01 आत्मसिद्धिः

आत्मसिद्धिः।

विश्वास-प्रस्तुतिः

आत्मसिद्धिः ।
अण्णङ्गराचार्यकृत-सिद्धाञ्जननामकव्याख्योपेता ।

मूलम्

आत्मसिद्धिः ।
अण्णङ्गराचार्यकृत-सिद्धाञ्जननामकव्याख्योपेता ।

विश्वास-प्रस्तुतिः

प्रकृतिपुरुषकालव्यक्तमुक्ता यदिच्छा
मनुविदधति नित्यं नित्यसिद्धैरनेकैः
स्वपरिचरणभोगैः श्रीमति प्रीयमाणे
भवतु मम परस्मिन्पुरुषे भक्तिभूया ॥ १ ॥

मूलम्

प्रकृतिपुरुषकालव्यक्तमुक्ता यदिच्छा
मनुविदधति नित्यं नित्यसिद्धैरनेकैः
स्वपरिचरणभोगैः श्रीमति प्रीयमाणे
भवतु मम परस्मिन्पुरुषे भक्तिभूया ॥ १ ॥

जगज्जन्मस्थितिलयै रममाणं परात्परं ।

स्वामिन्सर्वजगतां श्रियःपतिमुपास्महे ॥ १ ॥

ज्ञानवैराग्यभक्तीनां शेवधिं करुणार्णवं ।

यामुनार्थं मुनिवरं परमाचार्यमाश्रये ॥ २ ॥

श्रीभाष्यादिप्रबन्धेन तत्त्वं सन्दर्शयन्परं ।

रामानुजार्यो भगवान्दयता मयि संश्रिये ॥ ३ ॥

देशिकेन्द्रदयासारमवलम्ब्य विधीयते ।

सिद्धित्रयस्य व्याख्यानं रीत्या सरलया मया ॥ ४ ॥

क्क यामुनार्यश्रीसूक्तिसन्दर्भः क्क च मे मतिः ।

अत्यल्पविषयाथापि चापलं त्वपराध्यति ॥ ५ ॥

विशिष्टद्वैतसिद्धान्तनिर्धारणधुरन्धराः ।

संश्रितेषु दयासारा देशिकाः शरणं मम ॥ ६ ॥

वात्स्यं श्रीवादिभीकृद्गुरुकुलतिलकं कृष्णमार्यं गुणाढ्यं

तातं मन्नप्रदं मे द्रविडनिगमसूक्त्यर्थसन्दर्शकं तं ।

नत्वा रामानुजार्यं गुरुवरमपि मे भाष्यकृद्वंशदीपं

हारीतं चारुकीर्तिं बुधकुलतिलकं यामुनोक्तीर्विवृण्वे ॥ ७ ॥

श्रीमन्नागपुराभिख्याभिजनो वादिभीकरः ।

अण्णङ्गरार्यदासोऽहं विवृणोमि गुरोर्गिरः ॥ ८ ॥

अथ खलु भगवान्श्रीमद्यामुनमिनिः श्रीवैष्णवसंप्रदायप्रवर्तकाचार्येषु प्रथमपरिगाणितस्य योगरहस्यन्यायतत्त्वशास्त्रप्रणेतुर्भगवतः श्रीमन्नाथमुनेः पौत्र रिश्वरमुनितनुजन्मा विशिष्टाद्वैतसिद्धान्तप्रवर्तनधुरन्धरः प्रतिवादिवारणप्रकटाटोपविपाटनक्षमः परमाचार्य आत्मसिद्धिनामकं वेदान्तप्रकरणमुपक्रममाणोऽविघ्नपरिसमाप्तिप्रचयगमनादिफलं मङ्गलमाशीरूपं वस्तुनिर्देशं च कुर्वाणः शिष्यशिक्षायै निबध्नाति “प्रकृतीऽ ति । प्रकृतिर्माया, तत्कार्याणि समष्टिव्यष्टिरूपाणि व्यक्तानि, प्रकृतिप्राकृतपरिणामहेतुः कालः, तद्बद्धो जीवराशिश्रेति लीलाविभूतिस्थाः सर्वे सङ्गृहीताः शब्दचतुष्टयेन । मुक्ताः भगवदुपासनाप्रभावाद्भवबन्धनात्कर्मपाशप्रग्रथिताद्विनिर्मुक्ताः । एते प्रकृत्यादयो यस्यैव परमपुरुषस्येच्छां सङ्कल्परूपां सदा समनुसरन्ति स्वरूपस्थितिप्रवृत्तिषु, तस्मिन्पूरुष इत्यन्वयः । इमानि च

सर्जनावनसंहरणसंसारविमोचनानि सङ्कल्पैकनिष्पाद्यानि भगवतो लीलारसाय कल्पन्ते । एवं लीलाविभूतियोग उक्तः । अथ नित्यविभूतियोगमाह नित्यम् इति । नित्यमिति पूर्वोत्तरयोरन्वितं मध्यमणिन्यायेन । सदोद्भूतापहतपाप्मत्वादिस्वरूपैः सर्वज्ञैर्भगवदनुभवजनितप्रीतिकारिताशेषशेषवृत्त्यन्वयत एवाधिगतभोगैरनन्तैरनन्तगरुडविष्वक्सेनादिभिर्नित्यसूरिभिः श्रीमति महावैकुण्ठे दिव्येऽक्षरे धाम्नि सदा निरतिशयप्रीतिमनुभवति नारीणामुत्तमायाः श्रियो वल्लभे पुरुषोत्तमे परब्रह्मणि मम भक्तिप्रचयो भूयादित्याशंसा । उभयविभूतिनाथे रमानाथे भक्तिर्हि सर्वश्रेयस्करी । तत्तद्भक्त्याशंसनमुचिततरं । भक्तिरेव भगवति प्रार्थ्या चेतनैः । स हि स्वयमेव श्रेयो विदधाति । तत्तस्मिन्श्वश्रेयःप्रार्थना नोचिततरा भक्तानामिति चानेन ज्ञाप्यते । अचेतनभेदश्चेतनभेदश्च परमार्थतः, श्रीमन्नारायणस्यैव पारम्यं, सर्वचेतनाचेतनानां तद्विभूतित्वं, निरतिशयप्रेमगर्भतदुपासनस्यैवापवर्गहेतुत्वमविच्छिन्नपूर्णभगवदनुभवगर्भसेवाया एव परमपुमर्थत्वं चेति स्वाभिमताः प्रकरणार्था अत्र संसूचिताः ॥ १ ॥

विश्वास-प्रस्तुतिः

विरुद्धमतयोऽनेकाः सन्त्यात्मपरमात्मनोः ।
अतस्तत्परिशुद्ध्यर्थमात्मसिद्धिर्विधीयते ॥ २ ॥

मूलम्

विरुद्धमतयोऽनेकाः सन्त्यात्मपरमात्मनोः ।
अतस्तत्परिशुद्ध्यर्थमात्मसिद्धिर्विधीयते ॥ २ ॥

संमतं हि सर्वसमयेषु आत्मज्ञानं निःश्रेयसहेतुरिति । श्रूयते चऽपृथगात्मानं प्रेरितारं च मत्वा जुष्टुस्ततस्तेनामृतत्वमेतिऽऽआत्मानं चेद्विजानीयात्ऽऽतरतिशोक मात्मवित्ऽऽब्रह्मविदाप्नोति परऽ मित्यादिः परावरात्मतत्त्वज्ञानस्यापवर्गसाधनत्वं प्रतिपादयन्वेदान्तवाक्यगणः ।

तत्रास्मिन्नात्मनि परस्मिंश्चानेकविधा विप्रतिपत्तयः तीर्थकराणां । तद्यथा आत्मविषये तावत्देहमेव केचिदात्मानमाचक्षते । इन्द्रियाण्यन्ये । मन इत्यन्ये । प्राणमपरे । अध्यस्तज्ञातृ भावमनहङ्कारं बोधमात्रमितरे । देहेन्द्रियमनःप्राणबोधविलक्षणमाकाशादिवदचित्खभावमागन्तुकबोधसुखदुःखाद्यसाधारणगुणाधारमहङ्कारगोचरमपरे । अपरे तु बोधैकस्वभावमेव, स्वभावधवलमिव स्फुटिकमणिमुपधानविशेषापादितारुणिमगुणादिनिर्भासमन्तःकरणोपधानापादितरागद्वेषसुखदुःखाद्यशिवगुणनिर्भासमनुदितावस्तमितस्वरूपप्रकाशं स्वयञ्ज्योतिषमिममभिदधति । अन्ये तु ज्ञानानन्दस्वभावं । आश्रयानुकूल्यप्रतिलब्धानन्दसुखादिव्यपदेशबोधविशेष एवास्य स्वाभाविक इत्यन्ये । तथा अनुमानसमधिगम्यः ; आगमैकवेद्यः ; मानसप्रत्यक्षवेद्यः ; ग्राहकतयैव सकलविषयवित्तिषु प्रत्यक्षः ; ज्ञानस्वभावतयानुदितानस्तमितस्वरूपप्रकाशः स्वयञ्ज्योतिः ; रिदृशोऽप्युगमानुमानयोगजप्रत्यक्षैः स्वेतरसकलविलक्षणस्वाभाव्येन विशदविशदतरविशदतमतयान्ततो यथावदपरोक्ष्यत इति ।

तथा परममहान्; अणुपरिमाणः ; शरीरपरिमाणः ; स्वतः परिमाणरहितोऽपि व्याप्यवस्तुपरिमितिकृतपरिच्छेद इति । व्याप्तिरपिचैतन्यमात्रेण ; स्वरूपेणेति । तथा क्षणिकः ; यावच्छरीरोष्मस्तायी ; आप्रकृतप्रलयावस्थीयी ; आमोक्षस्थायी ; कूटस्थो नित्य इति । सर्वशरीरेष्वेकः ; प्रतिक्षेत्रं नानाभूत इति च तथा तथा प्रतिपद्यन्ते ।

तथा परमात्मविषयेऽपि केचित्समस्तवस्तुसाक्षात्कारिणं सर्वशक्तिमीश्वरमेव नाभ्युपगच्छन्ति । अभ्युपगच्छन्तोऽप्येके प्रत्यस्तमितमितिमानमातृमेयेश्वरेशितव्यादिभेदविकल्पकूटस्थविज्ञा नैकरसमनाद्यविद्योपदर्शितवियदादिभेदावच्छिन्नज्ञानैश्वर्यादिमहिमविक

ल्पतया काल्पनिकमाचक्षते । अपरे तु यथोक्तस्वरूपमेवाविद्योपधानेन तद्गुणसारतया प्रकल्पितब्रह्मादिस्थावरपर्यन्तविविधजीवभेदं स्वाधीनविचित्रवर्तस्वभावमायोपहिततया समासादितसार्वज्ञ्यादिसंपदमुपहितमिममभिदधति । तथान्ये प्रकृष्टसत्तवोपादाननिमित्तस्वतन्त्रप्रधानपरिणामविशेषमात्रनि यमनिर्वाहितर्वैश्वर्य मर्यादमाद्रियन्ते । अनुपहितमपि परिणामिनमपरे प्रतिपेदिरे । अपरिणामिनमपि स्वमायांशभूतविचित्रान्तःकरणदर्पणतलप्रतिबिम्बिततया प्रतिपन्नविश्वतैजसप्राज्ञभावं तमेकमेव चेतनमितरे रोचयन्ते । अन्ये तु

स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदं स्वाभाविकनिरवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःप्रभृतिसकलकल्याणगुणगणमहार्णवं पुरुषविशेषमीश्वरमातिष्ठन्ते ।

तथा तद्विशेषेऽपि हरिहरविरिञ्चभास्करात्मना अनभिमत तत्तन्मूर्तिपरित्यागेन च चतुस्रिद्व्येकमूर्तितया विवदन्ते । मूर्तिविशेषविषयाश्च नित्यत्वानित्यत्वभोतकत्वाभौतिकत्वस्वार्थपरार्थत्वादिवितर्काः प्रादुर्भवन्ति ; परिजनस्थानादिगोचराश्च । तथा प्रमाणतोऽपि आनुश्राविक एवेत्येके । आनुमानिकश्चेत्यन्ये । विशिष्टप्रत्यक्षसमधिगम्यश्चेत्यपरे ।

तथा आत्मपरमात्मनोः संबन्धेऽपि अनाद्यविद्योपादानभेदास्पदोऽयमीश्वरेशितव्यतादिरूपसंबन्धः । परमार्थतत्स्वेकं तत्त्वमिति केचित् । व्यतिरेकाभावेऽप्यतिरिक्तो जीव इत्यन्ये । स्वतस्त्वैक्यम्, उपाधितो भेद इति विशिष्टस्वरूपभावेन भिन्नाभिन्नत्वमितरे । नानात्वे सत्येवाभेदो नामान्वयः अंशाशिभावलक्षणः, समवायः परतन्त्रतालक्षणः, शेषशेषित्वरूपः, स्वस्वामिभावः, भृत्यस्वामिलक्षण इति च नानाविद्या वादाः ।

तथा परमपुरुषार्थभूते ब्रह्मप्राप्तिलक्षणमोक्षेऽपि स्वरूपोच्छित्तिलक्षणः, अविद्यास्तमयलक्षणः, निशेषवैशेषिकात्मगुणोच्छेदलक्षणः, कैवल्यरूपः, तद्भावसाधर्म्यलक्षणः, तद्गुणसङ्कान्तिलक्षणः, चत्थायापत्तिलक्षणः, सांसिद्धिकानन्दादिस्वरूपाविर्भावलक्षणः, तद्गुणानुभवजनितनिरतिशयसुखसमुन्मेषोपनीतात्यन्तिकतत्किङ्करत्वलक्षण इति तथा तथा विवदन्ते ।

तत्साधनतोऽपि कर्मयोगलभ्यः, ज्ञानयोगलभ्यः, अन्यतरानुगृहीतान्यतरलभ्यः, उभयलभ्यः, उभयपरिकर्मितस्वान्तस्यैकान्तिकात्यन्तिक भक्तियोगलभ्य इति ।

तदेवमनवसितविशेषविमर्शकजनविमतिदर्शनात्, तत्त्तत्पक्षसाधनबलाबलानगमाच्च ततस्ततः सन्दिहानाः प्रेक्षावन्तो न तावत्परमपुरुषार्थाय घटेरन्, यावदयमात्मा परमात्मा च स्वरूपतः प्रमाणतः संबन्धतः प्राप्तितः तत्साधनतश्च न निर्णियेतेति तत्प्रतिबोधायेदमारभ्यते ।

यद्यपि भगवता बादरायणेनेदमर्थान्येव सूत्राणि प्रणीतानि । विवृतानि च तानि परि

मितगम्भीरभाषिणा द्रमिडभाष्यकृता । विस्तृतानि च तानि गम्भीरन्यायसा(ग)रभाषिणा श्रीवत्साङ्कमिश्रेणापि । तथापि आचार्यटङ्कभर्तृप्रपञ्चभर्तृमित्रभर्तृहरिब्रह्मदक्तशङ्करश्रीवत्साङ्कभास्करादिविरचितसितासितविविधनिबन्धन श्रद्धाविप्रलब्धबुद्धयो न यथावत्, अन्यथा च प्रतिपद्यन्त इति युक्तः प्रकरणप्रक्रमः ॥ (इत्युपोद्धातप्रकरणम्)

प्रकरणारम्भप्रयोजनसभिधत्तेऽविरुद्धेऽति । आत्मपरमात्मविषये हि नाना विप्रतिपत्तयः सन्ति । मतीनां विरुद्धत्वं विरुद्धारकारावगाहित्वं । यतो मुमुक्षूणामात्मपरमात्मतत्त्वं जिज्ञासमानानां तद्विषये वादिविवादिनिमित्ता विप्रतिपत्तयः सन्ति, अतस्तत्परिशुद्ध्यर्थं आत्मपरमात्मतत्त्वमतेः तत्तद्वादप्रयुक्तासद्विरुद्धाकारप्रकारकत्वरूपदोषनिरसनेन यथावस्थिताकारावगाहित्वलक्षणशुद्धियोगसंपादनार्थमात्मसिद्धिनामकं प्रकरणं विरच्चते सत्प्रमाणतर्कैरात्मपरात्मतत्त्वनिर्णयफलमिर्यर्थः । परावरात्मतत्त्वं प्रधानविषयः । परपक्षप्रतिक्षेपो नान्तरीयकः । आत्मतत्त्वनिर्णयश्च साक्षात्प्रयोजनमेतत्प्रकरणस्येति सूचितं । परम्परया निःश्रेयसाभिष्वङ्गश्चास्याभिप्रेतः । विषयप्रयोजनोक्तेः संबन्धाधिकारिणौ चाक्षेपगम्यौ । एवमनुबन्धिचतुष्टयसंपत्तिरनुसंहिता । परावरात्मतत्त्वप्रतिपादकश्चुत्यन्तानुग्राहकन्यायप्रपञ्चनं प्रकरणस्यास्य मुख्यं कृत्यं । ततश्चात्मपरमात्ममननोपयोगीदं संपद्यत इति बोध्यं ॥ २ ॥

अनर्थकायात्मतत्त्व न कोऽपि प्रेक्षापूर्वकारी प्रवर्तेतेति स्वग्रन्थफलस्यास्य निःश्रेयसाभिष्वङ्गमाविष्करोतिऽसंमतम्ऽ इति । नन्वस्तु नामाऽमज्ञानस्य मोक्षसाधनत्वम्, अतिरिक्तपरमात्मज्ञानस्य तत्कुल इत्यत्राऽहऽश्रूयतेऽ इति । बाह्यानां विमत्यामपि वैदिकवर्याणामात्मन इव परमात्मनोऽपि तत्त्वज्ञानस्य मोक्षसाधनत्वे न विमतिरिति भावः । परात्मापरंब्रह्म पुरुषोत्तमः श्रीमन्नारायणः । अवरात्माजीवात्मा । शिष्टं स्पष्टं ।

ननु सन्धिग्धे हि न्यायप्रवृत्तिः । वेदान्तैरेव परावरात्मतत्त्वं सुनिश्चितमिति कथं तत्र शङ्का, कथन्तरां च

न्यायप्रवृत्तिः ? उच्यते । श्रुतिभिरर्थावगमेऽपि प्रसिद्धमतिविभवानां तीर्थकराणां विविधवादश्रवणतः श्रुतितात्पर्य एव सन्देहप्रवृत्तेः श्रुत्यर्थयाथात्म्येऽपि शङ्का संभवदुदया । इममेवाऽशयं हृदि निधायात्मतत्त्वे सन्देहसन्दोहिका विप्रतिपत्तीरुपक्षपतिऽतत्रेऽ ति । तीर्थं दर्शनं तीर्थसाम्यात् । दर्शनं हि आन्तराज्ञानमलनिर्हरणपूर्वकं तत्त्वज्ञानरूपां शुद्धिमात्मनामुपजनयति । तत्कुर्वन्तीति तीर्थकाराः दार्शनिकाः । तद्यथा उक्तं विप्रतिपच्चिबाहुविध्यं यथा येन प्रकारेण, तद्वर्ण्यत इति यावत् ।ऽदेहमेवेऽति । देहाद्यात्मत्ववादिनश्चार्वाक

भेदाः ।ऽमन इत्यन्येऽ इति । मन इत्यप्रसिद्धं किमपि केचिदात्मेत्याचक्षत इत्यर्थः ।ऽआत्मानमाचक्षतऽ इत्युत्तरत्राप्यन्वेति । सौगतमतं शाङ्करमतं चाह तन्त्रेणऽअध्यस्तेऽ ति । बोधमात्रञ्चैतन्यमात्रं । अनहङ्कारं अहंबुद्धिशब्दाविषयं । आविद्यमहङ्कार ग्रन्थिस्थं ज्ञातृत्वमात्मन्यारोप्यत इत्येकः पक्षः । अनादिवासनया ज्ञानस्यैव ज्ञातृभावाद्यारोप इति चापरः । तार्किकमतमाहऽदेहेन्द्रियेऽ ति । बोधः ज्ञानं । देहेन्द्रियमनःप्राणधीभ्योऽन्यमचैतन्यस्वरूपमागन्तुकज्ञानसुखादिविशेषगुणवन्तमहंबुद्धिशब्दगोचरमात्मानं काणादा गौतमाश्चाचक्षत इत्यर्थः । अचित्स्वभावमित्यनेनाकाशादेरिवात्मस्वरूपस्य जडत्वं विविक्षितं । अहङ्कारः, अहमिति बुद्धिः शब्दश्च । साङ्ख्यमतमाहऽअपरेऽ इति । बोधैकस्वभावमेवबोधश्चैतन्यं, तदेव स्वो भावः स्वरूपं यस्य तम्, ज्ञानस्वरूपमेव । उपधानमुपोधः सन्निधानं । इमं आत्मानं । यथा स्वभावतो धवल एव स्फटिकादिर्जपाकुसुमाद्युपाधिस्निधानेनारोपिततत्तद्रक्तादिरूपेण प्रतिभासते, एवं नित्यस्वप्रकाशः स्वयञ्ज्योतिरात्मान्तःकरणसन्निधानत आरोपितसुखदुःखादितद्गुणवत्तया भासते केवलं । वस्तुतो नित्यनिर्दुष्ट एवायमिति भावः ।ऽअन्ये त्विऽ ति । मीमांसकैकदेशिनः सिद्धान्त्येकदेशिनो वा । ज्ञानानन्दौ स्वाभाविकधर्मावात्मन इत्यमीषामाशयः । सिद्धान्तिनां मतमाहऽआश्रयेऽति । आनन्दोऽपि नातिरिक्तः, किन्तु आत्मनः अनुकूलत्वेन प्राप्त आनन्दसुखादिनिर्देशो येन, एवंभूतो ज्ञानविशेष एव सः । स एव चात्मनः स्वभावः । संसारित्वदुः

खित्वादि तु कर्मोपाधिकमिति भावः । यावदुक्तोपपन्नश्चात्मेति हार्दं । तत्तद्वाद्युक्तेषु यावदुपपन्नम्, तावदाकारवत्त्वं चात्मनः संमतमेव हि सिद्धान्ते ।

आत्मस्वरूपे विप्रतिपत्तीरूक्त्वा तद्ग्राहकप्रमाणे ता उपक्षिपतिऽतथा अनुमानेऽति । सौत्रान्तिकीय आनुमानिकत्वपक्षोऽयं । अनुमानं च अहंविज्ञानं सालम्बनं विज्ञानत्वान्नीलपीतादिविज्ञानवदित्याद्युदाहार्यं । विलक्षण आतमा अनुमानगचर इति नैयायिकपक्षो वात्रकीर्तितः स्यात् । अग्निमविवरणानुसारात् ।ऽआगमैकवेद्यऽ इति । श्रोत्रियाणां पक्षोऽयं । अहंबुद्धेर्देहालम्बनतयैवोपपत्तेः सङ्गातपरार्थत्वाद्युनुमानस्याप्रयोजकत्वादिना च शास्त्रैकगम्य आत्मैत्यमीषामाशयः ।ऽमानसेऽति । तार्किकाणां भाट्टानां च पक्षोऽयं ।ऽग्राहकतैवेऽति । प्राभाकरपक्षोऽयं । ग्राहकतयाज्ञातृतया । ज्ञानस्य त्रितयावभासकत्वाद्धटप्रत्यक्ष एव घट इव तञ्ज्ञानं ज्ञाता चात्मा प्रकाशेते इत्यमी । साङ्क्यादिमतमाहऽज्ञानस्वभावतयेऽ ति । स्वो भावः स्वभावः स्वरूपं । नित्यस्याऽत्मनो ज्ञानस्वरूपतया

इतरानधीननित्यस्वप्रकाशोऽयमित्येते सिद्धान्तिनामाशयमाहर्ऽइदृशोऽपीऽति । विशदतमतयेत्यनन्तरंऽगृहीतऽ इति शेषः । प्रत्यक्त्वादिनैवास्य स्वप्रकाशत्वाद्देहादिव्यावर्तकनित्यत्वाणुत्वज्ञातृत्वादिप्रकारेणाऽगमेन विशदतया, मननतो विशदतरतया, योगजप्रत्यक्षतो विशदतमतया च गृहीतोऽयं मुक्तौ स्वाभाविकासङ्कुचितापरोक्षज्ञानप्रभया कास्त्नर्येनानुभूयत इत्यर्थः ।

आत्मनः परिमाणेऽपि ता निर्दिशतिऽतथेऽति । नैयायिकपक्षमाहऽपरममहाऽ निति । तत्त्वं चापकर्षानाश्रयमहत्परिमाणं । बिभुत्वसहचरितं । तत्प्रतिभटं सिद्धान्तिनां पक्षमाहऽअणुपरिमाणऽ इति । माध्यमं परमाणं मन्यमानानामनैकान्त्यवादिनां मतमाहऽशरीरपरिमाणऽ इति । ससत्त्वैकान्त्यवादिनां साङ्ख्यानां मतमाहऽस्वतऽ इति । परिमाणराहित्यं विभुत्वादात्मनां । परिमाणवत्त्वे हि परिच्छिन्नत्वमविभुत्वं प्रसज्यत इत्येषां हार्दं । औपाधिकं चास्य परिमाणमित्याहऽव्याप्येऽति । व्याप्यान्तःकरणपरिमाणौपाधिकपरिमाणोऽयं बन्धे इत्यर्थः । व्याप्तावपि तामाहऽचैतन्येऽति । स्वधर्मभूतज्ञानद्वारिकैव व्याप्तिरिति सिद्धान्तिपक्षः । यथान्तःकरणाधीनं परिमाणम्, तथा ज्ञानाधीनं व्यापकत्वमिति सादृश्येनोपस्तितत्वात्सिद्धान्तपक्षस्य

प्रथमनिर्देशोऽत्र ।ऽस्वरूपेणेऽति । आत्मा स्वरूपतः सर्वगत इति नैयायिकादयः । कालसंबन्धेऽपि ता उपक्षिपतिऽतथेऽति । क्षणिकत्वं सौगतानामभिमतं । यावच्छरीरोष्मस्थायित्वं चार्वाकाणां । आप्राकृतप्रलस्थायित्वं ब्रह्मदेवादीनाम्, आमोक्षस्थायित्वामौडुलोम्युपज्ञानां । कूटस्थनित्यत्वं नैयायिकादीनां सिद्धान्तिनां च । कूटस्थत्वम्निर्विकारत्वं । नित्यत्वं सर्वकालसत्ता ।

सङ्ख्यायामपि तामाहऽसर्वेऽति । एकजीववादो मायावाद्येकदेशिनां । प्रतिशरीरमात्मभेदो नैयायिकादीनां सिद्धान्तिनां च । चकारोऽनुक्तविप्रतिपत्तिसमुच्चायकः ।ऽतथा तथेऽति । स्वस्वाभिमततत्तद्विरुद्धाकारेणात्मानं तेते वादिनो मन्यन्त इत्यर्थः । जीघात्मस्वरूपादौ विप्रतिपत्तीरुक्त्वा परमात्मस्वरूपादौ ता उपक्षिपतिऽतथा परमेऽति ।ऽनानैव विप्रतिपत्तयः तीर्थकराणाऽमिति शेषः ।ऽकेचिऽदिति । चार्वाका बौद्धा आर्हताः कर्मडाश्चेत्यर्थः । सश्वरवादिष्वपि नैकमत्यमित्याहऽअभ्युपगच्छन्तोऽपीऽति । एकेकेचिदद्वैतिनः । काल्पनिकं कल्पितेश्वरभावं । कल्पनाप्रकारमाहऽप्रत्यस्तमितेऽति । कूटस्थमविकारि नित्यं विज्ञानमात्रं सत्यं । यत्रेशेशितव्यादिभेदप्रपञ्चो मातृमेयतदवच्छिन्नमितित्वादिरपि नैवास्ति । एवंभूतेऽधि

ष्ठानेऽविद्ययैव नानाशक्तिमत्या वियदादिनानाचित्प्रतिभासो रज्ज्वामिव सर्पाद्यवभासः । आविद्यभूतसमष्टिव्यष्ट्यवच्छिन्नज्ञानैश्वर्यादिमहिमभेदप्रतिभासश्च । तत्समष्ठ्यवच्छिन्नज्ञानैश्वर्यादिमत्तया भासमानं चैतन्यमीश्वरः । व्यष्टिरूपदेवादिदेहाद्यवच्छिन्नज्ञानादिमत्तया नानात्वेन च भासमानं तदेव जीवजातमित्येषामाशयः । अविद्याया एव जीवेश्वरभावकल्पकोपाधित्वमेतन्मते । मायाविद्योपाधिभेदवादिनां मतमाहऽअपरे त्विऽति ।

