाहि न्यायाचार्योदयनः परमाणूनामीश्वर शरीरत्वमुशतीति ।
एवं शरीरोपादाने कर्तृत्वं जीवस्या शरीरस्यैवेति समर्थ्य शरीरप्रेरणे कर्तृत्वमप्यशरीरस्यैवेत्याह ‘किंचे’ ति ।
अधितिष्ठतः-प्रवर्तयतः अधिष्ठातृदेहानुप्रवेशः अधिष्ठातृतावच्छेदकघटकता ।
शरीरमधितिष्ठतोऽधिष्ठातृतावच्छेदकं सङ्कल्पादिरेव, न तु तच्छरीरमपि ।
अधिष्ठानकर्मीभूतस्य काष्ठादे स्तच्छेत्तृतावच्छेदकत्वं यथा न तद्वदिति भावः ।
ननु स्वाधिष्ठातृसम्बद्धस्य देहस्य कथं नाधिष्ठातृतावच्छेदकता ? इति शङ्कते ‘अधितिष्ठासिते’ ति ।
परिहरति ‘अस्त्वेके’ ति ।
‘एकतत्त्वे’ ति प्राचीनमुद्रितपाठो न संशुद्धः ।
‘एकतस्त्वसंबद्धस्ये’ ति वाऽन्यथा वा पाठः संभाव्यते ।
अत्यन्ततोऽसम्बद्धस्याधिष्ठेयेन तदधिष्ठातृत्वस्य काष्ठासंबद्धस्य कुठारस्य च्छेत्तृत्वस्येवासंभवादधिष्ठेयसम्बन्धिनाऽधिष्ठात्रा भवितव्यमित्येव नियमः, न तु देहसंबन्धिना भाव्यमितीति भावः ।
प्रेरणंप्रति प्रेर्यसम्बन्ध एव हेतुः न देहसम्बन्ध इत्यत्र नियामकं पृच्छति ‘कुत’ इति ।
तद्वदति ‘यत’ इति ।
अधिष्ठीयमानं-प्रवर्त्यमानम् ।
स्वसंबन्धिना-प्रेर्यसंयोगिना ।
हस्तादि विशेष्यमत्र ।
अयमाशयः-शरीरिण एव प्रवर्तकत्वमिति न नियमः ।
हस्तादेरपि मानदण्डादिप्रवर्तकत्वात् ।
प्रेर्यसंबन्धिन एव प्रेरकत्वमिति त संभवति, हस्तादेरपि प्रेर्यसम्बन्धादिति ।
शङ्कते ‘अथे’ ति ।
प्रवर्तनं नाम परव्यापारप्रयोजकप्रयत्नवत्त्वम् ।
तच्च पुरुषस्यैव ।
स च स्वहस्तव्यापारेण मानदण्डादि प्रवर्तयति ।
तथा च देहतदवयवभिन्नवस्तुप्रवर्तने देहहस्तादिव्यापारापेक्षाऽस्येवेति नेश्वरस्यानाकृतेः परमाण्वाद्यधिष्ठातृत्वं संभवतीत्याशयः शङ्कितुः ।
इममपि नियममनैकान्त्येनैव दूषयति ‘तदपि ने’ ति ।
सङ्कल्पगरुडध्यानादिमानसव्यापारमात्रेण हस्तादिव्यापारं विनापि परशरीरस्थविषनिवर्तनादिदर्शनाद्देहतदवयवव्यतिरिक्ताधिष्ठाने देहादिव्यापारापेक्षानियमो नास्तीत्यर्थः ।
प्रेर्यसंबन्धोऽप्यत्र प्रेरकस्य ज्ञानद्वारक एवेति च बोध्यम् ।
पुनः शङ्कते ‘कथ’ मिति ।
जन्यज्ञानादौ देहस्य हेतुत्वादिति भावः ।
अन्तर्निहितोत्तर आक्षिपति ‘कि’ मिति ।
