जगज्जन्मस्थितिलयै रममाणं परात्परम् । स्वामिन् सर्वजगतां श्रियःपतिमुपास्महे ॥1॥
ज्ञानवैराग्यभक्तीनां शेवधिं करुणार्णवम् । यामुनार्यं मुनिवरं परमाचार्यमाश्रये ॥2॥
श्रीभाष्यादिप्रबन्धेन तत्त्वं सन्दर्शयन् परम् । रामानुजार्यो भगवान् दयता मयि संश्रिते ॥3॥
देशिकेन्द्रदयासारमवलम्ब्य विधीयते । सिद्धित्रयस्य व्याख्यानं रीत्या सरलया मया ॥4॥
क्क यामुनार्यश्रीसूक्तिसन्दर्भः क्क च मे मतिः । अत्यल्पविषयाऽथापि चापलं त्वपराध्यति ॥5॥
विशिष्टद्वैतसिद्धान्तनिर्धारणधुरन्धराः । संश्रितेषु दयासारा देशिकाः शरणं मम ॥6॥
वात्स्यं श्रीवादिभीकृद्गुरुकुलतिलकं कृष्णमार्यं गुणाढ्यं तातं मन्त्रप्रदं मे द्रविडनिगमसूक्त्यर्थसन्दर्शकं तम् ।
नत्वा रामानुजार्यं गुरुवरमपि मे भाष्यकृद्वंशदीपं हारीतं चारुकीर्तिं बुधकुलतिलकं यामुनोक्तीर्विवृण्वे ॥7॥
श्रीमन्नागपुराभिख्याभिजनो वादिभीकरः । अण्णङ्गरार्यदासोऽहं विवृणोमि गुरोर्गिरः ॥8॥
अथ खलु भगवान् श्रीमद्यामुनमिनिः श्रीवैष्णवसंप्रदायप्रवर्तकाचार्येषु प्रथमपरिगणितस्य योगरहस्यन्यायतत्त्वशास्त्रप्रणेतुर्भगवतः श्रीमन्नाथमुनेः पौत्र ईश्वरमुनितनुजन्मा विशिष्टाद्वैतसिद्धान्तप्रवर्तनधुरन्धरः प्रतिवादिवारणप्रकटाटोपविपाटनक्षमः परमाचार्य आत्मसिद्धिनामकं वेदान्तप्रकरणमुपक्रममाणोऽविघ्नपरिसमाप्तिप्रचयगमनादिफलं मङ्गलमाशीरूपं वस्तुनिर्देशं च कुर्वाणः शिष्यशिक्षायै निबध्नाति `प्रकृती’ ति ।
प्रकृतिर्माया, तत्कार्याणि समष्टिव्यष्टिरूपाणि व्यक्तानि, प्रकृतिप्राकृतपरिणामहेतुः कालः, तद्बद्धो जीवराशिश्रेति लीलाविभूतिस्थाः सर्वे सङ्गृहीताः शब्दचतुष्टयेन ।
मुक्ताः भगवदुपासनाप्रभावाद्भवबन्धनात्कर्मपाशप्रग्रथिताद्विनिर्मुक्ताः ।
एते प्रकृत्यादयो यस्यैव परमपुरुषस्येच्छांसङ्कल्परूपां सदा समनुसरन्ति स्वरूपस्थितिप्रवृत्तिषु, तस्मिन् पूरुष इत्यन्वयः ।
इमानि च सर्जनावनसंहरणसंसारविमोचनानि सङ्कल्पैकनिष्पाद्यानि भगवतो लीलारसाय कल्पन्ते ।
एवं लीलाविभूतियोग उक्तः ।
अथ नित्यविभूतियोगमाह ‘नित्य’ मिति ।
नित्यमिति पूर्वोत्तरयोरन्वितं मध्यमणिन्यायेन ।
सदोद्भूतापहतपाप्मत्वादिस्वरूपैः सर्वज्ञैर्भगवदनुभवजनितप्रीतिकारिताशेषशेषवृत्त्यन्वयत एवाधिगतभोगैरनन्तैरनन्तगरुडविष्वक्सेनादिभिर्नित्यसूरिभिः श्रीमति महावैकुण्ठे दिव्येऽक्षरे धाम्नि सदा निरतिशयप्रीतिमनुभवति नारीणामुत्तमायाः श्रियो वल्लभे पुरुषोत्तमे परब्रह्मणि मम भक्तिप्रचयो भूयादित्याशंसा ।
उभयविभूतिनाथे रमानाथे भक्तिर्हि सर्वश्रेयस्करी ।
तत्तद्भक्त्याशंसनमुचिततरम् ।
भक्तिरेव भगवति प्रार्थ्या चेतनैः ।
स हि स्वयमेव श्रेयो विदधाति ।
तत्तस्मिन् श्वश्रेयःप्रार्थना नोचिततरा भक्तानामिति चानेन ज्ञाप्यते ।
अचेतनभेदश्चेतनभेदश्च परमार्थतः, श्रीमन्नारायणस्यैव पारम्यं, सर्वचेतनाचेतनानां तद्विभूतित्वं, निरतिशयप्रेमगर्भतदुपासनस्यैवापवर्गहेतुत्वमविच्छिन्नपूर्णभगवदनुभवगर्भसेवाया एव परमपुमर्थत्वं चेति स्वाभिमताः प्रकरणार्था अत्र संसूचिताः ॥ 1 ॥संमतं हि सर्वसमयेषु आत्मज्ञानं निःश्रेयसहेतुरिति ।
श्रूयते च ‘पृथगात्मानं प्रेरितारं च मत्वा जुष्टुस्ततस्तेनामृतत्वमेति’ ‘आत्मानं चेद्विजानीयात्’ ‘तरतिशोक- मात्मवित्’ ‘ब्रह्मविदाप्नोति पर’ मित्यादिः परावरात्मतत्त्वज्ञानस्यापवर्गसाधनत्वं प्रतिपादयन् वेदान्तवाक्यगणः ।
तत्रास्मिन्नात्मनि परस्मिंश्चानेकविधा विप्रतिपत्तयः तीर्थकराणाम् ।
तद्यथा - आत्मविषये तावत् देहमेव केचिदात्मानमाचक्षते ।
इन्द्रियाण्यन्ये ।
मन इत्यन्ये ।
प्राणमपरे ।
अध्यस्तज्ञातृ भावमनहङ्कारं बोधमात्रमितरे ।
देहेन्द्रियमनःप्राणबोधविलक्षणमाकाशादिवदचित्खभावमागन्तुकबोधसुखदुःखाद्यसाधारणगुणाधारमहङ्कारगोचरमपरे ।
अपरे तु बोधैकस्वभावमेव, स्वभावधवलमिव स्फुटिकमणिमुपधानविशेषापादितारुणिमगुणादिनिर्भासमन्तःकरणोपधानापादितरागद्वेषसुखदुःखाद्यशिवगुणनिर्भासमनुदितावस्तमितस्वरूपप्रकाशं स्वयंज्योतिषमिममभिदधति ।
अन्ये तु ज्ञानानन्दस्वभावम् ।
आश्रयानुकूल्यप्रतिलब्धानन्दसुखादिव्यपदेशबोधविशेष एवास्य स्वाभाविक इत्यन्ये ।
तथा - अनुमानसमधिगम्यः ; आगमैकवेद्यः ; मानसप्रत्यक्षवेद्यः ; ग्राहकतयैव सकलविषयवित्तिषु प्रत्यक्षः ; ज्ञानस्वभावतयानुदितानस्तमितस्वरूपप्रकाशः स्वयंज्योतिः ; ईदृशोऽप्युगमानुमानयोगजप्रत्यक्षैः स्वेतरसकलविलक्षणस्वाभाव्येन विशदविशदतरविशदतमतयाऽन्ततो यथावदपरोक्ष्यत इति ।
तथा - परममहान् ; अणुपरिमाणः ; शरीरपरिमाणः ; स्वतः परिमाणरहितोऽपि व्याप्यवस्तुपरिमितिकृतपरिच्छेद इति ।
व्याप्तिरपिचैतन्यमात्रेण ; स्वरूपेणेति ।
तथा क्षणिकः ; यावच्छरीरोष्मस्तायी ; आप्रकृतप्रलयावस्थीयी ; आमोक्षस्थायी ; कूटस्थो नित्य इति ।
सर्वशरीरेष्वेकः ; प्रतिक्षेत्रं नानाभूत इति च तथा तथा प्रतिपद्यन्ते ।
तथा परमात्मविषयेऽपि - केचित् समस्तवस्तुसाक्षात्कारिणं सर्वशक्तिमीश्वरमेव नाभ्युपगच्छन्ति ।
अभ्युपगच्छन्तोऽप्येके प्रत्यस्तमितमितिमानमातृमेयेश्वरेशितव्यादिभेदविकल्पकूटस्थविज्ञा नैकरसमनाद्यविद्योपदर्शितवियदादिभेदावच्छिन्नज्ञानैश्वर्यादिमहिमविक ल्पतया काल्पनिकमाचक्षते ।
अपरे तु यथोक्तस्वरूपमेवाविद्योपधानेन तद्गुणसारतया प्रकल्पितब्रह्मादिस्थावरपर्यन्तविविधजीवभेदं स्वाधीनविचित्रवर्तस्वभावमायोपहिततया समासादितसार्वज्ञ्यादिसंपदमुपहितमिममभिदधति ।
तथाऽन्ये प्रकृष्टसत्तवोपादाननिमित्तस्वतन्त्रप्रधानपरिणामविशेषमात्रनियमनिर्वाहितर्वैश्वर्य मर्यादमाद्रियन्ते ।
अनुपहितमपि परिणामिनमपरे प्रतिपेदिरे ।
अपरिणामिनमपि स्वमायांशभूतविचित्रान्तःकरणदर्पणतलप्रतिबिम्बिततया प्रतिपन्नविश्वतैजसप्राज्ञभावं तमेकमेव चेतनमितरे रोचयन्ते ।
अन्ये तु स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदंस्वाभाविकनिरवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःप्रभृतिसकलकल्याणगुणगणमहार्णवं पुरुषविशेषमीश्वरमातिष्ठन्ते ।
तथा तद्विशेषेऽपि हरिहरविरिञ्चभास्करात्मना अनभिमत तत्तन्मूर्तिपरित्यागेन च चतुस्रिद्व्येकमूर्तितया विवदन्ते ।
मूर्तिविशेषविषयाश्च नित्यत्वानित्यत्वभोतकत्वाभौतिकत्वस्वार्थपरार्थत्वादिवितर्काः प्रादुर्भवन्ति ; परिजनस्थानादिगोचराश्च ।
तथा प्रमाणतोऽपि - आनुश्राविक एवेत्येके ।
आनुमानिकश्चेत्यन्ये ।
विशिष्टप्रत्यक्षसमधिगम्यश्चेत्यपरे ।
तथाआत्मपरमात्मनोः संबन्धेऽपि - अनाद्यविद्योपादानभेदास्पदोऽयमीश्वरेशितव्यतादिरूपसंबन्धः ।
परमार्थतत्स्वेकं तत्त्वमिति केचित् ।
व्यतिरेकाभावेऽप्यतिरिक्तो जीव इत्यन्ये ।
स्वतस्त्वैक्यम्, उपाधितो भेद इति विशिष्टस्वरूपभावेन भिन्नाभिन्नत्वमितरे ।
नानात्वे सत्येवाऽभेदो नामान्वयः अंशाशिभावलक्षणः, समवायः परतन्त्रतालक्षणः, शेषशेषित्वरूपः, स्वस्वामिभावः, भृत्यस्वामिलक्षण इति च नानाविद्या वादाः ।
तथा परमपुरुषार्थभूते ब्रह्मप्राप्तिलक्षणमोक्षेऽपि - स्वरूपोच्छित्तिलक्षणः, अविद्यास्तमयलक्षणः, निशेषवैशेषिकात्मगुणोच्छेदलक्षणः, कैवल्यरूपः, तद्भावसाधर्म्यलक्षणः, तद्गुणसङ्कान्तिलक्षणः, चत्थायापत्तिलक्षणः, सांसिद्धिकानन्दादिस्वरूपाविर्भावलक्षणः, तद्गुणानुभवजनितनिरतिशयसुखसमुन्मेषोपनीतात्यन्तिकतत्किङ्करत्वलक्षण इति तथा तथा विवदन्ते ।
तत्साधनतोऽपि - कर्मयोगलभ्यः, ज्ञानयोगलभ्यः, अन्यतरानुगृहीतान्यतरलभ्यः, उभयलभ्यः, उभयपरिकर्मितखान्तस्यैकान्तिकात्यन्तिक भक्तियोगलभ्य इति ।
तदेवमनवसितविशेषविमर्शकजनविमतिदर्शनात्, तत्त्तत्पक्षसाधनबलाबलानगमाच्च ततस्ततः सन्दिहानाः प्रेक्षावन्तो न तावत्परमपुरुषार्थाय घटेरन्, यावदयमात्मा परमात्मा च स्वरूपतः प्रमाणतः संबन्धतः प्राप्तितः तत्साधनतश्च न निर्णियेतेति तत्प्रतिबोधायेदमारभ्यते ।
यद्यपि भगवता बादरायणेनेदमर्थान्येव सूत्राणि प्रणीतानि ।
विवृतानि च तानि परि मितगम्भीरभाषिणा द्रमिडभाष्यकृता ।
विस्तृतानि च तानि गम्भीरन्यायसा(ग)रभाषिणा श्रीवत्साङ्कमिश्रेणापि ।
तथापि आचार्यटङ्क-भर्तृप्रपञ्च-भर्तृमित्र-भर्तृहरि-ब्रह्मदक्तशङ्कर-श्रीवत्साङ्क-भास्करादिविरचितसितासितविविधनिबन्धन श्रद्धाविप्रलब्धबुद्धयो न यथावत्, अन्यथा च प्रतिपद्यन्त इति युक्तः प्रकरणप्रक्रमः ॥ (इत्युपोद्धातप्रकरणम्) प्रकरणारम्भप्रयोजनसभिधत्ते ‘विरुद्धे’ति ।
आत्मपरमात्मविषये हि नाना विप्रतिपत्तयः सन्ति ।
मतीनां विरुद्धत्वं विरुद्धारकारावगाहित्वम् ।
यतो मुमुक्षूणामात्मपरमात्मतत्त्वं जिज्ञासमानानां तद्विषये वादिविवादिनिमित्ता विप्रतिपत्तयः सन्ति, अतस्तत्परिशुद्ध्यर्थं - आत्मपरमात्मतत्त्वमतेः तत्तद्वादप्रयुक्तासद्विरुद्धाकारप्रकारकत्वरूपदोषनिरसनेन यथावस्थिताकारावगाहित्वलक्षणशुद्धियोगसंपादनार्थमात्मसिद्धिनामकं प्रकरणं विरच्चते सत्प्रमाणतर्कैरात्मपरात्मतत्त्वनिर्णयफलमिर्यर्थः ।
परावरात्मतत्त्वं प्रधानविषयः ।
परपक्षप्रतिक्षेपो नान्तरीयकः ।
आत्मतत्त्वनिर्णयश्च साक्षात्प्रयोजनमेतत्प्रकरणस्येति सूचितम् ।
परम्परया निःश्रेयसाभिष्वङ्गश्चास्याभिप्रेतः ।
विषयप्रयोजनोक्तेः संबन्धाधिकारिणौ चाक्षेपगम्यौ ।
एवमनुबन्धिचतुष्टयसंपत्तिरनुसंहिता ।
परावरात्मतत्त्वप्रतिपादकश्चुत्यन्तानुग्राहकन्यायप्रपञ्चनं प्रकरणस्यास्य मुख्यं कृत्यम् ।
ततश्चात्मपरमात्ममननोपयोगीदं संपद्यत इति बोध्यम् ॥ 2 ॥अनर्थकायात्मतत्त्व न कोऽपि प्रेक्षापूर्वकारी प्रवर्तेतेति स्वग्रन्थफलस्यास्य निःश्रेयसाभिष्वङ्गमाविष्करोति ‘संमत’ मिति ।
नन्वस्तु नामाऽऽमज्ञानस्य मोक्षसाधनत्वम्, अतिरिक्तपरमात्मज्ञानस्य तत्कुल इत्यत्राऽऽह ‘श्रूयते’ इति ।
बाह्यानां विमत्यामपि वैदिकवर्याणामात्मन इव परमात्मनोऽपि तत्त्वज्ञानस्य मोक्षसाधनत्वे न विमतिरिति भावः ।
परात्मा-परंब्रह्म पुरुषोत्तमः श्रीमन्नारायणः ।
अवरात्मा-जीवात्मा ।
शिष्टं स्पष्टम् ।
ननु सन्धिग्धे हि न्यायप्रवृत्तिः ।
वेदान्तैरेव परावरात्मतत्त्वं सुनिश्चितमिति कथं तत्र शङ्का, कथंतरां च न्यायप्रवृत्तिः ? उच्यते ।
श्रुतिभिरर्थावगमेऽपि प्रसिद्धमतिविभवानां तीर्थकराणां विविधवादश्रवणतः श्रुतितात्पर्य एव सन्देहप्रवृत्तेः श्रुत्यर्थयाथात्म्येऽपि शङ्का संभवदुदया ।
इममेवाऽऽशयं हृदि निधायात्मतत्त्वे सन्देहसन्दोहिका विप्रतिपत्तीरुपक्षपति ‘तत्रे’ ति ।
तीर्थं - दर्शनं तीर्थसाम्यात् ।
दर्शनं हि आन्तराज्ञानमलनिर्हरणपूर्वकंतत्त्वज्ञानरूपां शुद्धिमात्मनामुपजनयति ।
तत्कुर्वन्तीति तीर्थकाराः - दार्शनिकाः ।
तद्यथा - उक्तं विप्रतिपच्चिबाहुविध्यं यथा - येन प्रकारेण, तद्वर्ण्यत इति यावत् ।
‘देहमेवे’ति ।
देहाद्यात्मत्ववादिनश्चार्वाक भेदाः ।
‘मन इत्यन्ये’ इति ।
मन इत्यप्रसिद्धं किमपि केचिदात्मेत्याचक्षत इत्यर्थः ।
‘आत्मानमाचक्षत’ इत्युत्तरत्राप्यन्वेति ।
सौगतमतं शाङ्करमतं चाह तन्त्रेण ‘अध्यस्ते’ ति ।
बोधमात्रंचैतन्यमात्रम् ।
अनहङ्कारम् - अहंबुद्धिशब्दाविषयम् ।
आविद्यमहङ्कार ग्रन्थिस्थं ज्ञातृत्वमात्मन्यारोप्यत इत्येकः पक्षः ।
अनादिवासनया ज्ञानस्यैव ज्ञातृभावाद्यारोप इति चापरः ।
तार्किकमतमाह ‘देहेन्द्रिये’ ति ।
बोधः - ज्ञानम् ।
देहेन्द्रियमनःप्राणधीभ्योऽन्यमचैतन्यस्वरूपमागन्तुकज्ञानसुखादिविशेषगुणवन्तमहंबुद्धिशब्दगोचरमात्मानं काणादा गौतमाश्चाचक्षत इत्यर्थः ।
अचित्स्वभावमित्यनेनाकाशादेरिवात्मस्वरूपस्य जडत्वं विविक्षितम् ।
अहङ्कारः, - अहमिति बुद्धिः शब्दश्च ।
साङ्ख्यमतमाह ‘अपरे’ इति ।
बोधैकस्वभावमेव-बोधश्चैतन्यं, तदेव स्वो भावः स्वरूपं यस्य तम्, ज्ञानस्वरूपमेव ।
उपधानम्-उपोधः सन्निधानम् ।
इमम् - आत्मानम् ।
यथा स्वभावतो धवल एवस्फटिकादिर्जपाकुसुमाद्युपाधिस्निधानेनारोपिततत्तद्रक्तादिरूपेण प्रतिभासते, एवं नित्यस्वप्रकाशः स्वयंज्योतिरात्माऽन्तःकरणसन्निधानत आरोपितसुखदुःखादितद्गुणवत्तया भासते केवलम् ।
वस्तुतो नित्यनिर्दुष्ट एवायमिति भावः ।
‘अन्ये त्वि’ ति ।
मीमांसकैकदेशिनः सिद्धान्त्येकदेशिनो वा ।
ज्ञानानन्दौ स्वाभाविकधर्मावात्मन इत्यमीषामाशयः ।
सिद्धान्तिनां मतमाह ‘आश्रये’ति ।
आनन्दोऽपि नातिरिक्तः, किन्तु आत्मनः अनुकूलत्वेन प्राप्त आनन्दसुखादिनिर्देशो येन, एवंभूतो ज्ञानविशेष एव सः ।
स एव चात्मनः स्वभावः ।
संसारित्वदुः खित्वादि तु कर्मोपाधिकमिति भावः ।
यावदुक्तोपपन्नश्चात्मेति हार्दम् ।
तत्तद्वाद्युक्तेषु यावदुपपन्नम्, तावदाकारवत्त्वं चात्मनः संमतमेव हि सिद्धान्ते ।
आत्मस्वरूपे विप्रतिपत्तीरूक्त्वा तद्ग्राहकप्रमाणे ता उपक्षिपति ‘तथाअनुमाने’ति ।
सौत्रान्तिकीय आनुमानिकत्वपक्षो़ऽयम् ।
अनुमानं च अहंविज्ञानं सालम्बनं विज्ञानत्वान्नीलपीतादिविज्ञानवदित्याद्युदाहार्यम् ।
विलक्षण आतमा अनुमानगचर इति नैयायिकपक्षो वाऽत्रकीर्तितः स्यात् ।
अग्निमविवरणानुसारात् ।
‘आगमैकवेद्य’ इति ।
श्रोत्रियाणां पक्षो़ऽयम् ।
अहंबुद्धेर्देहालम्बनतयैवोपपत्तेः सङ्गातपरार्थत्वाद्युनुमानस्याप्रयोजकत्वादिना च शास्त्रैकगम्य आत्मैत्यमीषामाशयः ।
‘मानसे’ति ।
तार्किकाणां भाट्टानां च पक्षोऽयम् ।
‘ग्राहकतैवे’ति।
प्राभाकरपक्षोऽयम् ।
ग्राहकतया-ज्ञातृतया ।
ज्ञानस्य त्रितयावभासकत्वाद्धटप्रत्यक्ष एव घट इव तञ्ज्ञानं ज्ञाता चात्मा प्रकाशेते इत्यमी ।
साङ्क्यादिमतमाह ‘ज्ञानस्वभावतये’ ति ।
स्वो भावः स्वभावः स्वरूपम् ।
नित्यस्याऽऽत्मनो ज्ञानस्वरूपतया इतरानधीननित्यस्वप्रकाशोऽयमित्येते सिद्धान्तिनामाशयमाह ‘ईदृशोऽपी’ति ।
विशदतमतयेत्यनन्तरं ‘गृहीत’ इति शेषः ।
प्रत्यक्त्वादिनैवास्य स्वप्रकाशत्वाद्देहादिव्यावर्तकनित्यत्वाणुत्वज्ञातृत्वादिप्रकारेणाऽऽगमेन विशदतया, मननतो विशदतरतया, योगजप्रत्यक्षतो विशदतमतया च गृहीतोऽयं मुक्तौ स्वाभाविकासङ्कुचितापरोक्षज्ञानप्रभया कास्त्नर्येनानुभूयत इत्यर्थः ।
आत्मनः परिमाणेऽपि ता निर्दिशति ‘तथे’ति ।
नैयायिकपक्षमाह ‘परममहा’ निति ।
तत्त्वं चापकर्षानाश्रयमहत्परिमाणम् ।
बिभुत्वसहचरितम् ।
तत्प्रतिभटं सिद्धान्तिनां पक्षमाह ‘अणुपरिमाण’ इति ।
माध्यमं परमाणं मन्यमानानामनैकान्त्यवादिनां मतमाह ‘शरीरपरिमाण’ इति ।
ससत्त््वैकान्त्यवादिनां साङ्ख्यानां मतमाह ‘स्वत’ इति ।
परिमाणराहित्यं विभुत्वादात्मनाम् ।
परिमाणवत्त्वे हि परिच्छिन्नत्वमविभुत्वं प्रसज्यत इत्येषां हार्दम् ।
औपाधिकं चास्य परिमाणमित्याह ‘व्याप्ये’ति ।
व्याप्यान्तःकरणपरिमाणौपाधिकपरिमाणोऽयं बन्धे इत्यर्थः ।
व्याप्तावपि तामाह ‘चैतन्ये’ति ।
स्वधर्मभूतज्ञानद्वारिकैव व्याप्तिरिति सिद्धान्तिपक्षः ।
यथाऽन्तःकरणाधीनं परिमाणम्, तथा ज्ञानाधीनं व्यापकत्वमिति सादृश्येनोपस्तितत्वात् सिद्धान्तपक्षस्य प्रथमनिर्देशोऽत्र ।
‘स्वरूपेणे’ति ।
आत्मा स्वरूपतः सर्वगत इति नैयायिकादयः ।
कालसंबन्धेऽपि ता उपक्षिपति ‘तथे’ति ।
क्षणिकत्वं सौगतानामभिमतम् ।
यावच्छरीरोष्मस्थायित्वं चार्वाकाणाम् ।
आप्राकृतप्रलस्थायित्वं ब्रह्मदेवादीनाम्, आमोक्षस्थायित्वामौडुलोम्युपज्ञानाम् ।
कूटस्थनित्यत्वं नैयायिकादीनां सिद्धान्तिनां च ।
कूटस्थत्वम्-निर्विकारत्वम् ।
नित्यत्वं सर्वकालसत्ता ।
सङ्ख्यायामपि तामाह ‘सर्वे’ति ।
एकजीववादो मायावाद्येकदेशिनाम् ।
प्रतिशरीरमात्मभेदो नैयायिकादीनां सिद्धान्तिनां च ।
चकारोऽनुक्तविप्रतिपत्तिसमुच्चायकः।
‘तथा तथे’ति ।
स्वस्वाभिमततत्तद्विरुद्धाकारेणात्मानं तेते वादिनो मन्यन्त इत्यर्थः ।
जीघात्मस्वरूपादौ विप्रतिपत्तीरुक्त्वा परमात्मस्वरूपादौ ता उपक्षिपति ‘तथा परमे’ति ।
‘नानैव विप्रतिपत्तयः तीर्थकराणा’मिति शेषः ।
‘केचि’दिति ।
चार्वाका बौद्धा आर्हताः कर्मडाश्चेत्यर्थः ।
सश्वरवादिष्वपि नैकमत्यमित्याह ‘अभ्युपगच्छन्तोऽपी’ति ।
एकेकेचिदद्वैतिनः ।
काल्पनिकं कल्पितेश्वरभावम् ।
कल्पनाप्रकारमाह ‘प्रत्यस्तमिते’ति ।
कूटस्थम्-अविकारि नित्यं विज्ञानमात्रं सत्यम् ।
यत्रेशेशितव्यादिभेदप्रपञ्चो मातृमेयतदवच्छिन्नमितित्वादिरपि नैवास्ति ।
एवंभूतेऽधि ष्ठानेऽविद्ययैव नानाशक्तिमत्या वियदादिनानाऽचित्प्रतिभासो रज्ज्वामिव सर्पाद्यवभासः ।
आविद्यभूतसमष्टिव्यष्ट्यवच्छिन्नज्ञानैश्वर्यादिमहिमभेदप्रतिभासश्च ।
तत् समष्ठ्यवच्छिन्नज्ञानैश्वर्यादिमत्तया भासमानं चैतन्यमीश्वरः ।
व्यष्टिरूपदेवादिदेहाद्यवच्छिन्नज्ञानादिमत्तया नानात्वेन च भासमानं तदेव जीवजातमित्येषामाशयः ।
अविद्याया एव जीवेश्वरभावकल्पकोपाधित्वमेतन्मते ।
मायाऽविद्योपाधिभेदवादिनां मतमाह ‘अपरे त्वि’ति ।
निर्भेदचैतन्यमात्रमेवाविद्योपहितं नानाजीवभावेन मायोपहितं चेश्वरभावेन परिस्फुरति ।
तत्राऽविद्याकृतत्वाज्जीवभेदः कामक्रोधलोभाद्याविद्यगुणप्रधानोऽविद्यापरवशश्च ।
ईश्वरस्तु स्ववशवर्तिविविधपरिणामशीलमायाशक्त्याऽधिगतसार्वज्ञ्यसर्वैश्वर्यादिमहिमेत्यमीषामाशयः ।
योगतन्त्रनिष्ठानामीश्वरसमादरणरीतिमाह ‘तथाऽन्ये’ इति ।
औुपाधिकमेवेश्वरत्वमेतन्मतेऽपीति तथेत्यनेनाभिप्रेतम् ।
स्वतन्त्रप्रकृतिपरिणामविशेषस्य यो विशेषो नित्योद्रिक्तसत्त्वकत्वरूपः प्रकृष्टसत्त्वप्रधानांशोपादानत्वप्रयुक्तः, तेन संपादिता सर्वैश्वर्यव्यवस्था यस्य तमीश्वरमाद्रियन्त इत्यर्थः ।
सदा शुदधसत्त्वात्मकान्तःकरणादिरीश्वरोपाधिः ।
तदुपहितचैतन्यमात्रवपुः पुरुषविशेष ईश्वरः ।
उपाधिविशेषाधीनमेव तस्यैश्वर्यमिति भावः ।
यादवप्रकाशपक्षमाग ‘अनुपहितमपी’ति ।
सिन्धुरिव फेनबुद्बुदतरङ्गभेदेन ब्रह्मैव जडजीवेश्वरूपेण भवतीति परिणामवादोऽयम् ।
प्रतिबिम्बवादमाह ‘अपरिणामिनमपी’ति ।
‘तमेकमेव चेतन’मित्यनेन मायोपहितं चैतन्यमीश्वरः ।
अन्तःकरणेषु तस्यैव प्रतिबिम्बभेदा जीवा इत्याभासलक्षणत्वं जीवानां विज्ञायते ।
यद्वा मायायां प्रतिबिम्बितं चैतन्यमीश्वरः ।
तस्य मायाशभूतविचित्रान्तःकरणेषु प्रतिबिम्बभेदा जीवा इति भावः ।
विश्वादिर्जागृतिस्वप्नसुषुप्त्यभिमानी ।
सिद्धान्तिनां मतमाह ‘अन्ये’ त्विति ।
त्रिविधाश्चेतनाःज्ञातृत्ववन्तो बद्धमुक्तनित्याः ।
त्रिविधाश्चातेतनाः - ज्ञातृत्वरहिताः प्रकृतिकालनित्यविभूतयः ।
ज्ञानरूपत्वेऽपि नित्यविभूतेरज्ञातृत्वादचेतनत्वम् ।
तेषां सर्वेषां स्वस्वाकारसंपत्तिः, निष्पन्नस्वरूपाणामुत्तरोत्तरकालानुवृत्तिरूपा स्थितिः, प्रवृत्तिविशेषाश्च तत्तत्कार्यानुगुणा यदधीना एव सदा, स ईश्वरः ।
स च न निर्गुणः ।
किन्तु स्वाभाविकोत्कृष्टतमषाङ्गुण्यप्रभृत्यनन्तकल्याणगुणगणरत्नाकरः ।
निर्गुणत्वं चास्य हेयगन्धाभावात् ।
अयं च पुरुषविशेषः - त्रिविधजीवात्मविलक्षणः पुरुषोत्तमः श्रियः - पतिरित्येतेषां हार्दम् ।
पुरुषविशेष ईश्वर इत्युक्तम ।
स किंनामरूप इत्यपेक्षायामाह ‘तथा तद्विशेषेऽपी’ति ।
ईश्वरीयनामरूपादिविषयेऽपि नैकमत्यं वादिनामित्यर्थः ।
तथाहि-एक एवैश्वरो मूर्तिचतुष्टयं गृह्णाति कार्यवशादित्येके ।
त्रिमूर्तिवादिनस्त्वादित्यरूपं परित्यजन्ति ।
हरिहरैक्यवादिनस्तु ब्रह्मरूपमपि ।
शैवास्तु हर एवैश्वर इत्यभिमन्यन्ते ।
श्रीवैष्णवस्तु हरिरेवेत्यामनन्ति ।
एवं हैरण्यगर्भाणां सौराणां च तत्तदेकमूर्तिपक्षोऽप्यनुसन्धेयः ।
ईश्वरमूर्तिगतविशेषेष्वपि विप्रतिपत्तीराह ‘मूर्ती’ति ।
सार्थत्वम् - स्वबोगसिद्ध्यर्थत्वम् ।
परार्थत्वम् - जीवानुग्रहैकार्थत्वम् ।
वितर्काः - विप्रतिपत्तयः ।
‘परिजने’ति ।
परिजनादयः सन्ति नेति, नित्याः अनित्या इति, प्राकृता अप्राकृता इति च पक्षभेदाः परिजनस्थानादावनुसन्धेयाः ।
‘प्रमाणतोऽपी’ति ।
सार्वविभक्तिकस्तसिल् ।
प्रमाणविषयेऽपीत्यर्थः ।
शास्त्रैकप्रमाणक इत्येके ।
आगमानुमानप्रमाणक इत्यपरे ।
श्रुतो मतश्च श्रुतितोऽनुमानतश्च प्रेमपूर्वानुध्यानसंस्कृतमनोग्राह्यश्चेति तु सिद्धान्तिनः ॥ अथ जीवपरयोः संबन्धेऽपि विप्रतिपत्तीर्निर्दिशति ‘तथा आत्मे’ति ।
अद्वैतिनां पक्षमाह ‘अनादी’ति ।
अविद्याकृतभेदावलंबनत्वादीशेशितव्यत्वादेव्यर्विहारिकत्वमेव न परमार्थत्वमित्याशयोऽमीषाम् ।
प्रतिबिम्बपक्षाभिप्रायेणाऽऽह् ‘व्यतिरेके’ति ।
बिम्बतो भेदाभावेऽपि प्रतिबिंबानां भेदप्रतिपत्त्यादिगोचरत्वलक्षणोऽतिरेकोविशेषोऽस्तीति भावः ।
भास्करपक्षमाह ‘स्वत’ इति ।
स्वरूपतोऽभेदः ।
औपाधिको भेदः ।
भेदाभेदयोर्विरुद्धयोः केवलस्वरूप एवासंभवादित्याशयः ।
यादवप्रकाशपक्षमाह ‘नानात्व’ इति।
अंशांशिभावलक्षण इत्यस्याऽन्वय इित्यनेन संबन्धः ।
अंशांशित्वाद्भेदाभेदोपपत्तिः ।
भेदसमानाधिकरणाभेदस्यैव तादात्म्यस्य सामानधिकरण्यार्थत्वमिति हार्दमेतेषाम् ।
‘समवाय’ इत्यादिः सिद्धान्तिना पक्षः ।
नानासंबन्धोपगमाज्जीवपरयोः सिद्धान्ते नानसंबन्धकीर्तनम् ।
अंशांशिभावलक्षण इत्यस्य सिद्धान्तपक्षत्वमपि संभवति ।
परतन्त्रता-अपृथक्सिद्धिः तद्रूपः समवायः, न त्वतिरिक्तो वैशेषिकमतवदिति भावः ।
परगतातिशयाधानेच्छाप्रक्लृप्तस्वरूपादिकत्वं शेषत्वम् ।
यथेष्टविनियोगार्हत्वं स्वत्वम् ।
प्रेर्यचेतनत्वं भृत्यत्वमिति भिदा ।
एतत्प्रतिसंबन्धित्वलक्षणं च शेषित्वादीति बोध्यम् ।
भृत्यस्वामीति भावप्रधाननिर्देशः ।
भृत्यस्वामित्वलक्षण इति यावत् ।
तथैव वा पाठः संभाव्यते ।
अथ मुक्तिस्वरूपे विप्रतिपत्तीराह ‘तथा परमे’ति ।
ब्रह्मप्राप्तिलक्षणेति स्वाभिमतोक्तिः पराभिमतानां मुक्तिस्वरूपाणां पुरुषार्थत्वायोगसूचनार्था ।
चार्वाकाणां शून्यवादिनां च स्वरूपोच्छित्तिपक्षः ।
योगाचाराणां मायिनां वा पक्षो द्वितीयः ।
कणादादिपक्षस्तृतीयः ।
विशेषः एव वैशेषिकः ।
साङ्ख्यपक्षस्तुरीयः ।
तद्भावसाधर्म्य लक्षण इत्यद्वैतिनां स्यात् ।
तच्छब्दो ब्रह्मपरः ।
ब्रह्मभाव एव साधर्म्यं मुक्तिरिति ।
यद्वा - ब्रह्मरूपसाम्यप्राप्ति, ब्राह्मगुणप्राप्ति, ब्रह्मकान्तिप्राप्तिलक्षणमुक्तिभेदपरं पदत्रयम् ।
‘सांसिद्धिके’ति मीमांसकादीनां मतम् ।
‘तद्गुणे’त्यादि सिद्धान्तिनाम् ।
स्वरूपाविर्भावोऽप्यत्र गर्भितः ।
किङ्करत्वं सेवाकरणम् ।
मुक्त्युपायेऽपि ता आह ‘तत्साधनतोऽपी’ति ।
कर्मज्ञानसमुच्चयपक्षो यादवप्रकाशीयः ।
‘उभये’ति सिद्धान्तिपक्षः ।
कर्मयोगज्ञानयोगाभ्यां संस्कृतचेतस एव भक्तियोगो नाम परभक्तिरुदैति ।
कर्मज्ञानाद्यङ्गिका सैव परब्रह्मप्राप्तिलक्षणमोक्षसाधनम् ।
तस्याश्चैकान्तिकत्वं भगवदेकविषयत्वम् ।
आत्यत्निकत्वं चाविच्छिन्नत्वम् ।
परज्ञानपरमभक्त्योरेतद्विपाकरूपत्वमेवेति भावः ।
विप्रतिपत्तिप्रदर्शनस्य विचाराम्भोपयोगितां समर्थयति ‘तदेव’मिति ।
परीक्षकाणां विप्रतिपत्तिभेदे कस्मिंश्चिदपि वा पक्षे यावत्सत्प्रमाणतर्कमूलकत्वादिविशेषो नावधार्यते, तावत्तत्त्वे सन्देहो ननिवर्तते ।
यावच्च निरुक्तविशेषानवधारणम्, न तावत्तत्तत्साधने व्याप्तिपक्षधर्मतायोगित्वलक्षमबलनिर्धारणम् ।
न च विरुद्धसाध्यसाधनयोर्वास्तविकव्याप्तिपक्षधर्मतोपपत्तिरेकस्मिन्नेव धर्मिणि ।
तथा च समबलतया प्रतीयमानानां नानापक्षसाधनानां सत्प्रतिपक्षभावेन साध्यनिर्णयो दुर्घटः ।
न चार्थसन्देहादेव मुक्तिः ।
तथा च पक्षभेदे जाग्रति यत्र वास्तवो विशेष इति विचारः प्राप्तावसरः ।
विचारेणान्यतमपक्षे विशेषावधारणे तु तत्पक्षसाधनस्याधिकबलत्वज्ञानात्सत्प्रतिपक्षभावनिवृत्तेस्तेनार्थतत्त्वनिर्णयोपपत्तिः ।
तत् मुक्तिसाधनोपयोग्यर्थतत्त्वनिर्णयायाऽऽत्मस्वरूपादिगोचरान्यतमपक्षस्य सत्प्रमाणतर्कमूलकत्वादिविशेषव्यवस्थापनपरस्य विचारग्रन्थस्याऽऽरम्भो युक्त एवेति समुदिताशयः ।
ननु - आत्मपरमात्मनोर्नानाविप्रतिपत्तिनिरसनार्थं पूर्वाचार्यप्रबन्धानां प्रवर्तनमेव कर्यम् ।
कृतं नूत्नप्रबन्धप्रणयनप्रवृत्त्येत्याशङ्कामन्तर्निधायाह ‘यद्यपी’ति ।
इदमर्थान्येव - आत्मपरमात्मतत्संबन्धाद्यर्थतत्त्वनिर्णयार्थान्येव, सूत्राणि - ब्रह्ममीमांसासूत्राणि ।
एषामेव मुख्यं सूत्रत्वमिति स्कान्दोक्तम् “निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्य चाप्यतः ।
सविशेषाणि सूत्राणि ह्यपराणि विदो विदुः ॥ मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः ।
इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः ॥” इति ।
‘विवृतानी’ति ।
परिमितत्वं - शब्दसङ्क्षेपः ।
गभीरत्वम् - अर्थगांभूर्यशालित्वम् ।
द्रमिडभाष्यकृत् - द्रमिडाचार्य संज्ञकः छान्दोग्यव्यानस्य वाक्याभिधस्य टङ्काचार्यापराभिधानब्रह्मनन्दिकृतस्य भाष्यकर्ता ।
ब्रह्मसूत्राणामपि बाष्यं कृतमनेनेति एतछ्रीसूक्तिसन्दर्भादवगम्यते ।
‘विस्तृतानि चे’ ति ।
तानि - द्रमिडाचार्यकृतब्रह्मसूत्रभाष्यवाक्यानि ।
‘विवरणग्रन्थे’ इति शेषः ।
तानिब्रह्मसूत्राणि वा ।
श्रीविष्णुपुराणव्याख्याने विष्णुचित्तीये विवरणवाक्यानि समुद्धृतानि सन्ति ।
‘तथापी’ति ।
अयं भावः - यद्यपि पूर्वाचार्यप्रब्न्धेष्वध्यात्मतत्त्वं सपरिकरं निरूपितमेवास्ति, अथापि पाश्चात्यैः ब्रह्ममीमांसादिव्याख्याच्छलेन नानामतानां प्रवर्तितत्वादा चाऽप्रामाण्यहेत्ववधारणात् तद्ग्रन्थेष्वपि श्रद्धायाः सिद्धान्तग्रन्थेष्विव संभवात् तेषु च विप्रतिपत्तिबाहुल्येन विचलितबुद्धयो नाञ्जसा तत्त्वज्ञानं प्राप्नुयुरिति तत्तन्मतसारासारविवेकोपयोगितत्तन्मतपरीक्षात्मकप्रकरणारम्भ आवश्यक एवेति ।
आचार्यटङ्कादिषु निर्दिष्टेषु केचित् सिद्धान्तिनः, अन्ये तु मतान्तरानुयायिनः स्युः ।
तत्प्रबन्धेषु च सितासितत्वम् - अस्फुटप्रतिपादकत्वमन्यथाप्रतिपादकत्वं च यथासंभवं योज्यम् ।
यद्वा - टङ्कश्रीवतस्ाङ्कावपि अत्र निर्दिष्टौमतान्तरस्थौ वाक्यविवरणकर्तृभिन्नौ स्याताम् ।
वाक्यकर्तुर्टङ्कसंज्ञा च वेदार्थसङ्ग्रटीकातोऽवगम्यते ।
‘तत्प्रतिपत्तये चे’ति ।
केचिदस्फटतयाऽर्थतत्त्वमवगच्छन्ति, केचित्पुनः केनापि हेतुना मतान्तरग्रन्थेषु श्रद्धालवोऽत एव वञ्चितबुदधयोऽन्यथैव प्रतिपद्यन्त इति स्फुटप्रतिपत्तये अन्यप्रबन्धानां सितासितत्वप्रतिपत्तये च प्रकरणारम्भो युक्त एवेत्याशयः ।
पूर्वाचार्यप्रबन्धानां शास्त्ररूपाणां प्रकरणमिदमात्मसिद्ध्यादीति च हार्दम् ।
प्रकरणं चेदं शारीरकमीमांसायाः, न्यायतत्त्वशस्त्रस्य च ।
शास्त्रैकदेशार्थप्रतिपादनतत्परत्वे सति शास्त्रार्थप्रतिपत्त्युपयोगि (विरोधिमतनिरासादि) कार्यान्तरव्यापृतिमत्त्वं प्रकरणत्वम् ।
तदुक्तम् “शास्त्रै कदेशसंबद्ध शास्त्रकार्यान्तरे स्थितम् ।
मतं प्रकरणं नाम” इति ॥ननु देहमेवात्मानं प्रत्यक्षतः प्रतिद्यामहे ।
अहं जानामीति ज्ञाता ह्यात्मा अहमिति चकास्ति ।
देहश्चाहङ्कारगोचरः, स्थूलोऽहं कृशोऽहमिति दर्शनात् ।
देहस्य हि स्थौल्यादियोगः ।
अतस्तत्समानाधिकरणतयाऽयमहङ्कारः शरीरालम्बन इत्यवश्याश्रयणीयम् ।
इतरथा सकललौकिकपरीक्षकव्यवहारोपरोधश््च ।
न चायं लाक्षणिको व्यवहारः, मुख्यवृत्तिभूमेः पृथगसिद्धत्वात् ।
न चानेकावयवयोगिशरीरालम्बनत्वे ज्ञात्रवभासस्य तदीयरूपावयवाद्यवभासेनान्वयिना भवितव्यम्, येन तदन्वयाभावात् जानामीति प्रत्ययः शरीरातिरिक्तमवगमयेत् ।
बाह्येन्द्रियप्रत्यक्ष एव तथा नियमदर्शनात् ।
स्वान्त स्याऽऽन्तरगुणाधारतावभास एव सामर्थ्यनियमात् ।
अनवधृतावयवविशेषस्याप्यनेकावयवयोगिनो महिमगुणशालिनः त्र्यणुकस्य प्रथमप्रत्यक्षाभ्युपगमात् ।
वायोश्च त्वगिन्द्रियेण स्पर्शाधिष्ठानमात्रतयोपलम्भदर्शनाच्च ।
देहव्यतिरिक्तात्मगोचरत्वेऽपि यथा तदीयगुणान्तराग्रहणम्, तथेहापि ।
यथा तत्र बाह्यप्रत्यक्षगोचर एव सङ्क्यापरिमाणादिग्रहणनियमः ।
एवं च प्रत्येकं परमाणुषु चैतन्यानुपलब्धेः, तदभ्युपगमे चैकशरीर एवानेकसहस्रचेतनापातात्, अकारणगुणपूर्वकस्य कार्यद्रव्यवर्तिनो विशेषगुणस्यासम्भवान्न शरीरविशेषगुणश्चेतन्यम्, अयावच्छरीरभावित्वाच्चेत्यादयोऽनुमानबेदाः प्रत्यक्षबाधितविषयतया नपराक्रमितुं क्षमन्ते ।
विशेषगुणत्वे च प्रीतिषिध्यमाने देहगुणत्वाभ्यु पगमप्रसङ्गश्च ।
अपि चेच्छानुविधायिक्रियत्वेन्द्रियवत्त्वादयः शरीरे दृश्यमानाः संप्रतिपन्नाचैतन्याद्धटादेरत्यन्तव्यावर्तमानाः शरीरमेव चेतनमवगमयन्ति ।
क्रमुकफलताम्भूलदलावयवादिषु प्रत्येकमविद्यमानस्यापि रागस्येवावयविनि संयोगविशेषात्, देहारम्भकपरमाणुसंश्लेषविशेषादेव देहे चैतन्यस्याप्याविर्भावो नानुपपन्नः ।
चर्वणजनितहुतवहसंयोगसंपादितपाटलिमभिः परमाणुभिर्द्व्यणुकादिक्रमेण कारणगुणपूर्व एव तत्र रागोदय इति चेत्; न; प्रमाणाभावात् ।
अपि च सितासितादितन्तुषु प्रत्येकमविद्यमानमपि चित्ररूपं विशेषगुणं तदारब्धे पटे स्फटमुपलभमानाः कथं कारणगुणपूर्वकत्वमुक्तगुणस्याध्यवस्येम ? ।
न चावयरूपातिरेकेणावविनि चित्रं नाम रूपान्तरं नास्त्येव ।
अवयविनोऽचाक्षुषत्वप्रसङ्गात् ।
अवयवरूपैरेव तदुपपादने सर्वमेव कार्यद्रव्यं नीरूपमापद्येत् ।
अनुभवविरेधः, सर्वव्यवहा रविरोधश्च ।
विशषगुणश्च काठिन्य करकद्रव्यवर्ति अकारणगुणपूर्वकं दृश्यत इत्यनेकान्तश्च ।
न च संयोगविशेषः काठिन्यम् ; तस्य द्विष्ठत्वात् ; अस्य तु करकद्रव्यैकवर्तित्वात् ; स्पर्शविशेषतया पदार्थविद्भिरभ्युपगमाच्च ।
दृश्यस्य देहस्य कथं द्रष्टृत्वमिति चेत् ; को विरोधः? ।
अयमेव यदेकस्यां क्रियांयामेकस्य कर्मत्वं कर्तृत्वं च न घटत इति ।
यद्येवम्, व्यतिरेकवादे वा कथमात्मनि अहमिति प्रत्ययः ।
रूपभेदादिति चेत्, समानमिदं देहात्मवादेऽपि ।
अपि च परसमवायिक्रियाफलगामि कर्म ।
स्वसमनेतज्ञानफलभागिनः शरीरस्य कर्मत्वमेव नास्तीति न पर्यनुयोगावकाशः ।
अतो देह एवात्मेति बार्हस्पत्याः ।
तथाच “पृथिव्यापस्तेजो वायुरिति तत्त्वानि, तेभ्यश्चैतन्यं, किण्वादिभ्यो मदशक्तिवत्” इति सूत्रम् ।
प्रथमं तावदात्मतत्त्वमुपवर्णयति ‘तत्रे’ति ।
‘देह’ इति ।
निरूपणीयतयोपक्षिप्तेषु घटकीभूत आत्मा देहादितो विलक्षणः स्वयंप्रकाशः नित्यः सूक्ष्मतया सर्वव्याप्तिक्षमः प्रतिशरीरं भिन्नः आनन्दस्वभाव इत्यर्थः ।
धीः -विषयप्रकाशकं ज्ञानमात्मनो धर्मभूतम् ।
तदाधारत्वात्तद्विलक्षणत्वम् ।
अनन्येन स्वेन साधनं सिद्धिः प्रकाशो यस्य सोऽनन्यसाधनः ।
नित्यत्वमुत्पत्तिविनाशरहितत्वम् ।
व्यापीत्यनेनेणसूक्ष्मत्वं फलितम् ।
स्वतः सुखी - स्वरूपत एवानुकूलप्रकाशलक्षणसुखवान् ।
सुखस्वरूप इति यावत् ।
यद्वा स्वाभाविकमानन्दित्वमस्य; दुःखित्वं त्वौपाधिकमेवेति भावः ॥ 3 ॥ उक्तमात्मतत्त्वमसहमानः शरीरात्मवाती चार्वाकः प्रत्यवतिष्ठते ‘ननु देहमेवे’ति ।
प्रत्यक्षं हि मुख्यं प्रमाणम् ।
न च तदतिलङ्घनेन कश्चनार्थः साधयितुं शक्यते ।
प्रत्यक्षं च सथौल्यादियोगिनं देहमेव ज्ञातारमहमर्थमात्मानं प्रतिपादयतीति देह एवात्मेति भावः ।
देहस्यैवाहंबुद्धिविषयत्वमुपपादयति ‘देहश्चे’त्यादिवाक्यद्वयेन ।
‘अत’ इति ।
तत्समानाधिकरणतया-देहाभिन्नार्थविषयकतया ।
इत्थं भावे तृतीया ।
अयमहङ्कारः - स्थूलोऽहमित्यहप्रत्ययः प्रत्यक्षरूपः ।
शरीरालम्बनः - शरीरविषयकः ।
शिष्टं स्पष्टम् ।
प्रत्यक्षातिक्रमे दोषमाह ‘इतरथे’ति ।
प्रत्यक्षमूला हि व्यवहाराः समुपलभ्यन्ते पण्डितपामरसाधारणा अर्थक्रियाकारिमो मुख्या एव ।
तद्विरोधः प्रत्यक्षातिक्रमे प्रसज्यत इत्यर्थः ।
ननु ‘स्थूलोऽहं जानामी’ति प्रतीतिर्भ्रान्तिरेव पामराणाम् ।
पण्डितानां त्वरितिक्तात्मगोचरैवाहं जानामीति ।
अहं स्थूल इति तु व्यवहारः पण्डितानां लाक्षणिक इत्याशङ्कामनूद्य प्रतिक्षिपति ‘न चाय’मिति ।
अयं व्यवहारो लक्षणिक च नेत्यन्वयः ।
वाच्यमिति शेषः ।
प्रतिक्षेपयुक्तिमाह ‘मुख्ये’ति ।
अहंपदशक्तिविषयस्य देहव्यतिरिक्तस्यानुपलम्भनिरस्तत्वाद्देह एव मुख्यत्वमहम्प्रत्ययव्यवहहारयोरिति भावः ।
जानाम्यहमिति ज्ञातृत्वप्रतीतेर्देहगोचरत्वेऽनुपपत्तिमाशङ्कते ‘न चे’ त्यादिना ।
अन्वयिना - नियतेन ।
सावयवार्थप्रत्यक्षत्वव्यापकं तदवयवादिप्रकाशकत्वमिति नियमो नेति भावः ।
सति नियमे यत्प्रसक्तं तदा ‘येने’ति ।
इति सिध्येदिति शेषः ।
तदन्वयाभावात्-शरीरावयवादिप्रकाशान्वयाभावात्तदप्रकाशकत्वाच्छरीरातिरिक्तमेवावगमयेदहं जानामीति ।
न तु शरीरं सावयवमिति नियमफलम् ।
ज्ञातृत्वप्रत्यक्षं शरीराविषयकम्, तदवयवाविषयकत्वात् ।
यद्यदक्यविविषयं तत्तद््वयवगोचरम्, यथा घटादि प्रत्यक्षमित्यत्र प्रयोगे निरुक्तनियमस्योपयोगः ।
निरुक्तनियमस्यासंभवे हेतुमाह ‘बाह्ये’ति ।
सहचारदृष्टेर्हि नियमविज्ञानम् ।
सहचारश्च बाह्यप्रत्यक्ष एव दृष्ट इति तद्विषय एव निरुक्तनियम इति भावः ।
ननु भवतु सहचारदर्शनं बाह्य एव ।
नियमस्त्वसङ्कोचात्प्रत्यक्षमात्रागोचरोऽस्त्वित्यत्राह ‘स्वान्तस्ये’ति ।
आन्तरो गुणो ज्ञानसुखादिर्योग्यः ।
तदाधारत्वमात्रेण धर्म्यवभासकत्वं मनसः ।
नतु धर्मान्तरस्य ।
बहिरस्वातत्र्यान्मनसः ।
तथाच रूपसावयवत्वदिग्रहासंभवात् मनसा ज्ञातृत्वमात्रेण शरीरग्रह इति प्रत्यक्षसामान्ये नियमो नोपसंहर्तुं शक्यत इति भावः ।
बाह्यत्वेऽपि शरीरस्य ज्ञानाद्युपरागोणान्तरत्वमित्यभिमानः ।
अवयविगोचरबाह्यप्रत्यक्षत्वव्यापकं तदवयवगोचरत्वमिति नियमेऽपि व्यभिचारमाह ‘अनवधृते’ति ।
त्र्यणुकचाक्षुषेऽतीन्द्रियत्वेन तदवयवस्याग्रहाव्द्यभिचार इति भावः ।
अनेकावयवयोगिनः - अनेकावयवसमवेतस्य, स्वसमवेतसमवायेनानेकावयवविशिष्टस्य ।
महिमगुणशालिनः - महत्परिमाणवतः ।
त्रसरेणुप्रत्यक्षानन्तरं चाक्षुषद्रव्यत्वादिना तस्य सावयवत्वानुमानादुपनीतद्व्यणुकभानं द्वितीयादित्र्यणुकप्रत्यक्षे संभवतीति व्यभिचारस्थलं त्र्यणुकप्रत्यक्षं प्रथमत्वेन विशेषितम् ।
ननु योग्यावयवकावयविबाह्यप्रत्यक्षस्य तदवयवगोचरत्वमिति नियमोऽस्त्विति चेत्तत्रापि तं दोषमाह ‘वायोश्चे’ति ।
स्पर्शवत्त्वमात्रेण वायुस्पार्शने तदवयवविषयकत्वाभावात्तत्र व्यभिचारो निरुक्तनियमस्येति भावः ।
सत्येवावधाने वाय्ववयवादिग्रहः ।
अन्यदा तु त्वक्सन्निकृष्टस्य वायोः स्पर्शवत्त्वेनैवोपलम्भ इत्यभिमानः ।
अहंजानामीति प्रतीते रूपाद्यविषयत्वेन शरीराविषयत्वसाधनेऽप्रयोजकत्वमाह ‘देहव्यतिरिक्ते’ति ।
ज्ञातृत्वप्रतीतेरित्यादिः ।
तदीयगुणान्तरम् - आत्मनिष्ठसङ्ख्यादि ।
‘तथेहापी’त्यनन्तरमुपपद्यत इति शेषः ।
अयं भावः - द्रव्यग्राहीन्द्रियस्य योग्यसन्निकृष्टतद्गुणग्राहकत्वमिति नियमः ।
तथा चातिरिक्तात्मंवादे यथा सङ्क्या दीनां तद्गुणानामयोग्यत्वान्न मनसा ग्रहः एवं देहात्मवादेऽपि तदीयरूपादेरयोग्यत्वादेव न मनसा ग्रह इति ।
न च रूपवद्द्रव्यप्रत्यक्षे रूपग्रहणं नियतमिति वाच्यम् ।
घटादिस्पर्शनेऽनैकान्त्यान् ।
‘यथा तत्रे’ति ।
यथा तत्र - अतिरिक्तात्मवादे बाह्यप्रत्यक्ष एव द्रव्यग्राहिणस्तद्गतसङ्क्यादिग्राहित्वमिति नियम्यते, तथा देहात्मवादेऽपि नियम्यतामिति भावः ।
‘तथेहापी’ति पुनरनुसन्धेयम् ।
एवमहं जानामीति प्रत्यक्षस्य देहविषयकत्वं समर्थितम् ।
अनेन देहचैतन्यबाधकानुमानानां बाधितत्वमाह ‘एवं चे’ति ।
चैतन्यं न शरीरविशेषगुणः आकारणगुणपूर्वकतत्वात्,अयावद्द्रव्यभावित्वाद्वा संयोगवदिति देहचैतन्ये बाधकमनुमानम् ।
तत्र प्रथमहेतोरसिद्धिं परिहरति ‘प्रत्येक’मित्यादिना ।
ननु परमाणुषु देहारंभकेषु चैतन्यं मास्तु ।
येनानेकचेतनप्रसङ्ग एकस्मिन् देहे ।
अकारणगुणपूर्वकश्च रूपादिः पाकजो दृष्टः ।
तद्वद्भवतु चैतन्यमित्यत्राह ‘कार्यद्रव्ये’ति ।
पीलुपाकोऽत्राभिमतः ।
तथा च कार्यद्रव्यविशेषगुणत्वव्यापकं स्वसमवायिसमवायिवृत्तिसजातीयगुणासमवायिकारणकत्वरूपं कारणगुणपूर्वकत्वम् ।
व्यापकनिवृत्त्या च चैतन्ये शरीरविशेषगुणत्वस्य निवृत्तिरिति भावः ।
द्वितीयानुमाने च यो यः कार्यद्रव्यविशेषगुणः स स यावद्द्रव्यभावीति सामान्यतो व्यतिरेकव्याप्तिः पीलुपाकनयेन वाच्या ।
‘इत्यादय’ इत्यादिपदेन चैतन्यं न देहस्य विशेषगुणः तन्निष्ठविशेषगुणान्तरवैधर्म्यादित्यनुमानं ग्राह्यम् ।
न पराक्रमितुं क्षमन्तेदेहचैतन्यं बाधितुं न प्रगल्भन्ते ।
कुतः ? प्रत्यक्षबाधितविषयतया ।
प्रत्यक्षबाधेन निरुक्तानुमानानामेव नोदयः संभवति ।
प्रबल उपजीव्यत्वेन प्रत्यक्षप्रमाणबाधनं च दुर्बलैरेतैरनुमाननैर्दुष्करमिति भावः ।
अयावद्द्रव्यभाविनामकारणगुणपूर्वकाणामपि संयोगादीनां शरीरगुणत्वदृष्टेर्निरुक्तहेतुभिरपि चैतन्ये शरीरगुणत्वस्याभावो न साधयितुं शक्यत इत्याशयेनाह ‘विशेषे’ति ।
शरीर एवोपम्भाच्चैतन्यं तद्गुण एव ।
निरुक्तहेतुभिस्तद्विशेषगुणत्वनिषेधनेऽपि न क्षतिः ।
परिभाषिकं हि विशेषगुणत्वम् ।
भावनान्यो यो वायुवृत्तिवृत्तिधर्मसमवायी तदन्यत्वे सति गुरुत्वाजलद्रवत्वान्यगुणत्वं विशेषगुणत्वमित्यत्र गरुत्वादेरेव ज्ञानादेरप्यन्यत्वं प्रक्षिप्यतामिति भावः ।
अकारणगुणपूर्वकत्वादिहेतूनामप्रयोजकत्वाच्छरीरविशेषगुणत्वेऽपि ज्ञानार्दने क्षतिरित्यभिप्रयन्नाह ‘अपि चेच्छे’ति ।
शरीरविशेषगुणान्तरवैधर्म्याज्ज्ञानस्याशरीरविशेषगुत्वं चेदिष्यते, तर्हि संप्रतिपन्नाचेतनघटादिविधर्मत्वाद्देहस्य चैतन्यवत्त्वमेव कुतो नेष्यते लाघवादिति भावः ।
इन्द्रियवात्त्वादय इत्यादिपदेन प्राणवत्त्वं ग्राह्यम् ।
इच्छानुविधायिक्रियत्वं - साक्षादिच्छाधीनप्रवृत्तिमत्त्वं देहस्य ।
घटादेस्तु देहव्यापारद्वारकमेव तदिति भावः ।
शरीरं चेतनावत् इच्छानुविधायिक्रियत्वादिन्द्रियादिमत्त्वाद्वा यन्नैव तन्नैवं यथा घटादीति व्यतिरेकानुमानं च देहस्य चैतन्येऽत्र वाक्ये गर्भितम् ।
कार्यद्रव्यविशेषगुणत्वस्य कारणगुणपूर्वकत्वव्याप्तावनैकान्त्यमप्याह ‘क्रमुके’ति ।
क्रमुकफलसंमिश्रिचूर्णकोपलिप्तताम्बूलपत्रस्य दन्तसङ्घट्टनैः पूर्वावयवविनाशे तदवयवानां संश्लेषविशेषतो निष्पन्ने पिण्डितावयविनि रक्तं रूपमवयवेष्वविद्यमानं संश्लेषविशेषत एव तेषामुत्पन्नमिति तत्र व्यभिचार इति भावः ।
आक्षिपति ‘चर्वणे’ति ।
दन्तसंमर्दैः पूर्वावयविनो व्द्युणुकपर्यन्तस्य नाशे परमाणुषु स्वतन्त्रेषु चर्वणोद्भूतमुख्याग्निसंयोगलक्षणपाकवशाद्रक्तरूपस्योत्पत्तेः कारणगुणपूर्वकमेव पिण्डितावयविनि रक्तं रूपमिति न व्यभिचार इति भाव आक्षेप्तुः ।
परिहरति ‘न प्रमाणाभाव’दिति ।
संश्लेषविशेषस्यैव क्वचिद्रूपान्तरप्रयोजनकत्वमेष्टव्यम् ।
यथा हरिद्राचूर्णे चूर्णकजलसंयोगेनैव हि रक्तं रूपं दृष्टम् ।
तथात्रापि संभवात् पाककल्पनायां मानाभाव इति भावः ।
चर्वणस्थले पीलुपाकेनैव रूपान्तरमित्याग्रहेऽपि स्थलान्तरे व्यभिचारमाह ‘सितासिते’ति ।
न हि चित्रपटस्थलेऽवयवेषु पाकसंभवः ।
न चावयवेषु चित्रं रूपम् ।
तथा चचावयविविशेषगुणस्य स्वसजातीयावयवगुणपूर्वकत्वमिति नियमस्यचित्ररूपेऽनैकान्त्यमिति भावः ।
साजात्यं रूपत्वाद्यवान्तरजात्या विवक्षितम् ।
न हि नीलतन्तुभिः शुक्लपटारंभः ।
रूपत्वादिना साजात्यविवक्षायां तु तस्यापि प्रसङ्ग इति ।
ननु चित्रं नाम रूपान्तरं नेष्यते ।
न चैवं नानारूपतन्तुभिरारब्धश्चिंत्रपटो नीरूपः स्यात् ।
रूपादेर्व्याप्यवृत्तित्वनियमादव्याप्यवृत्तिनानारूपवत्त्वस्य सत्मिन्नुपगमासंभवादिति वाच्यम् ।
अवयवरूपेणैव चाक्षुषत्वोपपत्तौ चित्रपटस्य नीरूपत्वेऽपि क्षतिविरहात् ।
समवायस्वसमवायिसमवेतत्वान्यतरसंबन्धेनोद्भूतरूपस्य द्रव्यचाक्षुषे हेतुत्वोपगमादिति चेदत्राह ‘सर्वमेवे’ति ।
एवमवयवरूपेणैव चाक्षषोपपत्तेः सर्वस्याप्यवयविनो रूपवत्तवं नेष्यतामित्यर्थः ।
इष्यत एवमेव लाघवादित्यत्राह ‘अनुभवे’ति ।
साक्षाद्रूपवत्त्वोपलम्भव्यवहारयोरबाधितयोः सत्त्वादिष्टापत्तिर्नीरूपत्वेऽवयविनः कर्तुं न शक्यत इत्यर्थः ।
चित्रः पट इति चाबाधितप्रतीतिव्यवहारतश्रित्रं रूपमप्येष्टव्ययमिति भावः ।
नन्वयवनानारूपैरव्याप्यवृत्त्येव नानारूपं चित्रपट उपेयते प्रतीतिबलात् ।
तथा च न तत्र व्यभिचार इत्यत्राह - ‘विशेषगुणश्चे’ति ।
जलीयस्य करकस्यावयवसंश्लेषविशेषादारम्भकसहकारिवैचित्र्याच्च द्रवत्वरहितस्य कठिनस्पर्श उपलभ्यमानो न कारणगुणपूर्वकः ।
जलपरमाणुषुकठिनस्पर्शस्याभावात् ।
तथा च करकस्पर्शे कारणगुणपूर्वकत्वनियमस्यव्यभिचार इति भावः ।
नन्ववयवसंयोगविशेष एवास्तु काठिन्यम् ।
तथा च क्कानैकान्त्यमित्यत्राह ‘न च संयोगे’ति ।
अवयवसंयोगविशेषस्य काठिन्यरूपत्वे तस्यावयविन्यवृत्तेः कठिनः करक इति प्रतीतिव्यवहारौ न स्याताम् ।
कथञ्चित्तदुपपादनेऽपि चाक्षुषद्रव्यवृत्तिसंयोगस्य चाक्षुषत्वात्काठिन्यस्य चक्षुषाऽप्युपलंभप्रसङ्ग इति भावः ।
‘स्पर्शविशेषतये’ति ।
त्वङ्भात्रग्राह्यगुणत्वात्काठिन्यं स्पर्शविशेष एवेति साम्प्रतम् ।
पदार्थविद्भिः काणादैः स्पर्शविशेषतयैव च तदभ्युपगतमिति भावः ।
देहात्मवादे कर्तृकर्मभावविरोधमाशङ्क्य परिहरति - ‘दृश्यस्ये’त्यादिना ।
‘को विरेध’ इति ।
विरुद्धार्थे हि कथन्ता ।
द्रष्टुर्दृश्यत्वेऽविरोधात्का नाम कथन्तेति भावः ।
विरोधमाह ‘अयमेवे’ति ।
तत्क्रियायां तदैव कस्यचित्कर्तृत्वं कर्मत्वं च न युक्तम् ।
क्रियया आप्तुमिष्टतमं हि कर्म साध्यरूपम् ।
क्रियाश्रयः कर्त्ता च सिद्धरूपः ।
सिद्धसाध्ययोर्नैक्यं संभवतीति विरोधः कर्तृकर्मत्वयोरिति भावः ।
आक्षेप्तुर्मुखेनैव समाधिं वाचयितुं प्रतिबन्दीमाह ‘यद्येव’मिति ।
समाधिमाहाक्षेप्ता ‘रूपभेदा’दिति ।
समाधितौल्यमुत्तरमाह देहात्मवादी ‘समान’मिति ।
यथा आतरिक्तात्मवादेऽहन्त्वादिना कर्मत्वम्, मनःसंयोगत्त्वादिना च कर्तृत्वं ज्ञानक्रियायामित्याकारभेदादविरोध उच्यते, तन्न्यायस्य न देहात्मवादे दण्डनिवारणमिति भावः ।
वस्तुतो यादृशस्य कर्मत्वस्य कर्तृत्वेन विरोधः, न तादृशं ज्ञानकर्मत्वम् ।
अतोऽपि न दोष इत्याह - ‘अपि च परे’ति ।
‘स्वसमवेतज्ञानफलभागिनि’ इति ।
स्वनिष्ठज्ञाननिरूपितविषयतावत इत्यर्थः ।
विषयताया विषयिनिरूप्यत्वात् ज्ञानफलत्वोपचारः ।
‘कर्मत्वमेव नास्ती’ति ।
मुख्यं कर्मत्वं नास्तीत्यर्थः ।
अयं भावः - परसमवेतक्रियाजन्मफलाश्रयत्वं मुख्यं कर्मत्वम् ।
यथा ग्रामस्य गमनकर्मत्वम् ।
विषयविषयिभावलक्षणममुख्यमेव तु ज्ञानादिकर्मत्वम् ।
सविषयार्थधातुयोगे कर्मत्वं विषयतारूपमिति हि तार्किकाणां समयः ।
अस्य ज्ञानकर्तर्यप्युपगमान्नात्मानं जानातीत्यादेरनुपपत्तिः ।
मुख्यस्यैव तु कर्तृत्वेन विरोध इति ।
नचामुख्यमिदं कर्मत्वं नानुशासनसिद्धमिति वाच्यम् ।
‘कर्तुरीप्सिततमं कर्मे’त्यस्यैव तन्त्रेणास्मिन्नपि प्रमाणत्वोपगमात् ।
कर्तुः ज्ञातुः, क्रियया-ज्ञानेन, आप्तुमिष्टतमं - ज्ञातव्यत्वेनाभिमतं कर्मेति चात्र पक्षेऽक्षरार्थो वाच्यः ।
अनिष्टस्य ज्ञातस्य तु ‘तथा युक्तं चानीप्सित’मित्यनेनैव क्रियायुक्तं - ज्ञानेन विषयतया संबद्धं अनीप्सितं ज्ञेय त्वेनेच्छाऽविषयभूतमपि कर्मेति चार्थोऽमुख्यकर्मत्वपक्षे ।
व्यवहारस्य ज्ञानफसत्वेऽपि तदाश्रयत्वाभावान्न विषयस्य मुख्यं कर्मत्वम् ।
आत्मनः स्वव्यवहाराश्रयत्वेऽपि तद्धेतुस्वगोचरस्वनिष्ठज्ञानस्य न परसमवेतत्वमिति न तत् ।
व्यवहारानुगुण्यलक्षणज्ञानफलविवक्षायां तु विषयस्य घटादेर्ज्ञानकर्मत्वं मुख्यं स्यान्नाम ।
अधिकमर्गे वक्ष्यामः ।
समर्थितं देहात्मत्वं निगमयति ‘अत’ इति ।
बार्हस्पत्याः - बृहस्पतिप्रणीतलोकायततन्त्रनिष्ठाश्चार्वाकाः ।
ऐश्वर्यमहिमक्षयायासुराणां वैदिकश्चद्धाविलोपकं मोहकं तन्त्रं निर्मितं सुरगुरुणासुरेन्द्रानुनयविवशेनेति च प्रसिद्धिः ।
देहस्यैव चैतन्ये तत्सूत्रं प्रमाणयति ‘तथा चे’ति ।
पृथिव्यादीति चत्वार्येव भूतानि तत्त्वानि ।
तैः संहत्य निष्पादिते देहे प्रत्येकमसदपि चैतन्यमुद्भवति ।
किण्वादिभ्यो निष्पादिते सुराद्रव्य इवापूर्वा मदशक्तिरिति सूत्रार्थः ।अहं जानामीति प्रत्यगूवृत्तिरहमिति मतिरिदङ्कारगोचराच्छरीरान्नीष्कृष्टमेव स्वविषयमुपस्थापयति ।
घटादेरिव ।
पराग्वृत्तिरिदमिति शरीरविषयिणी च शेमुषी स्वविषयमहङ्कारगोचराद्विवेचयति यथाऽयं घट इति ।
इतरथा स्वपरविभागानुपपत्तेः ।
न चैकस्मिन्नेव रूपभेदादेवं प्रतीतिः ।
न हि देवदत्तो दण्डिनमात्मानं दण्ड्ययमिति प्रत्येति ।
अन्यच्च, नियमितबहिरिन्द्रियवृत्तेरवहितमनसोऽहमिति स्वात्मानमवयतः करचरणोदराद्यवयवा न भासन्ते ।
स्वथीयसि चावयविनि शरीरेऽहमिति मतिगोचरेऽभ्युपगभ्यमानेऽवश्यमवयवप्रतिभासेनाप्यन्वयिना भाष्यम् ।
न ह्यास्ति संभवः - अवयवी स्थवीयान् प्रचकास्ति ; अवयवास्तु न केचन प्रथन्त इति ।
यत्तु त्र्यणुके व्यभिचार इति ; तन्न ।
वातायनविवरदृश्यनि र्भागत्रसरेणुव्यतिरेकेण परमाणुस्वीकारे कारणाभावात् ।
प्रत्यक्षयोग्यावयवस्य तथा प्रतिभासनियमाद्वा नव्यभिचारः ।
न चावयविनि बहिरन्द्रियग्राह्य एवायं नियम इत्युत्प्रेक्ष्यम् ।
प्रमाणाभावात् ।
अन्तःकरणस्य च केवलस्यावयविनि वृत्त्यसम्भवाच्च ।
वायोोस्तु रूपाद्यभावात् केवलस्पर्शाधारतयोपलम्भः ।
तत्रापि तादृशानेकावयवप्रतिभासोऽस्त्येव स्पृश्यमान इव घटादाविति न तेन व्यभिचारः ।
यत्तु स्थूलोऽहं कृशोऽहमिति शरीरेऽहंप्रत्ययो दृश्यत इति ; तदपि पर्यालोचनीयम् ।
तत्राप्यन्तःशरीरमहमाकारमेव किमपि वस्तु अहङ्कारो गोचयति, न पुनश्चाक्षुष इव देहप्रत्ययः स्थौल्यबाल्यादियोगिदेहमात्रम् ।
अत एव ममेदं गृहमितिवात् ममेदं शरीरमिति भेदप्रतिभासो व्यवहारश्च ।
न ह्यसौ साक्षात््प्रतीतभेदनिमित्तः प्रतायमानः शिलापुत्रकशीरव्यपदेशवदौपचारिको युक्त आश्रियितुं ममात्मेतिवत् ।
तत्राऽऽत्मशब्दस्यात्मनि वृत्तैरैकार्थ्यादविवादाच्च युक्तं तथाऽऽश्रयणम् ।
न चैवमत्र ।
अतो देहव्यतिरेकिणः चेतनस्य प्रत्यक्षसिद्धत्वाच्चत्संबन्धिनि लाक्षणिको देहेऽहंशब्दप्रयोगः ।
बाह्यविषयेषु परस्परविरुद्धरूपपरिमाणसङ्खयासन्निवेशग्रहणेन व्यतिरेकस्य स्फटत्वात् आत्मनि तादृशरूपान्तराग्रहणेन देहाभेदप्रतिभासभ्रमोऽविवेकिनाम् ।
इतश्च - इच्छानुविधायिस्वव्यापारोऽयमात्मा ।
इच्छयैव हि सङ्कल्पयति स्मरत्यभ्यूहति च ।
शरीरमपि तदिच्छानुविधायिशयनासनोत्थानादिचेष्टमिति भवत्यभेदभ्रमः; शुक्तिरजतादाविव ।