निर्भेदचैतन्यमात्रमेवाविद्योपहितं नानाजीवभावेन मायोपहितं चेश्वरभावेन परिस्फुरति । तत्राविद्याकृतत्वाज्जीवभेदः कामक्रोधलोभाद्याविद्यगुणप्रधानोऽविद्यापरवशश्चर् । इश्वरस्तु स्ववशवर्तिविविधपरिणामशीलमायाशक्त्याधिगतसार्वज्ञ्यसर्वैश्वयार्दिमहिमेत्यमीषामाशयः । योगतन्त्रनिष्ठानामीश्वरसमादरणरीतिमाहऽतथान्येऽ इति । औपाधिकमेवेश्वरत्वमेतन्मतेऽपीति तथेत्यनेनाभिप्रेतं । स्वतन्त्रप्रकृतिपरिणामविशेषस्य यो विशेषो नित्योद्रिक्तसत्त्वकत्वरूपः प्रकृष्टसत्त्वप्रधानांशोपादानत्वप्रयुक्तः, तेन संपादिता सर्वैश्वर्यव्यवस्था यस्य तमीश्वरमाद्रियन्त इत्यर्थः । सदा शुदधसत्त्वात्मकान्तःकरणादिरीश्वरोपाधिः । तदुपहितचैतन्यमात्रवपुः पुरुषविशेषरिश्वरः । उपाधिविशेषाधीनमेव तस्यैश्वर्यमिति भावः । यादवप्रकाशपक्षमागऽअनुपहितमपीऽति । सिन्धुरिव फेनबुद्बुदतरङ्गभेदेन ब्रह्मैव जडजीवेश्वरूपेण भवतीति परिणामवादोऽयं । प्रतिबिम्बवादमाहऽअपरिणामिनमपीऽति ।ऽतमेकमेव चेतनऽमित्यनेन मायोपहितं चैतन्यमीश्वरः । अन्तःकरणेषु तस्यैव प्रतिबिम्बभेदा जीवा इत्याभासलक्षणत्वं जीवानां विज्ञायते । यद्वा मायायां प्रतिबिम्बितं चैतन्यमीश्वरः । तस्य मायाशभूतविचित्रान्तःकरणेषु प्रतिबिम्बभेदा जीवा इति भावः । विश्वादिर्जागृतिस्वप्नसुषुप्त्यभिमानी । सिद्धान्तिनां मतमाहऽअन्येऽ त्विति । त्रिविधाश्चेतनाःज्ञातृत्ववन्तो बद्धमुक्तनित्याः । त्रिविधाश्चातेतनाः ज्ञातृत्वरहिताः प्रकृतिकालनित्यविभूतयः । ज्ञानरूपत्वेऽपि नित्यविभूतेरज्ञातृत्वादचेतनत्वं । तेषां सर्वेषां

स्वस्वाकारसंपत्तिः, निष्पन्नस्वरूपाणामुत्तरोत्तरकालानुवृत्तिरूपा स्थितिः, प्रवृत्तिविशेषाश्च तत्तत्कार्यानुगुणा यदधीना एव सदा, सरिश्वरः । स च न निर्गुणः । किन्तु स्वाभाविकोत्कृष्टतमषाङ्गुण्यप्रभृत्यनन्तकल्याणगुणगणरत्नाकरः । निर्गुणत्वं चास्य हेयगन्धाभावात् । अयं च पुरुषविशेषः त्रिविधजीवात्मविलक्षणः पुरुषोत्तमः श्रियः पतिरित्येतेषां हार्दं ।

पुरुषविशेषरिश्वर इत्युक्तम । स किंनामरूप इत्यपेक्षायामाहऽतथा तद्विशेषेऽपीऽतिर् । इश्वरीयनामरूपादिविषयेऽपि नैकमत्यं वादिनामित्यर्थः । तथाहिएक एवैश्वरो मूर्तिचतुष्टयं

गृह्णाति कार्यवशादित्येके । त्रिमूर्तिवादिनस्त्वादित्यरूपं परित्यजन्ति । हरिहरैक्यवादिनस्तु ब्रह्मरूपमपि । शैवास्तु हर एवैश्वर इत्यभिमन्यन्ते । श्रीवैष्णवस्तु हरिरेवेत्यामनन्ति । एवं हैरण्यगर्भाणां सौराणां च तत्तदेकमूर्तिपक्षोऽप्यनुसन्धेयः । रिश्वरमूर्तिगतविशेषेष्वपि विप्रतिपत्तीराहऽमूर्तीऽति । सार्थत्वं स्वबोगसिद्ध्यर्थत्वं । परार्थत्वं जीवानुग्रहैकार्थत्वं । वितर्काः विप्रतिपत्तयः ।ऽपरिजनेऽति ।

परिजनादयः सन्ति नेति, नित्याः अनित्या इति, प्राकृता अप्राकृता इति च पक्षभेदाः परिजनस्थानादावनुसन्धेयाः ।ऽप्रमाणतोऽपीऽति । सार्वविभक्तिकस्तसिल् । प्रमाणविषयेऽपीत्यर्थः । शास्त्रैकप्रमाणक इत्येके । आगमानुमानप्रमाणक इत्यपरे । श्रुतो मतश्च श्रुतितोऽनुमानतश्च प्रेमपूर्वानुध्यानसंस्कृतमनोग्राह्यश्चेति तु सिद्धान्तिनः ॥

अथ जीवपरयोः संबन्धेऽपि विप्रतिपत्तीर्निर्दिशतिऽतथा आत्मेऽति । अद्वैतिनां पक्षमाहऽअनादीऽति । अविद्याकृतभेदावलंबनत्वादीशेशितव्यत्वादेव्यर्विहारिकत्वमेव न परमार्थत्वमित्याशयोऽमीषां । प्रतिबिम्बपक्षाभिप्रायेणाऽह्ऽव्यतिरेकेऽति । बिम्बतो भेदाभावेऽपि प्रतिबिंबानां भेदप्रतिपत्त्यादिगोचरत्वलक्षणोऽतिरेकोविशेषोऽस्तीति भावः । भास्करपक्षमाहऽस्वतऽ इति । स्वरूपतोऽभेदः । औपाधिको भेदः । भेदाभेदयोर्विरुद्धयोः केवलस्वरूप एवासंभवादित्याशयः । यादवप्रकाशपक्षमाहऽनानात्वऽ इति । अंशांशिभावलक्षण इत्यस्यान्वय इत्यनेन संबन्धः । अंशांशित्वाद्भेदाभेदोपपत्तिः । भेदसमानाधिकरणाभेदस्यैव तादात्म्यस्य सामानधिकरण्यार्थत्वमिति हार्दमेतेषां ।ऽसमवायऽ इत्यादिः सिद्धान्तिना पक्षः । नानासंबन्धोपगमाज्जीवपरयोः सिद्धान्ते नानसंबन्धकीर्तनं । अंशांशिभावलक्षण इत्यस्य सिद्धान्तपक्षत्वमपि संभवति । परतन्त्रताअपृथक्सिद्धिः तद्रूपः समवायः, न त्वतिरिक्तो वैशेषिकमतवदिति भावः । परगतातिशयाधानेच्छाप्रक्ल्प्तस्वरूपादिकत्वं शेषत्वं । यथेष्टविनियोगार्हत्वं स्वत्वं । प्रेर्यचेतनत्वं भृत्यत्वमिति भिदा । एतत्प्रतिसंबन्धित्वलक्षणं च शेषित्वादीति बोध्यं । भृत्यस्वामीति भावप्रधाननिर्देशः । भृत्यस्वामित्वलक्षण इति यावत् । तथैव वा पाठः संभाव्यते ।

अथ मुक्तिस्वरूपे विप्रतिपत्तीराहऽतथा परमेऽति । ब्रह्मप्राप्तिलक्षणेति स्वाभिमतोक्तिः पराभिमतानां मुक्तिस्वरूपाणां पुरुषार्थत्वायोगसूचनार्था । चार्वाकाणां शून्यवादिनां च स्वरूपोच्छित्तिपक्षः । योगाचाराणां मायिनां वा पक्षो द्वितीयः । कणादादिपक्षस्तृतीयः । विशेषः

एव वैशेषिकः । साङ्ख्यपक्षस्तुरीयः । तद्भावसाधर्म्य लक्षण इत्यद्वैतिनां स्यात् । तच्छब्दो ब्रह्मपरः । ब्रह्मभाव एव साधर्म्यं मुक्तिरिति । यद्वा ब्रह्मरूपसाम्यप्राप्ति, ब्राह्मगुणप्राप्ति, ब्रह्मकान्तिप्राप्तिलक्षणमुक्तिभेदपरं पदत्रयं ।ऽसांसिद्धिकेऽति मीमांसकादीनां मतं ।ऽतद्गुणेऽत्यादि सिद्धान्तिनां । स्वरूपाविर्भावोऽप्यत्र गर्भितः । किङ्करत्वं सेवाकरणं ।

मुक्त्युपायेऽपि ता आहऽतत्साधनतोऽपीऽति । कर्मज्ञानसमुच्चयपक्षो यादवप्रकाशीयः ।ऽउभयेऽति सिद्धान्तिपक्षः । कर्मयोगज्ञानयोगाभ्यां संस्कृतचेतस एव भक्तियोगो नाम परभक्तिरुदैति । कर्मज्ञानाद्यङ्गिका सैव परब्रह्मप्राप्तिलक्षणमोक्षसाधनं । तस्याश्चैकान्तिकत्वं भगवदेकविषयत्वं । आत्यत्निकत्वं चाविच्छिन्नत्वं । परज्ञानपरमभक्त्योरेतद्विपाकरूपत्वमेवेति भावः ।

विप्रतिपत्तिप्रदर्शनस्य विचाराम्भोपयोगितां समर्थयतिऽतदेवऽमिति । परीक्षकाणां विप्रतिपत्तिभेदे कस्मिंश्चिदपि वा पक्षे यावत्सत्प्रमाणतर्कमूलकत्वादिविशेषो नावधार्यते, तावत्तत्त्वे सन्देहो न निवर्तते । यावच्च निरुक्तविशेषानवधारणम्, न तावत्तत्तत्साधने व्याप्तिपक्षधर्मतायोगित्वलक्षमबलनिर्धारणं । न च विरुद्धसाध्यसाधनयोर्वास्तविकव्याप्तिपक्षधर्मतोपपत्तिरेकस्मिन्नेव धर्मिणि । तथा च समबलतया प्रतीयमानानां नानापक्षसाधनानां सत्प्रतिपक्षभावेन साध्यनिर्णयो दुर्घटः । न चार्थसन्देहादेव मुक्तिः । तथा च पक्षभेदे जाग्रति यत्र वास्तवो विशेष इति विचारः प्राप्तावसरः । विचारेणान्यतमपक्षे विशेषावधारणे तु तत्पक्षसाधनस्याधिकबलत्वज्ञानात्सत्प्रतिपक्षभावनिवृत्तेस्तेनार्थतत्त्वनिर्णयोपपत्तिः । तत्मुक्तिसाधनोपयोग्यर्थतत्त्वनिर्णयायाऽत्मस्वरूपादिगोचरान्यतमपक्षस्य सत्प्रमाणतर्कमूलकत्वादिविशेषव्यवस्थापनपरस्य विचारग्रन्थस्याऽरम्भो युक्त एवेति समुदिताशयः ।

ननु आत्मपरमात्मनोर्नानाविप्रतिपत्तिनिरसनार्थं पूर्वाचार्यप्रबन्धानां प्रवर्तनमेव कर्यं । कृतं नूत्नप्रबन्धप्रणयनप्रवृत्त्येत्याशङ्कामन्तर्निधायाहऽयद्यपीऽति । इदमर्थान्येव आत्मपरमात्मतत्संबन्धाद्यर्थतत्त्वनिर्णयार्थान्येव, सूत्राणि ब्रह्ममीमांसासूत्राणि । एषामेव मुख्यं सूत्रत्वमिति स्कान्दोक्तं “निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्य चाप्यतः । सविशेषाणि सूत्राणि ह्यपराणि विदो विदुः ॥ मुख्यस्य

निर्विशेषेण शब्दोऽन्येषां विशेषतः । इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः ॥” इति ।ऽविवृतानीऽति । परिमितत्वं शब्दसङ्क्षेपः । गभीरत्वं अर्थगांभूर्यशालित्वं । द्रमिडभाष्यकृत् द्रमिडाचार्य संज्ञकः छान्दोग्यव्यानस्य

वाक्याभिधस्य टङ्काचार्यापराभिधानब्रह्मनन्दिकृतस्य भाष्यकर्ता । ब्रह्मसूत्राणामपि बाष्यं कृतमनेनेति एतछ्रीसूक्तिसन्दर्भादवगम्यते ।ऽविस्तृतानि चेऽ ति । तानि द्रमिडाचार्यकृतब्रह्मसूत्रभाष्यवाक्यानि ।ऽविवरणग्रन्थेऽ इति शेषः । तानिब्रह्मसूत्राणि वा । श्रीविष्णुपुराणव्याख्याने विष्णुचित्तीये विवरणवाक्यानि समुद्धृतानि सन्ति ।ऽतथापीऽति । अयं भावः यद्यपि पूर्वाचार्यप्रब्न्धेष्वध्यात्मतत्त्वं सपरिकरं निरूपितमेवास्ति, अथापि पाश्चात्यैः ब्रह्ममीमांसादिव्याख्याच्छलेन नानामतानां प्रवर्तितत्वादा चाप्रामाण्यहेत्ववधारणात्तद्ग्रन्थेष्वपि श्रद्धायाः सिद्धान्तग्रन्थेष्विव संभवात्तेषु च विप्रतिपत्तिबाहुल्येन विचलितबुद्धयो नाञ्जसा तत्त्वज्ञानं प्राप्नुयुरिति तत्तन्मतसारासारविवेकोपयोगितत्तन्मतपरीक्षात्मकप्रकरणारम्भ आवश्यक एवेति । आचार्यटङ्कादिषु निर्दिष्टेषु केचित्सिद्धान्तिनः, अन्ये तु मतान्तरानुयायिनः स्युः । तत्प्रबन्धेषु च सितासितत्वं अस्फुटप्रतिपादकत्वमन्यथाप्रतिपादकत्वं च यथासंभवं योज्यं । यद्वा टङ्कश्रीवत्साङ्कावपि अत्र निर्दिष्टौ मतान्तरस्थौ वाक्यविवरणकर्तृभिन्नौ स्यातां । वाक्यकर्तुर्टङ्कसंज्ञा च वेदार्थसङ्ग्रटीकातोऽवगम्यते ।ऽतत्प्रतिपत्तये चेऽति । केचिदस्फटतयार्ऽथतत्त्वमवगच्छन्ति, केचित्पुनः केनापि हेतुना मतान्तरग्रन्थेषु श्रद्धालवोऽत एव वञ्चितबुदधयोऽन्यथैव प्रतिपद्यन्त इति स्फुटप्रतिपत्तये अन्यप्रबन्धानां सितासितत्वप्रतिपत्तये च प्रकरणारम्भो युक्त एवेत्याशयः । पूर्वाचार्यप्रबन्धानां शास्त्ररूपाणां प्रकरणमिदमात्मसिद्ध्यादीति च हार्दं । प्रकरणं चेदं शारीरकमीमांसायाः,

न्यायतत्त्वशस्त्रस्य च । शास्त्रैकदेशार्थप्रतिपादनतत्परत्वे सति शास्त्रार्थप्रतिपत्त्युपयोगि (विरोधिमतनिरासादि) कार्यान्तरव्यापृतिमत्त्वं प्रकरणत्वं । तदुक्तं “शास्त्रै कदेशसंबद्ध शास्त्रकार्यान्तरे स्थितं । मतं प्रकरणं नाम” इति ॥

प्रथमं तावदात्मतत्त्वमुपवर्णयतिऽतत्रेऽति ।ऽदेहऽ इति । निरूपणीयतयोपक्षित्पेषु घटकीभूत आत्मा देहादितो विलक्षणः स्वयंप्रकाशः नित्यः सूक्ष्मतया सर्वव्याप्तिक्षमः प्रतिशरीरं भिन्नः आनन्दस्वभाव इत्यर्थः । धीः विषयप्रकाशकं ज्ञानमात्मनो धर्मभूतं । तदाधारत्वात्तद्विलक्षणत्वं । अनन्येन स्वेन साधनं सिद्धिः प्रकाशो यस्य सोऽनन्यसाधनः । नित्यत्वमुत्पत्तिविनाशरहितत्वं । व्यापीत्यनेनाणुसूक्ष्मत्वं फलितं । स्वतः सुखी स्वरूपत एवानुकूलप्रकाशलक्षण सुखवान् । सुखस्वरूप इति यावत् । यद्वा स्वाभाविकमानन्दित्वमस्य; दुःखित्वं त्वौपाधिकमेवेति भावः ॥ ३ ॥

{तत्र देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः ।
नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नः स्वतः सुखी ॥ ३ ॥
ननु देहमेवात्मानं प्रत्यक्षतः प्रतिद्यामहे । अहं जानामीति ज्ञाता ह्यात्मा अहमिति चकास्ति । देहश्चाहङ्कारगोचरः, स्थूलोऽहं कृशोऽहमिति दर्शनात् । देहस्य हि स्थौल्यादियोगः । अतस्तत्समानाधिकरणतयायमहङ्कारः शरीरालम्बन इत्यवश्याश्रयणीयं । इतरथा सकललौकिकपरीक्षकव्यवहारोपरोधश्च । न चायं लाक्षणिको व्यवहारः, मुख्यवृत्तिभूमेः पृथगसिद्धत्वात् । न चानेकावयवयोगिशरीरालम्बनत्वे ज्ञात्रवभासस्य तदीयरूपावयवाद्यवभासेनान्वयिना भवितव्यम्, येन तदन्वयाभावात्जानामीति प्रत्ययः शरीरातिरिक्तमवगमयेत् । बाह्येन्द्रियप्रत्यक्ष एव तथा नियमदर्शनात् । स्वान्त स्याऽन्तरगुणाधारतावभास एव सामर्थ्यनियमात् । अनवधृतावयवविशेषस्याप्यनेकावयवयोगिनो महिमगुणशालिनः त्र्यणुकस्य प्रथमप्रत्यक्षाभ्युपगमात् । वायोश्च त्वगिन्द्रियेण स्पर्शाधिष्ठानमात्रतयोपलम्भदर्शनाच्च । देहव्यतिरिक्तात्मगोचरत्वेऽपि यथा तदीयगुणान्तराग्रहणम्, तथेहापि । यथा तत्र बाह्यप्रत्यक्षगोचर एव सङ्क्यापरिमाणादिग्रहणनियमः ।
एवं च प्रत्येकं परमाणुषु चैतन्यानुपलब्धेः, तदभ्युपगमे चैकशरीर एवानेकसहस्रचेतनापातात्, अकारणगुणपूर्वकस्य कार्यद्रव्यवर्तिनो विशेषगुणस्यासम्भवान्न शरीरविशेषगुणश्चेतन्यम्, अयावच्छरीरभावित्वाच्चेत्यादयोऽनुमानबेदाः प्रत्यक्षबाधितविषयतया न पराक्रमितुं क्षमन्ते । विशेषगुणत्वे च
प्रीतिषिध्यमाने देहगुणत्वाभ्यु पगमप्रसङ्गश्च । अपि चेच्छानुविधायिक्रियत्वेन्द्रियवत्त्वादयः शरीरे दृश्यमानाः संप्रतिपन्नाचैतन्याद्धटादेरत्यन्तव्यावर्तमानाः शरीरमेव चेतनमवगमयन्ति । क्रमुकफलताम्भूलदलावयवादिषु प्रत्येकमविद्यमानस्यापि रागस्येवावयविनि संयोगविशेषात्, देहारम्भकपरमाणुसंश्लेषविशेषादेव देहे चैतन्यस्याप्याविर्भावो नानुपपन्नः । चर्वणजनितहुतवहसंयोगसंपादितपाटलिमभिः परमाणुभिर्द्व्यणुकादिक्रमेण कारणगुणपूर्व एव तत्र रागोदय इति चेत्; न; प्रमाणाभावात् । अपि च सितासितादितन्तुषु प्रत्येकमविद्यमानमपि चित्ररूपं विशेषगुणं तदारब्धे पटे स्फटमुपलभमानाः कथं कारणगुणपूर्वकत्वमुक्तगुणस्याध्यवस्येम ? । न चावयरूपातिरेकेणावविनि चित्रं नाम रूपान्तरं नास्त्येव । अवयविनोऽचाक्षुषत्वप्रसङ्गात् । अवयवरूपैरेव तदुपपादने सर्वमेव कार्यद्रव्यं नीरूपमापद्येत् । अनुभवविरेधः, सर्वव्यवहा
रविरोधश्च । विशषगुणश्च काठिन्य करकद्रव्यवर्ति अकारणगुणपूर्वकं दृश्यत इत्यनेकान्तश्च । न च संयोगविशेषः काठिन्यं ; तस्य द्विष्ठत्वात्; अस्य तु करकद्रव्यैकवर्तित्वात्; स्पर्शविशेषतया पदार्थविद्भिरभ्युपगमाच्च । दृश्यस्य देहस्य कथं द्रष्टृत्वमिति चेत्; को विरोधः? । अयमेव यदेकस्यां क्रियांयामेकस्य कर्मत्वं कर्तृत्वं च न घटत इति । यद्येवम्, व्यतिरेकवादे वा कथमात्मनि अहमिति प्रत्ययः । रूपभेदादिति चेत्, समानमिदं देहात्मवादेऽपि । अपि च परसमवायिक्रियाफलगामि कर्म । स्वसमनेतज्ञानफलभागिनः शरीरस्य कर्मत्वमेव नास्तीति न पर्यनुयोगावकाशः । अतो देह एवात्मेति बार्हस्पत्याः । तथाच “}
पृथिव्यापस्तेजो वायुरिति तत्त्वानि, तेभ्यश्चैतन्यं, किण्वादिभ्यो मदशक्तिवत् ”} {इति सूत्रं ।

प्रथमं तावदात्मतत्त्वमुपवर्णयतिऽतत्रेऽति ।ऽदेहऽ इति । निरूपणीयतयोपक्षिप्तेषु घटकीभूत आत्मा देहादितो विलक्षणः स्वयंप्रकाशः नित्यः सूक्ष्मतया सर्वव्याप्तिक्षमः प्रतिशरीरं भिन्नः आनन्दस्वभाव इत्यर्थः । धीः विषयप्रकाशकं ज्ञानमात्मनो धर्मभूतं । तदाधारत्वात्तद्विलक्षणत्वं । अनन्येन स्वेन साधनं सिद्धिः प्रकाशो यस्य सोऽनन्यसाधनः । नित्यत्वमुत्पत्तिविनाशरहितत्वं । व्यापीत्यनेनेणसूक्ष्मत्वं फलितं । स्वतः सुखी स्वरूपत एवानुकूलप्रकाशलक्षणसुखवान् । सुखस्वरूप इति यावत् । यद्वा स्वाभाविकमानन्दित्वमस्य; दुःखित्वं त्वौपाधिकमेवेति भावः ॥ ३ ॥

उक्तमात्मतत्त्वमसहमानः शरीरात्मवाती चार्वाकः प्रत्यवतिष्ठतेऽननु देहमेवेऽति । प्रत्यक्षं हि मुख्यं प्रमाणं । न च तदतिलङ्घनेन कश्चनार्थः साधयितुं शक्यते । प्रत्यक्षं च सथौल्यादियोगिनं देहमेव ज्ञातारमहमर्थमात्मानं प्रतिपादयतीति देह एवात्मेति भावः । देहस्यैवाहंबुद्धिविषयत्वमुपपादयतिऽदेहश्चेऽत्यादिवाक्यद्वयेन ।ऽअतऽ इति । तत्समानाधिकरणतयादेहाभिन्नार्थविषयकतया । इत्थं भावे तृतीया । अयमहङ्कारः स्थूलोऽहमित्यहप्रत्ययः प्रत्यक्षरूपः । शरीरालम्बनः शरीरविषयकः । शिष्टं स्पष्टं । प्रत्यक्षातिक्रमे दोषमाहऽइतरथेऽति । प्रत्यक्षमूला हि व्यवहाराः समुपलभ्यन्ते पण्डितपामरसाधारणा अर्थक्रियाकारिमो मुख्या एव । तद्विरोधः प्रत्यक्षातिक्रमे प्रसज्यत इत्यर्थः । ननुऽस्थूलोऽहं जानामीऽति प्रतीतिर्भ्रान्तिरेव पामराणां । पण्डितानां त्वरितिक्तात्मगोचरैवाहं जानामीति । अहं स्थूल इति तु व्यवहारः पण्डितानां लाक्षणिक इत्याशङ्कामनूद्य प्रतिक्षिपतिऽन चायऽमिति । अयं व्यवहारो लक्षणिक च नेत्यन्वयः । वाच्यमिति शेषः ।

प्रतिक्षेपयुक्तिमाहऽमुख्येऽति । अहंपदशक्तिविषयस्य देहव्यतिरिक्तस्यानुपलम्भनिरस्तत्वाद्देह एव मुख्यत्वमहम्प्रत्ययव्यवहहारयोरिति भावः । जानाम्यहमिति ज्ञातृत्वप्रतीतेर्देहगोचरत्वेऽनुपपत्तिमाशङ्कतेऽन चेऽ त्यादिना । अन्वयिना नियतेन । सावयवार्थप्रत्यक्षत्वव्यापकं तदवयवादिप्रकाशकत्वमिति नियमो नेति भावः । सति नियमे यत्प्रसक्तं तदाऽयेनेऽति । इति सिध्येदिति शेषः । तदन्वयाभावात्शरीरावयवादिप्रकाशान्वयाभावात्तदप्रकाशकत्वाच्छरीरातिरिक्तमेवावगमयेदहं जानामीति । न तु शरीरं सावयवमिति नियमफलं । ज्ञातृत्वप्रत्यक्षं शरीराविषयकम्, तदवयवाविषयकत्वात् । यद्यदक्यविविषयं तत्तद्वयवगोचरम्, यथा घटादि प्रत्यक्षमित्यत्र प्रयोगे निरुक्तनियमस्योपयोगः । निरुक्तनियमस्यासंभवे हेतुमाह

ऽबाह्येऽति । सहचारदृष्टेर्हि नियमविज्ञानं । सहचारश्च बाह्यप्रत्यक्ष एव दृष्ट इति तद्विषय एव निरुक्तनियम इति भावः । ननु भवतु सहचारदर्शनं बाह्य एव । नियमस्त्वसङ्कोचात्प्रत्यक्षमात्रागोचरोऽस्त्वित्यत्राहऽस्वान्तस्येऽति । आन्तरो गुणो ज्ञानसुखादिर्योग्यः । तदाधारत्वमात्रेण धर्म्यवभासकत्वं मनसः । नतु धर्मान्तरस्य । बहिरस्वातत्र्यान्मनसः । तथाच रूपसावयवत्वदिग्रहासंभवात्मनसा ज्ञातृत्वमात्रेण शरीरग्रह इति प्रत्यक्षसामान्ये नियमो नोपसंहर्तुं शक्यत इति भावः । बाह्यत्वेऽपि शरीरस्य ज्ञानाद्युपरागोणान्तरत्वमित्यभिमानः । अवयविगोचरबाह्यप्रत्यक्षत्वव्यापकं तदवयवगोचरत्वमिति नियमेऽपि व्यभिचारमाहऽअनवधृतेऽति । त्र्यणुकचाक्षुषेऽतीन्द्रियत्वेन तदवयवस्याग्रहाव्द्यभिचार इति भावः । अनेकावयवयोगिनः अनेकावयवसमवेतस्य, स्वसमवेतसमवायेनानेकावयवविशिष्टस्य । महिमगुणशालिनः महत्परिमाणवतः । त्रसरेणुप्रत्यक्षानन्तरं चाक्षुषद्रव्यत्वादिना तस्य सावयवत्वानुमानादुपनीतद्व्यणुकभानं द्वितीयादित्र्यणुकप्रत्यक्षे संभवतीति व्यभिचारस्थलं त्र्यणुकप्रत्यक्षं प्रथमत्वेन विशेषितं । ननु योग्यावयवकावयविबाह्यप्रत्यक्षस्य तदवयवगोचरत्वमिति नियमोऽस्त्विति चेत्तत्रापि तं दोषमाहऽवायोश्चेऽति । स्पर्शवत्त्वमात्रेण वायुस्पार्शने तदवयवविषयकत्वाभावात्तत्र व्यभिचारो निरुक्तनियमस्येति भावः । सत्येवावधाने वाय्ववयवादिग्रहः । अन्यदा तु त्वक्सन्निकृष्टस्य वायोः स्पर्शवत्त्वेनैवोपलम्भ इत्यभिमानः । अहञ्जानामीति प्रतीते रूपाद्यविषयत्वेन शरीराविषयत्वसाधने

ऽप्रयोजकत्वमाहऽदेहव्यतिरिक्तेऽति । ज्ञातृत्वप्रतीतेरित्यादिः । तदीयगुणान्तरं आत्मनिष्ठसङ्ख्यादि ।ऽतथेहापीऽत्यनन्तरमुपपद्यत इति शेषः । अयं भावः द्रव्यग्राहीन्द्रियस्य योग्यसन्निकृष्टतद्गुणग्राहकत्वमिति नियमः । तथा चातिरिक्तात्मंवादे यथा सङ्क्या

दीनां तद्गुणानामयोग्यत्वान्न मनसा ग्रहः एवं देहात्मवादेऽपि तदीयरूपादेरयोग्यत्वादेव न मनसा ग्रह इति । न च रूपवद्द्रव्यप्रत्यक्षे रूपग्रहणं नियतमिति वाच्यं । घटादिस्पर्शनेऽनैकान्त्यान् ।ऽयथा तत्रेऽति । यथा तत्र अतिरिक्तात्मवादे बाह्यप्रत्यक्ष एव द्रव्यग्राहिणस्तद्गतसङ्क्यादिग्राहित्वमिति नियम्यते, तथा देहात्मवादेऽपि नियम्यतामिति भावः ।ऽतथेहापीऽति पुनरनुसन्धेयं ।