देहस्य किं सङ्कल्पे कर्तृत्वम् ? येन येनतदभावे सङ्कल्पो न घटेतेत्यर्थः ।
शङ्कते ‘करण’ मिति ।
तत्र करणं शरीरमिति चेन्न, मनस एव करणत्वादित्यर्थः ।
तथा च शरीराभावेऽपि स्वहेतोरेव सङ्कल्पो भविष्यतीति भावः ।
ननु मनसः करणत्वेऽपि जन्यज्ञानादौ देहस्याप्यस्त्येवापेक्षाऽवच्छेदकतयेति चेदत्र ब्रूमः-बद्धज्ञानादावेव देहापेक्षा, नान्यत्र ।
‘मनसैवैतान् कामान् पश्यन् रमतेय एते ब्रह्मलोके’ ‘मनसैव जगत्सृष्टि’-मित्यादिना मुक्तस्येश्वरस्य च मनोवत्त्वं, तत एव ज्ञानसङ्कल्पादिकं च प्रतीयते ।
तद्देहविगमेऽपि मनसो नित्येन्द्रियत्वोपगमादेव शरीरानपेक्षसङ्कल्पाद्युपपत्तिरिति ।
ईश्वरे नित्यज्ञानचिकीर्षाप्रयत्नवादिनां तार्किकाणां मते तु न तरां शरीराद्यपेक्षा ।
अत्र मनोवत्त्वागन्तुकसङ्कल्पादिसमर्थनं तु तदेकदेशिमतेन वा सिद्धान्तच्छायया वेति बोध्यम् ।
मनोवत्त्वेऽनिष्टप्रसङ्गं शङ्कते ‘नन्वेव’ मिति ।
मनोवत्त्वस्य शरीरित्वादिव्याप्यतया शरीरित्वाद्यापद्येतेश्वरस्येत्यर्थः ।
परिहरति ‘मैव’ मिति ।
समर्थकर्तृपूर्वकत्वेन कार्यत्वस्य व्याप्तेर्गृहीतत्वात् ततः क्षित्यादौ सिध्यतः कर्तुरीश्वरस्याशरीरित्वैश्वर्याद्येव सेत्स्यति ‘यक्षानुरूपो बलि’ रिति न्यायात् ।
शरीरित्वाद्युपगमे चासामर्थ्यप्रसङ्गात् ।
यथाचैतत्तथा ‘नचास्मदादे’ -रित्यनन्तरवाक्ये वक्ष्यते ।
तथा चेश्वरे शरीरत्वानैश्वर्याद्यापादनं धर्मिग्राहकमानबाधितमित्यर्थः ।
द्रढिम्नैव-दृढतयैव ।
‘समर्थकर्तृकत्वार्थद्रढिम्नैवे’ति समस्तपाठः साधीयान् ।
मनसः शरीरित्वादिव्याप्यत्वमपि निराकरोति ‘मनस’ इति ।
सरीराभावेऽपि प्रायणावान्तरलयादौ नित्येन्द्रियतया मनसः सत्त्वात्कालावच्छेदेन शरीरव्याप्यत्वं मनसो नास्तीत्यर्थः ।
नन्वेवमपि सशरीरस्यैव कर्तृत्वं तत्र तत्र दृष्टामिति शरीरिकर्तृकत्वेन व्याप्तिः कार्यत्वस्य कुतो न गृह्यत इत्यत्राह ‘यावद्धी’ ति ।
दृष्टानुगुणं कार्यानुगुमत्वेन दृष्टमत एव व्याप्त्युपयोगि थद्रूपं तदवच्छिन्नेनैव व्याप्तिरेष्टव्या ।
ज्ञानशक्त्योरेव च कार्यानुगुमता ।
ते यद्यपि कर्मपरवशे कुलालादौ शरीराधीने ; नैतावता शरीरादेर्व्यापकतावच्छेदककोटिनिवेश इति भावः ।
एवमनभिमतापदकत्वं परिहृतम् ।