प्रणिहितमनसस्तु ज्ञातृतया सिद्ध्यन्तमहमाकारमर्थमनवयवमिदमिति परिस्फुरतः स्थूलादवयविनः शरीरात् पृथगपरोक्षयन्त्येव ।
भवन्ति च - जानामीति प्रत्ययः शरीरविषयो न भवति ; अर्थान्तरविषयो वाऽयम् ; अप्रकाशमानतदवयवप्रतिभासत्वात् ; य एवंप्रकारः स तथा, यथाऽयमिति प्रतिभासः ।
यच्छरीरविषयं, न तत् तथा ; यथोभयसं मतं शरीरज्ञानम् ।
तथा - शरीरमहंप्रत्ययगोचरो न भवति, इदमिति गृह्यमाणत्वात्, बाह्येन्द्रियग्राह्यत्वाद्वा, घटादिवदिति ।
अथ देहात्मवादमिरासः ‘अत्र प्रतिविधि’रित्यादिना ।
अत्र - देहस्यात्मत्वे, प्रतिविधिः - प्रतिविधानम्, बाधकप्रमाणम् ।
बाधो वा ।
उपन्यस्यत इति शेषः ।
‘प्रत्यक्षबाधतः’ इति ।
इदंत्वेन ग्रहणमेव हस्तगेहादेरिव देहस्यात्मभेदग्रहलक्षणं तस्यात्मत्वे बाधकमित्यर्थः ।
एतदेवोपपादयति ‘न खलु’ इति ।
अहमिदंकारौ - अहमिदंप्रत्ययौ ।
स्वात्मगोचरोऽहंप्रत्ययः, स्वान्यगोचरश्चेदंप्रत्ययः एकस्य पुंस एकस्मिन्नेवार्थे न घटत इत्यर्थः ।
विवृणोत्येतत् ‘अहं जानामी’त्यादिना ।
प्रत्यग््वृत्तिः - प्रत्यगर्थात्मविषयिणी ।
निष्कृष्टं - विलक्षणम् ।
पराग्वृत्तिः आत्मान्यविषया ।
अहङ्कारगोचरात् - अहंप्रत्ययविषयात् स्वात्मनः ।
शिष्टं स्पष्टम् ।
‘इतरथे’ति ।
इतरथा - अहमिदंप्रतीत्योर्विलक्षणार्थविषयकत्वाभावे ।
अयंभावः - अहमिति स्वस्मै भासमानः प्रत्यगर्थः स्वात्मा ।
स्वस्मा इदन्त्वेनं भासमानश्च परागर्थः पर इति स्वपरविभागो हि अहमिदंबुद्धिशब्दाभ्यामेव निरूप्यः ।
अर्थवैलक्षण्याभावे तयोरयं न घटत इति ।
अहमर्थस्यैव भवत्वाकारान्तरेण भानमिदंत्वेनेत्यत्राह ‘नही’ति ।
प्रत्यक्त्वेनाहमिति भासमानस्यैव स्वात्मनोः दण्डित्वेनेदमिति भानं स्याद्दण्ड्ययमितीत्यर्थः ।
नन्वयमहस्मीत्यादिप्रत्ययो भवत्येव स्वात्मनि ।
सत्यम् ।
तत्रापपीदंशब्देन पराग्रूपधर्मोल्लेखः ।
आत्मस्वरूपस्योल्लेखोऽहमिति ।
तथा च प्रत्यग्वृत्तिरहंकारः, पराग्वृत्तिरिदङ्कार इति व्यवस्थायां नानुपपत्तिरिति हार्दम् ।
ननु ममेदं वपुरिति ममायमात्मेतिवत्स्यादित्यरुचेराह ‘अन्येच्चे’ति ।
हेत्वन्तरं च देहस्यानात्मत्वेऽस्तीति यावत् ।
तदेवाह ‘नियमिते’ति ।
निवारितबहिरिन्द्रियप्रवृत्तेर्मानसमहमिति स्वात्मानुसन्धानं न देहगोचरम्, करचरणाद्य विषयकत्वात् ।
अवयविनः स्थूलम् ग्रहणे कतिपयतदवयवभानस्यावर्जनीयत्वादिति भावः ।
अवहितमनसः - आत्मग्रहणेदंपरमनसः ।
अवयतः - जानतः ।
स्थवीयान् - अतिशयेन स्थूलः ।
प्रत्यक्षग्राह्यावयवसमवेत इति विवक्षितम् ।
अवयविग्रहमस्य तदवयवगोचरत्वमिति नियमस्य त्र्यणुकग्रहणेऽनैकान्त्यं वारयति ‘वातायने’ति ।
जालरन्ध्रप्रविष्टरविकरग्राह्यनिरवयवत्र्यणुकातिरेकेण तदवयवावयवपरमाणुकल्पनायां प्रमाणाभावादित्यर्थः ।
त्रसरेणोर्निरवयवत्वान्न तद्ग्रूहणे निरुक्तनियमस्य व्यभिचार इतिभावः ।
परमाणुकल्पनामुपगम्याप्याह ‘प्रत्यक्षे’ति ।
प्रत्यक्षयोग्या अवयवा यस्य, तस्यावयविनः अवयवभानव्याप्यभानवत्त्वनियमान्न त्र्यणुकप्रत्यक्षे व्यभिचारः ।
तदवयवस्यातीन्द्रियत्वादिति भावः ।
‘न चावयविनी’ति ।
बाह्येन्द्रियजप्रत्यक्ष एवावयविभाननियतत्वमवयवभानस्येति कल्पनं स्वोप्तेक्षणमात्रम् ।
अवयविप्रत्यक्षत्वव्यापकत्वस्यावयवभाने स्वीकारे बाधकोपलम्भो हि बाह्यतत्प्रत्यक्षमात्रविषयकतया नियमसङ्कोचे मानम् ।
तदभावादिति भावः ।
ननुमनसा केवलमवयवि गृह्यते विनाऽवयवमित्यत एव नियमः सङ्कोचनीय इति चेत्तत्राह ‘अन्तकरणस्ये’ति ।
अद्वारीकृतबहिरिन्द्रियस्य मनसः केवलेऽवयवविशेष्ट वा शरीरादौ बाह्यार्थे ग्रहणप्रवृत्तेरसंभवाच्चेत्यर्थः ।
बाह्यार्थे स्वान्तस्यास्वातन्त्र्यमिति हि तार्किकाः ।
अतो न मनसा शरीरस्य ग्रहणं घटेत केवलेन ।
चैतन्यवत्त्वेन तस्याबाह्यत्वान्मनसा ग्रहणं बवेद्विनाऽवयवेनेति तु न कल्पनीयम् ।
तच्चैतन्य एव विगानादिति भावः ।
निरुक्तनियमस्य वायुस्पार्शनेऽनैकान्त्यं परिहरति ‘वायोस्तु’ इति ।
रूपादिमदवयविप्रत्यक्षस्य तदवयवगोचरत्वमिति नियमे नैव दोषः नीरूपत्वाद्वायोः स्पर्शवत्त्वमात्रेण तस्य स्पार्शनोपगमेऽपीति भावः ।
वस्तुतः वायुस्पार्शनस्यापि तदवयवगोचरत्वमित्याह ‘तत्रापी’ति ।
अवयविसन्निकर्षे तदवयवसन्निकर्षस्यावर्जनीयत्वाद्योग्यसन्निकृष्टावयवभानस्यावयविभाननियतत्वेनावयवविप्रत्यक्षस्य तदवयवगोचरत्वमिति नियमेऽपि न वायुस्पार्शने व्यभिचारः ।
तत्र तदवयवस्यापि भानात्, घटस्पार्शन इव घटावयवस्येति भावः ।
देहात्मत्वसाधिकां प्रत्यक्षप्रतीतं ‘यत्तुं’ इत्यादिनाऽनूद्य समाधत्ते ‘तदपी’त्यादिना ।
शरीरान्तर्वर्तमानमहमाकारम् - अहन्तालक्षणं प्रत्यगात्मानमेवाहंप्रत्ययो विषयीकरोति ।
स्थूलोऽहं जानामीत्यहंप्रत्ययो देहद्वारा स्थौल्यान्वितान्तरात्मगोचर एवेति भावः ।
मानसे प्रत्यये देहभानं तूपनयमर्यादया ।
स्थूलोऽहं जानामीति व्यवहारेऽपि शरीरवाची स्थूलशब्दस्तत्सबन्धिन्यन्तरात्मन्यौपचारिकः ।
सिद्धान्ते तु मुख्य एव ।
शरीरस्य चेतनं प्रत्यपृथक्सिद्धप्रकारत्वात्, अपृथक्सिद्धप्रकारवाचिनां च निष्कर्षकभिन्नानां शब्दानां धर्मिणि मुख्यवृत्तेरुपगमात् ।
अभ्रान्तीयप्रत्ययव्यवहारयोरित्थं गतिर्निरूपिता ।
समानाधिकरणप्रत्ययस्य देहवदात्मगोचरत्वे व्यधिकरणप्रत्ययव्यपदेशानुग्रहोऽप्यस्तीत्याह ‘अत एवे’ति ।
ममेदं शरीरमिति भेदव्यपदेशस्य शिलापुत्रकस्य शरीरमितिवदौपचारिकत्वमस्त्वित्याशङ्कां व्युदस्यति ‘न ह्यसा’विति ।
प्रतायमानः - प्रतन्यमानः विस्तार्यमाणः ।
प्रचुरं प्रयुज्यमानो लोकेनेति यावत् ।
प्रचुरव्यपदेशस्यौपचारिकत्वकल्पना न साधीयसीति भावः ।
‘ममायमात्मे’त्यस्य तु मतद्वयेऽपि औपचारिकत्वमगत्या वाच्यमेवेत्याह ‘तत्रे’ति ।
ऐकार्थ्यात् - अहमात्मशब्दयोरभिन्नार्थकत्वात् ।
अविवादाच्च - अहमर्थात्मनौरैक्ये विवादाभावाच्च ।
‘न चैवमत्रे’ति ।
शरीराहंशब्दयोरैकार्थ्यासिद्धेस्तदर्थैक्ये विवादाच्च ‘ममेदं शरीरं’मिति नोपचरितार्थं कल्प्यम् ।
किन्तु ‘ममेदं गृह’मितिवन्मुख्यार्थमेव स्वीकार्यमिति भावः ।
देहे चाहंशब्द औपचारिक इत्याह ‘अत’ इति ।
अहं गच्छामीत्यादावहंशब्द आत्मवति देहे लाक्षणिक इति यावत् ।
देहात्मभ्रमवतां तु शक्तिभ्रममूलस्तथा प्रयोग इति बोध्यम् ।
एवं तर्कबलादहं जानामीति मानसप्रत्यक्षस्य सावयवदेहव्यतिरिक्तात्मपरत्वं व्यवस्थापितम् ।
एवं देहव्यतिरिक्तस्यात्मनो भाने सति कथं देहाभेदभ्रम उदेतीत्यत्राह ‘बाह्ये’ति ।
सन्निवेशः - आकृतिः - अवयव - संस्थानम् ।
स्फुटत्वादित्य स्यानन्तरमभेदभ्रमस्यानुदयेऽपीति शेषः ।
देहाभेदप्रतिभासश्चासौ भ्रमश्चेति कर्मधारयः ।
भेदकाकाराग्रहादभेदभ्रमो देहात्मनोरविवेकिनां भेदकाकारग्रहरहितानामित्यर्थः ।
अयमाशयः - यद्यपि देहतो विभिन्नपरिमाण आत्मा ।
अथापि तत्परिमाणं न प्रत्यक्षम् ।
ज्ञानसुखादि प्रत्यक्षमपि न यावद्देहे तदसंभवग्रहः, तावत्तन्नभेदकम् ।
रूपाद्यप्येवमात्मनि तदसंभवग्रहमन्तरा न भेदकम् ।
सङ्ख्यादिस्तु साधारमत्वान्न भेदक इति ।
बाधकस्य भेदककारग्रहस्याभावमुपपाद्य ऐक्यभ्रमे साधकं सादृश्यज्ञानं चोपपादयति इतश्चेति ।
आत्मेच्छानुविधायिस्वव्यापारकत्वं देहस्यात्मना तौल्यमित्यर्थः ।
अभ्यूहति इति उपसर्गादस्यत्यूह्योर्वेति वाच्यसिति वार्तिकेण वैकल्पिकं परस्मैपदम् ।
अभ्यूहनम्-वितर्कणमुत्प्रेक्षणं वा ।
समानधर्मदर्शनात्प्रसक्तस्यैक्यभ्रमस्य भेदकाकारदर्शनतो निवृत्तिं दर्शयति प्रणिहितेति ।
प्रणिधानम्-अवधानम् ।
ज्ञातृतया सिद्ध्यन्तं-ज्ञातृत्वैकाकारेण प्रकाशमानम् ।
अनवयवम्-निरवयवम् ।
आत्मा हि मनोगोचरः, स चेत् सावयवः, तथा गृह्यते ।
न च तथा गृह्यते ।
किन्तु ज्ञातृत्वैकाकारः ।
अतो निरवयवः ।
एकरूपतयाऽनवयवतया ग्रह एव च भेदकाकारग्रहः ।
अवहितमनसो निरुक्तपरामर्शवतश्च मनसा देहवैलक्षण्येनात्मनः प्रत्यक्षं भवत्येवेति भावः ।
प्रणिहितेतिवाक्यं योगिप्रत्यक्षविषयतयापि योजयितुं शक्यते ।
एवमहं जानामीति प्रत्यक्षस्य देहातिरिक्तात्मविषयत्वं तर्कबलेन व्यवस्थापितम् ।
इदमेव प्रयोगारूढं प्रदर्शयति भवन्ति चे ति ।
प्रयोगा इति शेषः ।
प्रथमप्रयोगे शरीरविषयकत्वाभावः,अनन्तरप्रयोगे शरीरातिरिक्तविषयकत्वं चाहं जानामीत्यपरोक्षस्य प्रदिदर्शयिषितम् ।
उभयत्रापि हेतुरेक एव शरीरावयवाविषयकप्रतिभासत्वरूपः ।
अन्वय्युदाहरणमुभयत्र य एवमिति ।
अयमिति प्रतिभासः-घटोऽयमित्यादिप्रतिभासः ।
आद्ये व्यतिरेक्युदाहरण यच्छरीरेत्यादिना प्रदर्श्यते ।
प्रत्यक्षपक्षकमुक्त्वा शरीरपक्षकमन्वयिनमाह तथा-शरीर-मिति ।
इदमिति गृह्यमाणत्वं-बाह्यत्वेन गृह्यमाणत्वम् ।
बाह्यत्वमिति फलितो हेतुः ।सर्वस्य बाह्याभ्यन्तरभोग्यवर्गस्य शब्दसुखादेरात्मार्थतां, भोक्तुश्चात्मनोऽनन्यार्थतां, सर्वस्य शेषितां प्रत्यक्षतः प्रतिपद्यामहे ।
न च शरीरमनन्यार्थम् ;सङ्घातत्वात् ।
सङ्घाता हि सर्वे परार्था दृष्टाः शयनासनरथादयः ।
न च सङ्घाताः संहतशरीराद्यर्था दृश्यन्त इत्यात्मनोऽपि संहतत्वमापद्यत इति वाच्यम् ।
तथा सति तस्यापि परार्थत्वप्रसङ्गात् ।
अपरार्थश्चायमात्मा प्रत्यक्षतः प्रकाशत इत्युक्तम् ।
योग्यानुपलम्भबाधितं चात्मनि सङ्घातत्वम् ।
सङ्घातान्तरार्थत्वे च तस्यापि तथा, ततोऽन्यस्यापि तथेति न व्यवतिष्ठेत ।
न च व्यवस्थायां सत्यामव्यवस्था युक्ता ।
न च सङ्घातस्य परार्थत्वे परस्य संहतत्वमपि प्रयोजकम् ; भोक्तृतयैवात्मनः स्वार्थसङ्घातं प्रति परत्वोपपत्तेः ।
व्याप्त्यनुपयोगिनोऽपि दृष्टान्तदृष्टधर्ममात्रस्यानुरोधेनानुमानमिच्छतः सर्वानुमानोच्छेदप्रसङ्गः ।
शरीरपक्षकानात्मत्वसाधकप्रयोगे तृतीयं सङ्घातत्वरूपं हेतुमुपक्षिपति किं चेति ।
अपरार्थमिति ।
अपरार्थं-स्वप्रधानम्, स्वमात्मानम्-अहमर्थभूतमात्मानम्, आत्मार्थे-भोक्तृभूताहमर्थात्मार्थे, अन्यच्च-परागर्थजातं च, जानतः-विदतः, सङ्घातत्वात्-अवयवसन्निवेशवत्त्वात्, परार्थे-स्वभिन्नभोक्तृभोगार्थे, देहेऽस्मिन्, आत्मबुद्धिः कथं जायेतेति श्लोकार्थः ॥ अत्रायं प्रयोगः-देहो नात्मा परार्थत्वाद्रथादिवत् ।
न च स्वरूपासिद्धिः ।
सङ्घातत्वाद्देहस्य पारार्थ्यसिद्धेरिति भावः ॥5॥आत्मत्वापरार्थत्वयोः परार्थत्वानात्मत्वयोश्च व्याप्यव्यापकभावं श्लोके पूर्वार्धोक्तं विवृणोति सर्वस्येति ।
आत्मार्थताम्-भोक्त्रात्म-भोगफलसाधनताम् ।
अनन्यार्थतया फलितं सर्वस्य शेषितामिति ।
सर्वस्य भोग्यस्य भोक्तृत्वेन स्वामितां प्रधानतामित्यर्थः ।
शरीरस्यात्मत्वव्यापिकामनन्यार्थतां वारयति नच शरीरमिति ।
सङ्घातत्वस्य पारार्थ्येनाविनाभावग्रहस्थलमुदाहरति सङ्घाता हीति ।
परार्थाः-भोक्तपरभोगार्थः ।
सङ्घातपरस्य संहतत्वदृष्टेः शरीरपरत्वेनानुमितस्याऽऽत्मनोऽपि सङ्घातत्वं स्यादित्याशङ्कामनूद्य प्रतिक्षिपति न च सङ्गाता इति ।
तथा सतिति ।
आत्मा सङ्घातरूपं संहतपरत्वादित्यनुमाने प्रतितर्कोऽत्र विवक्षितः आत्मा यदि सङ्गातः स्यात्तर्हिपरार्थः स्यादिति ।
आत्मा न सङ्घातः अपरार्थत्वादिति प्रत्यनुमानं वा ।
सङ्घातदेहपरत्वेनानुमितस्याऽऽत्मनः सङ्घातरूपत्वे प्रत्यक्षबाधमप्याह योग्यानुपलम्भे ति ।
यद्वा अनुमानबलात्प्रसक्तमपि सङ्घातत्वमात्मनः प्रमाणान्तरविषयीकारतो निवर्त्स्यतीत्याह योग्यानुपलम्भे ति ।
शरीरं संहतपरार्थम्, सङ्घातत्वात् खट्वादिवदित्यत्र शरीरभिन्नत्वमुपाधिश्च ।
न च पक्षभिन्नत्वस्योपाधित्वेऽनुमानविलोपप्रसङ्ग इति वाच्यम् ।
यत्र पक्षे साध्याभावः प्रमाणान्तरेण निश्चितः तत्र वह्नेरनुष्णत्वानुमान इव पक्षभिन्नत्वस्योपाधित्वसंभवात् ।
प्रकृतेऽपि शरीरात्मवादिनां तदतिरिक्तात्मवादिनां वा संहतपरार्थत्वाभाव एवोपेयते शरीरस्येति तद्भिन्नत्वस्योपाधित्वे न दोष इत्यभिमतम् ।
सङ्घातत्वस्य संहतपरार्थत्वेन न व्याप्तिः ।
अनवस्थापादकत्वादित्याह सङ्घातान्तरेति ।
तस्यापि-साध्यघटकस्यापि सङ्घातस्य, तथा- सङ्घातान्तरार्थत्वम् ।
ततोऽन्यस्यापि-साध्यघटकसङ्गातानुमितस्य. सङ्घातान्तरस्यापि, तथा-सङ्घातान्तरार्थत्वम् ।
न च व्यवस्थाया मिति ।
सङ्घातत्वस्य परार्थत्वेन व्याप्तौ इष्यमाणायां व्यवस्थायां संभवत्यां संहतपरार्थत्वेन तस्य व्याप्तेराश्रयणमनवस्थाप्रयोजकत्वान्न युक्तमिति भावः ।
ननु भूयःसहचारदर्शनाधीनो हि व्याप्तिग्रहः ।
स च संहतपरार्थत्वेनैव सङ्घातत्वस्य भवेत्, खट्वादौ तथा दर्शनादित्यत आह न च सङ्घातस्ये ति ।
परस्य संहतत्वमन्तरैव सङ्घातप्रयोज्यनियतभोगरूपातिशयभाक्त्वेन तं प्रति शेषित्वलक्षणं परत्वं -प्राधान्यं संभवतीति परार्थत्वनियमस्य सङ्गात उपपत्तेः सपक्षदृष्टमपि परस्य संहतत्वं नाविनाभावग्रहोपयोगि ।
संहतपरार्थत्वे साध्ये सङ्घातत्वहेतोरप्रयोजकत्वमिति च भावः ।
सपक्षेदर्शनमात्रेण व्याप्त्यनुपयोगि-सर्वघर्मोपरागेण साध्यस्य पक्षेऽनुमानेऽनुमानाप्रामाण्यप्रसङ्गश्वेत्याह व्याप्त्यनुपयोगिनोऽपी ति ।
पक्षेपर्वते सपक्षदृष्टमहानसीयत्वकारीषत्वाद्युपरक्तह्नेरनुमानेऽप्रामाण्यप्रसङ्ग इति भावः ।
धर्ममात्रस्यकृत्स्नस्य धर्मस्य ।
अनुरोधेन-व्यापकतावच्छेदककोटिघटनेन ।
अनुमानम्-पक्षे तावदाकारोपरक्तसाध्यानुमानम् ।
सर्वानुमानोच्छेदप्रसङ्गः- अनुमानमात्रप्रामाण्यविलोपप्रसङ्गः ।
शिष्टं स्पष्टम् ।
एवमहं जानामीत्यादेरहंप्रत्ययस्य प्रत्यक्षरूपस्य देहातिरिक्तविषयत्वं व्यवस्थापितं तर्केण ।
तथा चाहंप्रत्यय एव देहभेदप्रत्ययरूप इतीदङ्कारगोचरे देहे आत्मभेदोऽपि प्रत्यक्षसिद्ध इत्यवर्णि ।सर्व एव कार्यद्रव्यगतविशेषगुणः कारणगुणपूर्वक इति कथमतत्पूर्वकः शरीरे चैतन्यगुणः संभवेत्? ।
यत्तु बार्हस्पत्य वचनम् - पृथिव्यापस्तेजो वायुरिति तत्त्वानि, तेभ्यश्चैतन्यम्, किण्वादिभ्यो मदशक्तिवत् इति; तदनुपपन्नम् ।
शक्तेरविशेषगुणत्वेन तथोपपत्तेः ।
सर्वद्रव्येषु तत्तत्कार्यसमधिगभ्यः तत्प्रतियोगी शक्तयाख्यो गुणः साधारणः ।
नैवं चैतन्यम्, देहैकगुणत्वाभ्युपगमात् ।
कार्यत्वे सत्येकविधप्रत्यक्षसिद्धतया च विशेषगुणत्वात् ।
द्रव्यान्तरसंयोगसमासादितमदशक्तिभिरकार्यभूतैः परमाणुभिर्निजगुणपुरस्कारेण स्वकार्यद्रव्येषु मदशक्तयुत्पादोऽपि नानुपपन्नः ।
ताम्बूलरागस्तु पूर्वद्रव्यावयवविभागानन्तरं द्रव्यान्तरसंयोगजनितरक्तिमगुणैः कारणैः क्रियते ।
दृश्यते हि तत्रावयवेष्वपि प्रत्येकं रक्तिमगुणः ।
नच शरीरावयवेषु प्रत्येकं चैतन्यगुणः प्रज्ञायते प्रतिज्ञायते वा ।
तदुपगमे च एकशरीर एवानेकचेतनापातादङ्गाङ्गित्वाभावः, प्रतिसन्धानव्यवहारलोपश्च ; देवदत्तदृष्ट इव यज्ञदत्तादेः ।
यत्तु- अकारणगुणपूर्वकं चित्ररूपं पटे इति ; तन्न ।
नानारूपता हि चित्रता ।
सा च नानारूपैः तन्तुभिः क्रियत इति किमनुपपन्नमिति ।
प्रत्येकमविद्यमानमपि तच्चित्ररूपं तन्तुषु संहतेषु दृश्यत एव चित्रा इमे तन्तव इति ।
संभूय च तेषां पटारम्भकत्वम् ।
एवं तत्कारणेष्वपि तदिति न क्वचिव्द्यभिचारः ।
न चैकरूपनियमाभावेनावयविनोऽचाक्षुषत्वम् ; महच्वैकार्थसमवायिना रूपवत्त्वेनैव चाक्षुषत्वसिद्धेः ।
अस्तु वा चित्रं नामैको रूपविशेषः ।
स तु रूपैरेव कारणगतैर्नानाविधैरारभ्यत इति दृष्टम् ।
न चैवमवयववर्तिभिरेव चैतन्यैरवयविनि शरीरे चैतन्यविशेषारम्भः ।
चितितन्मात्रस्यैव तेष्वसंभवात् ।
अतो न देहगुणः चैतन्यम् ।
एतेन सुखादयोऽपि शरीरगुणाः प्रत्युक्ताः ।
अपि च दृढ एव शरीरे विरोधिगुणापातमन्तरेण कुसुमविलेपनगन्ध इव निवर्तमानः चैतन्यसुखादिर्न तद्गुणो भवितुमर्हति ।
न खलु तद्विशेषगुणा रूपादयस्तथा निवर्तन्ते ।
आत्मनः परेषां च शरीरगुणाः प्रत्यक्षयोग्याः, बाह्येन्द्रियग्राह्याश्च; न च तथा ज्ञानादिरिति नासो तद्गुणः ।
अथ देह आत्मभेदस्याप्रत्यक्षत्वेऽपि तस्यानात्मत्वमचेतनत्वलक्षणमनु- मानात् सेत्स्यतीत्याह अस्फुटत्वेऽपी ति ।
यद्वा-ननु सङ्घातरूपोऽपि देह एवात्मोपेयते लाघवात् ।
देहभिन्नसङ्घातत्वमेव भवतु परार्थत्वव्याप्यमित्यत्राह अस्फुटत्वे ति ।
प्रथमावतरणिकायां भेदस्याऽऽत्मभेदस्य शरीरेऽस्फुटत्वे-अप्रत्यक्षत्वेऽपीत्यर्थः ।
द्वितीयस्यां च परार्थत्वेन शरीर आत्मभेदस्याप्रसिद्धत्वेऽपीत्यर्थः ।
तदसंभवात् - तस्मिन्-शरीरे असंभवः-उदयायोगः तदसंभवः तस्मात् ।
यद्वा शरीर इति मध्यमणिन्यायेनोभयान्वयि ।
तदसंभवात्-ज्ञानस्यासंभवादित्यर्थः ।
अत्र च तच्छब्दयोरवैरूप्यं सह्यम् ।
तद्गुणान्तरे त्यत्र तद्रुण इत्यत्र च तच्छब्देन शरीरस्य परामर्शनीयत्वात् ।
शरीरे ज्ञानगुणस्योत्पत्तेरयोगाच्छरीरविशेषगुणान्तरवैधर्म्याच्च न ज्ञानं शरीरविशेषगुण इति कारिकार्थः ॥6॥शरीरे ज्ञानस्यासंभवं तावदुपपादयति सर्व एवे ति ।
कारणगुणपूर्वकः-स्वसजातीयस्वाश्रयसमवायिसमवेतगुणासमवायिहेतुकः ।
संभवेदिति ।
शरीरावयवेषु ज्ञानस्याभावात्, भावे वा एकस्मिन्नेव देहेऽनेकचेतनप्रसङ्गात् न कारणगुणपूर्वकं शरीरे चैतन्यं भवेत् ।
विशेषगुणत्वादकारणगुणपूर्वकत्वमपि देहे ज्ञानस्यासंभवीति भावः ।
शक्ते रिति ।
सामान्यगुणत्वेन शक्तेरकारणगुणपूर्वकत्वमुपपद्यते ।
सर्वद्रव्यवृत्तित्वाच्च सामान्यगुणत्वम् ।
दृश्यतत्तत्कार्येणानुमेयः तत्प्रति- योगी- तत्तत्कार्येण निरूप्यस्वरूपः प्रयोजकत्वेन शक्तयाख्यो गुणः सर्वस्मिन्नपि द्रव्ये तत्तत्कार्यप्रतिनियतोऽस्तीतिच शक्त्यः सर्वभावानामचिन्त्यज्ञानगोचराः इति पुराणरत्नवचनतोऽवगम्यत इति भावः ।
नैव मिति ।
नैवं-न सामान्यगुणो ज्ञानम् ।
किन्तु शरीर एवोपगमाद्विशेषगुणः ।
द्रव्यत्वन्यूनवृत्तिगुणत्वं च तत्त्वम् ।
सिद्धान्तप्रक्रिययेदम् ।
सिद्धान्ते परत्वादि च न गुणान्तरम् ।
क्षणसंबन्धाधिक्यादिनैव परत्वादिव्यवहारनिर्वाहादिति भावः ।
वैशेषिकप्रक्रिययाऽप्याहकार्यत्वेसती ति ।
ज्ञानं विशेषगुणः कार्यत्वे सति एकविधप्रत्यक्षविषयत्वाद्रूपादिवत् ।
सङ्ख्यादेर्द्वीन्द्रियग्राह्यत्वात्तत्र व्यभिचारवारणाय एकविधेति प्रत्यक्षविशेषणम् ।
प्रभाभित्तिसंयोगे व्यभिचारवारणाय एकविधप्रत्यक्षविषयजातिमत्त्वं वक्तव्यम् ।
संयोगत्वजातेर्द्वीन्द्रियग्राह्यत्वान्न दोषः ।
आत्मनो मानसप्रत्यक्षविषयत्वात्तत्र व्यभिचारवारणाय कार्यत्वे सतीति ।
एवमपि प्रभात्वजातिस्वीकारे प्रभायां, वायोः स्पार्शनोपगमे वा वायौ व्यभिचारवारणाय एकविधप्रत्यक्षग्राह्यजातीयगुणत्वादिति वक्तव्यम् ।
गुणत्वप्रवेशे च कार्यत्वे सतीति चिन्त्यप्रयोजनमिति बोध्यम् ।
विशेषगुणलक्षणे च ज्ञानादिभिन्नत्वं न दातुं शक्यं ज्ञानादेर्विशेषगुणत्वे प्रामाणिके सतीति च भावः ।
सङ्घातविशेषावयविवादे तु अवयवेषु चैतन्याभावादेव देहस्य चैतन्यं न संभवतीति चानुसन्धेयमत्र ।
ननु रसविशेषो गन्धविशेषो वा मादको मदशब्दवाच्यः ।
स च विशेषगुणो न कारणगुणपूर्वक इति कार्यद्रव्यविसेषगुणस्य कारणगुणपूर्वकत्वनियमो दुर्वच इत्यत्राऽऽह द्रव्यादीना मीति ।
किण्वादीनां सम्मर्दनादिनाव्द्यणुकपर्यन्तनाशे स्वतन्त्रैः परमाणुभिर्द्रव्यान्तरावयवसंश्लेषजनितमदैरारब्धे सुराद्रव्ये कारणगुणपूर्वक एव गुण इति भावः ।
अथ ताम्बूलरसरागेऽनैकान्त्यमुक्तनियमस्य परिहरति ताम्बूले ति ।
स्पष्टोऽर्थः ।
न च शरीरे ति ।
प्रज्ञायते-उपलभ्यते ।
प्रतिज्ञायते-साध्यते ।
देहावयवेषु चैतन्ये साधकाभावमुक्त्वा बाधकमप्याह तदुपगम इति ।
अङ्गाङ्गित्वाभावः - नियाम्यनियामकभावलक्षणगुणप्रधानभावाभावः ।
एकचेतननियाम्यत्वे हि शरीरावयवानां व्यवहाराविसंवादो घटते ।
तेषामेव चेतनत्वे तु परस्परानियम्यतया परस्परवार्तानभिज्ञतया च व्यवहारविसंवादः प्रसज्यत इति भावः ।
प्रतिसन्धाने ति ।
यमद्राक्षं तं स्पृशामीत्यादिप्रतिसन्धानस्य तन्मूलव्यवहारस्य च विलोपः प्रसज्यते ।
अवयवचैतन्ये द्रष्टुः स्प्रष्टुश्चान्यान्यत्वादिति भावः ।
अनिष्टापत्तिरिष्टहानिश्चात्रोक्ते पदद्वयेन ।
नानारूपता-विभिन्नजातीयरूपसमवीयिता ।
विजातीयरूपेषु तन्तुषु संहतेषु चित्रप्रतीतिमाह प्रत्येकमिति ।
एवमिति ।
तत्कारणेष्वपि-चित्रपटकारणेषु तन्तुष्वपि ।
तत्-चित्रं रूपम् ।
एकरूपनियमाभावेने ति ।
अव्याप्यवृत्तिनानारूपवतिचित्रपटे व्याप्यवृत्त्येकरूपाभावेनेत्यर्थः ।
महत्त्वैकार्थे ति ।
लौकिकविषयतया द्रव्यचाक्षुषे सामानाधिकरण्येन महत्त्वविशिष्टोद्भूतरूपस्य समवायेन हेतुत्वसंभवे हेतुतावच्छेदककोटौ व्याप्यवृत्तित्वविशेषणे प्रयोजनाभावः ।
तथा च चित्रपटस्य न चाक्षुषत्वानुपपत्तिरिति भावः ।
रूपस्य व्याप्यवृत्तित्वनियमेऽप्याह-अस्तु वे ति ।
न चैव मिति ।
तन्तुगतविविधरूपैः पटे चित्ररूपारम्भवदवयवगतैरनुद्भूतचैतन्यैर्देहे उद्भूतचैतन्यारम्भोऽस्त्विति च न शङ्क्यम् ।
चितितन्मात्रस्यैव-चैतन्यसामान्यस्यैव मानाभावेन देहावयवेष्वसंभवात् ।
शरीरस्य चैतन्येतदवयवेषु चैतन्यकल्पना, तत्कल्प नायामेव शरीरे चैतन्यसिद्धिरित्यन्योऽन्यसंश्रयाश्चेति भावः ।
एतेने ति ।
ज्ञानस्येव सुखादेरपि विशेषगुणस्य न शरीरधर्मत्वसंभव इति भावः ।
एवं शरीरे तदसंभवां दिति व्याख्यातम् ।
अथ तद्गुणान्तरवैधर्म्या दित्येतद्विवृणोति अपि चे ति ।
विरोधिगुणापातमन्तरा-पूर्वगुणनिवर्तकगुणप्रसङ्गं विना ।
कुसुमविलेपनगन्धः- स्त्रक््चन्दनगन्धः ।
न खलु तदिति ।
अयं भावः- अग्निसंयोगेन रूपपरावृत्तावपि तदप्रसङ्गे रूपस्य यावद्द्रव्यभावित्वं दृष्टम् ।
न च ज्ञानादि स्थिरमेवम् ।
न चोत्तरोत्तरविशेषगुण एव पूर्वपूर्वज्ञानादिविरोधीति वाच्यम् ।
एवमपि अन्त्यस्य चिरमवस्थानप्रसङ्गादिति ।
अयावद्द्रव्यभावित्त्वं ज्ञानादेः शरीरविशेषगुणान्तरतो वैधर्म्यमित्युक्तं भवति ।
अथ वैधर्म्यान्तरं द्विधाऽऽह आत्मन इति ।
स्वात्ममात्रग्राह्यत्वं मनोमात्रग्राह्यत्वं च ज्ञानादेः शरीरविशेषगुणान्तरवैधर्म्यमिति फलितम् ।
रूपादयो हि शरीरगुणाः स्वपरग्राह्या बहिरिन्द्रियग्राह्याश्च ।
न च तथा ज्ञानादीति ।
अत्र प्रयोगः-ज्ञानं न शरीरविशेषगुणः अयावद्द्रव्यभावित्वान्मनोमात्रग्राह्यत्वाद्वा यन्नैवं तन्नैवं यथा रूपादीति ।
एवं ज्ञानस्य शरीरधर्मत्वाभावसाधनेन शरीरस्यात्मत्वं प्रतिक्षिप्तं भवति ।
यथा-देहो नात्मा आज्ञातृत्वाद्धटादिवदिति ।एवं प्रत्यक्षविरोधात्, अन्वयमुखेन साध्यमुपस्थापद्भिरुदीरितसाधनैरपहृतविषयतया इन्द्रियाश्रयत्वादिव्यतिरेकिहेतवो न साध्यमुपस्थापयितुमीशते । (इति देहात्मवादनिरासप्रकरणम्) सन्तु तर्हीन्द्रियाण्येवात्मा । न च तानीदन्तया प्रथन्ते; येन देहवदह ङ्कारगोचराद्बहिष्क्र्रियेरन् । नापि तथोद्भूतरूपादिगुणानि स्थूलानि; येन तत्प्रतिभास इवेन्द्रियगोचरत्वेऽहंप्रत्ययस्य रूपावयवादिप्रतीतिः प्रसज्येत । तव्द्यापारफलं च ज्ञानं तद्गामि युक्तं स्नानाध्ययनादिफलवत् । अत एव सत्यपताः द्रष्टुश्चक्षुषः इति । (इतीन्द्रियात्मत्वपूर्वपक्षप्रकरणम्) तन्न । विकल्पासहत्वात् । तथा हि-किं प्रत्येकमिन्द्रियाणि चेतनानि, संभूय वा? । यदि प्रत्येकम्, इन्द्रियान्तरदृष्टस्येन्द्रियान्तरेण प्रतिसन्धानं न स्यात् । अस्ति च तत्- यमहमद्राक्षं तमहंस्पृशामीति । अत एव न संभूयापि चेतनत्वम् । न हि पञ्चभिरिन्द्रियैः संभूयैकं वस्त्वनुभूयतेऽनुसन्धीयते वा । एकेन्द्रियविगमे च प्रायणप्रसङ्गश्च । इन्द्रियचैतन्ये च तत्तदिन्द्रियापाये तत्तदिन्द्रियार्थस्मरणमपि न भवेत् । न च तव्द्यापारफलतया तत्समवायित्वं ज्ञानस्य । शस्त्रादिव्यापारजन्मनोऽपि पापादेः परसमवायित्वात् । अन्यथा च प्रष्टुर्मृत्युपपत्तिं शरणागतपरित्यागस्य नृशंसतां चाऽऽलोच्य सत्यतपसस्तथा वचनम् । (इतीन्द्रियात्मवादनिरासप्रकरणम्) अस्तु तर्हि मन एव चेतनम् । तथा सति हि पूर्वोक्ता दोषाः परिहृता भवन्ति । तद्धि सर्वेन्द्रियाध्यक्षं प्रज्ञायते प्रतिज्ञायते च । उपपद्यते चेन्द्रियान्तरेण प्रतिसन्धानम् ; दर्शनानुसन्धानाधारस्य मनस एकत्वात् । तत्तदिन्द्रियापायेऽपि स्मरणमप्युपपद्यत एव, मनसो नित्यत्वात् । (इति मनआत्मत्वपूर्वपक्षप्रकरणम्) तदपि न; करणत्वाच्चक्षुरादिवत् । बाह्यान्तरसकलविषयसंवेदनकरणतया हि मनः प्रकल्प्यते । बाह्येन्द्रियेषु यथायथं निजविषयसन्निकर्षभागिष्वपि यतो न युगपदेव सर्वे विषयाः प्रतीयन्ते, अतोऽवगच्छामः-अस्ति किंचिदपरमपि साधनम्, यत्साहायकविरहान्न सर्वे प्रकाशन्ते, कश्चिदेवैकः प्रतीयते इति । तथा सुखादिसंवेदनान्यपि करणवन्ति, क्रियात्वात्, संवेदनत्वाद्वा, रूपादिज्ञानवदिति । तदेवं ज्ञानकरणतयाऽवगतस्य मनसः कथमिव ज्ञाने कर्तृत्वम् ?। स्वातन्त्र्यलक्षणं हि तत् । तच्च स्वच्छन्दानुरोधेन साध्यसिद्ध्यनुगुणोपकरणसंपादनसामर्थ्यम् ; स्वसमवेतमेव वा गुणान्तरं तन्त्रीकृत्य प्रवृत्तिः । करणत्वं तु पराधिष्ठानाधीनव्यापारतारूपपार तन्त्र्यनियतं साधकतमत्वमिति कथमिवैकत्र मनसि परस्परविरुद्ध तदुभयधर्मसंबन्धं प्रतिपद्येमहि ? । अथ तदपि मनः करणान्तरेण स्मरणादिषु कर्तृभावमनुभवति, तथा सति संज्ञामात्रे विवादः । य एव हि चक्षुरादिभी रूपादिन् आन्तरकरणेन च सुखादींश्चेतयते, स एवाऽऽत्मा । तस्मिन्नेव चेत् मनःसंज्ञा निवेश्यते, कामं निवेश्यताम् । न नः किंचिद्धीनम् । किन्तु तदा सर्वलौकिकव्यवहारो बाध्येतेत्यलमनेन । (इति मनआत्मवादखण्डनप्रकरणम्) आह- किमिदं मनो नाम ? । ननूक्तमान्तरं ज्ञानकरणं द्रव्यमिति । किं पुनरस्य साधनम् ? । ननुक्तं युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति । उक्तं नाम; तथापि कथं तत्त्वान्तरसिद्धिः ?। कल्पयित्वाऽपि हि तत् युगपत्स्मरणानुत्पत्त्युपपत्तयेऽवश्याश्रयणीयमेव निमित्तान्तरम् । सन्ति हि युगपदस्य स्मर्तृर्नानार्थानुभवभाविताः संस्काराः । अथ च न सर्वे स्मर्यन्ते । किञ्चिदेव कदाचित् स्मर्यते । संस्कारोन्मेषहेतूपनिपातक्रमात्तथात्वमिति चेत्, एवमपि प्रणिधानमात्रोद्बोधनीयसंस्कारस्य स्मृतियौगपद्यमापद्येत । यावदनुभूतसकलविषयसुस्मूर्षया सर्वतः प्रत्याहृतचेतसः साधारण्येन प्रणिदधयोऽपि न सर्व एवार्थाः स्मृतिमधिरोहन्ति । यदि तु शुभाशुभरूपतया स्मरणानामदृष्टवशाव्द्यवस्था, क्रमज्ञानस्वाभाव्याद्वा आत्मनः ; तथा सति बहिरिन्द्रियेषु च यथा यथं स्वविषयसंप्रयुक्तेषु तथैव युगपज्ज्ञानानुत्पत्तिरुपपद्यत इति कृतमिन्द्रियान्तरेण । स्यान्मतम्- कादाचित्कस्य सुखादेरात्मसमवायिनो बाह्यविषयादृष्टादिनिमित्तकारणस्यासमवायिकारणेन भाव्यम् । तच्चात्ममनः- सन्निकर्ष इति मनोद्रव्यसिद्धिरिति । तदसत् ।सुखदुःखादिपूर्वकालजन्मनोऽभिमतानभिमतविषयसंपर्कजज्ञानस्याऽऽत्मसमवायिन एवासमवायिकारणत्वात् । तस्य च विषयसंप्रयुक्तेन्द्रियसंप्रयोग एवाऽऽत्मसमवेतोऽसमवायिकारणम् । तद्धेतुरपीन्द्रियव्यापारः प्रयत्नमदृष्टं चाऽऽत्मसमवेतमपेक्षमाणादात्मेन्द्रियसान्निकर्षादसमवायिकारणात् । प्रयत्नस्य तु स्वपूर्वक्षणवर्ति कर्तव्यताज्ञानम् । प्रयत्न एव त्वदृष्टस्यापीति नात्मविशेषगुणानां बुद्धिसुखदुःखेच्छादीनामसमवायिकारणसापेक्षतयाऽपि द्रव्यान्तरपरिकल्पनं न्याय्यम् । यत्तु-नित्यद्रव्यविशेषगुणस्य द्रव्यान्तरसंयोग एवासमवायिकारणम्, पार्थिवपरमाणुष्वग्निसंयोगादसमवायिकारणाद्रूपोत्पत्तेरिति; तदपि स्थवीयः । पार्थिवपरमाणुषु रूपादयो दहनसंयोगादिति कृतोऽवगतम् ? । कार्यद्रव्ये तथा दर्शनादिति चेत्, इह वा तह्रि किं न दृश्यते इष्टानिष्टप्राप्त्यवगमानन्तरं सुखादिर्जायत इति ?। दृष्टकारणव्यभिचारे हि कारणान्तरानुमानावसरः । न चेहास्ति व्यभिचारः । अतः प्रसिद्धकारणभावेष्वेव यत्र कार्यसमवायः तत् समवायिकारणम्, यत्तु तत्प्रत्यासन्नं तदसमवायि, यदन्यत् तन्निमित्तिमिति व्यवस्थाश्रयणमुचितम् । नत्वनपेक्षिताप्रसिद्धद्रव्यान्तरसंयोगाभ्युपगमेन तस्यासमवायिकारणत्वाश्रयणम् । कारणान्तरानुपलब्धेः, दृष्टानुसाराच्चाणुगतरूपादौ तथाऽभ्युपगमः । इह तु तद्विपर्ययः प्रदार्शित एव । एवमपि व्याप्तिबलेन यदि द्रव्यान्तरसंयोगोऽनुमातव्यः, स तर्हि स्पर्शवद्द्रव्यसमवेतो भौतिक एव चोपलब्ध इति प्रसिद्धदेहादिसंयोग एवानुमानपर्यवसानान्न नवम द्रव्यसिद्धिः । अथोच्येत-भौतिकत्वे हि मनसः पृथिव्याद्यन्यतमत्वेन भवितव्यम् । तच्चानुमानान्तरैर्व्यतिरेकमापादयद्भिः प्रत्यासिद्धम् । तथा हि-न पार्थिवं मनः रसावगमनिमित्तेन्द्रियत्वाद्रसनावत् । न पाथसीयम्, गन्धग्रहणनिमित्तोन्द्रियत्वाक् घ्राणवत् । एवमतैजसत्वाद्यपि तत्तदिन्द्रियागोचरग्रहणनिमित्ततया शक्याध्यवसानमित्यभौतिकत्वं मनस इति । तदनुपपन्नम् । धर्मिविशेषविपरीतसाधनात् । रसावगमनिमित्तेन्द्रियत्वमपार्थिवत्वमिव पाथसीयत्वमपि समर्थयति । एवं साधनान्तराण्यपि भूतान्तरव्यतिकेरमिवाऽऽमीयभूतभावमापादयन्ति । अथ शब्दस्पर्शरूपरसगन्धेषु यद्गुणग्राहि यदिन्द्रियम्, तदेव तद्गुणकभूतारब्धम्; हन्त तर्हि तदेव तदितरभूतव्यतिरेकितयाऽप्यवगतमिति न तदवगमकतामात्रेणाभिमतव्यतिरेकसिद्धिः । अपि च शब्दादिगुणावगमसाधारणसाधनतया शरीरमिव पाञ्चभौतिकम्, एकद्वित्रादिमयं वा इतरभूतसंसृष्टमस्तु मनः । यथाऽऽम्नायते अन्नमयं हि सोम्य मन इति । तन्न तत्प्रकृतित्वप्रतिपादनपरम्, अपितु तदधीनवृत्तितामात्रप्रदर्शनार्थम् आपोमयः प्राणः इत्यादिवत् । अतएवापवर्गदशायामपि मनोऽनुवृत्तिः । दर्शितं हि तत्रैवाष्टमे मनसैतान् कामान् पश्यन् रमते मनोऽस्य दैवं चक्षुरिति । तथा परस्याश्च देवतायाः सोऽन्यं कामं मनसा ध्यायीतेति महोपनिषदि । मनसैव जगत्सृष्टिमिति च पुराणे । उच्यते-सत्यमेवम् । द्रव्यान्तरपरिकल्पनातो वरमेवं वाऽऽश्रयणमित्युक्तम् । परमार्थतस्तु न भौतिकम्, नापि नवमं द्रव्यम् । क्व तर्हीदानीं मनःशब्दः ?। बुद्धावेव । अत एव हि बुद्धिमान् मनस्वीति व्यपदिश्यते । मनसोऽवस्थाभैदाश्च द्रागेवापरोक्ष्यन्ते क्षुभितं मे मनः, प्रसन्नं मे मन इति । एवं च मनसः करणतया व्यपदेशो बुद्ध्यहङ्कारयोरिव वृत्तिभेदप्रदर्शनपरः पूर्वेषामिति । उच्यते-यदि बुद्धिरेव मनः ; यदि वा द्रव्यान्तरम्; उभयधाऽपि तस्य न चेतनत्वमिति किमनेनाप्रतिज्ञातस्वरूपविमर्शेन । (इति प्रासङ्गिकमनस्तत्त्वविमर्शप्रकरणम्) अस्तु तर्हि प्राण एवाऽऽत्मा, तथा सति तदन्वयिनि शरीरे सात्मकत्वप्रतीतिः, तद्विरहिणि निरात्मकत्वप्रतीतिश्चोपपद्येयाताम् । देहादुत्क्रान्तिर्लोकान्तरगमनं देहान्तरसञ्चारश्चोपपद्यन्तेतराम्, गत्वरस्वाभाव्यात् प्राणस्य । इतरथा परममहतो महतश्च स्पर्शविरहिणः परिस्पन्दानुपपत्तेरुत्क्रान्तिगत्यागतिश्रुतयो भाक्ताः स्युः । (इति प्राणात्मत्वपूर्वपक्षप्रकरणम्) इदमप्यसत्; वायुत्वादेव बाह्यवायुवत् प्राणस्य चैतन्यानुपपत्तेः । वृत्तिहीनेऽप्यात्मनि सुषुप्तौ प्राणस्य वृत्तिमत्त्वाच्च । तद्वृत्त्या हि सुप्तस्यापि सप्तधातुभावेनाशितपीतद्रव्यपरिणाम्ः ; श्वासप्रश्वासौ च । तनुतरतेजोबन्नानुविद्धः कौष्ठ्यमारुतो हि प्राणः । स च कण्ठमुखनासाभ्यन्तरे बहिश्च रेचितः त्वचा स्पृश्यमानो घटादिरिव स्फुटमनात्मतया चकास्ति । अत्रैव साध्ये साधनान्तराणि चाह उत्पत्तिमत्त्वा दित्यादिकारिकाद्वयेन । पारार्थ्यं भ्रोत्र्क्रन्तरार्थत्वम् । तच्च सङ्घातत्वात् । भूतत्वम््बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम् । एतैर्हेतुभिः शरीरे चेतनभिन्नत्वं साध्यम् । न्याय्यैः-प्रतिज्ञाद्यवयवपञ्चकात्मकन्यायप्रतिपाद्यरूपपञ्चकोपपन्नेः । वर्ष्मणः- शरीरस्य । चितिः ज्ञानम् ॥7॥8॥समर्थितमेतावता देहस्यानात्मत्वं प्रत्यक्षानुमानाभ्याम् । एतद्वाधितत्वमाह देहे आत्मत्वं साधयतां केवलव्यतिकेरिणाम् एवमिति । अन्वयमुखेन -अन्वयव्याप्त्या । अपहृतविषयतया-बाधितसाध्यकतया, उपस्थापयितुं-व्यवस्थापयितुम् । अथेन्द्रियात्मवादमुपक्षिपति सन्तु तर्ही ति । देहात्मत्वपक्षोक्तानि दूषणानि नात्र पक्षे प्रसज्यन्त इत्याह न च तानी त्यादिवाक्यद्वयेन । बाधकाभावमुक्त्वा साधकमप्याह पक्षेऽत्र तव्द्यापारे ति । ज्ञानमिन्द्रियधर्मः, इन्द्रियव्यापारफलत्वात्, यव्द्यापारफलं यत् तत्तन्निष्ठम्, यथा स्नानाध्ययनादिव्यापारफलं शौचाक्षरराशिग्रहणादि स्नात्रध्येतृसमवेतमिति प्रयोगो बोध्यः । इन्द्रियस्य व्यापारः- अर्थसन्निकर्षार्थेन्द्रियप्रवृत्तिः, अर्थेनेन्द्रियस्य सन्निकर्ष एव वा । हेतौ द्रव्यभिन्नभावत्वे सतीति विशेषणं देयम् । तेन घटतद््ध्वंसानुकूलव्यापारवतो दण्डादेर्घटवत्त्वाद्यभावेऽपि न क्षतिः । इन्द्रियात्मत्वेऽनुमानमुक्त्वाऽऽप्तवाक्यमपि संवादरूपं निर्दिशति अतएवे ति । इन्द्रियाणामात्मत्वं निरस्यति तन्ने ति । विकल्पासहत्वं नाम विकल्पधर्मिणः संभावितयावत्कोटिविकल्पेन विकल्पितयावत्कोट्यन्यतमकोटिसंबन्धस्याप्यनर्हस्वरूपत्वम् । क्षोदक्षमत्वाभाव इति यावत् । प्रत्यक्षबाधाभावेऽपि यौक्तिकबाधोऽस्तीन्द्रियात्मत्व इति हार्दम् । प्रत्येकेन्द्रियचैतन्यपक्षे नानास्वामिक इव ग्राम एकस्मिन्नेव देहे नानाचेतनाधिष्टानान्नित्यकलहादि प्रसज्यते इति दूषणं हृदि नाधाय दूषणान्तरमाह इन्द्रियान्तरे ति ।इन्द्रियसङ्घातात्मत्वपक्षेऽपीदं साधारणम् । तदाह अत एवे ति । अत एव - निरुक्तप्रतिसन्धानानुपपत्तेरेव । तामेवोपपादयति नहीति । इन्द्रियसङ्घातो नानुभविता, नाप्यनुस्मर्ता । तथा हि - सङ्घातो यदि संयोगो बहुत्वसङ्ख्या वा, तर्हि गुणत्वादेव न ज्ञातृत्वसंभवः । यदि संयुक्तानां बहूनामेव सङ्घातत्वेन विवक्षा, तदापि न बहूनामिन्द्रियाणां चाक्षुषाश्रयता स्पार्शनाश्रयता वा । तथा च द्रष्टुः स्प्रष्टुश्चान्यान्यत्वादुक्तप्रतिसन्धानानुपपत्तिरेवेति भावः । इन्द्रियसङ्घातस्याऽऽत्मत्वे दोषान्तरमाह एकेन्द्रिये ति । सङ्घातस्य तावतैव विनष्टत्वान्निरात्मकत्वेन देहस्य मरणप्रसक्तिरिति भावः । प्रत्येकसङ्घातपक्षद्वयसाधारणं दोषान्तरमाह इन्द्रिये ति । द्रष्टुश्चक्षुषो विनाशे मयेदं दृष्टमिति स्मृतेरनुपपत्तिः । विद्यमानस्याद्रष्टृत्वात् । अन्यदृष्टस्यान्येन स्मृत्ययोगादिति भावः । इन्द्रियचैतन्ये बाधकान्युक्तानि । अथ तत्साधकमनुमानं दूषयति न च तव्यद्यापारे ति । पापादेरित्यादिपदेन द्वैधीभावोऽपि ग्राह्यः । तयोश्छेत्तृच्छैद्यगततया शस्त्रेऽसमवेतत्वाव्द्यभिचार इति भावः । अत्र विपक्षे बाधकविरहादप्रयोजकत्वमपि बोध्यम् । अथ सत्यतपसो वचनं करणे कर्तृत्वोपचारेण प्रवृत्तमन्यपरं नेन्द्रियचैतन्ये प्रमाणमित्याह अन्यथा चे ति । स्वाश्रमप्रविष्टवनमृगान्वेषणप्रवृत्तव्याधकृतप्रश्रोत्तररूपं सत्यतपसो वचनम् द्रष्टुश्चक्षुषो नास्ति जिह्वा इत्यादि । एतस्मिन्नर्थे श्लोकोऽयमनुगृहीतोऽस्मद्गुरुचरणैः या पश्यति न सा ब्रूते सा न पश्यति । दृष्टिर्वक्ति कथं व्याध वाणी वा वीक्षते कथम् ॥ इति । अनेन प्रष्टा व्याध इति गम्यते । अकथनेऽशनायापीडितस्य व्याधस्य मरणप्रसङ्गं, कथने च शरणागतपरित्यागनिबन्धनं महत्पापं पर्यालोच्य एवं वक्तोक्तिः कृता महर्षिणेति बोध्यम् । अथ मन आत्मत्वपक्षमुपक्षिपति अस्तु तर्ही ति । तद्वी ति । मनो हि प्रधानां सर्वेन्द्रियप्रेरकं च गम्यते प्रमाणतो, व्यवह्लियते च तथेत्यर्थः । इन्द्रियात्मत्वपक्षोक्तानां स्मृतिप्रतिसन्धानानुपपत्तिनानात्मप्रसङ्गादिदोषाणां नात्र पक्षे प्रसङ्ग इत्याह उपपद्यते चे त्यादिवाक्यद्वयेन । मनस आत्मत्वं दूषयति तदपि ने ति । करणत्वा दिति सर्वत्र ज्ञाने करणत्वान्मनसो न तत्र कर्तृत्वमाश्रयत्वं संभवति । मनो हि न प्रत्यक्षविषयः । किंतु युगपज्ज्ञानानुत्पत्तिलिङ्गेन सकलज्ञाने करणविशेषतयाऽनुमीयते । तस्य च न ज्ञातृत्वं चक्षुरादेरिव संभवतीति भावः । एतदेवोपपादयति बाह्येन्द्रियेष्वि ति । यत्साहायकविरहात्-यत्सहकारविरहात् । (सहायस्य कर्म-साहायकम्) यत्सन्निकर्षविरहादिति यावत् । तत्तदर्थग्राहकेन्द्रियस्येति शेषः । एवं बाह्यार्थेषु युगपज्ज्ञानानामनुत्पत्तिलिङ्गेन सर्वेन्द्रियसहकारित्वेनाणुभूतस्य मनसः करणविशेषस्यानुमानमुक्त्वा आन्तरसुखादिसाक्षात्कारेषु करणतयाऽपि मनसोऽनुमानमाह तथा सुखादी ति । ननु करणतयाऽनुमितस्यैव मनसो ज्ञानादौ कर्तृत्वमप्यस्तु लाघवा दिति चेत्तत्राह तदेव मिति । करणस्य कर्तृत्वं न संभवति । करणत्वकर्तृत्वयोर्विरोधात् स्वातन्त्र्यपारतन्त्र्यलक्षणयोरिति भावः । कर्तृत्वकरणत्वस्वरूपभेदं विवृणोति स्वातन्त्र्ये-त्यादिना । कर्तृत्वं नाम स्वेच्छाधीनस्वप्रवृत्तिकत्वरूपस्वातन्त्र्यनियतं स्वेच्छयैव साध्यसिद्ध्यौपयिकसामग्रीसंपादनसामर्थ्यम् । करणत्वं च परेच्छाप्रयात्नाधीनस्वव्यापृतीकत्वलक्षणपारतन्त्र्यनियतंपरस्य ईप्सितक्रियानिष्पत्तौ प्रकृष्टोपकारकत्वलक्षणम् । न चैतयोरेकत्र समावेशः संभवतीति भावः । यद्यपि चेतनस्यैकत्र कर्तृत्वं करणत्वं च संभवेन्नामाऽऽकारभेदतः । अथापि मनसश्चैतन्ये दृढतरप्रमाणाभावात् लोकसिद्धव्याप्त्या च चक्षुरादिवत्परस्य चेतनस्य सुखाद्यनुभवकरणतयैव सिद्धेर्न मनसो ज्ञातृत्वम् । वस्तुतस्तु अत्यन्तातीन्द्रियेष्वर्थेषु शास्त्रमेव प्रमाणम् । ततश्च मनो विज्ञानमयस्य जीवस्योपकरणतयैव सिद्ध्यतीति हार्दम् । ननु रूपसुखादिबाह्यान्तरपदार्थानुभवेषु मन एव कर्तृ । आन्तरसुखाद्यनुभवे करणं त्वान्तरमन्यत्कल्प्यत इति शङ्कते अथ तदपि ति । परिहरति तथा सती ती । एवं सति अस्मदिष्टस्य ज्ञातर्यन्तः- करणभेदस्य न काप्यनुपपत्तिः । संज्ञा तु ऐच्छिकीति नार्थे विवाद इत्यर्थः । ज्ञातुरात्मनो मनःसंज्ञायां व्यवहारविरोधमाह किन्तु इति । मन इति नात्मनो व्यवहारो लौकिकानां वैदिकानां च । अतो मनःसंज्ञाऽऽत्मनि व्यवहारविसंवादादपार्थेति भावः । अथात्र परमाचार्योऽयं विमर्शकभूमिकामास्थितः प्रसङ्गात् मनसस्तत्त्वविचारं प्रक्रमते आहे ति । कश्चिद्विमर्शक इत्यादिः । विमर्शश्चायं तार्किकाभिमतानां मनःसाधकयुक्तीनां क्षोदक्षमत्वाभावप्रदर्शनार्थः । किमिद मिति । किमिति स्वरूपप्रश्नः । किंपुनरिति प्रमाणप्रश्नः । मनसि प्रमाणमाक्षिपति उक्तं नामे त्यादिना ।युगपज्ज्ञानानुत्पत्तिलिङ्गेन द्रव्यान्तरमान्तरं करणं न सिद्ध्यति । अदृष्टादिसहकारविरहेणैव युगपज्ज्ञानानुत्पत्त्युपपत्तेरिति भावः । युगपत्स्मरणानामनुत्पत्तयेऽदृष्टसहकारविरहोऽवश्यमेव शरणीकरणीयः स्वीकृतेऽप्यान्तरकरण इत्याह कल्पयित्वाऽपीति । नानार्थानुभवभाविताः-नानार्थानुभवजनिताः । संस्कारे ति । संस्कारस्योन्मेषहेतुरुद्बोधकः । संस्कारोद्बोधकसमवधानक्रमात् स्मृतीनामयौगपद्यम् ।उद्बुद्धसंस्कारस्यैव स्मृतिहेतुत्वात् । उद्बोधस्य क्रमभावित्वाच्चेति भावः । एवमपी ति । प्रणिधानं-मनसोऽवधानेन चिन्तनम् । येषामर्थसंस्काराणांसाधारणमुद्बोधकं प्रणिधानं कृतमनुभूतयावदर्थस्मृतीच्छयैकदैव तदाऽपि न यावदर्थस्मृतयो युगपत् जायन्ते । तत्सत्यपि नानार्थस्मृतिषु दृष्टकारणेऽदृष्टसहकारविरहादेव न स्मृतियौगपद्यम्, किन्तु एकस्यैवैकदा भवति स्मृतिरदृष्टसहकारादित्येषितव्यमिति भावः । शुभाशुभरूपतया-सुखदुःखजनकतया । नन्वेवमपि सुखहेत्वर्थानां शुभादृष्टबलाद्युगपत्स्मरणानि स्युरिति चेत्तत्राह क्रमे ति । क्रमिकज्ञानभाक्त्वलक्षणात्मस्वभावबलाददृष्टसहकारविरहाच्च स्मृतियौगपद्यस्येव बाह्यार्थज्ञानयौगपद्यस्यापि परिहरणसंभवात् नाणुभूतं मनोबाह्येन्द्रियसहकारि करणान्तरमान्तरं कल्पनीयमिति समुदिताशयः । मनसि प्रमाणान्तरमुपक्षिपति स्यान्मतमिति । अत्र प्रयोगः- सुखादि साऽसमवायिहेतुकं भावकार्यत्वात्कार्यरूपादिवदिति । असमवायिहेतुश्च सुखादावात्ममनःसंयोग एव, अन्यस्यासंभवादिति हृदयम् । आत्मेत्यादि बाह्येत्यादि च षष्ठ्यन्तं पदद्वयं बहुव्रीहिवृत्तं सुखादेर्विशेषणम् । पदद्वयेन च सुखादावात्मनः समवायिकारणत्वमदृष्टादेर्निमित्तहेतुत्वं चोक्तम् । एतन्निरस्यति तदस दित्यादिना । सुखे ति । अनुकूलविषयस्य प्रतिकूलविषयस्य च ज्ञानस्यैवात्मनि नियतपूर्ववृत्तेः सुखे दुःखे च कारणस्य तत्रासमवायिहेतुत्वं युक्तम् । न तु आत्ममनस्संसेयोगस्याप्रसिद्धस्य । तत्तद्विषयसन्निकृष्टेन्द्रियात्मसंयोग एव च तत्तज्ज्ञानेऽसमवायिकारणम् । कृतिसाध्यताज्ञानमेव प्रयत्ने तथा चिकीर्षाद्वारा । कार्यताज्ञाने च स्मृतिरूपे उद्बुद्धसंस्कारः, अनुभवरूपे च लिङ्गज्ञानादि तथा । संस्कारे चानुभवः तथा । प्रयत्न एवादृष्टस्याप्यसमवायिहेतुः । इदमुपलक्षणम् । इच्छां प्रति इष्टजातीयत्वस्येष्टसाधनत्वस्य वा ज्ञानं तथा । द्वेषं प्रति चानिष्टत्वस्य तत्साधनत्वस्य वा ज्ञानं तथा । आत्मविशेषगुणानां कुत्राप्यसमवायिहेतुत्वं नास्तीति प्रवादस्तु न श्रद्धेय इति मनुदिताशयः । इच्छादीनामित्यादिपदेन द्वेषप्रयत्नादृष्टसंस्काराणां ग्रहणम् । अत्र विषयेन्द्रियसंयोगहेतुभूतस्येन्द्रियव्यापारस्य प्रयत्नवदात्मसंयोगासमवायिहेतुकत्वकथनं प्रसङ्गात् । कुत्रापि ज्ञानादौ आत्मविसेषगुणे मनोऽपेक्षा नास्तीति हार्दम् । साधनान्तरं मनसि शङ्कते यत्तु नित्ये ति । अत्र प्रयोगः- सुखादिर्द्रव्यसंयोगासमवायिहेतुकः कार्यत्वे सति नित्यद्रव्यविशेषगुणत्वात् पाकजपरमाणुरूपवदिति । द्रव्यान्तरसंयोगस्य सुखादौ असमवायिहेतुत्वासंभवान्मनःसंयोगस्यैव तथात्वेन परिशेषान्मनसः सिद्धिरिति भावः । एतद्दूषयति तदपी ति । स्थवीयः- स्थूलतरम् । अविमृश्यभाषितमिति यावत् । अयं भावः- अन्वयव्यतिरेकसहचारदर्शनादेव हि सर्वत्र कारणत्वाध्यवसायः । पार्थिवाणुरूपादौ दहनसंयोगस्य हेतुत्वमपि ततो देहावयवादौ रूपादिपरावृत्तेर्द्दष्टत्वाद्दृष्टानुसारादेव कल्प्यते । इह चानुकूलज्ञानादेरेव सुखादौ हेतुत्वं दृष्टम् । समवायिकारणआत्मनि प्रत्यासन्नत्वात्तस्यैवासमवायिहेतुत्वं च युक्तं तत्रेति नादृष्टद्रव्यान्तरसंयोगस्य तथात्वेन कल्पनावसर इति । दृष्टकारणे ति । दृष्टहेतोरभावेऽपि कार्योत्पत्तेर्दर्शने हि कारणान्तरकल्पनावसरः । न च दृष्टहेतोर्व्यभिचार इत्यर्थः । अत इति । दृष्टहेतुष्वेव तत्तल्लक्षणयोगेन समवायिहेतुत्वादि व्यवस्थाप्यम् । ज्ञानादिदृष्टहेतुभिन्नस्यानपेक्षितस्याप्रसिद्धस्य द्रव्यान्तरसंयोगस्य हेतुत्वकल्पनायां तु क्लृप्तत्यागोऽक्लृप्तपरिकल्पना च । ज्ञानादेरसमवायिहेतुत्वे बाधकस्यानुपलब्धेः तद्भिन्नत्वस्यासमवायिहेतुलक्षणे निवेशोऽनर्थकश्चेति भावः । इहे ति। सुखादौ तु तद्विपर्ययः- कारणान्तरोपलम्भरूपं दृष्टान्ततो वैषम्यं प्रादर्शीति यावत् । एतावता पूर्वोक्तानुमानेऽप्रयोजकत्वाव्द्याप्यत्वासिद्धिरूक्ता । व्याप्तिस्वीकारे चार्थान्तरमित्याह एवमपी ति। स तर्ही ति । तर्ही स इत्यन्वयः । दृष्टान्ते सः द्रव्यान्तरसंयोगः भौतिकः- भूतारब्धः भौतिकप्रतियोगिक एव दृष्ट इति प्रकृतेऽपि भौतिकदेहादिप्रतियोगिकात्मानुयोगिकसंयोग एवानुमानपर्यवसानान्न काणादाभिमतनवमद्रव्यरूपाभौतिकमनःसिद्धिप्रत्याशेत्यर्थः । स्पर्शवद्द्रव्यसमवेत इति निदर्शनाभिप्रायेण । स्पर्शवन्नित्यद्रव्यविशेषगुणं प्रत्येवकार्यभूतं द्रव्यान्तरसंयोगस्य हेतुत्वं दृष्टानुसारात्कल्प्यम् । न त्वस्पर्शनित्यद्रव्यविशेषगुणं प्रत्यपीति व्यज्यतेऽनेन । एवं सुखादावसमवायिहेतुत्वेन द्रव्यान्तसंयोगस्य साधनं न संभवतीत्युक्तम् । अथ तत्साधनाभ्युपगमेऽपि विवक्षितमभौतिकं मनस्तत्त्वान्तरं न सेत्स्यतीति प्रपञ्चयति । तत्र शङ्का अथोच्येतेति । प्रत्यासिद्धम्-प्रतिषिद्धम् । पाथसीयं-जलीयम् । शक्याध्यवसानं-शक्यनिश्चयम् । मनो न पार्थिवं तैजसादि वा रसावगमनिमित्तेन्द्रियत्वाद्रसनावत् । मनो न जलीयं गन्धग्राहकेन्द्रियत्वाद््घ्राणवदिति भौतिकत्वनिषेधः । युगपज्ज्ञानानुत्पत्तिलिङ्गेनाणुत्वेन सिद्धेर्न विभुद्रव्यान्तर्भावः । अतो नवमद्रव्यत्वसिद्धिर्मनस इत्यभिमानः । परिहरति तदनुपपन्नमित्यादिना । धर्मीति । मनसि पक्षेऽभिमतो यो विशेषोऽभौतिकत्वरूपः, तद्विपरीतसाधकत्वादुक्तहेतुनामित्यर्थः । रसग्राहकेन्द्रियत्वं जलीयत्वं गन्धग्राहकेन्द्रियत्वादि पार्थिवत्वादि च मनसः साधयेदिति भावः । अत्र शङ्कते अथ शब्देति । रूपादिषु मध्ये गन्धमात्रग्राहकत्वं पार्थिवत्वसाधकम् । एवं रसमात्रग्राहकत्वादि च जलीयत्वादेः । तथा च मनसःपार्थिवत्वादिसाधकहेतोरसिद्धिरिति भावः । अत्रोत्तरं हन्त तर्हीति । यद्भूतगुणमात्रग्राहकं यदिन्द्रियं तदेव भूतान्तरव्यतिरिक्तत्वेन संप्रतिपन्नमिति भूतान्तरगुणग्राहकतामात्रेण न तत्तद्भूतगुणग्राहकस्य मनसः तत्तद्भूतव्यतिरेकसिद्धिरित्यर्थः । गन्धाद्यग्राहकत्वमेवापार्थिवादिसाधकम् । तच्च मनसोऽभौतिकानुमाने पक्षे मनस्यसिद्धमिति भावः । अपार्थिवत्वाद्यनुमाने तत्तद्भूतगुणाग्राहकत्वमुपाधिरिति चोक्तं भवति । एवमभौतिकत्वानुमानं प्रदूष्य मनसो भौतिकत्वानुमानमुपस्थापयति अपि च शब्दादीति । मनः पाञ्चभौतिकं पञ्चभूतगुणावगमसाधनत्वाद्देह वदिति प्रयोगः । पञ्चभूतोपादनकत्वे गौरवाज्जातिसाङ्कर्यभीत्या च पक्षान्तरमाह एकद्वीति । देहस्येवैकभौतिकस्य भूतान्तरोपष्टब्धत्वाद्भूतान्तरगुणोपलम्भसाधनत्वोपपत्तिर्मनस इति भावः । अस्य पार्थिवत्वे श्रुतिमपि संवादरूपेणोदाहरति अन्नमयं हीति । श्रुतेरान्यपर्यं शङ्कते तन्नेति । ननु इत्यादिः । तत्- निरुक्तश्रुतिवचनम् । तदधीनेति । अन्नरसाप्यायितस्यैव मनसः सङ्कल्पनादिव्यापारक्षमतयाऽन्नमयत्वं श्रूयतेऽन्नरसपरिपोषितत्वलक्षणम्, वायुविशेषस्य प्राणस्येवाम्मयत्वं जलरसाप्यायितत्वादिति भावः । मनोऽभौतिकत्वे श्रुत्यर्थापत्तिमप्याह अत एवेति । यदि भौतिकं मनः, तर्हि मुक्तौ नानुवर्तेत देहादिवदिति । मुक्तौ मनोऽनुवृत्तौ श्रुतिमाह तत्रैवेति । छान्दोग्य एवाष्टमे प्रपाठके । अन्नमयं हीति तु षष्ठे । मुक्तस्य मनोयोगमुक्त्वा नित्यमुक्तस्वभावस्येश्वरस्यापि तत्र प्रमाणमुदाहरति तथेति । पुराणे-श्रीवैष्णवे पञ्चमेंऽशे । तन्नेत्यादिनोक्तमाक्षेपमर्धाङ्गीकारेण परिहरति उच्यते इति । सत्यमित्यर्धाङ्गीकारे । श्रुतेरान्यपर्येऽभ्युपगमः । मनसोऽतिरिक्ततत्त्वत्वेऽनुपगमः । एवं वाऽऽश्रयणम्-भौतिकत्वाश्रयणं वा । वाकारोऽनास्थायाम् । अत एव स्वाशयं प्रकटीकरोति मनोविषये परमार्थतस्तु इत्यादिना । बुद्धावेवेति । बुद्धावेव मनःशब्दो वाचकत्वेन वर्तत इत्यर्थः । मुक्तस्येश्वरस्य च बुद्धिमत्त्वादेव समनस्कत्ववाचोयुक्तिः । तयोरमनस्कत्ववचनं तु कर्मकृतबुद्धिवृत्तिनिषेधाभिप्रायमिति भावः । बुद्धेरेव मनस्त्वे लौकिकव्यवहारमुक्त्वा लौकिकप्रत्यक्षमपि प्रदर्शयति मनसः इति । मनः प्रसन्नमित्याद्यध्यक्षं प्रत्यक्षबुद्ध्यालम्बनमेव संभवति, न त्वतीन्द्रियमनोगोचरमिति भावः । बुद्धिशब्देन ज्ञानं विवक्षितम् । ननु बुद्धेर्ज्ञानस्यैव मनस्त्वेऽन्तःकरणत्वोक्तिस्तस्य कथं सङ्गच्छत इत्यत्राह एवंचेति । विषयस्मृत्यादिहेतुभूतव्यापारवत्त्वप्रदर्शनार्थं बुद्धेरन्तःकरणत्वव्यपदेशः, अध्यवसायादिहेतुव्यापारवत्त्वप्रदर्शनार्थं बुद्ध्यादिव्यपदेश इव मनसोऽतिरेकवादेऽपीति भावः । अत्र विमर्शकेन सुखादिसाक्षात्कारकरणत्वेन मनसोऽनुमानं तार्किकाभिमतं न विमृष्टम् । अयमत्राशयः- इन्द्रियसौष्ठवोपघातयोरेव सुखदुःखरूपत्वात्तयोश्चातीन्द्रियत्वान्न तत्साक्षात्कारकारणतया मनोऽनुमेयम् । यद्वा ज्ञानविशेषरूपत्वात्तयोर्ज्ञानस्वयं- प्रकाशत्वबलादेव तत्प्रतिभासोपपत्तिरिति । आहेत्यादिना विमर्शकेनातिरिक्तमनोनिरासे कृते सिद्धान्तीस्वाशयमाविष्करोति उच्यत इत्यादिना । अप्रतिज्ञातेति । मनसोऽनात्मत्वमेव प्रतिज्ञातम्-प्रकृतम् । मनःस्वरूपतत्त्वविचारस्याप्रकृतत्वान्नास्माभिरिदानीमतिरिक्तमनःसाधने प्रवर्त्यत इत्याशयः । अस्तु वा मुक्तानामीश्वरस्य च मनो बुद्धिरूपमेव । बद्धानां तु मन आहङ्कारिक मन्तःकरणं श्रुतिबलादभ्युपगन्तव्यमेव । स्मृत्यादिकरणतया च तदभ्युपगमार्हम् । परं तु तस्य न चेतनत्वं शक्यमध्यवसितुमिति हार्दम् ॥ प्राणात्मवादमुपक्षिपति अस्तु तर्हीति । प्राणवति देहे जीवतीति, तद्रहिते च मृत इति व्यवहारात्प्राण एव जीवनकर्तृत्वाज्जीव इति भावः । इतरथेति । परममहतः, अमहतश्च, इति पदच्छेदः । अमहत्त्वमणुत्वम् । निःस्पर्शत्वादात्मनि न क्रिया विभुत्वेऽणुत्वे वा संभवतीति भावः । प्रतिक्षिपति वादमेनम् इदमप्यसदिति । अत्र प्रयोगत्रयम्- प्राणो नात्मा, सुषुप्तौ व्यापारवत्त्वरूपादात्मवैधर्म्यात् । प्राणो नात्मा, त्वाचप्रत्यक्षग्राह्यत्वाद्धटादिवत् । प्राणो नात्मा वायुत्वाव्द्यजनपवनवदिति । तद्वृत्त्या इति । प्राणव्यापारस्य भुक्तपीताहारपरिणामहेतुत्वम् अहं वैश्वानरो भूत्वा प्राणिनां देहमास्थितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ इति गीतास्मृतिसिद्धम् । तनुतरे ति । अल्पतरपृथिवीजलतेजोंशोत्तम्भितो जठरगतो वायुविशेषः प्राण इत्यर्थः ।अविभुत्वेनास्याऽऽत्मनः स्पर्शविरहिणोऽपि प्रयत्नादृष्टप्रेरणानुगुण्येन मनस इवोत्क्रान्तिगत्यादयो युज्यन्त इति न तन्निर्देशानाममुरव्यार्थता ।