एवमहं जानामीति प्रत्यक्षस्य देहविषयकत्वं समर्थितं । अनेन देहचैतन्यबाधकानुमानानां बाधितत्वमाहऽएवं चेऽति । चैतन्यं न शरीरविशेषगुणः आकारणगुणपूर्वकतत्वात्, अयावद्द्रव्यभावित्वाद्वा संयोगवदिति देहचैतन्ये बाधकमनुमानं । तत्र प्रथमहेतोरसिद्धिं परिहरतिऽप्रत्येकऽमित्यादिना । ननु परमाणुषु देहारंभकेषु चैतन्यं मास्तु । येनानेकचेतनप्रसङ्ग एकस्मिन्देहे । अकारणगुणपूर्वकश्च रूपादिः पाकजो दृष्टः । तद्वद्भवतु चैतन्यमित्यत्राहऽकार्यद्रव्येऽति । पीलुपाकोऽत्राभिमतः । तथा च कार्यद्रव्यविशेषगुणत्वव्यापकं स्वसमवायिसमवायिवृत्तिसजातीयगुणासमवायिकारणकत्वरूपं कारणगुणपूर्वकत्वं । व्यापकनिवृत्त्या च चैतन्ये शरीरविशेषगुणत्वस्य निवृत्तिरिति भावः । द्वितीयानुमाने च यो यः कार्यद्रव्यविशेषगुणः स स यावद्द्रव्यभावीति सामान्यतो व्यतिरेकव्याप्तिः पीलुपाकनयेन वाच्या ।ऽइत्यादयऽ इत्यादिपदेन चैतन्यं न देहस्य विशेषगुणः तन्निष्ठविशेषगुणान्तरवैधर्म्यादित्यनुमानं ग्राह्यं । न पराक्रमितुं क्षमन्तेदेहचैतन्यं बाधितुं न प्रगल्भन्ते । कुतः ? प्रत्यक्षबाधितविषयतया । प्रत्यक्षबाधेन निरुक्तानुमानानामेव नोदयः

संभवति । प्रबल उपजीव्यत्वेन प्रत्यक्षप्रमाणबाधनं च दुर्बलैरेतैरनुमाननैर्दुष्करमिति भावः । अयावद्द्रव्यभाविनामकारणगुणपूर्वकाणामपि संयोगादीनां शरीरगुणत्वदृष्टेर्निरुक्तहेतुभिरपि चैतन्ये शरीरगुणत्वस्याभावो न साधयितुं शक्यत इत्याशयेनाहऽविशेषेऽति । शरीर एवोपम्भाच्चैतन्यं तद्गुण एव । निरुक्तहेतुभिस्तद्विशेषगुणत्वनिषेधनेऽपि न क्षतिः । परिभाषिकं हि विशेषगुणत्वं । भावनान्यो यो वायुवृत्तिवृत्तिधर्मसमवायी तदन्यत्वे सति गुरुत्वाजलद्रवत्वान्यगुणत्वं विशेषगुणत्वमित्यत्र गरुत्वादेरेव ज्ञानादेरप्यन्यत्वं प्रक्षिप्यतामिति भावः । अकारणगुणपूर्वकत्वादिहेतूनामप्रयोजकत्वाच्छरीरविशेषगुणत्वेऽपि ज्ञानार्दने क्षतिरित्यभिप्रयन्नाहऽअपि चेच्छेऽति । शरीरविशेषगुणान्तरवैधर्म्याज्ज्ञानस्याशरीरविशेषगुत्वं चेदिष्यते, तर्हि संप्रतिपन्नाचेतनघटादिविधर्मत्वाद्देहस्य चैतन्यवत्त्वमेव कुतो नेष्यते लाघवादिति भावः । इन्द्रियवात्त्वादय इत्यादिपदेन प्राणवत्त्वं ग्राह्यं । इच्छानुविधायिक्रियत्वं साक्षादिच्छाधीनप्रवृत्तिमत्त्वं देहस्य । घटादेस्तु देहव्यापारद्वारकमेव तदिति भावः । शरीरं चेतनावतिच्छानुविधायिक्रियत्वादिन्द्रियादिमत्त्वाद्वा यन्नैव तन्नैवं यथा

घटादीति व्यतिरेकानुमानं च देहस्य चैतन्येऽत्र वाक्ये गर्भितं । कार्यद्रव्यविशेषगुणत्वस्य कारणगुणपूर्वकत्वव्याप्तावनैकान्त्यमप्याहऽक्रमुकेऽति । क्रमुकफलसंमिश्रिचूर्णकोपलिप्तताम्बूलपत्रस्य दन्तसङ्घट्टनैः पूर्वावयवविनाशे तदवयवानां संश्लेषविशेषतो निष्पन्ने पिण्डितावयविनि रक्तं रूपमवयवेष्वविद्यमानं संश्लेषविशेषत एव तेषामुत्पन्नमिति तत्र व्यभिचार इति भावः । आक्षिपतिऽचर्वणेऽति । दन्तसंमर्दैः पूर्वावयविनो व्द्युणुकपर्यन्तस्य नाशे परमाणुषु स्वतन्त्रेषु चर्वणोद्भूतमुख्याग्निसंयोगलक्षणपाकवशाद्रक्तरूपस्योत्पत्तेः कारणगुणपूर्वकमेव पिण्डितावयविनि रक्तं रूपमिति न व्यभिचार इति भाव आक्षेप्तुः । परिहरतिऽन प्रमाणाभावऽदिति । संश्लेषविशेषस्यैव क्वचिद्रूपान्तरप्रयोजनकत्वमेष्टव्यं । यथा हरिद्राचूर्णे चूर्णकजलसंयोगेनैव हि रक्तं रूपं दृष्टं । तथात्रापि संभवात्पाककल्पनायां मानाभाव

इति भावः । चर्वणस्थले पीलुपाकेनैव रूपान्तरमित्याग्रहेऽपि स्थलान्तरे व्यभिचारमाहऽसितासितेऽति । न हि चित्रपटस्थलेऽवयवेषु पाकसंभवः । न चावयवेषु चित्रं रूपं । तथा चचावयविविशेषगुणस्य स्वसजातीयावयवगुणपूर्वकत्वमिति नियमस्य चित्ररूपेऽनैकान्त्यमिति भावः । साजात्यं रूपत्वाद्यवान्तरजात्या विवक्षितं । न हि नीलतन्तुभिः शुक्लपटारंभः । रूपत्वादिना साजात्यविवक्षायां तु तस्यापि प्रसङ्ग इति । ननु चित्रं नाम रूपान्तरं नेष्यते । न चैवं नानारूपतन्तुभिरारब्धश्चिन्त्रपटो नीरूपः स्यात् । रूपादेर्व्याप्यवृत्तित्वनियमादव्याप्यवृत्तिनानारूपवत्त्वस्य सत्मिन्नुपगमासंभवादिति वाच्यं । अवयवरूपेणैव चाक्षुषत्वोपपत्तौ चित्रपटस्य नीरूपत्वेऽपि क्षतिविरहात् । समवायस्वसमवायिसमवेतत्वान्यतरसंबन्धेनोद्भूतरूपस्य द्रव्यचाक्षुषे हेतुत्वोपगमादिति चेदत्राहऽसर्वमेवेऽति । एवमवयवरूपेणैव चाक्षषोपपत्तेः सर्वस्याप्यवयविनो रूपवत्तवं नेष्यतामित्यर्थः । इष्यत एवमेव लाघवादित्यत्राहऽअनुभवेऽति । साक्षाद्रूपवत्त्वोपलम्भव्यवहारयोरबाधितयोः सत्त्वादिष्टापत्तिर्नीरूपत्वेऽवयविनः कर्तुं न शक्यत इत्यर्थः । चित्रः पट इति चाबाधितप्रतीतिव्यवहारतश्रित्रं रूपमप्येष्टव्ययमिति भावः । नन्वयवनानारूपैरव्याप्यवृत्त्येव नानारूपं चित्रपट उपेयते प्रतीतिबलात् । तथा च न तत्र व्यभिचार इत्यत्राह ऽविशेषगुणश्चेऽति । जलीयस्य करकस्यावयवसंश्लेषविशेषादारम्भकसहकारिवैचित्र्याच्च द्रवत्वरहितस्य कठिनस्पर्श उपलभ्यमानो न कारणगुणपूर्वकः । जलपरमाणुषुकठिनस्पर्शस्याभावात्

। तथा च करकस्पर्शे कारणगुणपूर्वकत्वनियमस्य व्यभिचार इति भावः । नन्ववयवसंयोगविशेष एवास्तु काठिन्यं । तथा च क्कानैकान्त्यमित्यत्राहऽन च संयोगेऽति । अवयवसंयोगविशेषस्य काठिन्यरूपत्वे तस्यावयविन्यवृत्तेः कठिनः करक इति प्रतीतिव्यवहारौ न स्यातां । कथञ्चित्तदुपपादनेऽपि चाक्षुषद्रव्यवृत्तिसंयोगस्य चाक्षुषत्वात्काठिन्यस्य चक्षुषाप्युपलंभप्रसङ्ग इति भावः ।ऽस्पर्शविशेषतयेऽति । त्वङ्भात्रग्राह्यगुणत्वात्काठिन्यं स्पर्शविशेष

एवेति साम्प्रतं । पदार्थविद्भिः काणादैः स्पर्शविशेषतयैव च तदभ्युपगतमिति भावः ।

देहात्मवादे कर्तृकर्मभावविरोधमाशङ्क्य परिहरति ऽदृश्यस्येऽत्यादिना ।ऽको विरेधऽ इति । विरुद्धार्थे हि कथन्ता । द्रष्टुर्दृश्यत्वेऽविरोधात्का नाम कथन्तेति भावः । विरोधमाहऽअयमेवेऽति । तत्क्रियायां तदैव कस्यचित्कर्तृत्वं कर्मत्वं च न युक्तं । क्रियया आप्तुमिष्टतमं हि कर्म साध्यरूपं । क्रियाश्रयः कर्त्ता च सिद्धरूपः । सिद्धसाध्ययोर्नैक्यं संभवतीति विरोधः कर्तृकर्मत्वयोरिति भावः । आक्षेप्तुर्मुखेनैव समाधिं वाचयितुं प्रतिबन्दीमाहऽयद्येवऽमिति । समाधिमाहाक्षेप्ताऽरूपभेदाऽदिति । समाधितौल्यमुत्तरमाह देहात्मवादीऽसमानऽमिति । यथा आतरिक्तात्मवादेऽहन्त्वादिना कर्मत्वम्, मनःसंयोगत्त्वादिना च कर्तृत्वं ज्ञानक्रियायामित्याकारभेदादविरोध उच्यते, तन्न्यायस्य न देहात्मवादे दण्डनिवारणमिति भावः । वस्तुतो यादृशस्य कर्मत्वस्य कर्तृत्वेन विरोधः, न तादृशं ज्ञानकर्मत्वं । अतोऽपि न दोष इत्याह ऽअपि च परेऽति ।ऽस्वसमवेतज्ञानफलभागिनिऽ इति । स्वनिष्ठज्ञाननिरूपितविषयतावत इत्यर्थः । विषयताया विषयिनिरूप्यत्वात्ज्ञानफलत्वोपचारः ।ऽकर्मत्वमेव नास्तीऽति । मुख्यं कर्मत्वं नास्तीत्यर्थः । अयं भावः परसमवेतक्रियाजन्मफलाश्रयत्वं मुख्यं कर्मत्वं । यथा ग्रामस्य गमनकर्मत्वं । विषयविषयिभावलक्षणममुख्यमेव तु ज्ञानादिकर्मत्वं । सविषयार्थधातुयोगे कर्मत्वं विषयतारूपमिति हि तार्किकाणां समयः । अस्य ज्ञानकर्तर्यप्युपगमान्नात्मानं जानातीत्यादेरनुपपत्तिः । मुख्यस्यैव

तु कर्तृत्वेन विरोध इति । नचामुख्यमिदं कर्मत्वं नानुशासनसिद्धमिति वाच्यं ।ऽकर्तुरीप्सिततमं कर्मेऽत्यस्यैव तन्त्रेणास्मिन्नपि प्रमाणत्वोपगमात् । कर्तुः ज्ञातुः, क्रिययाज्ञानेन, आप्तुमिष्टतमं ज्ञातव्यत्वेनाभिमतं कर्मेति चात्र पक्षेऽक्षरार्थो वाच्यः । अनिष्टस्य ज्ञातस्य तुऽतथा युक्तं चानीप्सितऽमित्यनेनैव क्रियायुक्तं ज्ञानेन विषयतया संबद्धं अनीप्सितं ज्ञेय

त्वेनेच्छाविषयभूतमपि कर्मेति चार्थोऽमुख्यकर्मत्वपक्षे । व्यवहारस्य ज्ञानफसत्वेऽपि तदाश्रयत्वाभावान्न विषयस्य मुख्यं कर्मत्वं । आत्मनः स्वव्यवहाराश्रयत्वेऽपि तद्धेतुस्वगोचरस्वनिष्ठज्ञानस्य न परसमवेतत्वमिति न तत् । व्यवहारानुगुण्यलक्षणज्ञानफलविवक्षायां तु विषयस्य घटादेर्ज्ञानकर्मत्वं मुख्यं स्यान्नाम । अधिकमर्गे वक्ष्यामः । समर्थितं देहात्मत्वं निगमयतिऽअतऽ इति । बार्हस्पत्याः बृहस्पतिप्रणीतलोकायततन्त्रनिष्ठाश्चार्वाकाः । ऐश्वर्यमहिमक्षयायासुराणां वैदिकश्चद्धाविलोपकं मोहकं तन्त्रं निर्मितं सुरगुरुणासुरेन्द्रानुनयविवशेनेति च प्रसिद्धिः । देहस्यैव चैतन्ये तत्सूत्रं प्रमाणयतिऽतथा चेऽति । पृथिव्यादीति चत्वार्येव भूतानि तत्त्वानि । तैः संहत्य निष्पादिते देहे प्रत्येकमसदपि चैतन्यमुद्भवति । किण्वादिभ्यो निष्पादिते सुराद्रव्य इवापूर्वा मदशक्तिरिति सूत्रार्थः ।

विश्वास-प्रस्तुतिः

अत्र प्रतिविधिर्देहो नात्मा प्रत्यक्षबाधतः ।
न खल्वहमिदङ्कारावेकस्यैकत्र वस्तुनि ॥ ४ ॥
अहं जानामीति प्रत्यगूवृत्तिरहमिति मतिरिदङ्कारगोचराच्छरीरान्नीष्कृष्टमेव स्वविषयमुपस्थापयति । घटादेरिव । पराग्वृत्तिरिदमिति शरीरविषयिणी च शेमुषी स्वविषयमहङ्कारगोचराद्विवेचयति यथायं घट इति । इतरथा स्वपरविभागानुपपत्तेः । न चैकस्मिन्नेव रूपभेदादेवं प्रतीतिः । न हि देवदत्तो दण्डिनमात्मानं दण्ड्ययमिति प्रत्येति ।
अन्यच्च, नियमितबहिरिन्द्रियवृत्तेरवहितमनसोऽहमिति स्वात्मानमवयतः करचरणोदराद्यवयवा न भासन्ते । स्वथीयसि चावयविनि शरीरेऽहमिति मतिगोचरेऽभ्युपगभ्यमानेऽवश्यमवयवप्रतिभासेनाप्यन्वयिना भाष्यं । न ह्यास्ति संभवः अवयवी स्थवीयान्प्रचकास्ति ; अवयवास्तु न केचन प्रथन्त इति । यत्तु त्र्यणुके व्यभिचार इति ; तन्न । वातायनविवरदृश्यनि
र्भागत्रसरेणुव्यतिरेकेण परमाणुस्वीकारे कारणाभावात् । प्रत्यक्षयोग्यावयवस्य तथा प्रतिभासनियमाद्वा न व्यभिचारः । न चावयविनि बहिरन्द्रियग्राह्य एवायं नियम इत्युत्प्रेक्ष्यं । प्रमाणाभावात् । अन्तःकरणस्य च केवलस्यावयविनि वृत्त्यसम्भवाच्च । वायोस्तु रूपाद्यभावात्केवलस्पर्शाधारतयोपलम्भः । तत्रापि तादृशानेकावयवप्रतिभासोऽस्त्येव स्पृश्यमान इव घटादाविति न तेन व्यभिचारः ।
यत्तु स्थूलोऽहं कृशोऽहमिति शरीरेऽहंप्रत्ययो दृश्यत इति ; तदपि पर्यालोचनीयं । तत्राप्यन्तःशरीरमहमाकारमेव किमपि वस्तु अहङ्कारो गोचयति, न पुनश्चाक्षुष इव देहप्रत्ययः स्थौल्यबाल्यादियोगिदेहमात्रं । अत एव ममेदं गृहमितिवात्ममेदं शरीरमिति भेदप्रतिभासो व्यवहारश्च । न ह्यसौ साक्षात्प्रतीतभेदनिमित्तः प्रतायमानः शिलापुत्रकशीरव्यपदेशवदौपचारिको युक्त आश्रियितुं ममात्मेतिवत् । तत्राऽत्मशब्दस्यात्मनि वृत्तैरैकार्थ्यादविवादाच्च युक्तं तथाऽश्रयणं । न चैवमत्र । अतो देहव्यतिरेकिणः चेतनस्य प्रत्यक्षसिद्धत्वाच्चत्संबन्धिनि लाक्षणिको देहेऽहंशब्दप्रयोगः ।
बाह्यविषयेषु परस्परविरुद्धरूपपरिमाणसङ्खयासन्निवेशग्रहणेन व्यतिरेकस्य स्फटत्वातात्मनि तादृशरूपान्तराग्रहणेन देहाभेदप्रतिभासभ्रमोऽविवेकिनां । इतश्च इच्छानुविधायिस्वव्यापारोऽयमात्मा । इच्छयैव हि सङ्कल्पयति स्मरत्यभ्यूहति च । शरीरमपि तदिच्छानुविधायिशयनासनोत्थानादिचेष्टमिति भवत्यभेदभ्रमः; शुक्तिरजतादाविव । प्रणिहितमनसस्तु ज्ञातृतया सिद्ध्यन्तमहमाकारमर्थमनवयवमिदमिति परिस्फुरतः स्थूलादवयविनः शरीरात्पृथगपरोक्षयन्त्येव ।
भवन्ति च जानामीति प्रत्ययः शरीरविषयो न भवति ; अर्थान्तरविषयो वायं ; अप्रकाशमानतदवयवप्रतिभासत्वात्; य एवंप्रकारः स तथा, यथायमिति प्रतिभासः । यच्छरीरविषयं, न तत्
तथा ; यथोभयसं
मतं शरीरज्ञानं । तथा शरीरमहंप्रत्ययगोचरो न भवति, इदमिति गृह्यमाणत्वात्, बाह्येन्द्रियग्राह्यत्वाद्वा, घटादिवदिति ।

मूलम्

अत्र प्रतिविधिर्देहो नात्मा प्रत्यक्षबाधतः ।
न खल्वहमिदङ्कारावेकस्यैकत्र वस्तुनि ॥ ४ ॥
अहं जानामीति प्रत्यगूवृत्तिरहमिति मतिरिदङ्कारगोचराच्छरीरान्नीष्कृष्टमेव स्वविषयमुपस्थापयति । घटादेरिव । पराग्वृत्तिरिदमिति शरीरविषयिणी च शेमुषी स्वविषयमहङ्कारगोचराद्विवेचयति यथायं घट इति । इतरथा स्वपरविभागानुपपत्तेः । न चैकस्मिन्नेव रूपभेदादेवं प्रतीतिः । न हि देवदत्तो दण्डिनमात्मानं दण्ड्ययमिति प्रत्येति ।
अन्यच्च, नियमितबहिरिन्द्रियवृत्तेरवहितमनसोऽहमिति स्वात्मानमवयतः करचरणोदराद्यवयवा न भासन्ते । स्वथीयसि चावयविनि शरीरेऽहमिति मतिगोचरेऽभ्युपगभ्यमानेऽवश्यमवयवप्रतिभासेनाप्यन्वयिना भाष्यं । न ह्यास्ति संभवः अवयवी स्थवीयान्प्रचकास्ति ; अवयवास्तु न केचन प्रथन्त इति । यत्तु त्र्यणुके व्यभिचार इति ; तन्न । वातायनविवरदृश्यनि
र्भागत्रसरेणुव्यतिरेकेण परमाणुस्वीकारे कारणाभावात् । प्रत्यक्षयोग्यावयवस्य तथा प्रतिभासनियमाद्वा न व्यभिचारः । न चावयविनि बहिरन्द्रियग्राह्य एवायं नियम इत्युत्प्रेक्ष्यं । प्रमाणाभावात् । अन्तःकरणस्य च केवलस्यावयविनि वृत्त्यसम्भवाच्च । वायोस्तु रूपाद्यभावात्केवलस्पर्शाधारतयोपलम्भः । तत्रापि तादृशानेकावयवप्रतिभासोऽस्त्येव स्पृश्यमान इव घटादाविति न तेन व्यभिचारः ।
यत्तु स्थूलोऽहं कृशोऽहमिति शरीरेऽहंप्रत्ययो दृश्यत इति ; तदपि पर्यालोचनीयं । तत्राप्यन्तःशरीरमहमाकारमेव किमपि वस्तु अहङ्कारो गोचयति, न पुनश्चाक्षुष इव देहप्रत्ययः स्थौल्यबाल्यादियोगिदेहमात्रं । अत एव ममेदं गृहमितिवात्ममेदं शरीरमिति भेदप्रतिभासो व्यवहारश्च । न ह्यसौ साक्षात्प्रतीतभेदनिमित्तः प्रतायमानः शिलापुत्रकशीरव्यपदेशवदौपचारिको युक्त आश्रियितुं ममात्मेतिवत् । तत्राऽत्मशब्दस्यात्मनि वृत्तैरैकार्थ्यादविवादाच्च युक्तं तथाऽश्रयणं । न चैवमत्र । अतो देहव्यतिरेकिणः चेतनस्य प्रत्यक्षसिद्धत्वाच्चत्संबन्धिनि लाक्षणिको देहेऽहंशब्दप्रयोगः ।
बाह्यविषयेषु परस्परविरुद्धरूपपरिमाणसङ्खयासन्निवेशग्रहणेन व्यतिरेकस्य स्फटत्वातात्मनि तादृशरूपान्तराग्रहणेन देहाभेदप्रतिभासभ्रमोऽविवेकिनां । इतश्च इच्छानुविधायिस्वव्यापारोऽयमात्मा । इच्छयैव हि सङ्कल्पयति स्मरत्यभ्यूहति च । शरीरमपि तदिच्छानुविधायिशयनासनोत्थानादिचेष्टमिति भवत्यभेदभ्रमः; शुक्तिरजतादाविव । प्रणिहितमनसस्तु ज्ञातृतया सिद्ध्यन्तमहमाकारमर्थमनवयवमिदमिति परिस्फुरतः स्थूलादवयविनः शरीरात्पृथगपरोक्षयन्त्येव ।
भवन्ति च जानामीति प्रत्ययः शरीरविषयो न भवति ; अर्थान्तरविषयो वायं ; अप्रकाशमानतदवयवप्रतिभासत्वात्; य एवंप्रकारः स तथा, यथायमिति प्रतिभासः । यच्छरीरविषयं, न तत्
तथा ; यथोभयसं
मतं शरीरज्ञानं । तथा शरीरमहंप्रत्ययगोचरो न भवति, इदमिति गृह्यमाणत्वात्, बाह्येन्द्रियग्राह्यत्वाद्वा, घटादिवदिति ।

अथ देहात्मवादमिरासःऽअत्र प्रतिविधिऽरित्यादिना । अत्र देहस्यात्मत्वे, प्रतिविधिः प्रतिविधानम्, बाधकप्रमाणं । बाधो वा । उपन्यस्यत इति शेषः ।ऽप्रत्यक्षबाधतःऽ इति । इदन्त्वेन ग्रहणमेव हस्तगेहादेरिव देहस्यात्मभेदग्रहलक्षणं तस्यात्मत्वे बाधकमित्यर्थः । एतदेवोपपादयतिऽन खलुऽ इति । अहमिदङ्कारौ अहमिदंप्रत्ययौ । स्वात्मगोचरोऽहंप्रत्ययः, स्वान्यगोचरश्चेदंप्रत्ययः एकस्य पुंस एकस्मिन्नेवार्थे न घटत इत्यर्थः । विवृणोत्येतत्ऽअहं जानामीऽत्यादिना । प्रत्यग्वृत्तिः प्रत्यगर्थात्मविषयिणी । निष्कृष्टं विलक्षणं । पराग्वृत्तिः आत्मान्यविषया । अहङ्कारगोचरात् अहंप्रत्ययविषयात्स्वात्मनः । शिष्टं स्पष्टं ।ऽइतरथेऽति । इतरथा अहमिदंप्रतीत्योर्विलक्षणार्थविषयकत्वाभावे । अयंभावः अहमिति स्वस्मै भासमानः प्रत्यगर्थः स्वात्मा । स्वस्मा इदन्त्वेनं भासमानश्च परागर्थः पर इति स्वपरविभागो हि अहमिदंबुद्धिशब्दाभ्यामेव निरूप्यः । अर्थवैलक्षण्याभावे तयोरयं न घटत इति । अहमर्थस्यैव भवत्वाकारान्तरेण भानमिदन्त्वेनेत्यत्राहऽनहीऽति । प्रत्यक्त्वेनाहमिति भासमानस्यैव स्वात्मनोः दण्डित्वेनेदमिति भानं स्याद्दण्ड्ययमितीत्यर्थः ।

नन्वयमहस्मीत्यादिप्रत्ययो भवत्येव स्वात्मनि । सत्यं । तत्रापपीदंशब्देन पराग्रूपधर्मोल्लेखः । आत्मस्वरूपस्योल्लेखोऽहमिति । तथा च प्रत्यग्वृत्तिरहङ्कारः, पराग्वृत्तिरिदङ्कार इति व्यवस्थायां नानुपपत्तिरिति हार्दं ।

ननु ममेदं वपुरिति ममायमात्मेतिवत्स्यादित्यरुचेराह अन्येच्चे ति । हेत्वन्तरं च देहस्यानात्मत्वेऽस्तीति यावत् । तदेवाह नियमिते ति । निवारितबहिरिन्द्रियप्रवृत्तेर्मानसमहमिति स्वात्मानुसन्धानं न देहगोचरम्, करचरणाद्य

विषयकत्वात् । अवयविनः स्थूलं ग्रहणे कतिपयतदवयवभानस्यावर्जनीयत्वादिति भावः । अवहितमनसः आत्मग्रहणेदंपरमनसः । अवयतः जानतः । स्थवीयान् अतिशयेन स्थूलः । प्रत्यक्षग्राह्यावयवसमवेत इति विवक्षितं । अवयविग्रहमस्य तदवयवगोचरत्वमिति नियमस्य त्र्यणुकग्रहणेऽनैकान्त्यं वारयतिऽवातायनेऽति । जालरन्ध्रप्रविष्टरविकरग्राह्यनिरवयवत्र्यणुकातिरेकेण तदवयवावयवपरमाणुकल्पनायां प्रमाणाभावादित्यर्थः । त्रसरेणोर्निरवयवत्वान्न तद्ग्रूहणे निरुक्तनियमस्य व्यभिचार इति भावः । परमाणुकल्पनामुपगम्याप्याहऽप्रत्यक्षेऽति । प्रत्यक्षयोग्या अवयवा यस्य, तस्यावयविनः अवयवभानव्याप्यभानवत्त्वनियमान्न त्र्यणुकप्रत्यक्षे व्यभिचारः । तदवयवस्यातीन्द्रियत्वादिति भावः ।ऽन चावयविनीऽति । बाह्येन्द्रियजप्रत्यक्ष एवावयविभाननियतत्वमवयवभानस्येति कल्पनं स्वोप्तेक्षणमात्रं । अवयविप्रत्यक्षत्वव्यापकत्वस्यावयवभाने स्वीकारे बाधकोपलम्भो हि बाह्यतत्प्रत्यक्षमात्रविषयकतया नियमसङ्कोचे मानं । तदभावादिति भावः । ननु मनसा केवलमवयवि गृह्यते विनावयवमित्यत एव नियमः सङ्कोचनीय इति चेत्तत्राहऽअन्तकरणस्येऽति । अद्वारीकृतबहिरिन्द्रियस्य मनसः केवलेऽवयवविशेष्ट वा शरीरादौ बाह्यार्थे ग्रहणप्रवृत्तेरसंभवाच्चेत्यर्थः । बाह्यार्थे स्वान्तस्यास्वातन्त्र्यमिति हि तार्किकाः । अतो न मनसा शरीरस्य ग्रहणं घटेत केवलेन । चैतन्यवत्त्वेन तस्याबाह्यत्वान्मनसा ग्रहणं बवेद्विनावयवेनेति तु न कल्पनीयं । तच्चैतन्य एव विगानादिति भावः । निरुक्तनियमस्य वायुस्पार्शनेऽनैकान्त्यं परिहरतिऽवायोस्तुऽ इति । रूपादिमदवयविप्रत्यक्षस्य तदवयवगोचरत्वमिति

नियमे नैव दोषः नीरूपत्वाद्वायोः स्पर्शवत्त्वमात्रेण तस्य स्पार्शनोपगमेऽपीति भावः । वस्तुतः वायुस्पार्शनस्यापि तदवयवगोचरत्वमित्याहऽतत्रापीऽति । अवयविसन्निकर्षे तदवयवसन्निकर्षस्यावर्जनीयत्वाद्योग्यसन्निकृष्टावयवभानस्यावयविभाननियतत्वेनावयवविप्रत्यक्षस्य तदवयवगोचरत्वमिति नियमेऽपि न वायुस्पार्शने

व्यभिचारः । तत्र तदवयवस्यापि भानात्, घटस्पार्शन इव घटावयवस्येति भावः । देहात्मत्वसाधिकां प्रत्यक्षप्रतीतंऽयत्तुंऽ इत्यादिनानूद्य समाधत्तेऽतदपीऽत्यादिना । शरीरान्तर्वर्तमानमहमाकारं अहन्तालक्षणं