अथाभिमतविशेषसिद्धिप्रकारं प्रपञ्चयति ‘न चास्मदादे’ रिति ।
अपर्यन्तविस्तारस्य अनवधिकायामवतोऽपरिच्छिन्नस्य प्रादेशिकशरीरकः परिमितदेशवर्तिपरिच्छिन्नमूर्तिमान् ।
अलं-समर्थः ।
शिष्टं स्पष्टम् ।
शङ्कते ‘ईदृशेने’ ति ।
अकर्मवश्यत्वाशरीरित्वसर्वज्ञत्वादिविशिष्टकर्त्रा कार्यत्वस्याविनाभावो घटादौ न दृष्ट इति शङ्कितुर्भावः ।
सामान्यधर्मावच्छिन्नव्याप्तिग्रहादेव पक्षधर्मताबलसहकारात्पक्षीयसाध्य विशेषसिद्धिरिति हार्देन प्रतिबन्दीमाह ‘अतिगहने’ ति ।
शङ्कितुर्मुखेनैव परहारं वाचयति ‘यादृश’ इति ।
यादृशः-अतिजडिलगनतलनिचुम्बिसन्तत- सन्तन्यमानधारारूपः ।
तादृशःमहावह्निः ।
‘त’ दिति ।
निरुक्तविधमहाधूमजननसमर्थ इत्यर्थः ।
अत्र ‘तादृशतत्संपादनसमर्थ’ इति समस्तपाठः स्याद्वा ।
उत्तरतौल्यमाह ‘तदिद’ मिति ।
यथा देशकालपरिमाणादिविशेषो वह्नेरनैकान्त्याद्धूमव्यापकतावच्छेदकघटको न भवति, किन्त्वाद्रेन्धनयुग्वह्नित्वमात्रं तथा, एवं मनुष्यत्वादि सहचरितमिपि न कर्तृतावच्छेदककोटिघटकम् ।
अन्यत्रापि कर्तृत्वदर्शनात् ।
किन्तु सामर्थ्यमात्रं तथेत्याह ‘यथैवे’ ति ।
धूमात्पर्वते वह्निविशेषानुमानात् कार्यत्वात् क्षित्यादौ कर्तृविशेषानुमानस्य न वैलक्षण्यम् ।
यथा तत्राभिमतविशेषसिद्धिस्तथा प्रकृतेऽपीते भावः ।
अथ सपक्षदर्शनमात्रेण सर्वधर्मापादने प्रतिबन्दी विवक्षुराह ‘अपि चे’ ति ।
विभुद्रव्यसंयोगिन इत्यनेनाविभुत्वं मनसो विवक्षितम् ।
विभुद्वयसंयोगस्य तार्किकैरनुपगमात् ।
ज्ञानाद्यसमवायिकारणसंयोगाश्रयतया मनःसिद्धिरित ज्ञानेत्यादिविशेषणम् ।
आत्ममनःसंयोगस्यैव हि ज्ञानादावसमवायिहेतुत्वं तन्मतम् ।
ज्ञानायौगपद्याच्च तस्याणुत्वं मतम्, निःस्पर्शत्वं च ।
स्पर्शवत्त्वे भूतत्वप्रसङ्गात् ।
भूतत्वे चाभूतविशेषगुणग्रहकत्वासंभवात् ।
अत्रायं प्रतितर्को विवक्षितः-मनो यदि परिच्छिन्नपरिमामवत् स्यात् क्रियावद्वा तर्हिस्पर्शवद्भवेदिति ।
भूयः सहचारदृष्टस्यापि क्वचिद्व्यभिचार इत्यस्येदमेकं निदर्शनम् ।
अथ निदर्शनमन्यत्प्रदर्शयति ‘कथं चे’ ति ।
अनियताधिष्ठानेति पदन्छेदः ।
यद्यपि महतो वायोर्गतिशीलस्यानियताधिष्ठानत्वमुद्भूतस्पर्शवत्त्वात् स्पार्शनप्रत्यक्षत्वं च भूयो दृष्टम् ।