परिमाणनिरूपणेऽप्येतद्भविष्यतीत्यलमधुना ।
(इति प्राणात्मवादनिरासप्रकरणम्) भवतु तर्ही संविदेवाऽऽत्मा, अजडत्वात् ।
जडत्वप्रतिबद्धं ह्यनात्भ्यं घटादिषु दृष्टम् ।
जडत्वं च संविदो निवर्तमानं तदपि निवर्तयति ।
अजडत्वं च संविदः सत्तयैव प्रकाशमानत्वात् ।
नहिसती संविद्धटादिरिवाप्रकाशमानाऽवतिष्ठते, येन परायत्तसिद्धिरास्थीयेत ।
(इति संविदात्मत्वपक्षोपस्थापनम्) स्यान्मतम्-जातायामपि संविदि विषयमात्रं प्रथते ।
न खलुनीलमिदमिति प्रतियन्तः तदैवानीलमनिदंरूपमपि संवेदनं प्रतीमः ।
अतः स्वरूपसत्यैव संविदा इन्द्रियसन्निकर्षेणेव विषयः प्रकाश्यते ।
ततश्च तद्गतागन्तुकप्रकाशातिशयदर्शनेन पश्चात् संविदनुमास्यते इति ।
(इति संविदनुमेयत्वपक्षेण तदजडत्वाक्षेपः) तन्न ।
ज्ञानव्यतिरेकिणोऽर्थधर्मस्य प्रकाशस्य निपुणमपि निरीक्षमाणानां रूपादिवदनुपलब्धेः ।
उभयाभ्युपेतसंविदैव सकलव्यवहारोपपत्तौ च तत्कल्पनानुपपत्तेः ।
वित्तिवेदितृप्रतिभासशून्यायां च विषयवित्तावभ्युपगम्यमानायां घटस्तावदयम्, अहं तु जानामि न वेति, न ज्ञायते इति च कदाचित्प्रतिभासः स्यात् ।
नचैवमस्ति ।
अतीतानागतविषयग्रहणस्मरणेषु व्याहारव्यवहारयोरभावे, भावेऽपि, ततः प्रागेव विदितत्वप्रतीतेः नानुमानिकी तत्र विषय(प्रकाश)सिद्धिः, नतरां तत्पूर्विका तत्र बुद्धिसिद्धिः ।
तथाहि- केनचित्प्रेरितः प्रणिधाय स्मृत्वाऽनन्तरमेव प्रतिवदति स्मृतमद्य मयेति ।
न चाय मेव व्याहारस्तत्र लिङ्गम्; तत्पूर्वकत्वात्, अन्योन्याश्रयणापत्तेश्च ।
स्वव्याहारेण स्वज्ञानानुमानं क इव निरपत्रपः प्रतिजानीत? ।
(इति संविदनुमेयत्वनिरासः) अन्यच्च-यत्संबन्धादर्थान्तरे यो व्यवहारः धर्मभेदो वा, स तस्मिन्नुपलभ्यमानस्तत्स्वरूपप्रयुक्तः; न तु तत्संबन्धनिबन्धनः ।
यथा सत्तासंबन्धात् पृथिव्यादिषु सद्व्यवहारः,रूपसंबन्धाच्च चाक्षुषत्वं सत्तायां रूपे च ।
एवं संवित्संबन्धात्प्रवर्तमानो घटादिषु प्रकाशत इति व्यवहारः प्रकाशमानत्वं वा धर्मः संविदि तु परिदृश्यमानो न संवित्संबन्धापेक्षः, अपि तु तत्स्वरूपप्रयुक्त इति स्वयंप्रकाशत्वात् सैवाऽऽत्मेति ।
किंच योऽपि संविदोऽन्यं संवेदितारमभ्युपगच्छति, अभ्युपगच्छत्येवासौ संविदम् ।
नह्यसत्यामेव संविदि संवेत्तीत्युपपद्यते ।
एवं चेत्, उभयवादिसंप्रतिपन्नतया सैव वरं वेदित्री भवतु; किमन्येन कल्पितेन? ।
(इति संविदः स्वयम्प्रकाशत्वात्मत्वसाधनम्) ननु अहं जानामीति ज्ञानातिरिक्तस्तदाश्रयभूतोऽयमात्मा प्रतीयते ।
सत्यम् ; स तु विकल्परूपतया साक्षात्प्रत्यक्ष इति न शक्यः संश्रयितुम् ।
भेदज्ञानसिद्धवत्कारेण पृथग्वस्तुतया गृहीताव्यभिचारेण सहोपलम्भनियमेन, अप्रकाशात्मनश्च स्वभावविरोधादेव प्रकाशायोगात्, प्रकाशस्वाभाव्ये च संवेदनत्वमित्यादिना वा प्रकाशात्मनोऽहमित्यंशस्य तत्त्वमेव दुरुपगमम् ।
ग्राह्यविकल्पप्रत्युद्धारेऽप्येष एव प्रकारः ।
अतो वासनाभिधानसमनन्तरप्रत्ययसामर्थ्यादनाद्यविद्यावशाच्च समारोपितावास्तवग्राह्यग्राहकविकल्पोल्लेखिनी स्वयंप्रकाशा संविदेव परमार्थसती ।
सैवाऽऽत्मेति सौगताः प्रकटाः प्रच्छन्नाश्च ।
यथाऽऽहुः प्रकटाः- “अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते” ॥इति ॥ यथा वा प्रच्छन्नाः- “शुद्धं तत्त्वं प्रपञ्चस्य न हेतुरनिवृत्तितः ।
ज्ञातृज्ञेयविभागस्य मायैव जननी ततः” ॥इति ॥ (इति संविदात्मत्वपूर्वपक्षप्रकरणम्) अत्राऽह-क्षणभङ्गिनी प्रतिविषयमन्यान्या च संविच्चकास्ति ।
सैव चेदात्मा, पूर्वेद्युर्दृष्टमपरेद्युरहमिदमदर्शमिति कथमिव प्रत्यभिजानीयात् ? ।
न च नीरालम्बनप्रतिभाभेदमात्रतयेह समाधेयम् निरालम्बनत्वप्रतिज्ञायाः प्रत्यक्षादिसक लप्रतीतिबाधितविषयत्वात् ।
साधनस्य च सालम्बनत्वे तदविशेषादशेषशेमुषीणां तथात्वापत्तेः; निरालम्बनत्वे च साधनाभावादेव साध्यासिद्धेः ।
प्रपञ्चितश्च पूर्वोत्तरमीमांसाभागयोर्निरालम्बनत्वप्रतिषेधः ; यथार्थरव्यातिसमर्थनेन च शास्त्र इति न व्यावर्ण्यते ।
अत एव न सन्तानाश्रयणेनापि प्रत्यभिज्ञोपपादनं साधीयः ।
विज्ञानक्षणव्यतिरिक्तस्य स्थायिनोऽनुसन्धायिनःसन्तानस्याभ्युपगमे स्वसिद्धान्तत्यागः, परसिद्धान्ताभ्युपगमश्च ।
अनभ्युपगमे प्रत्यभिज्ञानुपपत्तिः ।
न ह्यन्येनानुभूतेऽन्यस्य प्रतिसन्धानसंभवः ।
न च सुसदृशतया भेदाग्रहणेन प्रदीपादाविव प्रमातरि प्रत्यभिज्ञाभ्रान्तिः ।
युज्यते हि तत्रैकस्यैव पूर्वापरव्यक्तिदर्शिनः तुल्यसंस्थानतया व्यक्तीनां भेदमविदुषः तथा भ्रमः ।
इह तु संविद्व्यक्तयः परस्परवार्तानभिज्ञा निरन्वयविनाशिन्यश्च सुगतमत इति न तास्वेकत्वभ्रमस्याऽऽश्रयता विषयता वा संभविनी ।
न च सुसदृशत्वेऽपि अन्येन कृतमात्मकृततयाऽन्योऽनुसन्धातुमलमित्यागमापायिसंवित्सन्तानाश्रयः प्रत्यभिज्ञानक्षणस्थायी चेतनोऽभ्युपगन्तव्यः ।
(इति क्षणिकविज्ञानात्मवादनिरासप्रकरणम्) कश्चिदाह-न संविदनित्या, प्रागभावाद्यसिद्धेः ।
तदसिद्धिश्च तस्याः स्वतःसिद्धत्वात् ।
नहि स्वतःसिद्धस्य प्रागभावादयः स्वतोऽन्यतो वा सिद्ध्यन्ति ।
स्वयं हि स्वाभावमवगमयत् सद्वा असद्वा साधयेत् ।
सत्त्वेऽभाव् एव नास्तीति कथं साधयेत् ? ।
असत्त्वादेव साधकस्य पक्षान्तरे नतरां साधकत्वमिति न स्वतः तावत्तत्सिद्धिः ।
नाप्यन्यतः ; अनन्यगोचरत्वादनु- भूतेः ।
अनुभाव्यत्वे च घटादिवदननुभूतित्वप्रसङ्गात् ।
अतः सा न जायते ।
जन्माभावादेवेतरेऽपि भावविकाराः निराकार्याः, तत्प्रतिबद्धत्वात्तेषाम् ।
अत एव नानात्वमपि संविदि प्रत्युक्तम् ; उत्पत्तिमत्त्वव्यापकनिवृत्त्या तद्व्याप्यभूतनानात्वस्यापि निवृत्तिसिद्धेः ।
नह्यजं विभाग्यस्ति ।
चेत्यत्वाच्च भेदेतरेतराभावादयो न तद्धर्माः, रूपादिवत् ।
अतोऽस्या न मेयः कश्चिदपि धर्मोऽस्ति ।
अतो निर्धूतनिखिलभेदविकल्पनिर्धर्मप्रकाशमात्रैकरसा कूटस्थनित्या संविदेवाऽऽत्मा परमात्मा च ।
यथाऽऽह “याऽनुभूतिरजाऽमेयाऽनन्तात्मा” इति ।
सैव च वेदान्तवाक्यतात्पर्यभूमिरिति तेषां भाषा ।
यथाऽऽह तद्वार्तिककारः- “परागर्थप्रमेयेषु या फलत्वेन संमता ।
संवित् सैवैह मेयोऽर्थो वेदान्तोक्तिप्रमाणतः ॥ अप्रामाण्यप्रसक्तिश्च स्यादितोऽन्यार्थकल्पने ।
वेदान्तानामतस्तस्मान्नान्यमर्थं प्रकल्पयेत्” ॥इति ॥ (इति निर्विशेषनित्यविज्ञानात्मत्वमतोपपादनप्रकरणम्) तदिदमलौकिकमवैदिकं च दर्शनमित्यात्मविदः ।
तथाहिसंविदिति स्वाश्रयं प्रति सत्तयैव कस्यचित्प्रकाशनशीलो ज्ञानावगत्यनुभूत्यादिपदपर्यायनामा सकर्मकः संवेदितुरात्मनो धर्मः प्रसिद्धः ।
तथैव हि सर्वप्राणभृत्प्रत्यात्मसिद्धोऽयमनुभवः ‘अहमिदं संवेद्मी’ति ।
तस्यास्योत्पत्तिस्थितिनिरोधाश्च सुखदुःखादेरिव प्रत्यक्षाः प्रकाशन्ते ।
स्वापमदमूर्च्छादशासु च योग्यानुपलम्भनिराकृतः तत्सद्भावो नाभ्युपगममर्हति ।
यदि हि तास्वपि दशासु संवेदनमवर्तिष्यत, ततः प्रबोधसमयेऽनुसमधास्यत ।
न चाऽनुसन्धीयते ।
अत एव हि ‘इयन्तं कालं न किञ्चिदहमज्ञासिष’मिति प्रबुद्धः प्रत्यवमृशति ।
यावदनुभूतपदार्थस्मरणनियमाभावेऽपि संस्कारविच्छेदनिमित्तप्रायणादिप्रबलहेतुविरहेऽपि नित्यवदस्मरणमनुभवाभावमेव साधयति ।
न च सत्यपि संवित्प्रकाशे विषयावच्छेदविरहादहङ्कारगोचरापायाद्वा तत्स्मृत्यनुदयः ; अर्थान्तराभावस्य तदग्रहणस्य चार्थान्तरप्रकाशप्रयुक्तकार्यप्रतिबन्धकत्वायोगात् ।
त्रितयावभासेऽपि यथास्वमवभासानां स्वगोचरस्मरणहेतुत्वात् ।
नच प्रत्यभिज्ञाबललब्धस्थेमाऽहमर्थः स्वापादिदशासु निधनमुपगत इति शक्योऽभिधातुम् ।
अत एव हि ‘इयन्तं कालमहस्वाप्स’मिति प्रबोधे परामर्शः ।
नच निर्विषया निराश्रया वा संविन्नाम काचित् संभवति, अत्यन्तानुपलब्धेः ।
संबन्धिशब्दाश्च संविदनुभूतिज्ञानप्रकाशादिशब्दा इति शब्दार्थविदः ।
न ह्यकर्मकस्य जानात्यादेरकर्तृकस्य वा प्रयोगो लोके वेदे वा ।
यत्तु स्वतःसिद्धस्य सत्त्वे तद्विरोधादेव प्रागभावादेः तदानीमवस्थानासंभवान्न ततः सिद्धिरिति, तदतिस्थवीयः ।
नहि संविदास्वकालवर्तिन एवार्थाः सिद्ध्यन्तीत्यस्ति नियमः ।
अतीतानागतयोरसंवेद्यत्वप्रसङ्गात् ।
अथ संवित्प्रागभावादेः सिद्ध्यतः तत्समकालतया भवितव्यमिति; किमेवं क्वचिद्दृष्टम् ? हन्तैवं सति तत्सिद्धेर्न प्रागभावाद्यसिद्धिः ।
तत्प्रागभावः तत्समकाल इत्युन्मत्तवचः ।
ऐन्द्रियिकप्रत्यक्षस्वभावो ह्ययं स्वसमकालपदार्थप्रकाशकत्वं नाम ।
न ज्ञानमात्रस्य, प्रमाणमात्रस्य वा ।
एतेन तदपि पराकृतम्- “मानं स्वयंप्रकाशत्वात्स्वतःसच्चेत्सदाऽस्त्यतः ।
तन्मेयं च सदाऽस्त्येव मानं मेययुगेव हि” ॥इति ।
नहि मानस्य स्वसत्ताकालेऽर्थाविनाभावो मेययोगः ।
किंतु यद्देशकालादिमत्तया मेयमवभासते तादृशतद्रूपमिथ्यात्वविरोधित्वम् ।
अत एव ‘स्मृतिर्नबाह्यविषया, नष्टेऽप्यर्थे स्मृतिदर्शना’दित्यपि प्रलापः ।
अथ संवित्प्रागभावादेरवर्तमानतया न प्रत्यक्षत्वम् ।
लिङ्गाद्यभावाच्च न प्रमाणान्तरतः सिद्धिरिति ।
यद्येवम्, अकारणं तर्हि स्वतःसिद्धत्वं प्राग भावाद्यसिद्धेः ।
प्रमाणाभाव एव हीदानीं वाच्यः ।
न च तदभावःशक्योऽभिधातुमित्युक्तमेव ।
योग्यानुपलब्ध्यैवाभावस्य समर्थितत्वात् ।
अपिच प्रत्यक्षसंवित् स्वसत्ताकाले स्वविषयस्य सद्भावं साधयन्ती यत्तस्य न सर्वदा सत्तां साधयति, तदवसीयते अहमिदानीमेवास्मि नान्यदेति कालविशेषावच्छिन्नैव सा चकास्तीति ।
इतरथा घटादेरपि नित्यत्वप्रसङ्गात् ।
एवमनुमानादिसंविदोऽपि ।
नच प्रत्यक्षानुमानादिभेदशून्या निर्विषया निराश्रया धीः संभवतीत्युक्तमेव ।
न चान्याविषयत्वात् संविदोऽन्यतः तत्प्रागभावाद्यसिद्धिः ।
अज्ञासिषमिति प्राक्तनसंविदोऽद्यतनधिया विषयीक्रियमाणत्वात् ।
प्रतिकूलानुविषयनियतहानोपादानादिलिङ्गावगम्यत्वाच्च परसंविदः ।
तदनभ्युपगमे च शब्दार्थग्रहणासंभवेन वैदिकलौकिक समस्तव्यवहाराभावप्रसङ्गः ।
गुरूपसर्पणाद्यनुपपत्तिश्च ; ज्ञानवत्त्वेन तस्याप्रतीतेः ।
न चान्यविषयत्वेऽननुभूतित्वम् ।
स्वाश्रयस्य स्वसत्तयैव प्रकाशमानत्वं, स्वविषयसाधनत्वं वा ह्यनुभूतित्वम् ।
ते च संविदन्तर विषयभावेऽपि स्वानुभवसिद्धे न भ्रश्यत इति कथमननुभूतित्व प्रसङ्गः? ।
घटादेस्तु तथास्वाभाव्याभावादेवाननुभूतित्वं, नानुभाव्यत्वात् ।
अपि चाननुभाव्यत्वेऽपि समानः तत्प्रसङ्गः, गगनकुसुमवत् ।
न चात्मनोऽनुभूतित्वम्, अनुभवितृत्वात् ।
नाप्यसावननुभाव्यः, अनुभवस्येव स्वतःसिद्ध्यतोऽप्यस्य स्वपरसंवेद्यत्वाभ्युपगमात् ।
वेद्यत्वेऽनात्मत्वापादनमवेद्यत्वेऽपि समानं पूर्ववत् ।
यदि तु गगनकुसुमस्यासत्त्वमेवानात्मत्वाननुभूतित्वप्रयोजकमास्थीयेत; आस्थीयतां तर्ही घटादेरपि असंविदाश्रयत्वाज्ञानाविरोधित्वयोरेव तत्प्रयोजकत्वम् ।
अथ ते अपि विषयत्वे स्यातामिति चेत्, अविषयत्वेऽपि तथैवेत्यलमप्रतिष्ठितकृतर्कापहसनेन ।
यदपि जननविरहादनुभूतेर्विकारान्तरनिरसनम्, व्यभिचरति तदपि प्रागभावे ।
जन्माभावेऽपि तस्य विनाशदर्शनात् ।
भावविशेषणोपादानेऽपि भवदभिमताविद्ययाऽनैकान्त्यम् ।
सा ह्यनादिरपि विविधविकारवती विनाशवती च तत्त्वज्ञानोदयात् ।
अपरमार्थास्तद्विकाराः सन्तीति चेत्, परमार्थाश्च ते किं विकाराः सन्ति?, जन्मवन्तो वा परमार्थाः; येन पारमार्थ्येन विशेषणं साध्यस्य साधनस्य वाऽर्थवत्तामश्नुवीत ।
तथाच सति साधु समर्थितं तर्ककुशलेनेत्यमनेन ।
यदपि नह्यजं विभाग्यस्तीति; तदपि न; अजस्यैवात्मनो देहेन्द्रियादिभ्यो विभागस्य समर्थितत्वात् ।
अनादित्वेनाभ्युपगतस्याज्ञानस्याऽऽत्मनो व्यतिरिक्ततयावश्याश्रयणीयत्वात् ।
अपरमार्थः स विभाग इति चेत्, परमार्थभेदः किं जन्मप्रतिबद्धः क्वचिद्दृष्टः? निर्बाधप्रतीतिसिद्धश्च दृग््दृश्यभेदः परमार्थ एवेत्यनन्तरमेवोपपादयिष्यामः ।
यदपि नास्या मेयो धर्मोऽप्यस्ति; चेत्यानां न चिद्धर्मत्वमिति च; तदपि शास्त्रानुमानादिप्रमाणसिद्धैः स्वयंप्रकाशत्वनित्यत्वादिधर्मैः स्वयमभ्युपगतैरनैकान्तिकम् ।
न च ते चितिमात्रमिति वाच्यम्; तत्सिद्धावपि तेषु विमतिदर्शनात् ।
अभ्युपगम्यैव हि संविदं तदनुमेयत्वक्षणिकत्वादि प्रतिजानते वादिनः ।
स्वरूपभेदाच्च ।
स्वाश्रयं प्रति सत्तयैव कस्यचित् प्रकाशनं हि संवेदनम् ।
स्वयंप्रकाशता तु सत्तयैवाऽऽत्मने प्रकाशमानता ।
प्रकाशश्च चिदचिदशेषपदार्थसाधारणो धर्म इति संवित्सिद्धावेव साधितम् ।
तदनभ्युपगमे तु व्यवहारानुगुण्यवचनः प्रकाशशब्दः ।
नित्यता तु सर्वकालवर्तमानता ।
एकसङ्ख्यावच्छेद एकत्वमिति ।
नच जडत्वकालदेशनानात्वाद्यवच्छेद- शून्यतारूपत्वात्तेषां न यथोक्तदोष इति युक्तम् ।
तथाभूतैरपि तैः चितिधर्मभूतैरनैकान्त्यस्यापरिहार्यत्वात् ।
संविदि च निषेध्यत्वाभिमतज डत्वानित्यत्वनानात्वादिविरूद्धविविधधर्माभावे निषेधोक्तिरुक्तिमात्रमेव ।
चेत्यं चाज्ञानमात्मनि दृष्टमिष्टं च भवताम् ।
अपि चास्या इति षष्ठ्याऽनुभूतेः संबन्धमभिधाय निर्धर्मत्वं प्रतिज्ञायमानं वन्ध्यात्वमिव जनन्या विरुद्धार्थमापद्येत ।
प्राणात्मवादे देहात्मवाददूषणजातमतिदिशन्नाह निरस्त इति ।
अनिरस्तोऽदूषितो हि प्रतिपक्षितयाऽवस्थितः प्राणात्मवादः निरासकयुक्तयन्तरापादन- प्रयोजकीभावमापद्येत ।
न तु देहात्मवाददूषणैरेव दूषितोऽसत्प्राय इति भावः ॥9।।आत्मनो गत्यनुपपत्तिं परिहरति अविभुत्वेनेति ।
विभुत्वे गतिर्नोपपद्येतेति युक्तम् ।
अणुत्वे तु मनस इव निःस्पर्शस्यापि गतिरात्मन उपपद्यत एव ।
न च स्पर्शस्य गतौ हेतुत्वं प्रयत्नादृष्टादिप्रेरणमन्तरेति भावः ।
परिमाणेति ।
एतदात्मनो गतिमत्त्वमात्मनः परिमाणनिरूपणप्रकरणेऽपि निरूपितं भविष्यतीति अधुनैतावता गतिमत्त्ववर्णनेनालमित्यर्थः ।
अलममुनेति पाठान्तरम् ।
अत्र संविदात्मवादी समुत्तिष्ठते भवतु तर्हीति ।
संविदात्मा, अजडत्वादिति प्रयोगः ।
व्यतिरेकव्याप्तिमाह जडत्वेति ।
प्रतिबद्धं-व्याप्यम् ।
अनात्म्यम्-अनात्मत्वम्।
आत्मनो भाव आत्म्यं तस्याऽभाव इति व्युत्पत्तेः ।
व्यतिरेकोपनयनिगमने आह जडत्वं चेति ।
तदपि-अनात्म्यमपि ।
व्यापकनिवृत्तेर्व्याप्यनिवृत्त्याक्षेपकत्वात् व्यापक जडत्वनिवृत्त्या व्याप्यानात्म्यनिवृत्तिः सिद्ध्यतीति भावः ।
अजडत्वहेतोरसिद्धिं परिहरति अजडत्वं चेति ।
स्वसत्तामात्रतः प्रकाशमानत्वात् परायत्तप्रकाशत्वलक्षणजडत्वाभाव इति भावः ।
नहीति ।
परायत्तसिद्धिः-पराधीनप्रकाशा ।
जडेति यावत् ।
अत्र संविदनुमेयत्ववादिनां भाट्टानां मतमनुवदति स्यान्मतमिति ।
विषयमात्रमिति ।
न हि नीलोऽयं घट इति ज्ञाने ज्ञानस्य विषयत्वं संभवति पटादेरिवेति भावः ।
ननु घटमहं जानामीति ज्ञानप्रकाशस्तर्हि कथम् ? तत्राह ततश्चेति ।
ततः पश्चाच्चेत्यन्वयः ।
चस्त्वर्थे ।
अयं भावः- ज्ञानाद्विषये ज्ञातता नाम धर्मो जायते ।
स एव प्रकाश इत्युच्यते ।
स एव ज्ञानकृतोऽर्थस्यातिशयो नाम ।
स च प्रत्यक्षो ज्ञातुः ।
तेन चार्थप्रकाशरूपलिङ्गेनात्मनि तद्धेतुं ज्ञानमनुमिनोति ।
आनुमानिकज्ञानालम्बनश्च घटमहं जानामीति निरुक्तप्रत्ययः ।
अनुमानप्रकारश्च इयं घटत्वप्रकारकज्ञातता घटत्वप्रकारकज्ञानजन्या तथा विधज्ञाततात्वादिति ।
तद्धर्मप्रकारकज्ञानज्ञाततयोः कार्यकारणभावाच्च व्याप्तिसिद्धिः ।
एतद्भाट्टमतं प्रतिक्षिपति तन्नेति ।
ज्ञानेति ।
ज्ञानविषयता हि ज्ञातता ।
तद्विषयतयाऽर्थसंबद्धज्ञानव्यतिरिक्ततया विषयधर्मस्यातिशयविशेषस्यासिद्धिः ।
मम घटज्ञानं जातम्, ज्ञातो मया घट इति प्रतीत्योर्धर्मिधर्मभावव्यत्यासमन्तराऽर्थभेदस्यानानुभाविकत्वादिति भावः ।
प्रत्यक्षासिद्धिमुक्त्वा ज्ञाततारूपातिरिक्तप्रकाशे कल्पनासिद्धिमाह उभयेति ।
ज्ञानविषयतयैवार्थे ज्ञातव्यवहारोपपत्तेस्तदनुपपत्तिलक्षणं ज्ञाततायामतिरिक्तायां कल्पकमसिद्धमिति भावः ।
अर्थज्ञानेषु ज्ञानस्य ज्ञातुरहमर्थस्यात्मनश्च नियतं भानमिति प्राभाकरप्रक्रियया समर्थयति वित्तीति ।
ज्ञानज्ञात्रनवगाहिन्यां ज्ञेयप्रतीतावुपगतायां जातेऽपि घटज्ञानेऽहं तज्ज्ञानवान् न वेति संशयः, तज्ज्ञानाभाववानहमित्यादिविपरीतनिश्चयश्च कदाचिद्भवेत्,स्वस्य ज्ञानवत्त्वेनाप्रतिभासात् ।
तन्त्रितयविषयकत्वं ज्ञानस्यषितव्यमिति भावः ।
तथाच स्वप्रकाशत्वसिद्धेर्ज्ञानस्य तत एव विषयव्यवहारवत् ज्ञातताव्यवहारोऽपि घटत इति नार्थान्तरज्ञातताकल्पनावसर इति हार्दम् ।
अथातीतानागतेष्वर्थेषु ज्ञातताया उत्पत्त्यसंभवात्तत्र ज्ञानेनैव ज्ञातताप्रतीतिरुपपाद्या, समैव चेयं रीतिः प्रत्यक्षेऽपीत्याशयेनाऽऽह अतीतेति ।
अत्र ग्रहणमनुमानादिलक्षणम् ।
व्याहारः-शब्दो व्यवहारः।
व्यवहारः कायिकोहानोपादानादिः ।
उभौ विदितत्वप्रतीतिमूलावत्र ग्राह्यौ ।
विदितप्रतीतिमूलयोस्तयोः सद्भावेऽसद्भावे वा विदितत्वव्यवहारात्पूर्वमेव विदितत्वप्रतीतेस्तन्मूलभूताया उदय इति न तत्र व्याहारलिङ्गेन विदितत्वमनुमाय ततो वेदनानुमा नम् ।
किन्तु स्वयंप्रकाशवेदनबलादेव विदितत्वप्रतीतिः अथ च तन्मूलव्यवहार इति भावः ।
आनुमानिकी तत्र विषयसिद्धिरिति क्वचित्पाठेऽयमर्थः-विषयस्य सिद्धिः प्रकाशरूपाऽनुमानप्रमाणप्रतिपन्नेति ।
विषयप्रकाशसिद्धिरिति पाठे तु अनुमानप्रमाणजनिता विषयप्रकाशानुमितिरित्यर्थः ।
व्यवहारात्पूर्वमेव ज्ञातत्वप्रतीतिं स्मृतिस्थले उदाहरति केनचिदिति ।
स्मरणेनैवार्थस्य स्मृतत्वमवबुद्ध्य व्याहरति स्मृतमद्य मयेति ।
यदि लैङ्गिकी स्मृतत्वप्रतीतिः, तर्ह्यनेनैव व्याहारेण लिङ्गेन स्वस्यार्थे स्मृतत्वप्रतीतिरानुमानिकीति वाच्यम् ।
तत्र चान्योन्याश्रयणं प्रसज्यते ।
स्मृतत्वप्रतीत्या तद्व्यवहारः, तेनैव च सा स्वस्येति ।
तथा च ज्ञानस्वप्रकाशत्वनिबन्धनैव ज्ञातत्वप्रतीतिरेष्टव्येति भावः ।
स्वव्याहारेणैवेति ।
निरपत्रप इव क इत्यन्वयः ।
निरपत्रपः-निर्लज्जः ।
स्वव्याहारेण-अहं जानामीति स्वनिष्ठज्ञानव्यवहारेण, स्वज्ञानानुमानम्-स्वनिष्ठज्ञानप्रतीतिं लैङ्गिकीम् ।
व्यवहारे व्यवहर्तव्यज्ञानस्य हेतुत्वात् स्वकीयज्ञानव्यवहारेणैव स्वस्य स्वकीयज्ञानानुमानमिति प्रतिज्ञाऽनुपपन्नाऽत्यन्तमिति यावत् ।
परकीयेन परात्मनो ज्ञानव्यवहारेण तदन्यस्य परात्मनिष्ठज्ञानानुमानसंभवात् स्वव्याहारेण स्वज्ञानानुमानमिति निर्दिष्टम् ।
एवं ज्ञातताया असिद्धिः; ज्ञात इति प्रतीतिव्यवहारयोः स्वप्रकाशज्ञानत एवोपपत्तेः ।
ज्ञानस्य स्वप्रकाशत्वं चजाते ज्ञाने स्वात्मनि ज्ञानसंशयज्ञानाभावनिश्चयानुदयबलात् निश्चेयमिति वर्णितम् ।
इदानीमभ्युपगम्यापि विषयनिष्ठं धर्मान्तरं प्रकाशं तदवष्टम्भेनैव ज्ञानस्य स्वयंप्रकाशत्वं समर्थयति प्रकाशानुमेयज्ञानवादनिरासार्थम् अन्यश्चेत्यादिना ।
अत्र प्रयोगद्वयम्-अनुभूतिरनन्याधीनतद्धर्मा स्वसंबन्धादर्थान्तरे तद्धर्महेतुत्वात् यथा रूपम्, तद्धि स्वसंबन्धाद्धाटादौ चाक्षुषत्वे हेतुः स्वस्मिन् रूपान्तरानपेक्षतद्धर्मवत्; अनुभूतिः अनन्याधीनस्वव्यवहारा स्वसंबन्धादर्थान्तरेव्यवहारहेतुत्वात् ।
यथा सत्ता ।
सा हि स्वसंबन्धाद्धटादौ सदिति व्यवहारहेतुः स्वीयसद्व्यवहारे सत्तान्तरा नपेक्षा इति ।
आद्यः प्रयोगोऽत्र ज्ञाततारूपं धर्मान्तरमभ्युपेत्य, द्वितीयस्तु तदनुपगमेन ।
हेतुसाध्यनिष्कर्षः श्रुतप्रकाशिकादितोऽनुसन्धेयः ।
अनेन ज्ञाननिष्ठप्रकाशस्य ज्ञानान्तरानपेक्षत्वसिद्ध्या ज्ञानस्य स्वयंप्रकाशत्वोपपत्तिः ।
तथा च तस्यैवात्मत्वमित्याह स्वयंप्रकाशत्वादिति ।
अत्रेदमाकूतम्-आत्मनः स्वयंप्रकाशत्वं तावत् अत्रायं पुरुषः स्वयंज्योतिर्भवतीत्यादिश्रुतिसिद्धम् ।
ज्ञानस्य स्वयंप्रकाशत्वं च निरुक्तानुमानतः ।
अतस्तस्यैवात्मत्वं न्याय्यमिति ।
संविद आत्मत्वे लाघवमप्याह किं चेति ।
वेदित्री-ज्ञातृरूपा आत्मेति यावत् ।
भवत्विति लोटू कामचाराभ्यनुज्ञायाम् ।
इतिपदमनुषञ्जनीयम् ।
संविद एव प्रकाममात्मत्वमित्यभ्यनुज्ञानं श्रेष्ठमित्यर्थः ।
संविद आत्मत्वे बाधकमाशङ्कते नन्वहमिति ।
प्राधान्यादहमर्थस्यैवात्मत्वं प्रतीयते, नतु धर्मतया भासमानायाः संविद इति भावः ।
अर्धाङ्गीकारेण परिहरति सत्यमिति ।
ज्ञातृत्वप्रतीतावुपगमः ।
तत्प्रामाण्येऽनुपगमः ।
तदप्रामाण्ये हेतुमाह स तु इति ।
ज्ञाता तु भेदरूपतया नसाक्षात् प्रत्यक्षप्रमाणसिद्धः, किन्तु भ्रान्तिसिद्धः ।
स्वलक्षणवस्तुमात्रावगाहि निर्विकल्पकमेव हि प्रमाणम् ।
धर्मधर्मिभावादिकल्पितभेदावगाहि सविकल्पकं तु भ्रमलक्षणमति हार्दम् ।
ज्ञातृभेदप्रतीतेः यौक्तिकबाधमप्याह भेदज्ञानेति ।
सिद्धवत्कारेणेत्यस्याग्रेऽपीति योज्यम् ।
अपृथग्वस्तुतयेति पाठः संभाव्यते ।
वा अप्रकाशात्मन इति पदच्छेदः ।
तथा चायमर्थः-भेदज्ञानसिद्धवत्कारेणापि-क्वचिद्भेदज्ञानस्य प्रामाण्योपगमेनापि ।
संवेदनानां भेदस्य सौगतैः तत्त्वतः इष्यमाणत्वात् ।
अपृथग्वस्तुतया-अभिन्नवस्तुत्वेन साध्येन, गृहीताव्यभिचारेण-गृहीतव्याप्तिकेन, सहोपलम्भनियमेन-ज्ञानज्ञात्रोः महोपम्भनियमरूपहेतुना, ज्ञातुरप्रकाशस्वभावत्वे प्रकाशायोगः स्वभावविरोधादेव, प्रकाशस्वभावत्वे च संवेदनत्वमेवेत्यादिना वा संविदभेदसाधकेन संविद्भेदवाधकेन हेतुना अप्रकाशात्मनः संविद्भिन्नस्य ज्ञातुरहमर्थस्यात्मनः तत्त्वं-स्वरूपं दुरुपगमम्-उपगन्तुमशक्यमित्यर्थः ।
तृतीयान्तद्वयं दुरुपगममित्यनेनान्वितम् ।
ज्ञाता संविदभिन्नः संविदा सहैवोपलभ्यमानत्वात् प्रकाशस्वभावत्वाद्वा इति प्रयोगोऽत्र बोध्यः ।
यद्वा पृथग्वस्तुतयेनत्वात् स्यात्पाठः ।
अव्यभिचारनिरूपकस्याभेदरूपसाध्यस्योपस्थितिस्त्वर्थात् ।
प्रकाशात्मन इत्येव चास्तु पदच्छेदः ।
सहोपलम्भनियमेन, प्रकाशस्वाभाव्ये च संवेदनत्वमित्यादिना वा हेतुना प्रकाशात्मनः संविदभिन्नस्य सिद्ध्यत आत्मनः, भेदज्ञानसिद्धवत्कारेण-भादज्ञानप्रामाण्यसिद्धवदङ्गीकरणेन, पृथग्वस्तुतया-संविद्भिन्नत्वेन तत्त्वम् अस्तित्वं, दुरुपगममित्यर्थः ।
निरुक्प्रकारं ग्राहकभेदनिरासहेतुं ग्राह्यभेदनिरासेऽप्यतिदिशति ग्राह्येति ।
सहोपलम्भनियमात् प्रकाशस्वभाव्ये च संवेदनत्वमित्यादितो वा संविदभिन्नत्वं नीलादेर्विषयस्येति ज्ञानभिन्नत्वेन नीलाद्यर्थभेदस्याप्यसत्त्वमित्यर्थः ।
ननु ग्राह्यग्राहकयोः संविदभेदे ज्ञातृज्ञेयभेदानां ज्ञानतोभेदेनावभासः कथमित्यत्राह अत इति ।
दोषमूलोग्राह्यग्राहकभेदावभासो मिथ्या; संविदाभासमात्रं सत्यमिति भावः ।
तत्र वासना दोष इति प्रकटानां सौगतानां योगाचाराणां पक्षः ।
अनाद्यविद्या दोष इति प्रच्छन्नानां मायावादिनाम् ।
ग्राह्यग्राहकविकल्पः-ज्ञेयज्ञातृभेदः ज्ञानविषयत्वज्ञानाश्रयत्वलक्षणः ।
उक्तार्थे प्रकटानां सौगतानां संमतिं प्रदर्शयति अविभोगोऽपीति ।
बुद्धिरेवाऽऽत्मा ।
सा च निर्भेदापि भ्रान्तिज्ञानैः नीलभेदादिग्राह्यभेदचैत्रमैत्रादिग्राहक भेद- प्रत्यक्षत्वानुमानत्वादिलक्षणज्ञानभेदवतीव प्रतीयत इति कारिकार्थः ।
मायिनां संमतिमुपदर्शयति शुद्धमिति ।
भेद प्रपञ्चस्य शुद्धं तत्त्वं नोपादानम् ।
तथा सति परमार्थत्वापत्त्याऽनिवृत्तिप्रसङ्गात् ।
ततस्तस्य प्रपञ्चस्य मायैव-विविधविचित्रमिथ्यार्थप्रतिभासहेतुः मिथ्याभू ताऽनाद्यविद्यैव जननी उपादानमिति कारिकार्थः ।
निर्विशेषसन्मात्रं चिद्रूपं परमार्थः ।
तत्राधिष्ठाने अपरमार्थनानाभेदप्रतिभासो माययेति भावः ।
आत्मनः स्वयंप्रकाशत्वं श्रौतम् ।
संविदस्तथात्वं च युक्तिसिद्धम् ।
तत्तस्या एवात्मत्वम् ।
तद्भिन्नस्य तु सर्वस्य दोषमूलत्वादाभासमात्रत्वमिति संविदात्मत्वं पूर्वपक्षितम् ।
तत्र चास्ति मतद्वयम् ।
क्षणिकविज्ञानमात्मा, नित्यविज्ञानमात्मेति च ।
तत्र क्षणिकविज्ञानात्मत्वमतं प्रकटसौगतानां तावन्निरस्यति अत्राऽऽहेत्यादिना ।
नित्यात्मवादीक्षणिकविज्ञानात्मवादे दूषणमाहेत्यर्थः ।
क्षणभङ्गिनीति ।
क्षणरूपाविनाशस्वभावा विषयभेदेन नाना च संविदुपलभ्यते ।
तस्याश्चेदात्मत्वं प्रत्यभिज्ञादिकं नोपपद्यते ।
अनुसन्धातुरात्मनः स्थिरत्व एव तदुपपत्तेरिति भावः ।
अथप्रतिभाया इव निर्विषयत्वं प्रत्यभिज्ञायाः शङ्कते न च निरालम्बनेति ।
प्रत्यभिज्ञा निर्विषया प्रतिभात्वात् मानसकल्पनाविलासवदिति प्रयोगः ।
अत्र बाधितत्वमाह निरालम्बनत्वेति ।
ज्ञानसामान्यस्य सविषयकत्वनियमान्निर्विषयकत्वे ज्ञानत्वायोगात् ज्ञानविशेषे निर्विषयकत्वसाधनं बाधितविषयमित्यर्थः ।
प्रतिभायामपि नात्यन्ताय निर्विषयत्वम् ।
अन्यत्र सत एवान्यत्र भानात् ।
क्वचिद्याथार्थ्यस्यापि दृष्टेरिति भावः ।
ज्ञानसामान्यस्य निर्विषयकत्वमिति पक्षे स्वप्रवृत्तिव्याघातमप्याह साधनस्य चेति ।
निर्विषयकत्वसाधकानुमानस्य सविषयकत्वे तदविशेषेणाशेषज्ञानानां सविषयकत्वंस्यात् ।
तस्य निर्विषयकत्वे च न निर्विषयकत्वरूपसाध्यसिद्धिरिति साधनार्थप्रवृत्तिवैघट्यमिति भावः ।
प्रपञ्चितश्चेति ।
पूर्वमीमांसाप्रथमाध्यायप्रथमपादे उत्तरमीमांसाद्वितीयाध्यायचरणे च ज्ञाननिरालम्बनत्वमतनिराकरणं सूत्रतद्व्याख्याकर्तृभिः कृतम् ।
शास्त्रे च न्यायतत्तावख्ये सर्वविज्ञानयाथार्थ्यसमर्थनेन कृतमित्यर्थः ।
अत्र पूर्वोत्तरमीमांसाभागयोरित्यनेन मीमांसाया विंशतिलक्षण्या ऐकशास्त्रयं तत्पूर्वोत्तरभागरूपत्वं च कर्मब्रह्मविचारयोरभिमतम् ।
ननु विज्ञानं द्विविधं प्रवृत्तिविज्ञानमालयविज्ञानं चेति ।
तत्राऽऽद्यं नीलपीतादिज्ञानम् ।
अन्त्यं चाहमाकारमात्मरूपम् ।
क्षणिकत्वेऽप्युभयविधविज्ञानस्याऽऽलयविज्ञानधारानुवृत्त्या प्रत्यभिज्ञोपपद्यत इत्यत्राह-अत एवेति ।
विज्ञानक्षणेति ।
विज्ञानमेव क्षणो विज्ञानक्षणः ।
अनुसन्धायिनः-पूर्वानुभूतार्थप्रतिसन्धानकर्तृः क्षणिकविज्ञानव्यतिरिक्तस्य स्थिरस्योपगमे सर्वं क्षणिकमिति सिद्धान्तत्यागः ।
प्रकारान्तरेण ज्ञानव्यतिरिक्तज्ञात्रभ्युपग मप्रसङ्गश्चेति भावः ।
अनभ्युपगम इति ।
क्षणिकक्रमिकविज्ञानसमुदायलक्षणं सन्तानं समुदाय्यनतिरिक्तं चेत्प्रत्यभिज्ञानुपपत्तिरेव, सन्तानान्तर्गतस्य पूर्वस्यानुभवितुर्विनष्टत्वात्, उत्तरस्य चाननुभवितृत्वेन प्रतिसन्धानायोगादिति भावः ।
अत्रेदमनुसन्धेयम्-क्षणिकानां समुदायभावोऽपि न घटते, स्थिरैकदेशकालाद्युपाधिक्रोडीकारासंभवात् सौगते नये ।
एकबुद्धिक्रोडीकारस्त्वतिप्रसक्तः ।
भिन्नसन्तानिविज्ञानानामपि तथात्वेन सन्ताननियमानुपपत्त्यापत्तेः ।
पूर्वपूर्वविज्ञानोपादानकोत्तरोत्तरविज्ञानपरम्परा सन्तानमिति चेन्न ।
विनष्टस्य कार्यकालेऽसत उपादानत्वायोगात् ।
पूर्वत्वमात्रस्यातिप्रसक्तत्वाच्च ।
तत्सन्ताननियमानुपपत्तिरेवेति ।
नन्वालयविज्ञानस्य सौसादृश्येन ऐक्यभ्रान्त्या प्रतिसन्धानं भ्रमात्मकं घटत इति शङ्कते न चिति ।
भ्रान्तिरूपा च प्रत्यभिज्ञा न घटत इत्यर्थः ।
घटते इति शेषः ।
दृष्टान्तवैषम्यमुपपादयति युज्यत इति ।
दृष्टान्ते भिन्नकालिकदीपकलिकयोः सुसदृशयोः साक्षात्कर्ता स्थिरश्चेतनः प्रसिद्धो भ्रान्तिभाक्त्वयोग्यः ।
तत्तत्र भ्रान्तिरूपा प्रत्यभिज्ञा घटते ।
न च तथा प्रकृते संविदां द्रष्टाऽतिरिक्तः स्थिरोऽभ्युपेयते ।
अतः संविदेवात्माऽन्येनात्मनाऽभेदं स्वात्मनि भावयेदिति वाच्यम् ।
परस्परवार्तामभिज्ञत्वान्नान्यस्माद्भेदमभेदं वा स्वात्मनि गृहीतुमलम् ।
निरन्वयविनाशाच्च पूर्वधर्मानुवृत्तिबलादपि पूर्वानुभूतप्रतिसन्धानादि न घटते इति समुदिताशयः ।
परस्परवार्तानभिज्ञत्वं-ज्ञानान्तरतद्विषयाग्राहित्वम् ।
निरन्वयविनाशित्वं-समूलविनाशित्वं- स्वरूपतो धर्मतश्च ।
उत्तरोत्तरक्षणेषु पूर्वपूर्वविज्ञानक्षणतो वासनोदयात्प्रतिसन्धानोपपत्तिरित्यपि न ।
अनन्तवासनोत्पत्तिविनाशादिकल्पनायामतिगौरवादिति दिक्् ।
शिष्टं स्पष्टम् ।
अत्र नित्यात्मवादिना केनचिदुक्तं संविद आगमापायित्वादिकममृष्यमाणोऽद्वैती प्रत्यवतिष्ठते ।
तदुच्यते कश्चिदाहेति ।
स्वस्यासत्त्वे ग्राहकाभावात् स्वस्य स्वत्त्वे ग्राह्याभावाश्च न स्वतः संविदः प्रागभावग्रहः ।
संविदो ज्ञानान्तरागोचरत्वेनान्यज्ञानतस्तज्ज्ञानप्रागभावग्रहोऽपि न संभवति ।
ज्ञानविषयीकारमन्तरा तदुपरक्तप्रागभावग्रहणायोगात् ।
ज्ञानान्तरगोचरत्वे च घटादिवज्जडत्वप्रसङ्गात् ।
तत्प्रमाणाभावात्प्रागभावः संविदो नास्तीति भावः ।
अत इति ।
प्रागभावाभावादुत्पत्तिर्नास्ति संविदः ।
प्रागभावस्याप्युत्पादकान्तर्गतत्वादित्यर्थः ।
जन्माभावादिति ।
इतरे भावविकाराः-अस्तित्ववृद्धिपरिणामापक्षयविनाशाः ।
अस्तित्वमत्र स्वोपा दानावच्छिन्नस्थितिलक्षणम् ।
उत्पत्तिप्रतिबद्धत्वात्-उ त्पत्तिव्याप्यत्वात् ।
व्यापकनिवृत्त्या व्याप्यनिवृत्तिरिति भावः ।
अत एवेति ।
उत्पत्त्यभावादेव सजातीयसंविद्भेदलक्षणं नानात्वमपि निरस्तमित्यर्थः ।
उत्पत्तिमत्त्वव्यापकेति ।
कर्मधारयोऽयम् ।
विभागि-नाना, भिन्नम् ।
अत्र संविन्न नाना, नापि विकारवती, अजत्वाद्यन्नैवं तन्नेवं यथा घट इति व्यतिरेकिप्रयोगः ।
संविदि भेदादिनिषेधे धर्मपक्षकमन्वयि च प्रदर्शयति चेत्यत्वाच्चेति ।
भेदादयो न संविदिअनुभाव्यत्वाद्रूपादिवत् ।
अत्र भेदपदं विकारात्मकोत्पत्त्याद्यवस्थाभेदपरं प्रकरणात् ।
इतरेतराभावः-सजातीयभेदः ।
विजातीयस्वागतभेदावादिपदग्राह्यौ ।
यद्वा भेदो विजातीयभेदः ।
इतरेतराभावो यथोक्तरूपः ।
आदिपदग्राह्याः-उत्पत्त्याद्यवस्थाः स्वगतभेदाश्च ।
एतन्मतं क्रोडीकरोति अत इति ।
निरस्तनिखिलभेदासत्त्वप्रकाशत्वादिधर्मरहिता प्रकाशैकस्वरूपा संविदेवाविकारनित्या परमात्मा जीवात्मा च ।
जीवभेदोऽपि कल्पित इति भावः ।
उक्तार्थे संवादमुदाहरति याऽनुभूतिरिति ।
अजत्वम्-अनुत्पत्तिमत्त्वम् ।
अमेयत्वं-ज्ञानागोचरत्वम् ।
अनन्तत्वं-विनाशराहित्यम् ।
आत्मत्वम्-जीवात्मपरमात्मरूपत्वम् ।
निरुक्तरूपैका संविदेव सर्वव्यापिका परमात्मरूपोपाधिभेदेन नानाजीवात्मरूपा चेति भावः ।
सैव चेति ।
न वाच्यशक्तयेयं वेदान्तेषु प्रतिपाद्यते ।
अवाच्यैव सती तात्पर्यवृत्त्या तेषु गम्यत इत्यर्थः ।
भाषा-परिभाषा, सङ्केत इति यावत् ।
सङ्केतबलादेव श्रद्धेयत्वमेतन्मतस्येति हार्दम् ।
वेदान्तानामेवंभूतायां संविद्येव तात्पर्यमद्वैतवार्तिककारवचनेन संवादयति परागर्थेति ।
घटपटादिषु परागर्थेषु या प्रमाणजन्या मिति ः फलरूपेष्यते तान्त्रिकैः सैव मितिर्वेदान्तेषु प्रमेयभूता ।
इतोऽन्यस्मिन् परागर्थे तात्पर्यकल्पने च वेदान्तानामप्रामाण्यमेव स्यात् ।
परागर्थस्यासत्यत्वादिति श्लोकद्वयार्थः ।
निर्विशेषनित्यचैतन्यमात्रस्यैव तत्तत्प्रमाणाधीनान्तःकरणवृत्तिप्रतिबिम्बिततया तत्तद्वृत्त्यवच्छिन्नतया वा तत्तदर्थप्रकाशकत्वात्प्रमाणफलत्वोपचार इति बोध्यम् ।
प्रक्रान्तं मायावादिमतं तावद्विस्तरेण प्रतिक्षेप्तुमुपक्रमते तदिदमित्यादिना ।
अलौकिकम्-लौकिकप्रत्यक्षादिप्रमाणविरुद्धम्, अवैदिकंवेदादिसच्छास्त्रविरुद्धम्,लोकवेदाननुगुणं चेदं मायावादिनां दर्शनमित्यात्मतत्त्वसाक्षात्कर्तारो वदन्तीति भावः ।
संविदद्वैते पराभिमतेऽध्यक्षविरोधमादौ निरूपयति तथाहीत्यादिना ।
परागर्थप्रमितेर्ह्यात्मत्वमुक्तं वार्तिककृता ।
तस्याः स्फुटमेवानात्मत्वमित्याह संविदिति ।
ज्ञानादिपदं प्रर्यायनामेकार्थवाचकं यस्यै वंभूतः आत्मधर्मः कश्चिद्विषयप्रकाशकः संविच्छब्दित इत्यर्थः।
तस्यास्येति ।
अन्यधर्मत्वेनानित्यत्वेन च प्रत्यक्षसिद्धस्यास्य प्रमाणफलस्य विषयवेदनस्य न नित्यात्मस्वरूपत्वं संभवतीति भावः ।
प्रमाणफलस्य सकर्मकस्यानुभवस्यानित्यत्वं प्रकारान्तरेण साधयति स्वापेति ।
स्वापादौ सत्त्वे योग्यत्वाद्वेदनस्योपलब्धिः स्यात् ।
अनुपलब्धेश्च न तदा तस्य सत्त्वमिति भावः ।
सुषुप्तिकालिकं वेदनाभावं सुप्तोत्थितस्य परामर्शेनापि द्रढयति अत एव हीति ।
ननु संविदः स्वप्रकाशत्वात्स्वापेऽप्यस्त्येवोपलम्भः ।
अनुभूतमवश्यं स्मर्तव्यमिति नियमाभावाच्च तदननुसन्धानं घटते प्रबोधे ।
इयन्तं कालं न किञ्चिदहमवेदिषमिति परामर्शस्तु विषयप्रकाशकत्वविशिष्टज्ञानाभावगोचरः ।
स्वापे सतोऽपि हि विज्ञानस्य न विषयप्रकाशकत्वमिति चोद्यमनूद्य परिहरति यावदिति ।
नियमाभावेऽपीत्यन्तेन चोद्यानुवादः ।
अग्रे परिहारः ।
प्रायणादेः संस्कारविच्छेदकरत्वं संवित्सिद्वावभिहितं प्रायणान्नरकक्लेशात्प्रसूतिव्यसनादपि ।
चिरातिवृत्ताः प्राग््जन्मभोगा न स्मृतिगोचराः ।।इति।
प्रायणम्-मरणम् ।
नित्यवत्-सार्वदिकम् ।
यद्वा नियमवत् ।
नियतमिति यावत् ।
निखिलसंस्कारप्रमोषहेतुप्रबलदुःखहेतुविरहेऽपि नियमेनास्मरणं संविदः स्वापेऽप्रकाशमेव साधयेत् ।
स्वयंप्रकाशस्वभावायाश्च तस्या अप्रकाशस्तदा तदभावपर्यवसन्न इति भावः ।
सिद्धान्ते तु विषयप्रकाशनवेलायामेव धर्मभूतज्ञानस्य स्वयंप्रकाशत्वोपगमात् स्वापेसतोऽपि तस्याप्रकाशो न क्षतिकर इति बोध्यम् ।
अत्र शङ्कते न च सत्यपिति ।
विषयावच्छेदविरहात्-विषयसंबन्धविरहात् ।
अहङ्कारगोचराभावात्-अहंबुद्धिबोध्यस्य ज्ञातुरहमर्थस्य विलयात् ।
अहमर्थोपश्लिष्टाया विषयान्वयवत्या एव संविदः संस्काराधायकत्वम् ।
स्वापेतदुभयवैधुर्यात्स्वप्रकाशस्यापि चैतन्यमात्रस्य न संस्काराधायकत्वमिति न तस्य प्रबोधेऽनुसन्धानप्रसङ्ग इति भावः ।
अत्रोत्तरमाह अर्थान्तरेति ।
तदग्रहणस्य-अर्थान्तराग्रहणस्य ।
त्रितयेति ।
ज्ञानज्ञेयज्ञातृत्रितयावभासेऽपि यथायथं तत्तदनुभवस्यैव तत्तत्संस्कारं प्रति हेतुत्वादेकाग्रतया संविदनुभवे सति स्वापे ततः तत्संस्कारोत्पादेऽहमर्थविलयघटपटाद्यर्थान्तराननुभवयोरप्रतिबन्धकत्वात्संविन्मात्रप्रत्यवमर्शप्रसङ्गो दुर्वारो भवन्मते प्रबोधसमय इति भावः ।
ननु ज्ञातुर्विनष्टत्वात्स्वापेकः स्मरेदित्यत्राह न च प्रत्यभिज्ञेति ।
पूर्वदिने कृतस्यापरदिने प्रतिसन्धानात्पूर्वापरदिनस्थायित्वेन सिध्यतो ज्ञातुरहमर्थस्य मध्यकाले स्वापे विलयो न घटत इति भावः ।
एवं स्वापेऽप्यहमर्थस्य सद्भावमुपपाद्य तदा तद्भानमपि वर्तत इत्युपपादयति अत एव हीति ।
स्वापकालिकाहमर्थप्रतिसन्धानमिदं तात्कालिकतत्प्रतिभाससमर्थकम् ।
न चानुमितस्वापतत्सुखत्वात्मस्वरूपसत्तागोचरमिदमस्तु, तथा चेदं न स्वापेऽहमर्थप्रकाशस्योपपादकमिति वाच्यम् ।
स्वापांशेऽनुमितिलक्षणत्वेऽपि अहमर्थे प्रतिसन्धानरूपत्वस्य प्रातस्तत्राहं (न) आसमित्यादाविव स्वरससिद्धस्यानपोद्यत्वात् ।
प्रातःकालानुभूतात्मस्वरूप- परामर्शित्वादस्यात्मस्वरूपे प्रतिसन्धानरूपत्वोपपत्तिर्यथा, एवं स्वापेऽनुभूतात्मस्वरूपपरामर्शित्वादात्मांशे प्रतिसन्धानरूपत्वोपपत्तिरिति भावः ।
न च नित्यात्मप्रकाशस्य संस्कारजनकत्वे मानाभावात्कथमहमर्थ आत्मनि प्रतिसन्धानरूपत्वमस्येति वाच्यम् ।
स्वजन्यसंस्कारवत्त्वेनानुभवस्य प्रतिसन्धाने एकहेतुत्वनिर्वाहाय नित्यानुभवस्यापि संस्कारहेतुत्वोपगमात् ।
स्पष्टं चेदं सिद्धान्तसिद्धाञ्चने ।
स्वापेऽनुभूतात्मांशप्रकाशनरूपत्वाद्वा प्रतिसन्धानवाचो युक्तिः ।
अधिकमन्यत्र ।
ननु सविषयज्ञानस्य नित्यत्वं मास्तु शुद्धसंविदो नित्यत्वाद्युपपन्नमेवेत्यत्राह न च निर्विषयेति ।
स्वयंप्रकाशसंविदनुभवो हि विषयाश्रयोपश्लिष्टसंविद्विषय एव लोकविदितः इदमहं जानामीति ।
केवलसंविदनुभवस्तु न कस्यापि स्वतोऽन्यतो वा प्रसिद्ध इति भावः ।
ननु सिद्धान्ते ज्ञानस्वरूपस्यात्मनो निर्विषयत्वं निराश्रयत्वं चाभ्युपगतं कथं सङ्गच्छते? ।
उच्यते ।
संविदादिशब्दानां सविषयकज्ञान एव रूढत्वात्तदर्थस्य निर्विषयत्वादिनिषेधोक्तिरुपपन्नैव ।
धर्मभूतस्य ज्ञानस्य च विषयप्रकाशकस्य न निराश्रयत्वं नित्यात्मस्वरूपाश्रितत्वात् ।
आत्मस्वरूपज्ञानस्यापि प्रत्यक्त्वानुकूलत्वैकत्वप्रकारतः स्वरूपप्रकाशकत्वान्न निर्विषयत्वं निर्धर्मकत्वं वा ।
आत्मन्येकत्वानेकत्वाहंत्वानहंत्वादिसंशयस्य कदाप्यनुदयाच्च प्रत्यक्तवादिना भानमेष्टव्यम् ।
निरुपाधिकप्रेमास्पदत्वाच्च सुखत्वेनेति सिद्धान्तेऽभिमतो विशेषः ।
संविदः सविशेषत्वं संविदादिशब्दानां संबन्धिशब्दत्वप्रसिद्ध्याऽप्युपपादयति संबन्धीति ।
नियतसंबन्ध्याकाङ्क्षाशालित्वं संबधिशब्दत्वम् ।
ज्ञानं, संवेदनमित्युक्ते हि कस्य किंविषयकमिति विषयाश्रयाकाङ्क्षा नियता ।
एतदेव व्यतिरेक निषेधेन द्रढयति न हीति ।
जानात्यादेः ज्ञाधातुप्रभृतेः ।
ननु ज्ञानस्वरूपमित्यादिषु केवलस्यैव प्रयोगो दृश्यत इति चेन्न ।
आशयानभिज्ञो हि भवान् ।
अत्रत्यस्य धर्मिवाचिनो ज्ञानशब्दस्य स्वयंप्रकाशत्वप्रवृत्तिनिमित्तकस्य संबन्धिशब्दाद्धर्मभूतज्ञानवाचिनः शब्दाच्छब्दान्तरत्वात् चतुष्पाद्वाचिन इव गोशब्दात्किरणादिवाचिनस्तस्य ।
अस्माकं संबन्धिशब्दत्वप्रसिद्धिः धर्मभूतज्ञानवाचिनि सावकाशा ।
भवतां तु धर्मिणः स्वरूपज्ञानस्य धर्मभूतस्य च विषयज्ञानस्य भेदाभावात् एकस्यैव चैतन्यस्यात्मरूपस्य निर्विशेषत्वसिद्धान्तात् संबन्धिशब्दत्वप्रथानोपपन्ना संविदादिशब्दस्येति ।
निर्विशेषज्ञप्तिमात्रस्य पर्वृत्तिनिमित्तायोगेनैव धर्मिवाचिज्ञानशब्दवाच्यत्वमपि न संभवतीत्यप्यनुसन्धेयम् ।
एवं परैरात्मतयाऽभिमतस्य प्रमाणफलस्यागन्तुकत्वादात्मधर्मत्वाच्च नात्मत्वमित्यक्तम् ।
अथ तस्य प्रागभावासिद्धिं परोक्तामनुवदति यत्तु स्वत इति ।
अन्यतः सिद्ध्यभावस्फोरकं स्वतःसिद्धस्य इति ।
अनुभवस्येति विशेष्यपदमध्याहार्यम् ।
तद्विरोधादेव-प्रतियोगिना यौगपद्यावस्थानासंभवलक्षणाद्विरोधादेव ।
प्रागभावादेः- संवित्प्रागभावादेः ।
शिष्टं स्पष्टम् ।
दूषयति तदित्यादिना ।
ज्ञानसामान्यस्य स्वसमानकालिकार्थग्राहित्वनियमे दोषमाह अतीतेति ।
शङ्कानुवादः अथेति ।
इतीत्यनन्तरं मतमिति शेषः ।
संवित्प्रागभावस्य स्वसमानकालिकग्रहग्राह्यत्वमेवेति नियम इति शङ्काग्रन्थार्थः ।
नियममुपगम्याऽऽह किमेवमिति ।
तत्सिद्धेः-संवित्प्रागभावग्रहसिद्धेः ।
न प्रागभावाद्यसिद्धिः-न संवित्प्रागभावाद्यसिद्धिः ।
अयं च नियमो यद्यपि सिद्धान्ते युक्तः,विद्यमानयत्किञ्चज्ज्ञानप्रागभावस्य विद्यमानेनैव ज्ञानान्तरेणानुमानादिना ग्रहणात् ।
अहमिदानीं चाक्षुषाभाववान् उन्मीलितचक्षुष्कत्वादित्याद्यनुमानसंभवात् ।
अथापि परमतेऽयं नियमोऽनुपपन्न इत्याह तत्प्रागभाव इति ।
भवता हि ज्ञानं ज्ञानान्तराग्राह्यमिष्यते ।
एवं सति तज्ज्ञानप्रागभावस्तेनैव समानकालिकेनग्राह्यः स्याद्भवदुक्तनियमानुसारात् ।
तच्चानुपपन्नमिति भावः ।
नन्वतएवास्माभिः संवित्प्रागभावासिद्धिरुच्यत इति चेत्तत्राह ऐन्द्रियिकेति ।
लौकिकप्रत्यक्ष एव समानकालिकपदार्थग्राहित्वमिति नियमः ।
न तु ज्ञानसामान्यस्य, प्रमितिसामान्यस्य वा ।
तथा च प्राक्कालिकस्य स्वप्रागभावस्य तेनैव वर्तमानेन ज्ञानेन ग्रहणे नानुपपत्तिरिति हार्दम् ।
अग्रेचैतद्व्यक्तीभविष्यति ।
प्रमाणस्य प्रमेयाविनाभूतत्वात्प्रमाणज्ञानस्य स्वयंप्रकाशत्वेन नित्यत्वात्तत्प्रमेयमपि नित्यमिति मतं निराकरोति एतेनेति ।
एतेन-प्रमाणज्ञानमात्रस्य समानकालपदार्थग्राहित्वनियमाभावेन ।
निरसनीयमतानुवादः मानमिति ।
स्वयंप्रकाशत्वात्, मानं-प्रमितिः, स्वतःसत्-अनन्यापेक्षसत्ताकं सदाऽस्त्येव ।
एवं चेत्, अतो वक्ष्यमाणाद्धेतोः तन्मेयं च वस्तु सदाऽस्त्येव ।
हि-यतः, मानं-प्रमाणज्ञानं, मेययुगेव- प्रमेयाऽविनाभाव्येवेत्यर्थः ।
स्वयंप्रकाशस्यापि प्रमाणज्ञानस्य प्रमाणजन्यत्वादेवानित्य त्वम् ।
तत्प्रागभावग्रहोऽपि स्वतः परतो वा संभवेदेव ।
अतो मितिनित्यत्वमुपजीव्य मेयनित्यत्वव्यवस्थापनमयुक्तम् ।
प्रमाणज्ञानस्य समानकालार्थग्राहकत्वनियमाभावाच्चेति पराकरणप्रकारोबोध्यः ।
नन्वसदर्थग्राहित्वे मितेः कथं प्रमेयाविनाभावो घटते ?।
तत्राह न हीति ।
यदा प्रभितिस्तदा प्रमेयमिति न प्रमेयाविनाभावः प्रमितेः ।
किंतु यद्देशकालसंबन्धित्वेन यादृशाकारवत्त्वेन च यद्भासते प्रमितौ, तस्य तत्प्रकाराभावाभावपर्यवसितं प्रमेययोगित्वम् ।
अतद्रूपानवगाहित्वं मेये, तद्वति तत्प्रकारकत्वमेव च तदिति भावः ।
स्मृतेरप्रामाण्यमतमपि प्रतिक्षिपति प्रसङ्गतः अत एवेति ।
प्रलापः- प्रलापमात्रम् ।
निरर्थकं वचनमिति यावत् ।
अतीतमपि बाह्यमर्थं तथात्वेनैवावगाहिन्याः स्मृतेर्न निर्विषयता, मेयव्यभिचारो वा ।
प्रमेययोगित्वस्य तद्वति तत्प्रकारावगाहित्वरूपत्वादेवेति भावः ।
अथेत्यादिः शङ्कानुवादः ।
उत्येतेति वा, मतमिति वा शेषः पूरणीयः ।
परिहारो यद्येवमित्यादिः ।
स्वतःसिद्धत्वात् संविदः प्रागभावाद्यसिद्धिरिति वदता प्रमाणाभावस्येदानीं तद्धेतुत्वेनाभिधाने हेत्वन्तरम् ।
प्रमाणाभावोऽप्यसिद्ध इति भावः ।
समर्थितत्वादिति ।
अभिहितं हि पूर्वमेव स्वापमदमूर्च्छादशासु च योग्यानुपलम्भनिराकृतः तत्सद्भावो नाभ्युपगममर्हतीति ।
अत्रेदं बोध्यम्- अप्रकाशेऽपि संविदः स्वापेऽहं न जानामीति तदभावप्रत्यक्षमात्मनि तदा न घटते यद्यपि ।
स्वापस्य व्याघातात् ।
सविषयकज्ञानसामान्याभावो हि सः ।
अथापि स्वयंप्रकाशस्वभावायाः संविदोऽप्रकाशात्स्वापेऽभावः सिद्धः ।
तत्प्रतीतित्स्वानुमानिकी प्रबोध एवास्मरणनियमानुमितेन स्वापकालिकसंविदननुभवलिङ्गेन योग्यानुपलब्धिलक्षणेन ।
इदमेव चानुमानं ज्ञानत्वसामान्येन स्वापे स्वस्याप्यभावं विषयीकरोतीति सिद्धं स्वप्रागभावग्रहः स्वेनैवेति ।
प्रकारान्तरेणाप्यनित्यत्वं संविदां साधयति अपि चेति ।
न साधयतिन प्रकाशयति ।
तत् -तस्मात् ।
कालविशेषावच्छिन्नैव-कादाचित्कैव ।
कादाचित्कतया प्रत्यक्षप्रकाशस्याभिनयः अहमिदानीमेवास्मि नान्यदा इति ।
चेतनसमाध्यारोपेणैवं व्यपदेशः ।
यद्वा प्रमाणफलस्यैवात्मत्वस्वप्रकाशत्वयोः परैरुपगमात्तन्मत एवमेव प्रकाशः प्रमितेः स्यादित्याकूतम् ।
इतरथेति ।
प्रत्यक्षस्य समानकालीनार्थप्रकाशकत्वस्वाभाव्येन तस्य नित्यत्वे तद्विषयस्य घटादेरपि नित्यत्वप्रसङ्ग इति यावत् ।
यावत्स्वसत्तं घटादिर्नाध्यक्ष्यते, किंतु सन्नपि कदाचिदेव, तथाच घटाद्यध्यक्षस्य कादाचित्कत्वं न विषयासत्त्वप्रयुक्तम्, किंतु स्वस्य कादाचित्कत्व प्रयुक्तमेवेति भावः ।
अत्र प्रयोगः- प्रत्यक्षसंवित् स्वविषयकालाव्यापिनी, समानकालीनार्थभासकत्वे सति यावदर्थसत्तं तदप्रकाशकत्वादिति ।
प्रत्यक्षवदनुमानादिसंविदामप्यनित्यत्वं साधयति एवमिति ।
कादाचित्कतयैव चकासतीति शेषः ।
लिङ्गपरामर्शादिसापेक्षाणां तासां न हि नित्यत्वं संभवति ।
अन्वमिनवम्, अशाद्बयमित्यादिप्रतीतयश्च कादाचित्कतां गमयन्ति ।
समानकालार्थग्राहित्वनियमरहितानामप्येतासां प्रतीतं कादाचित्कत्वं न विषयासत्त्वौपाधिकम्, किंतु स्वरूपप्रयुक्तमेवेति भावः ।
ननु सविषयकज्ञानानामनित्यत्वेऽपि निर्विषयं ज्ञानमात्रं नित्यमिति चेत्तत्राऽह नचेति ।
प्रत्यक्षानुमानपदे भावप्रधाने ।
धीसंविदादिपदानां सविषयकज्ञान एव स्वारसिकः प्रयोगः ।
तदर्थस्य च साश्रयत्वनियम एव ।
उपलम्भबलाच्छास्त्रबलाच्च स्वरूपज्ञानस्यापि न निर्विशेषत्वमिति भावः ।
एतेन चैतन्यमात्रं नित्यनिर्विशेषस्वप्रकाशरूपं सत् ।
तस्यैवान्तः- करणवृत्त्यवच्छिन्नस्य विषयप्रकाशकत्वम् ।
वृत्त्यवच्छेदकादाचित्कतया विशिष्टस्य तस्यानित्यत्वप्रतीतिः ।