प्रत्यगात्मानमेवाहंप्रत्ययो विषयीकरोति । स्थूलोऽहं जानामीत्यहंप्रत्ययो देहद्वारा स्थौल्यान्वितान्तरात्मगोचर एवेति भावः । मानसे प्रत्यये देहभानं तूपनयमर्यादया । स्थूलोऽहं जानामीति व्यवहारेऽपि शरीरवाची स्थूलशब्दस्तत्सबन्धिन्यन्तरात्मन्यौपचारिकः । सिद्धान्ते तु मुख्य एव । शरीरस्य चेतनं प्रत्यपृथक्सिद्धप्रकारत्वात्, अपृथक्सिद्धप्रकारवाचिनां च निष्कर्षकभिन्नानां शब्दानां धर्मिणि मुख्यवृत्तेरुपगमात् । अभ्रान्तीयप्रत्ययव्यवहारयोरित्थं गतिर्निरूपिता । समानाधिकरणप्रत्ययस्य देहवदात्मगोचरत्वे व्यधिकरणप्रत्ययव्यपदेशानुग्रहोऽप्यस्तीत्याहऽअत एवेऽति । ममेदं शरीरमिति भेदव्यपदेशस्य शिलापुत्रकस्य शरीरमितिवदौपचारिकत्वमस्त्वित्याशङ्कां व्युदस्यतिऽन ह्यसाऽविति । प्रतायमानः प्रतन्यमानः विस्तार्यमाणः । प्रचुरं प्रयुज्यमानो लोकेनेति यावत् । प्रचुरव्यपदेशस्यौपचारिकत्वकल्पना न साधीयसीति भावः ।ऽममायमात्मेऽत्यस्य तु मतद्वयेऽपि औपचारिकत्वमगत्या वाच्यमेवेत्याहऽतत्रेऽति । ऐकार्थ्यात् अहमात्मशब्दयोरभिन्नार्थकत्वात् । अविवादाच्च अहमर्थात्मनौरैक्ये विवादाभावाच्च ।ऽन चैवमत्रेऽति । शरीराहंशब्दयोरैकार्थ्यासिद्धेस्तदर्थैक्ये विवादाच्चऽममेदं शरीरंऽमिति नोपचरितार्थं कल्प्यं । किन्तुऽममेदं गृहऽमितिवन्मुख्यार्थमेव स्वीकार्यमिति भावः । देहे चाहंशब्द औपचारिक इत्याहऽअतऽ इति । अहं गच्छामीत्यादावहंशब्द आत्मवति देहे लाक्षणिक इति यावत् । देहात्मभ्रमवतां तु शक्तिभ्रममूलस्तथा प्रयोग इति बोध्यं ।

एवं तर्कबलादहं जानामीति मानसप्रत्यक्षस्य सावयवदेहव्यतिरिक्तात्मपरत्वं व्यवस्थापितं । एवं देहव्यतिरिक्तस्यात्मनो भाने सति कथं देहाभेदभ्रम उदेतीत्यत्राहऽबाह्येऽति । सन्निवेशः आकृतिः अवयव संस्थानं । स्फुटत्वादित्य

स्यानन्तरमभेदभ्रमस्यानुदयेऽपीति शेषः । देहाभेदप्रतिभासश्चासौ भ्रमश्चेति कर्मधारयः । भेदकाकाराग्रहादभेदभ्रमो देहात्मनोरविवेकिनां भेदकाकारग्रहरहितानामित्यर्थः । अयमाशयः यद्यपि देहतो विभिन्नपरिमाण आत्मा । अथापि तत्परिमाणं न प्रत्यक्षं । ज्ञानसुखादि प्रत्यक्षमपि न यावद्देहे तदसंभवग्रहः, तावत्तन्नभेदकं । रूपाद्यप्येवमात्मनि तदसंभवग्रहमन्तरा न भेदकं ।सङ्ख्यादिस्तु साधारमत्वान्न भेदक इति । बाधकस्य भेदककारग्रहस्याभावमुपपाद्य ऐक्यभ्रमे साधकं सादृश्यज्ञानं चोपपादयति इतश्चे ति । आत्मेच्छानुविधायिस्वव्यापारकत्वं देहस्यात्मना तौल्यमित्यर्थः । अभ्यूह ति इति उपसर्गादस्यत्यूह्योर्वेति वाच्य सिति वार्तिकेण वैकल्पिकं परस्मैपदं । अभ्यूहनम्वितर्कणमुत्प्रेक्षणं वा । समानधर्मदर्शनात्प्रसक्तस्यैक्यभ्रमस्य भेदकाकारदर्शनतो निवृत्तिं दर्शयति प्रणिहिते ति । प्रणिधानमवधानं । ज्ञातृतया सिद्ध्यन्तंज्ञातृत्वैकाकारेण प्रकाशमानं । अनवयवम्निरवयवं । आत्मा हि मनोगोचरः, स चेत्सावयवः, तथा गृह्यते । न च तथा गृह्यते । किन्तु ज्ञातृत्वैकाकारः । अतो निरवयवः । एकरूपतयानवयवतया ग्रह एव च भेदकाकारग्रहः । अवहितमनसो निरुक्तपरामर्शवतश्च मनसा देहवैलक्षण्येनात्मनः प्रत्यक्षं भवत्येवेति भावः । प्रणिहितेतिवाक्यं योगिप्रत्यक्षविषयतयापि योजयितुं शक्यते । एवमहं जानामीति प्रत्यक्षस्य देहातिरिक्तात्मविषयत्वं तर्कबलेन व्यवस्थापितं ।

इदमेव प्रयोगारूढं प्रदर्शयति भवन्ति चेति । प्रयोगा इति शेषः । प्रथमप्रयोगे शरीरविषयकत्वाभावः, अनन्तरप्रयोगे शरीरातिरिक्तविषयकत्वं चाहं जानामीत्यपरोक्षस्य प्रदिदर्शयिषितं । उभयत्रापि हेतुरेक एव शरीरावयवाविषयकप्रतिभासत्वरूपः । अन्वय्युदाहरणमुभयत्र य एवम् इति । अयमिति प्रतिभासःघटोऽयमित्यादिप्रतिभासः । आद्ये व्यतिरेक्युदाहरण यच्छरीरे त्यादिना प्रदर्श्यते । प्रत्यक्षपक्षकमुक्त्वा शरीरपक्षकमन्वयिनमाह तथाशरीरम् इति । इदमिति

गृह्यमाणत्वंबाह्यत्वेन गृह्यमाणत्वं । बाह्यत्वमिति फलितो हेतुः ।

विश्वास-प्रस्तुतिः

किं च अपरार्थं स्वमात्मानमात्मार्थेऽन्यच्च जानतः ।
सङ्घातत्वात्परार्थेऽस्मिन्देहे कथमिवात्मधीः ॥५ ॥
सर्वस्य बाह्याभ्यन्तरभोग्यवर्गस्य शब्दसुखादेरात्मार्थतां, भोक्तुश्चात्मनोऽनन्यार्थतां, सर्वस्य शेषितां प्रत्यक्षतः प्रतिपद्यामहे । न च शरीरमनन्यार्थं ;सङ्घातत्वात् । सङ्घाता हि सर्वे परार्था दृष्टाः शयनासनरथादयः ।
न च सङ्घाताः संहतशरीराद्यर्था दृश्यन्त इत्यात्मनोऽपि संहतत्वमापद्यत इति वाच्यं । तथा सति तस्यापि परार्थत्वप्रसङ्गात् । अपरार्थश्चायमात्मा प्रत्यक्षतः प्रकाशत इत्युक्तं । योग्यानुपलम्भबाधितं चात्मनि सङ्घातत्वं ।सङ्घातान्तरार्थत्वे च तस्यापि तथा, ततोऽन्यस्यापि तथेति न व्यवतिष्ठेत । न च व्यवस्थायां सत्यामव्यवस्था युक्ता । न च सङ्घातस्य परार्थत्वे परस्य संहतत्वमपि प्रयोजकं ; भोक्तृतयैवात्मनः स्वार्थसङ्घातं प्रति परत्वोपपत्तेः । व्याप्त्यनुपयोगिनोऽपि दृष्टान्तदृष्टधर्ममात्रस्यानुरोधेनानुमानमिच्छतः सर्वानुमानोच्छेदप्रसङ्गः ।

मूलम्

किं च अपरार्थं स्वमात्मानमात्मार्थेऽन्यच्च जानतः ।
सङ्घातत्वात्परार्थेऽस्मिन्देहे कथमिवात्मधीः ॥५ ॥
सर्वस्य बाह्याभ्यन्तरभोग्यवर्गस्य शब्दसुखादेरात्मार्थतां, भोक्तुश्चात्मनोऽनन्यार्थतां, सर्वस्य शेषितां प्रत्यक्षतः प्रतिपद्यामहे । न च शरीरमनन्यार्थं ;सङ्घातत्वात् । सङ्घाता हि सर्वे परार्था दृष्टाः शयनासनरथादयः ।
न च सङ्घाताः संहतशरीराद्यर्था दृश्यन्त इत्यात्मनोऽपि संहतत्वमापद्यत इति वाच्यं । तथा सति तस्यापि परार्थत्वप्रसङ्गात् । अपरार्थश्चायमात्मा प्रत्यक्षतः प्रकाशत इत्युक्तं । योग्यानुपलम्भबाधितं चात्मनि सङ्घातत्वं ।सङ्घातान्तरार्थत्वे च तस्यापि तथा, ततोऽन्यस्यापि तथेति न व्यवतिष्ठेत । न च व्यवस्थायां सत्यामव्यवस्था युक्ता । न च सङ्घातस्य परार्थत्वे परस्य संहतत्वमपि प्रयोजकं ; भोक्तृतयैवात्मनः स्वार्थसङ्घातं प्रति परत्वोपपत्तेः । व्याप्त्यनुपयोगिनोऽपि दृष्टान्तदृष्टधर्ममात्रस्यानुरोधेनानुमानमिच्छतः सर्वानुमानोच्छेदप्रसङ्गः ।

शरीरपक्षकानात्मत्वसाधकप्रयोगे तृतीयं सङ्घातत्वरूपं हेतुमुपक्षिपति किं चे ति । अपरार्थम् इति । अपरार्थंस्वप्रधानम्, स्वमात्मानमहमर्थभूतमात्मानम्, आत्मार्थेभोक्तृभूताहमर्थात्मार्थे, अन्यच्चपरागर्थजातं च, जानतःविदतः, सङ्घातत्वातवयवसन्निवेशवत्त्वात्, परार्थेस्वभिन्नभोक्तृभोगार्थे, देहेऽस्मिन्, आत्मबुद्धिः कथं जायेतेति श्लोकार्थः ॥ अत्रायं प्रयोगःदेहो नात्मा परार्थत्वाद्रथादिवत् । न च स्वरूपासिद्धिः । सङ्घातत्वाद्देहस्य पारार्थ्यसिद्धेरिति भावः ॥५ ॥

आत्मत्वापरार्थत्वयोः परार्थत्वानात्मत्वयोश्च व्याप्यव्यापकभावं श्लोके पूर्वार्धोक्तं विवृणोति सर्वस्ये ति । आत्मार्थताम्भोक्त्रात्मभोगफलसाधनतां । अनन्यार्थतया फलितं सर्वस्य शेषिताम् इति । सर्वस्य भोग्यस्य भोक्तृत्वेन

स्वामितां प्रधानतामित्यर्थः । शरीरस्यात्मत्वव्यापिकामनन्यार्थतां वारयति नच शरीरम् इति । सङ्घातत्वस्य पारार्थ्येनाविनाभावग्रहस्थलमुदाहरति सङ्घाता ही ति । परार्थाःभोक्तपरभोगार्थः । सङ्घातपरस्य संहतत्वदृष्टेः शरीरपरत्वेनानुमितस्याऽत्मनोऽपि सङ्घातत्वं स्यादित्याशङ्कामनूद्य प्रतिक्षिपति न च सङ्गाता इति । तथा सति ति । आत्मा सङ्घातरूपं संहतपरत्वादित्यनुमाने प्रतितर्कोऽत्र विवक्षितः आत्मा यदि सङ्गातः स्यात्तर्हिपरार्थः स्यादिति । आत्मा न सङ्घातः अपरार्थत्वादिति प्रत्यनुमानं वा । सङ्घातदेहपरत्वेनानुमितस्याऽत्मनः सङ्घातरूपत्वे प्रत्यक्षबाधमप्याह योग्यानुपलम्भे ति । यद्वा अनुमानबलात्प्रसक्तमपि सङ्घातत्वमात्मनः प्रमाणान्तरविषयीकारतो निवर्त्स्यतीत्याह योग्यानुपलम्भेति । शरीरं संहतपरार्थम्, सङ्घातत्वात्खट्वादिवदित्यत्र शरीरभिन्नत्वमुपाधिश्च । न च पक्षभिन्नत्वस्योपाधित्वेऽनुमानविलोपप्रसङ्ग इति वाच्यं । यत्र पक्षे साध्याभावः प्रमाणान्तरेण निश्चितः तत्र वह्नेरनुष्णत्वानुमान इव पक्षभिन्नत्वस्योपाधित्वसंभवात् । प्रकृतेऽपि शरीरात्मवादिनां तदतिरिक्तात्मवादिनां वा संहतपरार्थत्वाभाव एवोपेयते शरीरस्येति तद्भिन्नत्वस्योपाधित्वे न दोष इत्यभिमतं । सङ्घातत्वस्य संहतपरार्थत्वेन न व्याप्तिः । अनवस्थापादकत्वादित्याह सङ्घातान्तरे ति । तस्यापिसाध्यघटकस्यापि सङ्घातस्य, तथा सङ्घातान्तरार्थत्वं । ततोऽन्यस्यापिसाध्यघटकसङ्गातानुमितस्य । सङ्घातान्तरस्यापि, तथासङ्घातान्तरार्थत्वं । न च व्यवस्थायाम् इति । सङ्घातत्वस्य परार्थत्वेन व्याप्तौ इष्यमाणायां व्यवस्थायां संभवत्यां

संहतपरार्थत्वेन तस्य व्याप्तेराश्रयणमनवस्थाप्रयोजकत्वान्न युक्तमिति भावः । ननु भूयःसहचारदर्शनाधीनो हि व्याप्तिग्रहः । स च संहतपरार्थत्वेनैव सङ्घातत्वस्य भवेत्, खट्वादौ तथा दर्शनादित्यत आह न च सङ्घातस्ये ति । परस्य संहतत्वमन्तरैव सङ्घातप्रयोज्यनियतभोगरूपातिशयभाक्त्वेन तं प्रति शेषित्वलक्षणं परत्वं प्राधान्यं संभवतीति परार्थत्वनियमस्य सङ्गात उपपत्तेः सपक्षदृष्टमपि परस्य संहतत्वं नाविनाभावग्रहोपयोगि । संहतपरार्थत्वे साध्ये सङ्घातत्वहेतोरप्रयोजकत्वमिति च भावः । सपक्षे दर्शनमात्रेण व्याप्त्यनुपयोगिसर्वघर्मोपरागेण साध्यस्य पक्षेऽनुमानेऽनुमानाप्रामाण्यप्रसङ्गश्वेत्याह व्याप्त्यनुपयोगिनोऽपी ति । पक्षे पर्वते सपक्षदृष्टमहानसीयत्वकारीषत्वाद्युपरक्तह्नेरनुमानेऽप्रामाण्यप्रसङ्ग इति भावः । धर्ममात्रस्यकृत्स्नस्य धर्मस्य । अनुरोधेनव्यापकतावच्छेदककोटिघटनेन । अनुमानम्पक्षे तावदाकारोपरक्तसाध्यानुमानं । सर्वानुमानोच्छेदप्रसङ्गः अनुमानमात्रप्रामाण्यविलोपप्रसङ्गः । शिष्टं स्पष्टं । एवमहं जानामीत्यादेरहंप्रत्ययस्य प्रत्यक्षरूपस्य देहातिरिक्तविषयत्वं व्यवस्थापितं तर्केण । तथा चाहंप्रत्यय एव देहभेदप्रत्ययरूप इतीदङ्कारगोचरे देहे आत्मभेदोऽपि प्रत्यक्षसिद्ध इत्यवर्णि ।

विश्वास-प्रस्तुतिः

अस्फुटत्वेऽपि भेदस्य शरीरे तदसंभवात् ।
तद्गुणान्तरवैधर्भ्यादपि ज्ञानं न तद्गुणः ॥६ ॥
सर्व एव कार्यद्रव्यगतविशेषगुणः कारणगुणपूर्वक इति कथमतत्पूर्वकः शरीरे चैतन्यगुणः संभवेत्? ।
यत्तु बार्हस्पत्य वचनं पृथिव्यापस्तेजो वायुरिति तत्त्वानि, तेभ्यश्चैतन्यम्, किण्वादिभ्यो मदशक्तिवतिति; तदनुपपन्नं । शक्तेरविशेषगुणत्वेन तथोपपत्तेः । सर्वद्रव्येषु तत्तत्कार्यसमधिगभ्यः तत्प्रतियोगी शक्तयाख्यो गुणः साधारणः । नैवं चैतन्यम्, देहैकगुणत्वाभ्युपगमात् । कार्यत्वे सत्येकविधप्रत्यक्षसिद्धतया च विशेषगुणत्वात् । द्रव्यान्तरसंयोगसमासादितमदशक्तिभिरकार्यभूतैः परमाणुभिर्निजगुणपुरस्कारेण स्वकार्यद्रव्येषु मदशक्तयुत्पादोऽपि नानुपपन्नः । ताम्बूलरागस्तु पूर्वद्रव्यावयवविभागानन्तरं द्रव्यान्तरसंयोगजनितरक्तिमगुणैः कारणैः क्रियते । दृश्यते हि तत्रावयवेष्वपि प्रत्येकं रक्तिमगुणः । नच शरीरावयवेषु प्रत्येकं चैतन्यगुणः प्रज्ञायते प्रतिज्ञायते वा । तदुपगमे च एकशरीर एवानेकचेतनापातादङ्गाङ्गित्वाभावः, प्रतिसन्धानव्यवहारलोपश्च
; देवदत्तदृष्ट इव यज्ञदत्तादेः ।
यत्तु अकारणगुणपूर्वकं चित्ररूपं पटे इति ; तन्न । नानारूपता हि चित्रता । सा च नानारूपैः तन्तुभिः क्रियत इति किमनुपपन्नमिति । प्रत्येकमविद्यमानमपि तच्चित्ररूपं तन्तुषु संहतेषु दृश्यत एव चित्रा इमे तन्तव इति ।संभूय च तेषां पटारम्भकत्वं । एवं तत्कारणेष्वपि तदिति न क्वचिव्द्यभिचारः । न चैकरूपनियमाभावेनावयविनोऽचाक्षुषत्वं ; महच्वैकार्थसमवायिना रूपवत्त्वेनैव चाक्षुषत्वसिद्धेः । अस्तु वा चित्रं नामैको रूपविशेषः । स तु रूपैरेव कारणगतैर्नानाविधैरारभ्यत इति दृष्टं । न चैवमवयववर्तिभिरेव चैतन्यैरवयविनि शरीरे चैतन्यविशेषारम्भः । चितितन्मात्रस्यैव तेष्वसंभवात् । अतो न देहगुणः चैतन्यं । एतेन सुखादयोऽपि शरीरगुणाः प्रत्युक्ताः ।
अपि च दृढ एव शरीरे विरोधिगुणापातमन्तरेण कुसुमविलेपनगन्ध इव निवर्तमानः चैतन्यसुखादिर्न तद्गुणो भवितुमर्हति । न खलु तद्विशेषगुणा रूपादयस्तथा निवर्तन्ते । आत्मनः परेषां च शरीरगुणाः प्रत्यक्षयोग्याः, बाह्येन्द्रियग्राह्याश्च; न च तथा ज्ञानादिरिति नासो तद्गुणः ।

मूलम्

अस्फुटत्वेऽपि भेदस्य शरीरे तदसंभवात् ।
तद्गुणान्तरवैधर्भ्यादपि ज्ञानं न तद्गुणः ॥६ ॥
सर्व एव कार्यद्रव्यगतविशेषगुणः कारणगुणपूर्वक इति कथमतत्पूर्वकः शरीरे चैतन्यगुणः संभवेत्? ।
यत्तु बार्हस्पत्य वचनं पृथिव्यापस्तेजो वायुरिति तत्त्वानि, तेभ्यश्चैतन्यम्, किण्वादिभ्यो मदशक्तिवतिति; तदनुपपन्नं । शक्तेरविशेषगुणत्वेन तथोपपत्तेः । सर्वद्रव्येषु तत्तत्कार्यसमधिगभ्यः तत्प्रतियोगी शक्तयाख्यो गुणः साधारणः । नैवं चैतन्यम्, देहैकगुणत्वाभ्युपगमात् । कार्यत्वे सत्येकविधप्रत्यक्षसिद्धतया च विशेषगुणत्वात् । द्रव्यान्तरसंयोगसमासादितमदशक्तिभिरकार्यभूतैः परमाणुभिर्निजगुणपुरस्कारेण स्वकार्यद्रव्येषु मदशक्तयुत्पादोऽपि नानुपपन्नः । ताम्बूलरागस्तु पूर्वद्रव्यावयवविभागानन्तरं द्रव्यान्तरसंयोगजनितरक्तिमगुणैः कारणैः क्रियते । दृश्यते हि तत्रावयवेष्वपि प्रत्येकं रक्तिमगुणः । नच शरीरावयवेषु प्रत्येकं चैतन्यगुणः प्रज्ञायते प्रतिज्ञायते वा । तदुपगमे च एकशरीर एवानेकचेतनापातादङ्गाङ्गित्वाभावः, प्रतिसन्धानव्यवहारलोपश्च
; देवदत्तदृष्ट इव यज्ञदत्तादेः ।
यत्तु अकारणगुणपूर्वकं चित्ररूपं पटे इति ; तन्न । नानारूपता हि चित्रता । सा च नानारूपैः तन्तुभिः क्रियत इति किमनुपपन्नमिति । प्रत्येकमविद्यमानमपि तच्चित्ररूपं तन्तुषु संहतेषु दृश्यत एव चित्रा इमे तन्तव इति ।संभूय च तेषां पटारम्भकत्वं । एवं तत्कारणेष्वपि तदिति न क्वचिव्द्यभिचारः । न चैकरूपनियमाभावेनावयविनोऽचाक्षुषत्वं ; महच्वैकार्थसमवायिना रूपवत्त्वेनैव चाक्षुषत्वसिद्धेः । अस्तु वा चित्रं नामैको रूपविशेषः । स तु रूपैरेव कारणगतैर्नानाविधैरारभ्यत इति दृष्टं । न चैवमवयववर्तिभिरेव चैतन्यैरवयविनि शरीरे चैतन्यविशेषारम्भः । चितितन्मात्रस्यैव तेष्वसंभवात् । अतो न देहगुणः चैतन्यं । एतेन सुखादयोऽपि शरीरगुणाः प्रत्युक्ताः ।
अपि च दृढ एव शरीरे विरोधिगुणापातमन्तरेण कुसुमविलेपनगन्ध इव निवर्तमानः चैतन्यसुखादिर्न तद्गुणो भवितुमर्हति । न खलु तद्विशेषगुणा रूपादयस्तथा निवर्तन्ते । आत्मनः परेषां च शरीरगुणाः प्रत्यक्षयोग्याः, बाह्येन्द्रियग्राह्याश्च; न च तथा ज्ञानादिरिति नासो तद्गुणः ।

अथ देह आत्मभेदस्याप्रत्यक्षत्वेऽपि तस्यानात्मत्वमचेतनत्वलक्षणमनु मानात्सेत्स्यतीत्याह अस्फुटत्वेऽपी ति । यद्वाननु सङ्घातरूपोऽपि देह एवात्मोपेयते लाघवात् । देहभिन्नसङ्घातत्वमेव भवतु परार्थत्वव्याप्यमित्यत्राह अस्फुटत्वेति । प्रथमावतरणिकायां भेदस्याऽत्मभेदस्य शरीरेऽस्फुटत्वेअप्रत्यक्षत्वेऽपीत्यर्थः । द्वितीयस्यां च परार्थत्वेन शरीर आत्मभेदस्याप्रसिद्धत्वेऽपीत्यर्थः । तदसंभवात् तस्मिन्शरीरे असंभवःउदयायोगः तदसंभवः तस्मात् । यद्वा शरीर इति मध्यमणिन्यायेनोभयान्वयि । तदसंभवात्ज्ञानस्यासंभवादित्यर्थः । अत्र च तच्छब्दयोरवैरूप्यं सह्यं । तद्गुणान्तरे त्यत्र तद्रुण इत्यत्र च तच्छब्देन शरीरस्य

परामर्शनीयत्वात् । शरीरे ज्ञानगुणस्योत्पत्तेरयोगाच्छरीरविशेषगुणान्तरवैधर्म्याच्च न ज्ञानं शरीरविशेषगुण इति कारिकार्थः ॥६ ॥

शरीरे ज्ञानस्यासंभवं तावदुपपादयति सर्व एवे ति । कारणगुणपूर्वकःस्वसजातीयस्वाश्रयसमवायिसमवेतगुणासमवायिहेतुकः । संभवे दिति । शरीरावयवेषु ज्ञानस्याभावात्, भावे वा एकस्मिन्नेव देहेऽनेकचेतनप्रसङ्गात्न कारणगुणपूर्वकं शरीरे चैतन्यं भवेत् । विशेषगुणत्वादकारणगुणपूर्वकत्वमपि देहे ज्ञानस्यासंभवीति भावः । शक्तेरिति । सामान्यगुणत्वेन शक्तेरकारणगुणपूर्वकत्वमुपपद्यते । सर्वद्रव्यवृत्तित्वाच्च सामान्यगुणत्वं । दृश्यतत्तत्कार्येणानुमेयः तत्प्रति योगी तत्तत्कार्येण निरूप्यस्वरूपः प्रयोजकत्वेन शक्तयाख्यो गुणः सर्वस्मिन्नपि द्रव्ये तत्तत्कार्यप्रतिनियतोऽस्तीति च शक्त्यः सर्वभावानामचिन्त्यज्ञानगोचराः इति पुराणरत्नवचनतोऽवगम्यत इति भावः । नैवम् इति । नैवंन सामान्यगुणो ज्ञानं । किन्तु शरीर एवोपगमाद्विशेषगुणः । द्रव्यत्वन्यूनवृत्तिगुणत्वं च तत्त्वं । सिद्धान्तप्रक्रिययेदं । सिद्धान्ते परत्वादि च न गुणान्तरं । क्षणसंबन्धाधिक्यादिनैव

परत्वादिव्यवहारनिर्वाहादिति भावः । वैशेषिकप्रक्रिययाप्याह कार्यत्वेसती ति । ज्ञानं विशेषगुणः कार्यत्वे सति एकविधप्रत्यक्षविषयत्वाद्रूपादिवत् । सङ्ख्यादेर्द्वीन्द्रियग्राह्यत्वात्तत्र व्यभिचारवारणाय एकविधेति प्रत्यक्षविशेषणं । प्रभाभित्तिसंयोगे व्यभिचारवारणाय एकविधप्रत्यक्षविषयजातिमत्त्वं वक्तव्यं । संयोगत्वजातेर्द्वीन्द्रियग्राह्यत्वान्न दोषः । आत्मनो मानसप्रत्यक्षविषयत्वात्तत्र व्यभिचारवारणाय कार्यत्वे सतीति । एवमपि प्रभात्वजातिस्वीकारे प्रभायां, वायोः स्पार्शनोपगमे वा वायौ व्यभिचारवारणाय एकविधप्रत्यक्षग्राह्यजातीयगुणत्वादिति वक्तव्यं । गुणत्वप्रवेशे च कार्यत्वे सतीति चिन्त्यप्रयोजनमिति बोध्यं । विशेषगुणलक्षणे च ज्ञानादिभिन्नत्वं न दातुं शक्यं ज्ञानादेर्विशेषगुणत्वे प्रामाणिके सतीति च भावः । सङ्घातविशेषावयविवादे तु अवयवेषु चैतन्याभावादेव देहस्य

चैतन्यं न संभवतीति चानुसन्धेयमत्र । ननु रसविशेषो गन्धविशेषो वा मादको मदशब्दवाच्यः । स च विशेषगुणो न कारणगुणपूर्वक इति कार्यद्रव्यविसेषगुणस्य कारणगुणपूर्वकत्वनियमो दुर्वच इत्यत्राऽह द्रव्यादीना मीति । किण्वादीनां सम्मर्दनादिनाव्द्यणुकपर्यन्तनाशे स्वतन्त्रैः परमाणुभिर्द्रव्यान्तरावयवसंश्लेषजनितमदैरारब्धे सुराद्रव्ये कारणगुणपूर्वक एव गुण इति भावः । अथ ताम्बूलरसरागेऽनैकान्त्यमुक्तनियमस्य परिहरति ताम्बूले ति । स्पष्टोर्ऽथः । न च शरीरे ति । प्रज्ञायतेउपलभ्यते । प्रतिज्ञायतेसाध्यते । देहावयवेषु चैतन्ये साधकाभावमुक्त्वा बाधकमप्याह तदुपगम इति । अङ्गाङ्गित्वाभावः नियाम्यनियामकभावलक्षणगुणप्रधानभावाभावः । एकचेतननियाम्यत्वे हि शरीरावयवानां व्यवहाराविसंवादो घटते । तेषामेव चेतनत्वे तु परस्परानियम्यतया परस्परवार्तानभिज्ञतया च व्यवहारविसंवादः प्रसज्यत इति भावः । प्रतिसन्धानेति । यमद्राक्षं तं स्पृशामीत्यादिप्रतिसन्धानस्य तन्मूलव्यवहारस्य च विलोपः प्रसज्यते । अवयवचैतन्ये द्रष्टुः स्प्रष्टुश्चान्यान्यत्वादिति भावः । अनिष्टापत्तिरिष्टहानिश्चात्रोक्ते पदद्वयेन । नानारूपताविभिन्नजातीयरूपसमवीयिता । विजातीयरूपेषु तन्तुषु संहतेषु चित्रप्रतीतिमाह प्रत्येकम् इति । एवम् इति । तत्कारणेष्वपिचित्रपटकारणेषु तन्तुष्वपि । तत्चित्रं रूपं । एकरूपनियमाभावेने ति । अव्याप्यवृत्तिनानारूपवतिचित्रपटे व्याप्यवृत्त्येकरूपाभावेनेत्यर्थः । महत्त्वैकार्थे ति । लौकिकविषयतया द्रव्यचाक्षुषे सामानाधिकरण्येन