अथापि वायवीयत्वेनानुमितस्य देहव्यापिनस्त्वगिन्द्रियस्य नियताधिष्ठानत्वमस्पार्शनत्वं चाभिमतम् ।
अत्र प्रतितर्कः-त्वचो वायवीयमहत्कार्यत्वे उद्भूतस्पर्शवत्त्वादि भवेदिति ।
निदर्शनान्तरं ‘तैजसस्ये’ ति ।
कार्यतेजसो महिमगुणवतो रूपस्पर्शयोरुद्भूतत्वं ज्वलनादौ ।
स्पर्शमात्रस्योद्भूतत्वं भर्ज्जितकपालवह्न्यादौ ।
रूपमात्रस्योद्भूतत्वं प्रभादौ।
एवं रूपस्पर्शौभयतदन्यतरोद्भवस्य भूयो दृष्टत्वेऽपि चक्षुषो रूपदिषु रूपादिषु रूपमात्रव्यञ्जकत्वेनानुमिततैजसभावस्य तदुभयानुद्भवः कथमित्यर्थः ।
चक्षुषः तैजसमहत्कर्यत्वे रूपस्पर्शान्यतरोद्भवः स्यादिति प्रसङ्गोऽत्र बोध्यः ।
प्रतितर्काणामाभासत्वमित्याशयेन प्रतिवक्ति परः ‘अथ ‘ति ।
तत्तद्विशेषाणाम्-उद्भूतरूपस्पर्शान्यतरस्पार्शनत्वस्पर्शवत्त्वादीनां भूयः ।
सहचारदर्शनमात्रेण चक्षुरादावापाद्.मानानां योग्यानुपलम्भबाधितत्वमिति नापादकव्यापकत्वमापाद्यस्येति भावः ।
यद्यपि मनसोऽणुत्वात्तत्र स्पर्शवत्त्वस्य योग्यानुपलम्भबाधो दुर्वचः ।
तथापि तत्र तदुपगमेऽनेकनियमभङ्गप्रसङ्गोस्त्येव ।
तदाह ‘तदभ्युपगम’ इति ।
यथा- मनसः स्पर्शवत्त्वे भूतत्वप्रसङ्गः ।
भूतत्वानुपगमे स्पर्शवतो भूतत्वमेवेति नियमभङ्ग।
भूतत्वोपगमे चेन्द्रियान्तरवदभूतात्मविशेषगुणाग्राहक्तवात्तिः ।
तद्ग्राहकत्वोपगमे चाभूतविशेषगुणाग्राहकत्वनियमस्यापि भङ्ग ।
इति ।
एवं चक्षुरादावपि उद्भूतरूपवत्त्वादिस्वीकारे नानानियमभङ्गप्रसङ्गोऽनुसन्धेयः ।
विपक्षे बाधकविरहेणापाद्यापादकयोर्व्याप्यव्यापकभावासिद्धिः ।
तथा च प्रतितर्काणां छिन्नमूलत्वं च विवक्षितम् ।
‘तथाऽभ्युपगम’ इति मन-प्रभृतेर्निःस्पर्शत्वाद्यभ्युपगम इत्यर्थः ।
तुल्यनयेन क्रतृत्वे सशरीरत्वमिति नियमोऽपि नास्तीत्याशयवानाहेश्वरवादी ‘हन्ततर्ही’ ति ।
स्वस्मिन् प्रसञ्जितप्रतितर्कनिराकरमयुक्तेः परमुखेनैवानुवाचनजनितहर्षद्योतकोऽयं ।
हन्तशब्दः ।
सशरीरत्वे शरीरद्वारोपलम्भप्रसङ्ग ईश्वरस्य ।
क्रमवत्त्वे चासार्वज्ञ्यादिप्रसङ्गः ।
प्रकृतष्टधर्मवत्त्वात् सार्वज्ञ्याद्युगमश्च न संभवति ।
साधानानुष्ठानराहित्यात्प्रकृष्टधर्मस्यानुपपत्तेः ।