अन्तःकरणावच्छिन्नं तदेव ज्ञात्रित्यपि परास्तम् ।
अन्तःकरणस्य वृत्तिः किं व्यापारलक्षणा उत परिणामलक्षणा ।
नाद्यः, तावन्मात्रेण ज्ञानव्यापारमन्तरा विषयप्रकाशाभावात् ।
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञाम् तेनास्यक्षरति प्रज्ञा इत्यादिषु मनइन्द्रियद्वारकज्ञानप्रसरणत एवार्थप्रकाशव्यवस्थापनात् ।
क्वचित्प्रज्ञामनसोरभेदोपदेशस्तु ज्ञानव्यापारानुगुणव्यापारवत्त्वान्मनसो भाक्तो ज्ञेयः ।
न द्वितीयः, मनसो विषयाकारपरिमाणे दृढतरप्रमाणाभावात् ।
चैतन्यस्य निर्विशेषत्वे च न प्रमाणम्; येन तस्यैवौपधिकभेदरूपत्वकल्पनं ज्ञात्रादेः साधीयो भवेत् ।
निरूपाधिकज्ञातृज्ञेयज्ञानभेदप्रतिपादकाबाधितप्रत्यक्षशास्त्रादिप्रमाणबाधितं चेदमित्यलमधुना ।
एवं स्वेनैवस्वप्रागभावसिद्धिमुक्त्वाऽन्यतोऽपि तामाह न चान्येति ।
अतीतस्य स्वकीयज्ञानस्य स्मृत्यादिग्राह्यत्वमुक्त्वा परकीयज्ञानस्यापि ज्ञानान्तरग्राह्यत्वमाह प्रतिकूलेति ।
परकीयस्य विषयविशेषेऽनुकूलत्वज्ञानस्य प्रतिकूलत्वज्ञानस्य वा तदीयहानोपादानादिप्रवृत्तिरूपदर्शनानुमेयत्वादिति यावत् ।
ज्ञानस्य ज्ञानान्तरग्राह्यत्वानुपगमे बाधकमाह तदनुपगमे चेति ।
परज्ञानानुपगमे व्यवहाराच्छक्तिग्रहस्य परज्ञानानुमानसापेक्षत्वाच्छक्तिग्रहस्यैवासंभवेन तन्मूलस्य व्यवहारस्य विलोपप्रसङ्ग इत्यर्थः ।
यद्वा शब्दार्थसंबन्धस्य बोध्यबोधकभावस्य बोधघटितस्य ज्ञानस्य ज्ञानान्तरग्राह्यत्वानुपगमे व्याकरणादिना प्रतिपादनासंभवात्समस्तशाब्दव्यवहारविलोपप्रसङ्ग इत्यर्थः ।
शब्दार्थग्रहणासंभवेन-शब्दार्थसंबन्धग्रहणासंभवेन ।
परकीयज्ञानानुमानानुपगमे गुरूपसर्पणादेरप्यनुपपत्तिरित्याह गुरूपसर्पणेति ।
तस्य-गुरोः ।
अथानुभाव्यत्वस्यानुभूतित्वविरुद्धत्वं प्रतिक्षिपति नचान्यविषयत्व इति ।
स्वाश्रयस्येत्युभयत्र संबध्यते ।
स्वाश्रयाय स्वयमेव प्रकाशमानत्वम्, स्वाश्रयाय स्वविषयप्रकाशकत्वं वा स्वसत्ताकाले संविदो विद्यत एव ।
उभयविधं चेदमनुभूतित्वं स्वसत्ताकाले स्वाश्रयायाऽप्रकाशमानत्वे स्वविषयाप्रकाशकत्वे वा न घटेत ।
न तदस्ति ।
अतीतत्वदशायां स्वाश्रयाय वर्तमानदशायां वा पुरुषान्तराय ज्ञानान्तरेण भासमानत्वेऽपि तस्या न निरुक्तानुभूतित्वभङ्गप्रसङ्ग इति भावः ।
अनुभाव्यत्वस्याननुभूतित्वेऽप्रयोजकत्वं चाह घटादेरिति ।
तथास्वाभाव्याभावादेव-निरुक्तोभयविधानुभूतित्वविरहादेव ।
अननूभूतित्वम्-अनुभूतिभिन्नत्वम्, अनुभूतिपदावाच्यत्वं वा ।
साहचर्यमात्रेणानुभाव्यत्वस्याननुभूतित्वप्रयोजकत्वे प्रतिबन्द्युपक्षेपः अपि चेति ।
तत्प्रसङ्गः-अननुभूतित्वप्रसङ्गः ।
असतोदृष्टान्ततया निर्देशः परप्रक्रियया ।
एवं संविदोऽनुभाव्यत्वं समर्थ्याऽऽत्मनोऽपि तत्, संविद्भिन्नत्वं च समर्थयते न चात्मन इति ।
अनुभूतित्वंविषयधीरूपत्वम् ।
अनुभवितृत्वात्-विषयध्यधिकरणत्वात् ।
नाप्यसाविति ।
ज्ञानान्तरनिरपेक्षप्रकाशस्यापि निजात्मस्वरूपस्य श्रवणादिज्ञानग्राह्यत्वात्, परात्मनोऽपि तच्छरीरगतचेष्टादिनाऽनुमेयत्वादात्मनोऽननुभाव्यत्वं श्रुतियुक्तिविरुद्धमनुपपन्नमित्यर्थः ।
आस्थीयतामिति ।
घटादेः ज्ञानानाश्रयत्वमेवानात्मत्वेऽज्ञानाविरोधित्वमेवाननुभूतित्वे प्रयोजकमिष्यतां नानुभाव्यत्वमित्यर्थः ।
शङ्काऽत्र अथेति ।
ते-ज्ञानानाश्रयत्वाज्ञानाविरोधित्वे ।
विषयत्वे-अनुभाव्यत्वे ।
परिहारः अविषयत्वेऽपीति ।
तथैव ते स्यातां गगनकुसुमवदिति यावत् ।
असत्त्वमेव तयोः प्रयोजकंनाननुभाव्यत्वमिति चेत् अननुभाव्यत्वेऽसत्त्वमपि प्राप्तं तद्वदेव ।
अप्रयोजकत्मवमिति चेत्तुल्यमनुभाव्यत्वेऽपीति हार्दम् ।
इत्यलमिति ।
व्याप्त्याभासमूलत्वात्कुतर्कत्वम् ।
अत एवाप्रतिष्ठितत्वं सिषाधयिषितार्थसिद्धिपर्यवसानविरह इति बोध्यम् ।
एव मनुभाव्यत्वसमर्थनेन परतोऽपि संविदः प्रागभावसिद्धिरभिमता ।
सिद्धान्ते धर्मभूतज्ञानस्य नित्यत्वेऽपि विषयप्रकाशोपयोग्यवस्थाविशेषविशिष्टस्यानित्यत्वादीष्टमेवेति ध्येयम् ।
स्वप्रकाशत्वात्संविदो न प्रागभावसिद्धिः ।
प्रागभावाभावाच्चानुत्पन्नत्वं, तत एव भावविकाररहितत्वं चोक्तमन्यैः ।
तत्र संवित्प्रागभावसिद्धिसमर्थनेनानुत्पन्नत्वहेतोः स्वरूपासिद्धं सिद्धवत्कृत्य विकारान्तरनिरासकानुमानेऽनैकान्त्यमाह व्यभिचरतीति ।
सप्तम्या अवच्छेदकत्वमर्थः ।
तस्य व्यभिचारपदार्थेऽन्वयः ।
अनुत्पन्नत्वं प्रागभावावच्छेदेनाऽविनाशित्वरूपसाध्यव्यभिचारीत्यर्थः ।
तदधिकरणस्यैव तन्निष्ठधर्मावच्छेदकत्वात्प्रागभावस्य हेतुनिष्ठव्यभिचारावच्छेदकस्य हेतुमत्त्वं साध्याभाववत्त्वं च सिद्ध्यति ।
भावेति ।
भाववृत्तित्वस्यानुत्पन्नत्वहेतुविशेषणत्वेऽपि पराभिमतायामनादिसान्ताविद्यायां व्यभिचार इत्यर्थः ।
व्यभिचारेऽवच्छेदकस्या ज्ञानस्य तद्धेतुत्वविवक्षातोऽविद्ययेति तृतीया ।
अनैकान्त्यं परिहर्तुं शङ्कते अपरमार्था इति ।
परमार्थविकारराहित्यं साध्यम् ।
तदभावश्च परमार्थविकारो नाविद्यायामिति न व्यभिचार इति भावः ।
प्रतिवक्ति परमार्थाश्चेति ।
ते-तव ।
मते इति पूरणीयम् ।
साध्यस्य-साध्यघटकविकारादेः ।
साधनस्य वा-साधनघटकोत्पत्तेर्वा ।
अर्थवत्तामश्रुवीत-अन्वितार्थकं भवेत्; व्यभिचारस्यासिद्धेश्च वारकतया सप्रयोजनं वा ।
संविदोऽपि कल्पितोत्पत्तिमत्त्वसंभवेन स्वरूपासिद्धिवारणाय साधनस्य वेत्युक्तम् ।
अयं भावः- परमार्थविकारादेः परमार्थोत्पत्तेर्वाऽनुपगमाद्भवतां साध्यहेत्वोः पारमार्थ्यविशेषणं न घटते ।
साध्यसाधनव्यतिरेकव्याप्तीनामप्रसिद्धिप्रसङ्गात् ।
अविशेषणे च व्यभिचारस्य स्वरूपासिद्धेर्वा न परिहारसंभवइति ।
तथा च सतीति ।
उपहासगर्भमुपालम्भवचनमिदम् ।
तथा च सति-विशेषणदाने सति च ।
व्यभिचारवारकं विशेषणं विवक्षताऽसिद्धौ दृष्टिर्न विधीयत इति भावः ।
अनुत्पन्नत्वान्निर्भेदत्वं संविद इति चानूद्य प्रतिक्षिपति यदपीति ।
तदपि नेति ।
सजातीयविजातीयस्वगतभेदानामबाधिताध्यक्षादिसिद्धत्वाद्बाधितविषयं तन्निषेधानुमानमिति भावः ।
विभागि- भेदयोगि ।
विजातीयभेदनिषेधेऽनुत्पन्नत्वेन सिषाधयिषितेऽनैकान्त्यमाह अजस्यैवेति ।
पराभिमतेऽज्ञानेऽपि तदाह अनादित्वेनेति ।
आत्मानात्मभेदस्यापरमार्थत्वात्परमार्थभेदस्य निषेधे नानैकान्त्यमित्यभिमानेन शङ्कते अपरमार्थ इति ।
अभिमानं निराकरोति परमार्थभेद इति ।
जन्मप्रतिबद्धः- उत्पत्तिमत्त्वव्याप्यः ।
यत्परमार्थभेदवत्तदुत्पन्नमिति हि व्यतिरेकव्याप्तिर्वाच्या ।
सा च न; परमार्थभेदस्यैव भवन्नयेऽप्रसिद्धेः ।
तथा च विशेषणदानेऽसिद्धिप्रसङ्गः . विशेषणादाने चानैकान्त्यं दुष्परिहरमिति भावः ।
नच परमार्थत्वरूपव्यधिकरणधर्मावच्छिन्नभेदनिष्ठप्रतियोगिताकाभावः साध्यते, तथा च न दोष इति वाच्यम् ।
एवमपि भवन्मते हेतुसाध्ययोः ।
साहचर्यग्रहोपयोगिपक्षातिरिक्तस्थलान्तराभावाद्व्याप्यत्वासिद्धिरेव ।
व्यघिकरणाधर्मावच्छिन्नप्रतियोगिताकाभावस्य केवलान्वयितया व्यतिरेकव्याप्तेरपि दुर्वचत्वात् ।
नच शास्त्रत एव संविन्मात्रस्य नित्यत्वं निर्भेदत्वं च सिध्यतीति वाच्यम् ।
शास्त्रस्यापि भवन्मतविप्रतीपत्वात् ।
नित्यानां चिदचिदीश्वरादीनां परमार्थतो भेदो हि शास्त्रेषु वर्ण्यत इत्यन्यत्र विस्तरः ।
अग्रे च व्यक्तीभविष्यति ।
संविदि सजातीयभेदनिषेधे साध्यमाने प्रत्यक्षबाधमाह निर्बाधेति ।
दृग््दृश्यभेदः-दृशां, दृश्यानां, दृग््दृश्यानां च मिथो भेदः ।
संविदः स्वगतभेदनिषेधानुमानेऽपि दूषणमाह तदपीति ।
संविद्धर्माणां प्रमाणसिद्धत्वकथनेन संविदि धर्मनिषेधसाधनस्य कालात्ययापदिष्टत्वं फलितम् ।
अत एव संवित्पक्षके व्यतिरेकिणि धर्मपक्षके चान्वयिनि संविद्धर्मनिषेधानुमाने पक्ष एव व्यभिचारोद्भावनं घटते ।
ननु संविद्धर्माणां संविदभिन्नतया भिन्नधर्मनिषेधानुमाने न क्षतिरित्यत्राह तत्सिद्धावपीति ।
विवादविषयाणां धर्माणां संप्रतिपन्नसंवित्स्वरूपता न घटत इति भावः ।
घटपटयोरिवाकारभेदाच्च संवित्तद्धर्मयोर्नैक्यमित्याह स्वरूपभेदाच्चेति ।
स्वरूपभेदमेवोपपादयति स्वाश्रयमित्यादिना ।
कस्यचित्-किञ्चिदर्थस्य ।
प्रकाशनं-प्रकाशापादनम् ।
संवेदनमिति भावप्रधानो निर्देशः ।
संवेदनत्वमिति यावत् ।
यद्वा प्रकाशनं-प्रकाशकम् ।
आत्मने-स्वस्मै, स्वाश्रयाय वा ।
स्वाश्रयाय स्वविषयप्रकाशकत्वं संवेदनस्य संवेदनत्वम्; स्वयंभासमानत्वं च संवेदनस्य स्वयंप्रकाशत्वमित्येनयोर्धर्मयोः स्वरूपभेदो बोध्यः ।
संवेदनत्वस्वयंप्रकाशत्वशरीरानुप्रविष्टं प्रकाशपदार्थमाह प्रकाशश्चेति ।
प्रकाशोऽयं ज्ञाततापरर्यायो धर्मविशेषः . अयं च न जडमात्रस्य, किंतु चित्पदार्थस्यापि ।
तदुच्यते चिदचिदशेषपदार्थसाधारण इति ।
संवित्सिद्धावेवेति ।
संविदः स्वप्रकाशत्वसाधन इत्यर्थः ।
यद्वा संवित्सिद्धिनामके प्रकरण एवेत्यर्थः ।
एतेनाऽऽत्मसिद्धेः पूर्वमेव संवित्सिद्धेः कृतत्वं ज्ञायते ।
यद्यपि उपलभ्यमाने संवित्सिद्धिग्रन्थभागे प्रकाशपदार्थनिरूपणं नोपलभ्यते ।
अथापि संवित्सिद्धौभूयांसो भागा आदावन्ते मध्ये च विलुप्ताः ।
तत्रैतत्संभवतीति ध्येयम् ।
धर्मान्तरप्रकाशानभ्युपगमेऽप्याह तदनभ्युपगम इति ।
व्यवहारानुगुण्यमेव ज्ञानाधीनं प्रकाशशब्दितम् ।
अव्यवह्लियमाणस्यापि ज्ञानतोव्यवहारयोग्यताऽक्षुण्णैवेति भावः ।
एकसङ्ख्यावच्छेदः- एकत्वसङ्ख्यावत्त्वम् ।
शङ्कते नच जडत्वेति ।
जडत्वाभावः स्वप्र काशत्वम्, देशकालापरिच्छिन्नत्वे विभुत्वनित्यत्वे ।
बहुत्वाभाव एकत्वम् ।
न त्वेतानिभावरूपाणि ।
अभावस्य चाधिकरणात्मकत्वान्न संविदः सधर्मत्वं प्रसजतीति भावः ।
परिहरति तथाभूतैरपीति ।
अभावानामतिरिक्तत्वमधिकरणवृत्तिधर्मान्तररूपत्वं वा ।
आधाराधेयभावप्रतीतिस्वारस्यादित्यभावरूपैरपि सधर्मत्वमवर्जनीयमित्यर्थः ।
यस्मिन् प्रतीते निषेध्यबुद्धिर्नोदेति तस्यैवाभावरूपत्वम् ।
प्रतीयमानायामपि संविदि अनित्यत्वादिसंशयोदयाच्च न तदभावरूपत्वं तस्याः ।
किंतु सर्वकालसंबन्धित्वादिविरोधिधर्मान्तरलक्षणमेव नित्यत्वादीति भावः ।
संविदीति ।
विरोधिधर्मवत्ताबोधनमन्तरा जडत्वादिनिषेधकत्वानुपपत्तिः प्रतिज्ञायाः ; तद्बोधने च सधर्मत्वसिद्धिरवर्जनीयेति भावः ।
नच जडत्वादिविरोधिस्वरूपत्वमेव प्रतिज्ञया बोध्यते संविदो न विरोधिधर्मवत्त्वमिति वाच्यम् ।
सर्वाध्यासाधिष्ठानभूतायास्तस्याः सर्वविरोधित्वासिद्धेः ।
नच शुद्धा सा तथेति वाच्यम् ।
तस्याः सर्वविशेषप्रत्यनीकत्वोपगमे जडत्वादिप्रत्यनीकतेवाजडत्वादिप्रत्यनीकताऽपीतिजडाजडविलक्षणत्वादिप्रसङ्गात् ।
अजडत्वाद्यभावेऽपि अजडादिस्वरूपैव सेति चेद्धर्मत्वाभावेऽपि धर्मस्वरूपैव सा किं न स्यादिति दिक्् ।
भेदादिधर्मपक्षकचित्संबन्धित्वाभावसाधनेऽनैकान्त्यमप्याह चेत्यमिति ।
चेत्यम्-अनुभाव्यम् ।
आत्मनि-चिन्मात्र आत्मनि ।
किञ्च चिद्धर्मत्वाभावसाधनमनुपपन्नम् ।
प्रतियोग्यप्रसिद्धेः ।
धर्मा न चित इत्यपि न साधीयः ।
षष्ठ्यर्थस्य संबन्धस्य चित्पदार्थेनानन्वयाद्भवतासित्याह अपि चेति ।
प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेः चितो विभक्त्यर्थसंबन्धित्वं सिद्धमिति तत्र विशेषसामान्यनिषेधप्रतिज्ञा व्याहतार्थेति भावः ।ननु सिद्धिरेव सा ।
कस्य भोः? यदि न कस्यचित्, न तर्हि सिद्धिरेव ।
सा हि पुत्रत्वमिव कस्यचित् किंचित्प्रति ।
आत्मन इति चेत्, कः षष्ठ्यर्थः ?तदेवं व्योमारविन्दसदृशवपुषि यथोदितदृशि वेदान्ततात्पर्यवर्णनं वेदान्तायैव स्यात् ।
अपि च नित्यत्वेऽप्यनुभुतेः प्रत्यभिज्ञानुपपत्तिस्तदवस्थैव ।
सा हि अनुभवितारं पूर्वापरकालावस्थायिनमुपस्थापयति अहमिदमन्वभूवमिति ।
अनुभूतिस्त्वनुभूतिरेव भवताम्, न तां प्रति सा कर्त्रीं कर्म वा ।
(इति मायावाद्यभिमतनित्यविज्ञानात्मत्वनिरासप्रकरणम्) यद्युच्येत- परमार्थतः तथाभूतापि भ्रान्त्यानुभवितृतया परिस्फुरति रजततयेव शुक्तिः ।
न हि तथ्यमनवलम्ब्य मिथ्यावभासस्योत्थानमिति; तन्न ।
तथा सति अनुभवसमानाधिकरणतयाऽनुभविताऽहमर्थः प्रकाशेत अनुभूतिरहमिति, पुरःस्थितभास्वरद्रव्यशङ्खमुखचन्द्रादेराकारतयेव रजतपीतमुकुरस्थताद्वित्वादि ।
पृथगवभासमान एव तु अयमनुभवो दण्ड इव देवदत्तमर्थान्तरमहमर्थंविशिंषन् आलक्ष्यते अनुभवाम्यहमिति ।
तदेवमनुभवविशिष्टमस्मदर्थमवभासयन्नयमहंप्रत्ययः कथमिव विशेषणभूतानुभूतिमात्रावलम्बनः प्रतिज्ञायेत, दण्डमात्र इव दण्डी देवदत्त इति प्रत्ययः ।
कुतश्चैष निश्चयः-अध्यस्तं ज्ञातृत्वमिति? ।
स्थूलोऽहमितिवत् देहात्माभिमानवतः प्रतिभासनादिति चेत्; नन्वात्मतयाऽभिमताऽनुभूतिरपि तदूत एवावभातीति सापि तथा स्यात् ।
तत्त्वज्ञानोदयात् परतोऽपि तदनुवृत्तेर्न तथा सेति चेत् ; किं भोः! तत्त्वज्ञानात्परमबोद्धैवायमात्मा ? हन्तैवं वरमितोऽतत्त्ववेदित्वम्; भ्रान्त्यापि हि तत्र बहु भद्रं पश्यतीति ।
ननु ज्ञातृत्वं ज्ञानक्रियाकर्तृत्वं विक्रियात्मकं जडमहङ्कारग्रन्थिस्थम् ।
तत्फलभुगकर्ताऽविक्रियः साक्षी प्रकाशमात्र आत्मा ।
कर्तृत्वादिर्हि दृश्यत्वाद्रूपादिवन्नात्मधर्मः ।
कर्तृत्वे ह्यात्मनोऽहंप्रत्ययगोचरत्वेऽपि देहस्येवानत्मत्व- परार्थत्वजडत्वादिप्रसङ्गो दुर्निवारः ।
दृष्टं च लौकिकवैदिककर्मसु कर्तृतया प्रसिद्धाद्देहात्तत्क्रियाफलभुजः प्रमातुः अहंप्रत्ययिनः पृथक्त्वम् ।
तथेहापि प्रमातुरहमर्थाद्विलक्षणः साक्षी प्रत्यगात्मेति युक्तम् ।
नैवं युक्तम् ।
अहं जानामीति ज्ञातृतया सिध्यतः प्रत्यगात्मनो व्यतिरेकेण सिक्षिणो नाम प्रकाशमात्रस्याऽऽत्मनोऽनुपलब्धेः ।
देहेन्द्रियमनःप्राणविज्ञानेभ्यो ज्ञानाश्रयतया विविच्यमाने प्रतीपमञ्चतीव निर्भासमानोऽहंभाव एव हि प्रत्यक्त्वं नाम ।
साक्षित्वमपि तस्य साक्षाज्ज्ञातृत्वम् ।
न ह्यजानन् सिक्षीत्यपदिश्यते ।
सर्वं च प्रकाशमानं ज्ञात्रेऽहमिति चकासते प्रकाशत इति प्रत्यात्मसिद्धोऽयमनुभवः- अहं जानामि, मह्यं प्रकाशत इति ।
(इति ज्ञातुरहमर्थस्य प्रत्यगात्मत्वनिरूपणम्) न चाव्याकृतपरिणामभेदस्याहङ्कारनाम्नो बुद्धिनामधेयस्य वा ज्ञातृत्वम् ; देहस्येवाचेतनत्वपरिणामित्वजडत्वपरार्थत्वादिहेतुभिस्तदनुपपत्तेः ।
न च चितिच्छायापत्त्या तयोस्तत्संभवः ।
अचाक्षुषस्य छायाऽदर्शनात् ।
न च ज्ञातृत्वं चितावपि ते वास्तवमस्ति, येनाग्निसंपर्कादयः पिण्ड इवौष्ण्यं तत्संपर्कादर्थान्तरे ज्ञातृत्वं जायेत ज्ञायेत वा ।
(इत्यहङ्कारस्य ज्ञातृत्वतत्प्रतीत्यनुपपत्तिनिरूपणम्) यद्युच्येत-ज्ञाप्तिमात्रमेवाऽऽत्मानमभिव्यञ्जन् अचेतनोऽप्यहङ्कारः स्वाश्रयतया तमभिव्यनक्ति ।
स्वभावो ह्ययं व्यञ्जकानाम्-यदात्मस्थतयाऽभिव्यङ्ग्यमभिव्यञ्जन्ति, दर्पणजलखण्डमुण्डादय इव मुखमिहिरबिम्बगोत्वादीन् ।
तत्कृतश्चायमहं जानामीति भ्रमः ।
अत एव खलु अहमुल्लेखविगमे सुषुप्तिमुक्तयोः स्वाभाविकविशदानुभवमात्ररूपेणाऽऽत्मनः प्रकाशः ।
तत एव चानात्मत्वमहमर्थस्य ।
तथा च सौरेशं वचः-“आत्मनश्चेदहं धर्मो यायान्मुक्तिसुषुप्तयोः ।
यतो नान्वेति तेनायमन्यदीयो भवेदहम ।।“इति।
(इति अहङ्कारस्य संविदभिव्यञ्जकत्वपूर्वपक्षोपपादनम्) प्रकारान्तरेणापि संविदः सधर्मकत्वं साधयति सिद्धिश्चेदिति ।
सिद्धिः प्रकाशः ।
तदुपगमे तेनैव संविदः सधर्मता स्यात् ।
तदनुपगमे तु शशविषाणादिवदप्रकाशमानाया असिद्ध्यन्त्यास्तस्यास्तुच्छत्वमेव प्रसज्यत इति कारिकार्थः ।।10।।अत्र शङ्कते ननु सिद्धिरेवेति ।
न प्रकाशाश्रयः, किन्तु प्रकाशस्वरूपैव संवित् ।
तन्न तुच्छत्वं सधर्मकत्वं वेति भावः ।
आक्षिपति कस्य भोरिति ।
सविशेषत्वप्रसङ्गाद्भीतः पर आह न कस्यचिदिति ।
प्रतिवक्ति सिद्धान्ती न तर्हीति ।
प्रकाशो हि धर्मो विना धर्मिणा न घटत इति भावः ।
सिद्धेः ससंबन्धिकत्वं व्युत्पादयति सा हीति ।
पितुर्हि पुत्रः ।
पुत्रत्वमिवानुयोगिप्रतियोगिसापेक्षा सिद्धिरिति भावः ।
अनन्यगतिकतयाऽऽह आत्मन इति ।
आत्मानुयोगिकात्मप्रतियोगिकैव सिद्धिः संविद इत्यर्थः ।
आत्मशब्दोऽत्र स्वरूपवाची ।
एवं चेत् सधर्मत्वमायात्येव संविद इत्याह कइति ।
पितरं प्रति पुत्रस्य पुत्रत्वमिवात्मप्रतियोगिकः प्रकाशो धर्मः संविदात्मनः सिध्यतीत्यर्थः ।
एवं कारि कार्थ आक्षेपपरिहारपदकैः कतिभिश्चिद्विवृतः ।
एवं संविदो निर्विशेषत्वं निरस्य निर्विशेषसंविदि वेदान्ततात्पर्यवर्णनं वेदान्तानामप्रामाण्यप्रर्यवसायीत्याह तदेवमिति ।
वेदान्ताय-वेदविनाशाय ।
वेदप्रामाण्योच्छित्त्यै इति यावत् ।
क्षणिकविज्ञानात्मवादे स्मरणाद्यनुपपत्त्या निरस्ते हि नित्यविज्ञानात्मवादिन उत्थानम् ।
एतत्पक्षेऽपि तामाह अपि चेति ।
ज्ञातुर्नित्यत्व एवाहमिदमन्वभवमित्यादेरुपपत्तिः ; नतु ज्ञाननित्यत्वमात्रेणेति भावः ।
एतदेव विवृणोति अनुभूतिरिति ।
एवकारार्थमाह न तामिति ।
यद्यपि सिद्धान्तेऽपि नानुभवितृत्वमनुभूतेः।
अथाप्यनुभाव्यत्वमिष्यते ।
ज्ञातुश्चाहमर्थस्यात्मनो नित्यत्वम् ।
तथाच पूर्वानुभूतानुभूत्यादिप्रतिसन्धानं घटते ।
परमते त्वननुभाव्यत्वादननुभवितृत्वाच्च संविदात्मनो निरुक्तप्रतिसन्धानानुपपत्तिरेवेति भावः ।
तदेवं प्रतिसन्धानबलाज्ज्ञातुरेवात्मत्वं न ज्ञानमात्रस्येति स्थित हृदि ।
एतदेव समर्थयिष्यत्यग्रिमग्रन्थसन्दर्भेण ।
तत्रादौ ज्ञातृत्वप्रतीतेर्भ्रान्तिरूपतां पराभिमतामनुवदति यद्युच्येतेति ।
संविन्मात्र परमार्थः ।
स एवात्मा ।
अस्मिन्नधिष्ठाने ज्ञातुरहमर्थस्य भ्रान्तिः शुक्ताविव रजतस्य ।
भ्रमोपपत्त्यर्थमधिष्ठानसंविन्मात्रपारमार्थ्यमभ्युपेयमिति परेषामाशयः ।
दूषयति तन्नेति ।
तथा सतीति ।
अयमाशयः -धर्मिणि धर्म्यन्तरारोपे आरोप्याधिष्ठानयोः समानाधिकरण्येन (अभेदेन) भानं भवेदिदं रजतमिति यथा ।
अन्यत्रान्यधर्मारोपे चारोप्यधर्मवता तथा भानं दृष्टं शङ्खः पीतवान्, मुख दर्पणस्थं, चन्द्रौ द्वाविति ।
न चैवमत्रानुभूतिरहमिति वा अहंवतीति वा भानमस्ति ।
तन्न संविदि अहमर्थारोप इति युक्तमिति ।
अहमर्थे संविदारोपोपगमस्तु न घटते परेषां सत्यालम्बनत्वनियमादारोपस्य, अहमर्थस्य चासत्यत्वादिति ध्येयम् ।
पृथगिति ।
पृथगवभासमानत्वं प्रकारतया प्रकारिणो विलक्षणत्वेन भासमानत्वम् ।
अहंदण्डीति प्रतीतितुल्यत्वादहं जानामीति प्रतीतेरहमर्थे ज्ञानधर्मवत्तावगाहित्वमेवेति यावत् ।
तदेवमिति ।
दण्डमात्रे इति विषयसप्तमी ।
दण्डमात्रालम्बन इत्यर्थः ।
यथा दण्डी पुरुष इत्यत्र दण्डमात्रस्य सत्यत्वं पुरुषस्यारोपितत्वं च न, एवमहं जानामीत्यत्रापि न ज्ञानमात्रस्य सत्स्त्वं ज्ञातुर्मिथ्यात्वं च ।
किंतु ज्ञातुरहमर्थस्य सत्यत्वमेव युक्तमभ्युपगन्तुं बाधकानुपलब्धेरित्याशयः ।
ज्ञातृत्वप्रतीतेर्भ्रान्तित्वेऽनुयुङ्ले किं नियामकमिति कुत इति ।
पूर्वपक्षी तत्प्रति वक्ति स्थूल इति ।
भ्रान्तैर्गृह्यमाणत्वाज्ज्ञातृत्वमध्यासलक्षणमिति भावः ।
नेदमध्यस्तत्वसाधकं बाधितत्वेन सोपाधिकत्वादित्याशयमन्तर्निधाय प्रतिबन्दीमाह नन्वात्मतयेति ।
देहात्मभ्रमवतागृह्यमाणाया अपि संविदोऽबाध्यत्वान्न मिथ्यात्वमिति समाधिं वाचयति पूर्वपक्षिमुखतः तत्त्वज्ञानोदयादिति ।
तुल्यमिदं ज्ञातृत्वस्यानध्यस्तत्वं इत्याह किं भोरिति ।
तत्त्वज्ञानफले मोक्षेऽपि ज्ञातृत्वमनुवर्तत इत्यबाधितत्वमित्याशयः ।
मोक्षे ज्ञातृत्वस्य निवृत्तावनर्थं प्रसञ्जयति हन्तैवमिति ।
दुःखनिवृत्त्या मुक्तेः पुमर्थत्वमिति चेदानन्दानुभवनिवृत्त्याऽनुभवित्रहमर्थनिवृत्त्या चापुमर्थत्वं प्रसज्यते इति भावः ।
ज्ञातृत्वादेरनात्मधर्मत्वात्तन्निवृत्तावपि न पुमर्थतोपघातो मुक्तेरिति शङ्कते ननु ज्ञातृत्वमिति ।
अहङ्कारोऽन्तःकरणम्, तदेव दुर्मोचत्वाद्ग्रन्थिः, तन्निष्ठमेव ज्ञातृत्वं ज्ञानात्मना परिणामलक्षणं विक्रियात्मकं जडपरिणामत्वाज्जडं चेत्यर्थः ।
आत्मनः स्वरूपमाह तत्फले ति ।
कर्तृत्वस्य फलभोक्ता, अविक्रियत्वादकर्ता,प्रकाशमात्नस्वरूपतया साक्षीचात्माऽस्तीत्यर्थः ।
प्रकाशः मात्रा यस्य सः प्रकाशमात्रः ।
कर्तृत्वे इति ।
आत्मा न कर्ता नाप्यहमर्थः, आत्मत्वादनन्यार्थत्वादजडत्वादविक्रियत्वाद्वा तन्नैवं यन्नैवं यथा देह इति प्रयोगा अत्र गर्भिताः ।
कर्तृभिन्नस्य भोक्तृत्वं कथम्? तत्राह दृष्टमिति ।
एतद्दूषयति नैवमिति ।
ज्ञातृव्यतिरिक्तस्य प्रकाशमात्रस्यात्मनोऽनुपलम्भबाधमुक्त्वा प्रत्यक्त्वबलादेवाहमर्थत्वमात्मन एषितव्यमित्याह देहेन्द्रियेति ।
ज्ञानस्य देहादावसंभवाद्धि तद्वैलक्षण्यमात्मनः साधितम् ।
तज्ज्ञातृत्वमात्मन एष्टव्यम् ।
देहादिश्चेदङ्कारगोचरः ।
तत्राहङ्कारस्त्वाभिमानिक एव ।
तदहंभावस्य देहादिगतेदम्भावतः प्रतीपत्वं विरुद्धत्वम् ।
प्रतीपमञ्चतीति च प्रत्यकू अहङ्कारगोचरः ।
तत्प्रत्यक्त्वादहंत्वमात्मन आपतति ।
देहादेर्दृश्यादिदङ्कारगोचराद्द्रष्टर्यात्मनि प्रतीपं विरुद्धमार्गं गच्छतीवेत्युप्रेक्षा ।
मूले अञ्चतीति सप्तम्यन्तम् ।
स्थिते आत्मनीति शेषः ।
साक्षित्वमपीति ।
साक्षाद्द्रष्टरि संज्ञायामित्यनुशासनादिति भावः ।
सर्वं च ज्ञेयं ज्ञात्नात्मन एव भासते न ज्ञानमात्नाय।
ततश्च ज्ञातुरेवात्मत्वं न ज्ञानमात्नस्येत्याह सर्वमिति ।
चकासते इति चतुर्थ्यन्तम् ।
अतश्च न ज्ञानमात्नस्य साक्षित्वं संभवति, किन्तु ज्ञातुरेवेति तस्यैवात्मत्वं न ज्ञानमात्नस्येति हार्दम् ।
यत्तु ज्ञातृत्वं विक्रियात्मकमिति; तन्न ।
न हि कापिलमत इव ज्ञानपरिणामित्वं ज्ञातृत्वमिष्यते श्रुत्यन्तहार्दाभिज्ञैः ।
किन्तु अर्थप्रकाशनोपयोगिव्यापारवद्धर्मभूतज्ञानाश्रयत्वमेव ।
सविषयके धात्वर्थे कर्तृताया आश्रयत्वरूपत्वात्, कर्मत्वस्य विषयतारूपत्ववत् ।
यदपि कर्तृरन्यस्य भोक्तृत्वमिति, तदपि वार्तम् ।
उपादानादिकायिकक्रियानुगुणज्ञानेच्छापूर्वकान्तरप्रयत्नाश्रयत्वरूपस्य मुख्यकर्तृत्वस्यात्मन्येवोपपत्तेः ।
शास्त्रफलं प्रयोक्तरि कर्ताशास्त्रार्थवत्त्वादिति हि वेदवेदान्तहार्दाभिज्ञाः ।
यदपि कर्तृत्वादिर्दृश्यत्वान्नात्मधर्म इति, तदपि मन्दम् ।
दृश्यत्वं चेद्वाह्येन्द्रियग्राह्यत्वं तदसिद्धमान्तरप्रयत्नाधारत्वलक्षणे पक्षे ।
अनुभाव्यत्वं चेत्तत्, तर्ह्यप्रयोजकत्वं हेतोः ।
यदपि कर्तृत्वादौ अनात्मत्वाद्यपादानम्, तदपि भग्नमूलम् ।
अमुख्यस्यैव तस्यानात्मत्वादिव्याप्यत्वात् मुख्यकर्तृत्वाहप्रत्ययास्पद आत्मन्यनात्मत्वाद्यप्रसक्तेरिति सङ्क्षेपः ।
एवमात्मन एव ज्ञातृत्वमहं त्वं च मुख्यमित्युक्त्वा प्रकृतिपरिणामविशेषे बुद्ध्याख्ये महत्तत्वे तत्कार्येऽहङ्कारे वा ज्ञातृत्वमनुपपन्नमित्याह न चाव्याकृतेति ।
अचेतनत्वम्-अनात्मत्वम्, न त्वज्ञातृत्वम् ।
साध्यहेत्वोरैक्यप्रसङ्गात् ।
महानहङ्कारो वा न ज्ञाता अनात्मत्वात् परिणामित्वाज्जडत्वात्परार्थत्वाद्वा देहवदिति प्रयोगः ।
ननु ज्ञातृत्वस्यासंभवेऽपि चिच्छायापत्या चित्संपर्काद्वा तत्न ज्ञातृत्वप्रतीतिरस्त्वित्यत्नाह नच चितीति ।
अरूपत्वाच्चितो न प्रतिबिम्बो बुद्ध्यादौ संभवति ।
येन स्फटिके लोहितप्रतिभासवत्तत्न चैतन्यप्रतिभासो भवेत् ।
नच चितौ ज्ञातृत्वमस्ति ।
येन तत्संपर्कात्तत्न ज्ञातृत्वं तत्प्रतिभानं वा भवेत् अग्निसङ्गादयसि औष्ण्यभानवदिति भावः ।
सांसर्गिको गुणो दोषो वा तत्न तत्न जायते ज्ञायते चेति जायेत ज्ञायेत वेत्युक्तिः ।
अथ ज्ञातृत्वप्रतीतेर्निर्वाहाय पराभिमतमहङ्कारस्य संविदभिव्यञ्जकत्वपक्ष- मनुवदति यद्युच्येतेत्यादिना ।
अभिव्यञ्जयन्-प्रकाशयन् ।
स्वाश्रयतया-स्वाश्रितया ।
बहुव्रीहेस्तल् ।
खण्डमुण्डादयो गोव्यक्ति-भेदाः।
मिहिरबिम्बं-सूर्यबिम्बम् ।
शिष्टं स्पष्टम् ।
तत्कृतश्चेति ।
संविदभिव्यञ्जकत्वप्रयुक्तश्चाहङ्कारस्य संविदाश्रयत्वप्रतिभासो मुखाद्यभिव्यञ्जकत्वप्रयुक्तश्चाहङ्कारस्य संविदाश्रयत्वप्रतिभासो मिखाद्यभिव्यञ्जकत्वप्रयुक्त इव दर्पणादेर्मुखवत्त्वादिप्रतिभास इत्यर्थः ।
अहंभावः प्रकृतिपरिणामविशेषस्यैव, न त्वात्मन इत्याह अत एवेति ।
यतो ज्ञातृत्वप्रतीतिर्भ्रान्तिः, अत एव चैतन्यमात्रतयाऽऽत्मनः स्वापेमुक्तौ च भानम् ।
न तु तदाऽहम्भावभानमिति भावः ।
अत एवेति ।
सौषुप्तिकमौक्तिकात्मानुभवतोऽहम्भावानुल्लेखादेवाहमर्थस्यानात्मत्वमित्यर्थः ।
अत्र संवादतया सुरेश्वराचार्यवचनमु पादत्ते आत्मन इति ।
अहम्भाव आत्मधर्मश्चेत्सुषुप्तिमुक्तयोर्यायात्-अन्वियात् ।
यतो नान्वेति ततोऽयमनात्मधर्म एवेत्यर्थः ।तदिदमसंबद्धम् ।
यतः-शान्ताङ्गार इवादित्यमहङ्कारो जडात्मकः ।
स्वयंज्योतिषमात्मानं व्यनक्तीति न युक्तिमत् ।।11।।आत्मत्वाभिमताजडानुभवाधीना हि सर्वपदार्थाभिव्यक्तयोऽभिप्रेयन्ते ।
तादृशमशेषार्थसाधकमुदयास्तमयविपरिवृत्तिशून्यप्रकाशस्वभावं तमनुभवं तदधीनसिद्धिरचिदहङ्कारोऽभिव्यनक्तीत्युपहास्यमिदमात्मविदाम् ।
पक्षमेनं प्रतिक्षिपति तदिदमिति ।
अहङ्कारस्य जडस्य स्वयंप्रकाशचैतन्यप्रकाशकत्वमनन्वितमनुपपन्नत्वादित्याह शान्तेति ।
शान्ताङ्गारः-जलनिर्वापिताग्निपिण्डः ।
अप्रकाशस्वरूपस्य तस्य प्रकाशमयादित्यप्रकाशकत्वमिवाप्रकाशस्व- रूपस्य जडस्य प्रकृतिपरिणामविशेषस्य स्वप्रकाशसंविदात्मस्वरूपप्रकाशकत्वमनुपपन्नमित्यर्थः ।।11।।इममेवार्थां प्रपञ्चयति आत्मत्वेत्यादिना ।
सर्वार्थप्रकाशकं कदाचित्प्रकाशतेऽथ न, पुनःकदाचित्प्रकाशते इत्युदयास्तमयपर्यायवृत्तिरहितनित्यप्रकाशस्वरूपमनुभवात्मानं नियमेन तदधीनप्रकाशो जडोऽहङ्कारोऽभिव्यनक्तीति विप्रतीपवचनमिदं समीपस्थानामपि आत्मतत्त्वविदामुपहासास्पदमित्यर्थः ।
न खलु सर्वं साधयतः स्वतःसिद्धस्य च सदाऽनुभवात्मनः प्रकाशकान्तरापेक्षा ।
नच जडस्य नियमेन तदाभास्यस्याहङ्कारस्य तत्प्रकाशनसामर्थ्यम् ।
येनानुभवस्याहङ्काराभिव्यङ्ग्यत्ववचनमुपपन्नं भवेदिति भावः ।दिनकरकरव्यङ्ग्यकरतलं तदभिव्यञ्जकं दृष्टमिति मा वोचः ।
करतलस्य तद्बाहुल्यमात्रहेतुत्वात् ।
तथाभूताश्च दिनकरमरीचयः स्फुटमुपलभ्यन्त इति न करतलव्यङ्ग्यत्वम् ।
अपि च केयमभिव्यक्ति ? याऽनुभूतिरूपस्यात्मनोऽहङ्कारेण क्रियत इत्युच्यते ।
न तावत्तत्सिद्धिः, तस्य स्वतःसिद्धत्वेनानन्याधीनसिद्धित्वाभ्युपगमात् ।
नापि तद्विषयज्ञानम्, ज्ञानान्तराननुभाव्यत्वात् ।
अनुभाव्यत्वे हि घटादिवदननुभू तित्वप्रसङ्गः ।
अत एव न ज्ञानकरणानुग्रहः ।
स हि वेद्यगतज्ञानोदयप्रतिबन्धकापनयनेन वा दीपेनेव सन्तमसनिरसनेन चक्षुषः; वेद्यसन्निकर्षोपाधित्वेन वा व्यक्तिदर्पणादेरिव जातिनिजमुखादिबोधकस्य नयनादेः; वित्तृगतकलङ्कक्षालनेन वा शमदमादिनेव परावरात्मतत्त्वज्ञानोपायस्याऽऽगमादेः ।
न तावदनुभवगमहङ्कारापनेयमस्ति किंचित् ज्ञानोदयपरिपन्थि ।
अज्ञानं तु ज्ञानसमानाश्रयविषयतया न तदुभयभावविरहिणि भवदभिमतसाक्षिणि निक्षेपमर्हति ।
न खलु ज्ञानप्रसक्तिशून्यो घटादिरज्ञानीत्युच्यते ।
तथैव न जातुचित् ज्ञातृत्वं ज्ञानमात्रस्येति न तस्याप्यज्ञानं भवेत् ।
भवदपि वा तदहङ्कारापनेयं नेष्यते; ज्ञानैकनिवर्त्यत्वादज्ञानस्य, तथाऽभ्युपगमाञ्च ।
ज्ञानं च स्वविषय एवाज्ञानं निवर्तयति ।
न च तद्विषयत्वमात्मतयाभिमत स्यानुभवस्येष्यत इति तत्रत्यमज्ञानं न केनचित्कदाचिदुच्छिद्येत ।
ज्ञानप्रागभावरूपं चाज्ञानं न ज्ञानोत्पत्तिप्रतिबन्धकमिति शक्यं व्यपदेष्टुम् ।
भावरूपमज्ञानमनिर्वचनीयं जगदुपादानमित्यादि प्रलापमात्रमिति संबन्धनिरूपणे प्रतिपादयिष्यते ।
अतो न वेद्यदोषापनयनरूपा अहङ्कारेणानुभवाभिव्यक्तिः ।
अस्तु विऽनुभवस्य केनचिद्व्यङ्ग्यत्वम् ।
अस्तु वाऽहङ्कारस्य किञ्चिदभिव्यञ्जकत्वम् ।
परं तदभिव्यङ्ग्यैकस्वभावस्याहङ्कारस्य तदभिव्यञ्जकत्वमनुपपन्नमित्याह किञ्चेति ।
व्यङ्ग्येति ।
अनुभवात्माहङ्कारयोः परस्परं व्यङ्ग्यव्यञ्जकभावोऽनुपपन्नः ।
प्रातिकूल्यतः-स्वभावविरोधलक्षणादुक्तात्प्रतिकूलभावत इत्यर्थः ।
नियमेन तद्व्यङ्ग्यस्वरूपस्य तद्व्यञ्जकत्वं हि विरुद्धमिति प्रोक्तम्।
अहङ्कारस्य संविदधीनव्यक्तेरेव तद्व्यञ्जकत्वं स्यात् ।
मिथ्यापदार्थस्य प्रतिभासाधीनसत्ताकस्य प्रतिभासाभावे सत्ताया एव दिर्लभत्वात् ।
संविच्च स्वयं भासमानैवाहङ्कारं व्यञ्जेत् ।
अन्यथा जडत्वप्रसङ्गात् ।
तथाच स्वप्रकाशसंविदधीनप्रकाशाहङ्काराधीनप्रकाशत्वं संविद उक्तं भवेत् ।
तथा चाऽन्योन्याश्रयः-संवित्प्रकाशाधीनोऽहङ्कारप्रकाशः अहङ्कारप्रकाशाधीनश्च संविदः प्रकाश इति ।
उक्तलक्षणात्प्रातिकूल्याद्वाधकोपनिपातान्न मिथो व्यङ्ग्यव्यञ्जकत्वं संविदहङ्कारयोः संभवतीति च तात्पर्यान्तरं वर्णितं श्रीमन्निगमान्तगुरुचरणैस्तत्त्वटीकायाम् ।
परमते संविदोऽहङ्कारव्यङ्ग्यत्वे दूषणान्तरमाह व्यङ्ग्यत्वेइति ।
अन्याधीनप्रकाशत्वेऽनुभूतेरननुभूतित्वप्रसङ्गो घटादेरिवेत्यर्थः ।।12।। तद्व्यङ्ग्यस्यापि तद्व्यञ्जकत्वे न विरोधः, दृष्टत्वादिति शङ्कामपनुदति दिनकरेति ।
हस्ततलस्य वातायनविवरप्रविष्टसूर्यकिरणानां गतिप्रतिरोधेन संहतिमात्रहेतुत्वम् ।
संहतानां च तेषां स्फुटप्रकाशः स्वत एवेत्याह करतलस्येति ।
गतिप्रतिरोधेनापि संवित्स्फुटप्रकाशहेतुत्वं करतलस्येव दुर्घटमहङ्कारस्यामूर्तस्येति हार्दम् ।
एवमहङ्कारव्यङ्ग्यत्वं संविदात्मनोऽनपेक्षितमनुपपन्नं चेत्युक्तम् ।
अभिव्यक्तिप्रकाराणां संभावितानां प्रकृतेऽनुपपत्तेरपि नाहङ्कारस्य तदभिव्यञ्जकत्वमित्याह अपि चे त्यादिना ।
तत्सिद्धिः- संविदात्मप्रकाशः ।
स्वप्रकाशत्वेनान्यापेक्षूप्रकाशत्वाभावोपगमान्न संवित्प्रकाशहेतुत्वमहङ्कारस्य ।
संविदो ज्ञानान्तरागोचरत्वेन तद्विषयकज्ञानजनकत्वमपि तदभिव्यञ्जकत्वमहङ्कारस्य नेति प्रकाशनप्रकाशकज्ञानजनकत्वरूपाभिव्यञ्जकत्वप्रकारद्वयं दूषितम् ।
अत एवे ति ।
अननुभाव्यत्वादेवानुभवस्य तद्विषयकानुभवकरणस्याऽप्रसिद्ध्या तदनुग्रहलक्षणाभिव्यक्तिप्रकारोऽपि न संभवतीत्यर्थः ।
अस्तु वा तज्ज्ञानकरणं किञ्चित् ।
तदनुग्रहप्रकाराः प्रकृते न संभवन्तीति वदन् अनुग्रहं विकल्पयतितावत् स हीति ।
सः-अनुग्रहः ग्राहकस्य सहकारिसम्पत्त्यापादनलक्षणः ।
वेद्यगतेति ।
वेद्यगतज्ञानोत्पत्तिप्रतिबन्धकनिरसनेन तज्ज्ञानकरणानुग्रह आद्यः कल्पः ।
द्वितीयमाह वेद्येति ।
करणस्य ग्राह्यसन्निकर्षप्रयोजकत्वेनेति यावत् ।
व्यक्तिर्हि स्वद्वारा चक्षुरादेर्वेद्यजात्यादिसन्निकर्षं संपादयति ।
दर्पणादिश्च चाक्षुषरश्मिगतिपरापर्तनेन मुखादिसन्निकर्षं चक्षुषः ।
तृतीयमाह वेत्तृगतेति ।
कलङ्कः-ज्ञानोत्पत्तिविरोधी पापादिः ।
नाविरतो दुश्चरितादित्यादिना च शमादेस्तत्त्वज्ञानजनकशास्त्रसहकारित्वं ज्ञायते ।
निष्कामकर्मणा शमादिनाचापाकृतपापरागादिदोषस्य शुद्धचित्तस्यैव हि शास्त्रेण तत्त्वज्ञानोत्पत्तिः ।
प्रकृते प्रथमानुग्रहकल्पस्यानुपपत्तिमह न तावदिति ।
नन्वज्ञानमेव ज्ञानोत्पत्तिविरोधि वेद्येऽनुभवात्मनि वर्तत इति चेत्तत्राह अज्ञानमिति ।
ज्ञानेन समानावाश्रयविषयौ यस्यैवंभूतमज्ञानम्, ज्ञानसमानाश्रयं ज्ञानसमानविषयं चेति यावत् ।
तदुभयभावविरहिणि-ज्ञानाश्रयत्वज्ञानविषयत्वरहिते ।
निक्षेपं-पदन्यासम्, संबन्धमिति यावत् ।
अज्ञानं हि ज्ञानप्रागभावरूपं तत्समानयोगक्षेमं वान्यत् ज्ञातृत्वप्रसक्तिशून्ये भवदभिमतेऽनुभवात्मनि न घटते घटादाविवेति भावः ।
भवदपीत्यभ्युपगम्य वादः ।
आत्माश्रितत्वेऽप्यज्ञानस्याहङ्कारेण निवर्त्यत्वाभावाद्वेद्यदोषापनायकत्वरूपमभिव्यञ्जकत्वं न तस्येति भावः ।
पराभिमतेऽनुभवात्मनि अज्ञानस्योपगमेऽनिष्टं चाह ज्ञानं चेति ।
आत्मनिष्ठमात्मविषयं चाज्ञानमात्मनोऽननुभाव्यत्वाज्ज्ञानानिवर्त्यं नित्यंप्र सज्यते, समानाश्रयविषयत्वेनैव ज्ञानाज्ञानयोर्बाधकबाध्यभावादिति भावः ।
आत्मविषयकज्ञानोपगमश्वापसिद्धान्तपराहतः ।
एतेनान्तः-करणवृत्तिव्याप्यत्वमेवेष्यते आत्मनः ।
नतु तदवच्छिन्नचैतन्यव्याप्यत्वम् ।
येन जडत्वादि प्रसज्येत ।
आत्माकारान्तःकरणवृत्त्यैवात्माज्ञाननिवृत्तिरित्यपि निरस्तम् ।
वृत्तेर्जडभूताया अज्ञाननिवर्तकत्वायोगात् ।
ज्ञानमेव ह्यज्ञानस्य निवर्तकम् ।
तदवच्छिन्नचैतन्यनिवर्त्यत्वे तु ज्ञेयत्वाद्यात्मनोऽवर्जनीयमेवेति दिक् ।
अज्ञानं च किं ज्ञानप्रागभावरूपम्; आहोस्विद्भावरूपमिति विकल्प्य दूषयति ज्ञानेत्यादिवाक्यद्वयेन ।न च स्वाश्रयतयाऽभिव्यङ्ग्यप्रकाशनमभिव्यञ्जयितुः स्वभावः; प्रदीपादावदर्शनात् ।
यथावस्थितवस्तुप्रकाशानुकूलस्वभावत्वाच्च ज्ञानतत्साधनतदनुग्राहकाणाम् ।
तच्च स्वतःप्रामाण्यन्यायात्; तदनभ्युपगमे च सर्वत्रानाश्चासप्रकङ्गात् ।
व्यक्तेस्तु जातिराकार एवेति तथा प्रत्यायनम्; न व्यञ्जकत्वप्रयुक्तम् ; उक्तादेव व्यभिचारात् ।
दर्पणादिस्तु नायनमहःप्रतिफलनलक्षणदोषहेतुर्नाभिव्यञ्जको वदनादेः ।
व्यञ्जकस्त्वालोकादिरेव ।
व्यञ्जकत्वेऽपि प्रतीपगमनदोषप्रयुक्तस्तत्रान्यथावभासः ।
न चेह तथाऽहमर्थस्य तादृशदोषापादकत्वं स्वभावः ।
तथा सति सर्वस्यापि प्रत्यक्षादेरप्रामाण्यप्रसङ्गान्न किञ्चित्तथ्यं स्यात् ।
तस्माज्ज्ञातृतया सिद्ध्यन्नहमर्थ एव प्रत्यगात्मा; न ज्ञप्तिमात्रम् ।
(इत्यहङ्कारस्य संविदभिव्यञ्जकत्वनिराकरणप्रकरणम्) यत्तु सुषुप्तिसुक्तयोर्ज्ञप्तिमात्रतया स्फुरणम्, अहमिति तु न प्रतिभातीति; तत्र सुषुप्तौ तथावस्थितिः पुरस्तादेव निरस्ता ।
अहमित्येकरूपेण आप्रबोधात्तत्राप्यात्मनः स्फुरणात् ।
यदि परं परागर्थाननुभवात्तमोगुणाभिभवाच्च न विविच्य स्फुटं चकास्ति; भवदभिमताऽनुभूतिरपि तदानीं तथैव हि प्रथत इति वाच्यम् ।
नाहमहम्, नाप्यर्थान्तरम्, अपि त्वनुभूतिमात्रमज्ञानसाक्षितयाऽवतिष्ठत इत्येवंविधं स्वापसमयभवमनुभवं नहि सुप्तोत्थितः कश्चित् परामृशन्नुपलब्धचरः ।
एतावन्तं कालं न किञ्चिदहमवेदिषमिति परामर्शनादेव तथात्वं लभ्यत इति चेत्; कथमिव? न किञ्चिदिति निर्देशादिति चेत्; नन्वेवमनुभूतिप्रतिभासोऽपि प्रत्याख्यातः स्यात् ।
अपि च सुषुप्तिसमयसिद्धमात्मानमहमिति परामृश्य न किञ्चिदवेदिषंमिति तस्य वेदने प्रतिषिध्यमाने तात्कालिकीं वित्तिसिद्धिमहमर्थस्य चासिद्धिमभिदधानोऽनुभवविरोधमपि न जानाति देवानां प्रियः ।
निर्विषया निराश्रया च वित्तिर्नास्तीत्युक्तमेव ।
ननु मामप्यहं न ज्ञातवान् प्रसुप्त इत्यस्ति हि प्रबोधे प्रत्ययः ।
सत्यम्; स तु वर्णाश्रमादिविशिष्टतया प्रबोधसमयसंवेद्यमानं देहिनं मामित्यादाय स्वाप्ययावस्थाप्रसिद्धाविशदस्वानुभवैकतानाहमर्थस्य तेन रूपेणाज्ञातत्वं प्रज्ञातत्वं प्रज्ञापयति, न पुनर्ज्ञस्वभावस्याहमर्थस्यापि ।
एवमिव खल्वयमनुभवः-अत्र सुप्तोऽहमीदृशश्चेत्येवं मामपि न ज्ञातवानहमिति ।
अपि च, आत्मा सुषुप्तौ अज्ञानसाक्षित्वेनाऽऽस्त इति हि यौष्माकी स्थितिः ।
साक्षित्वं च साक्षाज्ज्ञातृत्वमित्युक्तम् ।
स चायं जानामीति प्रतिभासमानोऽस्मदर्थ एवेति कथमिव तदानीमहमर्थो न प्रथेत ।
स्वस्मै प्रकाशमानोऽहमित्येव हि प्रकाशत इति ।
तत्सिद्धं स्वापादिदशास्वप्यात्मा प्रकाशमानोऽहमित्येव प्रकाशत इति ।
(इति स्वापेऽहमर्थभानसमर्थनप्रकरणम्) यत्तु मुक्तावहमर्थो नोपावर्तत इति; तद्वार्तम् ।
यतस्तथा सति वैनाशिकदर्शन इवात्मनाश एवापवर्गः प्रकारान्तरेण प्रतिज्ञातः स्यात् ।
नो खलु अहमिति धर्ममात्रम्, येन तदपगमेऽप्यविद्यानिवृत्त्यामिवात्मनः स्वरूपेणावतिष्ठत इत्युच्यते ।
अहमित्येव हि तस्य स्वरूपम् ।
ज्ञानमपि हि तद्धर्मत्वेन तस्यैव प्रकाशते ज्ञानं मे जातमिति ।
का कथा पुनरर्थान्तरस्याऽऽत्मत्वे ? ।
अन्यश्च-यः सांसारिकदुःखैः दुःखित्वेनाऽऽत्मानं तत्त्वतोभ्रान्त्या वा प्रत्येति दुःख्यहमिति, सः सर्वमिदमनिष्टजातं कथमहमपुनरूदयपनुद्याव्याकुलः स्वस्थो भूयासमिति सञ्जातमुमुक्षः तत्साधने प्रवर्तते ।
स यदि साधनानुष्ठानादहमेव न भविष्यामीत्यवगच्छति, अपगच्छेदसौ मोक्षकथाप्रसङ्गादपि ।
ततश्चासम्भवदधिकारितया सर्व एव वेदान्तविधयः सर्वाणि च मोक्षशास्त्राणि प्रामाण्यादेव प्रच्यवेरन् ।
अहमुपलक्षितः प्रकाशोऽपवर्गेऽवस्थास्यत इति चेत्, किमतः? न हि मयि नष्टेऽपि कोऽपि प्रकाशः स्थास्यतीति कश्चित्प्रेक्षावान् प्रयस्यति ।
एतेन तदपि परास्तम्, अस्मत्प्रत्यये योऽनिदमंशः चिदेकरसः प्रकाशः स आत्मा ।
तस्मिंस्तद्बलनिर्भासिततया लक्षणतो युष्मदर्थ एवाहं जानामीति सिध्यन्नर्थ इति ।
प्रत्यक्षविरोधात् ।
अहं जानामीति सिध्यश्चेतनो सुष्मदर्थ इति माता बन्ध्येतिवद्व्याहतार्थंवचः ।
न चासौ अन्याधीनावभासः, चैतन्यस्वभावतया स्वयंज्योतिष्ट्वात् ।
प्रकाशश्च प्रकाशत्वादेव कस्यचिद्भवेद्दीपादिप्रकाशवदिति नात्मा भवितुमर्हति ।
अतो ज्ञातृतयाऽहमिति सिद्ध्यन्नर्थ एवाऽऽत्मा ।
स च मुक्तावप्यात्मनेऽहमित्येव प्रकाशते, स्वस्मै प्रकाशमानत्वात् ।
यो यः स्वस्मै प्रकाशते स सर्वोऽहमित्येव प्रकाशमानोदृष्टः, यथा तथावभासमानत्वेनोभयवादिसंमतः संसार्यात्मा ।
यः पुनरहमिति न चकास्ति नासौ स्वस्मै प्रकाशते, यथा घटादिः ।
स्वस्मै प्रकाशते चायं मुक्तात्मा ।
तस्मात् सोऽहमित्येव प्रकाशते ।
न चैवं प्रकाशमानत्वे मुक्तस्याज्ञानित्वसंसारित्वादिप्रसङ्ग आपादनीयः ।
मुक्तत्वविरोधात् ।
अतदुपाधित्वाच्च तत्प्रत्ययस्य ।
न ह्यज्ञानोपाधिरहंप्रत्ययः ।
ब्रह्मात्मपरोक्षज्ञानक्षपितनिरवशेषाविद्यानामपि वामदेवादीनाम(मे) तत््प्रत्ययदर्शनात् ।
श्रयते हि ‘तद्धैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सुर्यश्च अहमेव च वर्तामि भविष्यामी’त्यादि ।
तथा कथञ्चिदप्यविद्यादिक्लेशैर्लेशतोऽपि जातुचिदपरामष्टस्य परमपुरुषस्याप्यहमित्यात्मपरामर्शः प्रज्ञायते ‘हन्ताहमिमास्तिस्त्रो देवताः’ ‘बहु स्यां प्रजायेय’ ‘स ईक्षत लोकान्नु सृजा इति’, तथा- ‘यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मिलोके वेदे च प्रथितः पुरुषोत्तमः’ ।। ‘तेषामहं समुद्धर्ता ’ ‘अहं बीजप्रदः पिताः’ ‘वेदाहं समतीतानि’ इत्येवमादिभिः ।
एवं च साक्षादहमर्थादात्मनो विलक्षणेऽपि देहेयेनाऽऽव्यक्तिकपरिणामभेदेनाहमिति भ्रमः, तदभिप्रायोऽहङ्कारस्य क्षेत्रान्तर्भावोपदेशो भगवतः ‘महाभूतान्यहङ्कार’ इति ।
बहुमन्तव्यजनावधीरणहेतुश्चासौ गर्वापरपर्यायः तत्र तत्र शास्त्रेषु प्रायशोहेयतयोपदिश्यते ।
तस्मादहमिति मतिर्बाधकापेता साक्षादात्मगोचरैव ।
अनात्मनि तु शरीरे भवन्ती अविद्येति युक्तम् ।
उक्तं च ‘श्रूयतां चाप्यविद्यायाः स्वरूपं कुलनन्दन ।
अनात्मन्यात्मबुद्धिर्या’ इति महर्षिणा वासिष्ठनन्दनेन ।
नच ज्ञप्तिमात्र प्रतिभासः कस्यचित् शरीरेऽस्ति ।
येन तन्मात्रात्मवादिनोऽप्यनात्म (न्योत्म) बुद्धिरुपपद्येत ।
द्वितीयेऽनुग्रहकल्पे दूषणं करणानामिति ।
अभूमित्वात्-अविषयत्वात् ।
इन्द्रियाग्रा ह्यत्वादात्मनो नात्मेन्द्रियसन्निकर्षोपाधित्वेनाभिव्यञ्जकत्वमहङ्कारस्य संभवतीत्यर्थः ।
तृतीये दूषणं अहमर्थस्येति ।
स्वगतकल्मषस्य स्वेनैव केवलेन निवर्तनायोगान्न तृतीयोऽपि कल्पः कल्पत इत्यर्थः ।।13।। एवं व्यञ्जकत्वं निरस्य पराभिमतं व्यञ्जकस्वभावमपि निरस्यति नचेति ।
प्रदीपो हि घटादेः प्रकाशको न स्ववृत्तितया तं प्रकाशयति ।
न खल्वेवं प्रतीतिः प्रदीपे घट इति, प्रदीपो घटवानिति वा ।
किन्तु यथावस्थितवेषेणैव भूतले घट इतीति भवदुक्ते नियमेऽनैकान्त्यमिति भावः ।
ज्ञानादीनां यथावस्थितवस्तुप्रकाशहेतुत्वमेवेत्यत्र युक्तिमाह तच्चेति ।
प्रामाण्यस्वतस्त्वात्मकयुक्तेरित्यर्थः ।
ज्ञानसामग्रीप्रयोज्यत्वं ज्ञानभासकसामग्रीभास्यत्वं च प्रामाण्यस्योत्पत्तौ ज्ञप्तौ च स्वतस्त्वम् ।
ननु स्वतःप्रामाण्ये क्वचिज्ज्ञाने विपरीताकारावगाहनं कुतः? ज्ञानसामग्रयामतिरिक्तदोषसंवलनादेव ।
स्वतःप्रामाण्यग्रहेऽप्यनभ्यासदशापन्नज्ञाने प्रामाण्यसंशयश्च दोषमूलत्वसंशयादेवेति च बोध्यम् ।
प्रामाण्यस्य स्वतस्त्वानुपगमे बाधकमाह तदनभ्युपगम इति ।
सर्वज्ञानेष्वपि अप्रामाण्यशङ्काप्रसक्तेः प्रामाण्यस्य स्वतस्त्वानुपगमे स्वतस्त्वमेष्टव्यम् ।
अन्यथा तु जातेऽपि प्रामाण्यनिश्चयेऽप्रामाण्यशङ्का निरर्गलप्रसरा भवेदेव ।
निष्कम्पप्रवृत्तिश्च कुत्रापि न घटेतेति भावः ।
व्यक्तेरिति ।
व्यक्तेर्नाभिव्यञ्जकत्वप्रयुक्तं स्वाश्रिततया जातेः प्रकाशनम् ।
किन्तु व्यक्तयपृथक्सिद्धप्रकारत्वरूपवस्तुस्वभावादेव ।
व्यञ्जकस्त्वालोकादिरेव ।
व्यक्तेर्व्यञ्जकत्वमपि न संप्रतिपन्नमिति भावः ।
दर्पणादिरिति ।
दर्पणादि प्रतिहतगतेश्चाक्षुषतेजसः प्रतिनिवृत्य मुखाभिमुखतया प्रसरणमेव मुखस्यान्यथाप्रतीतौ दोषरूपं प्रयोजकम् ।
प्रतिलोमगतिरूपदोषप्रयोजकस्य दर्पणादेर्व्यञ्जकत्वं भवतु, मा वा ।
न व्यञ्जकत्वप्रयुक्तमन्यथाभानमिति भावः ।
न चेहेति ।
तादृशदोषापादकत्वम्-ज्ञानकरणानां विपरीतग्रहणोपयोगिव्यापृतिरूपदोषापादकत्वम् ।
तथासतीति ।
प्रमाणाधीनप्रमितावहमर्थस्यापि हेतुत्वात् प्रमाणदोषसंपादकत्वे तस्य न किञ्चिदपि यथार्थज्ञानं संभवेत्प्रमाणजन्यमित्यर्थः ।
तस्मादिति ।
ज्ञातृत्वप्रतीतेर्निरुक्तदिशा भ्रान्तित्वायोगाज्ज्ञातृतया सिद्ध्यन्नहमर्थ एवात्मा ।
न ज्ञाप्तिमात्रमिति भावः ।
अत्रायं प्रयोगः-ज्ञानं नात्मा धर्मतया प्रमितत्वाद्रूपादिवदिति ।
एवं ज्ञातुरहमर्थस्यात्मत्वं समर्थितम् ।
अथ स्वापे मुक्तौ चाहमर्थस्य भानं नास्ति, तन्नाहमर्थस्यात्मत्वं युक्तमिति परमतमनूद्य निरस्यति यत्तु सुषुप्तीत्यादिना ।
तत्र-सुषुप्तिमुक्तयोः ।
घटकत्वं सप्तम्यर्थः ।
तस्य सुषुप्ताव न्वयः ।
तथावस्थितिः- अहंभावविगमेन ज्ञप्तिमात्रतयात्मनोऽवस्थितिः, पुरस्तादेव निरस्ता, प्रतिसन्धानबलात्स्वापेऽहमर्थसद्भावतत्प्रतीतिसमर्थनबलादिति भावः ।
यदीति ।
उच्येतेति शेषः ।
तत्तत्परागर्थानुभवितृत्वेन स्फुटं ज्ञानज्ञेयतो विविच्याऽऽत्मनो भानं स्वापे नास्तीति परं यद्युच्येतेत्यर्थः ।
परागर्थाननुभवाद्विविच्य भानं न, तमोगुणाभिभवाच्च स्फुटं तन्नेति अनुसन्धेयम् ।
परमतेऽपि तत्समानमित्यह भवदभिमतेति ।
विशदभानाभावेऽपि सूक्ष्मतयाऽहमर्थस्य भानं पराभिमतसंविद इव स्वापेऽस्तीति च हार्दम् ।
नाहमहमिति ।
इदानीमहन्त्वेन भासमान आत्मास्वापे तथा नास्तीत्यर्थः ।
एकमहमित्यधिकं पतितं वा ।
एतावन्तमित्यादिप्रतिसन्धानमज्ञानसाक्षितयाऽहमर्थस्यैव स्वापे सत्त्वेऽनुगुणमिति भावः ।
शङ्कते एतावन्तमिति ।
तथात्वम्-संविन्मात्रस्य भासमानत्वम् ।
प्रत्यवतिष्ठते सिद्धान्ती कथमिति ।
प्रतिवक्ति शङ्किता न किञ्चिदिति ।
आक्षिपत्येनं नन्वेवमिति ।
किञ्चिदित्यहमर्थस्येवासङ्कोचात्संविदोऽपि क्रोडीकारात् संविन्मात्रस्यापि भानं भवतां तदाऽभिमतं न सिद्ध्येदित्यर्थः ।
ननु किञ्चिदिति जडमात्रस्य परामर्श इति चेत्तर्ह्यहमर्थस्यापि न निषेधःप्रत्यक्त्वेनाजडत्वादिति भावः ।
यद्वा ज्ञेयमात्रस्य किञ्चिदिति परामर्शो न ज्ञानस्येति चेत्तुल्यनयेन ज्ञातुरपि न परामर्श इति भावः ।
परपक्षे प्रतिसन्धानविरोधमाह अपि चेति ।
देवानां प्रियः-मुर्खः ।
तथाहि निपातनम् ।
अनुभवप्रकारानभिज्ञत्वं च मौर्ख्यम् ।
न हि भूतले घटो नास्तीत्यस्य घटसद्भावभूतलनिषेधविषयकत्वं कस्यचिन्मतम् ।
किन्तु घटनिषेधभूतलास्तित्वविषयकत्वमेव ।
तत्तुल्या चैतावन्तमितिप्रतीतिर्ज्ञाननिषेधज्ञातृसद्भावविषयैवेति भावः ।
ननु सविषयसंविन्निषेधेऽपि निर्विशेषसंवित्प्रकाशे न विरोध इत्यत्राह निर्विषयेति ।
निर्विषयमपि साश्रमेव ज्ञानं मतं स्वापे ।
तच्च धर्मभूतं नैव तदा प्रकाशत इति तु सिद्धान्तिनः ।
स्वापेऽहमर्थाननुभवे प्रतिसन्धानान्तरं प्रमाणत्वेन शङ्कते ननु मामिति ।
परिहरति अर्धाङ्गीकारेण सत्यमिति ।
प्रतीतावभ्युपगमः ।
स्वापेसर्वथाऽहमर्थाननुभवेऽनभ्युपगमः ।
स्वाप्ययेति ।
स्वापकालिकाविशदस्वप्रकाशैकाश्रयस्येत्यर्थः ।
तेन रूपेण-वर्णाश्रमादिविशिष्टवेषेण ।
ज्ञस्वभावस्य-ज्ञातृस्वरूपस्य ।
स्वापे न ज्ञानस्य प्रकाशः, किन्तु ज्ञातृस्वरूपस्यैवेति द्योतनायेदमुक्तम् ।
प्रतीतेरर्थमभिलपति एवमिवेति ।
इवशब्दोऽवधारणे ।
अज्ञानसाक्षित्वेनाऽऽत्मा स्वापे प्रकाशत इति परपक्षरीत्यापि तदाऽहमर्थस्य भानमवर्जनीयमित्याह अपि चेति ।
साक्षाद्द्रष्टरि संज्ञायामिति साक्षात्कर्तर्येव हि साक्षिशब्दोऽनुशिष्टः ।
स च ज्ञातृत्वेन प्रती तोऽहमर्थ एवेति अहमज्ञ इत्यज्ञानसाक्षितया स्वापेऽहमर्थभानं सेत्स्यत्येवेति भावः ।
प्रत्यक्त्वस्याहंबुद्धिव्यवस्थाप्यत्वादपि आत्मनोऽहन्त्वमेषितव्यमेवेत्याह स्वस्मै इति ।
स्वापेऽहमर्थभानसमर्थनमुपसंहरति तत्सिद्धमिति ।
स्वापादीत्यादिपदेन मोहाद्यवस्था ग्राह्या ।
अथ मुक्तावहमर्थनिवृत्तिमनूद्य दूषयति यत्तु इति ।
तद्वार्तमिति ।
वार्तं-फल्गु ।
तदिदं मतं क्षुद्रमित्यर्थः ।
यत इति ।
वैनाशिकदर्शनं-बौद्धदर्शनम् ।
प्रकारान्तरेणअहम्भावाननुवृत्तिकथनमुखेन ।
येनेति ।
आत्मन इत्यस्याग्रे आत्मा इति पूरणीयम् ।
अहमर्थस्य धर्ममात्रत्वे तन्निवृत्तावपि मुक्तौ आत्मा अनुवर्तते इति भवत्कथनं साधीयो भवेत् ।
न तु धर्ममात्रं सः ।
किन्तु स एवात्मेति पिण्डितार्थः ।
ज्ञानमात्रस्यात्मत्वं प्रतिक्षिपति ज्ञानमपीति ।
धर्मतया प्रमीयमाणस्य ज्ञानस्य न स्वतन्त्रात्मत्वं संभवतीति भावः ।
अन्तरङ्गस्य ज्ञानस्यैवाऽऽत्मत्वासम्भवे बहिरङ्गस्येन्द्रियादेः सुतरां न सम्भावितमात्मत्वमित्याह का कथेति ।
ज्ञातृतया प्रमीयमाणादहमर्थादन्यस्य न कस्याप्यात्मत्वं युक्तमिति भावः ।
मुक्तावहंभावनिवृत्तौ दूषणान्तरमाह अन्यश्चेति ।
सुखदुःखभोक्तृत्वं दुःखत्रयाभिघातात् मुमुक्षुत्वं च ज्ञातुरहमर्थस्यैव, स चेत् स्वस्यैव विनाशं मुक्तौ जानीयात् न तस्यै स्पृहयेत् ।
तथाच तस्या अपुरुषार्थत्वप्रसक्तिः ।
नापि मोक्षसाधनज्ञानानुष्ठानयोः प्रवर्तेतैवं जानन् ।
तथाच ज्ञापकतयाऽनुष्ठापकतया च प्रामाण्यं भजतां मोक्षशास्त्राणां प्रामाण्यं भज्येतेति भावः ।
नहीति ।