महत्त्वविशिष्टोद्भूतरूपस्य समवायेन हेतुत्वसंभवे हेतुतावच्छेदककोटौ व्याप्यवृत्तित्वविशेषणे प्रयोजनाभावः । तथा च चित्रपटस्य न चाक्षुषत्वानुपपत्तिरिति भावः । रूपस्य व्याप्यवृत्तित्वनियमेऽप्याह अस्तु वे ति । न चैवम् इति । तन्तुगतविविधरूपैः पटे चित्ररूपारम्भवदवयवगतैरनुद्भूतचैतन्यैर्देहे उद्भूतचैतन्यारम्भोऽस्त्विति च न शङ्क्यं । चितितन्मात्रस्यैवचैतन्यसामान्यस्यैव मानाभावेन देहावयवेष्वसंभवात् । शरीरस्य चैतन्येतदवयवेषु चैतन्यकल्पना, तत्कल्प

नायामेव शरीरे चैतन्यसिद्धिरित्यन्योऽन्यसंश्रयाश्चेति भावः । एतेने ति । ज्ञानस्येव सुखादेरपि विशेषगुणस्य न शरीरधर्मत्वसंभव इति भावः । एवं शरीरे तदसंभवां दिति व्याख्यातं ।

अथ तद्गुणान्तरवैधर्म्या दित्येतद्विवृणोति अपि चे ति । विरोधिगुणापातमन्तरापूर्वगुणनिवर्तकगुणप्रसङ्गं विना । कुसुमविलेपनगन्धः स्त्रक्चन्दनगन्धः । न खलु त दिति । अयं भावःअग्निसंयोगेन रूपपरावृत्तावपि तदप्रसङ्गे रूपस्य यावद्द्रव्यभावित्वं दृष्टं । न च ज्ञानादि स्थिरमेवं । न चोत्तरोत्तरविशेषगुण एव पूर्वपूर्वज्ञानादिविरोधीति वाच्यं । एवमपि अन्त्यस्य चिरमवस्थानप्रसङ्गादिति । अयावद्द्रव्यभावित्त्वं ज्ञानादेः शरीरविशेषगुणान्तरतो वैधर्म्यमित्युक्तं भवति । अथ वैधर्म्यान्तरं द्विधाऽह आत्मन इति । स्वात्ममात्रग्राह्यत्वं मनोमात्रग्राह्यत्वं च ज्ञानादेः शरीरविशेषगुणान्तरवैधर्म्यमिति फलितं । रूपादयो हि शरीरगुणाः स्वपरग्राह्या बहिरिन्द्रियग्राह्याश्च । न च तथा ज्ञानादी ति । अत्र प्रयोगःज्ञानं न शरीरविशेषगुणः अयावद्द्रव्यभावित्वान्मनोमात्रग्राह्यत्वाद्वा यन्नैवं तन्नैवं यथा रूपादीति । एवं ज्ञानस्य शरीरधर्मत्वाभावसाधनेन शरीरस्यात्मत्वं प्रतिक्षिप्तं भवति । यथादेहो नात्मा आज्ञातृत्वाद्धटादिवदिति ।

विश्वास-प्रस्तुतिः

किञ्चौत्पत्तिमत्त्वात्सन्निवेशविशेषतः ।
रूपादिमत्त्वाद्भूतत्वाद्देहो नात्मा घटादिवत् ॥७ ॥
सच्छिद्रत्वाददेहित्वाद्देहत्वान्मृतदेहवत् ।
इत्यादिसाधनैर्न्याय्यैर्निषेध्या वर्ष्मणश्चितिः ॥८ ॥
एवं प्रत्यक्षविरोधात्, अन्वयमुखेन साध्यमुपस्थापद्भिरुदीरितसाधनैरपहृतविषयतया इन्द्रियाश्रयत्वादिव्यतिरेकिहेतवो न साध्यमुपस्थापयितुमीशते ।
(इति देहात्मवादनिरासप्रकरणम्)
सन्तु तर्हीन्द्रियाण्येवात्मा । न च तानीदन्तया प्रथन्ते; येन देहवदह
ङ्कारगोचराद्बहिष्क्र्रियेरन् । नापि तथोद्भूतरूपादिगुणानि स्थूलानि; येन तत्प्रतिभास इवेन्द्रियगोचरत्वेऽहंप्रत्ययस्य रूपावयवादिप्रतीतिः प्रसज्येत । तव्द्यापारफलं च ज्ञानं तद्गामि युक्तं स्नानाध्ययनादिफलवत् । अत एव सत्यपताः द्रष्टुश्चक्षुषः इति ।
(इतीन्द्रियात्मत्वपूर्वपक्षप्रकरणम्)
तन्न । विकल्पासहत्वात् । तथा हिकिं प्रत्येकमिन्द्रियाणि चेतनानि, संभूय वा? । यदि प्रत्येकम्, इन्द्रियान्तरदृष्टस्येन्द्रियान्तरेण प्रतिसन्धानं न स्यात् । अस्ति च तत् यमहमद्राक्षं तमहंस्पृशामीति । अत एव न संभूयापि चेतनत्वं । न हि पञ्चभिरिन्द्रियैः संभूयैकं वस्त्वनुभूयतेऽनुसन्धीयते वा । एकेन्द्रियविगमे च प्रायणप्रसङ्गश्च । इन्द्रियचैतन्ये च तत्तदिन्द्रियापाये तत्तदिन्द्रियार्थस्मरणमपि न भवेत् । न च तव्द्यापारफलतया तत्समवायित्वं ज्ञानस्य । शस्त्रादिव्यापारजन्मनोऽपि पापादेः परसमवायित्वात् । अन्यथा च प्रष्टुर्मृत्युपपत्तिं शरणागतपरित्यागस्य नृशंसतां चाऽलोच्य सत्यतपसस्तथा वचनं ।
(इतीन्द्रियात्मवादनिरासप्रकरणम्)
अस्तु तर्हि मन एव चेतनं । तथा सति हि पूर्वोक्ता दोषाः परिहृता भवन्ति । तद्धि सर्वेन्द्रियाध्यक्षं प्रज्ञायते प्रतिज्ञायते च । उपपद्यते चेन्द्रियान्तरेण प्रतिसन्धानं ; दर्शनानुसन्धानाधारस्य मनस एकत्वात् । तत्तदिन्द्रियापायेऽपि स्मरणमप्युपपद्यत एव, मनसो नित्यत्वात् ।
(इति मन आत्मत्वपूर्वपक्षप्रकरणम्)
तदपि न; करणत्वाच्चक्षुरादिवत् । बाह्यान्तरसकलविषयसंवेदनकरणतया हि मनः प्रकल्प्यते । बाह्येन्द्रियेषु यथायथं निजविषयसन्निकर्षभागिष्वपि यतो न युगपदेव सर्वे विषयाः प्रतीयन्ते, अतोऽवगच्छामःअस्ति
किञ्चिदपरमपि साधनम्, यत्साहायकविरहान्न सर्वे प्रकाशन्ते, कश्चिदेवैकः प्रतीयते इति । तथा सुखादिसंवेदनान्यपि करणवन्ति, क्रियात्वात्, संवेदनत्वाद्वा, रूपादिज्ञानवदिति । तदेवं ज्ञानकरणतयावगतस्य मनसः कथमिव ज्ञाने कर्तृत्वं ? । स्वातन्त्र्यलक्षणं हि तत् । तच्च स्वच्छन्दानुरोधेन साध्यसिद्ध्यनुगुणोपकरणसंपादनसामर्थ्यं ; स्वसमवेतमेव वा गुणान्तरं तन्त्रीकृत्य प्रवृत्तिः । करणत्वं तु पराधिष्ठानाधीनव्यापारतारूपपार तन्त्र्यनियतं साधकतमत्वमिति कथमिवैकत्र मनसि परस्परविरुद्ध तदुभयधर्मसंबन्धं प्रतिपद्येमहि ? । अथ तदपि मनः करणान्तरेण स्मरणादिषु कर्तृभावमनुभवति, तथा सति संज्ञामात्रे विवादः । य एव हि चक्षुरादिभी रूपादिनान्तरकरणेन च सुखादींश्चेतयते, स एवाऽत्मा । तस्मिन्नेव चेत्मनःसंज्ञा निवेश्यते, कामं निवेश्यतां । न नः किञ्चिद्धीनं । किन्तु तदा सर्वलौकिकव्यवहारो बाध्येतेत्यलमनेन ।
(इति मन आत्मवादखण्डनप्रकरणम्)
आह किमिदं मनो नाम ? । ननूक्तमान्तरं ज्ञानकरणं द्रव्यमिति । किं पुनरस्य साधनं ? । ननुक्तं युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति । उक्तं नाम; तथापि कथं तत्त्वान्तरसिद्धिः ? । कल्पयित्वापि हि तत्युगपत्स्मरणानुत्पत्त्युपपत्तयेऽवश्याश्रयणीयमेव निमित्तान्तरं । सन्ति हि युगपदस्य स्मर्तृर्नानार्थानुभवभाविताः संस्काराः । अथ च न सर्वे स्मर्यन्ते । किञ्चिदेव कदाचित्स्मर्यते । संस्कारोन्मेषहेतूपनिपातक्रमात्तथात्वमिति चेत्, एवमपि प्रणिधानमात्रोद्बोधनीयसंस्कारस्य स्मृतियौगपद्यमापद्येत । यावदनुभूतसकलविषयसुस्मूर्षया सर्वतः प्रत्याहृतचेतसः साधारण्येन प्रणिदधयोऽपि न सर्व एवार्थाः स्मृतिमधिरोहन्ति । यदि तु शुभाशुभरूपतया स्मरणानामदृष्टवशाव्द्यवस्था, क्रमज्ञानस्वाभाव्याद्वा
आत्मनः ; तथा सति बहिरिन्द्रियेषु च यथा
यथं स्वविषयसंप्रयुक्तेषु तथैव युगपज्ज्ञानानुत्पत्तिरुपपद्यत इति कृतमिन्द्रियान्तरेण ।
स्यान्मतम् कादाचित्कस्य सुखादेरात्मसमवायिनो बाह्यविषयादृष्टादिनिमित्तकारणस्यासमवायिकारणेन भाव्यं । तच्चात्ममनः सन्निकर्ष इति मनोद्रव्यसिद्धिरिति । तदसत् । सुखदुःखादिपूर्वकालजन्मनोऽभिमतानभिमतविषयसंपर्कजज्ञानस्याऽत्मसमवायिन एवासमवायिकारणत्वात् । तस्य च विषयसंप्रयुक्तेन्द्रियसंप्रयोग एवाऽत्मसमवेतोऽसमवायिकारणं । तद्धेतुरपीन्द्रियव्यापारः प्रयत्नमदृष्टं चाऽत्मसमवेतमपेक्षमाणादात्मेन्द्रियसान्निकर्षादसमवायिकारणात् । प्रयत्नस्य तु स्वपूर्वक्षणवर्ति कर्तव्यताज्ञानं । प्रयत्न एव त्वदृष्टस्यापीति नात्मविशेषगुणानां बुद्धिसुखदुःखेच्छादीनामसमवायिकारणसापेक्षतयापि द्रव्यान्तरपरिकल्पनं न्याय्यं ।
यत्तुनित्यद्रव्यविशेषगुणस्य द्रव्यान्तरसंयोग एवासमवायिकारणम्, पार्थिवपरमाणुष्वग्निसंयोगादसमवायिकारणाद्रूपोत्पत्तेरिति; तदपि स्थवीयः । पार्थिवपरमाणुषु रूपादयो दहनसंयोगादिति कृतोऽवगतं ? । कार्यद्रव्ये तथा दर्शनादिति चेत्, इह वा तह्रि किं न दृश्यते इष्टानिष्टप्राप्त्यवगमानन्तरं सुखादिर्जायत इति ? । दृष्टकारणव्यभिचारे हि कारणान्तरानुमानावसरः । न चेहास्ति व्यभिचारः । अतः प्रसिद्धकारणभावेष्वेव यत्र कार्यसमवायः तत्समवायिकारणम्, यत्तु तत्प्रत्यासन्नं तदसमवायि, यदन्यत्तन्निमित्तिमिति व्यवस्थाश्रयणमुचितं । न त्वनपेक्षिताप्रसिद्धद्रव्यान्तरसंयोगाभ्युपगमेन तस्यासमवायिकारणत्वाश्रयणं । कारणान्तरानुपलब्धेः, दृष्टानुसाराच्चाणुगतरूपादौ तथाभ्युपगमः । इह तु तद्विपर्ययः प्रदार्शित एव । एवमपि व्याप्तिबलेन यदि द्रव्यान्तरसंयोगोऽनुमातव्यः, स तर्हि स्पर्शवद्द्रव्यसमवेतो भौतिक एव चोपलब्ध इति प्रसिद्धदेहादिसंयोग एवानुमानपर्यवसानान्न नवम
द्रव्यसिद्धिः ।
अथोच्येतभौतिकत्वे हि मनसः पृथिव्याद्यन्यतमत्वेन भवितव्यं । तच्चानुमानान्तरैर्व्यतिरेकमापादयद्भिः प्रत्यासिद्धं । तथा हिन पार्थिवं मनः रसावगमनिमित्तेन्द्रियत्वाद्रसनावत् । न पाथसीयम्, गन्धग्रहणनिमित्तोन्द्रियत्वाक्घ्राणवत् । एवमतैजसत्वाद्यपि तत्तदिन्द्रियागोचरग्रहणनिमित्ततया शक्याध्यवसानमित्यभौतिकत्वं मनस इति । तदनुपपन्नं । धर्मिविशेषविपरीतसाधनात् । रसावगमनिमित्तेन्द्रियत्वमपार्थिवत्वमिव पाथसीयत्वमपि समर्थयति । एवं साधनान्तराण्यपि भूतान्तरव्यतिकेरमिवाऽमीयभूतभावमापादयन्ति । अथ शब्दस्पर्शरूपरसगन्धेषु यद्गुणग्राहि यदिन्द्रियम्, तदेव तद्गुणकभूतारब्धम्; हन्त तर्हि तदेव तदितरभूतव्यतिरेकितयाप्यवगतमिति न तदवगमकतामात्रेणाभिमतव्यतिरेकसिद्धिः । अपि च शब्दादिगुणावगमसाधारणसाधनतया शरीरमिव पाञ्चभौतिकम्, एकद्वित्रादिमयं वा इतरभूतसंसृष्टमस्तु मनः । यथाऽम्नायते अन्नमयं हि सोम्य मन इति । तन्न तत्प्रकृतित्वप्रतिपादनपरम्, अपितु तदधीनवृत्तितामात्रप्रदर्शनार्थं आपोमयः प्राणः इत्यादिवत् । अत एवापवर्गदशायामपि मनोऽनुवृत्तिः । दर्शितं हि तत्रैवाष्टमे मनसैतान्कामान्पश्यन्रमते मनोऽस्य दैवं चक्षुरिति । तथा परस्याश्च देवतायाः सोऽन्यं कामं मनसा ध्यायीतेति महोपनिषदि । मनसैव जगत्सृष्टिमिति च पुराणे । उच्यतेसत्यमेवं । द्रव्यान्तरपरिकल्पनातो वरमेवं वाऽश्रयणमित्युक्तं । परमार्थतस्तु न भौतिकम्, नापि नवमं द्रव्यं । क्व तर्हीदानीं मनःशब्दः ? । बुद्धावेव । अत एव हि बुद्धिमान्मनस्वीति व्यपदिश्यते । मनसोऽवस्थाभैदाश्च द्रागेवापरोक्ष्यन्ते क्षुभितं मे मनः, प्रसन्नं मे मन इति । एवं च

मनसः करणतया व्यपदेशो बुद्ध्यहङ्कारयोरिव वृत्तिभेदप्रदर्शनपरः पूर्वेषामिति ।
उच्यतेयदि बुद्धिरेव मनः ; यदि वा द्रव्यान्तरम्; उभयधापि तस्य न चेतनत्वमिति किमनेनाप्रतिज्ञातस्वरूपविमर्शेन ।
(इति प्रासङ्गिकमनस्तत्त्वविमर्शप्रकरणम्)
अस्तु तर्हि प्राण एवाऽत्मा, तथा सति तदन्वयिनि शरीरे सात्मकत्वप्रतीतिः, तद्विरहिणि निरात्मकत्वप्रतीतिश्चोपपद्येयातां । देहादुत्क्रान्तिर्लोकान्तरगमनं देहान्तरसञ्चारश्चोपपद्यन्तेतराम्,
गत्वरस्वाभाव्यात्प्राणस्य । इतरथा परममहतो महतश्च स्पर्शविरहिणः परिस्पन्दानुपपत्तेरुत्क्रान्तिगत्यागतिश्रुतयो भाक्ताः स्युः ।
(इति प्राणात्मत्वपूर्वपक्षप्रकरणम्)
इदमप्यसत्; वायुत्वादेव बाह्यवायुवत्प्राणस्य चैतन्यानुपपत्तेः । वृत्तिहीनेऽप्यात्मनि सुषुप्तौ प्राणस्य वृत्तिमत्त्वाच्च । तद्वृत्त्या हि सुप्तस्यापि सप्तधातुभावेनाशितपीतद्रव्यपरिणामः ; श्वासप्रश्वासौ च । तनुतरतेजोबन्नानुविद्धः कौष्ठ्यमारुतो हि प्राणः । स च कण्ठमुखनासाभ्यन्तरे बहिश्च रेचितः त्वचा स्पृश्यमानो घटादिरिव स्फुटमनात्मतया चकास्ति ।

मूलम्

किञ्चौत्पत्तिमत्त्वात्सन्निवेशविशेषतः ।
रूपादिमत्त्वाद्भूतत्वाद्देहो नात्मा घटादिवत् ॥७ ॥
सच्छिद्रत्वाददेहित्वाद्देहत्वान्मृतदेहवत् ।
इत्यादिसाधनैर्न्याय्यैर्निषेध्या वर्ष्मणश्चितिः ॥८ ॥
एवं प्रत्यक्षविरोधात्, अन्वयमुखेन साध्यमुपस्थापद्भिरुदीरितसाधनैरपहृतविषयतया इन्द्रियाश्रयत्वादिव्यतिरेकिहेतवो न साध्यमुपस्थापयितुमीशते ।
(इति देहात्मवादनिरासप्रकरणम्)
सन्तु तर्हीन्द्रियाण्येवात्मा । न च तानीदन्तया प्रथन्ते; येन देहवदह
ङ्कारगोचराद्बहिष्क्र्रियेरन् । नापि तथोद्भूतरूपादिगुणानि स्थूलानि; येन तत्प्रतिभास इवेन्द्रियगोचरत्वेऽहंप्रत्ययस्य रूपावयवादिप्रतीतिः प्रसज्येत । तव्द्यापारफलं च ज्ञानं तद्गामि युक्तं स्नानाध्ययनादिफलवत् । अत एव सत्यपताः द्रष्टुश्चक्षुषः इति ।
(इतीन्द्रियात्मत्वपूर्वपक्षप्रकरणम्)
तन्न । विकल्पासहत्वात् । तथा हिकिं प्रत्येकमिन्द्रियाणि चेतनानि, संभूय वा? । यदि प्रत्येकम्, इन्द्रियान्तरदृष्टस्येन्द्रियान्तरेण प्रतिसन्धानं न स्यात् । अस्ति च तत् यमहमद्राक्षं तमहंस्पृशामीति । अत एव न संभूयापि चेतनत्वं । न हि पञ्चभिरिन्द्रियैः संभूयैकं वस्त्वनुभूयतेऽनुसन्धीयते वा । एकेन्द्रियविगमे च प्रायणप्रसङ्गश्च । इन्द्रियचैतन्ये च तत्तदिन्द्रियापाये तत्तदिन्द्रियार्थस्मरणमपि न भवेत् । न च तव्द्यापारफलतया तत्समवायित्वं ज्ञानस्य । शस्त्रादिव्यापारजन्मनोऽपि पापादेः परसमवायित्वात् । अन्यथा च प्रष्टुर्मृत्युपपत्तिं शरणागतपरित्यागस्य नृशंसतां चाऽलोच्य सत्यतपसस्तथा वचनं ।
(इतीन्द्रियात्मवादनिरासप्रकरणम्)
अस्तु तर्हि मन एव चेतनं । तथा सति हि पूर्वोक्ता दोषाः परिहृता भवन्ति । तद्धि सर्वेन्द्रियाध्यक्षं प्रज्ञायते प्रतिज्ञायते च । उपपद्यते चेन्द्रियान्तरेण प्रतिसन्धानं ; दर्शनानुसन्धानाधारस्य मनस एकत्वात् । तत्तदिन्द्रियापायेऽपि स्मरणमप्युपपद्यत एव, मनसो नित्यत्वात् ।
(इति मन आत्मत्वपूर्वपक्षप्रकरणम्)
तदपि न; करणत्वाच्चक्षुरादिवत् । बाह्यान्तरसकलविषयसंवेदनकरणतया हि मनः प्रकल्प्यते । बाह्येन्द्रियेषु यथायथं निजविषयसन्निकर्षभागिष्वपि यतो न युगपदेव सर्वे विषयाः प्रतीयन्ते, अतोऽवगच्छामःअस्ति
किञ्चिदपरमपि साधनम्, यत्साहायकविरहान्न सर्वे प्रकाशन्ते, कश्चिदेवैकः प्रतीयते इति । तथा सुखादिसंवेदनान्यपि करणवन्ति, क्रियात्वात्, संवेदनत्वाद्वा, रूपादिज्ञानवदिति । तदेवं ज्ञानकरणतयावगतस्य मनसः कथमिव ज्ञाने कर्तृत्वं ? । स्वातन्त्र्यलक्षणं हि तत् । तच्च स्वच्छन्दानुरोधेन साध्यसिद्ध्यनुगुणोपकरणसंपादनसामर्थ्यं ; स्वसमवेतमेव वा गुणान्तरं तन्त्रीकृत्य प्रवृत्तिः । करणत्वं तु पराधिष्ठानाधीनव्यापारतारूपपार तन्त्र्यनियतं साधकतमत्वमिति कथमिवैकत्र मनसि परस्परविरुद्ध तदुभयधर्मसंबन्धं प्रतिपद्येमहि ? । अथ तदपि मनः करणान्तरेण स्मरणादिषु कर्तृभावमनुभवति, तथा सति संज्ञामात्रे विवादः । य एव हि चक्षुरादिभी रूपादिनान्तरकरणेन च सुखादींश्चेतयते, स एवाऽत्मा । तस्मिन्नेव चेत्मनःसंज्ञा निवेश्यते, कामं निवेश्यतां । न नः किञ्चिद्धीनं । किन्तु तदा सर्वलौकिकव्यवहारो बाध्येतेत्यलमनेन ।
(इति मन आत्मवादखण्डनप्रकरणम्)
आह किमिदं मनो नाम ? । ननूक्तमान्तरं ज्ञानकरणं द्रव्यमिति । किं पुनरस्य साधनं ? । ननुक्तं युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति । उक्तं नाम; तथापि कथं तत्त्वान्तरसिद्धिः ? । कल्पयित्वापि हि तत्युगपत्स्मरणानुत्पत्त्युपपत्तयेऽवश्याश्रयणीयमेव निमित्तान्तरं । सन्ति हि युगपदस्य स्मर्तृर्नानार्थानुभवभाविताः संस्काराः । अथ च न सर्वे स्मर्यन्ते । किञ्चिदेव कदाचित्स्मर्यते । संस्कारोन्मेषहेतूपनिपातक्रमात्तथात्वमिति चेत्, एवमपि प्रणिधानमात्रोद्बोधनीयसंस्कारस्य स्मृतियौगपद्यमापद्येत । यावदनुभूतसकलविषयसुस्मूर्षया सर्वतः प्रत्याहृतचेतसः साधारण्येन प्रणिदधयोऽपि न सर्व एवार्थाः स्मृतिमधिरोहन्ति । यदि तु शुभाशुभरूपतया स्मरणानामदृष्टवशाव्द्यवस्था, क्रमज्ञानस्वाभाव्याद्वा
आत्मनः ; तथा सति बहिरिन्द्रियेषु च यथा
यथं स्वविषयसंप्रयुक्तेषु तथैव युगपज्ज्ञानानुत्पत्तिरुपपद्यत इति कृतमिन्द्रियान्तरेण ।
स्यान्मतम् कादाचित्कस्य सुखादेरात्मसमवायिनो बाह्यविषयादृष्टादिनिमित्तकारणस्यासमवायिकारणेन भाव्यं । तच्चात्ममनः सन्निकर्ष इति मनोद्रव्यसिद्धिरिति । तदसत् । सुखदुःखादिपूर्वकालजन्मनोऽभिमतानभिमतविषयसंपर्कजज्ञानस्याऽत्मसमवायिन एवासमवायिकारणत्वात् । तस्य च विषयसंप्रयुक्तेन्द्रियसंप्रयोग एवाऽत्मसमवेतोऽसमवायिकारणं । तद्धेतुरपीन्द्रियव्यापारः प्रयत्नमदृष्टं चाऽत्मसमवेतमपेक्षमाणादात्मेन्द्रियसान्निकर्षादसमवायिकारणात् । प्रयत्नस्य तु स्वपूर्वक्षणवर्ति कर्तव्यताज्ञानं । प्रयत्न एव त्वदृष्टस्यापीति नात्मविशेषगुणानां बुद्धिसुखदुःखेच्छादीनामसमवायिकारणसापेक्षतयापि द्रव्यान्तरपरिकल्पनं न्याय्यं ।
यत्तुनित्यद्रव्यविशेषगुणस्य द्रव्यान्तरसंयोग एवासमवायिकारणम्, पार्थिवपरमाणुष्वग्निसंयोगादसमवायिकारणाद्रूपोत्पत्तेरिति; तदपि स्थवीयः । पार्थिवपरमाणुषु रूपादयो दहनसंयोगादिति कृतोऽवगतं ? । कार्यद्रव्ये तथा दर्शनादिति चेत्, इह वा तह्रि किं न दृश्यते इष्टानिष्टप्राप्त्यवगमानन्तरं सुखादिर्जायत इति ? । दृष्टकारणव्यभिचारे हि कारणान्तरानुमानावसरः । न चेहास्ति व्यभिचारः । अतः प्रसिद्धकारणभावेष्वेव यत्र कार्यसमवायः तत्समवायिकारणम्, यत्तु तत्प्रत्यासन्नं तदसमवायि, यदन्यत्तन्निमित्तिमिति व्यवस्थाश्रयणमुचितं । न त्वनपेक्षिताप्रसिद्धद्रव्यान्तरसंयोगाभ्युपगमेन तस्यासमवायिकारणत्वाश्रयणं । कारणान्तरानुपलब्धेः, दृष्टानुसाराच्चाणुगतरूपादौ तथाभ्युपगमः । इह तु तद्विपर्ययः प्रदार्शित एव । एवमपि व्याप्तिबलेन यदि द्रव्यान्तरसंयोगोऽनुमातव्यः, स तर्हि स्पर्शवद्द्रव्यसमवेतो भौतिक एव चोपलब्ध इति प्रसिद्धदेहादिसंयोग एवानुमानपर्यवसानान्न नवम
द्रव्यसिद्धिः ।
अथोच्येतभौतिकत्वे हि मनसः पृथिव्याद्यन्यतमत्वेन भवितव्यं । तच्चानुमानान्तरैर्व्यतिरेकमापादयद्भिः प्रत्यासिद्धं । तथा हिन पार्थिवं मनः रसावगमनिमित्तेन्द्रियत्वाद्रसनावत् । न पाथसीयम्, गन्धग्रहणनिमित्तोन्द्रियत्वाक्घ्राणवत् । एवमतैजसत्वाद्यपि तत्तदिन्द्रियागोचरग्रहणनिमित्ततया शक्याध्यवसानमित्यभौतिकत्वं मनस इति । तदनुपपन्नं । धर्मिविशेषविपरीतसाधनात् । रसावगमनिमित्तेन्द्रियत्वमपार्थिवत्वमिव पाथसीयत्वमपि समर्थयति । एवं साधनान्तराण्यपि भूतान्तरव्यतिकेरमिवाऽमीयभूतभावमापादयन्ति । अथ शब्दस्पर्शरूपरसगन्धेषु यद्गुणग्राहि यदिन्द्रियम्, तदेव तद्गुणकभूतारब्धम्; हन्त तर्हि तदेव तदितरभूतव्यतिरेकितयाप्यवगतमिति न तदवगमकतामात्रेणाभिमतव्यतिरेकसिद्धिः । अपि च शब्दादिगुणावगमसाधारणसाधनतया शरीरमिव पाञ्चभौतिकम्, एकद्वित्रादिमयं वा इतरभूतसंसृष्टमस्तु मनः । यथाऽम्नायते अन्नमयं हि सोम्य मन इति । तन्न तत्प्रकृतित्वप्रतिपादनपरम्, अपितु तदधीनवृत्तितामात्रप्रदर्शनार्थं आपोमयः प्राणः इत्यादिवत् । अत एवापवर्गदशायामपि मनोऽनुवृत्तिः । दर्शितं हि तत्रैवाष्टमे मनसैतान्कामान्पश्यन्रमते मनोऽस्य दैवं चक्षुरिति । तथा परस्याश्च देवतायाः सोऽन्यं कामं मनसा ध्यायीतेति महोपनिषदि । मनसैव जगत्सृष्टिमिति च पुराणे । उच्यतेसत्यमेवं । द्रव्यान्तरपरिकल्पनातो वरमेवं वाऽश्रयणमित्युक्तं । परमार्थतस्तु न भौतिकम्, नापि नवमं द्रव्यं । क्व तर्हीदानीं मनःशब्दः ? । बुद्धावेव । अत एव हि बुद्धिमान्मनस्वीति व्यपदिश्यते । मनसोऽवस्थाभैदाश्च द्रागेवापरोक्ष्यन्ते क्षुभितं मे मनः, प्रसन्नं मे मन इति । एवं च