ईश्वरस्य स धर्मो नित्य एवोपेयत इति पक्षे च धर्मसामान्यस्य विहितक्रियाजन्यत्वनियमभङ्गः ।
अकर्मत्वे चेश्वरस्य सशरीरत्वायोगः ।
तच्छरीरस्य नित्यत्वोपगमे च सावयवत्वस्य कार्यत्वव्याप्यत्वनियमभङ्गः ।
तथा च क्षित्यादेरपि कार्यत्वासिद्धेस्तत्कर्तृत्वेनेश्वरानुमानायोग इति बहुरमूहनीयम् ।
सहचारमात्रेण कर्तृत्वस्य न सशरीरत्वादिव्याप्तिः, विपक्षे बाधकविरहादिति च हार्दम् ।
ननु चक्षुरादेस्तैजसादिभावेऽपि तत्तद्विशेषस्य प्रमाणसिद्धत्वान्न तद्विरुद्धापादानसम्भवः ।
नैवं त्वीश्वरीयविशेषाणां मानसिद्धत्वमिति चेत्तत्राह ‘दृश्यन्त’ इति ।
नीतयः-न्यायाः, अनुमानानि ।
ईश्वरेऽप्यभिमतविशेषेषु सन्ति प्रमाणानीत्यर्थः तान्येव प्रपञ्चयति ‘यथा’ इति ।
‘तथे’ ति पाठे तु तथा हि नीतयो दृश्यन्त इत्यन्वयः ।
तथा-ईश्वरीयाभिमतविशेषसाधकाः ।
ईश्वरस्य स्रष्टृत्वे तादनुमानमुक्तं पूर्वम् ।
तस्य प्रवर्तयितृत्वे तदाह ‘परमाण्वादी’ ति ।
विवादास्पदमिति पक्षतासम्भवद्योतकं विशेषणम् ।
साध्यतदभावान्यतरनिर्णये हि पक्षताऽतिवर्तते ।
साध्यतदबाववत्त्वविप्रतिपत्तिविषयीभूतमिति ।
तदर्थः ।
साध्यवत्त्वेन सन्दिह्यमानमिति फलितम् ।
साध्यसन्देहस्य पक्षतात्वं प्राचां मतम् ।
सिद्धिस्थलेऽप्याहार्यसंशयादेवानुमित्सया भवत्यनुमानमिति बोध्यम् ।
प्रेरणं च परप्रृत्त्यनुगुणसङ्कल्पप्रयन्नवत्त्वलक्षणम् ।
परमाण्वादिगोचरावीश्वरस्य सङ्कल्पप्रयत्नौ प्रसाध्य साक्षात्कारमपि तादृशं साधयति ‘तथे’ ति ।
तद्वदेव-कन्दुकादिप्रवृत्तिवदेव ।
कन्दुकादिप्रवृत्तावुपादानं कन्दुकादि, उपकरणं दण्डादि ।
तत्साक्षात्कारी दण्डेन कन्दुकादि प्रवर्तयति ।
ततश्च तत्र प्रवृत्तिरूत्पद्यते ।
एवं परमाण्वादिप्रवृत्तेर्ज्ञानाद्यर्थान्तरात्मप्रवृत्तेरप्युपादानोपकरणपरमाण्वाद्यदृष्टादिसाक्षात्कर्ताऽत्र साध्यते ।
न चैतत्साक्षात्कर्तृत्वं जीवानामिति न तैः सिद्धसाधनम् ।
अतीन्द्रियार्थानामपि साक्षात्कारः फलितोऽत्रानुमाने ।
अथ साक्षादेवातीन्द्रियार्थान् पक्षीकृत्य प्रत्यक्षविषयत्वं साधयति ‘प्रत्यक्ष’ मिति ।
तत्-परमाण्वादि ।
अतीन्द्रियार्थसाक्षात्कर्ता कश्चित् संभवतीत्यत्रैव तात्पर्यमेवंवधानुमानप्रतिपादकानां परमाचार्याणाम् ।