यथा देहगेहाद्युपलक्षितः पृथिवीभागः स्थास्यतीति स्वदेहगेहनाशे न प्रवर्तेत स्वयमेव कश्चित् प्रेक्षापूर्वकारी, एवमहमर्थोपलक्षितः प्रकाशः स्थास्यतीति बुद्ध्या न स्वनाशाय मोक्षाय ज्ञाताहमर्थः प्रवर्तेतेति भावः ।
चित्त्वात् स्वयंप्रकाशत्वम्, ततः प्रत्यक्त्वं, ततश्चात्मत्वं चितो ज्ञानस्यैव, न तु तद्भिन्नस्याहमर्थस्येति पक्षं प्रतिक्षिपति एतेनेति ।
अहं जानामीति प्रत्यये चैतन्यैकरूपः पराग्भिन्नः प्रत्यक् यः जानामीति प्रतीयते, सः प्रकाश एवात्मा ।
तस्मिन्नधिष्ठाने भासमानः तदधीनप्रकाशः अहमर्थो युष्मदर्थलक्षण एव-परागर्थस्वरूपं एव, तन्नात्मेत्यर्थः।
तस्मिन्नित्यनेन चिद्भिन्नत्वं, तद्बलनिर्भासिततयेति अस्वप्रकाशत्वं, लक्षणतो युष्मदर्थ एवेति पराक्त्वं चाहमर्थस्यानात्मत्वे लिङ्गमुक्तम् लक्षणतः-स्वरूपतः; यद्वा अस्वयंप्रकाशत्वलिङ्गात् ।
ज्ञानं स्वप्रकाशं ज्ञानत्वात्, ज्ञानं प्रत्यक् स्वयंप्रकाशत्वात्, ज्ञानमात्मा प्रत्यक्त्वादिति प्रयोगत्रयम्, अहमर्थो न स्वयंप्रकाशःचिद्भिन्नत्वात्, अहमर्थः पराक् अन्याधीनप्रकाशत्वात्, अहमर्थो नात्मा पराक्त्वा दिति प्रयोगत्रयं चात्रगर्भितम् ।
अस्य प्रतिक्षेवयुक्तिः पर्त्यक्षविरोधादिति ।
चितो ज्ञानस्याऽऽत्मत्वे धर्मिग्राहकमानबाधोऽत्र विवक्षितः ।
प्रत्यक्षेण तस्य धर्मत्वेनैव प्रमीयमाणत्वात् ।
अहमर्थो युष्मदर्थ इति प्रतिज्ञावाक्ये विरोधमाह अहमिति ।
माता वन्ध्येति प्रतिज्ञातुल्येयमिति यावत् ।
ननु युष्मदर्थ इति ळाक्षणिकं पराक्त्वपरम् ।
नातो विरोधः ।
पराक्त्वं चाहमर्थस्य चिदधीनप्रकाशत्वादित्यत्राऽऽह न चासाविति ।
अत्र प्रयोगः- अहमर्थोऽनन्यापेक्षप्रकाशः चैतन्यधर्मकत्वात्, यन्नैवं यन्नैवं यथा घट इति ।
प्रात्यक्षिकी धर्मत्वेन प्रमितिश्चैतन्यस्याऽऽत्मत्वे पूर्वं बाधकत्वेनोक्ता ।
अथाऽऽनुमानिकीं तां तथात्वेनाऽऽह प्रकाशश्चेति ।
मुक्तावहमर्थस्य सद्भावे पूर्वं तर्कउक्तः।
अथ तदा मुक्तस्याहन्त्वेन भानेऽनुमानं समग्राङ्गकन्यायमुखेन प्रपञ्चयति स चेति ।
न चैवमिति ।
एवं भासमानत्वे- अहन्त्वेन भासमानत्वे मुक्तस्य संसारिण इवाज्ञत्वादि नापादयितुं शक्यते,मुक्तत्वविरोधात्-शास्त्रसिद्धमुक्तिदशाभाव्यज्ञाननिवृत्त्यादिविरोधादित्यर्थः ।
मुक्तात्मा अज्ञानवान् संसरणधर्मवान् वा अहन्त्वेन भासमानत्वात् संसार्यात्मवदिति अनुमानं मुक्तविशेष- प्रतिपादकशास्त्रबाधितमिति भावः ।
ननु नास्माभिरज्ञत्वादि मुक्तस्य साध्यते ।
किन्तु अहन्त्वेन भासेत यदि मुक्तात्मा, तर्ह्यज्ञानादिमान् स्यादिति प्रसञ्जनमेव क्रियत इति चेत्तत्राप्याह अतदुपाधित्वादिति ।
तत्प्रत्ययस्य-अहमितिप्रत्ययस्य, अतदुपाधित्वाच्च-अज्ञानकारणकत्वाभावच्चेत्यर्थः ।
आपाद्यापादकयोर्व्याप्यव्यापकभावे सति ह्यापादनं युज्यते ।
नात्र सोऽस्ति तन्नियामकहेतुहेतुमद्भावाद्यभावादिति भावः ।
अज्ञानोपाधिरिति बहुव्रीहिः अज्ञानमुपाधिः प्रयोजकं यस्येति ।
वामदेवादीनामित्यादिपदेन महादेवादिर्ग्राह्यः ।
अतत्प्रत्ययेतिप्राचीनमुद्रितपाठस्त्वशुद्धः ।
एतत्प्रत्ययेति वा, अहंप्रत्ययेति वा पाठः संभाव्यते ।
अहमेव चेति रुद्रवाक्यमथर्वशिरसि ।
निवृत्तसवासनाविद्यादोषाणामपि अहंप्रत्ययदर्शनात् नास्याज्ञानोपाधित्वं संभवतीति भावः ।
अहमन्नमित्यादिमुक्तानुसन्धानवाक्यमप्यत्रानुसन्धेयम् ।
नन्वेतेषां बाधितानुवृत्तिरूपोऽहंप्रत्यय इत्यत्राप्याह तथेति ।
अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः ।
क्लेशग्रहणं कर्मविपाकाशयानामुपलक्षणम् ।
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर इति हि योगतन्त्रे प्रसिद्धम् ।
सर्वदा सर्वथाऽविद्यारहितस्येश्वरस्याहमिति स्वात्मनि प्रत्ययो नाविद्यादिमूलः संभवेदिति हार्दम् ।
सृष्टिप्राक्कालेऽहङ्काराद्युपाधेरभावात्तदानीन्तनोऽहंप्रत्ययोनेश्वरस्य परोपाधिप्रयुक्तः, किन्तु स्वरूपप्रयुक्त एवेति प्रदर्शनाय सृष्टिसङ्कल्पवाक्योपादानम् ।
चिदचिदन्तर्यामिस्व रूपपामर्शी हन्ताऽहमित्यहंशब्दः ।
मुक्तप्राप्यपरस्वरूपवाची यस्मादिति गीतावाक्येभगवतोऽहंशब्दः ।
नच सोपाधिरीश्वरोऽन्तर्यामी मुक्तप्राप्यो वा भवतीति भावः ।
तथा मृत्युसंसारसागरतारकं शुद्धमेव स्वरूपं भगवतोऽहमिति निर्दिष्टं तेषामहमित्यत्र ।
नहि स्वयं सोपाधिरितरोपाधिमोचनसमर्थ इति भावः ।
पितृत्वरक्षकत्वाद्यभिप्रायं च अहं बीजप्रदःपितेति ।
अहंशब्दितं जगत्कारणस्वरूपं नाज्ञानोपहितं, न वा ज्ञानमात्रम्, किंतु सर्वज्ञमिति ज्ञापनाय चोपात्तं वेदाहमिति वचनम् ।
न चैषां निष्कृष्टस्वरूपविषयाणामहंशब्दानां बहूनाममुख्यत्वं युक्तम् ।
किन्तु प्रत्यक्त्वप्रवृत्तिनिमित्तकत्वान्मुख्यत्वमहन्त्वेन स्वरूपभानप्रयुक्तत्वमेव चेति भावः ।
नन्वेवमहम्भावस्याऽऽत्मस्वरूपत्वेऽहङ्कारस्य क्षेत्रान्तर्भाववचनं त्याज्यत्वप्रतिपादनं च गीतास्थं कथमित्यत्राऽऽह एवं चेति ।
आव्यक्तिकपरिणामभेदेन- प्रधानपरिणाममहत्परिणामेनाहङ्कारेण ।
अनहमहं क्रियतेऽनेनेत्यहङ्कारः ।
करणं च मानसम् ।
तथा चानहमि देहेऽहमभिमानहेतुरनात्मनि आत्मभ्रमहेतुरहङ्कारः क्षेत्रान्तर्गतत्वेनोपदिष्ट इति फलितम् ।
अथ अहङ्रारं बलं दर्पमिति त्याज्यत्वेनोक्तस्याहङ्कारस्याभिजनादिनिमित्तदुरभिमानमूलगर्वरूपत्वमाह बहुमन्तव्येति ।
अनहमहं क्रियत इति चात्र व्युत्पत्तिः ।
प्रशस्तकुलीनदेहावात्माभिमान इत्यर्थः ।
सचायं पूज्यावमाननहेतुगर्वहेतुत्वाद्गर्व इत्युज्यते इति भावः ।
च्व्यर्थमन्तर्भाव्योभयत्र व्युत्पत्तिः ।
च्व्यर्थमनन्तर्भाव्य तु व्युत्पन्नोऽहङ्कार इति आत्मनि अहं बुद्धिवाचीति विवेकः ।
तस्मादिति ।
अबाधिताहंबुद्धिर्मुख्याऽऽत्मगोचरैव ।
देहादौ तु सा भ्रान्तिलक्षणैवेति भावः ।
अत्र संवादिपुराणरत्नवचनं श्रूयतामिति ।
आत्मन्येष न दोषाय शब्दोऽहमिति यो द्विज ।
अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः ।। इति च तत्रत्यमत्रानुसन्धेयम् ।
आत्मविज्ञानम्- अहम्बुद्धिः ।
शब्दोऽहंशब्दः ।
वासिष्ठनन्दनेन-वसिष्ठपुत्रस्य शक्तेः पुत्रेण भगवता पराशरेण ।
देहात्मभ्रमाकारपरीक्षातोऽपि स्वीकार्यमहमर्थत्वमात्मन इत्याह न च ज्ञप्तीति ।
अनात्मबुद्धिः- अनात्मन्यात्मबुद्धिः ।
तथैव पाठः स्यादिति संभाव्यते ।
ज्ञप्तिमात्रस्यात्मत्वे स्थूलासंविदित्येव देहात्मभ्रमस्याऽऽकारः स्यात् ।
नतु स्थूलोऽहमिति ।
अतोऽप्यात्माऽहमर्थ एव ।
यस्मिन् सति अहमिति बुद्धिर्देहे उदेति ।
अपक्रान्ते च न ।
सोऽयमात्माऽहमर्थ एवेति च युक्तमभ्युपगन्तुमिति भावः ।इति ज्ञातुरात्मनो मुक्त्यादौ सर्वदाप्यहंभावभानसमर्थनप्रकरणम् यदुक्तम्-अजडत्वाद्वित्तिरेवाऽऽत्मेति; तत्रेदंवाच्यं किमिदमजडत्वं नामेति । यद्युच्येत-सदपि यन्न प्रकाशते तज्जडम्, तद्विपरीतमव्यभिचरितप्रकाशसत्ताकमजडमिति; तथा सति सुखादिभिर्व्यभिचारी हेतुः । न खलु सुखदुःखेच्छादयो विद्यमाना अपि कदाचिदमवभासमाना भवन्ति । स्वसत्ताप्रयुक्तप्रकाशत्वमपि दीपादिभिरनैकान्तिकम् । ज्ञानव्यतिरिक्तप्रकाशानङ्गीकाराच्चासिद्धता, विरुद्धता च । यदि मतम्-अव्यभिचरितप्रकाशोऽपि सुखादिरन्यस्मै प्रकाशत इति घट इव जडतां नातिवर्तते, तेनानात्मेति; ज्ञानं वा किं स्वस्मै प्रकाशते? अन्यस्यैव हि तदपि जानतोऽहमर्थस्य प्रथतेऽहं जानामीति, अहं सुखीतिवत् । तेन स्वस्मै प्रकाशमानत्वमभिप्रेत्य प्रयुज्यमानोऽजडत्वहेतुरसिद्धः संविदि । अतः सत्तयैव स्वमात्मानं प्रति सिध्यन्नजडोऽहमर्थ एवात्मा । तत्संबन्धायत्ता तु ज्ञानस्यापि प्रकाशता । अत एव हि स्वाश्रयचेतनं प्रति प्रकटता, इतरं प्रत्यप्रकटता च ज्ञानस्य सुखदुःखदेरिव । नचैवमात्मान्तरसंबन्धमर्थान्तरं वाऽपेक्ष्यायमात्माऽऽत्मने प्रकाशते । एतच्चानन्तरमेवोपपादयिष्यते । इति ज्ञानात्मत्वसाधकाजडत्वदूषणम् न च ज्ञानेन सहोपलम्भनियमोऽहमर्थस्यार्थान्तरतां वारयति, ज्ञानस्यापि तथात्वप्रसङ्गात् । तदपि हि तेन नियतेन सहोपलम्भमित्यहमर्थादनर्थान्तरं मिथ्यारूपमेवाऽऽपद्येत । असिद्धश्च संविद्विशेषैः सहोपलम्भनियमः, प्रत्येकं व्यभिचारदर्शनात् । न च विशेषमात्रं निर्धूतनिखिलविषयविशेषोपश्लेषं वा वित्तिमात्रमस्ति, येन सहोपलम्भनियमः संवेदितुरभिधीयेत । सामान्यं तु सदपि सौगतेर्न वस्तुतयाऽऽस्थीयते । समस्तवृत्तिप्रत्यस्तमयेऽपि स्वयंज्योतिरयमात्माऽवतिष्ठत इति च वक्ष्यामः । स्ववाग्विघातश्च-एकं द्वाविति निर्देशात् । द्वयोर्ह्येकक्रियानुप्रवेशे सहशब्दः, शिष्येण सह गच्छत्याचार्य इति यथा । अपि च निलतद्धियोरिति द्वे उपादाय अभेद इत्येकत्वविधिः सवित्रीवन्ध्यात्वविधिरिव । अनेकान्तश्च संविदि प्रतिषिध्यमानैर्जडत्वादिभिः; सर्वज्ञज्ञानेन सहोपलम्भनियमभागिभिः संसारिज्ञानैश्च । तेषामभेदाभ्युपगमे ज्ञानस्य जडत्वमूर्तत्वादि, बुद्धस्य बद्धत्वमित्यापद्येत । नियमेनैकज्ञानसिद्धत्वमप्युक्तप्रकारेण प्रत्यु क्तम् । विपक्षव्यतिरेकश्चासिद्धः । भवतु नियमेनैकज्ञानसिद्धत्वं ज्ञानज्ञेयज्ञातृणाम्, मा च भूदभेदः; को विरोधः? । अहमर्थस्याऽऽत्मत्वं निगमयति अत इति । जानाम्यहमिति ज्ञानधर्मित्वेन प्रत्यक्षसिद्धत्वादहमर्थस्यैवाऽऽत्मत्वम् । अहन्त्वेन तस्य मुक्तावपि भानेऽनुमानमुक्तमागमश्च । प्रत्यक्त्वान्यथानुपपतितलक्षणस्तर्कोऽप्युक्त आत्मनोऽहमर्थत्वव्यवस्थापकः । स्थूलोऽहमिति देहात्मभ्रमरूपाविद्यासङ्गतेश्च ज्ञाताऽहमर्थ ेवात्मा, स च सर्वदाऽहमिति भासते इति कारिकार्थः । आत्मा ज्ञातैवेत्यत्रापि प्रत्यक्षादिकमस्तीति गर्भितमत्र । प्रत्यक्षं चाहं जानामीत्यादिकं प्रसिद्धमेव । ज्ञानस्य देहादिधर्मत्वनिषेधेन परिशेषानुमानमपि सिद्धम् । सास्त्रवचनानि चाग्रे मूल एव निर्देक्ष्यन्ते । ज्ञानसमानाश्रयत्वादज्ञानस्याज्ञातृत्वे आत्मनोऽविद्यान्वयायोग इति तर्कोऽप्यक्तप्राय इति । एवं ज्ञातुरहमर्थस्यात्मत्वं व्यवास्थापि ।।14।।अथ ज्ञानस्याऽऽत्मत्वे साधकत्वेन परैरुपन्यस्तमजडत्वमपि विकल्प्य दूषयति यदुक्तमित्यादिना । तद्विपरीतमित्यस्य विवरणमव्यभिचरितेत्यादि । अव्यभिचरितः-नियतः प्रकाशो यस्याः, एवंभूता सत्ता यस्य, तदजडमित्यर्थः । स्वसत्ताव्यापकप्रकाशत्वमजडत्वमिति यावत् । तथा सतीति। अनात्मसु सुखादिष्वपि निरुक्ताजडत्वस्य सत्त्वात् व्यभिचार इत्युक्तं भवति । अजडत्वप्रकारान्तरं दूषयति स्वसत्तेति । यस्य स्वसत्तयैव प्रकाशः, तत्स्वसत्ताप्रयुक्तप्रकाशम्, तत्ता जडत्वमित्यपि प्रदीपादौ व्यभिचारि । दीपस्य प्रकाशे हि न दीपान्तरापेक्षा । ननु चक्षुरादेरपेक्षास्त्येव तत्रेति चेत्; अस्तु नाम; तावता स्वसत्ताप्रयुक्तताया अनपायात् । स्वसत्तामात्रप्रयुक्तत्वविवक्षा तु न संभवति, संविद्यसिद्धेः । विजातीयात्मापेक्षत्वात्तत्प्रकाशस्य । एतच्चानन्तरमेव स्फुटीभविष्यति । दूषणान्तरमप्याह ज्ञानेति । ज्ञानतो धर्मोऽतिरिक्तः प्रकाशो नाम नाभिमतः । ज्ञानमेव तु प्रकाशरूपम् । तत् स्वसत्ताप्रयुक्तप्रकाशत्वरूपो हेतुरसिद्धः पक्षे ज्ञाने । तत्प्रकाशं नित्यमभ्युपगच्छतः तस्य स्वसत्ताप्रयुक्तत्वकीर्तनं विरुद्धं च । यद्वा प्रकाशवत्त्वस्य संविद्युपगमेऽभिमतनिर्विशेषत्वविरोध इति भावः । स्वस्मै स्वयं भासमानत्वरूपमजडत्वमात्मत्वे साधकं तु स्वरूपासिद्धमित्याह यदि मतमिति । ज्ञानप्रकाशस्यतदाश्रयनिबन्धनत्वमाह तत्संबन्धेति । प्रकाशता-ज्ञानरूपता, प्रकाशमानता वा । स्वाश्रयाय स्वविषयप्रकाशकत्वरूपं ज्ञानत्वं, प्रकाशमानता चात्मधर्मताहेतुके एव । नहि स्वाश्रयादन्यस्मै स्वविषयंप्रकाशयति ज्ञानं, स्वयं वा प्रकाशते इति भावः । अत इति । स्वस्मै स्वयं भास मानत्वमहमर्थस्यैवेति स एवात्मेत्यर्थः । प्रकटता-प्रकाशमानता । आत्मान्तरसंबन्धम्-आश्रयान्तरसंबन्धम् । अर्थान्तरं-ज्ञानादि । एतच्चेति । अनन्यसाधन इत्येतद्विवरण इति भावः । संविद आत्मत्वमाधकमजडत्वं प्रदूष्य ज्ञात्रादेः संविदभेदसाधकं प्रकटसौगताभिमतं सहोपलम्भनियमं दूषयति नच ज्ञानेनेति । ज्ञानस्यापीति । मिथ्याभूतेनाहमर्थेन सहोपलम्भनैयत्यतौल्यात्संविदस्तदभेदात् मिथ्यात्वप्रसक्तिरिति भावः । अभिमतविरुद्धापादकत्वाद्धेतोर्भवदीयस्य विरुद्धत्वमिति हेतुदोष उद्भावितो भवति । अहमर्थेन सहैवोपलम्भं संविद उपपादयति तदपीति । नियतेन-स्वप्रकाशव्यापकप्रकाशवता । तेन-अहङ्कारेण । सहोपलम्भो यस्य तत् सहोपलम्भम् । किञ्च, तदुपलम्भव्याप्योपलम्भवत्त्वरूपो हि सहोपलम्भनियमः परैः तदभेदसाधको मतः । स चायमहमर्थस्य संविदभेदसाधने पक्षेऽसिद्ध इत्याह असिद्धश्चेति । अत्र विकल्पः-किं ज्ञानविशेषेण तेन तेन सहोपलम्भनियमोऽहमर्थस्य विवक्षितः, उत ज्ञानविशेषमात्रेण, आहोस्वित् ज्ञानमात्रेणेति । तत्राद्येऽसिद्धिः, चाक्षुषादिज्ञानप्रकाशमन्तरापि अहमर्थस्य ज्ञानान्तरप्रकाशे प्रकाशमानत्वादिति प्रत्येकं व्यभिचारदर्शनादित्युक्तम् । द्वितीयतृतीयकल्पयोर्दोषमाह नच विशेषेति । न निर्विशेषं सामान्यमिति न्यायाच्चाक्षुषादिव्यतिरिक्तं ज्ञानविशेषमात्रं ज्ञानमात्रं वा नास्ति । तत्तद्विशेषप्रकाशव्यभिचारश्चाहमर्थप्रकाशस्योक्त एव तत्तद्विशेषप्रकाशाभावेऽप्यहमर्थप्रकाशत इति भावः । नन्वेवमपि ज्ञानत्वावच्छिन्नप्रकाशेनाव्यभिचार एव । अहमर्थप्रकाशे ज्ञानत्वावच्छिन्नप्रकाशध्रौव्यादित्यत्राह सामान्यमिति । अनुवृत्तसामान्यानुपगमात्सौगतैरेवं हेतुस्तेषां दुर्वच इति भावः । विनापि ज्ञानप्रकाशेनाहमर्थप्रकाशोऽस्तीत्याह सिद्धान्तरीत्या च समस्तेति । स्ववागिति । साहित्यस्य भेदनियतत्वात्सहैवोपलम्भमानत्वहेतुव्यपदेश एव भेदव्यपदेशरूप इति तेन संविदहमर्थयोरैक्यसाधने प्रतिज्ञाहेतुवाक्ययोर्विरोध एकं द्वित्वादितिवदिति भावः । प्रतिज्ञाहेतुघटकपदयोर्विरोधमुक्त्वा प्रतिज्ञाघटकपदयोस्तमाह अपि चेति । सहोपलम्भनियमादभेदो नीलतद्धियोरित्येवं हि तेषां प्रतिज्ञा । द्वित्वविशिष्टेऽत्रैकत्वविधिर्जननीवन्ध्यात्वविधिरिव व्याहत इति यावत् । ज्ञानज्ञात्रोरभेदसाधनदूषणप्रसङ्गेऽस्मिन् ज्ञानज्ञेययोरभेदसाधकप्रयोगदूषणादिसाधमदूषणप्रकारसाम्यादिति ध्येयम् । शब्ददोषमुक्त्वाऽर्थदोषमन्यमाह अनेकान्तश्चेति । संविदः स्वयंप्रकाशत्वाज्जडत्वादिप्रकाशकाले ज्ञानप्रकाशोपि नियतः । तथा च संविदा सहोपलम्भनियमभाजां जडत्वमूर्तत्वादीनां संविदभेदे संविदो जडत्वमूर्तत्वादिप्रसङ्गः । धर्मधर्मिभेदानुपगमात्, अभेदेप्याधाराधेयभावप्रतीत्युपगमाच्च । एवं सर्व ज्ञस्य बद्धज्ञानानामुपलम्भे नियमेन बुद्धज्ञानमप्युपलम्यते, तेषां बुद्धज्ञानमहोपलम्भानां बुद्धज्ञानाभेदे बुद्धस्य बद्धत्वापत्तिः । तत्र तत्राभेदानुपगमे चानैकान्त्यं हेतोरिति भावः । अभेदसाधकं हेत्वन्तरमपि तुल्यरीत्या निरस्यति नियमेनैकेति । एकज्ञानसिद्धत्वम् -एकज्ञाने द्वयोः प्रकाशमानत्वम् । निरासप्रकारश्च-एकज्ञानविषयत्वेनाहमर्थे संविदभेदस्य साधने तुल्यनयेनाहमर्थाभेदोऽपि संविदि प्रसज्येत । चाक्षुषादिज्ञानविशेषेणैव सिद्धत्वं चाहमर्थस्यासिद्धम् । ज्ञानान्तरतोऽपि सिद्धेः, स्वापे स्वतः सिद्धेश्चेति । अप्रयोजकत्वमप्याह विपक्षेति । विपक्षव्यतिरेकः-विपक्षे बाधः । तदसिद्धिमेवोपपादयति भवत्विति । साध्याभाववति हेतोर्वृत्तावापाद्यमानायां बाधकस्तर्को नास्ति । अतोऽप्रयोजको हेतुरिति भावः ।स्पष्टश्च प्रत्यक्षबाधः, सर्वज्ञानेषु वेद्यादिव वित्तेरपि वेदितुर्भेदस्यापरोक्षत्वात् ।
नच प्रतियोगिनः प्रत्यक्षत्वं दृश्यत्वं वा भेदस्याऽऽपरोक्ष्ये त्वपेक्षितव्यम्, सिद्धिमात्रेण तदुपपत्तावप्रयोजकत्वेन तद्विशेषस्यानाक्षेपात् ।
अनवभासमानेऽपि प्रतियोगिनि भावाः स्वरूपत एव विलक्षणाः प्रत्यक्ष्यन्त इति सर्वलोकस्वसाक्षिकमेतत् ।
ननु जीवतो भेदप्रत्यक्षस्य शिरसि पदनिधानेन सहोपलम्भनियमस्याभेदेन प्रतिबन्धग्रहणमिति कथमिव ततस्तद्वाधसंभवः ।
तथासति हि ज्वालाभेदानुमानमपि तदेकत्वप्रत्यभिज्ञयाऽपोद्येत ।
अविशेषज्ञो देवानां प्रियः ।
तत्र हि क्लृप्तकारणदोषानुवृत्तौ सत्यां जायमानोऽपरोक्षावभासो न निरवद्यप्रत्यक्षपूर्वकमनुमानं बाधितुमर्हति ।
तथाहि-अचिरनिर्वापितारोपितेष्वेकवर्तिभागवर्तिषु बहुषुदीपेषु तद्भेदादर्शिनः सुसदृशतया स एवायमिति स्मृतिरुपजायते इति दृष्टम् ।
अतोऽन्यत्राप्यप्रतिबन्धपुष्कलकारणक्रमोपनिपातादवयवविश्लेषाच्च सुसदृशनिरन्तरप्रवृत्तप्रदीपप्रवाहालम्बनैव तथा मतिरिति निश्चीयते ।
तथैकनानात्वप्रत्ययः स्वतःप्राप्तेन्द्रियवृत्तिविपर्ययप्रयुक्तः समसमयोपजायमानानेकानवद्यप्रत्यक्षप्रतिक्षिप्तविषयश्चद्विचन्द्रादौ दृष्ट इति नासौ तत्रैकत्वानुमानमभिभवितुं प्रभवति ।
न चैवमिह ज्ञातृज्ञानज्ञेयविवेकसाक्षात्कारी प्रत्यय इति प्रतिरुणद्ध्येवायमिहाभेदानुमानोदयप्रसक्तिम् ।
न चोपलब्धिसाहित्यनियमादेव तथात्वमत्रानुमेयमिति युक्तम्, विपक्षे बाधकानुपलब्धेः ।
संविदधीनसिद्धितयाऽपि तथा नियमोपपत्तेः ।
अनैन्द्रियिकत्वेन च तद्वृत्तिविपर्ययस्याकिञ्चित्करत्वात् ।
योग्यानुपलम्भपराकृतत्वाच्च बाधकप्रत्ययस्य ।
अपि च विषयसिद्धिर्हि संवित् ।
सा च स्वयंप्रकाशेत्यविवादः ।
तेनावर्जनीयस्तथा नियमः ।
नच भेदोऽपि सिद्धिमन्तरेण सिध्येदित्यनुन्मत्तेन युक्तमापादयितुमित्यलमनेनानुभवपराहतमतातिव्याकुलीकरणेन ।
(इति सौगताभिमतग्राह्यग्राहकविकल्पप्रत्युद्धारनिराकरणम्) अप्रकाशात्मनश्च नीलादेः प्रकाश इत्यनुभवसिद्धत्वान्न समर्थनान्तरं प्रार्थयते ।
आत्मा तु प्रकाशस्वभाव एव ।
न च तावताज्ञानत्वम्, स्वतन्त्रत्वात् ।
परतन्त्रमागन्तु यावदर्थेन्द्रियसन्निकर्षादिकारणसन्निधानमवतिष्ठमानमर्थावच्छिन्नरूपं ज्ञानमिति प्रागेवावोचाम ।
आत्मा तु स्वतन्त्रो ज्ञाता अहमिति प्रत्यात्मं प्रथते ।
यदिपुनरीदृशोऽप्ययमनन्याधीनसिद्धितया ज्ञानमभिलप्यते, अभिलप्यतां कामम् ।
तथापि ज्ञानवदेवेदं ज्ञानम्, न ज्ञप्तिमात्रतया ।
(इत्यद्वैत्यभिमतग्राह्यग्राहकविकल्पप्रत्युद्धारनिराकरणम्) अत एव हि च्छन्दोगाः-‘अथ यो वेदेदं जिघ्राणीति स आत्मा’ इत्याद्यामनन्ति ।
तथा ‘कतम आत्मा’ इति प्रश्नपूर्वकमिदमेव लक्षणमामनन्ति वाजसनेयिनः ‘योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः’ इति ।
अत्र हि योऽयं सर्वलोकानुभवसिद्धो विविधविषयवेदनप्रचुरः प्राणेषु प्रेरकतया स्थितो हृदयायतने अन्तर्ज्योतिः अहमिति प्रत्यक्त्वेन प्रकाशते, स पुरुष इति यथोदितमेवात्मस्वरूपमुपदिश्यते ।
‘एष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः’ इत्याथर्वणाः ।
तथा ‘विज्ञातारमरे केन विजानीयादिति’ ‘न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम्’ ‘स उत्तमः पुरुषः नोपजनं स्मरन्निदं शरीरम्’ ‘एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति’ ‘तस्माद्धा एतस्मान्मनोमयादन्योऽन्तर आत्मा विज्ञानमयः’ इत्याद्याः ।
‘सत्यं ज्ञान’ मित्यत्रापि ब्रह्मलक्षणनिर्देशे ज्ञानशब्दो न ज्ञानमात्रवचनः ; अपि तु तद्वद्वचनः ।
तद्वचनत्वे ‘लिति’ इति आद्युदात्तत्वप्रसक्तेः ।
अन्तोदात्तश्चायं ज्ञानशब्दः ।
मत्वर्थीयाच्प्रत्ययान्तत्वे तथात्वं घटते; नान्यथेत्येतत् परमात्मनिरूपणे अतिनिपुणमुपपादयिष्यामः ।
ऐतरेयोपनिषदपि ‘प्रज्ञानं ब्रह्ये’त्युक्त्वा ‘स एतेन प्राज्ञेनात्मना’ इति प्रकृष्टज्ञानवन्तमेवेश्वरं दर्शयति ।
तत् सिद्धं ज्ञातैवाऽयमात्मेति ।। (इति देहादिविलक्षणप्रत्यगात्मस्वरूपनिरूपणप्रकरणम्) किं पुनरस्मिन् देहादिव्यतिरेकिणि चेतने प्रत्यगात्मनिप्रमाणम्? ।
अनु मानमिति नयविचक्षणोऽक्षपादः ।
यदाह “इच्छाद्वेषप्रयत्नसुखदुःखज्ञाना- न्यात्मनो लिङ्ग” मिति ।
किममीषामात्मनाऽविनाभावो धूमध्वजविशेषेणेव धूमविशेषस्य दृष्टः? हन्तैवं तत एव तत्प्रमितेः किमनुमानेन? ।
माभूद्विशेषतोदर्शनम्; सामान्यतस्तु भविष्यति ।
तथाहि-इच्छादयः कार्यत्वानित्यत्वगुणत्वादिभिः शब्दादय इवाऽऽश्रिततयाऽनुमीयन्ते ।
यश्चैषामाश्रयः स आत्मा ।
गुणत्वं च परिशेषात् ।
न सामान्यविशेषसमवायाभावाः अनित्यत्वात् ।
न द्रव्यं कर्म वा, व्यापकद्रव्यसमवायादिति ।
विशेषगुणत्वं चानित्यत्वे सत्यस्मदाद्येकेन्द्रियग्राह्यत्वनियमात् रूपादिवत् ।
एवमाश्रयमात्रमुपस्थापयन्तोऽन्वयव्यतिरेकिणो हेतवः द्रव्यान्तरगुणत्वं च प्रत्याचक्षाणैः केवलव्यतिरेकिसाधनैरात्मगोचरतया नियम्यन्ते ।
तथा हि भवति-इच्छादयो न महाभूतगुणाः, स्वात्मन एव प्रत्यक्षत्वात्; अबाह्येन्द्रियग्राह्यत्वाद्धा ।
ये भूतगुणास्ते स्वात्मपरात्मप्रत्यक्षाः बाह्यकरणप्रत्यक्षाश्च, यथा रूपादयः ।
न तथेच्छादय इति न तद्गुणाः ।
दिक्कालमनांसि पुनः न विशेषगुणवन्ति; नापि तद्गुणानां प्रत्यक्षत्वमिति न तेषामपि गुणाः ।
अकारणगुणपूर्वत्वात् अयावच्छरीरभावित्वादित्यादयः शरीरविशेषगुणत्वप्रतिषेधहेतवः प्राचीनाश्चात्रानुक्रष्टव्याः ।
तेनेच्छादयो न शरीरगुणाः तद्गुणभावापवादप्रमाणवत्त्वे सति गुणत्वात् ।
ये यथोक्तसाध्या न भवन्ति, ते यथोक्तसाधना अपि न भवन्ति; यथा रूपादयः ।
यथोक्तसाधनाः पुनरिच्छादय इति यथोक्तसाध्या एवेति ।
विमतिपदास्पदेभ्यः शरीरादिभ्योऽर्थान्तरगुणा इच्छादय इति वा प्रतिज्ञा ।
यथोक्त एव हेतुः ।
उदाहरणं च प्रयोक्तव्यम् ।
सामान्येन वाऽन्वयः प्रदर्शनीयः-यो यद्गुणभावापवादकप्रमाणवत्त्वे सति गुणः, स ततोऽर्थान्तरस्य गुणः; यथा पृथिव्यादिभ्यः शब्द इति आकाशसिद्धिवदात्मसिद्धिरिति ।
(इति विलक्षणात्मन आनुमानिकत्वपक्षनिरूपणम्) इदमपि न समीचीनमित्येके ।
तथाहि-अन्वयव्यतिरेकिहेतुभिर्देहादिसाधारणमाश्रयमात्रमवगमितम् ।
न च तावताऽऽत्मसिद्धिः ।
केवलव्यतिरेकी तु साधनदशामेव नासादयति, सपक्षान्वयविरहात्, असाधारणवत् ।
नचैवं केवलान्व यिनो विपक्षव्यतिरेकदर्शनविकलतया साधारणवदसाधनत्वम् ।
देशकालादिशङ्गितोपाधिविगमेप्यन्वयदर्शनेन साध्यान्वितस्वभावतया परिनिश्चितत्वात् ।
नच साधनाभावे साध्याभावदर्शनमात्रेण साध्यान्वितस्वभावत्वं शक्यं निश्चेतुम् ।
अभावस्याऽनन्तदेशव्यापितयाऽनवयवेन ग्रहणस्यैव दुष्करत्वात्, कलयाप्यन्यत्रवृत्तौ संबन्धे नियमासंभवात् ।
सन्देहग्रस्तत्वाच्च-किं साधनाभावप्रयुक्तः साध्याभावः, किं वा निमित्तान्तरप्रयुक्त इति ।
पृथिव्यादिभ्योऽर्थान्तरगुणत्वप्रतिज्ञाऽपि द्रव्यान्तराप्रसिद्धेरप्रसिद्धविशेषणा ।
(इति नैयायिकाभिमतात्मानुमाननिरासः) एतेन साङ्ख्योदीरितसाधनभेदा अप्यपोदिता वेदितव्याः सङ्घातपरार्थत्वादयः ।
तथा च तानेव तावदादितो व्याकुर्महे- “सङ्गातपरार्थत्वात्र्रिगुणादिविपर्ययादधिष्ठानात् ।
पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थं प्रवृत्तेश्च ।।” अयमर्थः-देहेन्द्रियादयः परार्थाः सङ्गातत्वाच्छयनासनशरणादिवत् ।
प्रत्यक्षं च शरीरस्य सङ्घातत्वं, भूतानां च ।
अव्यक्तमहदहङ्कारेन्द्रियाणां च सुखदुःखमोहात्मतया तथात्वमनुमेयं तद्वदेव ।
न चेन्द्रियाणामाहङ्कारिकत्वस्याऽभ्युपेतस्य, साध्यंत्वाभिमतपारार्थ्यधर्मस्य चासंहतपरार्थत्वस्यान्यथात्वापादनादुभयविशेषविरुद्धत्वं हेतोः; अहङ्कारान्वयव्यतिरेकानुविधानेन “देवा वैकारिकाः स्मृताः” इत्याद्यागमबलेन प्रकाशलाघवगुणान्वयेन च वैकारिकाभिधानसात्त्विकाहङ्कारभेदयोनित्वस्येन्द्रियाणां प्रमाणसिद्धस्यापवादानुपपत्तेः ।
आत्मनस्तु सङ्घातत्वे तस्यापि सङ्घातान्तरार्थतयाऽनवस्थापत्त्या निष्प्रमाणकानेककल्पनाप्रसङ्गात्, अप्रयोजकत्वाच्च सङ्घातत्वस्य शेषित्वे, दृष्टान्तदृष्टाशेषधर्मोपस्थापनेऽनुमानप्रामाण्य स्यैवासम्भवापत्तेः तदसङ्घातत्वस्य चाऽप्रचाल्यत्वात् ।
नच प्रमाणान्तरबलेनानाहङ्कारिकत्वसङ्घातान्तरार्थत्वयोर्बाधेऽबाधितेन सङ्घातपरार्थत्वेनापि न भवितव्यम् ।
एवं च संहतत्वव्यापकावरुद्धत्रैगुण्यादिरहितोऽसंहत आत्मा सिद्धः ।
तथा देहादयः सुखदुःखमोहात्मकतया परेणाधिष्ठीयन्ते, यन्त्रादिभिरिव रथादयः ।
अपि चानुकूलप्रतिकूलवेदनीये सुखदुःखेभृत्यभ्रातृव्यवदनुकूलनीयप्रति कूलनीयवती ।
दृश्यत्वाद्देहादयो घटादय इव विलक्षणद्रष्ट्टका इति ।
अधिष्ठातुरनुकूलप्रतिकूलवेदकस्य द्रष्टुः त्रैगुण्यादिविपर्ययः पूर्ववदेव निर्णेतव्यः ।
तथा देहादेरव्यक्तान्तस्य कृत्स्न्स्य त्रिगुणात्मकतयाऽत्यन्तदुःखोपशमनलक्षणमोक्षदशानुपपत्तेः तदर्थं च शास्त्राणां महाधियां च प्रवृत्तेरस्तिदेहादिव्यतिरिक्तोऽसंहतः त्रैगुण्याद्यसंस्पृष्टः पुरुष इति ।। (इति साङ्ख्याभिमतात्मानुमाननिरूपणम्) अत्रापि सङ्घातपारार्थ्यादिभिर्यद्यपि परः कोऽप्यधिष्ठाता द्रष्टा सिद्धः, तथापि न तस्यासंहतत्वात्रिगुणत्वादिरभिमतविशेषः शक्यनिश्चयः ।
तथाहि-सङ्घातस्य सङ्घातान्तरार्थत्वनियमदर्शनबलादापतन्ती परापरा सङ्घातकल्पना न दोषाय, कार्यतयेवानादि कारणपरम्परापरिकल्पना ।
न चाप्रयोजकत्वमपि; असङ्घातस्यासङ्गस्याशेषविक्रियाशून्यस्यानाधेयातिशयकूटस्थचितिमात्रवपुषः पुरुषस्य सङ्घातं प्रति परत्वानुपपत्तेः ।
तद्वि तस्य शेषि भवति, तच्च तदर्थम्; यद्येनोपक्रियते क्रियते वा, यच्चोपकरोति करोति वा ।
न च तथा साङ्ख्यपुरुष इति कतं तस्य सङ्घातं प्रति परत्वम् ? कथन्तरां च सङ्घातस्य तादर्थ्यम् ? ।
अनुपकार्योप्युपकार्यतयाऽऽत्मानं मन्यत इति चेत्; कामं मन्यताम्; किमायातमुपकार्यत्वस्य? ।
न खलु बालास्तलमलिनतादिमत्तया गगनमभिमन्यन्त इति तस्य तथात्वं भवति ।
अपि च तथाविधभ्रमोऽपि कस्य कथमुदयत इति विवेचनीयम् ।
न तावच्चितिशक्तेः; सर्वविक्रियाशून्यतयाऽतिविशुद्धायामशुभशतनिदानभूतभ्रमपरिणामासम्भवात् ।
अन्तःकरणं तु बुद्ध्यपरपरिभाषाभिधानमचेतनतया तनुरिव न भ्राम्यति ।
अचिदपि स्वच्छतया चितिच्छायापन्नं चेतनायत इति चेत्; न; नीरूपायाः चितेर्बुद्धेश्च छायातद्ग्रहणानुपपत्ते ।
छायेव छायेति चेत्; कः खलु इवार्थ? ;चितिसरूपत्वमिति चेत्; हन्तैवमशेषविकाररहितचितिसरूपतापत्तावन्तःकरणमपि प्रत्यस्तमितसमस्तवृत्तिकमापद्यत इति दुरुपपादतरोऽयं भ्रमसुखदुःखादिविकारयोगः प्रत्यात्मसिद्धः ।
चेतनत्वेन सरूपत्वमिति चेत्; न; चितिरेव हि ते पुरुषः, न चेतयिता ।
यथाऽऽह तत्रभवान् पतञ्जलिः “यदा चितिरेव पुरुषः किमत्र केन व्यपदिश्यत” इति ।
अजडायमानत्वमिवार्थ इति चेत्; अजडत्वमपि न ज्ञातृत्वा तिरिक्त किञ्चिदित्युक्तमेव ।
तेनैव तद्विवरणमिति च न किञ्चिदेतत् ।
अपि च चितिसन्निधानाधीनां बुद्धिसिद्धिमभिदधानः कथमिव तदजडिमानं प्रतिजानीयात्? नच चितिस्वान्तयोर्बिम्बप्रतिबिम्बाधाराभिमतयोरन्यतरस्मिन्नप्यविद्यमानस्य विषयविशेषोपरक्तज्ञातृत्वलक्षणधर्मभेदस्य प्रतिबिम्बे सम्भवः ।
प्रत्युक्तश्चायं प्रतिबिम्बवादः प्रच्छन्नबाह्यमतप्रत्यादेशे ।
यदुच्यते-निर्विकारायापि पुंसे तत्सन्निधिमहिमसमुत्थापितप्रमाणविपर्ययादिविचित्रवृत्तिभेदं स्वान्तमेव स्ववृत्तिं विषयविशेषांश्चोपदर्शयति, सामन्तचक्रमिव पराक्रमीयः प्रतिबलविलोलनादिवृत्तीः स्वामिने, ततः साक्षी भोक्ता चापदिश्यते, राजेति विक्रमी विजयी चेति; तदनुपपन्नम् ।
द्रष्ट्रे हि दर्शनीयं दृश्यते ।
नच दृशिमात्रात्मवादिनां सांख्यानां तदुपजीविनां च प्रच्छन्नानां द्रष्टृत्वं वास्तवमस्ति ।
नच काल्पनिकेन शेषित्वसम्भवः ।
कल्पनाऽपि न सम्भवतीत्युक्तमेव ।
राजा तु सामान्यतो विशेषतो वा तेषु कर्मस्वमात्यान् नियुञ्जानः तत्फलमैश्वर्यादि चाश्रुवानः स्वस्वामिभावहेतुक्रयप्रतिग्रहजननादि- व्यापारयोगी न निष्क्रियस्यानाधेयातिशयस्य पुंसो निदर्शनमिति यत्किञ्चिदेतत् ।
(इति कापिलाभिमतात्मानुमाननिरसनम्) स्थूलोऽहं, गच्छाभ्यहमित्यादिप्रत्यक्षमृदितविषयतया प्रसिद्धैवातीतकालता व्यतोरेकानुमानभेदानामित्यानुमानिकीमप्यात्मसिद्धिमश्रद्दधानाः श्रौतीमेव तां श्रोतियाः सङ्गिरन्ते ।
श्रुतयो हि साक्षादेवात्मनः शरीरादिव्यतिरेकमादर्शयन्ति- ‘स एष नेति नेति’ ‘अकायमव्रणमस्नाविरं शुद्धमपापविद्धम्’ ‘योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुमन्ये’ ‘न जायते म्रियते वा कदाचित्’ ‘जीवापेतं वावकिलेदं म्रियते’ ‘न हि वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति ।
अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ इत्याद्याः ।
कालान्तरभाविस्वर्गादिसाधनविधयश्चाऽऽक्षिपन्ति देहादिव्यतिरिक्तं नित्यं चेतनमिति श्रुतितदनुपपत्तिप्रमाणकोऽयं प्रत्यगात्मेति ।
(इति विलक्षणात्मनः शास्त्रैकप्रमाणकत्वपक्षनिरूपणम्) ननु हिताहितप्राप्तिपरिहारमात्रपरस्याऽऽम्नायस्य शिरसि किमिति महानयं भारः प्रक्षिप्यते? अनुमानागमाद्यशेषप्रमाणमूलभूतेन प्रत्यक्षेणैव ह्येनं प्रतिपद्यामहे ।
ममेदं शरीरम्, इदमहं जानामीति घटादिदृश्येभ्य इवायं द्रष्टा देहादपि पृथग्भूतः प्रत्यक्षं परिस्फुरति ।
(इत्यात्मनः प्रत्यक्षत्वपक्षोपक्षेपः) मैवं वोचः ।
इन्द्रियार्थसन्निकर्षजं हि विज्ञानं प्रत्यक्षम् ।
न चेन्द्रियाणि रूपादिव्यतिरेकिणि निरतिशयसूक्ष्मे प्रतीचिपरागर्थ इव सन्निकर्षेण ज्ञानं जनयितुमर्हन्ति ।
यथा आम्नायते ‘पराञ्चिरवानि व्यतृणत् स्वयंभूः’ इति ।
अप्रयोजकत्वमेवोपपादयति किमित्यादिना सार्धश्लोकेन ।
किं नीलादिर्विषयोऽस्वयंप्रकाशत्वात्स्वव्यवहाराय प्रकाशं-स्वप्रकाशकं ज्ञानमाकाङ्क्षते, उताहो तदभेदतः-संविदभिन्नत्वात् प्रकाशमनुरुध्यते इति संदेहान्नीलतद्वियोरभेदोऽशक्यनिर्णय इत्यर्थः ।
संविदनुरोधित्वं नीलादेः संविदा सहैवोपलभ्यमानत्वलक्षणम् ।
इदं च किं संविदभेदप्रयुक्तमुत स्वप्रकाशे नीलादेर्जडस्य स्वप्रकाशसंविदपेक्षाप्रयुक्तमिति विशये यावदभेदप्रयुक्तत्वनिर्णयो न भवति, न तावदस्याभेदसाधकत्वम् ।
अभेदप्रयुक्तत्वनिर्णायकं च नास्ति ।
तथा चाप्रयोजकत्वमिति भावः ।
स्याद्वासहोपलम्भनियमो बोध्ययोरेवाभेदसाधकः, न तु बुद्धिबोध्ययोर्बुद्धिबोद्ध्रोर्वेत्याह बोध्यस्थ इति ।
बुद्धीनां बोद्धॄणां वा सहोपलभ्यमानानां नाभेदः ।
बुद्धस्य बद्धत्वापातात् ।
नापि बुद्धिबोध्ययोर्बुद्धिद्ध्रोर्वा, बुद्धेर्जडत्वादिप्रसङ्गात् सत्यमिथ्यार्थयोरैक्यप्रसङ्गाच्च ।
किन्तु बोध्ययोरेव तथाभूतयोरभेद इष्यतां गुणगुणिप्रभृत्योः कथञ्चिदित्यर्थः ।
बुद्धिबोद्धृग इति तु प्रकृताभिप्रायेण ।
यद्वा बोध्ययोरेव सहोपलम्भनियमः संभवति ।
न पुनर्बुद्धिबोद्धध्रोः ।
बुद्धिमन्तरापि बोद्धुः प्रकाशात् स्वापादावित्यर्थः ।।15।।16।।ज्ञानज्ञात्रोरभेदसाधने प्रत्यक्षबाधितत्वमप्याह स्पष्टश्चेति ।
घटमहं जानामीति हि स्फुटो ज्ञेयज्ञातृज्ञानानां भेदप्रतिभासः ।
तद्वाध इत्यर्थः ।
शङ्कते न चेति ।
प्रत्यक्षज्ञानविषयत्वं, ज्ञानविषयत्वं वा प्रतियोगिनः तद्भेदप्रत्यक्षे कारणत्वेनाऽपेक्षितम् ।
प्रकृते संविदो ज्ञानान्तरागोचरत्वेन स्वयंप्रकाशत्वात्तद्भेदप्रत्यक्षं ज्ञातरि न संभवतीति शङ्कितुराशयः ।
परिहति सिद्धिमात्रेणेति ।
प्रतियोगिनः संविदः सिद्धिमात्रेण-प्रकाशमात्रेण, तदुपपत्तौ-संविद्भेदप्रत्यक्षोपपत्तौ, अप्रयोजकत्वेन-प्रत्यक्षदिज्ञानान्तराधीनतत्प्रकाशस्य भेदप्रत्यक्षेऽहेतुत्वेन, तद्विशेष स्य-प्रकाशविशेषस्य प्रत्यक्षादिज्ञानान्तराधीनस्य अनाक्षेपात्-आक्षेपायोगादित्यर्थः ।
अयं भावः- अन्योन्याभावप्रत्यक्षेऽधिकरणस्य प्रत्यक्षमेवापेक्षितम्, प्रतियोगिनः प्रकाशमात्रं च ।
नतु प्रतियोगिनः प्रत्यक्षम् ।
स्तम्भे पिशाचभेदस्याप्रत्यक्षत्वापत्तेः ।
प्रतियोगिनः प्रकृते वेदनस्य प्रकाशस्तु स्वत एवास्ति ।
तत एव वेदितरि तद्भेदप्रत्यक्षे नानुपपत्तिरिति ।
वस्तुतस्तत्तदसाधारणाकार एव इतरतादात्म्यधीविरोधित्वेन तस्य तस्येतरस्माद्भेदरूपः ।
स च प्रतियोग्यनवभासेऽपि भासत एवोत्याह अनवभासमान इति ।
तथा च ज्ञातुरहन्त्वेन भानमेव संविद्भेदग्रहणमिति भावः ।
तद्भिन्नत्वव्यवहारे पुनः प्रतियोगिपरामर्शसहकृतमसाधारणाकारज्ञानं हेतुरिति बोध्यम् ।
सर्वलोकेति ।
एतेन भेदस्य प्रत्यक्षं न संभवति ।
क्षणिकस्य प्रत्यक्षस्य प्रतियोगिग्रहणपूर्वकभेदग्रहणपर्यन्तमनवस्थानात् ।
युगपत्प्रतियोग्यभावाधिकरणग्रहे तु समूहालम्बनवदुपश्लेषविशेषासिद्धिप्रसङ्गात् ।
अतो भ्रमरूप एव भेदग्रह इत्यपास्तम् ।
तत्तदसाधारण धर्मस्यैवेतरभेदरूपत्वात्तस्य च धर्मिणि प्रथमक्षण एव गृहीतेः ।
अत एवापूर्ववस्तुदर्शने विलक्षणोऽयं कश्चन पदार्थ इति भेदप्रतीतिर्लोकसम्मता स्वानुभवसिद्धा च नापह्नवार्हा इति सर्वलोकस्वसाक्षिक मित्युक्तम् ।
शङ्कते ननु जीवत इति ।
शिरसि पदनिधानेन-तिरस्करणेन ।
प्रतिबन्धग्रहणं-व्याप्तिग्रहणम् ।
ततः-भेदप्रत्यक्षतः ।
तद्वाधसम्भवः-अभेदानुमानबाधसंभवः ।
तथासति-प्रत्यक्षस्यानुमानबाधकत्वे ।
अपोद्येत-बाध्येत ।
अयं भावः- भिन्नत्वेन गृह्यमाणयोरेव हि सहोपलम्भनियमोऽभेदव्याप्यत्वेन गृहीतः ।
तेन चाभेदानुमाने प्रत्यक्षे भेदग्रहणांशोभ्रमलक्षण इति निश्चीयते ।
न चोपजीव्यविरोधः ।
प्रत्यक्षसिद्धवस्तुस्वरूपस्य व्याप्तिग्रहोपयोगिनोऽभ्युपगमात् ।
भेदस्य च व्याप्तिग्रहानुपयुक्तत्वादिति ।
परिहरति अविशेषज्ञ इति ।
दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यं न जानासीत्यर्थः ।
तदेवोपपादयति तत्रेति ।
न प्रत्यक्षत्वमनुमानत्वं वा बाध्यत्वे बाधकत्वे वा प्रयोजकम् ।
किन्तु दोषमूलत्वमदोषमूलत्वं चैव तथा ।
तथा च यथा ज्वालाभेदानुमानमदोशमूलं बाधकम्, ज्वालैक्यप्रत्यक्षं तु सादृश्यदोषमूलं बाध्यं भवति; नैवं प्रकृते ज्ञातृज्ञेयज्ञानभेदग्रहस्य दोषमूलत्वमिति समुदिताशयः ।
ज्वालैक्यप्रत्यक्षे क्लृप्तकारणदोषानुवृत्तिमुपपादयति तथाहीत्यादिना ।
अचिरप्रशमितत्वपुनरुद्दीपितत्वोक्त्या ज्वालयोर्वास्तवभेदो ज्ञाप्यते ।
तददर्शनमेकवर्तिवृत्तित्वज्ञानं चैक्यभ्रमे तयोर्हेतुरित्युक्तं भवति ।
निर्वापणपुनरुद्दीपनद्रष्टुश्च ज्वालयोर्भेदप्र्त्यक्षं वर्तत इति तेन बाधितत्वमपि निर्वापणाद्यद्रष्टृनिष्ठ ज्वालयोक्यप्रत्यक्षे विव क्षितम् ।
निरुक्तंभ्रमहेतुमनिर्वापितस्थलेप्युपपादयति अत इति ।
तैलवर्त्यवयवाग्निसंयोगस्य दीपहेतोरन्यान्यतया ज्वालाभेदोऽङ्गीकार्योऽनिर्वापणस्थलेऽपि ।
कारणधारानुवृत्तिबलाच्च कार्यधारानुवृत्तिः ।
पूर्वपूर्वज्वालायास्तु कारणनिवृत्त्या निवृत्तिरेव ।
तद्धेतुर्हि तैलवर्त्यवयविशेषाग्निसंयोगः ।
अग्नेराश्रयाशित्वाद्वर्त्यवयवविशेषनाशे तदग्निसंयोगस्य नाशो ह्यावश्यकः ।
एवं पूर्वोत्तरदीपज्वालयोर्भेदे सिद्धे सजातीयदीपधारायां भेदाग्रहात्सादृश्यरूपदोषदर्शनाच्चैक्यभ्रम इति भावः ।
नानाभूते ऐक्यभ्रमं प्रत्यक्षरूपमुदाहृत्यैकस्मिन्नानात्वभ्रममपि प्रत्यक्षरूपमुदाहरति तथैकेति ।
स्वाभाविकचाक्षुषरश्मिप्रसरणस्य विपर्ययो द्वैतीभावोऽङ्गुल्यवष्टम्भादिप्रयुक्तश्चन्द्रद्वित्वभ्रमे दोषः ।
अस्य च निर्दोषपुरुषीयचन्द्रैक्यप्रत्यक्षबाधितत्वं समसमयेत्यादिनोच्यते ।
दृष्टान्तितात् दार्ष्टान्तिके वैषम्यमुपपादयति न चैवमिति ।
ज्ञातृज्ञानज्ञेयभेदनिरूपितलौकिकविषयिताशाली घटमहं जानामीति साक्षात्कारः दोषमूलः, अभेदप्रत्यक्षबाधितो वा नैव दृश्यते ।
तदभेदानुमानबाधकत्वं सुस्थितमिति भावः ।
विपरीतं कस्मान्न भवतीत्यत्राह न चोपलब्धीति ।
तथात्वं-ज्ञानाभिन्नत्वं ज्ञातृज्ञेययोः ।
पूर्वोक्तमप्रयोजकत्वं स्मारयति विपक्ष इति ।
विपक्षे बाधकतर्कविरहाद्व्याप्त्यसिद्ध्याऽसिद्धमभेदानुमानं न ज्ञानज्ञातृज्ञेयभेदप्रत्यक्षे बाधकत्वेन शक्यशङ्कमिति भावः ।
ज्ञानादिभेदग्रह इन्द्रियवृत्तिप्रसृतिभेदरूपदोषमूलो भवेदित्यत्राह अनैन्द्रियिकत्वेनेति ।
बाह्येन्द्रियाग्राह्यत्वेन ज्ञानज्ञात्रोस्तद्भेदग्रहस्य नेन्द्रियवृत्तिभेदप्रयुक्तत्वं संभवतीत्यर्थः ।
अत्र बाधकप्रत्ययोऽपि नास्ति चन्द्रद्वित्वभ्रम इवेत्याह योग्यानुपलम्भेति ।
न चैवमिहेति वाक्याभिप्रेतमनेन वाक्यद्वयेन विवृतम् ।
संविदधीनेतिवाक्योक्तं प्रपञ्चयति अपि चेति ।
तथानियमः-संविदा सहोपलम्भनियमः ।
अवर्जनीयः-अभेदस्याऽनुपगमेऽपि दुर्वारः ।
ननु संविदमन्तरापि विषयादिः सिध्यत्वित्यत्राह न च भेदोऽपीति ।
भेदः-ग्राह्यग्राहकभेदः ।
सिद्धिं-ज्ञानम् ।
अपसिद्धान्तश्चैवं कथन इति भावः ।
यद्वा सहोपलम्भनियमस्याभेदसाधकत्वे स्वव्याघातमप्याह न च भेदोपीति ।
भेदप्रतिभासोऽपि संविदैव वाच्य इति निरुक्तहेतोर्भेदस्यापि संविदभेदे भेदघटितो हेतुरपि न सिध्येदिति यावत् ।
यद्वा भवदभिमतः संविदां भेदोपि न सिध्येदिति भावः ।।एवं प्रकटसौगताभिमतं संविदभेदसाधकं सहोपलम्भनियमं प्रदूष्य प्रच्छन्नसौगताभिमतं प्रकाशस्वभावत्वमपि दूषयति अप्रकाशेति ।
अप्रकाशात्मनः-अप्रकाशस्वभावस्य ज्ञानभिन्नस्य च ।
अनेन ज्ञेयस्य ज्ञानाभेदानुमाने प्रत्यक्षबाधो, हेतोः पक्षेऽसिद्धिश्च प्रादर्शिषाताम् ।
यद्यपि जडत्वान्न प्रकाशस्वभावत्वं ज्ञेयस्य, अथाऽपि स्वयंप्रकाशज्ञानसंबन्धात्कादाचित्कप्रकाशो घटते घटादेरिति भावः ।
ज्ञाता ज्ञानाभिन्नः प्रकाशस्वभावत्वादित्यत्र तु हेतुरुपगम्यते, न साध्यमित्याह न च तावतेति ।
ज्ञानत्वं- विषयप्रकाशकधीत्वम् ।
ज्ञाधात्वर्थस्य हि कर्तृधर्मत्वं ज्ञानस्य ।
आत्मनस्तु धर्मित्वान्न तथात्वमिति भावः ।
ज्ञानस्वभावं तावदाह परतन्त्रमिति ।
प्रकारतैकस्वभावत्वं, कादाचित्कत्वं, विषयावगाहित्वं चेति ज्ञानधर्माः ।
अवतिष्ठमानम्-अनुवर्तमानं धारारूपतया ।
धारावाहिकविज्ञानमेकं ज्ञानं मतं हि नः इति पक्षे तु स्वरूपत एवानुवर्तमानं यावद्विषयान्तरसंचारमिति विवेकः ।
आत्मस्वभावमाह आत्मेति ।
धर्मित्वं ज्ञातृत्वमहन्त्वेन भानं चात्मनो धर्माः ।
नन्वेवं ज्ञानभिन्नत्वे आत्मनो ज्ञानमिति व्यपदेशः कथं घटत इत्यत्राह यदीति ।
अनन्यत्-स्वम् ।
आत्मनि ज्ञानशब्दो ज्ञानसादृश्यात् ।
तच्च स्वाधीनप्रकाशत्वरूपं स्वयंप्रकाशत्वं स्वनिरूपितविषयतावत्त्वतादात्म्योभयसंबन्धेन किञ्चिद्विशिष्टत्वलक्षणमिति भावः ।
तथापीति ।
ज्ञानशब्देनाभिलप्यमानमात्मस्वरूपं ज्ञानतुल्यमेव, न तु ज्ञाप्तिमात्रतया मुख्यं ज्ञानमित्यर्थः ।
यद्वा ज्ञानायतनमेव मन्तव्यं नतु ज्ञप्तिमात्रतयेति ।
मन्तव्यमिति शेषः ।
ततश्च ज्ञातुरात्मनो ज्ञानाभेदानुमानं पराभिमतं प्रबलप्रत्यक्षबाधितमिति भावः ।
प्रत्यक्षतर्कसिद्धमात्मनो ज्ञातृत्वमागमतोऽपि प्रतिष्ठापयति अत एवेति ।
अथेत्यादिवाक्यं ज्ञात्रहमर्थात्मत्वपरम् ।
योऽयमिति ऐन्द्रियिकज्ञानप्रचुरस्येन्द्रियाधिष्ठातुरात्मनो हृदयान्तःस्थत्वस्वप्रकाशत्वपरम् ।
इन्द्रियादिप्रवृत्त्यनुगुणसङ्कल्पप्रयत्नवत्त्वरूपाधिष्ठानलभ्यं कर्तृत्वं, ज्ञातृत्वं च स्वयंप्रकाशत्वाज्ज्ञानशब्दितस्यात्मनः प्रतिपादयद्वाक्यम् एष हीत्यादि ।
मुमुक्षुभिर्ज्ञेयमात्मस्वरूपं ज्ञातृत्वविशिष्टमिति प्रतिपादयद्वाक्यं विज्ञातारमिति ।
विज्ञातृजीवात्मशरीरकं परमात्मानमित्यर्थः ।
मुक्तौ ज्ञानवत्त्वपरं न पश्यः इति ।
पश्यः-सर्वदर्शी मुक्तात्मा ।
मुक्तिदशायां ज्ञानाभावश्रुतिर्हेयदर्शनाभावपरेति न पश्यइत्यादि व्यवस्थापयति ।
दुःखतां-कुत्रापि वस्तुनि प्रतिकूलत्वम् ।
भगवद्विभूतितया हि सर्वस्य स्वानुकूलत्वेन दर्शनं तदा ।
सर्वं ह पश्यः पश्यति इत्युत्तरर्धमप्यत्रोदाहार्यम् ।
एतद्विवरणरूपं स उत्तम इत्यादि ।
स तत्र पर्येतीत्यादि नोपजनं स्मरन् इत्यन्तमत्रोदाहार्यत् ।
कलाषोडशकस्य निवृत्तावपिमुक्तौ स्वरूपनिरूपकधर्मभूतज्ञानानिवृत्तिपरम् एवमेवेति ।
ज्ञानवत्त्वेनात्मनो देहेन्द्रियमनप्राणविज्ञानवैलक्षण्यपरं च तस्माद्वेतीति विवेकः ।
एवं ज्ञातृत्वमात्मनो व्यवस्थाप्य परमात्मनोऽपि तद्व्यवस्थापयति सत्यमिति ।
तद्वद्वचनः-ज्ञानवद्वाची ।
तद्वचनत्वे-ज्ञानवाचित्वे ।
ज्ञानवाची भावल्युडन्तो ज्ञानशब्दो लित्स्वरेणाद्युदात्तो भवेत् ।
अयं तु अन्तोदात्तः ।
तदच्प्रत्ययान्तोऽयं ज्ञातृवाची स्वीकार्य इति भावः ।
ऐतरेयेति ।
प्रकरणबलात् प्रज्ञानशब्दः प्रज्ञानवत्पर इति भावः ।
प्राज्ञेन-प्रज्ञ एव प्राज्ञः ।
स्वार्थेऽण् ।
तेन ।
सर्वज्ञेन परमात्मनेत्यर्थः ।
देहेन्द्रियमनः प्राणधीभ्योऽन्य इति प्रतिज्ञातात्मस्वरूपनिरूपणमुपसंहरति तत्सिद्धमिति ।। अथ अनन्यसाधन इति प्रतिज्ञातं स्वयंप्रकाशत्वमात्मनः समर्थयितुं प्रमाणपरीक्षामुपक्रमते किं पुनरित्यादिना ।
अनुमानमिति ।
यद्यप्यहं जानामीति प्रत्यक्षमेव तत्र प्रमाणं सम्भवति ।
तस्य देहादिविषयत्वायोगात् ।
अथापि विलक्षणात्मविषयत्वं प्रत्यक्षस्येदं प्रमाणमत्रैवं प्रवर्तितुमर्हतीत्येवं सामग्रीनिरूपणाद्यात्मकेन तर्केणैव व्यवस्थाप्यमित्याशयः ।
यदाहेति ।
इच्छादि विलक्षणात्मनोऽनुमापकं यदाह, अतोऽनुमानमेव प्रमाणं तत्रेत्यक्षपादाशयो विज्ञायत इत्याशयः ।
चोदयति किममीषामिति ।
धूमध्वजः-अग्निः ।
अयं भावः- व्याप्तिग्रहस्य सहचारदर्शनमूलकत्वेन विलक्षणात्मना सहचारदर्शने इच्छादीनां प्रत्यक्षेणैव तस्य सिद्धेः कृतमनुमानेन ।
सहचारादर्शने च कथं तेन व्याप्तिर्गृह्येत ।
अगृहीतव्याप्तिकेन चेच्छादिना कथन्तरां तदनुमानमिति ।
परिहरति माभूदित्यादिना ।
सिषाधयिषित- साध्यविशेषेणेच्छादिविशेषस्य सहचारग्रहो मास्तु ।
आश्रयित्वगुणत्वाभ्यां सहचारदर्शनादेवात्मानुमानं प्रवर्तते ।
एतच्च सामान्यतो दृष्टमिति भावः ।
एतदेवोपपादयति तथाहीति ।
कार्यत्वम्-उत्पत्तिमत्त्वम् ।
अनित्यत्वं-विनाशित्वम् ।
गुणत्वं-गुणत्वजातिमत्त्वम्, विशेषणतैकस्वभावत्वं वा ।
एतानि व्याप्यान्याश्रितत्वस्य ।
इच्छादय आश्रितागुणत्वाद्रूपवदित्यनुमानमत्र विवक्षितम् ।
अत्र हेतुं साधयति गुणत्वं चेति ।
पदार्थत्वेन द्रव्याद्यन्यतमत्वे प्राप्ते द्रव्यादिभेदकानुमानतो द्रव्यत्वादिव्युदासे द्रव्यादिभेदविशिष्टं पदार्थत्वमेव परिशिष्यमाणं गुणत्वं व्यवस्थापयतीत्यर्थः ।
इतरभेदानुमानान्याह न सामान्येति ।
अभावभेदसाधनेऽनित्यत्वमुत्पत्तिविनाशवत्त्वरूपं वाच्यम् ।
नातः प्रागभावे प्रध्वंसे वा व्यभिचारः ।
व्यापकेति ।
विभुसमवेतत्वादित्यर्थः ।
नैयायिकमतेनायं हेतुः सिद्धः ।
न कर्म, संयोगविभागयोरनपेक्षकारणत्वाभावात्, न द्रव्यं असंयोगित्वादिति वा हेतुर्वाच्यः ।
गुणत्वं प्रसाध्य विशेषगुणत्वं प्रसाधयति विशेषेति।
रूपत्वादौ व्यभि चारस्य वारणायाऽनित्यत्वे सतीति ।
संयोगादौ तद्वारणाय विशेष्यदलम् ।
एवमपि प्रभायां व्यभिचारः स्यात्, चक्षुर्मात्रग्राह्यत्वात्तस्याः ।
अतो गुणत्वे सतीति वाच्यम् ।
एवमपि प्रभाभित्तिसंयोगे तत्प्रसङ्गः ।
अत एकोन्द्रियमात्रग्राह्यजातिमत्त्वं विशेष्यं वक्तव्यम् ।
एवं चाऽनित्यत्वविशेषणस्य वैयर्थ्यम् ।
गुणत्वदलस्यापि ।
प्रभात्वजातौ मानाभावात्, तेजस्त्वादेश्च द्वीन्द्रियग्राह्यत्वात् ।
परंतु प्रभात्वजातेः प्रामाणिकत्वे वायोः स्पार्शनोपगमे वा गुणत्वदलमावश्यकमेवेति बोध्यम् ।
योगिनां मनसाऽपि रूपादेर्ग्रहादस्मदादीति विशेषणम् अयोग्यभिप्रायम् ।
सामान्यतो- दृष्टानुमानस्याश्रयविशेषपर्यवसानसिद्धये परिशेषानुमानान्याह एवमिति ।
प्रत्याचक्षाणैः-प्रतिक्षिपद्भिः ।
सामान्यतोदृष्टमन्वय्यनुमानमेवेतरभेदानुमानसहकृतं विशेषानुमापकमित्येकः पक्षः ।
सामान्यतोदृष्टेतरभेदानुमानतोऽग्रे प्रसिध्यन् विशिष्टहेतुः केवलव्यतिरेकिरूपस्तथेति चापरः ।
अनेन च वाक्येनाद्यः पक्षः स्फोर्यते ।
ये भूतगुणा इति ।
अत्र योग्या इत्यप्यनुसन्धेयम् ।
व्यतिरेक्युपनयनिगमने न तथेति ।
दिक्कालेति ।
इच्छादयो न दिक्कालमनोगुणाः, विशेषगुणत्वात्, प्रत्यक्षत्वाद्वा; ये पुनर्दिगादिगुणाः सङ्ख्यादयः, न ते प्रत्यक्षा, विशेषगुणा वा ।
अकारणेति ।
अनुक्रष्टव्याः-अनुकर्षणीयाः ।
नानानुमानफलितं सामान्यप्रयोगमाह तेनेति ।
पक्षान्तरमपि प्रतिपादयति विमतिपदेति ।
विमतिपदम्-विप्रतिपत्तेः स्थानम्-निमित्तं-नानावादः, तदास्पदेभ्यः- तद्विषयेभ्य इत्यर्थः ।
अत्रायं प्रयोगः-इच्छादयः तदाश्रयत्वेन विप्रतिपन्नशरीरादिव्यतिरिक्तगुणाः तद्गुणत्वबाधकप्रमाणविषयगुणत्वादिति ।
उदाहरणं चेति ।
व्यतिरेकीत्यादिः ।
प्रसिद्धद्रव्यभिन्नस्याद्रव्यस्य प्रसिद्धावपि तद्गुणत्वस्याऽप्रसिद्ध्या नान्वय्युदाहरणं सम्भवति ।
न चैवंसाध्यव्यतिरेकस्याप्यनुमानात्पूर्वमप्रसिद्ध्या व्यतिरेक्युदाहरणं वा कथं घटत इति वाच्यम् ।
प्रसिद्धद्रव्यव्यतिरिक्तसमवेतत्वस्यैव साध्यत्वात् तद्व्यतिरेकस्य रूपादौ प्रसिद्धिसम्भवाच्चेति हृदयम् ।
अन्वयव्याप्तिर्वा सामान्यमुखी सम्भवतीत्याह सामान्यतो वेति ।
विलक्षणशब्दाश्रयसिद्ध्युपजीवनेनेदम् ।
तदनुमाने च गन्धाद्यन्तर्भावेण व्याप्तिग्रहणमिति भावः ।
एवं च केवलव्यतिरेक्यनुपगमेऽपि न क्षतिरिति ध्येयम् ।
नैयायिकाभिमतां विलक्षणात्मसिद्धिमानुमानिकीं प्रतिक्षिपन्ति श्रोत्रियाः इदमपीति ।
अन्वयिनाऽश्रयमात्रस्य सिद्धावपि केवलव्यतिरेकिणाऽऽश्रयविशेषः सेत्स्यतीत्यत्राह केवलेति ।
साधनदशाम्-अनुमापकत्वावस्थाम्, नासादयति न प्राप्तोति, सपक्षान्वयविरहात्-साध्येन सहचारदर्शनस्थलसम्बन्धाभावादित्यर्थः ।
असाधारणवदिति ।
पक्षमात्रवृत्तिहेतोरसाधारणस्य साध्यसहचारग्रहविरहादगृहीतव्याप्तिकस्य यथा न गमकत्वम्, एवं केवलव्यतिरेकिणोऽपि व्याप्तिग्रहायोगात् न गमकत्वमिति भावः ।
ननु सति सपक्षे हेतोरवृत्तेरसाधारणस्य सदोषत्वम् ।
केवलव्यतिरेकिणि तु सपक्षस्यैव विरहान्न दोष इति चेत्; मैवम्; केवलव्यतिरेकिणि साध्यस्य प्रसिद्धिरस्ति न वाऽनुमानात्पूर्वम् ।
अस्ति चेद्यत्र प्रसिद्धिः तत्र हेतोः सत्त्वेऽन्वयित्वम्, असत्त्वे तु असाधारणत्वमेव ।
नास्ति चेत् साध्यव्यतिरेकस्याप्यप्रसिद्धेः केवलव्यतिरेकित्वमपि दुर्घटमिति दिक् ।
विस्तरस्तु न्यायपरिशुद्ध्यादावनुसन्धेयः ।
शङ्कते न चैवमिति ।
विपक्षव्यतिरेकः-विपक्षासत्त्वम् ।
साधारणवत्-पक्षत्रयवृत्तिहेतुवत् ।