मनसः करणतया व्यपदेशो बुद्ध्यहङ्कारयोरिव वृत्तिभेदप्रदर्शनपरः पूर्वेषामिति ।
उच्यतेयदि बुद्धिरेव मनः ; यदि वा द्रव्यान्तरम्; उभयधापि तस्य न चेतनत्वमिति किमनेनाप्रतिज्ञातस्वरूपविमर्शेन ।
(इति प्रासङ्गिकमनस्तत्त्वविमर्शप्रकरणम्)
अस्तु तर्हि प्राण एवाऽत्मा, तथा सति तदन्वयिनि शरीरे सात्मकत्वप्रतीतिः, तद्विरहिणि निरात्मकत्वप्रतीतिश्चोपपद्येयातां । देहादुत्क्रान्तिर्लोकान्तरगमनं देहान्तरसञ्चारश्चोपपद्यन्तेतराम्,
गत्वरस्वाभाव्यात्प्राणस्य । इतरथा परममहतो महतश्च स्पर्शविरहिणः परिस्पन्दानुपपत्तेरुत्क्रान्तिगत्यागतिश्रुतयो भाक्ताः स्युः ।
(इति प्राणात्मत्वपूर्वपक्षप्रकरणम्)
इदमप्यसत्; वायुत्वादेव बाह्यवायुवत्प्राणस्य चैतन्यानुपपत्तेः । वृत्तिहीनेऽप्यात्मनि सुषुप्तौ प्राणस्य वृत्तिमत्त्वाच्च । तद्वृत्त्या हि सुप्तस्यापि सप्तधातुभावेनाशितपीतद्रव्यपरिणामः ; श्वासप्रश्वासौ च । तनुतरतेजोबन्नानुविद्धः कौष्ठ्यमारुतो हि प्राणः । स च कण्ठमुखनासाभ्यन्तरे बहिश्च रेचितः त्वचा स्पृश्यमानो घटादिरिव स्फुटमनात्मतया चकास्ति ।

अत्रैव साध्ये साधनान्तराणि चाह उत्पत्तिमत्त्वा दित्यादिकारिकाद्वयेन । पारार्थ्यं भ्रोत्र्क्रन्तरार्थत्वं । तच्च सङ्घातत्वात् । भूतत्वम्बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वं । एतैर्हेतुभिः शरीरे चेतनभिन्नत्वं साध्यं । न्याय्यैःप्रतिज्ञाद्यवयवपञ्चकात्मकन्यायप्रतिपाद्यरूपपञ्चकोपपन्नेः । वर्ष्मणः शरीरस्य । चितिः ज्ञानं ॥७ ॥८ ॥

समर्थितमेतावता देहस्यानात्मत्वं प्रत्यक्षानुमानाभ्यां । एतद्वाधितत्वमाह देहे आत्मत्वं साधयतां केवलव्यतिकेरिणां एवम् इति । अन्वयमुखेन अन्वयव्याप्त्या । अपहृतविषयतयाबाधितसाध्यकतया, उपस्थापयितुंव्यवस्थापयितुं ।

अथेन्द्रियात्मवादमुपक्षिपति सन्तु तर्ही ति । देहात्मत्वपक्षोक्तानि दूषणानि

नात्र पक्षे प्रसज्यन्त इत्याह न च तानी त्यादिवाक्यद्वयेन । बाधकाभावमुक्त्वा साधकमप्याह पक्षेऽत्र तव्द्यापारे ति । ज्ञानमिन्द्रियधर्मः, इन्द्रियव्यापारफलत्वात्, यव्द्यापारफलं यत्तत्तन्निष्ठम्, यथा स्नानाध्ययनादिव्यापारफलं शौचाक्षरराशिग्रहणादि स्नात्रध्येतृसमवेतमिति प्रयोगो बोध्यः । इन्द्रियस्य व्यापारः अर्थसन्निकर्षार्थेन्द्रियप्रवृत्तिः, अर्थेनेन्द्रियस्य सन्निकर्ष एव वा । हेतौ द्रव्यभिन्नभावत्वे सतीति विशेषणं देयं । तेन घटतद्ध्वंसानुकूलव्यापारवतो दण्डादेर्घटवत्त्वाद्यभावेऽपि न क्षतिः । इन्द्रियात्मत्वेऽनुमानमुक्त्वाऽप्तवाक्यमपि संवादरूपं निर्दिशति अत एवे ति ।

इन्द्रियाणामात्मत्वं निरस्यति तन्ने ति । विकल्पासहत्वं नाम विकल्पधर्मिणः संभावितयावत्कोटिविकल्पेन विकल्पितयावत्कोट्यन्यतमकोटिसंबन्धस्याप्यनर्हस्वरूपत्वं । क्षोदक्षमत्वाभाव इति यावत् । प्रत्यक्षबाधाभावेऽपि यौक्तिकबाधोऽस्तीन्द्रियात्मत्व इति हार्दं । प्रत्येकेन्द्रियचैतन्यपक्षे नानास्वामिक इव ग्राम एकस्मिन्नेव देहे नानाचेतनाधिष्टानान्नित्यकलहादि प्रसज्यते इति दूषणं हृदि नाधाय दूषणान्तरमाह इन्द्रियान्तरे ति । इन्द्रियसङ्घातात्मत्वपक्षेऽपीदं साधारणं । तदाह अत एवे ति । अत एव निरुक्तप्रतिसन्धानानुपपत्तेरेव । तामेवोपपादयति नही ति । इन्द्रियसङ्घातो नानुभविता, नाप्यनुस्मर्ता । तथा हि सङ्घातो यदि संयोगो बहुत्वसङ्ख्या वा, तर्हि गुणत्वादेव न ज्ञातृत्वसंभवः । यदि संयुक्तानां बहूनामेव सङ्घातत्वेन विवक्षा, तदापि न बहूनामिन्द्रियाणां चाक्षुषाश्रयता स्पार्शनाश्रयता वा । तथा च द्रष्टुः स्प्रष्टुश्चान्यान्यत्वादुक्तप्रतिसन्धानानुपपत्तिरेवेति भावः । इन्द्रियसङ्घातस्याऽत्मत्वे दोषान्तरमाह एकेन्द्रिये ति । सङ्घातस्य तावतैव विनष्टत्वान्निरात्मकत्वेन देहस्य मरणप्रसक्तिरिति भावः । प्रत्येकसङ्घातपक्षद्वयसाधारणं दोषान्तरमाह इन्द्रिये ति । द्रष्टुश्चक्षुषो विनाशे मयेदं दृष्टमिति स्मृतेरनुपपत्तिः । विद्यमानस्याद्रष्टृत्वात् । अन्यदृष्टस्यान्येन स्मृत्ययोगादिति भावः । इन्द्रियचैतन्ये

बाधकान्युक्तानि । अथ तत्साधकमनुमानं दूषयति न च तव्यद्यापारे ति । पापादेरित्यादिपदेन द्वैधीभावोऽपि ग्राह्यः । तयोश्छेत्तृच्छैद्यगततया शस्त्रेऽसमवेतत्वाव्द्यभिचार इति भावः । अत्र विपक्षे बाधकविरहादप्रयोजकत्वमपि बोध्यं । अथ सत्यतपसो वचनं करणे कर्तृत्वोपचारेण प्रवृत्तमन्यपरं नेन्द्रियचैतन्ये प्रमाणमित्याह अन्यथा चे ति । स्वाश्रमप्रविष्टवनमृगान्वेषणप्रवृत्तव्याधकृतप्रश्रोत्तररूपं सत्यतपसो वचनं द्रष्टुश्चक्षुषो नास्ति जिह्वा इत्यादि । एतस्मिन्नर्थे श्लोकोऽयमनुगृहीतोऽस्मद्गुरुचरणैः **या पश्यति न सा ब्रूते सा न पश्यति । दृष्टिर्वक्ति कथं व्याध वाणी वा वीक्षते कथं ॥**इति । अनेन प्रष्टा व्याध इति गम्यते । अकथनेऽशनायापीडितस्य व्याधस्य मरणप्रसङ्गं, कथने च शरणागतपरित्यागनिबन्धनं महत्पापं पर्यालोच्य एवं

वक्तोक्तिः कृता महर्षिणेति बोध्यं ।

अथ मन आत्मत्वपक्षमुपक्षिपति अस्तु तर्ही ति । तद्वी ति । मनो हि प्रधानां सर्वेन्द्रियप्रेरकं च गम्यते प्रमाणतो, व्यवह्लियते च तथेत्यर्थः । इन्द्रियात्मत्वपक्षोक्तानां स्मृतिप्रतिसन्धानानुपपत्तिनानात्मप्रसङ्गादिदोषाणां नात्र पक्षे प्रसङ्ग इत्याह उपपद्यते चे त्यादिवाक्यद्वयेन ।

मनस आत्मत्वं दूषयति तदपि ने ति । करणत्वा दिति सर्वत्र ज्ञाने करणत्वान्मनसो न तत्र कर्तृत्वमाश्रयत्वं संभवति । मनो हि न प्रत्यक्षविषयः । किन्तु युगपज्ज्ञानानुत्पत्तिलिङ्गेन सकलज्ञाने करणविशेषतयानुमीयते । तस्य च न ज्ञातृत्वं चक्षुरादेरिव संभवतीति भावः । एतदेवोपपादयति बाह्येन्द्रियेष्वि ति । यत्साहायकविरहात्यत्सहकारविरहात् । (सहायस्य कर्मसाहायकम्) यत्सन्निकर्षविरहादिति यावत् । तत्तदर्थग्राहकेन्द्रियस्येति शेषः । एवं बाह्यार्थेषु युगपज्ज्ञानानामनुत्पत्तिलिङ्गेन सर्वेन्द्रियसहकारित्वेनाणुभूतस्य मनसः करणविशेषस्यानुमानमुक्त्वा आन्तरसुखादिसाक्षात्कारेषु करणतयापि मनसोऽनुमानमाह तथा सुखादी ति । ननु करणतयानुमितस्यैव मनसो ज्ञानादौ कर्तृत्वमप्यस्तु लाघवा

दिति चेत्तत्राह तदेवम् इति । करणस्य कर्तृत्वं न संभवति । करणत्वकर्तृत्वयोर्विरोधात्स्वातन्त्र्यपारतन्त्र्यलक्षणयोरिति भावः । कर्तृत्वकरणत्वस्वरूपभेदं विवृणोति स्वातन्त्र्ये त्यादिना । कर्तृत्वं नाम स्वेच्छाधीनस्वप्रवृत्तिकत्वरूपस्वातन्त्र्यनियतं स्वेच्छयैव साध्यसिद्ध्यौपयिकसामग्रीसंपादनसामर्थ्यं । करणत्वं च परेच्छाप्रयात्नाधीनस्वव्यापृतीकत्वलक्षणपारतन्त्र्यनियतं परस्य रिप्सितक्रियानिष्पत्तौ प्रकृष्टोपकारकत्वलक्षणं । न चैतयोरेकत्र समावेशः संभवतीति भावः । यद्यपि चेतनस्यैकत्र कर्तृत्वं करणत्वं च संभवेन्नामाऽकारभेदतः । अथापि मनसश्चैतन्ये दृढतरप्रमाणाभावात्लोकसिद्धव्याप्त्या च चक्षुरादिवत्परस्य चेतनस्य सुखाद्यनुभवकरणतयैव सिद्धेर्न मनसो ज्ञातृत्वं । वस्तुतस्तु अत्यन्तातीन्द्रियेष्वर्थेषु शास्त्रमेव प्रमाणं । ततश्च मनो विज्ञानमयस्य जीवस्योपकरणतयैव सिद्ध्यतीति हार्दं । ननु रूपसुखादिबाह्यान्तरपदार्थानुभवेषु मन एव कर्तृ । आन्तरसुखाद्यनुभवे करणं त्वान्तरमन्यत्कल्प्यत इति शङ्कते अथ तदपि ति । परिहरति तथा सती ती । एवं सति अस्मदिष्टस्य ज्ञातर्यन्तः करणभेदस्य न काप्यनुपपत्तिः । संज्ञा तु ऐच्छिकीति नार्थे विवाद इत्यर्थः । ज्ञातुरात्मनो मनःसंज्ञायां व्यवहारविरोधमाह किन्तु इति । मन इति नात्मनो व्यवहारो लौकिकानां वैदिकानां च । अतो मनःसंज्ञाऽत्मनि व्यवहारविसंवादादपार्थेति भावः ।

अथात्र परमाचार्योऽयं विमर्शकभूमिकामास्थितः प्रसङ्गात्मनसस्तत्त्वविचारं प्रक्रमते आहे ति । कश्चिद्विमर्शक इत्यादिः । विमर्शश्चायं तार्किकाभिमतानां मनःसाधकयुक्तीनां क्षोदक्षमत्वाभावप्रदर्शनार्थः । किमिदम् इति । किमिति स्वरूपप्रश्नः । किंपुनरिति प्रमाणप्रश्नः । मनसि प्रमाणमाक्षिपति उक्तं नामे त्यादिना ।युगपज्ज्ञानानुत्पत्तिलिङ्गेन द्रव्यान्तरमान्तरं करणं न सिद्ध्यति । अदृष्टादिसहकारविरहेणैव युगपज्ज्ञानानुत्पत्त्युपपत्तेरिति भावः । युगपत्स्मरणानामनुत्पत्तयेऽदृष्टसहकारविरहोऽवश्यमेव शरणीकरणीयः स्वीकृतेऽप्यान्तरकरण इत्याह

कल्पयित्वापी ति । नानार्थानुभवभाविताःनानार्थानुभवजनिताः । संस्कारे ति । संस्कारस्योन्मेषहेतुरुद्बोधकः । संस्कारोद्बोधकसमवधानक्रमात्स्मृतीनामयौगपद्यं ।उद्बुद्धसंस्कारस्यैव स्मृतिहेतुत्वात् । उद्बोधस्य क्रमभावित्वाच्चेति भावः । एवमपी ति । प्रणिधानंमनसोऽवधानेन चिन्तनं । येषामर्थसंस्काराणां साधारणमुद्बोधकं प्रणिधानं कृतमनुभूतयावदर्थस्मृतीच्छयैकदैव तदापि न यावदर्थस्मृतयो युगपत्जायन्ते । तत्सत्यपि नानार्थस्मृतिषु दृष्टकारणेऽदृष्टसहकारविरहादेव न स्मृतियौगपद्यम्, किन्तु एकस्यैवैकदा भवति स्मृतिरदृष्टसहकारादित्येषितव्यमिति भावः । शुभाशुभरूपतयासुखदुःखजनकतया । नन्वेवमपि सुखहेत्वर्थानां शुभादृष्टबलाद्युगपत्स्मरणानि स्युरिति चेत्तत्राह क्रमेति । क्रमिकज्ञानभाक्त्वलक्षणात्मस्वभावबलाददृष्टसहकारविरहाच्च स्मृतियौगपद्यस्येव बाह्यार्थज्ञानयौगपद्यस्यापि परिहरणसंभवात्नाणुभूतं मनोबाह्येन्द्रियसहकारि करणान्तरमान्तरं कल्पनीयमिति समुदिताशयः ।

मनसि प्रमाणान्तरमुपक्षिपति स्यान्मतम् इति । अत्र प्रयोगः सुखादि सासमवायिहेतुकं भावकार्यत्वात्कार्यरूपादिवदिति । असमवायिहेतुश्च सुखादावात्ममनःसंयोग एव, अन्यस्यासंभवादिति हृदयं ।

आत्मेत्यादि बाह्येत्यादि च षष्ठ्यन्तं पदद्वयं बहुव्रीहिवृत्तं सुखादेर्विशेषणं । पदद्वयेन च सुखादावात्मनः समवायिकारणत्वमदृष्टादेर्निमित्तहेतुत्वं चोक्तं । एतन्निरस्यति तदसदित्यादिना । सुखे ति । अनुकूलविषयस्य प्रतिकूलविषयस्य च ज्ञानस्यैवात्मनि नियतपूर्ववृत्तेः सुखे दुःखे च कारणस्य तत्रासमवायिहेतुत्वं युक्तं । न तु आत्ममनस्संसेयोगस्याप्रसिद्धस्य । तत्तद्विषयसन्निकृष्टेन्द्रियात्मसंयोग एव च तत्तज्ज्ञानेऽसमवायिकारणं । कृतिसाध्यताज्ञानमेव प्रयत्ने तथा चिकीर्षाद्वारा । कार्यताज्ञाने च स्मृतिरूपे उद्बुद्धसंस्कारः, अनुभवरूपे च लिङ्गज्ञानादि तथा । संस्कारे चानुभवः तथा । प्रयत्न एवादृष्टस्याप्यसमवायिहेतुः । इदमुपलक्षणं । इच्छां प्रति इष्टजातीयत्वस्येष्टसाधनत्वस्य वा

ज्ञानं तथा । द्वेषं प्रति चानिष्टत्वस्य तत्साधनत्वस्य वा ज्ञानं तथा । आत्मविशेषगुणानां कुत्राप्यसमवायिहेतुत्वं नास्तीति प्रवादस्तु न श्रद्धेय इति मनुदिताशयः । इच्छादीनामित्यादिपदेन द्वेषप्रयत्नादृष्टसंस्काराणां ग्रहणं । अत्र विषयेन्द्रियसंयोगहेतुभूतस्येन्द्रियव्यापारस्य प्रयत्नवदात्मसंयोगासमवायिहेतुकत्वकथनं प्रसङ्गात् । कुत्रापि ज्ञानादौ आत्मविसेषगुणे मनोऽपेक्षा नास्तीति हार्दं ।

साधनान्तरं मनसि शङ्कते यत्तु नित्ये ति । अत्र प्रयोगः सुखादिर्द्रव्यसंयोगासमवायिहेतुकः कार्यत्वे सति नित्यद्रव्यविशेषगुणत्वात्पाकजपरमाणुरूपवदिति । द्रव्यान्तरसंयोगस्य सुखादौ असमवायिहेतुत्वासंभवान्मनःसंयोगस्यैव तथात्वेन परिशेषान्मनसः सिद्धिरिति भावः । एतद्दूषयति तदपी ति । स्थवीयः स्थूलतरं । अविमृश्यभाषितमिति यावत् । अयं भावः अन्वयव्यतिरेकसहचारदर्शनादेव हि सर्वत्र कारणत्वाध्यवसायः । पार्थिवाणुरूपादौ दहनसंयोगस्य हेतुत्वमपि ततो देहावयवादौ रूपादिपरावृत्तेर्द्दष्टत्वाद्दृष्टानुसारादेव कल्प्यते । इह चानुकूलज्ञानादेरेव सुखादौ हेतुत्वं दृष्टं । समवायिकारण आत्मनि प्रत्यासन्नत्वात्तस्यैवासमवायिहेतुत्वं च युक्तं तत्रेति नादृष्टद्रव्यान्तरसंयोगस्य तथात्वेन कल्पनावसर इति । दृष्टकारणे ति । दृष्टहेतोरभावेऽपि कार्योत्पत्तेर्दर्शने हि कारणान्तरकल्पनावसरः । न च दृष्टहेतोर्व्यभिचार इत्यर्थः । अत} इति । दृष्टहेतुष्वेव तत्तल्लक्षणयोगेन समवायिहेतुत्वादि व्यवस्थाप्यं । ज्ञानादिदृष्टहेतुभिन्नस्यानपेक्षितस्याप्रसिद्धस्य द्रव्यान्तरसंयोगस्य हेतुत्वकल्पनायां तु क्ल्प्तत्यागोऽक्ल्प्तपरिकल्पना च । ज्ञानादेरसमवायिहेतुत्वे बाधकस्यानुपलब्धेः तद्भिन्नत्वस्यासमवायिहेतुलक्षणे निवेशोऽनर्थकश्चेति भावः । {इहे ति । सुखादौ तु तद्विपर्ययः कारणान्तरोपलम्भरूपं दृष्टान्ततो वैषम्यं प्रादर्शीति यावत् । एतावता पूर्वोक्तानुमानेऽप्रयोजकत्वाव्द्याप्यत्वासिद्धिरूक्ता । व्याप्तिस्वीकारे चार्थान्तरमित्याह एवमपी ति । स तर्ही ति । तर्ही स इत्यन्वयः

। दृष्टान्ते सः द्रव्यान्तरसंयोगः भौतिकः भूतारब्धः भौतिकप्रतियोगिक

एव दृष्ट इति प्रकृतेऽपि भौतिकदेहादिप्रतियोगिकात्मानुयोगिकसंयोग एवानुमानपर्यवसानान्न काणादाभिमतनवमद्रव्यरूपाभौतिकमनःसिद्धिप्रत्याशेत्यर्थः । स्पर्शवद्द्रव्यसमवेत इति निदर्शनाभिप्रायेण । स्पर्शवन्नित्यद्रव्यविशेषगुणं प्रत्येवकार्यभूतं द्रव्यान्तरसंयोगस्य हेतुत्वं दृष्टानुसारात्कल्प्यं । न त्वस्पर्शनित्यद्रव्यविशेषगुणं प्रत्यपीति व्यज्यतेऽनेन । एवं सुखादावसमवायिहेतुत्वेन द्रव्यान्तसंयोगस्य साधनं न संभवतीत्युक्तं ।

अथ तत्साधनाभ्युपगमेऽपि विवक्षितमभौतिकं मनस्तत्त्वान्तरं न सेत्स्यतीति प्रपञ्चयति । तत्र शङ्का अथोच्येते ति । प्रत्यासिद्धम्प्रतिषिद्धं । पाथसीयंजलीयं । शक्याध्यवसानंशक्यनिश्चयं । मनो न पार्थिवं तैजसादि वा रसावगमनिमित्तेन्द्रियत्वाद्रसनावत् । मनो न जलीयं गन्धग्राहकेन्द्रियत्वाद्घ्राणवदिति भौतिकत्वनिषेधः । युगपज्ज्ञानानुत्पत्तिलिङ्गेनाणुत्वेन सिद्धेर्न विभुद्रव्यान्तर्भावः । अतो नवमद्रव्यत्वसिद्धिर्मनस इत्यभिमानः । परिहरति तदनुपपन्न मित्यादिना । धर्मी ति । मनसि पक्षेऽभिमतो यो विशेषोऽभौतिकत्वरूपः, तद्विपरीतसाधकत्वादुक्तहेतुनामित्यर्थः । रसग्राहकेन्द्रियत्वं जलीयत्वं गन्धग्राहकेन्द्रियत्वादि पार्थिवत्वादि च मनसः साधयेदिति भावः । अत्र शङ्कते अथ शब्दे ति । रूपादिषु मध्ये गन्धमात्रग्राहकत्वं पार्थिवत्वसाधकं । एवं रसमात्रग्राहकत्वादि च जलीयत्वादेः । तथा च मनसः पार्थिवत्वादिसाधकहेतोरसिद्धिरिति भावः । अत्रोत्तरं हन्त तर्ही ति । यद्भूतगुणमात्रग्राहकं यदिन्द्रियं तदेव भूतान्तरव्यतिरिक्तत्वेन संप्रतिपन्नमिति भूतान्तरगुणग्राहकतामात्रेण न तत्तद्भूतगुणग्राहकस्य मनसः तत्तद्भूतव्यतिरेकसिद्धिरित्यर्थः ।

गन्धाद्यग्राहकत्वमेवापार्थिवादिसाधकं । तच्च मनसोऽभौतिकानुमाने पक्षे मनस्यसिद्धमिति भावः । अपार्थिवत्वाद्यनुमाने तत्तद्भूतगुणाग्राहकत्वमुपाधिरिति चोक्तं भवति । एवमभौतिकत्वानुमानं प्रदूष्य मनसो भौतिकत्वानुमानमुपस्थापयति अपि च शब्दादी ति । मनः पाञ्चभौतिकं पञ्चभूतगुणावगमसाधनत्वाद्देह

वदिति प्रयोगः । पञ्चभूतोपादनकत्वे गौरवाज्जातिसाङ्कर्यभीत्या च पक्षान्तरमाह एकद्वी ति । देहस्येवैकभौतिकस्य भूतान्तरोपष्टब्धत्वाद्भूतान्तरगुणोपलम्भसाधनत्वोपपत्तिर्मनस इति भावः । अस्य पार्थिवत्वे श्रुतिमपि संवादरूपेणोदाहरति अन्नमयं ही ति । श्रुतेरान्यपर्यं शङ्कते तन्ने ति । ननु इत्यादिः । तत् निरुक्तश्रुतिवचनं । तदधीने ति । अन्नरसाप्यायितस्यैव मनसः सङ्कल्पनादिव्यापारक्षमतयान्नमयत्वं श्रूयतेऽन्नरसपरिपोषितत्वलक्षणम्, वायुविशेषस्य प्राणस्येवाम्मयत्वं जलरसाप्यायितत्वादिति भावः । मनोऽभौतिकत्वे श्रुत्यर्थापत्तिमप्याह अत एवे ति । यदि भौतिकं मनः, तर्हि मुक्तौ नानुवर्तेत देहादिवदिति । मुक्तौ मनोऽनुवृत्तौ श्रुतिमाह तत्रैवे ति । छान्दोग्य एवाष्टमे प्रपाठके । अन्नमयं ही ति तु षष्ठे । मुक्तस्य मनोयोगमुक्त्वा नित्यमुक्तस्वभावस्येश्वरस्यापि तत्र प्रमाणमुदाहरति तथे ति । पुराणेश्रीवैष्णवे पञ्चमेंऽशे । तन्ने त्यादिनोक्तमाक्षेपमर्धाङ्गीकारेण परिहरति उच्यते इति । सत्यमित्यर्धाङ्गीकारे । श्रुतेरान्यपर्येऽभ्युपगमः । मनसोऽतिरिक्ततत्त्वत्वेऽनुपगमः । एवं वाऽश्रयणम्भौतिकत्वाश्रयणं वा । वाकारोऽनास्थायां । अत एव स्वाशयं प्रकटीकरोति मनोविषये परमार्थतस्तु इत्यादिना । बुद्धावेवे ति । बुद्धावेव मनःशब्दो वाचकत्वेन वर्तत इत्यर्थः । मुक्तस्येश्वरस्य च बुद्धिमत्त्वादेव समनस्कत्ववाचोयुक्तिः । तयोरमनस्कत्ववचनं तु कर्मकृतबुद्धिवृत्तिनिषेधाभिप्रायमिति भावः । बुद्धेरेव मनस्त्वे लौकिकव्यवहारमुक्त्वा लौकिकप्रत्यक्षमपि प्रदर्शयति मनसःइति । मनः प्रसन्नमित्याद्यध्यक्षं

प्रत्यक्षबुद्ध्यालम्बनमेव संभवति, न त्वतीन्द्रियमनोगोचरमिति भावः । बुद्धिशब्देन ज्ञानं विवक्षितं । ननु बुद्धेर्ज्ञानस्यैव मनस्त्वेऽन्तःकरणत्वोक्तिस्तस्य कथं सङ्गच्छत इत्यत्राह एवं चे ति । विषयस्मृत्यादिहेतुभूतव्यापारवत्त्वप्रदर्शनार्थं बुद्धेरन्तःकरणत्वव्यपदेशः, अध्यवसायादिहेतुव्यापारवत्त्वप्रदर्शनार्थं बुद्ध्यादिव्यपदेश इव मनसोऽतिरेकवादेऽपीति भावः । अत्र विमर्शकेन सुखादिसाक्षात्कारकरणत्वेन मनसोऽनुमानं तार्किकाभिमतं न विमृष्टं ।

अयमत्राशयः इन्द्रियसौष्ठवोपघातयोरेव सुखदुःखरूपत्वात्तयोश्चातीन्द्रियत्वान्न तत्साक्षात्कारकारणतया मनोऽनुमेयं । यद्वा ज्ञानविशेषरूपत्वात्तयोर्ज्ञानस्वयं प्रकाशत्वबलादेव तत्प्रतिभासोपपत्तिरिति ।

आहे त्यादिना विमर्शकेनातिरिक्तमनोनिरासे कृते सिद्धान्तीस्वाशयमाविष्करोति उच्यतइत्यादिना । अप्रतिज्ञाते ति । मनसोऽनात्मत्वमेव प्रतिज्ञातम्प्रकृतं । मनःस्वरूपतत्त्वविचारस्याप्रकृतत्वान्नास्माभिरिदानीमतिरिक्तमनःसाधने प्रवर्त्यत इत्याशयः । अस्तु वा मुक्तानामीश्वरस्य च मनो बुद्धिरूपमेव । बद्धानां तु मन आहङ्कारिक मन्तःकरणं श्रुतिबलादभ्युपगन्तव्यमेव । स्मृत्यादिकरणतया च तदभ्युपगमार्हं । परं तु तस्य न चेतनत्वं शक्यमध्यवसितुमिति हार्दं ॥