क्षित्यादिकर्तुरभिमत एकत्वे प्रयोगमाह ‘एकेच्छे’ ति ।
इदमचेतनप्रपञ्चजातम्, अचैतन्यातम्, अचैतन्यात् अचेतनत्वात्, एकेच्छानुविधायि एकचेतनसङ्कल्पनुसारि ।
अत्रान्वय्युदाहरणं स्वदेहः ॥ 16 ॥इति श्रीमद्विशिष्टाद्वैतसिद्धान्तप्रवर्तनधुरन्धरपरमाचार्यश्रीभगवद्यामुनमुनि समनुगृहीतेसिद्धित्रये ईश्वरसिद्धिः ॥ अचेतनप्रपञ्चस्येश्वरेच्छानुविधायिप्रवृत्तित्वं प्रसाध्य चेतनप्रपञ्चस्यापि तत्साधयति ‘एकेने’ ति । त्वगादिवत्-त्वगादीन्द्रियवत् ॥ 17 ॥सर्वजगत्स्वामित्वसर्वेश्वरत्वरूपविशेषसाधकमनुमानमाह ‘एके’ ति । एकः प्रधानपुरुषो यस्य तदेकप्रधानपुरुषम् । एकप्रधानपुरुषविशिष्टमित्यर्थः । पुरुषस्यैकस्य प्राधान्यं नियन्तृत्वस्वामित्वलक्षणम् । वैशिष्ट्यं नियाम्यत्वशेषत्वादिना ॥ 18 ॥(व्या0) निष्प्रयोजनत्वात्कर्तृत्वामीश्वरस्य न संभवतीत्यादेरपि परासोऽत्र विभाव्यः । यथा-जीवरक्षार्थमेव ताववदीश्वरस्य जगद्व्यापारः । ननु तर्हि सुखोत्तरमेव जगत् सृजेत् । मैवम् । जीवीयकर्मापेक्षया तथा तथा सर्जनात् । ननु कर्मापेक्षित्वेऽनैवश्वर्यं तस्य प्रसज्येत । न । अपराधानुगुणदण्डधरस्येव राज्ञः तत्तत्कर्मफलनिष्पादकस्येश्वरस्यापि ऐश्वर्यातिशयस्यैव प्रसिद्धेः । अदृष्टादीनामधिष्ठातृत्वादि हि तस्य महते वैभवाय । यथाकर्म फलप्रदत्वात् स्वामित्वमपि सर्वस्य तस्मिन् प्रतितिष्ठत्येव । सर्वप्रधानत्वादृष्टाधिष्ठातृत्वादिसाधनप्रमाणोपन्यासकानां चाचार्यचरणानामेतद्धार्दग्र मित्युन्नयाम इति दिक् ॥ग्रन्थभागोऽग्रिमः क्वापि नेतः समुपलभ्यते ।यावल्लब्धस्य विहिता व्याख्येयं सरला मया ॥इति श्रीनागपुरी (तिरुनाङ्गूर) दिव्यदेशाभिजनेन प्रतिवादिभयङ्कराचार्यान्वयभूषणविद्वद्वर्य श्रीकृष्णमाचार्याख्याचार्यवर्यपुत्ररत्नेन चतुस्तन्त्रीपारावारपारीणदिगन्तविश्रन्तकीर्ति-दयामूर्ति-श्रीमद्भाष्यकारदिव्यवंशावतर्णश्रीभूतपुरूनिवासरसिक-विद्वत्सार्वभौम-हारीत-श्रीमदासूरिरामानुजाचार्यदेशिकेन्द्रचरणकमलवरिवस्यासमधिगतपदवाक्यप्रमाणतन्त्रहृदयेन श्रीवैष्णवदासेन प्र.भ. अण्णङ्गाचार्येण न्यायव्याकरणशिरोमणिनोभयवेदान्तविदुषा प्रणीतमीश्वरसिद्धेर्व्याख्यानं सिद्धाञ्जनं विजयतांतराम् ।