साधारणे यथा विपक्षेसत्त्वाद्धेतोरसाधकत्वम्, केवलान्वयिन्यपि विपक्षस्यैवाप्रसिद्धेः तत्सत्त्वाभावस्याप्यप्रसिद्धेस्तथाऽगमकत्वं स्यादित्यर्थः ।
अन्वयव्यतिरेकिणि उभयविधसहचारदर्शनाद्व्याप्तिग्रहस्य दृष्टेः साध्यहेत्वो सहचारादर्शनात्केवलव्यतिरेकिणोऽसाधकत्वं चेदभिमतम्, तर्हि साध्याभावसाधनाभावयोः सहचारादर्शनात्केवलान्वयिनोऽप्यसाधकत्वं स्यादिति चाकूतम् ।
परिहरति देशकालादीति ।
कस्मिंश्चिद्देशे काले वा हेतुः साध्यमन्तरापि प्रयोजकान्तरात् स्यादिति देशकालविशेषान्तर्भावेण शङ्कितोपाधेरनुकूलतर्केण निवर्तने सति साध्यहेत्वोः सहचारदर्शनमात्रतोऽपि अन्वयव्याप्तिर्निश्चीयत इत्यर्थः ।
अपिर्भिन्नक्रमः ।
अन्वयदर्शनेनेत्यनन्तरंयोज्यः ।
साध्यान्वितस्वभावतया-साध्यव्याप्यतया ।
व्यतिरेकव्याप्तिग्रह एव व्यतिरेकसहचारग्रहस्यापेक्षया केवलान्वयिनि अन्वयव्याप्तिग्रहस्य व्यतिरेकाप्रसिद्धावपि नानुपपत्तिरिति च भावः ।
विपक्षसत्त्क्स्यैवाऽप्रसिद्ध्यैव रूपपञ्चकसम्पत्तिः केवलान्वयिन इति चाशयः सिद्धान्तिनाम् ।
नन्वेवं साध्यसाधनव्यतिरेकयोः सहचारदर्शनत एव व्यतिरेकव्याप्तिग्रह उपपद्यत इति शङ्कते न च साधनाभाव इति ।
साध्यान्वितस्वभावत्वम्-साधनस्य साध्यनिरूपितव्यतिरेकव्याप्तिमत्त्वं साध्याभावव्यापकाभावप्रतियोगित्वलक्षणम् ।
व्याप्तिनिश्चयायोगे हेतुमाह अभावस्येति ।
व्यतिरेकिणोः साध्यसाधनयोरधिकरणपेक्षया तदभावाधिकरणानामानन्त्यात् कलयांऽशेन क्कचिदपि साध्याभाववति हेतोर्वृत्तौ व्यतिरेकसाहचर्यनियमलक्षणव्यतिरेकव्याप्तेरसम्भवादित्यर्थः ।
व्यतिरेकिसाध्यसाधनवतः परिमितत्वेन क्वचित्कार्त्स्न्येन ग्रहणमपि सम्भवेदिति च हार्दम् ।
ननु यावत्सु प्रत्यक्षेष्वधिकरणेषु व्यतिरेकयोः सहचारदर्शनत एव व्याप्तिर्निश्चीयेतेत्यत्राह सन्देहेति ।
व्यतिरेकव्याप्तिर्हि साध्याभावे हेत्वभावव्याप्तिगर्भिता ।
साध्याभावोऽस्तु, हेत्वभावो मास्त्विति शङ्कायां च न साधनाभावव्याप्यत्वं साध्याभावे गृह्येतानुकूलतर्कविरहे ।
साध्यस्या साधननीमित्तत्वसाधननियतस्वभावत्वाद्यन्यथानुपपत्तिलक्षणतर्कबलाच्छङ्कानिवारणं च साध्यसाधनयोः सहचारदर्शनमूलहेतुहेतुमद्भावाद्यवधारणमन्तरा न घटत इति केवलव्यतिरेक्यसिद्धिरिति च हार्दम् ।
विशिष्टहेतुना पृथिव्यादिव्यतिरिक्तगुणत्वानुमाने च साध्याप्रसिद्धिमाह पृथिव्यादिभ्य इति ।
अर्थान्तरस्य गुणादेः प्रसिद्धावपि तद्वृत्तिगुणत्वलक्षणं साध्यमप्रसिद्धमेव ।
न च पृथिव्याद्यर्थान्तरसमेवतत्वमेव साध्यते ।
तच्च रूपत्वादौ प्रसिद्धमेवेति वाच्यम् ।
निरुक्तसमवेतत्वस्य गुणक्रियाभिन्न एव प्रसिद्धेर्गुणे ज्ञानादौ तत्साधनायोगः ।
अर्थान्तरद्रव्यसमवेतत्वं चानुमानात्प्रागप्रसिद्धमेवेति हार्दम् ।
नैयायिकोक्तात्मानुमानदूषणानि साङ्ख्योक्तात्मानुमानेष्वप्यतिदिशति एतेनेति ।
तथा चेति ।
विलक्षणात्मसाधकत्वेन साङ्ख्याभिमतानेव हेतून् प्रथमं विवृणुमहे शिष्यवैशद्याय क्षेपसौकर्याय चेति भावः ।
सङ्घातपरार्थत्वादित्यादिः साङ्ख्यकारिका ।
एनां व्याख्याति अयमर्थ इत्यादिना ।
शरणं गृहम् ।
सङ्घातत्वम्-अवयवसमुदायात्मकत्वम् ।
भूतानां-पञ्चानांमहाभूतानाम् ।
अव्यक्तेति ।
सुखदुःखमोहात्मत्वं सुखादिस्वरूपत्वम्, सुखादिजनकत्वरूपं वा ।
तेनतथात्वं-सत्त्वरजस्तमोरूपगुणत्रयसङ्घातात्मकत्वम् अनुमेयं कार्यरूपेण शरीरादिवदेवेत्यर्थः ।
सङ्घातत्वहेतोर्विरुद्धत्वं शङ्कते न चेन्द्रियाणामिति ।
उभयविशेषविरुद्धत्वम्-पक्षसाध्ययोरभिमतविशेषविरुद्धाकारापादकत्वम् ।
अनाहङ्कारिकत्वेन सङ्घातत्वस्य भूतभौतिकेषु, संहतपरार्थत्वेन च गेहशय्यादिषु भूयःसहचारदृष्टेर्व्याप्तेर्गृहीततया पक्षान्तर्गतेन्द्रियाणामभिमताहङ्कारिकत्वविरुद्धस्यानाहङ्कारिकत्वस्य, साध्यघटकस्य च परस्याऽभिमतासंहतत्वविरुद्धस्य संहतत्वस्याऽऽपादकत्वाद्विरुद्धत्वं सङ्घातत्वहेतोरिति भावः ।
हेतोरुभयविशेषविरुद्धत्वं च नेत्यन्वयः ।
अविरुद्धत्वमुपपादयति अहङ्कारेत्यादिना ।
अहङ्कारवृत्तौ सत्यामेवेन्द्रियाणां मनःपर्यन्तानां वृत्तेर्दर्शनात्तदभावे च स्वापेऽदर्शनादाहङ्कारिकत्वं तेषामवसीयते ।
तत्रापि सत्त्वंकार्यलाघवप्रकाशयोगात्सात्विकाहङ्कारकार्यत्वमिति भावः ।
आगमश्च देवा वैकारिका दश, एकादशं मनश्चेति स्मृतिरूपः ।
देवाः-इन्द्रियाणि प्रकाशयोगाद्देवाधिष्ठितत्वाद्वा ।
वैकारिकस्य सात्त्विकाहङ्कारस्येमे कार्यभूता इति वैकारिकाः ।
अपवादानुपपत्तेः-बाधनानुपपत्तेः ।
सङ्घातत्वस्याऽनुहङ्कारिकत्वेन न व्याप्तिः ।
त्रैगुण्यात्मकस्येन्द्रियजातस्याऽऽहङ्कारिकत्वेन प्रमाणप्रतिपन्नत्वेनानैकान्त्यादिति भावः ।
पक्षविशेषविरुद्धत्वं परिहृत्यसाध्यविशेषविरुद्धत्वं परिहरति आत्मनस्त्विति ।
अप्रयोजकत्वाच्चेति ।
असंहतस्याप्यात्मनश्चेतनत्वादेव भोक्तृत्वस्योपपत्तेः भोक्तत्वलक्षणे परत्वे प्राधान्ये सङ्घातत्वस्याप्रयोजकत्वमिति भावः ।
यदि सङ्घातत्वस्य परत्वे प्रयोजकत्वं स्यात्तर्हि संहतपरार्थत्वेन व्याप्तिः सम्भवेन्नाम सङ्घातत्वस्य ।
व्याप्तिबलादनेकसङ्घातकल्पनाऽपि सोढव्या भवेत् ।
न चैवम् ।
तथा च संहतपरार्थत्वे सङ्घातत्वस्य व्याप्यत्वासिद्धत्वमिति हार्दम् ।
सङ्घातपरत्वेनानुमितस्यात्मनः सङ्घातत्वं योग्यानुपलब्धिबाधितञ्चेति बोध्यम् ।
सङ्घातत्वस्य परार्थत्वेन व्याप्तिस्तु प्रमाणान्तरविरोधाभावात्प्रसेत्स्यतीत्याह न च प्रमाणान्तरेति ।
सङ्घातपरार्थत्वानुमानेनात्मासिद्धिं निगमयति एवं चेति ।
सङ्घातत्वव्यापकपरार्थत्ववत्सत्त्वादिगुणत्रयतत्कार्यरहित इति संहतत्वेत्यादेरर्थः ।
परस्य संहतत्वेऽनवस्थाप्रसक्तेः त्रैगुण्यविपर्ययः अत्रैगुण्यात्मकत्वरूपो मन्तव्य इत्युक्तम् असंहत इति ।
त्रिगुणादिविपर्ययादित्यन्तः कारिकांशो विवृतः ।
अथाऽधिष्ठानादित्यंशं विवृणोति तथा देहादय इति ।
सुखदुःखमोहात्मकतया-सुखाद्यात्मकसत्त्वादिसङ्घातरूपतया ।
परेण-स्वभिन्नेन चेतनेन ।
अधिष्ठीयन्ते-कार्यानुगुणतया प्रेर्यन्ते ।
यन्त्रादिभिः सारथिप्रभृतिभिः ।
भोक्तृभावादित्येतद्विवृणोति अपि चानुकूलेति ।
अनुकूलनीयः-अनुकूलबुद्धिभाक् ।
अनुकूलवेदनीयः-अनुकूलत्वप्रकारकबुद्धिविषयः ।
एवं प्रतिकूलनीयप्रतिकूलवेदनीयावूह्यौ ।
भ्रातृव्यः-शत्रुः ।
भोक्तृभावादित्यस्य द्रष्टृत्वपरतया योजनान्तरं दृश्यत्वादिति ।
अधिष्ठातुरित्यादि ।
सङ्घातप्रवृत्तेरधिष्ठात्रन्तराधीनतयाऽधिष्ठातुः सङ्घातत्वे तत्प्रवृत्तेरप्यधिष्ठात्रन्तराधीनत्वं स्यात्, एवमग्रेऽपीत्यनवस्थाप्रसङ्गादधिष्ठातुरसङ्घातत्वमेष्टव्यम् ।
एवं सुखेनाऽनुकूलनीयस्य दुःखेन प्रतिकूलनीयस्य वा भोक्तुः त्रिगुणत्वे तस्यापि अनुकूलप्रतिकूलवेदनीयत्वस्य प्राप्तेरनुकूलनीयप्रतिकूलनीयान्तरापादकत्वादनवस्थाप्रसङ्ग इत्यत्रिगुणत्वमेष्टव्यम् ।
देहादिपक्षकविलक्षणद्रष्ट्रनुमानेन चात्मनो देहादिवैलक्षण्यमपि सिद्धमिति भावः ।
कैवल्यार्थं प्रवृत्तेश्चेत्यंशं विवृणोति तथा देहादेरिति ।
अत्रायं प्रयोगः-कैवल्यसाधनप्रवृत्तिः कैवल्यदशाप्राप्तियोग्यात्मतत्त्वज्ञानपूर्विका,कैवल्यसाधनप्रवृत्तित्वात्, या या फलविशेषसाधनप्रेक्षावत्प्रवृत्तिः सा सा तत्तत्फलप्राप्तियोग्यात्मतत्त्वज्ञानपूर्विका, यथा स्वर्गसाधनप्रवृत्तिरिति ।
देहादेः प्रधानपर्यन्तस्य परिणामस्वभावस्य त्रिगुणस्य कैवल्यानुपपत्तिज्ञानाच्च विलक्षणात्मसिद्धिरिति भावः ।। विलक्षणात्मसाधकतया साङ्ख्यैरुपक्षिप्तं सङ्घातपरार्थत्वानुमानं तावद्दूषयति अत्रापीत्यादिना ।
परापरेति ।
अन्याऽन्येत्यर्थः ।
पूर्वापरीभूतेति वा ।
परापरसङ्घातेति वा समस्तपाठः स्यात् ।
कार्यतयेवेति ।
कार्यात्कारणमनुमेयम् ।
कारणस्यापि कादाचित्कत्वेन कार्यत्वात्तत्कारणमप्यन्यत्, एवमुपर्युपरीति कारणपरम्पराकल्पना यथा प्रामाणिकी न दोषाय, एवमविनाभावबलादापतन्तीसङ्घातपरम्पराकल्पनाऽपीति भावः ।
ननु सङ्घातत्वस्य भोक्तृत्वलक्षणेपरत्वेऽहेतुत्वान्न सङ्घातपरार्थत्वेन सङ्घातत्वस्य व्याप्तिग्रह इत्यत्राऽऽह न चेति ।
सङ्घातपरत्वंतदधीनातिशयभाजि सम्भवेत् ।
तदधीनातिशयश्चासंहते निर्लेपे निर्विकारऽत एवातिशयाधानानर्हे साङ्ख्याभिमतेपुरुषे न सम्भवतीति संहतस्यैव कस्यचित्सङ्घातशेषिणोऽनुमानेन सिद्धिर्नासंहतस्य साङ्ख्यमतपुरुषस्येति भावः ।
भोगरूपोऽप्यतिशयो न साङ्ख्यपुरुषस्य सम्भवेदिति हार्दम् ।
एतेन पुरुषोऽस्ति भोक्तृभावादित्यपि परास्तम् ।
दृश्यते च खट्वादेः शरीरार्थत्वम्, शरीरस्य च शरीरान्तरार्थत्वम् ।
अतस्तदधीनातिशयभाक्त्वरूपे तत्परत्वे सङ्घातत्वस्य प्रयोजकत्वेन तदवच्छिन्नपरार्थत्वेन व्याप्तिग्रहः सम्भवत्येवेति चाभिमतम् ।
तद्धीति ।
यद्येनोपक्रियते क्रियते वा तत्तस्य शेषि प्रधानमङ्गि भवति, यत्तूपकरोति करोति वा तत्तदर्थं तच्छेषः तदङ्गमित्यन्वयार्थः ।
उपक्रियते-अतिशयवान् क्रियते, स्त्रकूचन्दनादिनेव देहादिः, प्रयाजादिनेव च यागादिः ।
क्रियते-निष्पाद्यते, दण्डादिनेव घटादिः, पुरोडाशादिनेव च यागादिः ।
तत्र उपक्रियमाणं क्रियमाणं वा अङ्गि, उपकारकं कारकं वा अङ्गमिति विवेकः ।
न च तथेति ।
तथा-अतिशयाधानार्हः ।
साङ्ख्यपुरुषः-कापिलाभिमत आत्मा ।
नन्वनुपकार्यत्वेऽप्यात्मन एतैरुपकृतोऽहमित्युपकृतत्वभ्रमलक्षण एवोपकारो देहादिभिः साध्य इति तत्परत्वमुपपद्यत इति चेत्तत्राह अपि चेति ।
चितिशक्तेः-चैतन्यस्वरूपस्य पुरुषस्य ।
शक्तिशक्तिमतोरभेदाभिप्रायेणैवमुक्तिः ।
बुद्ध्यपरपरिभाषाभिधानम्-बुद्धिरित्यपरं स्वीयतन्त्रसङ्केतितं यस्य नाम तदित्यर्थः ।
न भ्राम्यतीति ।
अन्तःकरणं न भ्रमाश्रयोऽचेतनत्वाद्धटादिवदिति यावत् ।
अचिदपीति ।
अचेतनमपि चैतन्यप्रतिबिम्बाश्रयतया चेतनवद्भातीत्यर्थः ।
चिच्चेतनशब्दौ स्वयम्प्रकाशाभिप्रायावत्र ।
नीरूपाया इति ।
छायायाः कान्तिलक्षणाया उज्जवलरूपवद्धर्मभूताया नीरूपे चैतन्येऽसम्भवान्नीरूपे चान्तःकरणे तत्प्रतिफलनलक्षणसङ्क्रान्तेरयोगादित्यर्थः ।
रूपवत्येव हि स्फटिकादौ जपाकुसुमलोहितादिप्रतिफलनं दृष्टमिति भावः ।
शङ्कते छायेवेति ।
न छायाशब्देन मुख्या कान्तिर्विवक्षिता ।
अपि तु सादृश्यम् ।
चित्सादृश्यापत्तिश्चेतनायमानत्वमिति चेदित्यर्थः ।
प्रतिवक्ति कः खल्विति ।
सादृश्यं केनाकारेणेत्यर्थः ।
अत्राऽऽह चितिसरूपत्वमिति ।
वृत्तिपरिणामसामान्याभाववत्त्वेन सादृश्यमित्यर्थः ।
दूषयति हन्तैवमिति ।
भ्रमादयो हि वृत्तयोऽन्तःकरणस्य निर्वृत्तिकत्वे नोपपद्यन्त इत्यर्थः ।
भ्रमोपपादनार्थं हि परिष्क्रियते चेतनायमानत्वम्, तच्चेन्निर्वृत्तिकत्वरूपम्, नैव प्रसङ्गो भ्रमाद्युदयस्य, तथा च यदर्थमयमारम्भः तत्कार्यमवसादितमिति भावः ।
प्रकारान्तरं शङ्कते चेतनत्वेनेति ।
ज्ञातृत्वेनेत्यर्थः ।
प्रकारान्तरम् अजडायमानत्वमिति ।
परिहरति अजडत्वमिति ।
ज्ञातुरहमर्थस्यात्मन एवेतरानपेक्षप्रकाशत्वलक्षणमजडत्वं सम्भवतीति ज्ञात्रात्मसमर्थनावसरे प्रोक्तम् ।
तथा चैवंविधाजडत्वस्य ज्ञातृत्वसमानाश्रयत्वाज्ज्ञातृत्वेनैव ज्ञातृत्वसमनर्थनं कृतं भवेदिति भावः ।
तेनैवेति ।
ज्ञातृत्वैकाश्रयेणाऽजडत्वेनैवेत्यर्थः ।
एतत्-अजडायमानत्वम्, न किञ्चित्-नार्थसाधकम्, विवक्षितभ्रमवत्तोपपादकं न भवति ।
असिद्धमसिद्धेन साध्यत इति यावत् ।
यद्वा न किञ्चिदेतत्-अनतिप्रसक्तं प्रकृतार्थोपपादकं दुर्निरूपमिति भावः ।
अन्तःकरणस्याजडत्वोपगमे साङ्ख्यस्यापसिद्धान्तं चाह अपि चेति ।
नन्वन्तःकरणस्य चितिसारूप्यासम्भवेऽपि तस्मिन् चितिप्रतिबिम्ब एव ज्ञातृत्वादिमानस्तु इत्यत्राह न च चितीति ।
बिम्बत्वेनाऽभिमताचित्, प्रतिबिम्बाधारत्वेनाभिमतमन्तःकरणम् ।
द्वन्द्वस्याऽभिमतशब्देन कर्मधारयः ।
बिम्बगतस्य वक्रतादेः प्रतिबिम्बाधारगतस्य वा मालिन्यादेः प्रतिबिम्बे आरोपसम्भवः ।
न च ज्ञातृत्वं भ्रमो वा प्रकृतेऽन्यतरस्मिन्नप्यस्ति, यस्य चित्प्रतिबिम्बे आरोपः स्यादिति भावः ।
प्रत्युक्तश्चेति ।
न्यायतत्त्वशास्त्रादाविति शेषः ।
नन्वन्तःकरण एव विषयाकारपरिणामलक्षणज्ञानवृत्तेरुपगमादन्यतरस्मिन्नप्यवृत्तित्वमसिद्धम् ।
ततश्च चितिबुद्ध्योर्विवेकाग्रहाच्चिति ज्ञातृत्वप्रतिभासो युज्यत एवेति शङ्कते यदुच्यत इत्यादिना ।
निर्विकाराया अपि चितिशक्तेः सन्निधानबलादेवान्तःकरणस्य प्रत्यक्षादिप्रमाणज्ञानभ्रान्त्यादिलक्षणा वृत्तिभेदाः समुदयन्ते ।
प्राधान्यात् चितेः तासां साक्षित्वं भोक्तत्वं च, यथा निश्चेष्टस्यापि सार्वभौमस्य प्राधान्यात् प्रबलसामन्तचक्रकर्तृकयुद्धपराक्रमविजयभाक्त्वं तद्वदिति शङ्कितुराशयः ।
पराक्रमीयः-अतिशयेन पराक्रमवत् ।
परिहरति तदनुपपन्नमिति ।
साक्षित्वं हि न चैतन्यमात्रत्वम्, किन्तु साक्षाद्द्रष्टृत्वम् ।
न तच्चितेः, द्रष्टृत्वं कल्पितमिति चेत् निर्विकारे निर्धर्मके कूटस्थे चैतन्ये द्रष्टृत्वभ्रमोऽपि न सम्भवतीत्युक्तमेव ।
दृष्टान्ते तु ननिर्व्यापारत्वंसार्वभौमस्य निर्धर्मकत्वं वा ।
स्वस्वामिभावे हेतवश्च क्रयप्रतिग्रहोत्पादनभरणादयः प्रसिद्धाः ।
राज्ञश्च भरणादिहेतुकं स्वामित्वमुपपन्नम् ।
न तु साङ्ख्याभिमतस्य पुरुषस्येति समुदिताशयः ।
ननु साङ्ख्याभिमतस्यात्मनोऽनुमानासम्भवेऽपि नैयायिकादिभिराधेयातिशयत्वेन भोक्तत्वेन चाभिमतस्यात्मनः सङ्घातपरार्थत्वानुमानेन साधनं स्यादिति चेत्, न ।
सङ्घातस्य संहतपरार्थत्वेन व्याप्रेरसंहतस्य परस्य सिद्धेरयोगात् ।
नच भोक्त्रर्थत्वेनैव सङ्घातत्वस्य व्याप्तिरस्तु ।
तथा चासंहतात्मसिद्धिरप्रत्यूहेति वाच्यम् ।
शरीरस्यापि शरीरान्तररूपभोक्त्रर्थत्वसाधनपर्यवसानाद्विवक्षितासिद्धेः ।
शरीरादिव्यतिरिक्तस्य भोक्तरनुमानात्पूर्वमसिद्ध्या च विलक्षणभोक्त्रर्थत्वेन व्याप्तेरग्रहाद्विलक्षणात्मसाधनायोग इति दिक् ।
आत्मनि देहादिभेदसाधकानुमानानां प्रत्यक्षबाधमप्याह स्थूलोऽहमिति ।
प्रत्यक्षमृदितविषयतया-प्रत्यक्षबाधितसाध्यकतया ।
अतीतकालताबाधितहेत्वाभासता ।
व्यतिरेकानुमानभेदानां-विलक्षणात्मानुमानानां कापिलनैयायिकाभिमतानाम् ।
देहादिभेदे आत्मनः श्रुतिमेव प्रमाणतयोपन्यस्यन्ति श्रोत्रियाः स एष इति ।
नेतिनेतीत्यात्मनः शरीरादिगतप्रकारनिषेधः ।
शरीरभिन्नं शरीरधर्मव्रणादिरहितं चात्मस्वरूपमित्यकायमित्यादेरर्थः ।
योनिमिति ।
अत्र शरीरप्रापकयोनिसम्बन्धप्रतिपादनेनात्मनः शरीरभिन्नत्वंसिध्यति ।
शरीरत्वाय-शीर्यमाणत्वाय ।
इदं च न स्वरूपेण, किन्तु शरीरविशिष्टवेषेण ।
तथाच देहादेरेवोत्पत्त्यादि नात्मन इत्यत्र श्रुतिर्न जायत इति ।
शरीरभिन्नत्वमुक्तमात्मनः ।
शरीरसंसृष्टत्वमप्यौपाधिकमेव, मुक्तौत्वशरीरत्वमेवेत्यत्र श्रुतिमुपादत्ते न ह वै इति ।
श्रुतिं प्रमाणमुक्त्वा विलक्षणात्मनि श्रुत्यर्थापत्तिमपि प्रमाणमाह कालान्तरेति ।
तदनुपपत्तीति ।
श्रुत्यर्थान्यथानुपपत्तीत्यर्थः ।
विध्यन्यथानुपपत्तीति वा ।
देहविनाशोर्ध्वभाविस्वर्गादिसाधनकर्मानुष्ठानं तद्विधानं वा भोक्तरात्मनो देहातिरेकं नित्यत्वं च विना हि न घटते ।
नन्वेव देहव्यतिरेके सिद्धेऽपीन्द्रियादिभेदो न सिध्यतीतिचेत्; अत्रोच्यते-गोलकातिरिक्तेन्द्रियस्यापि न शास्त्रमन्तरा सिद्धिः ।
शास्त्रतस्तु विलक्षणात्मन उपकरणत्वेनैव तत्सिद्धिरिति विलक्षणात्मसिद्धिः शास्त्रतो निष्प्रत्यूहेति ।
विलक्षणात्मनि अनुमानैकप्रमाणकत्वमागमैकप्रमाणकत्वं च मतभेदेनोपपाद्य प्रत्यक्षत्वं मीमांसकमतेन निरूपयितुमुपक्रमते ननु हिताहितेति ।
हितं बलवदनिष्टाननुबन्धीष्टसाधनं शास्त्रैकसमधिगम्यम् ।
अहितं-बलवदनिष्टानुबन्धि ।
हिताहितप्रवर्तननिवर्तनैकपरस्य शास्त्रस्योपरि तत्त्वपरत्वस्यापि परिकल्पनं महाभारनिक्षेपलक्षणमेव ।
सह्येतवाऽनन्यलभ्ये तत्त्वांशेऽपि कार्योपयोगिनि शास्त्रस्य तात्पर्यकल्पनम् ।
न त्वन्यलभ्ये ।
देहादिविलक्षणश्चात्मा प्रत्यक्षेणैव स्फुटमधिगम्यत इति नात्र पुरोवादितालक्षणं प्रामाण्यं शास्त्रस्य सम्भवतीति श्रोत्रियोपरि प्रत्यवस्थानं मीमांसकस्य ।
आत्मन इन्द्रियाग्राह्यत्वं शङ्कतेऽत्र श्रोत्रियः मैवं वोच इत्यादिना ।
रूपादिव्यतिरेकिणि-रूपस्पर्शरहिते ।
द्रव्यप्रत्यक्षे हि उद्भूतरूपस्पर्शान्यतरस्य कारणत्वम् ।
तदभावान्नात्मनः प्रत्यक्षत्वं सम्भवति ।
निरतिशयसूक्ष्म इत्यनेन इन्द्रियग्रहणायोग्यत्वं विवक्षितम् ।
योग्य एव हि प्रत्यक्षं प्रभवति नायोग्य इति भावः ।
इन्द्रियाग्राह्यत्वे आत्मनः श्रुतिमुदाहरति पराञ्चीति ।
परागर्थमात्रग्रहणसमर्थानीन्द्रियाणीत्यर्थः ।स्यान्मतम्-भौतिकत्वाद्बहिरिन्द्रियाणि मा नामात्मनि प्रवर्तिषत ।
मनस्तु प्रवर्तिष्यते अभौतिकत्वादिति; तन्न; तस्यापीन्द्रियत्वे भौतिकत्वस्यापरिहार्यत्वात् ।
यथाऽऽम्नायते ‘अन्नमयं हि सोम्य मनः’ इति ।
प्रपञ्चितं चैतन्निरूपणे ।
(इत्यात्मनोऽप्रत्यक्षत्वशङ्का) अथोच्येत-अस्ति तावदहमित्यपरोक्षावभासः प्रत्ययः ।
न चैन्द्रियिकत्वमन्तरेणासौ सम्भवति ।
क्लृप्तं च बहिरिन्द्रियागोचरेऽपि सुखादौ स्वान्तस्वातन्त्र्यमिति तन्निमित्त एवायमहंप्रत्ययो युक्तः ।
प्रयोगश्च भवति-आत्मा मानसप्रत्यक्षग्राह्यः बहिरिन्द्रियायोग्यत्वे सति प्रत्यक्षत्वात्सुखादिवत् इति ।
(इति भाट्टमुखेनात्मनो मानसप्रत्यक्षत्वानुमानोपक्षेपः) तन्न; संवेदनेन व्यभिचारात् ।
न च तदप्रत्यक्षम् ।
जानामीत्यनन्योपाधिकतया प्रतिभानात् ।
अप्रत्यक्षत्वे च संवेदनस्यासिद्धिरेवस्यादित्युक्तमेव ।
नच तदपि मानसप्रत्यक्षतया सपक्षे निक्षेपमर्हति; विमर्दासहत्वात् ।
यदा खलुकुतश्चिदात्ममनःसंयोगाद्विषयसंवित् उदयमासादयति, तदैव किं तत एव तद्गोचरमपि वेदनं जन्यते, उतान्यदाऽन्येनेति वाच्यम् ।
नच युगपदुभयजननं सम्भाव्यते ।
तथा हि सति परापरतत्तद्गोचरनिरवधिकधीनिकुरुम्बजन्म तत्कालमेवापद्येत ।
नच तदस्ति ।
युगपदुत्पत्तौ विषयविषयित्वनियमश्च निर्निबन्धनः ।
असमसमयजन्मना ज्ञानेन वेद्यत्वे न प्रत्यक्षत्वं; क्षणिकत्वेनाग्रिमज्ञानस्य आग्राहकज्ञानोदयमवस्थानाभावात् ।
भावे च सर्वज्ञानानां सर्वदाऽवस्थानप्रसङ्गात् ।
कार्यविरोधित्वे चानन्तरमेव संस्कारोदयान्न कालान्तरे स्थितिरिति संविदो न मानसप्रत्यक्षवेद्यत्वम् ।
न चाप्रत्यक्षा संविदिति स्फुटो व्यभिचारः ।
ऐन्द्रियिकत्वस्यानात्मत्वप्रतिबद्धत्वाद्विरुद्धता च ।
साध्यविकलश्च दृष्टान्तः, सुखदुःखयोः प्रत्यक्षत्वानभ्युपगमात् ।
अनभ्युपगमश्चेन्द्रियपौष्कल्यनाशयोरेव सुखदुःखत्वात् ।
न हि तस्मिन्नप्रत्यक्षे तत्पौष्कल्यंवैकल्यं वा प्रत्यक्षं भवति ।
इन्द्रियस्वरूप इवाभ्यासपाटवात्तयोरपरोक्षत्वाभिमानः, मनोऽवस्थाभेदेष्विव चाऽनुमेयमनोवादिनाम् ।
यस्तु सुगतमतावलम्बी विज्ञानाभिन्नहेतुजतया तयोरपि तदन्तर्भावमभिमन्यते; कणभक्षपक्षाश्रयणेन वा तयोरात्मविशेषगुणत्वम्;ताभ्यां सुखदुःखाधिकरणं व्याचक्षीत; स्वतःसुखीत्येतद्विमर्शं वाऽत्रत्यम् ।
रागद्वेषादयस्तु चैतन्यस्यैवावस्थाविशेषास्तद्वदेव प्रत्यक्षीभवन्तीति न तन्निदर्शनेनानुमानोदयः ।
सुखप्रयुक्तविषयीकारचैतन्यं रागः, तद्विरोधप्रयुक्तविषयीकारं तदेव द्वेषः, भूतदुःखज्ञानेन चेतश्चलनं शोकः, आगामितज्ज्ञानेन चेतश्चलनं भयमित्यादि लक्षणग्रन्थादेवावगन्तव्यमित्यलं प्रविस्तरेण ।
(इति गुरुमुखेनात्मनो मानसप्रत्यक्षत्वानुमानदूषणम्) एकस्य चात्मनो निरंशस्य न स्वापेक्षया ग्राह्यग्राहकभावः, विरोधादित्यप्युक्तमेव ।
अंशभेदाश्रयणे तत्सिद्धये चांशान्तरमाश्रयितव्यम्, तथा तत्र तत्रेत्यनवस्था; सङ्घातत्वं चात्मनः ।
(इति चात्मनो ग्राह्यग्राहकभावे विरोधोद्भावनम्) ननु च ग्राहकावभासः श्रुत्या, स्वसिद्धान्तश्रद्धाविप्रलब्धबुद्धि- भिरभिहितः; इन्द्रियादिप्रत्यासन्नतत्तत्पदार्थमात्रस्फुरणात् ।
तादृशोऽपि क्वचिदस्तु नाम प्रत्ययः ।
स त्वागन्तुकात्मप्रतियोगिकप्राकट्यप्रकाशादिपदाभिधेयार्थधर्मानुमितज्ञानविशिष्टमानसप्रत्यक्षसिद्धात्मनिबन्धनः ।
(इति प्राभाकरमते भाट्टस्यापि प्रत्यवस्थानम्) उच्यते ।
अहो खलु स्वानुभव एव विभ्रमः परीक्षकाणाम्, यत् विषयानुभवसमये पूर्वावस्थातो न कंचिद्विशेषमयमात्मनोऽवबुध्यत इति ।
उक्तं ह्येतत्-ईदृश एवायमर्थः, ज्ञायते न वेति न विद्मः, मम वा प्रतिभासते परस्य वेत्यपि न विद्म इति न जातुचिदेवं प्रतीतिरस्ति, ज्ञानज्ञात्रोरनवभासे तादृश्यपि प्रतीतिरापद्येत; इति ।
सोऽयं परसंचेतितात् स्वसंचेतितस्यातिशयः सर्वत्र परिस्फुरन्नसति ग्राहकावभासे नोपपद्येत ।
अनुमितज्ञानालम्बनत्वे चाज्ञासिषमित्येव प्रतिभासः स्यात्, न जानामीति; ज्ञानजन्यार्थातिशयदर्शनतद्व्याप्त्यनुसन्धानानुमानोदयसमयेऽनुमित्सितज्ञानस्यातिवृत्तत्वात् ।
ज्ञानानुमानासम्भवः पूर्वमेवोक्तः ।
मानसप्रत्यक्षत्वं चात्मग्राह्यधीनिरस्तम् ।
तथासति हि स्वपरवेद्ययोरनतिशयः स्यात् ।
(इति प्राभाकरीयं स्वपक्षसाधनम्) ननु कथमिव ग्राहकानवभासे स्वपरवेद्ययोरनतिशयप्रसङ्गः? नहि ग्राहकसिद्धिनिबन्धनः स्वपरवेद्यविशेषः; स्वसमवेतविषयबोधजन्मना परसमवेतबोधजन्मना च तद्विशेषोपपत्तेः ।
स्वपरसम्बन्धिबोधविशेषोदव्यवस्थाऽपि स्वीयपरकीयेन्द्रियार्थसन्निकर्षादिज्ञानहेतुसामग्रीभेदनिबन्धना ।
न चात्मसिद्धिरपि तत्सामग्र्यनुप्रवेशमर्हति; इन्द्रियादेरिवानवभासमानस्यैव हेतुत्वसम्भवात् ।
नच विषयबोध एवात्मबोध इति साम्प्रतम् ।
न ह्यर्थान्तरसिद्धिरर्थान्तरस्य सिद्धिर्भवति, अतिप्रसङ्गात् ।
अपि च यदधीना भावानां रूपभेदव्यवस्था, तदपि हि संवेदनं तदानीं निलीनरूपमेवेन्द्रियादिवत् ।
कुतस्तु पुनः तदाश्रयस्यात्मनः प्रतिभासप्रसक्तिः? यदाहुः-इदमहं जानामीति त्रितयावभासः सार्वत्रिकः, इति, तदप्यनुभवानारूढमेवानन्तरमेव प्रतिक्षिप्तमिति ।
(इति भाट्टेन प्राभाकरमतदूषणम्) अस्तु तर्हि ग्राहकतयैव सर्वार्थग्रहणसमयेष्वात्मसिद्धिः ।
अभ्युपगन्तव्या हि संविदः स्वतःसिद्धिः, सर्वप्रकारसाधनान्तरनिराकरणात्, सत्याश्च तस्याः कदाचिदनवभासादर्शनाच्च ।
यथा च संविदः प्रकाशाव्यभिचारः, तथा प्रपञ्चितं प्रथमाधिकरण इति नात्रोपक्षिप्य प्रतिक्षेप्तव्यम् ।
सतोऽपि प्रमेयजातस्य स्वापादिसमयेऽनुपलब्देरभ्युपगतं तावत् संविदः तत्साधकत्वम् ।
अतः क्लृप्तार्थान्तरसाधनभावया तयैवाऽऽत्मनोऽपि सिद्धिरभ्युपगन्तुं न्याय्या ।
(इति पुनः प्राभाकरेण स्वमतस्थापनम्) यत्तु विषयवित्त्युपरमेऽपि स्वापसमयेऽयमात्मा प्रकाशत इति, तत् उपपत्तिभिरुपपद्यमानमपि यथाप्रतीतिव्यवहरतां न चित्तमनुरञ्जयति ।
युक्तिमप्युपन्यस्यति अचित्त्वेति ।
अचित्त्वप्रतिबद्धः-अचित्त्वव्याप्यः ।
आत्मा नेन्द्रियग्राह्यश्चेतनत्वात्, यन्नैवं तन्नैवं यथा घटादीति चात्र प्रयोगः ।।17।। अत्र भाट्टमतमुपक्षिपति स्यान्मतमिति ।
श्रोत्रियो दूषयति तन्नेति ।
गन्धादिमत्त्वादेव हि घ्राणादेर्गन्धादिग्राहकता व्यवस्थिता ।
तथा च भौतिकत्वं घ्राणादेः स्थितम् ।
तन्निदर्शनेन च मनसोऽपि भौतिकत्वं सेत्स्यति ।
तथा चाभौतिकऽत्माग्राहकत्वं घ्राणादेरिव मनसोऽपिस्यादिति भावः ।
भौतिकत्वे मनसः श्रुतिमप्याह अन्नमयमिति ।
भाट्टः प्रतिवक्ति अथोच्येतेत्यादिना ।
अपरोक्षावभासः-परोक्षप्रतीतिभिन्नः, लौकिकविषयितावानिति यावत् ।
सुखादौ मनसः स्वातन्त्र्यं च बहिरिन्द्रियानपेक्षप्रत्यक्षजनकत्वम् ।
मानसप्रत्यक्षग्राह्यः-मानसप्रत्यक्षनिरूपितलौकिकविषयतावान् ।
शिष्टं स्पष्टम् ।
प्रकृतमनुमानं दूषयति गुरुमुखेन तन्नेत्यादिना ।
साध्याभाववति हेतो सत्त्वं हि व्यभिचारः ।
तत्र संविदि हेतौ विशेषणांशस्य सिद्धत्वाद्विशेष्यांशं तावत्साधयति न च तदिति ।
अनन्योपाधिकतया लिङ्गपदज्ञानादिकारणानपेक्षतया ।
प्रतिभानात्-प्रकाशात् ।
ननु ज्ञाततयैव ज्ञानानुमानमित्यनन्योपाधिकत्वं ज्ञानप्रतिभासस्यासिद्धमित्यत्राह अप्रत्यक्षत्वे चेति ।
ज्ञानातिरिक्तायां ज्ञाततायां ज्ञानलिङ्गत्वेनाभिमतायां प्रमाणाभावात्, सत्या अपि तस्या अतीन्द्रियत्वेन ज्ञानस्य तेनाविनाभावग्रहायोगात्, ज्ञानजनकसामग्र्या ज्ञातताया एव साक्षाज्जननसम्भवादन्तरा ज्ञानकल्पनाया अपार्थत्वाच्चासिद्धिरेव स्याज्ज्ञानस्याप्रत्यक्षत्व इति भावः ।
संवेदने साध्यस्यापि सत्त्वमाशङ्कते न च तदपीति ।
विकल्पासहत्वान्मानसप्रत्यक्षत्वं संविदो निरस्यति विमर्देति ।
विकल्पयति यदा इति ।
तथासतीति ।
विषयज्ञानस्योदयकाल एव तद्गोचरज्ञानज्ञानस्यापि आत्ममनःसंयोगरूपकारणबलादुत्पत्तिस्वीकारे पूर्वोत्तरीभूतविषयज्ञानज्ञानज्ञानज्ञानज्ञानज्ञानदीनां समुदायस्य यौगपद्यप्रसङ्गः इत्यर्थः ।
निकुरुम्बम्-समुदायः ।
विषयज्ञानज्ञानज्ञानयोर्यौगपद्ये दूषणान्तरमाह युगपदिति ।
प्रत्यक्षे विषयस्य हेतुत्वात्पूर्वज्ञानजनितस्योत्तरज्ञानस्यानुव्यवसायरूपस्य पूर्वज्ञानविषयकत्वमुपपद्येत क्रमभावित्वे न तु यौगपद्य इत्यर्थः ।
अस्तु तर्हि क्रमिकत्वं विषयज्ञानतदनुव्यवसाययोरित्यत्रह असमेति ।
ज्ञानस्य क्षणिकत्वादुत्तरज्ञानोत्पादकाले पूर्वज्ञानस्यासत्त्वान्न प्रत्यक्षत्वं सम्भवेत्पूर्वज्ञानेज्ञानान्तरवेद्यत्वोपगमेऽपीत्यर्थः ।
ज्ञानस्य क्षणिकत्वानुपगमे दोषमाह भावे चे ति ।
ननु न क्षणिकत्वम्, नापि स्थिरत्वम् ।
किन्तु स्वकार्येणैव निवृत्तिरिष्यते ज्ञानस्येति चेत्तत्राऽह कार्येति ।
कार्यस्य विरो धित्वं नाशकत्वलक्षणं चेद्द्विक्षणावस्थायित्वं स्याज्ज्ञानस्य ।
सहानवस्थानलक्षणं चेदेकक्षणमात्रवृत्तित्वम्।
अत्र तु सहानवस्थानलक्षण एव विरोधो विवक्षितः ।
द्विक्षणावस्थायित्वे तु नैयायिकप्रक्रियया मानसप्रत्यक्षोपपत्तेस्तन्निषेधानुपपत्तेरिति बोध्यम् ।
नैयायिकमतेऽपि द्वितीयतृतीयादिज्ञानविषयकज्ञानाधारानुवृत्तिप्रसङ्गो बोध्यः ।
आत्मनो मानसप्रत्यक्षत्वानुमाने विरोधमप्याह ऐन्द्रियिकत्वस्येति ।
अनात्मत्वव्याप्यत्वादैन्द्रियिकत्वस्य व्यापकनिवृत्त्याऽऽत्मनि निवृत्तिरवर्जनीया ।
तथा च पक्षतावच्छेदकात्मत्वविरुद्धं साध्यमिति भावः ।
बाह्येन्द्रियग्राह्यत्वस्यैवानात्मत्वव्याप्यतेत्याग्रहेऽपि दूषणान्तरमाह साध्यविकलश्चेति ।
साध्यशून्योऽन्वयद्दष्टान्त इत्यर्थः ।
साधनविकलत्वमपि यद्यपि फलति उपपादनप्रकारेण; अथापि सिद्धान्तप्रक्रियया ज्ञानावस्थारूपत्वात्सुखादेः ज्ञानस्य च स्वयंप्रकाशत्वात्स्वयंप्रकाशत्वं सुखादेर्हृदि निधाय साध्यविकलत्वमेव कीर्तितम् ।
अन्वयद्दष्टान्ते साध्यस्य साधनस्य वा विरहेन तदवच्छेदेन साध्यव्याप्तिग्रहो हेतौ सम्भवतीति व्याप्यत्वासिद्धिर्विवक्षिता ।
ननु सुखदुःखयोरप्रत्यक्षत्वे प्रत्यक्षवदवभासस्तयोः कथम्? तत्राह इन्द्रियेति ।
यथाऽतीन्द्रियत्वेऽपीन्द्रियाणां ममेदं चक्षुः, अहं चक्षुष्मान् पश्यामीति प्रत्यक्षवदवभासश्चक्षुरादेः कदाचिच्चाक्षुषादिवृत्ति काले नानाचक्षुरादिवृत्ति प्रतिसन्धानवतश्चेतनस्येन्द्रियविषयसंस्कारप्राचुर्यप्रयुक्तः, तद्वदिन्द्रियावस्थारूपसुखदूःखपरामर्शोऽपि प्रत्यक्षसमानाकारस्तदभ्यासबाहुल्यादित्यर्थः ।
अत्र निदर्शनं मनोवस्थेति ।
अनुमेयमनोवादिनः बुद्धिव्यतिरिक्तं मनोऽनुमानेन साधयन्तः ।
कामसङ्कल्पादीनां मनोवृत्तिरूपत्वं कामःसङ्कल्पः- सर्वं मन एवेति श्रुत्याप्रतीयते ।
तेषां च प्रत्यक्षत्वावभासः तद्विषयानुभावाभ्यासप्राचुर्यादेवेति वक्तव्यं यथा अनुमेयमनोवादिभिः, तथेति भावः ।
सुखदुःखयोरात्माभिन्नत्वम्, आत्मन आगन्तुकधर्मरूपत्वं च मतभेदेन प्रसिद्धमनुवदति यस्तुसुगतेति ।
अत्राऽह ताभ्यामिति।
चतुर्थीद्विवचनम् ।
बौद्धप्रक्रियया काणादप्रक्रियया वा क्षणिकात्मानन्यत्वं, नित्यस्यात्मनआगन्तुकधर्मरूपत्वं वा मन्यमानाभ्यां न्यायतत्त्वशास्त्रस्थं सुखदुःखाधिकरणम्, एतत्प्रकरणस्थं स्वतःसुखित्वविचारं वा प्रकीर्तयेदित्यर्थः ।
ननु सुखदुःखयोः मानसप्रत्यक्षत्वे विवादेऽपि रागद्वेषावेव निदर्शने भविष्यत इत्यत्राह सुखेति ।
सुखत्वप्रयुक्तं विषयीकरणमुपादेयताप्रकाशनं यतः तज्ज्ञानमेव रागः सुखगोचरोपादेयताबुद्धिलक्षण इति यावत् ।
तस्य सुखस्य विरोध उपघातो येन तद्गोचरत्याज्यताप्रकाशकज्ञानमेव च द्वेषः ।
तयोश्च ज्ञानवदेव प्रकाश इति नं साध्यान्वय इति भावः ।
शोकभययोरपि न निदर्श नत्वं सम्भवतीत्याह भूतेति ।
तच्चलनमिति मुद्रितपाठस्तु न साधुः ।
अतीतदुःखानुसन्धानप्रयुक्तश्चित्तविक्षोभः शोकः ।
आगामिदुःखहेतुपरामर्शाधीनश्चित्तसङ्क्षोभश्च भयम् ।
तयोश्चान्तःकरणधर्मत्वादेव न प्रत्यक्षत्वमिति दृष्टान्तत्वायोग इति भावः ।
आत्मनो मानसप्रत्यक्षत्वे साधकस्यासम्भवमुक्त्वा बाधकमप्याह एकस्येति ।
एकस्यैकदैवैकक्रियायां कर्तृकर्मभावासम्भवलक्षणो विरोधोऽत्र विवक्षितः ।
उक्तविरोधपरिहारायात्मनि अंशभेदाश्रयणेदोषमाह अशंभेदेति ।
ग्राहकात्मांशान्तरस्यापि प्रमाणसिद्धत्वावश्यम्भावेन तद्ग्राहकाशान्तरमेष्टव्यम्, एवमुपर्युपरीत्यनवस्थेत्यर्थः ।
कदाचिदेकांशेनान्यांशग्रहणम्, अन्यदा चांशान्तरेणैतदंशग्रहणमिति कालभेदेनोपपत्तेर्नानवस्थेति चेत्तत्राप्याह सङ्घातत्वं चेति ।
आत्मनो निरंशत्वविरुद्धं च सांशत्वमेवं सति प्रसज्यत इत्यर्थः ।
सांशत्वे चानित्यत्वादि आपादनीयम् ।
अत्रेदं बोध्यम्-गुरुर्ज्ञातुरात्मनो ज्ञानविषयत्वं नानुमन्यते ।
किन्तु विषयज्ञानकालेषु ज्ञातृत्वबलात्प्रकाशमात्रं मनुते ।
ज्ञानस्यापि तथैवेति ।
एवं प्राभाकरेण दूषिते स्वपक्षे भाट्टस्तन्मतमपि दूषयति ननु चेति ।
श्रुत्येत्यनन्तरं तन्न, सतु इति पूरणीयम् ।
अत्र न च ग्राहकाभास इति पाठः सम्भाव्यते ।
श्रुत्येत्यनन्तरं सिद्ध्यतीति शेषः ।
स्वसिद्धान्तेत्यतः पूर्वं स तु इति योज्यम् ।
स्वसिद्धान्ताभिनिवेशवशीकृतचेतसामभिमानमूलको ग्राहकावभासवादो न श्रुतिप्रमाणेन सिध्यतीति भावः ।
ग्राहकावभासो नाम सर्वज्ञानेष्वाश्रयतयाऽऽत्मनः स्फुरणम् ।
श्रुत्याऽस्याऽसिद्धौ हेतुमनुभवविरोधमभिप्रेत्याऽनुभवप्रकारमाह इन्द्रियादीति ।
अनुभवविरुद्धं हि न श्रुतिः प्रतिपादयेदिति हार्दम् ।
श्रुत्येत्यत्रान्यथा पाठः स्याद्वा ।
स्वसिद्धान्ताभिमानिभिः प्राभाकरैरभिहितो ग्राहकावभासो न मन्तव्यः प्रतीतिविरोधात् ।
प्रतीतिर्हितत्तत्पदार्थमात्रं प्रकाशयतीति समुदिताशयः ।
ननु घटादिप्रत्यक्षेग्राहकाभासाभावे घटमहं पश्यामीत्याद्यनुभवः कथम्? तत्राऽह तादृशोऽपीत्यादिवाक्यद्वयेन ।
यस्य यद्विषये ज्ञानं जातं तस्यैव सोऽर्थः प्रकाशत इति प्राकट्यस्याऽऽत्मप्रतियोगिकत्वमर्थधर्मस्य ।
तल्लिङ्गकं ज्ञानानुमानमेव च कादाचित्कम् ।
ततश्चानुमितज्ञानोपरक्तात्ममानसरूपो निरुक्तानुभवश्च कादाचित्क एव, नायं घटचाक्षुषरूपः ।
येन विषयवित्तिषु प्रकाशेताऽऽत्मेति भावः ।
अत्र च मानसप्रत्यक्षे ज्ञानवत्त्वेन विषयत्वं देहादिमत्तया चाश्रयत्वमिति कर्मकर्तृविरोधपरिहारोऽभिमतो भाट्टानाम् ।
अत्र प्राभाकरस्य प्रत्यवस्थानम् उच्यत इत्यादिना ।
स्वानुभवएवेति ।
ज्ञाने जाते तद्वत्त्वेनात्मोपलम्भोऽप्यनुभवसिद्धः ।
तत्रैव विभ्रमो नास्तिताभ्रम इत्यर्थः ।
स्वानुभवमप्यजानतः परीक्षकत्वं शोभनमित्युपालम्भः ।
विषयवेदनकाले ज्ञानस्य ज्ञातुश्चावभासाभावे दोषं पूर्वोक्तं स्मारयति उक्तमित्यादिना ।
ज्ञानस्या प्रकाशाभावे ज्ञायते न वेतिसंशयादिप्रसङ्गः ।
ज्ञातुः प्रकाशाभावे मम ज्ञायतेऽन्यस्य वेति संशयादिप्रसङ्ग इति भावः ।
सोऽयमिति ।
संचेतितम्-ज्ञातम् ।
अतिशयः-स्वात्मने प्रकाशमानत्वलक्षणोऽनुभूयमानः ।
अनुमितेति ।
जानामीत्यादिप्रतीतेर्ज्ञाततालिङ्गानुमितज्ञानोपनीतभानात्मकात्ममानसप्रत्यक्षरूपत्वेऽतीतज्ञानालम्बनत्वादज्ञासिषमित्येवाभिलापः स्यात्, न तु जानामीति ज्ञाने वर्तमानत्वोल्लेख इत्यर्थः ।
नन्वतिशैघ्र्यात् क्षणभेदाग्रहनिबन्धनो वर्तमानत्वांशे भ्रमलक्षणो जानामीति प्रत्यय इति शङ्कायां तन्मते दूषणान्तरमपि संस्फोरयति ज्ञानेति ।
स्वज्ञानव्यवहारहेतुकमेव स्वज्ञानानुमानमिति न सम्भवतीत्युक्तमेव प्राक् ।
ज्ञाततालिङ्गकमपि ज्ञानानुमानं ज्ञानेन ज्ञातताया अविनाभावग्रहासम्भवाज्ज्ञानसामग्र्यैवान्यथासिद्धत्वाच्च ज्ञातताया दुःस्थमेवेति हार्दम् ।
विषयज्ञान एव ज्ञातुः प्रकाशं साधयितुं तस्य मानसप्रत्यक्षं च निरस्यति मानसेति ।
आत्मन इत्यादिः ।
मानसप्रत्यक्षत्वमित्यत्र बहुव्रीहेः त्वप्रत्ययः ।
आत्मग्राह्यत्वं धियः स्वयंप्रकाशत्वम् ।
तच्च ज्ञानस्य मानसप्रत्यक्षानुमानायोगप्रतिपादनात् सिद्धम् ।
आत्मनो मानसप्रत्यक्षत्वं च व्यभिचारात्साधकत्वाभिमतस्य निरस्तं साधकाभावादित्यर्थः ।
धीनिरस्तम्-व्यभिचारनिरूपिकया धिया निरस्तम् ।
व्यभितारनिरूपकत्वोपपादकमात्मग्राह्येति धीविशेषणम् ।
अत्राऽऽत्मग्राह्यधीव्यभिचारनिरस्तमिति वा अन्यथा वा मूलपाठः सम्भाव्यते ।
एवं ग्रहग्राहकयोः प्रकारान्तरेणभानासम्भवमुपपाद्य तदनवभासे विषयवित्तौ पूर्वोक्तातिशयासम्भवं निगमयति तथासतीति ।
अनतिशयः-अविशेषः ।
स्वस्मै ज्ञायमानत्वेन भानमभानं चार्थस्येति वैलक्षण्यस्य विरहः स्वपरवेद्ययोः प्रसज्यते विषयवित्तौ ज्ञानज्ञात्रोरभाने हीत्यर्थः ।
भाट्टः प्रतिक्षिपति ननु कथमिति ।
स्वस्मै भासमानत्वरूपो विशेषोऽर्थस्य तज्ज्ञानस्य स्वनिष्ठत्वादेव घटते तज्ज्ञाने स्वस्याऽभानेऽपि ।
विषयबोधाश्रयत्वमेव स्वस्यातिशयोऽपूर्वो विषयवित्तिकाल इति च भावः ।
नच वित्तिवेदित्रोरग्रहे पूर्वोक्तः संशयस्तदवस्थ इति वाच्यम्।
स्वज्ञानजार्थधर्मप्रकाशस्य स्वं प्रति प्रत्यक्षत्वादेव मम प्रकाशते न वेति संशयस्यानवकाशात् ।
ज्ञानफलप्रकाशेन झटित्येव ज्ञानस्यानुमानाच्च मम ज्ञानं जातमन्यस्य वेत्यादेरप्यप्रसक्तेः ।
नैयायिकप्रक्रियया तु कार्यनाश्यत्वाज्ज्ञानस्य द्विक्षणावस्थायित्वादनुव्यवसायबलादेव न निरुक्तसंशयादिप्रसङ्गो ज्ञानज्ञात्रोरनवभासेऽपि विषयवित्ताविति च बोध्यम् ।
आत्मनि बोधोदये आत्मप्रकाशस्य हेतुत्वं निरस्यति प्रसङ्गतः न चात्मेति ।
ननु आत्मसिद्ध्यघटिताऽपि विषयबोधसामग्र्येवात्मप्रकाशेऽपि हेतुरस्त्वित्यत्राह न च विषयेति ।
इन्द्रियार्थसन्निकर्षार्थयोग्यतादिघटिता विषयबोधसामग्री नायोग्यात्मबोधेऽपि समर्थेत्यर्थः ।
अतिप्रसङ्गात्-पटबोधसामग्र्या घटादिबोधप्रसङ्गात् ।
विषयबोधे बोधस्याप्यप्रकाश इत्याह अपि चेति ।
मानाधीना हि मेयसिद्धिः ।
तत् पदार्थानां जातिगुणादिविशेषव्यवस्था यदधीना तदपि संवेदनं विषयप्रकाशकालेऽप्रकाशमानस्वरूपं स्वरूपसदेव चक्षुरादिवदित्यर्थः ।
स्वरूपसज्ज्ञानेनैव विषयविशेषसिद्धिवत् स्वरूपसज्ज्ञात्रैव स्ववेद्यविषयातिशयसिद्धिरिति भावः ।
प्राभाकराणां मतमनुवदति यदाहुरित्यादिना ।
सार्वत्रिकः-प्रत्यक्षानुमानादिसर्वविषयज्ञानव्यापी ।
तत्प्रतिक्षिपति तदपीति ।
अनुभवानारूढमिति साधकाभाव उक्तः, अनन्तरमेव प्रतिक्षिप्तमिति च बाधकम् ।
ज्ञानस्यैवायं स्वभावः-यत् स्वविषयस्येव स्वस्वाश्रयप्रकाशहेतुत्वमपीति पुनः प्राभाकरः शङ्कते अस्तु तर्हीति ।
ग्राहकतयैव-ज्ञानाश्रयतयैव ।
विषयबोधसामग्र्या विषयज्ञानमेव जातम् ।
तच्च ज्ञानं स्वसामर्थ्यादेव अविषयमपि स्वं स्वाश्रयं च प्रकाशयतीति भावः ।
ज्ञानस्य स्वयंप्रकाशत्वं तावत्साधयति अभ्युपगन्तव्येति ।
सर्वप्रकारेति ।
मानसप्रत्यक्षस्य ज्ञाततादिलिङ्गकानुमानस्य च निराकरणादित्यर्थः ।
कदाचिदिति ।
विद्यमानत्वे प्रकाशमानत्वनियमाच्चेत्यर्थः ।
प्रप़ञ्चितपिति ।
न्यायतत्त्वशास्त्रे इति शेषः ।
नात्रेत्यादि ।
प्रकाशव्यभिचारित्वमतमुपक्षिप्य ज्ञानस्य तत् नात्र निराकरणीयमित्यर्थः ।
एवं स्वप्रकाशत्वमुक्त्वा ज्ञानस्य विषयप्रकाशहेतुत्वं च साधयति सतोऽपीति ।
सतोऽपि विषयस्य स्वापेऽप्रकाशो ज्ञाननिवृत्त्येति ज्ञानस्य विषयप्रकाशकत्वसिद्धिरिति भावः ।
अत इति ।
परप्रकाशकत्वेनैष्टव्यायाः संविद एव प्रमात्रवभासकत्वमपि युक्तमिति नात्मनः स्वयंप्रकाशत्वमपि कल्पनीयमिति भावः ।
स्वापेऽप्यात्मनो ज्ञानमस्तीति मतमनूद्य खण्डयति यत्तु इति ।
तदिति ।
सुखमहमस्वाप्समित्यादिप्रतिसन्धानस्य स्वापे आत्मप्रकाशमन्तराऽनुपपद्यमानत्वलक्षणयुक्तियुक्तमपि स्वपो आत्मनः प्रकाशमानत्वं नानुभवमात्रशरणानां हृद्यं भवतीत्यर्थः ।
उपपद्यमानमपीत्यपिनोपपत्तिरपि नैव ।
प्रतिसन्धानस्याऽन्यथैवोपपत्तेरिति स्फोर्यते ।
अन्यथासिद्धिरग्रे प्रपञ्चयिष्यते मूल एव ।निर्धूतनिखिलकरणकलेवरज्ञानकर्मवासनानुबन्धस्यापवृक्तस्य न खलु स्वपरसंवेदनोदयनिबन्धनं किञ्चित् सम्भाव्यते ।
नच मनसो नित्येन्द्रियत्वेन तत्संयोगादेव तदा ज्ञानं जन्यत इति युक्तम्; स्वरूपतो गगनवत् नित्यस्यापि सतस्तस्येन्द्रियभावेन ज्ञानोत्पादकत्वस्य धर्माधर्मावरोधनिबन्धनत्वात् ।
स्वाप आत्मनः प्रकाशं निषिध्य मुक्तावपि तं निषेधति अपवृक्तस्येति ।
अपवृक्तस्य-मुक्तस्य ।
मुक्तज्ञानस्य नित्यत्वमस्त्विति चेत्तत्राह नित्यत्वे इति ।
संसरणाभावप्रसङ्गः फलितोऽत्र ।
ननु तर्हि मुक्तौ सार्वज्ञ्यपरश्रुतीनां का गतिः? तत्राह अर्थवादा इति ।
अज्ञानाकार्याभावनिमित्तका मोक्षसाधनप्रशंसापराः सार्वज्ञ्यादिश्रुतय इत्यर्थः ।।18।।श्लोकार्थमेव प्रपञ्चयति निर्धूतेत्यादिना ।
ज्ञानवासना, कर्मवासना चाऽनुबन्धः ।
निरस्तसमस्तदेहेन्द्रियवासनानुबन्धस्येत्यर्थः ।
स्वपरेति ।
स्वस्वरूपविषयकस्याऽर्थान्तरविषयकस्य वा ज्ञानस्योत्पादकमित्यर्थः ।
धर्माधर्मेति ।
अदृष्टसहकाराधीनत्वादित्यर्थः ।नच योगजधर्मानुगृहीततत्संयोगस्य साधनत्वम; ‘क्षीयन्ते चास्य कर्माणि’ ‘तदा विद्वान् पुण्यपापे विधूय निरञ्जनः’ इत्यादिशुक्लेतरसकलकर्मप्रक्षयश्रुतिविरोधात् ।
धर्मफलत्वे चापवर्गस्य पुनरावृत्तिप्रसङ्गः ।
‘नास्त्यकृतः कृतेन’ ‘तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ इत्यादिश्रवणाच्च ।
न चात्मसत्तयैव तदानीं तज्ज्ञाननिमित्तमिति वाच्यम् ।
क्लप्तत्यागाक्लप्तकल्पनप्रसक्तेः ।
तन्मात्रनिमित्तत्वे च सर्वदा आत्मस्वरूपवत्तदपि विद्यत इति संसारानवतारप्रसङ्गात्, बन्धमोक्षावस्थयोरविशेषापत्तेश्च ।
न च देहेन्द्रियादिप्रतिबद्धतया इदानीं तदभाव इति वाच्यम् ।
तत् खलु प्रतिबन्धकम्, यत् सति पुष्कलकारणे कार्योदयं निरुणद्धि ।
न चाद्याप्यात्मनः तत्पुष्कलकारणत्वं सिद्धम्; शरीरेन्द्रियवतामेव ज्ञानदर्शनात् ।
क्लप्तज्ञानकारणभावस्य तस्यैव तद्बन्धकत्ववचनमुन्मत्तवचः ।
अतो नास्त्यपवर्गदशायां ज्ञानम् ।
तात्कालिकज्ञानसुखादिवादास्त्वात्मज्ञानविधिशेषतया गुणवादेन नेतव्याः ।
अतो विषयवित्तिसमय एवात्मसिद्धिनियमाद्यथोक्तनीत्या अर्थवित्तिषु वेदितृतयैवात्मसिद्धिरिति ।
(इति विषयवित्तिकालेष्वेवात्मनो भानमिति गुरुमतोपपादनम्) इदमप्यात्मतत्त्वापरिज्ञानोल्लसितपरिमितमतिविकल्पजल्पितमिति न रोचयन्ते त्रय्यन्तविदः ।
विषयवित्तिर्हि विषयवित्तिरेव ।
न हि तया आत्मवित्तिः स्वरूपं वा सेद्धुमर्हति, अतद्विषयत्वात् ।
यो हि यत्संविद्विषयो न भवति, नासौ तया सिध्यति रूपसंविदेवरसः ।
अविषयौ च विषयवित्तेर्बुद्धिबोद्धाराविति तावपि न तया सिध्यतः ।
ननु वेद्यस्वभावोऽयम्, यत्स्वविषयसंविदा सिध्यतीति ।
वित्तिस्तु वित्तिरेव, वेदिता च वेदितैवेति कुतस्तयोर्वेद्यस्वभावानुप्रवेशः ।
उक्तं हि तयोर्मानसप्रत्यक्षगोचरत्वम्, अनुमेयत्वासम्भवश्च ।
कुतस्तर्हि वित्तिसिद्धिः? स्वत एव ।
स्वयंप्रकाशा हि संवित् ।
मैवम् ।
साऽपि हि विषयवदेवान्यस्यैव प्रकाशमानतया न स्वतःसिध्यति ।
स्वतःसिध्यन्ती च सा किमिति कञ्चिदेव प्रति चकास्ति, न सर्वान् प्रति ।
तत्समवायादिति चेत्-यत्समवायिनी हि या संवित् तस्यैव सा चकास्ति, नेतरस्य, तदसमवायादिति; यद्येवम्, आश्रितस्तर्हि आत्मसंबन्धनिबन्धन एव संविदः प्रकाशः, तद्भावाभावानुविधिनात् ।
यद्युच्येत-प्रकाशस्वभावाया एव सत्याः प्रतियोगिविशेषावच्छेदायैव तदपेक्षा, न स्वरूपसिद्धय इति; कुतः खल्वयं निश्चयः? यदि हि प्रतियोगिनिरपेक्षैव कदाचिदात्मस्वरूपमिव संवित् प्रकाशेत, तत एवमध्यवस्येमापि ।
न च तथास्ति ।
आश्रयप्रतियोगिसापेक्षैव संयोगपुत्रत्वादेरिव तस्याः स्वरूपसत्तेति न पृथक््सिद्ध्युत्प्रेक्षावकाशः ।
सत्याः संविदः प्रकाशव्यभिचाराभावात् स्वरूपप्रयुक्तः प्रकाश इति चेत्, सत्याः किं तस्या आत्मसंबन्धव्यभिचारोऽस्ति? ।
अपि चैवं सुखदुःखादयोऽपि त्वन्मते स्वतःसिद्धाःस्युः ।
न हि तेऽपि सन्तो न प्रकाशन्ते ।
अथार्थान्तरसाधकतया सर्ववादिसंमतायाः संविद एव परं स्वयंप्रकाशत्वमाश्रितम् ।
तयैव तथाभूतया तदितरबाह्याभ्यन्तरसकलपदार्थसिद्ध्युपपत्तेः किमनेकस्व यंप्रकाशभावाभ्युपगमेनेति भावः? एतदेवोपपादयति धर्माधर्मेतिकारिकया ।
धर्माधर्मावरूद्धम्-पुण्यपापलक्षणादृष्टनिबन्धनोपकरणत्वावस्थाविशिष्टम् ।
श्रोत्रवदिति ।
कर्णशष्कुल्यवच्छिन्नाकाशस्यैव श्रोत्रत्वम् ।
तस्य चादृष्टसहकारे सत्येव शब्दग्रहकरणत्वम्, न तद्विरहे इति यथाऽदृष्टनिबन्धनः श्रोत्रस्येन्द्रिय भावः तथेति यावत् ।
तथा चादृष्टविरहान्मुक्तौ मनसो नेन्द्रियत्वमिति भावः ।।19।।शङ्कते न च योगजेति ।
मनस्संयोगस्य योगजधर्मानुगृहीतत्वम्-योगजधर्मसहकृतत्वम् ।
योगजधर्मप्रभावान्मुक्तावपि मनस इन्द्रियभावोऽनुवर्तत इति मानसमात्मज्ञानं तदा सम्भवतीति भावः ।
मुक्तौ योगजधर्मानुवृत्तौ श्रुतिविरोधमाह क्षीयन्ते इति ।
शुक्लेतरेति ।
पुण्यपापरूपेत्यर्थः ।
ननुश्रुतेर्योगजधर्मव्यतिरिक्तसकलकर्मनिवृत्त्यभिप्रायकत्वमिति चेत्तत्राह धर्मफलत्वे चेति ।
मोक्षकालेज्ञानस्यात्मविषयकस्य सर्वविषयकस्य वा धर्मजन्यत्वे जन्यभावस्य विनाशित्वनियमात्पुनरज्ञानादिप्रसङ्ग इत्यर्थः ।
कर्मफलस्यानित्यत्वे श्रुतिमुदाहरति नास्त्यकृत इति ।
ननु मोक्ष आत्मैव ज्ञानहेतुरस्तु ।
तत्राह न चात्मेति ।
आत्मा सत्तयैव मूलपाठः स्याद्वा ।
क्लृप्तेति ।
ज्ञानकारणतयाऽभिमतस्येन्द्रियादेः त्यागः, अक्लृप्तस्यैव केवलस्यात्मनः ज्ञानकारणत्वेन कल्पनं च प्रसज्यत इत्यर्थः ।
दोषान्तरमप्याह तन्मात्रेति ।
आत्मस्वरूपमात्रनिमित्तत्वे मुक्तिकालीनस्य ज्ञानस्य सर्वदैव तत् भवेदिति संसारानवतारप्रसङ्गः, ज्ञानस्याज्ञानतन्मूलसंसरणप्रतिबन्धकत्वादिति भावः ।
विशदतत्त्वसाक्षात्काररूपज्ञानभावेऽपि संसारोपगमे च दोषमाह बन्धेति ।
मुक्तिकालज्ञानस्य संसारकालेऽपि सत्त्वे संसारापेक्षया मोक्षे वैलक्षण्यं न स्यादित्यर्थः ।
ननु दुःखध्वंसादिरेव मोक्षेविशेष इति चेत्, तर्हि तावन्मात्रमेव भवेन्मोक्ष इति कृतं ज्ञानादिनाऽपार्थेनेति भावः ।
आत्मनो मुक्तिकालीनज्ञाने हेतुभूतस्य नित्यत्वेऽपि न संसारे तत्प्रसङ्गः ।
देहादेः प्रतिबन्धकत्वादिति शङ्कते न चेति ।
परिहरति तत् खलु इति ।
प्रतिबन्धकत्वस्यासम्भवमुपपाद्य तत्र विरोधमप्याह क्लृप्तज्ञानेति ।
तस्यैव-देहेन्द्रियादेरेव ।
अर्थवादास्तथोक्तय इत्युक्तं विवृणोति तात्कालिकेति ।
दुःखनिवृत्तिपरा मुक्तौ सुखवादाः, ज्ञानप्रागभावनास्तिताऽभिप्रायकाश्च ज्ञानवादाः ।
ते चात्मज्ञानप्रशंसामात्रपरास्तद्विधिशेषभूता एवेत्यर्थः ।
प्राभाकरमतोपसंहारः अत इति ।
यथोक्तनीत्या-विषयप्रकाशकस्य ज्ञानस्यैव स्वस्वाश्रयप्रकाशकत्वं न्याय्यमित्युक्तनीत्या ।
प्राभाकरमतं प्रतिक्षिपति सिद्धान्ती इदमप्यात्मेत्यादिना ।
आत्मतत्त्वाज्ञानकार्या आत्मप्रकारेष्वयथाप्रतिपत्तिभेदा येषां, तेषामिदं निरर्थकं वचनमित्यर्थः ।
कथं निरर्थकत्वं गुरुक्तेः? तत्राह विषयेति ।
न हीति ।
आत्मवित्तिः-आत्मधर्मभूतं ज्ञानम् ।
स्वरूपम्-आत्मस्वरूपम् ।
अत्र आत्मा वित्तिस्वरूपं वा इति पाठः स्याद्वा ।
सेद्धुम्-प्रकाशितुम् ।
अतद्विषयत्वात्-विषयवित्तिविषयत्वाभावात्तयोः ।
अविषययोरपि ज्ञानज्ञात्रोर्ज्ञानबलत एव सिद्धिरिति शङ्कते गुरुः ननु वेद्येति ।
वित्तिरेव, न तु वित्तिविषयः, विषयवज्जडा वा ।
वेदितैव, न तु वेद्यः, वेद्यवदज्ञाता वा ।
तथा च विलक्षणस्वभावत्वाद्भावानामविषययोरपि तयोः सिद्धिर्ज्ञावबलतः सेत्स्यतीत्यविषयत्वेनासिद्धिर्विषयवत्तयोर्दुर्भणमिति भावः ।
ननु ज्ञानान्तरविषयत्वेनैव तयोः प्रकाशोऽस्त्वित्यत्राह उक्तं हीति ।
स्वबलत एव वित्तेः सिद्धिं शङ्कासमाधानमुखेनाह कुत इति ।
स्वत एवेति ।
विषयज्ञानकालेऽविषयस्यापि तस्य ज्ञानस्य प्रकाशो भवतीत्यनायत्या स्वीकरणीयम्, तदाश्रयत्वेनात्मनश्चेति हार्दम् ।
तत्र स्वप्रकाशत्वमाक्षिपति गुरूक्तं संविदः सिद्धान्ती मैवमित्यादिना ।
स्वाश्रयात्माधीनप्रकाशत्वादेव तस्मा एव प्रकाशमानत्वं संविदो घटत इति स्वतःसिद्धत्वासिद्धिरिति भावः।
अत्र परः परिहारं शङ्कते तत्समवायादिति चेदिति ।
स्वयमेव स्वोक्तिं विवृणोति यत्समवायिनीति ।
स्वयंप्रकाशाऽपि संविदात्मापृथक््सिद्धत्वादात्मन एव प्रकाशत इति भावः ।
प्रतिक्षिपत्याक्षेप्ता यद्येवमिति ।
तद्भावेति ।
आत्मसंबन्धान्वयव्यतिरेकानुविधाय्यन्वयव्यतिरेकत्वात्संवित्प्रकाशस्याऽऽत्मसंबन्धहेतुकत्वं सिध्यतीत्यर्थः ।
पुनः परः शङ्कते यद्युच्येतेति ।
प्रतियोगी-विषयः, स एव विशेषः-विशेषणम्, तदवच्छेदायैव-तत्संबन्धायैव, विषयप्रकाशकत्वायैवेति यावत् ।
तदपेक्षा-आत्मसंबन्धापेक्षा।
न तु स्वप्रकाशायेत्यर्थः ।
परिहरति कुतः ।
एवं निश्चयो न संभवतीति यावत् ।
निश्चयासंभवमेवोपपादयति यदि हीति ।
प्रतियोगिनिरपेक्षैव विषयनिरपेक्षैव ।
एवम्-विषयप्रकाशनायैवात्मसंबन्धापेक्षा संविदो न स्वप्रकाशं प्रतीत्येवम् ।
न च तथेति ।
विषयप्रकाशकाल एव स्वाश्रयायैव प्रकाशमानायाः संविदः स्वप्रकाशे विषयात्मसंबन्धसापेक्षत्वमेषितव्यमिति भावः ।
अतीतादिविषयज्ञानेऽपि विषयेण संबन्धो ज्ञानस्य विषयविषयिभावलक्षणो विलक्षणः स्वरूपसंबन्धविशेषोऽस्त्येवेति हार्दम् ।
ननु निर्विषया निराश्रया च संवित् ।
अन्तःकरणतद्वृत्त्युपधानौपाधिकं केवलं तस्याः साश्रयत्वादिप्रतीतिमात्रमित्यत्राह आश्रयेति ।
भूतले घटसंयोगस्याश्रयो भूतलम्, प्रतियोगी घटः ।
पुत्रत्वस्याऽऽश्रयः पुत्रः, प्रतियोगी पिता ।