प्राणात्मवादमुपक्षिपति अस्तु तर्ही ति । प्राणवति देहे जीवतीति, तद्रहिते च मृत इति व्यवहारात्प्राण एव जीवनकर्तृत्वाज्जीव इति भावः । इतरथे ति । परममहतः, अमहतश्च, इति पदच्छेदः । अमहत्त्वमणुत्वं । निःस्पर्शत्वादात्मनि न क्रिया विभुत्वेऽणुत्वे वा संभवतीति भावः ।

प्रतिक्षिपति वादमेनं इदमप्यस दिति । अत्र प्रयोगत्रयम् प्राणो नात्मा, सुषुप्तौ व्यापारवत्त्वरूपादात्मवैधर्म्यात् । प्राणो नात्मा, त्वाचप्रत्यक्षग्राह्यत्वाद्धटादिवत् । प्राणो नात्मा वायुत्वाव्द्यजनपवनवदिति । तद्वृत्त्या इति । प्राणव्यापारस्य भुक्तपीताहारपरिणामहेतुत्वं अहं वैश्वानरो भूत्वा प्राणिनां देहमास्थितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ इति गीतास्मृतिसिद्धं । तनुतरे ति । अल्पतरपृथिवीजलतेजोंशोत्तम्भितो जठरगतो वायुविशेषः प्राण इत्यर्थः ।

{किञ्चनिरस्तो देहचैतन्यप्रतिषेधप्रकारतः ।
प्राणात्मवादो न पृथक्प्रयोजयति दूषणं ॥९ ॥
अविभुत्वेनास्याऽत्मनः स्पर्शविरहिणोऽपि प्रयत्नादृष्टप्रेरणानुगुण्येन मनस इवोत्क्रान्तिगत्यादयो युज्यन्त इति न तन्निर्देशानाममुरव्यार्थता । परिमाणनिरूपणेऽप्येतद्भविष्यतीत्यलमधुना ।
(इति प्राणात्मवादनिरासप्रकरणम्)
भवतु तर्ही संविदेवाऽत्मा, अजडत्वात् । जडत्वप्रतिबद्धं ह्यनात्भ्यं घटादिषु दृष्टं । जडत्वं च संविदो निवर्तमानं तदपि निवर्तयति । अजडत्वं च संविदः सत्तयैव प्रकाशमानत्वात् । नहिसती संविद्धटादिरिवाप्रकाशमानावतिष्ठते, येन परायत्तसिद्धिरास्थीयेत ।
(इति संविदात्मत्वपक्षोपस्थापनम्)
स्यान्मतम्जातायामपि संविदि विषयमात्रं प्रथते । न खलुनीलमिदमिति प्रतियन्तः तदैवानीलमनिदंरूपमपि संवेदनं प्रतीमः । अतः स्वरूपसत्यैव संविदा इन्द्रियसन्निकर्षेणेव विषयः प्रकाश्यते । ततश्च तद्गतागन्तुकप्रकाशातिशयदर्शनेन पश्चात्संविदनुमास्यते इति ।
(इति संविदनुमेयत्वपक्षेण तदजडत्वाक्षेपः)
तन्न । ज्ञानव्यतिरेकिणोर्ऽथधर्मस्य प्रकाशस्य निपुणमपि निरीक्षमाणानां रूपादिवदनुपलब्धेः । उभयाभ्युपेतसंविदैव सकलव्यवहारोपपत्तौ च तत्कल्पनानुपपत्तेः । वित्तिवेदितृप्रतिभासशून्यायां च विषयवित्तावभ्युपगम्यमानायां घटस्तावदयम्, अहं तु जानामि न वेति, न ज्ञायते इति च कदाचित्प्रतिभासः स्यात् । नचैवमस्ति । अतीतानागतविषयग्रहणस्मरणेषु व्याहारव्यवहारयोरभावे, भावेऽपि, ततः प्रागेव विदितत्वप्रतीतेः नानुमानिकी तत्र विषय(प्रकाश)सिद्धिः, नतरां तत्पूर्विका तत्र बुद्धिसिद्धिः । तथाहि केनचित्प्रेरितः प्रणिधाय स्मृत्वानन्तरमेव प्रतिवदति स्मृतमद्य मयेति । न चाय
मेव व्याहारस्तत्र लिङ्गम्; तत्पूर्वकत्वात्, अन्योन्याश्रयणापत्तेश्च । स्वव्याहारेण स्वज्ञानानुमानं क इव निरपत्रपः प्रतिजानीत? ।
(इति संविदनुमेयत्वनिरासः)
अन्यच्चयत्संबन्धादर्थान्तरे यो व्यवहारः धर्मभेदो वा, स तस्मिन्नुपलभ्यमानस्तत्स्वरूपप्रयुक्तः; न तु तत्संबन्धनिबन्धनः । यथा सत्तासंबन्धात्पृथिव्यादिषु सद्व्यवहारः,रूपसंबन्धाच्च चाक्षुषत्वं सत्तायां रूपे च । एवं संवित्संबन्धात्प्रवर्तमानो घटादिषु प्रकाशत इति व्यवहारः प्रकाशमानत्वं वा धर्मः संविदि तु परिदृश्यमानो न संवित्संबन्धापेक्षः, अपि तु तत्स्वरूपप्रयुक्त इति स्वयंप्रकाशत्वात्सैवाऽत्मेति । किञ्च योऽपि संविदोऽन्यं संवेदितारमभ्युपगच्छति, अभ्युपगच्छत्येवासौ संविदं । नह्यसत्यामेव संविदि संवेत्तीत्युपपद्यते । एवं चेत्, उभयवादिसंप्रतिपन्नतया सैव वरं वेदित्री भवतु; किमन्येन कल्पितेन? ।
(इति संविदः स्वयम्प्रकाशत्वात्मत्वसाधनम्)
ननु अहं जानामीति ज्ञानातिरिक्तस्तदाश्रयभूतोऽयमात्मा प्रतीयते । सत्यम्}
; {स तु विकल्परूपतया साक्षात्प्रत्यक्ष इति न शक्यः संश्रयितुं । भेदज्ञानसिद्धवत्कारेण पृथग्वस्तुतया गृहीताव्यभिचारेण सहोपलम्भनियमेन, अप्रकाशात्मनश्च स्वभावविरोधादेव प्रकाशायोगात्, प्रकाशस्वाभाव्ये च संवेदनत्वमित्यादिना वा प्रकाशात्मनोऽहमित्यंशस्य तत्त्वमेव दुरुपगमं । ग्राह्यविकल्पप्रत्युद्धारेऽप्येष एव प्रकारः । अतो वासनाभिधानसमनन्तरप्रत्ययसामर्थ्यादनाद्यविद्यावशाच्च समारोपितावास्तवग्राह्यग्राहकविकल्पोल्लेखिनी स्वयंप्रकाशा संविदेव परमार्थसती । सैवाऽत्मेति सौगताः प्रकटाः प्रच्छन्नाश्च ।
यथाऽहुः प्रकटाः “}
अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते {” ॥इति ॥
यथा वा प्रच्छन्नाः “}
शुद्धं तत्त्वं प्रपञ्चस्य न हेतुरनिवृत्तितः । ज्ञातृज्ञेयविभागस्य मायैव जननी ततः {” ॥इति ॥
(इति संविदात्मत्वपूर्वपक्षप्रकरणम्)
अत्राहक्षणभङ्गिनी प्रतिविषयमन्यान्या च संविच्चकास्ति । सैव चेदात्मा, पूर्वेद्युर्दृष्टमपरेद्युरहमिदमदर्शमिति कथमिव प्रत्यभिजानीयात्? । न च नीरालम्बनप्रतिभाभेदमात्रतयेह समाधेयं निरालम्बनत्वप्रतिज्ञायाः प्रत्यक्षादिसक
लप्रतीतिबाधितविषयत्वात् । साधनस्य च सालम्बनत्वे तदविशेषादशेषशेमुषीणां तथात्वापत्तेः; निरालम्बनत्वे च साधनाभावादेव साध्यासिद्धेः । प्रपञ्चितश्च पूर्वोत्तरमीमांसाभागयोर्निरालम्बनत्वप्रतिषेधः ; यथार्थरव्यातिसमर्थनेन च शास्त्र इति न व्यावर्ण्यते ।
अत एव न सन्तानाश्रयणेनापि प्रत्यभिज्ञोपपादनं साधीयः । विज्ञानक्षणव्यतिरिक्तस्य स्थायिनोऽनुसन्धायिनः सन्तानस्याभ्युपगमे स्वसिद्धान्तत्यागः, परसिद्धान्ताभ्युपगमश्च । अनभ्युपगमे प्रत्यभिज्ञानुपपत्तिः । न ह्यन्येनानुभूतेऽन्यस्य प्रतिसन्धानसंभवः । न च सुसदृशतया भेदाग्रहणेन प्रदीपादाविव प्रमातरि प्रत्यभिज्ञाभ्रान्तिः । युज्यते हि तत्रैकस्यैव पूर्वापरव्यक्तिदर्शिनः तुल्यसंस्थानतया व्यक्तीनां भेदमविदुषः तथा भ्रमः । इह तु संविद्व्यक्तयः परस्परवार्तानभिज्ञा निरन्वयविनाशिन्यश्च सुगतमत इति न तास्वेकत्वभ्रमस्याऽश्रयता विषयता वा संभविनी । न च सुसदृशत्वेऽपि अन्येन कृतमात्मकृततयान्योऽनुसन्धातुमलमित्यागमापायिसंवित्सन्तानाश्रयः प्रत्यभिज्ञानक्षणस्थायी चेतनोऽभ्युपगन्तव्यः ।
(इति क्षणिकविज्ञानात्मवादनिरासप्रकरणम्)
कश्चिदाहन संविदनित्या, प्रागभावाद्यसिद्धेः । तदसिद्धिश्च तस्याः स्वतःसिद्धत्वात् । नहि स्वतःसिद्धस्य प्रागभावादयः स्वतोऽन्यतो वा
सिद्ध्यन्ति । स्वयं हि स्वाभावमवगमयत्सद्वा असद्वा साधयेत् । सत्त्वेऽभावेव नास्तीति कथं साधयेत्? । असत्त्वादेव साधकस्य पक्षान्तरे नतरां साधकत्वमिति न स्वतः तावत्तत्सिद्धिः । नाप्यन्यतः ; अनन्यगोचरत्वादनु भूतेः । अनुभाव्यत्वे च घटादिवदननुभूतित्वप्रसङ्गात् । अतः सा न जायते । जन्माभावादेवेतरेऽपि भावविकाराः निराकार्याः, तत्प्रतिबद्धत्वात्तेषां । अत एव नानात्वमपि संविदि प्रत्युक्तं ; उत्पत्तिमत्त्वव्यापकनिवृत्त्या तद्व्याप्यभूतनानात्वस्यापि निवृत्तिसिद्धेः । नह्यजं विभाग्यस्ति । चेत्यत्वाच्च भेदेतरेतराभावादयो न तद्धर्माः, रूपादिवत् । अतोऽस्या न मेयः कश्चिदपि धर्मोऽस्ति । अतो निर्धूतनिखिलभेदविकल्पनिर्धर्मप्रकाशमात्रैकरसा कूटस्थनित्या संविदेवाऽत्मा परमात्मा च । यथाऽह “}
यानुभूतिरजामेयानन्तात्मा {” इति । सैव च वेदान्तवाक्यतात्पर्यभूमिरिति
तेषां भाषा । यथाऽह तद्वार्तिककारः “}
परागर्थप्रमेयेषु या फलत्वेन संमता । संवित्सैवैह मेयोर्ऽथो वेदान्तोक्तिप्रमाणतः ॥ अप्रामाण्यप्रसक्तिश्च स्यादितोऽन्यार्थकल्पने । वेदान्तानामतस्तस्मान्नान्यमर्थं प्रकल्पयेत् {” ॥इति ॥
(इति निर्विशेषनित्यविज्ञानात्मत्वमतोपपादनप्रकरणम्)
तदिदमलौकिकमवैदिकं च दर्शनमित्यात्मविदः । तथाहिसंविदिति स्वाश्रयं प्रति सत्तयैव कस्यचित्प्रकाशनशीलो ज्ञानावगत्यनुभूत्यादिपदपर्यायनामा सकर्मकः संवेदितुरात्मनो धर्मः प्रसिद्धः । तथैव हि सर्वप्राणभृत्प्रत्यात्मसिद्धोऽयमनुभवःऽअहमिदं संवेद्मीऽति । तस्यास्योत्पत्तिस्थितिनिरोधाश्च सुखदुःखादेरिव प्रत्यक्षाः प्रकाशन्ते । स्वापमदमूर्च्छादशासु च योग्यानुपलम्भनिराकृतः तत्सद्भावो नाभ्युपगममर्हति । यदि हि तास्वपि दशासु संवेदनमवर्तिष्यत, ततः प्रबोधसमयेऽनुसमधास्यत । न चानुसन्धीयते । अत एव हिऽइयन्तं कालं न किञ्चिदहमज्ञासिषऽमिति प्रबुद्धः प्रत्यवमृशति ।
यावदनुभूतपदार्थस्मरणनियमाभावेऽपि संस्कारविच्छेदनिमित्तप्रायणादिप्रबलहेतुविरहेऽपि नित्यवदस्मरणमनुभवाभावमेव साधयति । न च सत्यपि संवित्प्रकाशे विषयावच्छेदविरहादहङ्कारगोचरापायाद्वा तत्स्मृत्यनुदयः ; अर्थान्तराभावस्य तदग्रहणस्य चार्थान्तरप्रकाशप्रयुक्तकार्यप्रतिबन्धकत्वायोगात् । त्रितयावभासेऽपि यथास्वमवभासानां स्वगोचरस्मरणहेतुत्वात् । नच प्रत्यभिज्ञाबललब्धस्थेमाहमर्थः स्वापादिदशासु निधनमुपगत इति शक्योऽभिधातुं । अत एव हिऽइयन्तं कालमहस्वाप्सऽमिति प्रबोधे परामर्शः । नच निर्विषया निराश्रया वा संविन्नाम काचित्संभवति, अत्यन्तानुपलब्धेः । संबन्धिशब्दाश्च संविदनुभूतिज्ञानप्रकाशादिशब्दा इति शब्दार्थविदः
। न ह्यकर्मकस्य जानात्यादेरकर्तृकस्य वा प्रयोगो लोके वेदे वा ।
यत्तु स्वतःसिद्धस्य सत्त्वे तद्विरोधादेव प्रागभावादेः तदानीमवस्थानासंभवान्न ततः सिद्धिरिति, तदतिस्थवीयः । नहि संविदास्वकालवर्तिन एवार्थाः सिद्ध्यन्तीत्यस्ति नियमः । अतीतानागतयोरसंवेद्यत्वप्रसङ्गात् । अथ संवित्प्रागभावादेः सिद्ध्यतः तत्समकालतया भवितव्यमिति; किमेवं क्वचिद्दृष्टं ? हन्तैवं
सति तत्सिद्धेर्न प्रागभावाद्यसिद्धिः । तत्प्रागभावः तत्समकाल इत्युन्मत्तवचः । ऐन्द्रियिकप्रत्यक्षस्वभावो ह्ययं स्वसमकालपदार्थप्रकाशकत्वं नाम । न ज्ञानमात्रस्य, प्रमाणमात्रस्य वा । एतेन तदपि पराकृतम् “}
मानं स्वयंप्रकाशत्वात्स्वतःसच्चेत्सदास्त्यतः । तन्मेयं च सदास्त्येव मानं मेययुगेव हि {” ॥इति । नहि मानस्य स्वसत्ताकालेर्ऽथाविनाभावो मेययोगः । किन्तु यद्देशकालादिमत्तया मेयमवभासते तादृशतद्रूपमिथ्यात्वविरोधित्वं । अत एवऽस्मृतिर्नबाह्यविषया, नष्टेऽप्यर्थे स्मृतिदर्शनाऽदित्यपि प्रलापः ।
अथ संवित्प्रागभावादेरवर्तमानतया न प्रत्यक्षत्वं । लिङ्गाद्यभावाच्च न प्रमाणान्तरतः सिद्धिरिति । यद्येवम्, अकारणं तर्हि स्वतःसिद्धत्वं प्राग
भावाद्यसिद्धेः । प्रमाणाभाव एव हीदानीं वाच्यः । न च तदभावः शक्योऽभिधातुमित्युक्तमेव । योग्यानुपलब्ध्यैवाभावस्य समर्थितत्वात् ।
अपिच प्रत्यक्षसंवित्स्वसत्ताकाले स्वविषयस्य सद्भावं साधयन्ती यत्तस्य न सर्वदा सत्तां साधयति, तदवसीयते अहमिदानीमेवास्मि नान्यदेति कालविशेषावच्छिन्नैव सा चकास्तीति । इतरथा घटादेरपि नित्यत्वप्रसङ्गात् । एवमनुमानादिसंविदोऽपि । नच प्रत्यक्षानुमानादिभेदशून्या निर्विषया निराश्रया धीः संभवतीत्युक्तमेव ।
न चान्याविषयत्वात्संविदोऽन्यतः तत्प्रागभावाद्यसिद्धिः । अज्ञासिषमिति प्राक्तनसंविदोऽद्यतनधिया विषयीक्रियमाणत्वात् । प्रतिकूलानुविषयनियतहानोपादानादिलिङ्गावगम्यत्वाच्च परसंविदः । तदनभ्युपगमे च शब्दार्थग्रहणासंभवेन वैदिकलौकिक समस्तव्यवहाराभावप्रसङ्गः । गुरूपसर्पणाद्यनुपपत्तिश्च ; ज्ञानवत्त्वेन तस्याप्रतीतेः ।
न चान्यविषयत्वेऽननुभूतित्वं । स्वाश्रयस्य स्वसत्तयैव प्रकाशमानत्वं, स्वविषयसाधनत्वं वा ह्यनुभूतित्वं । ते च संविदन्तर विषयभावेऽपि स्वानुभवसिद्धे न भ्रश्यत इति कथमननुभूतित्व प्रसङ्गः? । घटादेस्तु तथास्वाभाव्याभावादेवाननुभूतित्वं, नानुभाव्यत्वात् । अपि चाननुभाव्यत्वेऽपि समानः तत्प्रसङ्गः, गगनकुसुमवत् । न चात्मनोऽनुभूतित्वम्, अनुभवितृत्वात् । नाप्यसावननुभाव्यः,
अनुभवस्येव स्वतःसिद्ध्यतोऽप्यस्य स्वपरसंवेद्यत्वाभ्युपगमात् । वेद्यत्वेऽनात्मत्वापादनमवेद्यत्वेऽपि समानं पूर्ववत् । यदि तु गगनकुसुमस्यासत्त्वमेवानात्मत्वाननुभूतित्वप्रयोजकमास्थीयेत; आस्थीयतां तर्ही घटादेरपि असंविदाश्रयत्वाज्ञानाविरोधित्वयोरेव तत्प्रयोजकत्वं । अथ ते अपि विषयत्वे स्यातामिति चेत्, अविषयत्वेऽपि तथैवेत्यलमप्रतिष्ठितकृतर्कापहसनेन ।
यदपि जननविरहादनुभूतेर्विकारान्तरनिरसनम्, व्यभिचरति तदपि प्रागभावे । जन्माभावेऽपि तस्य विनाशदर्शनात् । भावविशेषणोपादानेऽपि भवदभिमताविद्ययानैकान्त्यं । सा ह्यनादिरपि विविधविकारवती विनाशवती च तत्त्वज्ञानोदयात् । अपरमार्थास्तद्विकाराः सन्तीति चेत्, परमार्थाश्च ते किं विकाराः सन्ति?, जन्मवन्तो वा परमार्थाः; येन पारमार्थ्येन विशेषणं साध्यस्य साधनस्य वार्ऽथवत्तामश्नुवीत । तथाच सति साधु समर्थितं तर्ककुशलेनेत्यमनेन ।
यदपि नह्यजं विभाग्यस्तीति; तदपि न; अजस्यैवात्मनो देहेन्द्रियादिभ्यो विभागस्य समर्थितत्वात् । अनादित्वेनाभ्युपगतस्याज्ञानस्याऽत्मनो व्यतिरिक्ततयावश्याश्रयणीयत्वात् । अपरमार्थः स विभाग इति चेत्, परमार्थभेदः किं जन्मप्रतिबद्धः क्वचिद्दृष्टः? निर्बाधप्रतीतिसिद्धश्च दृग्दृश्यभेदः परमार्थ एवेत्यनन्तरमेवोपपादयिष्यामः ।
यदपि नास्या मेयो धर्मोऽप्यस्ति; चेत्यानां न चिद्धर्मत्वमिति च; तदपि शास्त्रानुमानादिप्रमाणसिद्धैः स्वयंप्रकाशत्वनित्यत्वादिधर्मैः स्वयमभ्युपगतैरनैकान्तिकं । न च ते चितिमात्रमिति वाच्यम्; तत्सिद्धावपि तेषु
विमतिदर्शनात् । अभ्युपगम्यैव हि संविदं तदनुमेयत्वक्षणिकत्वादि प्रतिजानते वादिनः । स्वरूपभेदाच्च । स्वाश्रयं प्रति सत्तयैव कस्यचित्प्रकाशनं हि संवेदनं । स्वयंप्रकाशता तु सत्तयैवाऽत्मने प्रकाशमानता । प्रकाशश्च चिदचिदशेषपदार्थसाधारणो धर्म इति संवित्सिद्धावेव साधितं । तदनभ्युपगमे तु व्यवहारानुगुण्यवचनः प्रकाशशब्दः । नित्यता तु सर्वकालवर्तमानता । एकसङ्ख्यावच्छेद एकत्वमिति । नच जडत्वकालदेशनानात्वाद्यवच्छेद शून्यतारूपत्वात्तेषां न यथोक्तदोष इति युक्तं । तथाभूतैरपि तैः चितिधर्मभूतैरनैकान्त्यस्यापरिहार्यत्वात् । संविदि च निषेध्यत्वाभिमतज
डत्वानित्यत्वनानात्वादिविरूद्धविविधधर्माभावे निषेधोक्तिरुक्तिमात्रमेव । चेत्यं चाज्ञानमात्मनि दृष्टमिष्टं च भवतां । अपि चास्या इति षष्ठ्यानुभूतेः संबन्धमभिधाय निर्धर्मत्वं प्रतिज्ञायमानं वन्ध्यात्वमिव जनन्या विरुद्धार्थमापद्येत ।}

प्राणात्मवादे देहात्मवाददूषणजातमतिदिशन्नाह निरस्त इति । अनिरस्तोऽदूषितो हि प्रतिपक्षितयावस्थितः प्राणात्मवादः निरासकयुक्तयन्तरापादन प्रयोजकीभावमापद्येत । न तु देहात्मवाददूषणैरेव दूषितोऽसत्प्राय इति भावः ॥९ ॥

आत्मनो गत्यनुपपत्तिं परिहरति अविभुत्वेने ति । विभुत्वे गतिर्नोपपद्येतेति युक्तं । अणुत्वे तु मनस इव निःस्पर्शस्यापि गतिरात्मन उपपद्यत एव । न च स्पर्शस्य गतौ हेतुत्वं प्रयत्नादृष्टादिप्रेरणमन्तरेति भावः । परिमाणे ति । एतदात्मनो गतिमत्त्वमात्मनः परिमाणनिरूपणप्रकरणेऽपि निरूपितं भविष्यतीति अधुनैतावता गतिमत्त्ववर्णनेनालमित्यर्थः । अलममुनेति पाठान्तरं ।

अत्र संविदात्मवादी समुत्तिष्ठते भवतु तर्ही ति । संविदात्मा, अजडत्वादिति प्रयोगः । व्यतिरेकव्याप्तिमाह जडत्वे ति । प्रतिबद्धंव्याप्यं । अनात्म्यमनात्मत्वं । आत्मनो भाव आत्म्यं तस्याभाव इति व्युत्पत्तेः । व्यतिरेकोपनयनिगमने आह जडत्वं चे ति । तदपिअनात्म्यमपि । व्यापकनिवृत्तेर्व्याप्यनिवृत्त्याक्षेपकत्वात्व्यापक जडत्वनिवृत्त्या व्याप्यानात्म्यनिवृत्तिः सिद्ध्यतीति भावः । अजडत्वहेतोरसिद्धिं परिहरति अजडत्वं चे ति । स्वसत्तामात्रतः प्रकाशमानत्वात्परायत्तप्रकाशत्वलक्षणजडत्वाभाव इति भावः । नही ति । परायत्तसिद्धिःपराधीनप्रकाशा । जडेति यावत् ।

अत्र संविदनुमेयत्ववादिनां भाट्टानां मतमनुवदति स्यान्मतम् इति । विषयमात्रम् इति । न हि नीलोऽयं घट इति ज्ञाने ज्ञानस्य विषयत्वं संभवति पटादेरिवेति भावः । ननु घटमहं जानामीति ज्ञानप्रकाशस्तर्हि कथं ? तत्राह

ततश्चे ति । ततः पश्चाच्चेत्यन्वयः । चस्त्वर्थे । अयं भावःज्ञानाद्विषये ज्ञातता नाम धर्मो जायते । स एव प्रकाश इत्युच्यते । स एव ज्ञानकृतोर्ऽथस्यातिशयो नाम । स च प्रत्यक्षो ज्ञातुः । तेन चार्थप्रकाशरूपलिङ्गेनात्मनि तद्धेतुं ज्ञानमनुमिनोति । आनुमानिकज्ञानालम्बनश्च घटमहं जानामीति निरुक्तप्रत्ययः । अनुमानप्रकारश्च इयं घटत्वप्रकारकज्ञातता घटत्वप्रकारकज्ञानजन्या तथा विधज्ञाततात्वादिति । तद्धर्मप्रकारकज्ञानज्ञाततयोः

कार्यकारणभावाच्च व्याप्तिसिद्धिः ।

एतद्भाट्टमतं प्रतिक्षिपति तन्ने ति । ज्ञाने ति । ज्ञानविषयता हि ज्ञातता । तद्विषयतयार्ऽथसंबद्धज्ञानव्यतिरिक्ततया विषयधर्मस्यातिशयविशेषस्यासिद्धिः । मम घटज्ञानं जातम्, ज्ञातो मया घट इति प्रतीत्योर्धर्मिधर्मभावव्यत्यासमन्तरार्ऽथभेदस्यानानुभाविकत्वादिति भावः । प्रत्यक्षासिद्धिमुक्त्वा ज्ञाततारूपातिरिक्तप्रकाशे कल्पनासिद्धिमाह उभये ति । ज्ञानविषयतयैवार्थे ज्ञातव्यवहारोपपत्तेस्तदनुपपत्तिलक्षणं ज्ञाततायामतिरिक्तायां कल्पकमसिद्धमिति भावः । अर्थज्ञानेषु ज्ञानस्य ज्ञातुरहमर्थस्यात्मनश्च नियतं भानमिति प्राभाकरप्रक्रियया समर्थयति वित्ती ति । ज्ञानज्ञात्रनवगाहिन्यां ज्ञेयप्रतीतावुपगतायां जातेऽपि घटज्ञानेऽहं तज्ज्ञानवान्न वेति संशयः, तज्ज्ञानाभाववानहमित्यादिविपरीतनिश्चयश्च कदाचिद्भवेत्,स्वस्य ज्ञानवत्त्वेनाप्रतिभासात् । तन्त्रितयविषयकत्वं ज्ञानस्यषितव्यमिति भावः । तथाच स्वप्रकाशत्वसिद्धेर्ज्ञानस्य तत एव विषयव्यवहारवत्ज्ञातताव्यवहारोऽपि घटत इति नार्थान्तरज्ञातताकल्पनावसर इति हार्दं । अथातीतानागतेष्वर्थेषु ज्ञातताया उत्पत्त्यसंभवात्तत्र ज्ञानेनैव ज्ञातताप्रतीतिरुपपाद्या, समैव चेयं रीतिः प्रत्यक्षेऽपीत्याशयेनाऽह अतीते ति । अत्र ग्रहणमनुमानादिलक्षणं । व्याहारःशब्दो व्यवहारः । व्यवहारः कायिकोहानोपादानादिः । उभौ विदितत्वप्रतीतिमूलावत्र ग्राह्यौ । विदितप्रतीतिमूलयोस्तयोः सद्भावेऽसद्भावे वा विदितत्वव्यवहारात्पूर्वमेव विदितत्वप्रतीतेस्तन्मूलभूताया उदय इति न तत्र व्याहारलिङ्गेन विदितत्वमनुमाय ततो वेदनानुमा

नं । किन्तु स्वयंप्रकाशवेदनबलादेव विदितत्वप्रतीतिः अथ च तन्मूलव्यवहार इति भावः । {आनुमानिकी तत्र
विषयसिद्धि}
रिति क्वचित्पाठेऽयमर्थःविषयस्य सिद्धिः प्रकाशरूपानुमानप्रमाणप्रतिपन्नेति । विषयप्रकाशसिद्धि रिति पाठे तु अनुमानप्रमाणजनिता विषयप्रकाशानुमितिरित्यर्थः । व्यवहारात्पूर्वमेव ज्ञातत्वप्रतीतिं स्मृतिस्थले उदाहरति केनचि दिति । स्मरणेनैवार्थस्य स्मृतत्वमवबुद्ध्य व्याहरति स्मृतमद्य मये ति । यदि लैङ्गिकी स्मृतत्वप्रतीतिः, तर्ह्यनेनैव व्याहारेण लिङ्गेन स्वस्यार्थे स्मृतत्वप्रतीतिरानुमानिकीति वाच्यं । तत्र चान्योन्याश्रयणं प्रसज्यते । स्मृतत्वप्रतीत्या तद्व्यवहारः, तेनैव च सा स्वस्येति । तथा च ज्ञानस्वप्रकाशत्वनिबन्धनैव ज्ञातत्वप्रतीतिरेष्टव्येति भावः । स्वव्याहारेणैवे ति । निरपत्रप इव क इत्यन्वयः । निरपत्रपःनिर्लज्जः । स्वव्याहारेणाहं