ज्ञानस्य प्रतियोगी विषयः, आत्माऽऽश्रयः ।
सिद्धिः-स्थितिः प्रकाशश्च ।
निर्विषयत्वेन निराश्रयत्वेन च स्थितिः प्रकाशो वा संविदो नास्त्येव ।
संविन्मात्रानुभवश्चानुपलम्भबाधितः ।
तथा च संवित्प्रकाशे आत्मसंबन्धापेक्षाऽपि दुर्वारैवेति भावः ।
स्वसत्ताव्यापकप्रकाशत्वेन स्वप्रकाशत्वं स्यात्संविद इति पुनः शङ्कते सत्या इति ।
परिहरति सत्या इति ।
तदा चात्मसम्बन्धस्य नियतपूर्वभावित्वादपेक्षितत्वाच्चसंवित्प्रकाशे हेतुत्वमेष्टव्यमेवेति भावः ।
निरुक्तहेतुना स्वयंप्रकाशत्वसाधने दोषं चाह अपि चैवमितिसुखादिष्वनैकान्त्यं हेतोरिति भावः ।तथा सति-सर्वस्यार्थस्य तद्वित्तेः साक्षी सर्वत्र संमतः ।
आत्मैवास्तु स्वतःसिद्धः किमनेकैस्तथाविधैः ।।20।।सन्तु नामार्थवित्तयः स्वतःसिद्धाः,तथापि न ताभिरयमात्मा प्रत्यक्षीभवति, तत्साक्षित्वात् ।
यत्साक्षी खल्वयं पुरुषः, न तेनासौ प्रत्यक्षः, घटसाक्षात्कारीव घटेन ।
अर्थसंविदां च साक्षात्कारी चेतन इति सोऽपि न ताभिरपरोक्षीभवति ।
(इति सिद्धान्तिना गुरुमतखण्डनम्) ननु विषयसंबन्धस्येवात्मसंबन्धस्यापि संवित्प्रकाशेऽस्तु हेतुत्वम् ।
तावता न स्वयंप्रकाशत्वस्य हानिः ।
स्वसजातीयज्ञानान्तरानपेक्षप्रकाशत्वात्तत्सिद्धेः ।
आत्मनस्तु न स्वयंप्रकाशत्वमेष्टव्यं विषयस्येव ।
किन्तु बाह्यार्थप्रकाशकत्वेनेष्टस्य ज्ञानस्यैवाऽऽत्मप्रकाशकत्वमपि कल्पनीयं लाघवादिति पुनः शङ्कते गुरुः अथार्थान्तरेति ।
परिहरति तथासतीति ।
सर्वस्येति ।
नानास्वयंप्रकाशकल्पनायां गौरवे सति सर्वार्थानां सर्वज्ञानानां च साक्षात्कर्तुरात्मन एव स्वप्रकाशत्वं कल्पनीयम् ।
नतु ज्ञानानामित्यर्थः ।
विषयाणामिव ज्ञानानामप्यात्मने प्रकाशमानत्वादात्मैकः स्वप्रकाशो भवतु ।
अन्ये सर्वे भवन्तु तदधीनप्रकाशा एवेति भावः ।।20।।एवं संविदोप्यात्मायत्तप्रकाशत्वान्न मुख्यं स्वप्रकाशत्वमित्युक्तम् ।
ज्ञानान्तरानपेक्षप्रकाशत्वेन भवतु नाम ज्ञानस्य तत्कथञ्चित् ।
अथापि न ज्ञानाधीनप्रकाश आत्मेत्याह- किञ्चेति ।
यो यस्येति ।
साक्षीद्रष्टा, प्रकाशकः ।
सिद्धिः प्रकाशः ।
न लौकिकी-नानुभवसिद्धा ।
लक्ष्यते-दृश्यते ।।21।। श्लोकं व्याख्याति स्वयमेव सन्तु नामेति ।
उक्तनीत्या संवित्त आत्मप्रकाशानुपपत्तेस्स्वयंप्रकाशत्वमात्मन एष्टव्यमेवेति भावः ।न हि कश्चित्पदार्थः स्वप्रकाशायासाधारणसजातीयार्थान्तरापेक्षो दृष्टः । न खलु घटः स्वसिद्धये घटान्तरमपेक्षते; अपेक्षते तु विजातीयमालोकादि । एवमालोकोऽपि प्रकाशमानो नालोकान्तरमपेक्षते; नापि स्वापेक्षप्रकाशं घटादिकमपेक्षते; अपेक्षते तु विजातीयमिन्द्रियम् । एवमिन्द्रियमपि नेन्द्रियान्तरं स्वापेक्षप्रकाशमालोकादि घटं वाऽपेक्षते; अपेक्षते तु विजातीयं संवेदनम् । एवं संवेदनमपि संविदन्तरं स्वाधीनसिद्धिकमिन्द्रियादिकं वा नापेक्षते स्वसिद्धौ; अपेक्षते तु विजातीयं स्वाश्रयभूतं स्वतन्त्रमात्मानम् । एवमात्माऽप्यात्मान्तरं स्वाधीनसिद्धि संविदिन्द्रियादिकमपि स्वापरोक्षे नापेक्षत इत्यनन्यापेक्षा ह्यात्मस्वरूपसिद्धिः । (इति सिद्धान्तिनाऽऽत्मनः स्वप्रकाशत्वसमर्थनम्) संविदधीनप्रकाशत्वे बाधकमुक्त्वाऽऽत्मनः स्वप्रकाशत्वे साधकमप्याह सजातीयेति । सर्वे हि प्रकाशमानाः पदार्थाः सजातीयंस्वात्यन्तसजातीयम्, स्वसाध्यं-स्वाधीनप्रकाशं चार्थमनपेक्ष्यैव प्रकाशमाना इति आत्माऽपि प्रकाशमान आत्मान्तरं स्वापेक्षप्रकाशं ज्ञानादिचानपेक्ष्यैव प्रकाशत इत्यनुमन्तव्यम् । तथाच स्वयंप्रकाशत्वं तस्य फलतीति भावः ।।22।।श्लोकार्थस्य प्रपञ्चनं नहि कश्चिदित्यादि । अत्रायं निष्कर्षः- स्वविषयकज्ञानान्तरानपेक्षप्रकाशत्वलक्षणंस्वयंप्रकाशत्वं ज्ञानात्मनोः समानम् । स्वेतरसकलनिरपेक्षप्रकाशत्वलक्षणं तु तदात्मस्वरूपस्यैवेति ।बुद्धिसुखदुःखादिनिःशेषवैशेषिकात्मगुणात्यन्तिकोपरमलक्षणो हि मोक्षःकणभक्षाक्षचरणमते ।
न चात्यन्तलुप्तकार्यं वस्तु तत्कार्यजननशक्तमित्यत्र किंचित्प्रमाणं क्रमते ।
देहादिविशिष्टसंबन्धितया दृश्यमानसुखदुःखज्ञानादिकार्यं विशिष्टवर्तिनीमेवात्मोत्पादशक्तिं कल्पयति, धूम इवार्द्रेन्धनसंबन्धिनि धूमध्वजे स्वोत्पादनसामर्थ्यम्, व्रीह्यङ्कुर इव च सतुषतण्डुले ।
अपि च बोधे सत्येवात्मनोऽनात्मव्यवच्छेदे संभवति कृतं तच्छक्तयाश्रयणेन ।
न चैवं सति बोध एव परमात्मेति युक्तम्, तस्याऽऽश्रयप्रतियोगिसापेक्षस्वरूपत्वादात्मनश्च तद्विपरीतस्वभावत्वात्; साक्षाच्च चेतयितुरहमर्थस्य स्फुरणात्; अनुभवतर्कागमबलेन चितिमत आत्मभावस्यानन्तरमेव प्रपञ्चितत्वाच्च ।
नच चितिमात्रात्मवादेऽपि तस्यागन्तुकविषयसंबन्धे बोधत्वमध्यारोप्य बोद्धृत्वसमर्थनं साधीयः, संबन्धस्योभयनिष्ठतयाऽर्थस्यापि बोद्धृत्वप्रसङ्गात् ।
न च कार्यकारणभाववद्व्यवस्थित्वम्, तत्र जनिमतो जनयितुश्च परस्परापेक्षानियमलक्षणसंबन्धः ।
इहापि स एवेति चेन्न, अपेक्षाहेत्वभावात् ।
किमर्थमर्थः चैतन्यमपेक्षते, चैतन्यं वाऽर्थम् ।
सिद्ध्यर्थमिति चेत्, कः सिद्ध्यर्थः? न तावदुत्पत्तिः, तस्या निर्ज्ञातनिमित्तान्तरत्वात् ।
घटादयो हि प्रसिद्धमृद्दण्डचक्रभ्रमणादिपर्याप्तनिमित्तान्तर शालिनो न चितिमपि निजजननेऽपेक्षन्ते ।
निरस्तश्च विज्ञानमात्रवादः ।
नित्यस्यात्मन उत्पत्त्यर्थमर्थापेक्षेति सुव्याहृतम् ।
सिद्धिः प्रकाश इति चेत्; किं भोः आत्मा स्वयंज्योतिरप्यर्थाधीनप्रकाशः? यदसौ तदर्थमर्थमपेक्षते ।
महनीयमिदमात्मवेदित्वम् ।
प्रकाशश्च न संविदतिरेकी कश्चिदर्थधर्मः संभवतीत्यावेदितम् ।
संभवन्नप्यसौ न चितिस्वरूपमात्रनिमित्तः, सर्वदा सर्वार्थप्रकाशप्रसङ्गात् ।
न हि सदा संनिहितसमग्रकारणं कार्यं कदाचिद्भवति ।
आगन्तुकातिशयाश्रयणे वा नामान्त रेण ज्ञानमेवाङ्गीकृतमिति तद्वानेवात्माऽऽयातः ।
(इति धर्मभूतज्ञानस्य नित्यत्वसाधनम्) नन्वेवमर्थसिद्धिव्यवस्थापकतयाऽभ्युपगतं ज्ञानमागन्तुकं क्रियारूपमिति कथं तदात्मस्वभावः ? ।
तथाहि-अर्थान्तरगतत्वे सति जनकद्रव्यान्तर प्रति कार्यत्वादिकेन रूपेणासाधारणो गन्तव्यदेशप्राप्त्यादिर्यं प्रत्यसाधारणः तत्समवेतागन्तुकासाधारणगमनादिक्रियाजन्यो दृष्टः ।
तादृशी चार्थसिद्धिर्यं पुरुषं प्रत्यसाधारणी तत्समवेततादृशक्रियाजन्येति शक्यमनुमातुम् ।
मैवम् ।
अक्रियाजन्येनाभावप्राप्तक्षेत्रादिस्वत्वेन क्षेत्रिणं प्रत्यसाधारणेन क्षेत्रजव्रीह्यादिस्वत्वेन चानैकान्त्यात् ।
नच निर्व्यापारतया क्षेत्रिणस्तत्राजनकत्वम्; व्यापारकालादिना व्यभिचारात्, तद्भावभावित्वस्य चाविशेषात् ।
तज्जीवनमेव तत्र जनकव्यापार इति चेत्, ननु तत् सस्यपालनादिसाधारणमिति कथमसाधारणक्रियाजन्यत्वम्? अपि चैवं सति तदेवार्थप्रकाशेऽपि जनकव्यापारोऽस्तु; किमक्लृप्तकल्पनया? ।
सत्यपि तस्मिन्नर्थो न प्रकाशत इति चेत्, स्वत्वं वा किं यथोदितं सति जीवने जायत एव ? ।
व्रीह्यादिसत्ताऽप्यपेक्ष्यत इति चेत्, इहापीन्द्रियादिप्रत्यासक्तिरिति समानश्चर्चः ।
अतो यं प्रत्यसाधारणो यथोदितधर्मः तदीयासाधारणधर्मनिमित्त इत्येतावत् ।
स चेष्यत एवात्मनश्चैतन्यं रवेरिव तेजस्वित्वम् ।
न च हेतुभेदानुविधायितया, जानाभ्यज्ञासिषमित्यादिकालावच्छेदप्रतीतेर्गमनादेरिव ज्ञानस्यागन्तुकत्वमनुमेयम्; आदित्यप्रकाशेनानैकान्त्यात् ।
अस्ति हि तत्रापीमं देशमादित्यः प्रकाशयति प्राचीकशत् प्रकाशयिष्यतीति प्रतीतिः ।
स्वारसिकत्वेऽप्यादित्यप्रकाशस्य प्रकाश्यदेशसंबन्धकादाचित्कतयाअवच्छेदप्रतीतिरुपपद्यत इति चेत्; इहापि तर्हीन्द्रियादिप्रत्यासत्तिसमासादितयोग्यभावोऽनुभाव्यभेदः स्वाभाविकमात्मनश्चैतन्यगुणमवच्छिनत्तीति तदपेक्षयैवेन्द्रियाद्यनुविधानमतीतानागतप्रत्युत्पन्नत्वप्रत्ययप्रयोगौ चोपपद्यन्ते ।
कथं पुनरत्र निर्णयः, मणिद्युमणिप्रकाशादेरिवौपाधिकोऽयं भेदः, न तु गमनपचनादेरिव स्वाभाविक इति ?ताद्रूप्येणैव प्रत्यक्षत्वात् ।
न हि जातुचिदद्रूपोऽयमात्मा लोष्टादिवद्दष्टचरः ।
यश्च यद्गुणतयैव साक्षाद्भवति, स तत्स्वभावः, मरुदिव स्पर्शगुणतयैवाध्यक्ष्यमाणः ।
यो यत्स्वभावो न भवति, न तद्विरहेणापि स्वरूपत उपलभ्यते, गमनादिरहिततयेव देवदत्तादिः ।
शरीरवदिति चेन्न, असिद्धत्वात् ।
स्यादेतत्-यथैव ख्ल्वस्वभावभूतेनापि शरीरेण सध्रीचीन एवायं चेतनश्चकास्ति, तथा चैतन्येनापीति ।
तन्नैवम्, असिद्धत्वात् ।
न हि तनुविशिष्टतयैवायं चेतनः परिस्फुरति ।
योगिनां प्रणिहितमनसामुपरतबहिरिन्द्रियाणां च देहानुसन्धानविरहेणापि अहमिति स्फुटमनुभवात् ।
जानामीति प्रत्ययः शरीरवर्णसन्निवेशनिर्भासशून्यतया तत्त्वान्तरगोचर इति च प्रागेवावोचम् ।
कर्मानुगुण्येन सुरमनुजादिजातीयतया भिद्यमानास्वागमापायिनीषु तनुषु मनस इवैकस्य वर्ष्मणः स्वभावानुबन्धित्वेनाश्रयितुमशक्यत्वात् ।
लिङ्गस्य पुनरनुवृत्तावपि अप्रत्यक्षत्वान्न व्यभिचारित्वम् ।
(इति ज्ञानस्यात्मस्वभावत्वप्रतिष्ठापनम्) बोधस्वाभाव्ये पुंसः स्वापमूर्च्छयोः प्रकाशप्रसङ्ग इति चेन्न, विकल्पासहत्वात् ।
तथाहि-प्रकाश इति पदार्थमात्रसाधारणं बोधजन्यं प्रकटतादिपदपर्यायं धर्ममभिप्रेत्य वाऽयं प्रसङ्गः, अथ बोधमेव, तदविप्रकर्षं वा ? ।
आद्ये तदभावादेव न प्रसङ्गः ।
अभावश्च प्रकटित एव संवित्स्वतस्सिद्धिसमर्थनसमये ।
भावेऽपि तमःप्रतिबन्धादप्यनुदयः संभवी ।
इतरयोरभिमतमेवापादितमित्यदोषोद्भावनम् ।
बोधस्वाभाव्ये हि पुरुषस्य स्वापादिदशासु च तथाभावोऽभिमत एवेति न हि तदापादनं दोषाय ।
अथ मतम्-स्वापादावपि स्वानुभवसद्भावे जागर इव व्यवहारप्रसङ्ग इति; मैवम्, व्यवहारागोचरत्वात् ।
कः खल्वात्मनि व्यवहारः? न ह्यसावादातुं हातुमुपेक्षितुं वा शक्यः ।
व्याहारः प्रसज्यत इति चेत्, किमङ्ग! निर्विकल्पकबालमूकादिवेदनविषयो व्यवह्नियत एव? करणपाटवव्यवजिहीर्षादिसहकारिविरहात्तत्र व्याहारानुदय इति चेत्, समानोऽयं विधिरितरत्रापीति निरनुयोज्यानुयोगः ।
स्मृतिप्रसङ्ग इति चेन्न, अवृत्तित्वात् ।
यद्युच्येत-मूर्च्छादावात्मानुभवाभ्युपगमेऽर्थान्तरानुभव इवैवमहमन्वभूवमिति परस्तात् स्मृतिः प्रसज्यत इति; तन्न, अवृतित्त्वात् ।
न हि मूर्च्छा प्रस्वापो वा बुद्धिवृत्तिविशेषो दर्शनस्पर्शनादिवत्, येन स्मृतिबीजं संस्कारमादधीयाताम् ।
किन्तूद्भूतेन तमसोपरतव्यापारेषु करणेषु निर्वृत्तिकसांसिद्धिकबोधस्वरूपेणावस्थानमात्रमात्मनः ।
न च बोधस्वभावत्वादेवास्य संस्काराधायकत्वम्, अनवरतोपचीयमानसंस्कारतयाऽनिर्मोक्षप्रसङ्गात् ।
अनुभवे च स्वानुरूपसंस्काराधाननिरुद्धे सदृशसंबन्धिदर्शनादिसमुद्बोधितनिजबीजानुसारेण स्मरणमुपजायते ।
न चेहात्मस्वरूपबोधस्य जातुचिन्निरोधो जन्म वा; नित्यात्मसत्ताप्रयुक्तत्वात् ।
निमित्तान्तराभावश्चानन्तरमेव व्याकरिष्यते? ।
तदेवमनुवर्तमान एवानुभवे कथं स्मृतिरुदयमासादयेत् ? ।
य एवाहं पूर्वेद्युरासं स एवाहमद्यापीति स्मृतिसंभिन्नप्रत्ययोऽपि कालावच्छिन्नस्वरूपगोचरः, न स्वरूपमात्रे ।
अविशदश्च स्वापादौ स्वानुभवो निर्विकल्पकश्च ।
पटीयसा सविकल्पकेनावगमेन स्मृतिबीजमाधीयत इति च कुतस्तत्प्रसङ्गः ।
साम्याच्चाननुभवाभिमानः शरीरतद्धारणप्रयत्नाननुसंधानवत् ।
न चाविकृतस्वाभाविकबोधमात्रेणावस्थाने स्वापमोक्षयोरविशेषापत्तिः; क्लेशवासनानां गुणाभिभवस्य चैकत्र भावात्, इतरत्र तदत्यन्तनिवृत्तेः ।
असंप्रज्ञातसमाधावपि परमवैराग्यशालिना पटुतरनिरोधसंस्कारेण चरिताधिकारिणा अपवर्गिणा विशेषः ।
(इति ज्ञाननित्यत्वे प्रसक्ताक्षेपाणां परिहरणम्) कथं पुनर्निद्राया अवृत्तित्वे प्रबुद्धस्य प्रत्यवमर्शाः सुखमहमस्वाप्समित्याद्याः? न ह्यननुभूतगोचराः स्मृतयः संभवन्ति ।
सत्त्वसचिवसमुल्लसिततमोगुणानुभवभावितभावनायोनिः खलु सुखमहमस्वाप्सं, प्रसन्नं मे मनः, लघूनि मे गात्राणीति प्रत्यवमर्शः; रजस्तमस्समुद्रेके तु दुःखमहमस्वाप्सं, भ्रमत्यनवस्थितं मे चित्तमिति; सत्त्वरजसी त्वभिभूय नितान्तमुद्भूते तमसि गाढमूढं सुप्तोऽस्मि, गुरूणि मे गात्राणि, मुषितमिव मनः, मीलितमिव इति ।
सत्यमेवम् ।
दत्तोत्तरं ह्येतत् ।
नैवामी वासनायोनयः प्रत्ययाः ।
अपि तु तात्कालिकशरीरेन्द्रियामनोवस्थाविशेषपर्यालोचननिमित्ता आनुमानिका इति ।
एवंरूपा हीमे-यतः प्रसन्नं मे मनः,सम्यगाहारपरिणामवशाल्लघूनि चाङ्गानि, अतः सुखमहमस्वाप्समिति ।
स्वापावस्थायां वा इन्द्रियोपरमतारतम्यवशादविशदतात्कालिकतत्तदनुकूलप्रतिकूलविषयानुसन्धाननिबन्धनतयाऽपि स्मरणमुपपद्यत इति न वृत्त्यन्तरत्वं निद्रायाः ।
कथं तर्हि पारमर्षं सूत्रम् “अभावप्रत्ययालम्बना वृत्तिर्निद्रा” इति ।
निरोधपरत्वात्प्रकरणस्य न वृत्तिस्वरूपे तात्पर्यं विपर्ययवत् ।
नह्यतद्रूपप्रतिष्ठं मिथ्याज्ञानं किञ्चिदस्ति, सर्वसंविदामर्थाव्यभिचारात् ।
स चाधिकरणसिद्धः ।
साधयिष्यते चोपरिष्टात् ।
कैवल्यभागि यच्चित् तत्प्रत्यनीकतया निद्रादेर्निरोध्यत्वेनोपदेशः ।
(इति निद्राया वृत्तिरूपत्वनिषेधनम्) अस्तु वा पूर्वोक्तप्रमाणादिवृत्त्यभावकारणभूतप्रचिततमतमोगुणावलम्बना वृत्तिरेव निद्रा;सन्तु च प्रबुद्धप्रत्यवमर्शाश्च स्मरणानि; तथा सत्य(प्य) नवरतानुवृत्तबोधतया स्थितमेव पुंसो बोधस्वभावत्वम् ।
आह-बोधकारणानुवृत्त्याऽपि बोधानुवृत्तिरुपपद्यत इति कथं तथास्वाभाव्यनिश्चयः? इत्थम् - एवं विषयप्रकाशकादाचित्कत्वेनात्मनो धर्मभूतं ज्ञानमागन्तुकमेव ।
आत्मस्वरूपप्रकाशोऽपि न सर्वदा, किन्तु विषयज्ञानकाल एव ज्ञानतः, न स्वतः इति प्रत्यवस्थानप्रसङ्गे ज्ञानस्य नित्यत्वं तावद्व्यवस्थापयति अत्राहुरिति ।
आत्मस्वरूपप्रयुक्तं ज्ञानम् ।
तच्चात्मनो नित्यत्वान्नित्यमेव ।
आत्मस्वरूपनिरूपकधर्मत्वाच्च ज्ञानस्य न ज्ञानरहितमात्मनः स्वरूपं व्यवतिष्टेत प्रकाशरहितमिव तेजः ।
अतो मुक्तावपि ज्ञानवत्त्वमुपेयम्, ज्ञानशून्यस्यानात्मत्वादिति श्लोकद्वयार्थः ।
ननु ज्ञानाभावेऽपि ज्ञानशक्तिमदात्मस्वरूपं मुक्तिकाल इत्यत्राह चितिशक्तयेति ।
लुप्तमुत्तरार्धमस्य ।
तत्स्थानेऽस्मदीयं पूरणं ( ) एतच्चिह्नान्तर्निवेशितम् ।
नित्यस्य स्वरूपयोग्यत्वे फलावश्यंभावनियमाज्ज्ञानशक्तिमत्त्वे मुक्तस्य कदाचिज्ज्ञानमुदियात् ।
मुक्तौ कदाऽपि ज्ञानस्यानुदयात्तच्छक्तिरपि तदा नष्टैवेति आत्मनाश एव प्रतिज्ञातो भवेत् ।
स्वरूपनिरूपकधर्मनिवृत्तौ स्वरूपनिवृत्तेरवश्यम्भावादित्यर्थः ।
ननु ज्ञानस्य ज्ञानशक्तेर्वा नात्मस्वरूपनिरूपकत्वम् ।
किन्तु आगन्तुकमपि तदात्मन एवेष्यते धर्मभूतं न घटादेरित्यात्मनात्मव्यवस्थोपपद्यत इति चेत्; मैवम् ज्ञानस्यात्मस्वरूपनिरूपकधर्मतायाः स्थापयिष्यमाणत्वात्, जडात्मवादस्य त्रय्यन्तविरुद्धत्वेन सद्भिरनादरणीयत्वाच्चेति हार्दम् ।।24।।25।।26।।चितिशक्त्येत्यादि विवृणोति बुद्धीत्यादिना ।
पाषाणकल्पस्य मुक्तात्मनोऽचिद्व्यावर्तकचिच्छक्तयाश्रयणं व्यर्थमित्याह अपि चेति ।
लुप्तार्धविवरणं स्यादिदम् ।
ननु नित्यत्वे ज्ञानस्याऽऽत्मत्वमपीष्यतां तस्यैवेति शङ्कामनूद्य परिहरति न चैवं सतीति ।
परम्-वरम् ।
तस्येति ।
विषयाश्रयसापेक्षस्य ज्ञानस्य तदनपेक्षस्वतन्त्रात्मस्वरूपत्वमयुक्तमित्यर्थः ।
किंच, कल्पनायामेव लाघवगौरवचर्चावसरः ।
नतु स्फुटप्रतिपन्ने बोद्ध्रात्मनीत्याह साक्षाच्चेति ।
अहं जानामीति ज्ञात्रात्मप्रत्यक्षस्य भ्रमत्वमिति चेत्तत्राह अनुभवेति ।
अनन्तरमेव-अव्यवहितपूर्वमेव ।
ज्ञातुरात्मत्वसमर्थन इति यावत् ।
सत्प्रमाणतर्कानुग्रहात् ज्ञात्रात्मप्रत्यक्षस्याभ्रान्तित्वमेव संमन्तव्यमितिभावः ।
ननु चैतन्यमेवाऽऽत्मा ।
विषयसंबन्ध एव तस्य बोधो नाम ।
अतो बोद्धृत्वप्रतिपत्तिरात्मन उपपद्यत इति शङ्कते न च चितिमात्रेति ।
विषयचैतन्यसंबन्धस्य बोधत्वाभिमतस्य संयोगरूपत्वे तस्य द्विष्ठत्वाद्विषयस्यापि बोद्धृत्वप्रसङ्ग इत्याह सम्बन्धस्येति ।
शङ्कते न च कार्येति ।
यथा कार्यकारणभावस्य हेतुहेतुमदुभयनिरूप्यत्वेऽपि हेतुहेतुमतोर्व्यवस्था इदमस्य कारणम्, इदं त्वस्य कार्यमिति, एवं चिद्विषयसंबन्धस्य विषयविषयिनिरूप्यत्वेऽपि बोद्धृबोध्यव्यवस्था घटत इति शङ्कितुराशयः ।
परिहरति तत्रेति ।
यद्यपि कार्यस्य कारणस्य च संबन्धः कार्यकारणभावः कथ्यते ।
परं तु कार्यत्वं कारणनिरूपितं कार्यनिष्ठं स्वपूर्ववर्तिकारणापेक्षत्वलक्षणं स्वप्राक्कालावच्छेदेन कार्यव्यापककारणकत्वपर्यसायि, कारणत्वं च कार्यनिरूपितं कारणनिष्ठं स्वोत्तरभाविकार्यापेक्षत्वलक्षणं कार्यनियतप्राक्कालवर्तित्वपर्यवसायि भिन्नभिन्नमेव तत्र प्रविष्टम् ।
अत्र तु एक एवोभयसमवेतः संयोग इति व्यवस्थादुर्घटेत्यर्थः ।
यद्यपि संयोगस्योभयनिष्ठत्वेऽपि अनुयोगितासंबन्धेन तस्य चिन्निष्ठत्वाच्चित एव बोद्धृत्वम्, तत्प्रतियोगिनस्तु विषयस्य बोध्यत्वमिति व्यवस्था घटेत, अथापि न चिन्मात्रत्वमात्मनः, किन्तु चित्याश्रयत्वमपि श्रौतत्वादुपेयमेवेति ध्येयम् ।
चिच्चेत्ययोरपि परस्परापेक्षानियमलक्षणा एव संबन्धोऽस्त्विति शङ्कते इहापीति ।
परिहरति नापेक्षेति ।
अपेक्षाया हेतुः प्रयोजनरूपोऽर्थो नास्तीत्यर्थः ।
तस्यैव विवरणं किमर्थमित्यादि ।
नन्वर्थानां वासनादोषाच्चैतन्य एव कल्पितत्वादधिष्ठानतया चितोऽपेक्षा स्यादेवेत्यत्राऽऽह निरस्तश्चेति ।
एवमर्थस्योत्पत्तौ चिदपेक्षां प्रतिक्षिप्य चित उत्पत्तावर्थापेक्षां प्रतिक्षिपतिनित्यस्येति ।
नित्यचैतन्यस्यार्थापेक्षोत्पत्तिवचनं व्याहततरमिति भावः ।
तत्प्रकाशस्यार्थापेक्षां निरस्यति किमिति ।
महनीयमित्यादि सोपालम्भम् ।
अनात्मवेत्तृत्वमेवैवं वक्तुः फलति ।
अर्थानां भासकस्यात्मज्योतिषः स्वयंप्राकाशत्वादिति भावः ।
नन्वस्तु प्रकाशेऽर्थानां चिदपेक्षा ।
तत्राह प्रकाशश्चेति ।
संविदेव प्रकाशः ।
तदर्थं संविदपेक्षा चेदात्माश्रय इति भावः ।
संविदतिरुक्तप्रकाशपक्षेऽप्याह संभवन्निति ।
चैतन्यमात्रापेक्षत्वेऽर्थप्रकाशस्य नित्यत्वप्रसङ्ग इत्यर्थः ।
आगन्तुकधर्मवच्चिदपेक्षत्वे च तस्य ज्ञात्रात्मसिद्धिरप्रत्यहेत्याह आगन्तुकेति ।
आगन्तुकातिशयश्च स्वधर्मभूतज्ञानविकासरूप एव ।
तद्विशिष्टं ज्ञानं बोधः ।
तदाश्रय आत्मेति न बोधमात्रमात्मेति साम्प्रतमिति भावः ।
नन्वेवमात्मनो बोधस्वरूपत्ववद्बोधस्वभावत्वमपि न संभवति अनित्यस्य बोधस्य नित्यात्मस्वभावत्वायोगात् ।
अिर्थप्रकाशकादाचित्कत्वाय बोधकादाचित्कताया एव मन्तव्यत्वादिति शङ्कते नन्वेवमिति ।
ज्ञानस्य क्रियात्वमागन्तुकत्वं च साधयितुं सामान्यव्याप्तिं शिक्षयति अर्थान्तरेति ।
अर्थान्तरं-ग्रामादि ।
जनकद्रव्यान्तरं-गन्ता ।
गन्तव्यदेशप्राप्तिर्ग्रामपुरुषसंयोगः।
उभयनिष्ठोऽप्ययं पुरुषप्रवृत्तिमूलत्वेन पुरुषासाधारणः पुरुषनिष्ठागन्तुकगमनक्रियाजन्यो दृष्ट इत्यर्थः ।
तादधीन्यादिना तदसाधारणार्थान्तरनिष्ठधर्मत्वव्यापकं तन्निष्ठागन्तुकक्रियाजन्यत्वमिति फलितम् ।
उदाहरणमुक्त्वोपनयनिगमने प्रदर्शयति तादृशीति ।
प्रतिज्ञाहेतू अर्थसिद्धौ ।
अवयवत्रयप्रयोगो वा यथेच्छम् ।
ज्ञेयनिष्ठश्च प्रकाशस्तत्तत्पुरुषासाधारणः तत्तत्पुरुषीयागन्तुकज्ञानक्रियाजन्यः सिषाधयिषितोऽत्र ।
व्याप्तिमेव दूषयति मैवमित्यादिना ।
अक्रियेति ।
कुलपरम्परया प्राप्ते क्षेत्रादौ जन्मत एव स्वत्वं यस्य भागिनोऽन्यस्याभावात्, भावे वा दायतः; तत्र तदसाधारणेऽर्थान्तरक्षेत्रादिस्वत्वे तन्निष्ठक्रियाजन्यत्वं नास्तीति व्यभिचार इत्यर्थः ।
अभावप्राप्तेत्यत्र भावप्राप्तेति स्वभावप्राप्तेति वाऽन्यथा वा पाठः संभाव्यते ।
अन्यक्रियया दैवेन वा स्वक्षेत्रे पतितानां बीजानां प्ररूढानां स्वत्वे स्वासाधारणे स्वीयागन्तुकक्रियाजन्यत्वं नास्तीति व्यभिचारमपि प्रदर्शयति क्षेत्रिणमिति ।
तद्भावेति ।
यथा निर्व्यापारस्यापि व्यापारादेरन्वयव्यतिरेकाभ्यां कारणत्वम्, तथा क्षेत्रिणः सत्त्व एव तन्निरूपितं क्षेत्रादिस्वत्वं सिध्यतीति तत्र तत एव निर्व्यापारस्यापि क्षेत्रिणो जनकत्वं सेत्स्यतीति भावः ।
ननु क्षेत्रिणो न निर्व्यापारत्वम्, किन्तु जीवनमेव व्यापार इति शङ्कते तज्जीवनमेवेति ।
परिहरति ननु तदिति ।
क्षेत्रिणो जीवनं हि सस्यरक्षणादिसाधारणकारणम् ।
न तु क्षेत्रादिस्वत्वेऽसाधारणकारणम् ।
तथा चासाधारणा- गन्तुकक्रियाजन्यत्वानुमानेऽनैकान्त्यमेवेति भावः ।
ननु तद्व्यापारजन्यत्वमेव साध्यते ।
न त्वसाधारणक्रियाजन्यत्वम् ।
नातो व्यभिचार इति चेत्तर्ह्यर्थान्तरमित्याह अपि चैवमिति ।
तदेव बोद्धुर्जीवनमेव ।
किमिति ।
आगन्तुकज्ञानकल्पनाऽपार्थेति भावः ।
इहापीति ।
इन्द्रियार्थसन्निकर्षादिसहकारिसम्पत्तौ बोद्धुर्जीवनमेवार्थप्रकाशे जनकमस्त्विति भावः ।
जीवनस्याप्युत्तरोत्तरकालसत्तालक्षणस्य न क्रियारूपत्वमिति न तद्व्यापारजन्यत्वमपि साध्यम् ।
किन्तु तदसाधारणधर्मजन्यत्वमेवेत्युपसंहरति अत इति ।
अस्त्वेवम् ।
तावता भवतो लाभः कः? ।
तत्राह स चेष्यत एवेति ।
अस्मदनिष्टं साधयितुं प्रवृत्तस्य भवतोऽर्थान्तरेण निग्रहणमेवास्माकं लाभ इति भावः।
स्वभावप्राप्तक्षेत्रादिस्वत्वे व्यभिचारादेवागन्तुकधर्मजन्यत्वमपि न साधयितुं शक्यत इति चानुसन्धेयम् ।
एवमर्थप्रकाशकादाचित्कत्वेन ज्ञानागन्तुकत्वसाधनं दूषितम् ।
प्रकारान्तरेण च तत्साधनं दूषयितुमनुवदति न च हेतुभेदेति ।
ज्ञानमागन्तुकं कालावच्छिन्नतया प्रतीतेः, गमनादिवत्, ज्ञानमिन्द्रियार्थसन्निकर्षादिजन्यं तद्भावाभावानुविधायिभावाभावत्वात् इन्धनादिजन्यपाकादिवदिति प्रयोगद्वयमत्र गर्भितम् ।
व्यभिचारेणैव दूषयति आदित्येति ।
स्वाभाविकस्याप्यादित्यप्रकाशस्य तत्तत्प्रकाश्यदेशसंबन्धस्य कालत्रयपरिच्छिन्नतया तद्विशिष्टविषयिणी कालपरिच्छिन्नत्वप्रतीतिः न प्रकाशस्वरूपस्य कादाचित्कत्वसाधिकेति शङ्कते स्वारसिकत्वेऽपीति ।
स्वारसिकत्वम्-स्वाभाविकत्वम् ।
विशिष्टे विधिनिषेधौ विशेषणमुपसङ्कामतः सति विशेष्ये बाधे इति न्यायेन विशिष्टे कालावच्छेदप्रतीतिर्विशेषणे पर्यवस्यति ।
अनित्यत्वानुमानं च विशिष्टविषयम्, नतु स्वरूपमात्रविषयम् ।
तथा च यद्रूपावच्छिन्नस्य कालावच्छेदप्रतीतिः तस्यानित्यत्वमेव स्वरूपमात्रस्य च न कालावच्छेदप्रतीतिरिति न व्यभिचार इति भावः ।
स्वरूपमात्रस्य कालावच्छेदप्रतीतिः पक्षेऽप्यसिद्धेति परिहरति इहापीति ।
योग्यभावः-प्रकाशयोग्यता ।
अवच्छिनत्तिकालावच्छिन्नत्वं यथा भवेत्तथा स्वसंबन्धेन विशिनष्टि चैतन्यमित्यर्थः ।
हेतुविशेषानुविधानस्याप्यन्यथासिद्धिमाह तदपेक्षयैवेति ।
अर्थसंबन्धापेक्षयैवेत्यर्थः ।
तथा च प्रथमानुमानस्याप्रयोजकत्वमिति हार्दम् ।
कालावच्छेदादेरौपाधिकत्वं स्वाभाविकत्वं तत्र तत्र दृष्टम् ।
ज्ञाने तस्यौपाधिकत्वनिश्चय एकान्ततः कुत इति पुनः शङ्कते कथं पुनरिति ।
औपाधिकोऽयं भेदः-भूतभविष्यत्त्वादिभेदो ज्ञानस्य विषयसंबन्धौपाधिकः ।
ताद्रूप्येणैवेति ।
ज्ञानस्य नित्यात्मस्वभावत्वान्नित्यत्वमिति तत्कालावच्छेदप्रतीतेरौपाधिकत्वं सुनिश्चेयमिति भावः ।
ज्ञानवत्त्वेनैव साक्षात्क्रियमाणत्वादात्मा ज्ञानस्वाभाव इत्यर्थः ।
साक्षात्कारो वृत्तिविशेषः ।
स चात्मनो ज्ञानवत्त्वेनैवेति यावत् ।
तेनात्मनः स्वरूपत एव प्रकाशमानस्य स्वापे ज्ञानवत्त्वेनाप्रकाशेऽपि न क्षतिः ।
न चैवमपि अहं सुखी, अहं दुःखी, अहमिच्छामि, अहं द्विष्यामीत्यात्मनः साक्षात्कारे ज्ञानवत्त्वेनाप्रकाशादसिद्धत्वं हेतोरिति वाच्यम्; तत्राप्यहमिति अनुकूलप्रतिकूलविषयकज्ञानवत्त्वस्योल्लेखात्; सुखादेरपि ज्ञानावस्थाविशेषत्वाच्च ।
इच्छादिप्रत्यक्षकाले ज्ञानस्य स्वयंप्रकाशत्वादिच्छाद्यनुभववत्त्वेनाप्यात्मनो भानाच्च ज्ञानवत्त्वेनैवात्मन उपलम्भः सेत्स्यतीति चानुसन्धेयम् ।
यद्यपि ज्ञानस्यात्मस्वभावत्वादौ श्रुतिरेव जागर्ति ।
अथापि युक्तिप्रधानत्वात्प्रकरणस्यास्य युक्तिरेवात्र निदर्शिता ।
शास्त्रं चाग्रे प्रदर्शयिष्यते ।
न हीति ।
अचिद्रूपः-चैतन्यानाश्रयः ।
शिष्टं स्पष्टम् ।
अत्र शङ्कते शरीरवदितीति ।
तद्वत्तयैवोपलभ्यमानत्वं न तत्स्वभावकत्वव्याप्यम् ।
शरीरवत्तयैवोपलभ्यमानस्याप्यात्मनः शरीरस्वभावकत्वाभावादित्यर्थः ।
परिहरति असिद्धत्वादिति ।
शङ्काग्रन्थस्य विवरणम्स्यादेतदित्यादि ।
सध्रीचीन एव-सहित एव ।
परिहारग्रन्थस्य विवरणम् तन्नैवमित्यादि ।
शरीरवत्तयैवोपलम्भ आत्मनोऽसिद्धः ।
योगदशायामवधानदशायां मानसानुभवदशायामपि शरीरंविनैवात्मनो भानात् ।
तथाच न व्यभिचार इति भावः ।
योगिप्रत्यक्षे आत्मचिन्तने च देहं विनाऽऽत्मभानमुक्त्वा लौकिकप्रत्यक्षेऽपि तदाह जानामीति ।
शरीरस्यात्मस्वभावत्वाभावं द्रढयति कर्मेति ।
तत्तन्मनुष्यादिशरीरविशेषवत्तयैवोपलम्भश्चात्मनोऽसिद्ध इति च हार्दम् ।
मनस इवेति वैधर्म्यदृष्टान्तः ।
मनो यथाऽनुवर्तते न तथा शरीरमेकमिति यावत् ।
मुक्तावस्थायामपि मनोऽनुवृत्त्याशयेनेदम् ।
ननु स्थूलशरीरस्य निवृत्तावपि सूक्ष्मशरीरस्य सर्वदाऽनुवृत्तिर्वर्तते ।
तस्य च नात्मस्वभावत्वमिति तत्र व्यभिचार इति मन्दाशङ्कामपनुदति लिङ्गस्येति ।
अपिनाऽनुवृत्तिरेव नास्ति प्रलये मोक्षे चेति व्यज्यते ।
लिङ्गशरीरस्यातीन्द्रियत्वाद्धेत्वभावान्न व्यभिचार इति च भावः ।
अत्रेदं बोध्यम्-आत्मधर्मभूतज्ञानस्वरूपं तावन्नित्यमेव ।
किन्तु सङ्खोचविकासशालिनस्तस्य इन्द्रियादिद्वारकप्रसरणादर्थप्रकाशकत्वमिति पुनरर्थप्रकाशकत्वविशिष्टस्यानित्यत्वमिष्यते ।
अतो विशिष्टविशेषेणानित्यत्वं स्वरूपतो नित्यत्वं च व्यवस्थापितं तस्यात्रेति ।
अथ नित्यत्वे ज्ञानस्य चतुर्धाऽऽक्षेपमुपक्षिप्य प्रतिक्षिपति बोधस्वाभाव्य इत्यादिना ।
ज्ञानस्वभावत्वे पुंसः स्वापमूर्च्छयोः स्वरूपप्रकाशः स्यादिति प्रथमाक्षेपः ।
प्रकाशपदार्थविकल्पेनैनं परिहरति विकल्पेत्यादिना ।
ज्ञानातिरिक्तस्य ज्ञानजन्यस्य प्रकाशस्य सत्त्वेऽपि आत्मनि बोधेन तस्याजननं स्वापे तमोगुणप्रतिबन्धाद्गाढान्धकारप्रतिबन्धादिव चाक्षुषस्याजननमिति भावः ।
तथाभाव इति ।
बोधवत्त्वमित्यर्थः ।
बोधस्य सत्त्वे स्वाप आत्मनो व्यवहारप्रसङ्ग इति द्वितीयाक्षेपः ।
तमनुभाषते अथ मतमिति ।
परिहरति मैवमिति ।
व्यवहारः कायिको विचिको वाऽऽपाद्यते ।
आद्यो न सम्भवतीत्याह कः खल्विति ।
किंशब्दः क्षेपे ।
न ह्यसाविति ।
नित्यप्राप्तत्वादात्मस्वरूपस्येति भावः ।
द्वितीयमनुवदति व्याहार इति ।
परिहरति किमङ्गेति ।
निर्विकल्पकं वाचकशब्दादिविशेषणानुल्लेखि यज्ज्ञानं बालमूकादेः, तत्सत्त्वेऽपि न तद्विषयस्य व्याहरणं दृश्यत इत्यर्थः ।
तथाच स्वविषयव्याहारव्याप्तिर्ज्ञानस्य नास्तीत्यस्थाने प्रसङ्ग इति भावः ।
अनुभवे सति स्वाप आत्मनो जागरणे स्मृतिप्रसङ्ग इति तृतीयाक्षेपः ।
तमनुवदति स्मृतीति ।
परिहरति अवृत्तित्वादिति ।
शङ्काविवरणं यद्युच्येतेत्यादि ।
परिहरविवरणं तन्नेत्यादि ।
न हीति ।
बुद्धिवृत्तिविशेषः- धर्मभूतज्ञानावस्थाविशेषः ।
स्वापादिकालिकात्मानुभवः स्वभावलक्षण एव, नतु धर्मभूतज्ञानावस्थाविशेषलक्षण इति यावत् ।
येनेति ।
ज्ञानवृत्तेरेव स्मृतिबीजसंस्कारजनकत्वमिति भावः ।
किन्तु इति ।
स्वापादौ स्वाभाविकधर्मभूतज्ञानवत्त्वेनावस्थानमेवात्मनः, न तु ज्ञानस्य वृत्तय इति भावः।
न च बोधेति ।
नित्यस्वविषयकबोधस्वभावकत्वादित्यर्थः ।
धर्मभूतज्ञानं तावत् नित्यमात्मविषयकम्, इन्द्रियार्थसन्निकर्षादिसहकारिसंपत्त्या पुनर्विषयग्राहीति एकदेशिमतेनेदम् ।
यद्वा बोध एव स्वो भावः स्वरूपम्, तत्त्वाच्चिद्रूपत्वादेवास्य-आत्मनः स्वविषयकसंस्कारजनकत्वं किं न स्यादिति शङ्का ।
परंप्रकरणवशात्पूर्वोक्तरीत्यैवार्थोऽत्र सुसङ्गतः ।
अस्य-नित्यबोधस्य ।
नित्यबोधस्य संस्कारजनकत्वशङ्कां परिहरति अनवरतेति ।
तथा-सति सामग्रीबलात्प्रतिक्षणं सस्कारोदयसंभवेन संस्कारधाराविश्रमाभावप्रसङ्ग ।
तथा च क्लेशकर्मविपाकाशयानामात्यन्तिकनिवृत्तिलक्षणमोक्षस्यासिद्धिप्रसङ्गः इत्यर्थः ।
नित्यबोधस्वरूपस्य संस्कारजनकत्वेदोषमुक्त्वा निष्प्रयोजनत्वमप्याह अनुभवे चेति ।
संस्कारकल्पनं हि अनुभूतचरस्याननुभूयमानस्य प्रतिपत्त्यर्थम् ।
नित्यानुभव एव जाग्रति कः संस्कारकल्पनाया अर्थ इति भावः ।
स्वानुरूपत्वम्- अनुभवसमानविषयकत्वम् ।
निजबीजम्-स्मृतिबीजं, संस्कारः ।
नन्वात्मविषयिण्यपि स्मृतिर्दृष्टेत्यत्राह य एवाहमिति ।
स्मृतिसंभिन्नप्रत्ययः-पूर्वकालावच्छेदांशे स्मृतिरूपो वर्तमानकालावच्छेदांशेऽनुभवरूपश्चात्मस्वरूपगोचरः प्रत्ययः ।
कालावच्छिन्नेति ।
आत्मस्वरूपमात्रस्य सदा प्रकाशेऽपि तत्तत्कालाद्यवच्छिन्नस्य वृत्तिग्राह्यतया वृत्तेश्च संस्कारजनकतया निरुक्त प्रत्यय उपपद्यत इत्यर्थः ।
न स्वरूपमात्रे-न स्वरूपमात्रविषयकः ।
नित्यात्मबोधस्य संस्कारजनकत्वे बाधकं प्रयोजनाभावं चाभिधाय तस्य स्वापादिकालिकस्य संस्कारजनकत्वासंभवमप्यभिधत्ते अविशदश्चेति ।
तमोगुणाभिभवादविशदः, बाह्यान्तरविशेषणानवगाहनान्निर्विकल्पश्चेत्यर्थः ।
पटीयसा-अनभिभूतेन ।
स्मृतिबीजं संस्कारः ।
आधीयते-उत्पाद्यते ।
अत्रेदं बोध्यम्-यद्यपि सुप्तोत्थितस्यसुखमहमस्वाप्स मित्यादिप्रतिसन्धानबलात्स्वापकालिकात्मस्वरूपानुभवस्यापि संस्कारजनकत्वमेष्टव्यम् ।
अथापि एकदेशिमताश्रितवादोऽयम् ।
अत एवाग्रे अस्तु वा इत्यादिना पक्षान्तरं वक्ष्यति ।
अनुभवे वर्तमाने तावन्मात्रविषयकस्मृतेरुदयायोगेऽपि प्रत्यवमर्शस्याधिकविषयस्य संस्कारबलादुदये न क्षतिरिति ।
अधिकमग्रे ।
ननु सर्वदाऽऽत्मस्वरूपानुभव इत्यनुपपन्नम् ।
विषयानुभवकाल एव सुखादिनाऽहमर्थप्रकाशस्यानुभवसिद्धत्वादित्यत्राह साम्याच्चेति ।
एकाकारेणानुभूतमाने विशेषाकारास्फूर्तेरननुभवभ्रमः ।
अत्र निदर्शनं शरीरादि ।
यथा जागरे सदाऽनुभूयमानस्यापि करचरणादिलक्षणस्य शरीरस्यागन्तुकविशेषस्फुरणवेलायामेव विशेषतः प्रतिपत्त्याऽन्यदाऽननुभूयमानतेव, यथा वाऽऽन्तरस्य जागरणे शरीरधारणप्रयत्नस्य सदाऽनुवर्तमानस्यापि बुद्धिपूर्वहस्ताद्युत्क्षेपणकाल एव स्फुटावभासेनान्यदाऽननुभूयमानतेव, तथा प्रकृतेऽपीति भावः ।
यद्यपि शरीरधारणप्रयत्नस्य जीवनयोनिशब्दितस्यातीन्द्रियत्वमिष्यते तार्किकैः ।
अथापि अदृष्टत एव जीवनस्योपपत्तेरतीन्द्रिययत्नकल्पनं गुरुभूतम् ।
जागरे तु प्रयत्नतोऽपि शरीरतदवयवधानणमिष्यते ।
स च प्रयत्नः प्रत्यक्षयोग्य एव ।
निद्रायां त्वदृष्टत एव शरीरधारणमिति हार्दमाचार्यतरणानाम् ।
तत् दृष्टान्तस्यास्य नानुपपत्तिरिति ध्येयम् ।
स्वापेऽपि बोधानुवृत्तौ समाधिमुक्तयोः स्वापाविशेषप्रसङ्ग इत्याक्षेपान्तरमनूद्य परिहरति न चाविकृतेति ।
अविद्यादिक्लेशः, तमोगुणाभिभवादत्यन्तसङ्कुचितज्ञानत्वं च स्वापे ।
न हि तदा ज्ञानेन स्वात्मप्रकाशोऽपि ।
मोक्षे तु क्लेशात्यन्तनिवृत्तिः, आवरणनिवृत्त्या नित्यासङ्कुचितसर्वविषयज्ञानता चेति विशेषः ।
असंप्रज्ञातेति ।
संप्रज्ञातेति क्वचित् पाठः ।
समाधौ च पुंसः परमवैराग्यनिरोधसंस्कारपाटवात्मैकप्रवणमनस्कत्वप्रयुक्तमोक्षोपायसिद्धिकृतः स्वापतो महान् विशेषोऽस्तीति भावः ।
चरिताधिकारेणेति तु समीचीनः पाठः ।
कृताधिकारेणेत्यर्थः ।
अपवर्गिणा-अपवर्गोपधायकेन ।
कैवल्यावस्थात्मसाक्षात्करणयोग्येनेति यावत् ।
मनसा इति विशेष्यमध्याहार्यम् ।
चरिताधिकारिणेति पाठे तु कृतात्मनेत्यर्थः, कृतकृत्येनेति वा ।
एवं चित्स्वरूपत्वं चित्स्वभावत्वं चोपपादितं प्रसक्ताक्षेपपरिहरणेन ।
अथ स्वापेऽपि अनुत्यया वृत्त्यैवात्मनः प्रकाशः सेत्स्यति, कृतं स्वप्रकाशत्वेनेत्यन्तर्निधाय स्वापेऽपि बुद्धिवृत्तिरेष्टव्येति शङ्कते कथं पुनरिति ।
अत्रायं समुदिताशयः-स्वापो नाम तमोगुणानुभवः ।
ईषदुद्बुद्धसत्त्वसहकृततमआलम्बनत्वे तस्य सुखत्वं, सत्त्वकार्यं च लघुत्वादि ।
ईषदुद्बुद्धरजःसहिततमआलम्बनत्वे दुःखत्वं चलत्वादि च ।
सत्त्वरजसोरत्यन्ताभिभावकप्रोद्बुद्धतमआलम्बनत्वे च गाढमूढत्वादि ।
स्वापे तमअनुभवे सत्येव तज्जसंस्कारतः प्रबोधे सुखमस्वाप्समित्यादिप्रतिसन्धानस्योपपत्तिः नान्यथेति ।
अर्धाङ्गीकारेण परिहरति सत्यमेवमिति ।
निरुक्तप्रतीतावभ्युपगमः ।
स्वापस्य तमोगुणालम्बनवृत्तिरूपत्वे, स्मृतिरूपत्वे च स्वापादौ निरुक्तप्रतीतेरनभ्युपगमः ।
तदाह दत्तोत्तरमिति ।
आनुमानिका इति ।
वृत्तिसामान्यविरह एव स्वापः ।
योग्यास्मरणलिङ्गाच्च प्रकाशस्वभावाया वृत्तेरभावस्य तत्कालीनस्याऽनुमानम् ।
देहेन्द्रियलाघवादिलिङ्गाच्च सुखत्वादेस्तत्रानुमानम् ।
पूर्वदिनकृतस्यापरस्मिन् दिने प्रत्यभिज्ञाबलात्स्वापकालिकात्मसत्तांशेऽप्यनुमानरूपैवेयं प्रतीतिरिति भावः ।
न वृत्त्यन्तरत्वमिति ।
न तमोगुणविषयकबुद्धिवृत्तिरूपत्वं निद्राया उपगन्तव्यम् ।
स्वापानुमानादेव निरुक्तप्रतीतेर्निर्वाहादित्यर्थः ।
निद्राया वृत्तिरूपत्वाभावे पातञ्जलसूत्रस्य का गतिरिति शङ्कते कथं तर्हीति ।
उत्तरयति निरोधेति ।
भावालम्बनवृत्तिसामान्याभावो निद्रेति तात्पर्यम् ।
अस्याश्च वृत्तिवन्निरोद्धत्वसामान्याद्वृत्तित्वोपचार इति भावः ।
अत्र निदर्शनं विपर्ययवदिति ।
अन्यथाख्यातेरभावेन भेदाग्रहस्यैव भ्रमस्थलाभिषिक्तस्य विपर्ययशब्दितस्य निरोद्धव्यत्वतात्पर्येण वृत्तित्ववन्निद्राया अपि वृत्तित्वं कीर्त्यत इति भावः ।
स चेति ।
सर्वसंविदामर्थाव्यभिचारः-यथार्थख्यातित्वलक्षणोन्यायतत्त्वसास्त्रीयाधिकरणसिद्ध इत्यर्थः ।
निरोद्धव्यत्वं चैषां कैवल्यसाधनपरिपन्थितयेत्याह कैवल्येति ।
कैवल्यभागि यच्चित्-मोक्षाधिकृतमात्मस्वरूपम्, तत्प्रत्यनीकतया-तदभिमतसाधनसिद्धिविघातकतयैतेषां निरोद्धव्यत्वमित्यर्थः ।
सुखमहमस्वाप्समिति प्रतीतेः प्रतिसन्धानरूपत्वमुपगम्याप्याह अस्तु वेति ।
ज्ञानवत्तयैवोपलभ्यमानत्वादात्मनो बोधस्वभावत्वमुक्तम् ।
निरुक्तरीत्या स्वापेऽपि बोधानुवृत्तिप्रतिपादनाच्च तदेव प्रतिष्ठापितं भविष्यतीति नास्माकं काचित् क्षतिः ।
यत्ति हृदयं वृत्त्यैवात्मनः प्रकाशो न स्वरूपत इति, तत्त्वाशामोदकायितमिति च पूर्वोत्तराभ्यां सुनिरूपितं भविष्यतीति भावः ।
स्मरणानि-प्रतिसन्धानरूपाणि ।उपरतानि हि प्रस्वापकाले सर्वाण्येवेन्द्रियाणि सह मनसा ।
संस्कारस्य च न स्मृतेरन्यत्र सामर्थ्यम् ।
न च स्वप्रकाशं तमः; अर्थान्तरवर्तिनोऽप्यनिशं प्रकाशप्रसङ्गात् ।
क्लृप्तश्च सर्वार्थसाधनतया बोध इति तेनैव करणविरहिणा सतास्वभावभूतेनो(द्भूतेनो)द्भूतवृत्तेस्तमसोऽन्यस्य वाऽऽत्मवर्तिनो गुणस्य स्फुरणमिति बलादभ्युपगमनीयम् ।
नित्यप्रकाशश्चात्मा प्रमातृत्वात् ।
अप्रमातृत्वव्यापकबद्धं ह्यनित्यप्रकाशत्वं व्यापकविरुद्धप्रमातृत्वभागिन्यात्मनि नात्मानं लभते ।
स्वापस्य वृत्तित्वोपगमेऽपि न ज्ञाननित्यत्वसिद्धिः ।
वृत्तेः करणजन्यत्वादिति परस्य शङ्कामनुवदति आहेति ।
परिहरति इत्थमिति ।
ज्ञानस्वभावत्वनिश्चयोऽनन्तरनिर्दिश्यमानप्रकारेणेत्यर्थः ।
यत इति ।
स्वापे कारणायोगात्स्वतःसिद्ध एव तमःप्रकाशको बोध इत्येष्टव्यमित्यर्थः ।।27।। श्लोकं स्वयमेव विवृणोति उपरतानीति ।
अन्यस्य वा-सुखादेर्वा ।
उपरतव्यापारत्वात्करणानां स्वापे न ज्ञानवृत्तेरवसरः ।
अतः स्वाभाविकेन बोधेनैव तमोगुणप्रकाश इति बलादेष्टव्यं यदि तमोऽनुभवः स्वाप इष्यते ।
तत्सिद्धं बोधस्वभावत्वमिति भावः ।
वस्तुतो ज्ञानस्य न स्वापे तमःप्रकाशकत्वमतिसङ्कुचितवृत्तित्वात् ।
स्वरूपानुभवबलात्सुखत्वेन तदा भासमानस्यात्मनः परामर्शः परं प्रबोध इति तु सिद्धान्तः ।
अस्वाप्समिति स्वापकालांशयोस्त्वनुमितिरूपैव निरुक्तप्रतीतिः ।
नित्यानुभवस्य संस्काराजनकत्वे तु साक्षादेव स्वापकालीनात्मस्वरूपानुभवस्य निरुक्तप्रतिसन्धानहेतुत्वं सुखत्वेनात्मागाहनांश इति च बोध्यम् ।
बोधस्वभावस्याप्यात्मनो वृत्तिकाल एवास्तु प्रकाशो न सर्वदेत्यत्र तावन्नित्यप्रकाशत्वं साधयति नित्यप्रकाशश्चेति ।
अप्रमातृत्वेति ।
अप्रमातृत्वरूपं यद्व्यापकं, तद्व्याप्यमित्यर्थः ।(इत्यात्मनो ज्ञानस्वभावस्य नित्यस्वप्रकाशत्वसमर्थनम्) कः पुनरयं प्रकाशः, योऽस्य नित्योऽभ्युपेयेत स्वाभाविकश्च? कश्चास्यात्मना संबन्धः? ।
यदि ज्ञानमेव; संबन्धश्चाश्रयाश्रयित्वम्; ततो हेत्वभावेनसाध्याभावस्य व्याप्तिमुपदर्शयितुं निदर्शनतया घटाद्युपादातव्यम्-यदनित्यप्रकाशमन्याधीनप्रकाशं वा तदप्रमातृ, यथा घटादीति ।
तत्र च विशेषनिषेधस्य सामान्याभ्यनुज्ञाक्षेपकत्वादागन्तुकं ज्ञानं घटादावनुमतमापद्येत ।
अथ तन्माभूदिति विषयविषयिभाव एव संबन्धः संगीयेत, ततो नित्यवज्ज्ञानविषयत्वमात्मनः प्रसत्येत ।
ज्ञानविषयीकारश्च साधनविशेषायत्तत्वेन नियत इति न स्वाभाविकत्वसम्भवः ।
अचेतनगोचर एव तथा नियम इति चेन्न, चेतनान्तरविषयीकारेऽपि तथाभावदर्शनात् ।
न चानात्मगोचर एव साधनसापेक्षत्वनियम इति वाच्यम् ।
आत्मनोऽप्यानुमानिकागमिकयोगज्ञानविषयीकारे तत्सापेक्षत्वदर्शनात् ।
विरुद्धे चैकस्यैकक्रियायां कर्मकर्तृत्वे, सूच्यग्रस्येवात्मनिवेध्यवेधकत्वे ।
नित्यत्वनिरतिशयसूक्ष्मत्वव्यापित्वचित्स्वाभाव्यादिरूपेण प्रत्यगर्थस्यौपदेशिकत्वमानुमानिकत्वं वा, न स्वरूपतः ।
स्वरूपापेक्षयैव स्वतःसिद्धिरभ्युपेयत इत्यसमाधेयो विरोधः ।
रूपभेदेन गम्यगमकत्वाङ्गीकारपक्षेऽपक्षस्येव शब्दादेर्न स्वतःसिद्धत्वम् ।
(इति ज्ञानाश्रयत्वविषयत्वयोः प्रकाशमानत्वरूपत्वे दोषानुकीर्तनम् ।
) अथोच्येत-न प्रकाशो ज्ञानम् ।
अपि तु तन्निमित्तश्चेतनेतरसर्वपदार्थसाधारणो धर्मः, यद्वशात् प्रकाशत इति प्रख्योपाख्येप्रतायेते सर्वपदार्थेष्वविशेषेण; आश्रयाश्रयित्वलक्षणश्च संबन्धस्तेन सह सर्वभावानाम् ।
स च यथोदितसाधनबलादेव सांसिद्धिको नित्यश्चात्मन इति ।
पराकृतोऽयं पक्षः ।
न ज्ञानातिरेकी प्रकाशो नाम ।
यद्व्यवहारोपजननानुगुणं ज्ञानं, तत्प्रकाशत इत्युच्यते ।
ज्ञेयस्य ज्ञातुः स्वात्मनश्च व्यवहारानुगुणं ज्ञानमुदयत इति युक्तः त्रिष्वपि एकरूपः प्रकाशतेव्यवहारः ।
तत्त्वान्तरप्रकाशाभ्युपगमेतात्स्वाभाव्ये[न]च पुनः किं चैतन्याश्रयणेन? ।
न च प्रकाश एव तदिति वाच्यम्, घटादेरपि प्रकाशवत्तया चेतनत्वप्रसङ्गात् ।
यद्युच्येत्-सति चेतनावत्त्वे पुंसः प्रकाशमानत्वमितिः संविदीदानीं का वार्ता? चेतनैव हि सा, न चेतयते ।
अथ संविदस्तत्संबन्धाधीनः स धर्म इति चेत्; कस्तया संबन्धः, यस्तन्निबन्धनम्? ।
नाश्रयाश्रयित्वम्; घटादेस्तदभावप्रसङ्गात् ।
न विषयविषयिभावः, तस्यैवानिरूपणात् ।
अनिरूपणं च भ्रान्त्यधिकरणसिद्धान्तारम्भे संवित्सिद्धौ चानुसन्धातव्यम् ।
आत्मनस्तस्य चाप्रकाश प्रसङ्गश्च ।
ज्ञानाधीनप्रकाशाश्रयतैव सिद्धिः, तया चानुमेयं ज्ञानमिति पक्षः प्रागेव प्रतिक्षिप्तः ।
स्वप्रकाशसंविद्वादिनोऽपि व्यवहारानुकूल्ये वैरूप्यमशक्यपरिहारम् ।
आत्मनि समवेतं ज्ञानमसंबन्धिन्यर्थे प्रकाशं व्यवहारं वा कथं प्रसुवीतेत्यपि चिन्त्यम् ।
इन्द्रियलिङ्गादिस्वकारणप्रत्यासत्तिवसादिति मा वोचः ।
न खलु लब्धात्मकं कार्यं स्वनिमित्तकारणमनुरुध्य कार्यमारभते ।
मा भूदुदकाहरणादि घटादेः कुलालादिसमानाधिष्टानम् ।
न च निमित्तकारणनाशे कार्यनाशः ।
नश्यति चेन्द्रियसंप्रयोगादिनाशे रूपादिज्ञानम् ।
अत इन्द्रियेण सह चैतन्यमपि निस्सृत्यतेन तेनार्थेन सन्निकृष्यते, हस्तादिनेव त्वगिन्द्रियम् ।
तथा सति हि तदुपाधिकत्वात्तज्ज्ञानस्य युक्तं तद्भावानुविधायित्वम् ।
अन्यथोत्पन्नं ज्ञानमिन्द्रियार्थसन्निकर्षनिवृत्तौ किमिति निवर्तते? ।
ज्ञानजन्यार्थधर्मप्रकाशवादिनोऽपि समानोऽयं दोषः ।
निमित्तकारणं हि ज्ञानम् ।
कुतस्तन्निवृत्तौ अर्थप्रकाशो निवर्तते? कुतो वा यावत्तद्भावमवतिष्ठते ? ।
ननु नित्यप्रकाशत्वं स्वाभाविकबोधकृतमेव किं न स्यादित्यत्राह स्वतःसिद्धेति ।
व्याप्ता-व्याप्या ।
व्यापकाभावाद्व्याप्याभाव इति यावत् ।
ज्ञातृत्वस्वाभाव्यादेवानन्याधीनप्रकाशत्वसिद्धिरिति भावः ।
ज्ञानस्य प्रकाशो ज्ञानान्तरानपेक्षोऽप्यात्मसम्बन्धापेक्ष इति ज्ञानेऽनन्याधीनप्रकाशत्वलक्षणं साध्यं नास्ति, तेन सपक्षे ज्ञाने सति पक्षमात्रवृत्ति ज्ञातृत्वं भवत्यसाधारणमिति शङ्कानवकाशः ।
यद्यपि केवलव्यतिरेकिणो न प्रमाणत्वं सिद्धान्ते ।
अथापि परप्रक्रियया परान् प्रत्येतत्समर्थनं सम्भवत्येव ।
सिद्धान्ते तु पूर्वोक्तान्वयिनैव स्वप्रकाशत्वसिद्धिरात्मनः ।
नित्यत्वग्राहकप्रमाणबलाच्चात्मनः तत्प्रकाशस्यापि नित्यत्वमर्थसिद्धम् ।
श्रुतिभिश्च सकलार्थप्रतिष्टेति परमाचार्याणामाशयः ।।28।।अथ प्रसङ्गात् प्रकाशपदार्थं निर्णेतुं विमर्शमुपक्षिपति कः पुनरिति ।
नित्यस्यापि ज्ञानस्य प्रतिकर्मव्यवस्थोपपादकत्वाच्चैतद्विमर्शस्य प्रकृतोपयोगिता ।
यदीति ।
प्रकाशत इत्यत्र धात्वर्थः प्रकाशो ज्ञानम् ।
आख्यातार्थश्चाश्रयत्वमिति यदि कथ्यते इत्यर्थः ।
एतद्दूषयति तत इति ।
तत्र चेति ।
व्यतिरेक्युदाहरणवाक्ये नित्यप्रकाशरूपविशेषनिषेधस्य प्रकाशसामान्याभ्युपगमपर्यवसायित्वाच्च घटादावागन्तुकज्ञानवत्त्वमभ्युपगतं भवेदित्यर्थः ।
न चैवं सति तत्र हेत्वभावोऽज्ञातृत्वं न स्यादिति वाच्यम् ।
अनात्मत्वस्यात्राज्ञातृत्वपदेनविवक्षितत्वात् ।
प्रकाशाश्रयत्वमात्रस्य तु साधनायोगः सिद्धत्वादिति च बोध्यम् ।
उक्तदोषपरिहाराय प्रकारान्तरं शङ्कते अथ तन्माभूदिति ।
यदि ज्ञानविषयत्वं प्रकाशमानत्वमुच्यत इति यावत् ।
एतदपि दूषयति तत इति ।
नित्यप्रकाशवत्त्वसाधनेनात्मनः सार्वदिकं ज्ञानविषयत्वं प्रसज्यत इत्यर्थः ।
इष्टमेवेदमिति चेत्तत्राह ज्ञानेति ।
ज्ञानस्य विषयप्रकाशनव्यापारो हि इन्द्रियादिद्वारकः ।
अत इतरानपेक्षो नित्यश्च ज्ञानविषयभाव आत्मनो दुःसाध इत्यर्थः ।
तथा नियम इति ।
करणमपेक्ष्यैव विषयीकरणमिति नियम इत्यर्थः ।
तथा भावेति ।
करणव्यापारसापेक्षत्वदर्शनादित्यर्थः ।
न चेति ।
स्वात्मभिन्नविषय एव विषयीकारस्य करणापेक्षत्वमुच्यत इति न च वाच्यमित्यर्थः ।
आत्मनोऽपीति ।
स्वात्मप्रकाशनेऽपि शब्दलिङ्गादिकरणसापेक्षत्वदर्शनात् नियमसङ्कोचो न करणीय इत्यर्थः ।
ननु स्वरूपमात्रविषयकं नित्यज्ञानं सिषाधयिषितम् ।
अस्य चात्मविषयीकरणे न करणापेक्षेत्यत्राह विरुद्धे इति ।
स्वरूपमात्रस्यैव कर्तृत्वकर्मत्वयोरुपगमो विरुद्धः ।
स्वरूपमात्रज्ञाने आकारभेदादविरोधसमर्थनमपि न सम्भवतीत्याह नित्यत्वेत्यादिवाक्यद्वयेन ।
ननु स्वरूपस्यैव गम्यत्वेपि तस्यैव गमकत्वं सामान्यविशेषधर्मभेदाद्धटेतेत्यत्राह रूपभेदेनेति ।
यथा शब्दशब्दस्य शब्दशब्दवाच्यत्वेऽपि वाच्यता श्रोत्रग्राह्यगुणत्वाकारेण, वाचकता चानुपूर्वीविशेषेणेति न स्वयंप्रकाशत्वमपक्षस्य शब्दस्य, एवं ग्राह्यग्राहकतावच्छेदकधर्मभेदे पक्षीकृतस्यापि आत्मनो न स्वप्रकाशत्वं सिध्येदित्यर्थः।
एवं विमर्शकेन पक्षद्वयं दूषितम् ।
अथ भाट्टप्रक्रियामनुवदति अथोच्येतेति ।
प्राकट्यं प्रकाशः, आश्रयत्वं च संबन्धः ।
प्रकाशत इति प्रतीतिव्यवहारौ च प्राकट्याश्रयत्वार्थकावेव प्राचुर्येण प्रवर्तेते ।
ज्ञानजन्यः प्रकाशश्च चेतनाचेतनसर्वपदार्थसाधारणः ।
स एव नित्यः स्वाभाविकश्चात्मनः साध्यतां ज्ञातृत्वबलादिति शङ्काग्रन्थार्थः ।
प्राभाकरमुखेन निराकरोतीमं पक्षं पराकृत इति ।
ज्ञातताव्यवहारस्य स्वप्रकाशज्ञानत एवोपपत्तेर्न ज्ञानजन्ये ज्ञातताख्ये धर्मान्तरे प्रमाणं किमपीति पराकरणप्रकारः ।
त्रिष्वप्येकेति ।
प्रकाशो ज्ञानम्, तदधीनव्यवहारानुगुण्यं सम्बन्धः प्रकाशत इत्यत्राख्यातार्थ इति पक्ष एव ज्ञेयज्ञानज्ञातृषु एकार्थकता प्रकाशतेव्यवहारस्य घटत इत्यर्थः ।
त्रितयव्यवहारानुगुण्यापादनं घटादिज्ञानस्य स्वभाव इति हार्दम् ।
ज्ञानातिरिक्तस्य प्रकाशस्य नित्यस्यात्मन्युपगमे तत्र ज्ञानं व्यर्थमिति चाह तत्त्वान्तरेति ।
स्वविषयकज्ञाने सत्येवात्मनः प्रकाशमानतेति क्षेमसाधारणप्रयोजकतोपगमान्नात्मनि चैतन्यस्य वैयर्थ्यमिति शङ्कते यद्युच्येतेति ।
आक्षिपति संविदीति ।
संवित् ज्ञानमेव, न ज्ञानाश्रयः ।
तथा च चैतन्यसमवायित्वस्य प्रकाशमानताप्रयोजकत्वे चैतन्ये तदभावात्प्रकाशमानता न घटेतेति भावः ।
ननु चैतन्यसम्बन्ध एव प्रकाशहेतुरुपेयत इति चेत्तत्राह कस्तयेति ।
तया-चेतनया ।
संबन्धविकल्पेन दूषणमत्र क्रियते ।
चैतन्यवदात्मसमवेतत्वस्य चैतन्यसंबन्धत्वे घटादेरप्रकाशापत्तिः ।
तदाह घटादेरिति ।
चैतन्यविषयत्वस्य तत्त्वे च चैतन्यस्यात्मनश्चाप्रकाशापत्तिः ।
तदाह आत्मन इति ।
आत्मनः-संविदः ।
तस्य-पुंसः ।
प्रकाशप्रयोजकस्य चैतन्यविषयत्वस्याङ्गुल्यग्रेणेव स्वात्मस्पर्शस्याशक्यत्वाच्चैतन्ये, कर्मकर्तृत्वविरोधादात्मनि चासम्भव इति हार्दम् ।
ननु कर्मकर्तृविरोधोपगमेऽस्तु ज्ञानाश्रयतयैवात्मनि प्रकाशतेव्यवहारः ।
ज्ञानस्य त्वतीन्द्रियस्यज्ञाततालिङ्गकानुमानात्प्राकट्यं सम्भवति प्रकाशतेव्यवहारनिदानमित्यत्राह ज्ञानाधीनेति ।
ज्ञानानुमानप्रतिक्षेपाच्च ज्ञानस्य ज्ञानरूपतयैव प्रकाशतेव्यवहारो वाच्यः ।
तथा च प्राकट्येन ज्ञानजधर्मेणार्थेषु, ज्ञानरूपतया ज्ञाने, ज्ञानाश्रयतयैव चात्मनि प्रकाशतेव्यवहार इति त्रिष्वपि तस्यैकरूप्यासम्भव एतन्मत इति स्थितम् ।
एवं भाट्टमते ज्ञेयज्ञानज्ञातृषु प्रकाशतेव्यवहारस्यैकरूप्यासम्भवं गुरुमुखेन प्रोच्य गुरुमतेऽपि त्रिषु व्यवहारानुगुण्ये ऐकरूप्यासम्भवं विमर्शक उद्भावयति स्वप्रकाशेति ।
ज्ञानविषयतयाऽर्थे, ज्ञानरूपतया ज्ञाने, ज्ञानाश्रयतया चात्मनि व्यवहारानुगुण्यं वक्तव्यमिति गुरुमतेऽपि वैरूप्यमशक्यपरिहारमित्यर्थः ।
दूषणान्तरमप्याह मतद्वये आत्मनीति ।
अत्र शङ्का इन्द्रियेति ।
यदर्थसंबद्धेन्द्रियलिङ्गादिना यज्ज्ञानं जनितम्, तत् तस्मिन्नर्थे प्रकटतां व्यवहारानुगुण्यं वा निष्पादयतीति शङ्कार्थः ।
प्रतिक्षिपति न खलु लब्धेति ।
कार्यस्य स्वोत्पत्तावेव निमित्तकारणापेक्षा ।
न तु समुत्पन्नस्य स्वकार्यजननेऽपि ।
अन्यथा कुलालसन्निधान एव घटेन जलस्याहरणम्, नान्यत्रेपि स्यादित्यर्थः ।
ज्ञानस्यैव स्वकार्यनिष्पादने स्वनिमित्तापेक्षेत्याश्रयणे चेदमपि वैषम्यं प्रसज्यत इति भावः ।
कुलालादिसमानाधिष्ठानम्-कुलालादिसमानाधिकरणम् ।
वैषम्यान्तरमप्याह न चेति ।
अन्यत्र निमित्तनाशेकार्यनाशस्यादर्शनात् ज्ञानस्यैव निमित्तनाशेन नाशाभ्युपगमेनापि वैषम्यं प्रसक्तं पक्षद्वयेऽपीत्यर्थः ।
कं तर्हि प्रकाशस्य व्यवहारस्य वोपपत्तिः? तत्राति ।
इति इन्द्रियादिद्वारा प्रसृतस्य तेन सहार्थसन्निकृष्टस्य ज्ञानस्यार्थप्रकाशकस्यार्थप्काव्यवहार- जनकत्वं स्वीकार्यमनायत्येति हार्दम् ।
सिद्धान्तिनां पक्षोऽयम् ।
तथाससती ति ।
इन्द्रियेण सह प्रवृत्त्यादिमत्त्वे हि ज्ञानस्य तदर्थसन्निकृष्टस्य तत्प्रकाशकस्येन्द्रियार्थसन्निकर्षान्वयव्यतिरेकानुविधाय्यन्वयव्यतिरेकोपपत्तिरित्यर्थः ।
अन्यथेति ।
इन्द्रियादिद्वारकज्ञानार्थसन्निकर्षस्यानुपगमे निमित्तनाशस्य कार्यनाशेऽहेतुत्वादिन्द्रियार्थसन्निकर्षादिनिवृत्तौ ज्ञाननिवृत्तिर्न स्यादित्यर्थः ।ननु नैकत्वं सङ्क्या; स्वरूपानतिरेकात् । अतः साधनविकलमुदाहरणम् । मैवम् । सङ्ख्यैव सा; द्रव्यान्तरेऽप्यनुवृत्तेः । यदि घटादेः स्वरूपमेवैकत्वम्, ततो घट एकः, पट एक इति सर्वद्रव्यसाधारण्यमेकत्वस्य न स्यात् । नहि घटस्वरूपस्य पटस्वरूपेण संभवति सामानाधिकरण्यं घटः पट इति । अस्ति तु तदेकत्वस्य । ननु निमित्तनाशस्यापि कार्यनाशे हेतुत्वं क्वचिदेष्टव्यम् । अन्यथाऽपेक्षाबुद्धिनाशाद्दित्वादेर्नाशस्यानुपपत्तेः । तथा प्रकृतेऽपि भविष्यतीति शङ्कते न चेति । परिहरति असिद्धत्वेनेति । अपेक्षाबुद्धिनाशेन द्वित्वादिनाशस्यासिद्धत्वेन न निमित्तनाशेन कार्यनाशे द्वित्वादेर्नाशस्य निदर्शनत्वं संभवतीत्यर्थः । एकेति । यावदाश्रयभावित्वादेकत्वस्येव द्वित्वादेः सङ्ख्यात्वान्नापेक्षाबुद्धिनाशान्नाश इत्यर्थः । असिद्धत्वमेतेनोपपादितं भवति । फलितोऽत्र प्रयोगः-द्वित्वादिर्यावदाश्रयसती सङ्ख्यात्वादेकत्ववदिति ।।29।।30।।31।।दृष्टान्ते हेत्वासिद्धिं शङ्कते ननु नैकत्वमिति । परिहरति मैवमिति । यदीति । तत्तद्व्यक्तिस्वरूपस्यैवैकप्रतीतिव्यवहारनियामकत्वे घट एकः, पट एक इत्याद्यनुगतप्रतीतिव्यवहारानुपपत्तिः । तत्तद्व्यक्तित्वस्याननुगतत्वात् । एकत्वसङ्ख्यायास्तथात्वे तु एकत्वेनानुगमादनुगतप्रतीत्याद्युपपत्तिरिति भावः । तार्किकप्रक्रिययेदम् ।यत्तु अनेकद्रव्यवृत्तित्वे सति गुणत्वात् संयोगवदयावद्द्रव्यभाविनीद्वित्वादिसङ्ख्येति, तन्ननात्वेऽनैकान्तिकम ।
न हि सतोरपि घटपटयोस्तन्नानात्वं नश्यति ।
न च तत् द्वित्वसङ्ख्यैव ।
त्रयाणां तदभावप्रसङ्गात् ।
न च तदेकत्वाभावमात्रम् ।
तुच्छस्यापि नानात्वापत्तेः ।
दृष्टान्ते हेत्वसिद्धिं शङ्कते ‘ननु नैकत्व’ मिति ।
परिहरति ‘मैव’-मिति ।
‘यदी’ ति ।
तत्तद्व्यक्तिस्वरूपस्यैवैकप्रतीतिव्यवहारनियामकत्वे घट एकः, पट एक इत्याद्यनुगतप्रतीतिव्यवहारानुपपत्तिः ।
तत्तद्व्यक्तित्वस्याननुगतत्वात् ।
एकत्वसङ्ख्यायास्तथात्वे तु एकत्वेनानुगमादनुगतप्रतीत्याद्युपपत्तिरिति भावः ।
तार्किकप्रक्रिययेदम् ।
स्वरूपत्वे बाधकमुक्त्वैकत्वस्य सङ्ख्यात्वे साधकमप्याह ‘सङ्ख्यकते’ ति ।
अत्र प्रयोगः-एकत्वं सङ्ख्या सङ्ख्यान्तरविरुद्धत्वात् द्वित्वादिवदिति ।
हेतुं पक्षे घटयति ‘एक’ मिति ।
अत्रेदं बोध्यम्-उद्देश्यतावच्छेदकावच्छिन्नपर्याप्तेर्द्वित्वादिसंबन्धतया भानात् एकत्वावच्छिन्नपर्याप्तेश्च द्वित्वादिसंबन्धत्वाभावेन न एकं द्वाविति प्रयोगः ।
एकं द्वित्ववदिति तु स्यान्नाम, अत्र द्वित्वसमवायस्यैव स्वरूपसंबन्धेन भानात्, तस्य चैकस्मिन्नप्यबाधात् ।
सङ्ख्यान्तरविरुद्धत्वं च सङ्ख्यान्तरपर्याप्त्यवच्छेदकावच्छिन्नपर्याप्तिकवृत्तिकत्वाभावलक्षणमिति ।
द्वित्वादेर्यावदाश्रयभावित्वानुमाने दृष्टान्ते साधनवैकल्यं परहृतमेतावता ।। 32 ।।अतश्चैतन्यस्यैवेन्द्रियद्वाराऽर्थसन्निकर्ष एव तद्भावानुविधानोपपत्तिः ।
अन्यच्च, अर्थस्य प्रकाशकं हि ज्ञानं भवताम् ।
सर्वं च प्रकाशकं प्रकाश्यवस्तुसन्निकृष्टमेव प्रकाशकं दृष्टं दीपप्रभादि ।
अतस्तदपि तथेति युक्तमाश्रयितुम् ।
व्योमवदमूर्तस्य न क्रियावत्त्वमिति चेत्, केयं मूर्तिर्नाम ? यद्विरहिणः क्रियाऽयोगः ।
यदि परिभाषिकी द्रव्यत्वे सति क्वाचित्कतेति ।
इष्यत एव सा चैतन्ये ।
न हि तत्सर्वगतं द्रव्यम्, तथासति युगपत् सर्वार्थसिद्धिप्रसङ्गात् ।
क्वाचित्कत्वे तु तद्वि यदैकदैकेन्द्रियेण संप्रयुक्तं तदर्थाभिमुखम्, न तदेन्द्रियान्तरमधितिष्ठति ।
अत एव हि युगपज्ज्ञानानुत्पत्तिः ।
निरतिशयवेगं च तत्, युगपदिवातिशीघ्रमनेकेन्द्रियाधिष्ठानदर्शनात् ।
अतो यथोदितममूर्तत्वमसिद्धम् ।
स्पर्शवत्ता मूर्तिः, तद्वितरहान्निष्क्रियत्वमिति चेत् ; शब्देनानैकान्तः ।
स खलु शङ्खमुखादेर्दवीयसोऽपि देशात् नोदनविशेषेण लोष्टादिरिव यावद्वेगं प्रतिष्ठते स्पर्शविहीनोऽपि ।
स्पर्शरहितस्यापि मनइन्द्रियस्य क्रियावत्त्वं पदार्थवाक्यार्थविदामुभयेषामपि संमतमेव ।
कथमतीतानागतयोरसतोश्चैतन्येन संप्रयोग इति चेत्, कथं वा विषयभावः, प्रकाशमानत्वम्, सङ्ख्यादियोगो वा तयोः ? यस्तत्र निर्वाहः, स एवात्रास्तु ।
अपि चातीततयाऽनागततया च तावप्यद्यापि विद्येते इति तेन रूपेण बोधसन्निकर्षे काऽनुपपत्तिः ? किंच, यथा दवीयसि देशे सता ध्रुवशिंशुमारादिना दृक् तु सन्निकृष्यते, तथा दवीयसि काले सता कल्पाद्यन्तवर्तिना स्वयंभुवादिनेति नालोकं किञ्चित् ।
किञ्च- सत्प्रतिपक्षमाशङ्कते ‘यत्त्वनेके’ ति ।
परिहरति ‘तदि’ ति ।
नानात्वंबहुत्वम् ।
तस्य च व्यासज्यवृत्तित्वाद्द्वित्वादिवद्गुणत्वमेव ।
न तु भेदरूपत्वम् ।
भेदस्याव्यासज्यवृत्तित्वादिति भावः ।
ननु यावदाश्रयं सत्त्वे आश्रयोपलम्भकाले नियमत एकत्वस्येव द्वित्वादेरुपलम्भः प्रसज्यते इति चेत्तत्राह ‘आपेक्षिकत्वा’ दिति ।
संबन्ध्यन्तरग्रहसापेक्षग्रहस्य द्वित्वादेः प्रतियोगिनः संबन्ध्यन्तरस्याग्रहणात्, ग्रहणे वा द्वित्वादिबुभुत्साया अपेक्षाबुद्धेश्च तद्वोधे सहकारिण्या विरहेण न सदा ग्रह इति भावः ।
एवं च निमित्तनाशनाश्यत्वस्य न निदर्शनीभवितुमलं द्वित्वादत्युक्तं भवति ।
वस्तुतोऽपेक्षाबुद्धिविशेषातिरिक्तं द्वित्वादिकमेवाप्रामाणिकमिति तन्नाशाधीनतन्नाशस्य न तरां प्रसक्तिरिति बोध्यम् ।। 33 ।।एवं च चैतन्यस्य निरतिशयवेगितयाऽन्तरालदेशकालाग्रहणाभिमानोऽलातचक्रगतक्रमवद्देशभेदसंयोगविभागाग्रहणाभिमानवत् ।
अपि चेन्द्रियलिङ्गसंस्कारादेर्यदर्थप्रतिनियतं रूपम्, तैनैवोपश्लिष्य निस्सरच्चैतन्यमपि तद्गोचरेणैव सन्निकृष्टते ; यथा गवादिपदशक्तिरेकबुद्धिसिद्धेऽपि सामान्यविशेषात्मके वस्तुनि सामान्यांशेनैव संबध्यते, यथा वा विधिः प्राप्तांशपरिहारेणाप्राप्तांशमेव भावनायाः स्पृशति ।
अत इन्द्रियादिद्वारेण चैतन्यं तदर्थाभिमुखं निर्गच्छतीति न्याय्यम् ।
यथाऽऽह भगवान् “तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि” इति ।
मनुश्च, “इन्द्रियाणां हि सर्वेषां यद्येकं क्षरतीन्द्रियम् ।
तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ।।” इति ।
यत्तु गुणश्चैतन्यं गुणिनमपहाय कथमन्यतो यातीति ; तदयुक्तम्, प्रहाणानभ्युपगमात् ।
अप्रहायैवात्मानमितस्ततश्चेतना इन्द्रियादिद्वारान्निश्चरति ।
विच्छिन्नायाश्च तस्याः सन्धानासंभवः शास्र एवोक्तः ।
दृश्यन्ते च गुणा अपि शब्दगन्धसूर्यालोकरत्नप्रभादयो गतिमन्तो धर्म्यतिवर्तिनश्च ।
अतिसूक्ष्मो दूरगमनधर्मा भौतिको हि शब्दः ।
ननु नभ इव विभुः शब्दो व्यञ्जकध्वनिवशेन प्रादेशिक इव गत्वर इव चोपलभ्यते ।
तथाहि-शब्दः सर्वव्यापी एकद्रव्यवर्तित्वे सत्याकाशगुणत्वात् तत्परिमाणवत् ।
मैवम्, अतद्गुणत्वात् ।
वायवीयः शब्दः, तेन नियतसहोत्पत्तिकत्वात्, तदीयस्पर्शवत् ।
यश्च येन द्रव्येण नियतसहोत्पत्तिर्गुणः स तद्गुण एव, यथा तथाविधा रूपादयः ।
नियतसहोत्पत्तिश्च वायुना शब्दः ।
उभयोरपि भेरीदण्डवंशदलनादिसंयोगविभागजत्वनियमात् ।
उत्पद्यते च शब्दः इन्द्रियग्राह्यत्वे सति गुणत्वात् गन्धादिवत् ।
कृतकश्च, क्रियोत्तरमेवोपलभ्यत्वात् संयोगादिवत् ।
न चाभिव्यञ्जकत्वं प्रयत्नादेः कल्प्यम्, गौरवात् ।
तत्प्रतीतिकारणत्वकल्पनादपि तत्कारणत्वकल्पनैव हि लघ्वी ।
अभिव्यञ्जकाश्च एकदेशावस्थितानेकेन्द्रियग्राह्यान् युगपदभिव्यञ्जन्ति, यथा प्रदीपो रूपसङ्ख्यापरिमाणानि करकादींश्चैकप्रदेशवर्तिनः ।
न चैवं ताल्वादिसंयोगविभागजनितपवन इति नासौ व्यञ्जकः ।
ज्ञानस्यार्थसन्निकर्षानुपगमे बाधकमुक्त्वाऽर्थसन्निकर्षे साधकं चाह ‘अन्यच्चे’ ति ।
ज्ञानस्य वहिःप्रसरणेऽमूर्तत्वविरोधमाशङ्कते ‘व्योमव’- दिति ।
मूर्तत्वविकल्पेनैनां शङ्कां निरस्यति ‘केय’ मित्यादिना ।
‘न हि त’ दिति ।
बन्धदशायां ज्ञानस्याविभुत्वमेवेति भावः ।
‘न तदे’ ति ।
एकेन्द्रियाधिष्ठानकाले इन्द्रियान्तरसंपृक्तं सत्तन्न प्रवर्तयति तदर्थसन्निकर्षायेत्यर्थः ।
एवं चाविभुद्रव्यत्वलक्षणमूर्तत्वस्य ज्ञाने सत्वादमूर्तत्वमसिद्धमिति भावः ।
स्पर्शवत्त्वं मूर्तत्वमिति पक्षे दोषमाह ‘शब्देने’ ति ।
यस्यास्पर्शत्वं तस्याक्रियत्वमिति नियमोऽसिद्धः ।
शब्दस्यामूर्तस्यापि क्रियावत्त्वात् ।
तथा चास्पर्शस्यापि ज्ञानस्य प्रसरणादौ नानुपपत्तिरिति भावः ।
अनैकान्त्यप्रदर्शनं शब्दे तस्य द्रव्यत्वमतेन ।
तस्य द्रव्यत्वे विमत्यामपि संप्रतिपन्नस्थलान्तरे तद्दर्शयत् ‘स्पर्शे’ ति ।
यद्वा ननु शब्दस्याश्रयद्वारैव गतिर्वाच्या ।
शब्दाश्रयश्च वायुः स्पर्शवानिति न निरुक्तनियमे क्षतिरिति चेत्तत्राह ‘स्पर्शे’ ति ।
पदार्थविदः काणादाः, वाक्यार्थविदो जैमिनीयाः ।
उभयेषामपि सम्मतं मनसो निःस्पर्शस्यापि क्रियावत्त्वमित्यर्थः ।
अर्थसन्नकर्षेण ज्ञानस्यार्थप्रकाशकत्वेऽतीतेनानागतेन वाऽर्थेन सन्निकर्षायोगाज्ज्ञानन तत्तदर्थप्रकाशव्यवहारौ न घटेते इति शङ्कते ‘कथमतीते’ ति ।
प्रतिबन्दीमाह ‘कथं वे’ ति ।
अतीतानागतयोर्वर्तमानज्ञानविषयत्वं वैशेषिकमते, वर्तमानज्ञानाधीनप्रकाशाख्यधर्मसमवायित्वं भाट्टमते, मतद्वयेऽपि द्वित्वादिसङ्ख्या च वर्तमानापेक्षाबुद्धिजन्यातयोः कथं घटत इत्यर्थः ।
उत्तरतौल्यं स्फोरयति ‘यस्तत्रे’ ति ।
ज्ञानविषयत्वे ज्ञानाधीनधर्मभाक्त्वे वा ज्ञानाधीने वर्तमानत्वमर्थस्य नापेक्षितमित्यकामेनापि स्वीकार्यम् ।
अस्माभिरपि ज्ञानसन्निकर्षस्तथैवोपपाद्यत इति भावः ।
वस्तुतः सिद्धान्ते ध्वंसप्रागभागभावलक्षणावस्थान्तरेण तयोरपि ज्ञानकाले सत्त्वाज्ज्ञानसन्निकर्ष उपपद्यत एवेत्याह’अपि चे’ ति ।
काऽनुपपत्तिरित्यत्र क्वचित् का नामानुपपत्तिरिति पाठः ।
नन्वेवमपि तत्तत्कालस्य ज्ञानेन ग्रहणं न स्यादद्यतनेन, तस्येदानीमभावादित्यत्राह ‘किञ्चे’ ति ।
ज्ञानास्यातिवेगितया तत्तत्कालसन्निकर्षेण तत्तद्ग्रहणमुपपन्नमित्यर्थः ।
व्यवहितकालसन्निकर्षे ज्ञानस्य निदर्शनं व्यवहितदेशसन्निकर्षोऽतिवेगिनो नायनतेजसः ।
दूरत्वेऽपि बुद्ध्या सन्निकर्षो घटत इत्युक्तम् ।
इदानीं बुद्ध्यपेक्षयादूरत्वमेव नेत्याह ‘नातीते’ ति ।
बुद्ध्यदूरत्वमेव बुद्धिसन्निकर्षो बोध्यबोधबोद्धृसाधारण इति तु सिद्धान्तः ।। 34 ।।नन्वेवं चैतन्यसंयोगः, संयोगजो वा कश्चित्प्रकाशः प्राप्तः ।
उभयमपि तन्न चैतन्ये संभवति, भेदापेक्षत्वात् संबन्धस्य ।
आत्मनोऽपि न चैतन्येन संयोगः, तद्धर्मित्वात् ।
न हि धर्मधर्मिणोः संबन्धः संयोगः ।
समवायो हि सः ; अयुतसिद्धसंबन्धत्वात् ।
संयोगस्तु पृथक्सिद्धयोर्द्रव्ययोः क्रियानिमित्ता प्राप्तिः, अकार्य कारणयोर्वा तयोर्निरन्तरस्थितिः ।
चैतन्यसंयोगसमवाययोरन्यतरस्य, संबन्धमात्रस्य वा प्रकाशत्वे ज्ञातृज्ञानज्ञेयशरीरेन्द्रियेष्वव्याप्त्यतिव्याप्ती यथायोगमादर्शयितव्ये ।
तत्त्वान्तरप्रकाशाभ्युपगमस्त्वनुपलब्धिबाधितो न दूषणान्तरं प्रयोजयति ।
अतो यद्व्यवहारोदयानुगुणं ज्ञानम्, तत् प्रकाशत इत्येवाभ्युपगमो युक्तः ।
त्रितयव्यवहारानुगुण्यं संविदस्तु स्वभाव इत्यपर्यनुयोज्यं निमित्तवैरूप्यम् ।
न हि स्वभावाः पर्यनुयोगमर्हन्ति ।
एवं चेत्संयोगसमवायविरहिणोऽपि पदार्थस्य निमित्तभेदानुसारेण व्यवहारहेतुः संविदिति युक्तमाश्रयितुम् ।
उच्यते ।
उक्तमत्र, न निमित्तकारणमनुरुध्य कार्यं स्वकार्यमारभत इति ।
व्यवहारानुगुणसंवेदनत्वेऽपि प्रकाशपदार्थे प्रवृत्तिनिमित्तभेदो दुष्परिहर एव ।
बहुव्रीहिसमासाश्रयणे संविदन्तराभावेन तस्यां तदभावप्रसङ्गात् ।
कर्मधारयाश्रयणे ज्ञातृज्ञेययोरसंवेदनत्वेनाप्रकाशप्रसङ्गः ।
व्यवहारोदयानुगुण्यं च व्यवहारतोऽवगन्तव्यम् ।
ततः प्रागेव च भवति विदितत्वप्रतीतिर्व्याहारश्च।
यद्येवम्, कस्तर्हि प्रकासतेपदार्थः ? ।
न हि निरवद्यमेकरूपं ज्ञातृज्ञेयज्ञानानुगतं तमुपलभामहे ।
उच्यते ।
नूनं भवानश्रुतपूर्वी प्रथमाधिकरणस्य न्यायतत्त्वे ।
अभिहितं हि तत्रेदमनुभवे स्मृतिमुपपादयद्भिः, ‘अनुभवादूरत्वं स्मृतिनिमित्त’ मिति ।
एतदुक्तं भवति-संविददूरत्वं प्रकाश इति ।
आह-किमिदमदूर इति ? दूरादन्यस्तद्विरुद्धस्तदभावो वा ? तथा विशेषणमुपलक्षणं वा अदूर इति ? विशेषणत्वे पक्षत्रयेऽपि संवेदनदूरत्वानुसन्धानपूर्विकया प्रकाशत इति प्रतीत्या भवितव्यम् ।
न च तथाऽस्ति ।
उपालक्षणत्वे स्वरूपान्तरं वाच्यम् ।
न च दवगम्यत इत्युक्तम् ।
उच्यते ; अलमस्थाने संभ्रमेण ।
नन्वेवमपि व्यवहितदेशकालसन्निकर्षस्य मध्यवर्तिदेशकालसन्निकर्षनान्तरीयकतया मध्यवर्तिनामपि ग्रहणं स्यादिति प्रसङ्गमिष्टत्वेन परिहरति ‘एवं चे’ ति ।
नन्वेवमपि चक्षुषा प्रसृतस्य ज्ञानस्य रसादिभिरपि सति सन्निकर्षे तेनरूपस्यैव प्रकाशनं न तु रसादेरिति व्यवस्था कथमित्यत्राह ‘अपि चे’ ति ।
यदर्थप्रतिनियतं रूपम्-यदर्थ एव व्यवस्थितं बोधजननसामर्थ्यम् ।
तेन-तदर्थप्रतिनियतरूपेणेन्द्रियादिना ।
तद्गोचरेणैव-तत्तादिन्द्रियादियोग्यार्थेनैव ।
एवं च चाक्षुषज्ञानस्य न रसादिना सन्निकर्ष इति भावः ।
योग्यांशेनैव संबन्धे लौकिकं वैदिकं च निदर्शनं ‘यथे’ ति ‘यथा वे’ ति च ।
गवादिपदशक्तेस्तद्व्यक्तिलक्षणविशेषेण सम्बन्धे तत्तत्पदाद्व्यक्त्यन्तरबोधो न स्यात् ।
सामान्यांशेन संबन्धे तु स्यादिति गवादिपदसंबन्धयोग्यत्वं सामान्यस्यैव मतम् ।
विधेश्च प्राप्तार्थेऽन्वयस्य निरर्थकत्वादप्राप्तेनैवान्वययोग्यता मता ।
तेन तेन च तत्तदन्वय इष्यते यथा, एवं तत्तदैन्द्रियिकादिज्ञानस्य तत्तदिन्द्रियाद्यर्थेनैव संबन्धो मन्तव्यः ; अन्यथाऽन्धबधिरादिविलोपप्रसङ्गात्, अव्यवस्थाप्रसङ्गाच्चेति भावः ।
भावनायाः साध्यसाधनेतिकर्तव्यतान्वयित्वेऽपिभावनान्ययिन्यप्राप्ते साधनांश एव विधितात्पर्यमिति मीमांसकाः ।
तदर्थाभिमुखमेव-इन्द्रिययोग्यार्थप्रकाशनैकतत्परम् ।
संबन्धमात्रं न सन्निकर्षः ।
किन्तु संबन्धविसेषः ।
स च तत्तदिन्द्रिययोग्यार्थेनैव तत्तदैन्द्रियिकज्ञनस्येति न चाक्षुषादिना रसादेः प्रकाश इति हार्दम् ।
चाक्षुषादिज्ञानस्य रसादिन संबन्ध एव नास्तीति तु कश्चन पक्षः ।
प्रागुक्तपक्ष एव तु युक्तः ।
इन्द्रियार्थभिमुखतया ज्ञानस्य प्रसरणे श्रीमद्गीतावाक्यं प्रमाणयति ‘तदस्ये’ ति ।
“इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते” इति पूर्वार्धम् ।
आत्मग्रहणप्रवृत्तं ज्ञानमिन्द्रियार्थप्रवणं मन इन्द्रियद्वारा विषयाभिमुखं नयतीत्यर्थः इन्द्रियद्वाराज्ञानस्य प्रसरणे मनोर्वाक्यम् ‘इन्द्रियाणा’ मिति ।
क्षरति-बाह्यविषयमभिसरति ।
तेनेन्द्रियद्वारेण चैतन्यमिपि निस्सरति चर्मभस्त्रिकाच्छिद्रद्वारेव जलमित्यर्थः ।
‘अप्रहायैवे’ ति ।
सङ्कोचविकाशशालिनो ज्ञानस्यात्मधर्मस्यापरित्यज्यैवात्मसंबन्धं विकासावस्थया बाह्यार्थसंबन्धो घटत इति यावत् ।
गुणस्याप्याश्रयादन्यत्र गमने निदर्शनमाह ‘दृश्यन्त’ इति ।
धर्म्यतिवर्तित्वंधर्मिदेशाधिकदेशसंबन्धित्वम् ।
गुणत्वं चायुतसिद्धप्रकारत्वलक्षणं द्रव्याद्रव्यसाधारणमत्र वाच्यम्, शब्दगन्धयोरद्रव्ययोरालोकप्रभयोश्च द्रव्ययोर्गुणत्वेनोपादानात् ।
गुणस्य गतिमत्त्वादि तु आश्रयांशद्वारा ।
न चैवं धर्म्यतिवर्तित्वमसिद्धमिति वाच्यम् ।
प्रसिद्धाश्रयशङ्खपुष्पाद्यतिवर्तित्वे तात्पर्यात् ।
‘दूराद्गन्धो वाती’ तिश्रुतिर्गन्धस्य गतिमाह ।
शब्दस्य गतिमत्त्वं ‘शङ्खनादोऽय’ मित्याद्युपलब्धेर्दूरेऽपि ।
नन्वाकाशगुणत्वाच्छब्दस्याश्रयद्वाराऽपि गतिर्नोपपद्यत इत्यत्राह ‘अतिसूक्ष्म’ इति ।
भौतिकः-भूतजनितः ।
भेरीदण्डाभिघातादिनोद्भूते वायौ शब्दो जायते ।
आश्रयवाय्यंशविशरणवशाच्च नानादिक्षु तस्यापि सम्बन्धो घटत इति भावः ।
अतिसूक्ष्मत्वाद्दूरगन्तृत्वं वायोः ।
आश्रयधर्मश्चाश्रययिण्युपचरित इति बोध्यम् ।
नन्वाकाशगुणस्य शब्दस्य विभुत्वादेव न गमनापेक्षा ।
यत्कृते वायवीयत्वं कल्प्येत ।
व्यञ्जकयोगिदेश एवोपलम्भनियमाच्च न विभुत्वेऽपि सर्वत्रोपलम्भप्रसङ्ग इति शङ्कते ‘ननु नभ’ इति ।
शब्दस्य विभुत्वं साधयति ‘शब्द’ इति ।
घटाकाशसंयोगादौ व्यभिचारवारणाय हेतौ विशेषणदलम् ।
घटाद्येकत्वादौ तद्वारणाय विशेष्यम् ।
एतद्दूषयति ‘मैव’ मिति ।
स्वरूपासिद्धिमाह ‘अतद्गुणत्वा’ दिति ।
आकाशगुणत्वाभावादित्यर्थः ।
नन्वाकाशगुणत्वं शब्दस्य शास्त्रसिद्धं कथं प्रतिक्षिप्यत इति चेत् ; उच्यते ।
आगमानुसारे आकाशस्यैव न विभुत्वमिति न तरां तद्गुणस्य विभुत्वम् ।
युक्त्या तु केवलया वायवीयत्वमेव सेत्स्यति शब्दस्येति हार्दम् ।
युक्तिमेवाह ‘वायवीय’ इति ।
विभुत्वं प्रतिक्षिप्य नित्यत्वमपि शब्दस्य प्रतिक्षिपति मीमांसकाभिमतम् ‘उत्पद्यते चे’ ति ।
अनेन वायवीयत्वानुमाने शब्दस्य हेतुविशेष्यांशासिद्धिरपि परिहृता ।
ननु तदुत्तरकालोपलभ्यत्वं तद्व्यङ्ग्यत्वादपि घटेतेत्यप्रयोजकत्वं हेतोरिति शङ्कां प्रतिक्षिपति ‘न चे’ ति ।
गौरवात्-तद्धेतुत्वकल्पनातस्तदभिव्यक्तिहेतुत्वकल्पनायां गौरवात् ।
विपक्षे गौरवप्रसङ्गः स्वपक्षस्यानुग्राहकस्तर्क इति हृदयम् ।
अभिव्यक्तिपक्षेऽनुपपत्तिमप्याह ‘अभिव्यञ्जकाश्चे’ ति ।
उच्चारणस्य वर्णाभिव्यञ्जकत्वे युगपदेव नानावर्णाभिव्यक्तिप्रसङ्गः ।
अभिव्यञ्जकस्यैकदेशस्थैकेन्द्रिय ग्राह्यसर्वाभिव्यञ्जनस्वाभाव्यादिति भावः ।
वर्णाभिव्यञ्जकपवने वैजात्यपरिकल्पने त्वतिगौरवम्-व्यक्तिहेतुत्वकल्पनम्, व्यक्तिव्यवस्थित्यै व्यञ्जकै वैजात्यकल्पनं चेत्यपि बोध्यम् ।
व्यञ्जकत्वे दोषमेवोपपादयति सार्धश्लोकेन ‘नित्यत्वे’ ति ।
नित्यत्ववादिन इति षष्ठ्यन्तम् ।
मते इति शेषः ।
एकाश्रयकत्वमेकन्द्रियग्राह्यत्वं च विशेषणद्वयेव सूचितम् ।
तथा चैकोच्चारेणे सर्वव्यञ्जनप्रसङ्गो व्यञ्जकत्वपक्षे इति निगमयति ‘देशैक्ये’ इति ।
‘तदभावा’ दिति ।
एकव्यञ्जकव्यङ्ग्यत्वाभावात्ध्वनेः-वर्णस्योच्चारणप्रयत्नोत्थितः कोष्ठ्यमारुतस्ताल्वादिस्थानेऽभिघातं प्राप्त उत्पादक एव तस्य तस्य वर्णस्येत्यर्थः ।
व्यङ्ग्यत्वासंभवादुत्पाद्यत्वपक्षे प्रसक्तं प्रत्युच्चारणं गकारादेर्भिन्नत्वमपि सम्मन्तव्यमेवेत्याह ‘अत एवे’ ति ।
विरुद्धधर्मोपलम्भादपि भेदं गादेः साधयति ‘किञ्चोदात्ते’ ति ।
आदिपदेन तारत्वमन्दत्वादि ग्राह्यम् ।
एकस्यैव कालभेदेन विरुद्धान्वयसम्भवाद्युगपद्भान्त इत्युक्तम् ।
भान्तः-भासमानाः ।
व्यञ्जकत्वासम्भवादेव व्यञ्जकधर्मा व्यङ्ग्येसमारोप्यन्त इत्यपि दुर्वचमित्याशयः ।
ननु सोऽयं गकार इत्यादिप्रत्यभिज्ञा कथं प्रत्युच्चारणं भेदे ? तत्राह ‘स्थानैक्ये’ ति ।
सादृश्यमूलत्वाद्भ्रान्तिरूपा सेति भावः ।। 35 ।। 36 ।।37।। 38।। 39 ।।प्रकाशत इति प्रतिभासोऽपि बुद्धिविप्रकर्षप्रत्यनीकबोधतत्संसृष्ट पदार्थस्वरूपविमर्श एव, बाह्यप्रकाशवत् ।
तत्रापिह्यालोके तद्व्याप्तभूभागादौ च प्रकटादिप्रख्योपाख्ये आलोकादूरत्वनिमित्ते ।
यथा च तत्र तन्निमित्ता सन्तमसनिवृत्तिः, एवमिहापि ज्ञानदूरत्वनिमित्ता अज्ञाननिवृत्तिः ।
अत एव चानुभूते अनुभवे चोत्तरकालतुल्यत्स्मरणम् ।
एवं च चैतन्यसंबन्धविशेषविषयविकल्पोऽप्यलब्धावकाश इति निरनुयोज्यानुयोग एव ।
नैरन्तर्यपदप्रयायमत्यन्तसामीप्यमात्रं च संयोगः ।
स एव परतन्त्राश्रितः समवायपदपरिभाषाभूमिर्वैशेषिकाणामिति नार्थान्तरत्वमूरीकृत्य विकल्पः संभवति ।
यथा च संयोगान्तर्भावः समवायस्य, तथा संबन्धविमर्शे दर्शयिष्यामः ।
ज्ञानादूरत्व प्रयुक्तो व्यवहारक्षमतालक्षणो वा परः प्रकाशः ।
स च सत्यपि स्वनिमित्तपौष्कल्ये प्रतिबन्धात् योग्यताविरहाद्वा व्यापित्वसङ्गित्वाद्यात्मधर्मान्तरेषु देहेन्द्रियादौ च न सञ्जायते, चक्षुस्सन्निकृष्ट इव कालिन्दीपयसि रूपरसादयः ।
एवं नित्यत्वविभुत्वप्रतिक्षेपेण वायवीयगुणत्वं व्यवस्थापितं युक्त्या शब्दस्य विसृत्वरत्वं च ।
आत्मगुणस्य चैतन्यस्यान्यत्र संबन्धमात्रे दृष्टान्तः शब्दो गन्दश्च ।
आश्रयमन्तराऽन्यत्र गमने दृष्टान्तः सूर्यालोको मणिप्रभा च ।
द्रव्यरूप्वादन्यत्र गमनं संभवति ।
आश्रयसंबन्धाविच्छेदात्तद्धर्मत्वं च सुस्थितमिति प्रघट्टकार्थः ।
एवमर्थसंबन्धश्चैतन्यस्योक्तः ।
प्रकाशतेव्यवहारश्च चैतन्यसंबन्धप्रयुक्त इत्यभिप्रेतम् ।
अत्र प्राभाकरः शङ्कते ‘नन्वेव’ मिति ।
चैतन्यसंयोगस्य प्रकाशमानताव्यवहारनियामकत्वे चैतन्ये तदाश्रये तदाश्रये च तद्व्यवहारानुपपत्तिः ।
चैतन्यसमवायस्य तथात्वे च चैतन्यतद्विषययोस्तद्व्यवहारानुपपत्तिः ।
चैतन्यसंबन्धमात्रस्य तथात्वे चेन्द्रियादेरपि प्रकाशप्रसङ्गः ।
अतो निमित्तविसेषादेव तत्तज्ज्ञानस्य तत्तदर्थव्यवहारहेतुत्वं स्वभावतश्च स्वस्वाश्रयव्यवहारहेतुत्वमेष्टव्यमित्यनर्थकमर्तचैतन्यसंबन्धकल्पनमिति समुदिताशयः ।
विभुद्वयस्य संयोगोऽस्तीति पक्षे क्रियाया अभावात्तत्र संयोगं प्रकारान्तरेण निर्वक्ति ‘अकार्ये’ ति ।
अवयवावयविभिन्नयोर्द्रव्ययोरन्तरालाव्यवहितस्थितिः संयोग इत्यर्थः ।
स चाविभौ क्रियया ।
विभ्वोस्तु स्वत एवेति भावः ।
अर्थसंबन्धस्य निरासादेव तज्जन्यधर्मान्तरप्रकाशपक्षो निरस्तः ।
धर्मान्तरप्रकाशेऽनुपलब्धिबाधमप्याह ‘तत्त्वान्तरे’ ति ।
‘अपर्यनुयोज्य’ मिति ।
स्वयमेव स्वस्य व्यवहारहेतुः, स्वाश्रयस्य स्वसमवायात्, विषयस्य तु स्वनिमित्तानुसारता इति प्रयोजकवैषम्यं न दूषणावहमित्यर्थः ।
गुरुमतेऽप्युक्ते दोषमाह विमर्शकः ‘उच्यते’ इति ।
स्वनिमित्तकारणवत्येव देशे स्वकार्यजनकत्वमदृष्टमन्यत्रेति इन्द्रियसन्निकर्षवत्येवार्थेज्ञानेन व्यवहारो निष्पाद्यत इति न सम्यगिति भावः ।
दूषणान्तर मप्याह ‘व्यवहारे’ ति ।
ज्ञातृज्ञेययोःस्वव्यवहारानुगुणज्ञानकत्वलक्षणः प्रकाशः ।
ज्ञानस्य तु स्वव्यवहारानुगुणज्ञानत्वलक्षणः स इति त्रिष्वनुगतः प्रकाशपदार्थो नास्त्यनुगतव्यवहारनियामक इत्यर्थः ।
ननु ज्ञानाधीनं व्यवहारानुगुण्यमेवास्तु प्रकाशः ।
स चानुगत इत्यत्राह ‘व्यवहारोदये’ ति ।
व्यवहारयोग्यतारूपप्रकाशस्य व्यवहारत एवानुमेयतया व्यवहारात्पूर्वमेव जायमानौ विदितत्वप्रतीतिव्यवहारावनुपपन्नावित्यर्थः ।
एवं विमर्शकेन प्रकाशपदार्थ आक्षिप्ते तटस्थः शङ्कते ‘यद्येव’ मिति ।
‘न ही’ ति ।
ज्ञानसंबन्धमात्रस्याप्रकाशमानार्थसाधारण्यात्समवायादेश्चाननुगतत्वादन्यूनानतिरिक्तः प्रकाशतेपदार्थो दुर्निरूप इत्यर्थः ।
प्रकाशतेपदार्थः-प्रकाशतेपदघटकप्रकृतिप्रत्ययार्थः ।
सिद्धान्ती समाधत्ते ‘उच्यते’ इत्यादिना ।
प्रथमाधिकरणस्येति शैषिकषष्ठी ।
अनुभवे स्मृतिम् -अनुभवविसयिणीं स्मृतिम् ।
‘अनुभवादूरत्व’ मिति ।
विषयस्येवानुभवस्याप्यनुभवादूरत्वमस्त्येवेति स्मृतरुपपद्यत इति यावत् ।
नन्वस्तु नामैतत् ।
प्रकृत किमायातम् ? तत्राह ‘एतदुक्त’ मिति ।
संविददूरत्वं संविदोऽप्यस्तीत्युक्तप्रायम् ।
तद्रूप एव प्रकाशपदार्थस्त्रिष्वनुगत इत्युक्तं भवतीत्यर्थः।
शङ्कते ‘किमिद’ मिति ।
नञो नानार्थत्वात्प्रकृतेत कोऽर्थ इति जिज्ञासया शङ्का ।
नञो यं कञ्चनाप्यर्थमभ्युपगम्य शङ्कान्तरं ‘तथे’ ति ।
दूरभेदादेः प्रकाशपदार्थत्वे दूरज्ञानापूर्विकयैव तत्प्रतीत्या भवितव्यम् ।
न च तथोपलभ्यते ।
तस्योपलक्षणतेवे तूपलक्ष्याकारान्तरं वाच्यम् ।
नचतदस्ति ।
एवं पक्षद्वयेऽप्यनुपपत्तिप्रतीतिः शङ्कबीजम् ।
विकल्पासहत्वात्संविददूरत्वं न प्रकाशः स्यादित्याक्षेपो वा ‘कि’ मित्यादिः ।
परिहरति ‘उच्यते ’ इति ।
प्रथमविकल्पं प्रतिवक्ति ‘भवत्वनुभवे’ ति ।
द्वितीयकल्पं प्रतिवक्ति ‘तद्भावश्चे’ ति ।
अनुभवदूरभिन्नत्वमनुभवदूरविरोधित्वं वा प्रकाशत्वम्-प्रकाशमानत्वम्, प्रकाशपदार्थ इति यावत् ।
अत्रानुभवपदं ज्ञानसामान्यार्थकम् ।
अत्रेदं हार्दम्-शाखा चन्द्र इत्यादिवदुपलक्ष्योपलक्षणयोः सामानाधिकरण्यनिर्देशः ‘तद्भावश्च प्रकाशत्व’ मिति ।
तथा च संविददूरत्वोपलक्षितो धर्मः प्रकाश इति ।। 40 ।।यत्तु सुखादिनिदर्शनेनात्मविशेषगुणतया चितेरागन्तुकत्वमुपपादितम्, तदपि गुणवृत्तापरिज्ञानेन; यतः प्रकाशपदार्थविचारो वृत्तः प्रासङ्गिकः ।
विषयवित्तिवेलायामेवात्मनो वित्त्यधीनः प्रकाश इति वादस्य निरासार्थं प्राग् यत्समर्थितं ज्ञानस्वभावत्वमात्मनोऽन्यापेक्षप्रकाशत्वं च, तन्निगमयति अत इति कारिकया ।
यतो ज्ञेयज्ञानज्ञातृसाधारणः प्रकाशो निर्वक्तुं शक्यते, अतः पक्षसपक्षानुगतप्रकाशसिद्ध्या सजातीयेतिकारिकोक्तयुक्तया स्वाधीनस्वप्रकाश आत्मा सिद्धः ।
स च ज्ञानस्वभावक एव ।
नत्वागन्तुकमस्य ज्ञानम् ।
चक्षुरादिना प्रसृताच्च धर्मभूतज्ञानादर्थान्तरस्यापि प्रकाशको भवत्यात्मेति कारिकार्थः ।
हानस्वभाव इति प्राचीनमुद्रितपाठस्तु न समीचीनः ।।41।।यथा च बोधोपाधिरात्मभावः, तथोपपादितम् ।
सुखदुःखे च नात्मधर्मो, इन्द्रियसौष्ठवनाशयोरेव तद्भावोपपादनात् ।
व्याकरिष्यते चैतदन्तिमपदार्थसमर्थनावसर इति साधनविकलता च निदर्शनस्य ।
रागद्वेषादयोऽपि मनोवस्थाविशेषाः न साक्षादात्मगुणाः ।
विज्ञायते हि “कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्नीर्धीर्भीरित्येतत्सर्वं मन एवे"ति ।
गीयते च ‘इच्छा द्वेषः सुखं दुःख’मिति ।
‘चेतनाधृति’रिति क्षेत्रलक्षणमैकपद्येन ।
चेतनया ध्रियमाणः सङ्घातो हि देहः ।
स्ववृत्त्यनुगुणचैतन्यमात्रादेव प्रवर्तमानं क्षेत्रमिति यावत् ।
अत एव ह्यन्तर्यामिब्राह्नाणे ‘यस्य पृथिवी शरीरम्’ ‘यस्यापः शरीरम्’ ‘यस्यात्मा शरीर’मित्यादिनिर्देशः ।
‘तानि सर्वाणि तदूपु’रिति च पुराणे ।
किमिदं धीरिति ? उत्प्रेक्षाभिप्रायं तत्, न ज्ञप्तिविषयम् ।
तस्याः स्वाभाविकत्वस्य तस्यामेव श्रुतौ श्रूयमाणत्वात् ।
श्रूयते हि “न विज्ञातुर्विज्ञातोर्विपरिलोपो विद्यते” इति, “न हि द्रष्टुर्द्दष्टेर्विपरिलोपो विद्यते अविनाशित्वा"दिति च ।
ज्ञातुरविनाशित्वादेव ज्ञानस्याविनाशमुपपादयन्तीयं श्रुतिर्ज्ञातुः स्वरूपप्रयुक्तं ज्ञानमिति दर्शयति ।
न च दृष्टिविशेषणतया द्रष्टुरुपादानमिति साम्प्रतम्, पुंल्लिङ्गनिर्देशविरोधात्; हेतोश्च साध्यसमत्वापत्तेः ।
द्रष्टुः स्वरूपनिर्देशपरत्वेऽपिदृष्टिपदस्यासमाधेयमहेतुत्वम्, स्वपक्षहानिश्च ।
आत्मनस्तु नित्यत्वमप्रचाल्यमनेकन्यायागमसिद्धं युक्तं हेतुतया व्यपदेष्टुम् ।
न हि सति पदार्थे तत्स्वरूपोपाधयो न भवितुमर्हन्ति, सति कनक इव पैङ्गल्यम्, प्रभेव च प्रदीपे ।
तेनायमर्थः-आत्मस्वभावभूतायाश्चितेर्बाह्याभ्यन्तरविषयविशेषसंबन्धप्रकारप्राप्तदृष्टिघ्रातिरसयतिवक्तिश्रुतिमतिस्पृष्टिविज्ञातिव्यपदेशभेदायाः स्वात्मावभासिन्याः संसारापवर्गावस्थयोर्न जातुचिद्विपरिलोपो विद्यत इति ।
‘स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव, एवं वा अरे अयमात्मा अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघनः’ तथा, ‘स्वेन भासा स्वेन ज्योतिषा’ ‘आत्मज्योतिः सम्राडिति होवाच’ इति ।
तथाऽपवर्गदशायामेवच्छन्दोगाः ’ न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् ।
सर्वं ह पश्यः पश्यति’ ‘नोपजनं स्मरन्’ इति, ‘स वा एष एतेन दैवेन चक्षुषा मनसैतान् कामान् पश्यन् रमते’ इति च ।
अन्याश्च ‘जानात्येवायं पुरुषः, ज्ञातव्यं तु न वेद’ इत्याद्याः सकलकरणोपरमदशायामप्यात्मनः प्रबोधमभिदधानाः श्रुतयो बोधस्वभावतामस्य द्रढयन्ति ।
‘निर्वाणमयएवायमात्मा ज्ञानमयोऽमल’ इत्यादि च पुराणे ।
‘ज्योतिषामपि तज्ज्योति’रित्यादि इतिहासे ।
भगवान् शौनकश्च-“यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणोः ।
दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा ।।यथोदपानकरणात् क्रियते न जलाम्बरम् ।
सदेव नीयते व्यक्तिमसतः सम्भवः कुतः ।।तथा हेयगुणध्वंसादवबोधादयो गुणाः ।
प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते ।।“इति ।
अत एव हि सूत्रकारश्च ‘ज्ञोऽत एव’ इति ।
( इति धर्मभूतज्ञाननित्यत्वस्य श्रुत्यादिभिः प्रतिष्ठापनम्)तदेवमात्मस्वभावभूतस्य चैतन्यस्य चैतन्यस्य विषयसंश्लेषविशेषेषु निश्चयसंशयादिव्यवहारभेदः, तत्तद्विशेषभाजिचैतन्ये वा ।
चैतन्यस्य विषयेण दृढसंयोगो हि निश्चयः; तस्यैव बहुभिर्युगपददृढसंयोगः संशयः; ज्ञानवासनानुसारेण संश्लेषः स्मरणमित्यादिः ।
उक्तं च ‘आत्मधर्मस्य चैतन्यस्य विषयेण संयोगो ज्ञानमित्युच्यते’ इति ।
नचैवं संयोगस्योभयाश्रितत्वेन विषयस्यापि ज्ञातृत्वप्रसङ्गः ।
विषयेण संयोगाभावात् ।
चैतन्येन हि तस्य संयोगः, बाह्यप्रकाशवत् ।
यथा खलु आलोकसंबन्धेऽपि प्रकाशे सूर्यादेरेव प्रकाशकत्वं न घटादेः ।
अथ सूर्यादितन्त्रत्वादालोकस्य स एव तद्धर्मा तत्संबन्धेनार्थान्तरस्य प्रकाश (क) इत्युच्यते, इहापि तर्हि चैतन्यस्यात्मधर्मत्वात्तेनार्थान्तरं स्पृशन् स एव जानातीत्युपपद्यते ।
तत्सिद्धं चैतन्यस्वभाव एवायमात्मा आत्मानं विदन्नेवास्ते; अन्यत्तु निमित्तभेदानुसारेण जानाति न जानाति चेति ।
(इति धर्मभूतज्ञानस्य संशयाद्यवान्तरभेदोपपादनम्) तदेवं चैतन्यस्वभावः परिस्फुरन्नप्ययमात्मा गम्भीरजलाशयचरमीनवत् जलसंसृष्टक्षीरवच्च न विविच्य स्फुटं चकास्तीति तदुपपादनन्यायानुगताः पूर्वानुमानभेदाः वचनानि चाद्रियन्ते ।
तैरप्यपरितुष्यन्तो यमनियमादियोगा ङ्गानुष्ठानक्षपिताशुद्ध्यावरणमलाःनिरोधाभ्यासपुटपाकनिर्धूतरजस्तमःकलङ्कसत्त्वोद्रेकसमुत्थस्वेतरसकलविषयवैलक्षण्यापरोक्षज्ञानाय प्रयतन्ते ।
भावनाप्रकर्षपर्यन्ते चापरोक्षज्ञानमुदयत इति सर्ववादिनिर्विवादमिति न तदुपपादनायाद्य प्रयत्यते ।
अथ यद्बोधस्य स्वाभाविकत्वप्रतिपक्षतयाऽऽगन्तुकत्वमुक्तम्, तदनूद्य प्रतिक्षिपति यत्तु सुखादीति ।
तदपीति ।
गुणवृत्तं-गुणस्वभावः ।
स च कः? ।
तत्राह स्वरूपोपाधय इति ।
स्वरूपोपाधित्वं स्वरूपनिरूपकत्वम् ।
तथाभूतानां धर्माणां यावदाश्रयभावित्वं स्वभावः ।
अन्येषां त्वागन्तुकत्वमिति गुणवृत्तम् ।
अस्त्वेवम्, ततः किम्? तत्राह नैवमिति ।
वैषयिकस्य सुखादेरागन्तुकत्वं स्यादेव ।
बोधस्य त्वात्मस्वरूपनिरूपकत्वादात्मनश्च नित्यत्वस्य स्थापयिष्यमाणत्वान्नागन्तुकत्वं साधयितुं शक्यत इति बावः ।।42।।यथा चेति ।
बोधोपाधिरिति बहुव्रीहिः ।
ज्ञानाभिन्नस्वरूपनिरूपकधर्मक आत्मपदार्थ इत्यर्थः ।
ज्ञानवत्त्वेनैवोपलभ्यमानत्वयुक्तया बोधोपाधित्वमात्मनः समर्थितम् ।
विषयसंबन्धकादाचित्कत्वाद्विषयोपरक्तज्ञानस्य कादाचित्कत्वप्रतीतावपि ज्ञानस्वरूपं नित्यमेवेति भावः ।
यद्यपि ज्ञानस्यात्मस्वभावत्वे नित्यत्वे च शास्त्रमग्रे प्रमाणीकरिष्यते ।
अथापि युक्तिप्रधानत्वात्प्रकरणस्यास्य युक्तिरेव पुरस्कृतेति बोध्यम् ।
अनेन ज्ञानस्यागन्तुकत्वानुमाने स्वूरूपनिरूपकधर्मभिन्नत्वमुपाधिरित्युक्तं भवति ।
अथ तत्र निदर्शने हेत्वासिद्धिमप्याह सुखेति ।
अनुकूलप्रतिकूलज्ञानान्येव राद्धान्ते सुखदुःखरूपाणि।
तेषां च पक्षान्तर्भावान्न निदर्शनता ।
ज्ञानविशेषातिरिक्ते च सुखदुःखे करणपाटवापाटवलक्षणे ।
तयोश्च नात्मगुणत्वमिति हेत्वासिद्धिर्दृष्टान्त इति भावः ।
अन्तिमेति ।
स्वतःसुखीत्येतदंशसमर्थनावसर इत्यर्थः ।
नन्वेवमपि रागादेर्दृष्टान्तता स्यात्, आत्मविशेषगुणत्वादागन्तुकत्वाच्चेत्यत्राह रागेति ।
मनोवृत्तिभेदा रागादयो नात्मधर्माः ।
किन्त्वग्निधर्मस्यौष्ण्यादेस्तत्संसृष्टस्थाल्यामिव मनोधर्माणामात्मनि केवलं प्रतीतिः ।
तथा चोक्तं “निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः ।
दुःखाज्ञानमला धर्माः प्रकृतेस्ते न चात्मनः।।” इति भावः ।
रागादेरन्तःकरणधर्मत्वं श्रुत्यामपि प्रतीयत इत्याह विज्ञायत इति ।
अस्मिन्नर्थे भगवद्वचनमपि संवादयति गीयते चेति ।
क्षेत्राश्रितत्वादन्तःकरणस्य तद्धर्मा रागदयः क्षेत्रधर्मत्वेनोक्ताः ।
नन्वत्र चेतनाधृतिरित्यपि ।
पठ्यते ।
अतो बोधस्यापि नात्मधर्मत्वमित्यत्राह चेतनाधृतिरिति ।
चेतनेति धृतिरिति च न पदद्वयम् ।
किन्तु चेतनाधृतिरिति समस्तम् ।
चेतनेन,चेतनया वा आधृतिर्यस्येति चेतनाधार्यं नियमतः शरीरमिति शरीरलक्ष्मोच्यतेऽत्रेति भावः ।
तदाह स्ववृत्तीति ।
वृत्तिः सत्ता, प्रवृत्तिर्वा ।
प्रवर्तमानम्-प्रकर्षेण वर्तमानं लब्धस्थितिकम्; प्रवृत्तिमद्वा ।
आत्मचैतन्यसम्बन्धाधीनस्वसत्ताप्रवृत्तिसामान्यकं शरीरमिति फलितोऽर्थः ।
इदमेव शरीरलक्ष्म साधु ।
करचरणादिमत्त्वादिलक्षणानामव्याप्त्यादिदोषादिति हृदये निधाय पृथिव्यादीनां परमात्मशरीरत्वपरश्रौतवचनान्युपादत्ते अत एवेति ।
भगवत्सङ्कल्पात्मकज्ञानेनैव लब्धस्वरूपस्थितिप्रवृत्तिकत्वात्सर्वस्य तच्छरीरत्वं शोश्रुयते मुख्यमेवेति भावः ।
किमिति ।
नन्वन्तःकरणधर्मेषु धीरपि पठ्यते ।
तन्न बोधस्यात्मस्वभावत्वमिति गर्भितं चोद्यमत्र ।
परिहरति उत्प्रेक्षेति ।
चित्तवृत्तिविशेषेषु उत्प्रेक्षा धीरित्युच्यत इत्यर्थः ।
यद्यपि कामादिकानामपि मतमात्मधर्मत्वम् ।
परं नैते स्वाभाविका आत्मनः, किन्तु कर्माद्युपाधिनिबन्धनाः ।
कामादितत्तद्बुद्धिवृत्तिहेतुव्यापारवत्तया च मनसस्तत्तदभेदनिर्देश औपचारिकः श्रुतौ कृत इति सिद्धान्तः ।
अथाप्यवस्थाविशेषविशिष्टस्य ज्ञानस्यैव रागादिरूपतया ज्ञानकादाचित्कत्वानुमाने न रागादेर्दृष्टन्तता संभवति ।
नच विशिष्टनिदर्शनेन ज्ञानमात्रस्यागन्तुकत्वं साध्यमिति वाच्यम् ।
अवस्थाविशिष्टस्यैवोपलभ्यमानतयाऽविशिष्टेज्ञानमात्रे आगन्तुकत्वसाधनायोगात् ।
तस्य श्रुतिसिद्धत्वे च तन्नित्यत्वमपिश्रुतिसिद्धमेवेति धर्मिग्राहकमानबाधः ।
असतोऽवस्थाऽयोगेन च ज्ञाननित्यत्वमेव युक्तिमदिति हार्दम् ।
यथाश्रुतं त्वभ्युपगमवादेन ।
ज्ञाननित्यत्वे श्रुतिमुदाहरति श्रूयते हीति ।
विज्ञातित्वदृष्टित्वाद्यवस्थाभाजो ज्ञानस्वरूपस्य नित्यत्वमत्र विवक्षितम् ।
विपरिलोपः-विनाशः ।
नन्वत्राविनाशित्वमेवोक्तम्, नानाद्यनन्तत्वं ज्ञानस्येत्यत्राह ज्ञातुरिति ।
स्वरूपनिरूपकत्वेन नित्यात्मस्वरूपप्रयुक्तस्य ज्ञानस्य पुरातनत्वमपि फलतीति भावः ।
न चेति ।
अभेदेन दृष्टिविशेषणत्वं द्रष्टृपदस्य न युक्तं, तथासति द्रष्ठ्र्या इति स्त्रीलिङ्गनिर्देशेन हि भाव्यमिति भावः ।
शब्दविरोधमुक्त्वार्थविरोधमाह हेतोश्चेति ।
साध्यसमत्वम्-असिद्धत्वम् ।
सर्वकालवर्तमानतालक्षणनित्यत्वरूपसाध्यस्येवाविनाशित्वरूपहेतोरप्यसिद्धिरित्यर्थः ।
अविनाशित्वस्यैव साध्यतया तस्यैव हेतुत्वायोग इति वा ।
अर्थान्तरपरत्वमाशङ्क्य परिहरति द्रष्टुरिति ।
अत्र योजनायां दृष्टिपदं भावप्रधानम् ।
ज्ञानत्वायोगव्यवच्छेदो द्रष्टुः साध्यः ।
अत्र चाप्रयोजकत्वेन हेतोरहेतुत्वम्-असाधकत्वं दुष्परिहरमिति बावः ।
स्वपक्षेति ।
आत्मनो ज्ञानरूपत्वोपगम आगन्तुकज्ञानवादिनोऽपसिद्धान्तश्चेत्यर्थः ।
अद्वैत्यभिमते च निरुक्तश्रुत्यर्थे दूषणमत्राभिमतम् ।
यथा-ज्ञातुर्ज्ञानस्वरूपानतिरेके साध्ये व्यधिकरणासिद्धत्वेनात्मनित्यत्वस्याहेतुत्वम् ।
ज्ञातुरहमर्थ स्यात्मत्वाविनाशित्वोपगमे चापसिद्धिन्त इति ।
निरुक्तश्रुतेरभिमतमर्थं वक्तुं विषयं विशोधयति वाक्यद्वयेन आत्मनस्त्विति, नहि सतीति च ।
नित्यात्मस्वरूपनिरूपकधर्मत्वं ज्ञानस्य नित्यत्वे हेतुर्वाक्यद्वयेन समसूचि ।
अथ श्रुतिवाक्यार्थमाह तेनेति ।
द्रष्टुरिति व्यधिकरणविशेषणं दृष्टेर्ज्ञानस्य धर्मभूतस्य ।
आत्मनो नित्यत्व मविनाशित्वादात्मन इत्युक्तम् ।
द्रष्टुरिति धर्मिनिर्देशाच्चात्मस्वरूपनिरूपकधर्मत्वं ज्ञानस्य सिद्धम् ।
तथा च फलितं हेतुमाह आत्मस्वभावभूताया इति ।
नित्यात्मस्वभावत्वं हेतुः ।
एतेन व्यधिकरणासिद्धिशङ्का निरस्ता ।
विषयविशेष संबन्धप्रकारः-इन्द्रियादिद्वारकप्रसृतिभेदाधीनचैतन्यार्थसंबन्धविशेषलक्षणः, तेन प्राप्तो दृष्ट्यादिव्यपदेशो ययेति समासः ।
दृष्टिश्चाक्षुषमध्यक्षम् ।
घ्रातिर्घ्राणजम् ।
रसयतिः-रासनम् ।
वक्तिः-शाब्दं ज्ञानम् ।
श्रुतिः-श्रावणमध्यक्षम् ।
मतिरनुमानम् ।
स्पृष्टिः-स्पार्शनमध्यक्षम् ।
विज्ञातिरुपासनम्, योगजः साक्षात्कारो वा ।
स्वात्मावभासिन्याः-स्वप्रकाशायाः ।
ज्ञानस्यात्मस्वभावत्वे नित्यत्वे चान्या अपि श्रुतीरुदाहरति स यथेति ।
अनन्तर इति बाह्यः, अबाह्य इति आन्तरश्च प्रदेशः सामस्त्येन विवक्षितः ।
कात्स्नर्यं चात्मनः स्वरूपतो धर्मतश्च ।
तथाच ज्ञानस्वरूपत्वं ज्ञानस्वभावत्वं चात्मनः सदा लभ्यते ।
उक्तेऽर्थे श्रुत्यन्तरं स्वेन भासा स्वेन ज्योतिषेति ।
स्वरूपतो धर्मतश्च प्रकाशरूपत्वमत्रोच्यते ।
आत्मज्योतिरित्यपि निरुक्तार्थमेव ।
सूर्यादिज्योतिर्हिज्योतिष्मज्ज्योतीरूपं च, तथाऽऽत्मापि ।
सूर्यादिज्योतिषः प्रकाश इव, आत्मनो ज्योतीरूपं ज्ञानं स्वाभाविकमिति चात्र विवक्षितम् ।
मुक्तौ ज्ञानानुवृत्तौ श्रुतिमुपक्षिपति तथाऽपवर्गेति ।
स्वाभाविकाकाराविर्भावलक्षणायां मुक्तौ ज्ञानानुवृत्त्या ज्ञानस्यात्मस्वभावानुबन्धित्वं प्रसिध्यतीति भावः ।
स्वापेऽपि ज्ञानानुवृत्तिपरां श्रुतिमाह अन्याश्चेति ।
सतोऽपि ज्ञानस्यार्थसन्निकर्षाभावात्स्वापे नार्थप्रकाश इति जानात्येवेत्यादेरर्थः ।
नित्यत्व आत्मस्वभावत्वे च ज्ञानस्य स्मृतीश्चोदाहरति निर्वाणेति ।
पुराणे-श्रीमति वैष्णवे ।
ज्ञानमय इति ।
मयट् प्राचुर्ये ।
एवकारोऽत्रापि संबध्यते ।
ज्ञानप्रचुर एवेत्यवधारणेन निरुक्तार्थलाभः ।
ज्योतिषामपीति महाभारते श्रीभगवद्गीतायाम् ।
ज्ञाननित्यत्वादौ स्फुटंश्रीविष्णुधर्मवचनमुपक्षिपति भगवानित्यादिना ।
आहेत्यध्याहार्यम् ।
उक्तार्थे सूत्रमपि प्रमाणमित्याह अत एव हीति ।
अतः-श्रुतित एव आत्मा ज्ञः-ज्ञातैवेति सूत्रार्थः ।
ज्ञ एवेत्यनेन नित्यत्वमात्मस्वभावत्वं च ज्ञानस्य सूत्रकृदभिमतम् ।
अत एव ज्ञाननित्यत्वे स्वापेऽपि प्रकाशः स्यादित्याशङ्क्य परिहृतं पुंस्त्वादिवदित्यनेन ।
नन्वेवं ज्ञानस्यात्मधर्मभूतस्य स्वाभाविकत्वे तस्य संशयनिश्चयादिभेदः स्मृत्यनुभवभेदश्च कथम्? तत्राह तदेवमिति ।
युगपत््झटिति, नैरन्तर्येणेति यावत् ।
ज्ञानवासना-अनुभवाधीनसंस्कारो ज्ञानसूक्ष्मांशः ।
चैतन्यार्थसंश्लेषविशेषः, अर्थसंश्लेषविशेषविशिष्टं चैतन्यमेव वा संशयनिश्चयादिव्यपदेशभागित्युक्तम् ।
तत्र प्रथमपक्षे शङ्कते न चैवमिति ।
संयोगस्य द्विष्ठत्वेन चित्यर्थसंयोगस्य ज्ञानत्वे विषयस्यापि ज्ञातृत्वप्रसङ्ग इत्यर्थः ।
चैतन्यस्य ज्ञातृत्वप्रसङ्गे कथञ्चिदिष्टापत्तिसम्भवाद्विषयस्य ज्ञातृत्वं प्रसञ्जितम् ।
यद्वा विषयस्य-विषयाश्रयस्य ।
यथाश्रुते आत्मनोऽपि तत्तज्ज्ञानाश्रयत्वं न स्यात् पक्षेऽस्मिन् ।
अतः स्वाश्रयाश्रयत्वसंबन्धेन ज्ञानवत्त्वमेव ज्ञातृत्वमत्र पक्षे वाच्यमिति विषये न ज्ञातृत्वप्रसङ्ग इति ।
परिहरति विषयेणेति ।
विषयेणेति हेतौ तृतीया ।
विषयशब्दो विषयव्यापारपरः ।
एवमग्रे चातन्येनेत्यत्रापि ।
अयं भावः-अर्थग्रहणार्थं व्याप्रियमाणं हि चैतन्यमेव ।
तथाच विषयचैतन्यसंयोगस्य तत्तदर्थज्ञानत्वेऽपि तस्य स्वानुकूलव्यापृतिमच्चैतन्याश्रयत्वसंबन्धेनात्मन्येव सत्त्वात्तस्यैव ज्ञातृत्वं नार्थादेरित्युपलम्भबलाद्व्यवस्थाप्यम्, यथा आलोकार्थसंयोगस्यैव प्रकाशत्वेऽपि प्रकाशकत्वंस्वधर्मभूतालोकप्रसरणवशात्सूर्यादेरेव नार्थस्य तद्वदिति ।
यद्वा विषयानुयोगिकसंयोगाभावादिति विषयेणेत्यादेरर्थः ।
तस्य संयोगः-विषयप्रतियोगिकसंयोगः ।
एवं प्रथमं पक्षमुपपाद्य तत्तदर्थसंबद्धं चैतन्यमेव तत्तदर्थज्ञानमिति द्वितीयं पक्षं शङ्कासमाधानमुखेन व्यवस्थापयति अथेति ।
प्रकाशः-प्रकाशकः ।
सूर्यादितन्त्रत्वम्-सूर्याद्यधीनस्वरूपस्थितिप्रवृत्तिकत्वं तदपृथक्सिद्धविशेषणत्वं च ।
तत्तदर्थसंबद्धालोकाश्रयस्यैव सूर्यादेः प्रकाशकत्वमिव तत्तदर्थसंबद्धचैतन्यवत आत्मन एव ज्ञातृत्वमित्यर्थः ।
अयमेव मुख्यः पक्षः ।
ज्ञातृत्वस्य साक्षादात्मनि सङ्गतेरिति भावः ।
अनन्यसाधन इत्युक्तमनन्याधीनसिद्धित्वं चैतन्यस्वभावत्वं चात्मनो निगमयति तत्सिद्धमिति ।
चैतन्यस्वभाव एव-ज्ञातृत्वस्वभाव एव ।
अनेन ज्ञानस्यागन्तुकत्वं निरस्तम् ।
आत्मनं विदन्नेवास्ते-नित्यानन्याधीनस्वप्रकाशवानेवास्ते ।
अनेनात्मनः प्रकाशस्यागन्तुकत्वं ज्ञानप्रयुक्तत्वं च व्यावर्तितम् ।
निमित्तभेदानुसारेण- इन्द्रियलिङ्गादिज्ञानार्थसन्निकर्षोपाध्यन्वयव्यतिरेकानुविधानतः ।
शिष्टं स्पष्टम् ।
स्वयंप्रकाशस्यात्मनः शाब्दादिप्रमाणधीगोचरत्वमपि साधयति तदेवमित्यादिना ।
अस्फुटप्रकाशे मीनो निदर्शनम्; अविवेकग्रहणे च क्षीरम् ।
तदुपपादनन्यायानुगताः-आत्मानात्मविवेकोपपादकावयवपञ्चकात्मकन्यायप्रयोज्याः,अनुमानभेदाः-अनुमानविशेषाः ।
वचनानि-प्रमाणवाक्यानि शास्त्रानुगतानि ।
तैरपि इति ।
अनुमानागमानां परोक्षैकहेतुत्वेन प्रस्फुटप्रकाशासम्पादकत्वात्तावन्मात्रेऽपरितोषः प्रस्फुटात्मप्रकाशाकाङ्क्षिणां युक्त एव हि ।
मनआदिगतज्ञानावारणदोषक्षपणं योगाङ्गानुष्ठानेन सम्पद्यत इति यमनियमेति द्योतितम् ।
निरोधाभ्यासः-योगाभ्यासः ।
योगाश्चित्तवृत्तिनिरोध इति हि योगसूत्रम् ।
योगाभ्यासपरिपाकतो रजस्तमःकालुष्यनिवृत्त्योद्रिक्तविशुद्धसत्त्वे मनसि आत्मविवेकसाक्षात्कारयोग्यतेति निरोधाभ्यासेत्यादेरर्थः ।
वैलक्षण्यस्यात्मगतस्यापरोक्षज्ञानाय, प्रयतन्ते-आसिद्धिनिष्पत्तेर्निन्तरमात्मतत्त्वचिन्तनप्रवृत्तिमाचरन्ति ।
भावनेति ।
आत्मनो निरन्तरानुचिन्तनलक्षणे योगे भावनाप्रकर्षपर्यन्ते निष्पन्ने सति, चापरोक्षज्ञानम्-योगजधर्मानुगृहीतविशुद्धमनोजन्यात्मतत्त्वसाक्षात्कारः,उदयते-जायत इत्यर्थः ।(इत्यात्मप्रमाणनिरूपणप्रकरणम्) अथास्य कालावच्छेदपरीक्षा ।
तत्र सुगतमतानुसारिणः सन्मात्रानुबन्धिनीं क्षणिकतामाचक्षाणा नित्यात्मदर्शनमेव सर्वानर्थमूलं मन्यमानाः क्षणभङ्गिनमेनं सङ्गिरन्ते; यत् सत् तत् क्षणिकम्, संश्चायमात्मेति ।
कथं पुनः सन्मात्रानुबन्धिनी क्षणिकता? ।
अक्षणिकस्य सत्तानुपपत्तेः ।
यन्न कस्मैचित्कार्याय, अन्ततः सार्वज्ञ्यविज्ञानगोतरत्वायापि न प्रभवति, न तस्य सद्भावः संभाव्यत इत्यर्थक्रियाकारितैव सत्ता भावानाम् ।
न च सा स्वव्यापकभूतक्रमयौगपद्यविरहिण्यक्षणिके संभविनीत्यन्यत्र निरवकाशतया क्षणिकतयैवानुबध्यते ।
कथं पुनः क्रमयौगपद्ययोरर्थक्रियाव्यापकत्वम्? कथं वा तयोरक्षणिकान्निवृत्तिः? ।
श्रूयताम् ।
उक्तमर्थं सङ्गृह्णाति एवमात्मेति ।
स्वप्रकाशस्यात्मनो धर्मभूतं ज्ञानं विषयादिग्रहणे देहादिवैलक्षण्यग्रहणे चात्मन उपयुज्यत इत्येतावता सिद्धम् ।
एवमात्मनि प्रमाणपरीक्षा वृत्ता ।।43।।अथ नित्यत्वं व्यवस्थावयितुं विचारमुपक्रमते अथास्येति ।
अस्य-आत्मनः, कालावच्छेदपरीक्षा-कालसंबन्धविषयविचारः ।
प्रवर्तते इति शेषः ।
तत्रेति ।
आत्मनः कालसंबन्धे विचारविषये क्षणमात्रकालसंबन्धिनं विनाशिनमात्मानमामनन्ति केचन वादिनः (सौगताः) इति यावत् ।
कालसंबन्धः क्षणिकत्वलक्षण एवेत्यमीषामाशयः ।
सत्त्वात् क्षणिकत्वमात्मन इत्युक्तम् ।
सत्त्वस्य क्षणिकत्वव्याप्यत्वे सिद्धे शोभनमिदम् ।
तदेव कुत इत्यतः सत्त्वं क्षणिकत्वव्याप्त्यर्हं परिष्करोति यन्नेति ।
अर्थक्रियाकर्तृत्वमेव सत्त्वम्, तच्च क्षणिकत्वव्याप्यमित्याशयः ।
सार्वज्ञ्यविज्ञानम्-बुद्धज्ञानम् ।
क्षणिकत्वव्याप्तिमेवोपपादयति न च सेति ।
अर्थक्रियाकर्तृत्वव्यापकं क्रमाक्रमान्यतरत् ।
तच्चाक्षणिके स्थिरेऽघटमानं कर्तृत्वं क्षणिके व्यवश्तापयतीति सत्त्व क्षणिकत्वव्याप्यमेवेत्यापततीति भावः ।
क्रमयौगपद्यान्यतरस्य कर्तृत्वव्यापकत्वम्, तस्य स्थिरेऽसम्भवं चोपपादयितुं प्रश्नः कथं पुनरिति ।
उत्तरं श्रूयतामित्यादिना ।भावाभाववदनयोरन्यतरनिवृत्तावन्यतरव्यवस्थानादर्थक्रियाजनने भावानां न तृतीयप्रकारसंभव इति क्रमाक्रमप्रतिबद्धैवार्थक्रिया ।
न चाक्ष णिके क्रमयौगपद्ये संभवतः ।
(एतावानेवात्मसिद्धिग्रन्थाभाग उपलभ्यते)अर्थेति । किञ्चिदर्थक्रियाकरणं क्रमेण, किञ्चिच्चाक्रमेण-युगपत् । यौगपद्यासंभवे क्रमः, तदभावे च यौगपद्यं नियतमिति क्रमयौगपद्यान्यतरव्याप्यैवार्थक्रिया भवतीत्यर्थः ।।45।भवत्वेवम् । अथापि स्थिरे कथं न सा? तत्राह न चेति । ग्रन्थभागोऽग्रिमः क्वापि नेतः समुपलभ्यते । व्याख्यानं विहितं यावदुपलब्धस्य सारतः ।। इति श्रीनागपुरी (तिरुनाङ्गूर) दिव्यदेशाभिजनेन प्रतिवादिभयङ्कराचार्यांन्वयभूषणविद्वद्वर्य श्रीकृष्णमाचार्याख्याचार्यवर्यपुत्ररत्नेन चतुस्तन्त्रीपारावारपारीणदिगन्तविश्रान्तकीर्ति-दयामूर्ति-श्रीमद्भाष्यकारदिव्यवंशावतीर्ण-श्रीभूतपुरीनिवासरसिक-विद्वत्सार्वभौम-हारीत-श्रीमदासूरिरामानुजाचार्यदेशिकेन्द्रचरणकमलवरिवस्यासमधिगतपदवाक्यप्रमाणतन्त्रहृदयेन श्रीवैष्णवदासेन प्र.भ.अण्णङ्गराचार्येण न्यायव्याकरणशिरोमणिनोभयवेदान्तविदुषा प्रणीतमात्मसिद्धेर्व्याख्यानं सिद्धाञ्जनं जयतात् चिरम् ।