जानामीति स्वनिष्ठज्ञानव्यवहारेण, स्वज्ञानानुमानम्स्वनिष्ठज्ञानप्रतीतिं लैङ्गिकीं । व्यवहारे व्यवहर्तव्यज्ञानस्य हेतुत्वात्स्वकीयज्ञानव्यवहारेणैव स्वस्य स्वकीयज्ञानानुमानमिति प्रतिज्ञानुपपन्नात्यन्तमिति यावत् । परकीयेन परात्मनो ज्ञानव्यवहारेण तदन्यस्य परात्मनिष्ठज्ञानानुमानसंभवात्स्वव्याहारेण स्वज्ञानानुमानम् इति निर्दिष्टं । एवं ज्ञातताया असिद्धिः; ज्ञात इति प्रतीतिव्यवहारयोः स्वप्रकाशज्ञानत एवोपपत्तेः । ज्ञानस्य स्वप्रकाशत्वं चजाते ज्ञाने स्वात्मनि ज्ञानसंशयज्ञानाभावनिश्चयानुदयबलात्निश्चेयमिति वर्णितं ।

इदानीमभ्युपगम्यापि विषयनिष्ठं धर्मान्तरं प्रकाशं तदवष्टम्भेनैव ज्ञानस्य स्वयंप्रकाशत्वं समर्थयति प्रकाशानुमेयज्ञानवादनिरासार्थं अन्यश्चे त्यादिना । अत्र प्रयोगद्वयमनुभूतिरनन्याधीनतद्धर्मा स्वसंबन्धादर्थान्तरे तद्धर्महेतुत्वात्यथा रूपम्, तद्धि स्वसंबन्धाद्धाटादौ चाक्षुषत्वे हेतुः स्वस्मिन्रूपान्तरानपेक्षतद्धर्मवत्; अनुभूतिः अनन्याधीनस्वव्यवहारा स्वसंबन्धादर्थान्तरे व्यवहारहेतुत्वात् । यथा सत्ता । सा हि स्वसंबन्धाद्धटादौ सदिति व्यवहारहेतुः स्वीयसद्व्यवहारे सत्तान्तरा

नपेक्षा इति । आद्यः प्रयोगोऽत्र ज्ञाततारूपं धर्मान्तरमभ्युपेत्य, द्वितीयस्तु तदनुपगमेन । हेतुसाध्यनिष्कर्षः श्रुतप्रकाशिकादितोऽनुसन्धेयः । अनेन ज्ञाननिष्ठप्रकाशस्य ज्ञानान्तरानपेक्षत्वसिद्ध्या ज्ञानस्य स्वयंप्रकाशत्वोपपत्तिः । तथा च तस्यैवात्मत्वमित्याह स्वयंप्रकाशत्वा दिति । अत्रेदमाकूतमात्मनः स्वयंप्रकाशत्वं तावत्अत्रायं पुरुषः स्वयञ्ज्योतिर्भवती त्यादिश्रुतिसिद्धं । ज्ञानस्य स्वयंप्रकाशत्वं च निरुक्तानुमानतः । अतस्तस्यैवात्मत्वं न्याय्यमिति । संविद आत्मत्वे लाघवमप्याह किं चे ति । वेदित्रीज्ञातृरूपा आत्मेति यावत् । भवत्वि ति लोटू कामचाराभ्यनुज्ञायां । इतिपदमनुषञ्जनीयं । संविद एव प्रकाममात्मत्वमित्यभ्यनुज्ञानं श्रेष्ठमित्यर्थः ।

संविद आत्मत्वे बाधकमाशङ्कते नन्वहम् इति । प्राधान्यादहमर्थस्यैवात्मत्वं प्रतीयते, नतु धर्मतया भासमानायाः संविद इति भावः । अर्धाङ्गीकारेण परिहरति सत्यम् इति । ज्ञातृत्वप्रतीतावुपगमः । तत्प्रामाण्येऽनुपगमः । तदप्रामाण्ये हेतुमाह स तु इति । ज्ञाता तु भेदरूपतया नसाक्षात्प्रत्यक्षप्रमाणसिद्धः, किन्तु भ्रान्तिसिद्धः । स्वलक्षणवस्तुमात्रावगाहि निर्विकल्पकमेव हि प्रमाणं । धर्मधर्मिभावादिकल्पितभेदावगाहि सविकल्पकं तु

भ्रमलक्षणमति हार्दं । ज्ञातृभेदप्रतीतेः यौक्तिकबाधमप्याह भेदज्ञाने ति । सिद्धवत्कारेणेत्यस्याग्रेऽपीति योज्यं । अपृथग्वस्तुतये ति पाठः संभाव्यते । वा अप्रकाशात्मन इति पदच्छेदः । तथा चायमर्थःभेदज्ञानसिद्धवत्कारेणापिक्वचिद्भेदज्ञानस्य प्रामाण्योपगमेनापि । संवेदनानां भेदस्य सौगतैः तत्त्वतः इष्यमाणत्वात् । अपृथग्वस्तुतयाअभिन्नवस्तुत्वेन साध्येन, गृहीताव्यभिचारेणगृहीतव्याप्तिकेन, सहोपलम्भनियमेनज्ञानज्ञात्रोः महोपम्भनियमरूपहेतुना, ज्ञातुरप्रकाशस्वभावत्वे प्रकाशायोगः स्वभावविरोधादेव, प्रकाशस्वभावत्वे च संवेदनत्वमेवेत्यादिना वा संविदभेदसाधकेन संविद्भेदवाधकेन हेतुना अप्रकाशात्मनः संविद्भिन्नस्य ज्ञातुरहमर्थस्यात्मनः तत्त्वंस्वरूपं दुरुपगममुपगन्तुमशक्यमित्यर्थः । तृतीयान्तद्वयं दुरुपगममित्यनेनान्वितं । ज्ञाता संविदभिन्नः संविदा सहैवोपलभ्यमानत्वात्प्रकाशस्वभावत्वाद्वा इति प्रयोगोऽत्र बोध्यः । यद्वा पृथग्वस्तुतयेनत्वात्स्यात्पाठः । अव्यभिचारनिरूपकस्याभेदरूपसाध्यस्योपस्थितिस्त्वर्थात् । प्रकाशात्मन इत्येव चास्तु पदच्छेदः । सहोपलम्भनियमेन, प्रकाशस्वाभाव्ये च संवेदनत्वमित्यादिना वा हेतुना प्रकाशात्मनः संविदभिन्नस्य सिद्ध्यत आत्मनः, भेदज्ञानसिद्धवत्कारेणभादज्ञानप्रामाण्यसिद्धवदङ्गीकरणेन, पृथग्वस्तुतयासंविद्भिन्नत्वेन तत्त्वं अस्तित्वं, दुरुपगममित्यर्थः । निरुक्प्रकारं ग्राहकभेदनिरासहेतुं ग्राह्यभेदनिरासेऽप्यतिदिशति ग्राह्ये ति । सहोपलम्भनियमात्प्रकाशस्वभाव्ये च संवेदनत्वमित्यादितो वा संविदभिन्नत्वं नीलादेर्विषयस्येति

ज्ञानभिन्नत्वेन नीलाद्यर्थभेदस्याप्यसत्त्वमित्यर्थः । ननु ग्राह्यग्राहकयोः संविदभेदे ज्ञातृज्ञेयभेदानां ज्ञानतोभेदेनावभासः कथमित्यत्राह {अत} इति । दोषमूलोग्राह्यग्राहकभेदावभासो मिथ्या;

संविदाभासमात्रं सत्यमिति भावः । तत्र वासना दोष इति प्रकटानां सौगतानां योगाचाराणां पक्षः । अनाद्यविद्या दोष इति प्रच्छन्नानां मायावादिनां । ग्राह्यग्राहकविकल्पःज्ञेयज्ञातृभेदः ज्ञानविषयत्वज्ञानाश्रयत्वलक्षणः ।

उक्तार्थे प्रकटानां सौगतानां संमतिं प्रदर्शयति अविभोगोऽपी ति । बुद्धिरेवाऽत्मा । सा च निर्भेदापि भ्रान्तिज्ञानैः नीलभेदादिग्राह्यभेदचैत्रमैत्रादिग्राहक भेद प्रत्यक्षत्वानुमानत्वादिलक्षणज्ञानभेदवतीव प्रतीयत इति कारिकार्थः । मायिनां संमतिमुपदर्शयति शुद्धम् इति । भेद प्रपञ्चस्य शुद्धं तत्त्वं नोपादानं । तथा सति परमार्थत्वापत्त्यानिवृत्तिप्रसङ्गात् । ततस्तस्य प्रपञ्चस्य मायैवविविधविचित्रमिथ्यार्थप्रतिभासहेतुः मिथ्याभू

तानाद्यविद्यैव जननी उपादानमिति कारिकार्थः । निर्विशेषसन्मात्रं चिद्रूपं परमार्थः । तत्राधिष्ठाने अपरमार्थनानाभेदप्रतिभासो माययेति भावः ।

आत्मनः स्वयंप्रकाशत्वं श्रौतं । संविदस्तथात्वं च युक्तिसिद्धं । तत्तस्या एवात्मत्वं । तद्भिन्नस्य तु सर्वस्य दोषमूलत्वादाभासमात्रत्वमिति संविदात्मत्वं पूर्वपक्षितं । तत्र चास्ति मतद्वयं । क्षणिकविज्ञानमात्मा, नित्यविज्ञानमात्मेति च । तत्र क्षणिकविज्ञानात्मत्वमतं प्रकटसौगतानां तावन्निरस्यति अत्राऽहे त्यादिना । नित्यात्मवादीक्षणिकविज्ञानात्मवादे दूषणमाहेत्यर्थः । क्षणभङ्गिनी ति । क्षणरूपाविनाशस्वभावा विषयभेदेन नाना च संविदुपलभ्यते । तस्याश्चेदात्मत्वं प्रत्यभिज्ञादिकं नोपपद्यते । अनुसन्धातुरात्मनः स्थिरत्व एव तदुपपत्तेरिति भावः । अथ प्रतिभाया इव निर्विषयत्वं प्रत्यभिज्ञायाः शङ्कते न च निरालम्बने ति । प्रत्यभिज्ञा निर्विषया प्रतिभात्वात्मानसकल्पनाविलासवदिति प्रयोगः । अत्र बाधितत्वमाह निरालम्बनत्वे ति । ज्ञानसामान्यस्य सविषयकत्वनियमान्निर्विषयकत्वे ज्ञानत्वायोगात्ज्ञानविशेषे निर्विषयकत्वसाधनं बाधितविषयमित्यर्थः । प्रतिभायामपि नात्यन्ताय निर्विषयत्वं । अन्यत्र सत एवान्यत्र भानात् । क्वचिद्याथार्थ्यस्यापि दृष्टेरिति भावः । ज्ञानसामान्यस्य निर्विषयकत्वमिति पक्षे स्वप्रवृत्तिव्याघातमप्याह साधनस्य चे ति । निर्विषयकत्वसाधकानुमानस्य सविषयकत्वे तदविशेषेणाशेषज्ञानानां सविषयकत्वंस्यात् । तस्य निर्विषयकत्वे च न निर्विषयकत्वरूपसाध्यसिद्धिरिति साधनार्थप्रवृत्तिवैघट्यमिति भावः । प्रपञ्चितश्चे ति । पूर्वमीमांसाप्रथमाध्यायप्रथमपादे उत्तरमीमांसाद्वितीयाध्यायचरणे

च ज्ञाननिरालम्बनत्वमतनिराकरणं सूत्रतद्व्याख्याकर्तृभिः कृतं । शास्त्रे च न्यायतत्तावख्ये सर्वविज्ञानयाथार्थ्यसमर्थनेन कृतमित्यर्थः । अत्र पूर्वोत्तरमीमांसाभागयोरित्यनेन मीमांसाया विंशतिलक्षण्या ऐकशास्त्रयं तत्पूर्वोत्तरभागरूपत्वं च कर्मब्रह्मविचारयोरभिमतं ।

ननु विज्ञानं द्विविधं प्रवृत्तिविज्ञानमालयविज्ञानं चेति । तत्राऽद्यं नीलपीतादिज्ञानं । अन्त्यं चाहमाकारमात्मरूपं । क्षणिकत्वेऽप्युभयविधविज्ञानस्याऽलयविज्ञानधारानुवृत्त्या प्रत्यभिज्ञोपपद्यत इत्यत्राह अत एवे ति । विज्ञानक्षणे ति । विज्ञानमेव क्षणो विज्ञानक्षणः । अनुसन्धायिनःपूर्वानुभूतार्थप्रतिसन्धानकर्तृः क्षणिकविज्ञानव्यतिरिक्तस्य स्थिरस्योपगमे सर्वं क्षणिकमिति सिद्धान्तत्यागः । प्रकारान्तरेण ज्ञानव्यतिरिक्तज्ञात्रभ्युपग

मप्रसङ्गश्चेति भावः । अनभ्युपगम इति । क्षणिकक्रमिकविज्ञानसमुदायलक्षणं सन्तानं समुदाय्यनतिरिक्तं चेत्प्रत्यभिज्ञानुपपत्तिरेव, सन्तानान्तर्गतस्य पूर्वस्यानुभवितुर्विनष्टत्वात्, उत्तरस्य चाननुभवितृत्वेन प्रतिसन्धानायोगादिति भावः । अत्रेदमनुसन्धेयम्क्षणिकानां समुदायभावोऽपि न घटते, स्थिरैकदेशकालाद्युपाधिक्रोडीकारासंभवात्सौगते नये । एकबुद्धिक्रोडीकारस्त्वतिप्रसक्तः । भिन्नसन्तानिविज्ञानानामपि तथात्वेन सन्ताननियमानुपपत्त्यापत्तेः । पूर्वपूर्वविज्ञानोपादानकोत्तरोत्तरविज्ञानपरम्परा सन्तानमिति चेन्न । विनष्टस्य कार्यकालेऽसत उपादानत्वायोगात् । पूर्वत्वमात्रस्यातिप्रसक्तत्वाच्च । तत्सन्ताननियमानुपपत्तिरेवेति । नन्वालयविज्ञानस्य सौसादृश्येन ऐक्यभ्रान्त्या प्रतिसन्धानं भ्रमात्मकं घटत इति शङ्कते न चि ति । भ्रान्तिरूपा च प्रत्यभिज्ञा न घटत इत्यर्थः । घटते इति शेषः । दृष्टान्तवैषम्यमुपपादयति युज्यत इति । दृष्टान्ते भिन्नकालिकदीपकलिकयोः सुसदृशयोः साक्षात्कर्ता स्थिरश्चेतनः प्रसिद्धो भ्रान्तिभाक्त्वयोग्यः । तत्तत्र भ्रान्तिरूपा प्रत्यभिज्ञा घटते । न च तथा प्रकृते संविदां द्रष्टातिरिक्तः स्थिरोऽभ्युपेयते । अतः संविदेवात्मान्येनात्मनाभेदं स्वात्मनि भावयेदिति वाच्यं । परस्परवार्तामभिज्ञत्वान्नान्यस्माद्भेदमभेदं वा स्वात्मनि गृहीतुमलं । निरन्वयविनाशाच्च पूर्वधर्मानुवृत्तिबलादपि पूर्वानुभूतप्रतिसन्धानादि न घटते इति समुदिताशयः । परस्परवार्तानभिज्ञत्वंज्ञानान्तरतद्विषयाग्राहित्वं । निरन्वयविनाशित्वंसमूलविनाशित्वं स्वरूपतो धर्मतश्च । उत्तरोत्तरक्षणेषु पूर्वपूर्वविज्ञानक्षणतो

वासनोदयात्प्रतिसन्धानोपपत्तिरित्यपि न । अनन्तवासनोत्पत्तिविनाशादिकल्पनायामतिगौरवादिति दिक् । शिष्टं स्पष्टं ।

अत्र नित्यात्मवादिना केनचिदुक्तं संविद आगमापायित्वादिकममृष्यमाणोऽद्वैती प्रत्यवतिष्ठते । तदुच्यते कश्चिदाहे ति । स्वस्यासत्त्वे ग्राहकाभावात्स्वस्य स्वत्त्वे ग्राह्याभावाश्च न स्वतः संविदः प्रागभावग्रहः । संविदो ज्ञानान्तरागोचरत्वेनान्यज्ञानतस्तज्ज्ञानप्रागभावग्रहोऽपि न संभवति । ज्ञानविषयीकारमन्तरा तदुपरक्तप्रागभावग्रहणायोगात् । ज्ञानान्तरगोचरत्वे च घटादिवज्जडत्वप्रसङ्गात् । तत्प्रमाणाभावात्प्रागभावः संविदो नास्तीति भावः । **अत **इति । प्रागभावाभावादुत्पत्तिर्नास्ति संविदः । प्रागभावस्याप्युत्पादकान्तर्गतत्वादित्यर्थः । जन्माभावा दिति । इतरे भावविकाराःअस्तित्ववृद्धिपरिणामापक्षयविनाशाः । अस्तित्वमत्र स्वोपा दानावच्छिन्नस्थितिलक्षणं । उत्पत्तिप्रतिबद्धत्वातु

त्पत्तिव्याप्यत्वात् । व्यापकनिवृत्त्या व्याप्यनिवृत्तिरिति भावः । अत एवे ति । उत्पत्त्यभावादेव सजातीयसंविद्भेदलक्षणं नानात्वमपि निरस्तमित्यर्थः । उत्पत्तिमत्त्वव्यापके ति । कर्मधारयोऽयं । विभागिनाना, भिन्नं । अत्र संविन्न नाना, नापि विकारवती, अजत्वाद्यन्नैवं तन्नेवं यथा घट इति व्यतिरेकिप्रयोगः । संविदि भेदादिनिषेधे धर्मपक्षकमन्वयि च प्रदर्शयति चेत्यत्वाच्चे ति । भेदादयो न संविदि अनुभाव्यत्वाद्रूपादिवत् । अत्र भेदपदं विकारात्मकोत्पत्त्याद्यवस्थाभेदपरं प्रकरणात् । इतरेतराभावःसजातीयभेदः । विजातीयस्वागतभेदावादिपदग्राह्यौ । यद्वा भेदो विजातीयभेदः । इतरेतराभावो यथोक्तरूपः । आदिपदग्राह्याःउत्पत्त्याद्यवस्थाः स्वगतभेदाश्च । एतन्मतं क्रोडीकरोति अत} इति । निरस्तनिखिलभेदासत्त्वप्रकाशत्वादिधर्मरहिता प्रकाशैकस्वरूपा संविदेवाविकारनित्या परमात्मा जीवात्मा च । जीवभेदोऽपि कल्पित इति भावः । उक्तार्थे संवादमुदाहरति {यानुभूति रिति । अजत्वमनुत्पत्तिमत्त्वं । अमेयत्वंज्ञानागोचरत्वं । अनन्तत्वंविनाशराहित्यं । आत्मत्वम्जीवात्मपरमात्मरूपत्वं । निरुक्तरूपैका संविदेव सर्वव्यापिका परमात्मरूपोपाधिभेदेन नानाजीवात्मरूपा चेति भावः । सैव चे ति । न वाच्यशक्तयेयं वेदान्तेषु प्रतिपाद्यते । अवाच्यैव सती तात्पर्यवृत्त्या तेषु गम्यत इत्यर्थः । भाषापरिभाषा, सङ्केत इति यावत् । सङ्केतबलादेव श्रद्धेयत्वमेतन्मतस्येति हार्दं । वेदान्तानामेवंभूतायां संविद्येव तात्पर्यमद्वैतवार्तिककारवचनेन संवादयति परागर्थे ति । घटपटादिषु परागर्थेषु या प्रमाणजन्यां इति #ः फलरूपेष्यते तान्त्रिकैः

सैव मितिर्वेदान्तेषु प्रमेयभूता । इतोऽन्यस्मिन्परागर्थे तात्पर्यकल्पने च वेदान्तानामप्रामाण्यमेव स्यात् । परागर्थस्यासत्यत्वादिति श्लोकद्वयार्थः । निर्विशेषनित्यचैतन्यमात्रस्यैव तत्तत्प्रमाणाधीनान्तःकरणवृत्तिप्रतिबिम्बिततया तत्तद्वृत्त्यवच्छिन्नतया वा तत्तदर्थप्रकाशकत्वात्प्रमाणफलत्वोपचार इति बोध्यं ।

प्रक्रान्तं मायावादिमतं तावद्विस्तरेण प्रतिक्षेप्तुमुपक्रमते तदिदम् इत्यादिना । अलौकिकम्लौकिकप्रत्यक्षादिप्रमाणविरुद्धम्, अवैदिकंवेदादिसच्छास्त्रविरुद्धम्,लोकवेदाननुगुणं चेदं मायावादिनां दर्शनमित्यात्मतत्त्वसाक्षात्कर्तारो वदन्तीति भावः । संविदद्वैते पराभिमतेऽध्यक्षविरोधमादौ निरूपयति तथाही त्यादिना । परागर्थप्रमितेर्ह्यात्मत्वमुक्तं वार्तिककृता । तस्याः स्फुटमेवानात्मत्वमित्याह संवि दिति । ज्ञानादिपदं प्रर्यायनामेकार्थवाचकं यस्यै

वंभूतः आत्मधर्मः कश्चिद्विषयप्रकाशकः संविच्छब्दित इत्यर्थः । तस्यास्ये ति । अन्यधर्मत्वेनानित्यत्वेन च प्रत्यक्षसिद्धस्यास्य प्रमाणफलस्य विषयवेदनस्य न नित्यात्मस्वरूपत्वं संभवतीति भावः । प्रमाणफलस्य सकर्मकस्यानुभवस्यानित्यत्वं प्रकारान्तरेण साधयति स्वापे ति । स्वापादौ सत्त्वे योग्यत्वाद्वेदनस्योपलब्धिः स्यात् । अनुपलब्धेश्च न तदा तस्य सत्त्वमिति भावः । सुषुप्तिकालिकं वेदनाभावं सुप्तोत्थितस्य परामर्शेनापि द्रढयति अत एव ही ति । ननु संविदः स्वप्रकाशत्वात्स्वापेऽप्यस्त्येवोपलम्भः । अनुभूतमवश्यं स्मर्तव्यमिति नियमाभावाच्च तदननुसन्धानं घटते प्रबोधे । इयन्तं कालं न किञ्चिदहमवेदिषं इति परामर्शस्तु विषयप्रकाशकत्वविशिष्टज्ञानाभावगोचरः । स्वापे सतोऽपि हि विज्ञानस्य न विषयप्रकाशकत्वमिति चोद्यमनूद्य परिहरति याव दिति । नियमाभावेऽपीत्यन्तेन चोद्यानुवादः । अग्रे परिहारः । प्रायणादेः संस्कारविच्छेदकरत्वं संवित्सिद्वावभिहितं प्रायणान्नरकक्लेशात्प्रसूतिव्यसनादपि । चिरातिवृत्ताः प्राग्जन्मभोगा न स्मृतिगोचराः ॥ इति । प्रायणम्मरणं । नित्यवत्सार्वदिकं । यद्वा नियमवत् । नियतमिति यावत् । निखिलसंस्कारप्रमोषहेतुप्रबलदुःखहेतुविरहेऽपि नियमेनास्मरणं संविदः स्वापेऽप्रकाशमेव साधयेत् । स्वयंप्रकाशस्वभावायाश्च तस्या अप्रकाशस्तदा तदभावपर्यवसन्न इति भावः । सिद्धान्ते तु विषयप्रकाशनवेलायामेव धर्मभूतज्ञानस्य स्वयंप्रकाशत्वोपगमात्स्वापेसतोऽपि तस्याप्रकाशो न क्षतिकर

इति बोध्यं । अत्र शङ्कते {न च
सत्यपि}
ति । विषयावच्छेदविरहात्विषयसंबन्धविरहात् । अहङ्कारगोचराभावातहंबुद्धिबोध्यस्य ज्ञातुरहमर्थस्य विलयात् । अहमर्थोपश्लिष्टाया विषयान्वयवत्या एव संविदः संस्काराधायकत्वं । स्वापेतदुभयवैधुर्यात्स्वप्रकाशस्यापि चैतन्यमात्रस्य न संस्काराधायकत्वमिति न तस्य प्रबोधेऽनुसन्धानप्रसङ्ग इति भावः । अत्रोत्तरमाह अर्थान्तरे ति । तदग्रहणस्यार्थान्तराग्रहणस्य । त्रितये ति । ज्ञानज्ञेयज्ञातृत्रितयावभासेऽपि यथायथं तत्तदनुभवस्यैव तत्तत्संस्कारं प्रति हेतुत्वादेकाग्रतया संविदनुभवे सति स्वापे ततः तत्संस्कारोत्पादेऽहमर्थविलयघटपटाद्यर्थान्तराननुभवयोरप्रतिबन्धकत्वात्संविन्मात्रप्रत्यवमर्शप्रसङ्गो दुर्वारो भवन्मते प्रबोधसमय इति भावः । ननु ज्ञातुर्विनष्टत्वात्स्वापेकः स्मरेदित्यत्राह न च प्रत्यभिज्ञे ति । पूर्वदिने कृतस्यापरदिने प्रतिसन्धानात्पूर्वापरदिनस्थायित्वेन सिध्यतो ज्ञातुरहमर्थस्य मध्यकाले स्वापे विलयो न घटत इति भावः । एवं स्वापेऽप्यहमर्थस्य

सद्भावमुपपाद्य तदा तद्भानमपि वर्तत इत्युपपादयति अत एव ही ति । स्वापकालिकाहमर्थप्रतिसन्धानमिदं तात्कालिकतत्प्रतिभाससमर्थकं । न चानुमितस्वापतत्सुखत्वात्मस्वरूपसत्तागोचरमिदमस्तु, तथा चेदं न स्वापेऽहमर्थप्रकाशस्योपपादकमिति वाच्यं । स्वापांशेऽनुमितिलक्षणत्वेऽपि अहमर्थे प्रतिसन्धानरूपत्वस्य प्रातस्तत्राहं (न) आस मित्यादाविव स्वरससिद्धस्यानपोद्यत्वात् । प्रातःकालानुभूतात्मस्वरूप परामर्शित्वादस्यात्मस्वरूपे प्रतिसन्धानरूपत्वोपपत्तिर्यथा, एवं स्वापेऽनुभूतात्मस्वरूपपरामर्शित्वादात्मांशे प्रतिसन्धानरूपत्वोपपत्तिरिति भावः । न च नित्यात्मप्रकाशस्य संस्कारजनकत्वे मानाभावात्कथमहमर्थ आत्मनि प्रतिसन्धानरूपत्वमस्येति वाच्यं । स्वजन्यसंस्कारवत्त्वेनानुभवस्य प्रतिसन्धाने एकहेतुत्वनिर्वाहाय नित्यानुभवस्यापि संस्कारहेतुत्वोपगमात् । स्पष्टं चेदं सिद्धान्तसिद्धाञ्चने । स्वापेऽनुभूतात्मांशप्रकाशनरूपत्वाद्वा प्रतिसन्धानवाचो युक्तिः । अधिकमन्यत्र । ननु सविषयज्ञानस्य नित्यत्वं मास्तु शुद्धसंविदो नित्यत्वाद्युपपन्नमेवेत्यत्राह न च निर्विषये ति । स्वयंप्रकाशसंविदनुभवो हि विषयाश्रयोपश्लिष्टसंविद्विषय एव लोकविदितः इदमहं जानामी ति । केवलसंविदनुभवस्तु न कस्यापि स्वतोऽन्यतो वा प्रसिद्ध इति भावः । ननु सिद्धान्ते ज्ञानस्वरूपस्यात्मनो निर्विषयत्वं निराश्रयत्वं चाभ्युपगतं कथं सङ्गच्छते? । उच्यते । संविदादिशब्दानां सविषयकज्ञान एव रूढत्वात्तदर्थस्य निर्विषयत्वादिनिषेधोक्तिरुपपन्नैव । धर्मभूतस्य ज्ञानस्य च विषयप्रकाशकस्य न निराश्रयत्वं नित्यात्मस्वरूपाश्रितत्वात् ।आत्मस्वरूपज्ञानस्यापि

प्रत्यक्त्वानुकूलत्वैकत्वप्रकारतः स्वरूपप्रकाशकत्वान्न निर्विषयत्वं निर्धर्मकत्वं वा । आत्मन्येकत्वानेकत्वाहन्त्वानहन्त्वादिसंशयस्य कदाप्यनुदयाच्च प्रत्यक्तवादिना भानमेष्टव्यं । निरुपाधिकप्रेमास्पदत्वाच्च सुखत्वेनेति सिद्धान्तेऽभिमतो विशेषः । संविदः सविशेषत्वं संविदादिशब्दानां संबन्धिशब्दत्वप्रसिद्ध्याप्युपपादयति संबन्धी ति । नियतसंबन्ध्याकाङ्क्षाशालित्वं संबधिशब्दत्वं । ज्ञानं, संवेदनमित्युक्ते हि कस्य किंविषयकमिति विषयाश्रयाकाङ्क्षा नियता । एतदेव व्यतिरेक निषेधेन द्रढयति न ही ति । जानात्यादेः ज्ञाधातुप्रभृतेः । ननु ज्ञानस्वरूप मित्यादिषु केवलस्यैव प्रयोगो दृश्यत इति चेन्न । आशयानभिज्ञो हि भवान् । अत्रत्यस्य धर्मिवाचिनो ज्ञानशब्दस्य स्वयंप्रकाशत्वप्रवृत्तिनिमित्तकस्य संबन्धिशब्दाद्धर्मभूतज्ञानवाचिनः शब्दाच्छब्दान्तरत्वात्चतुष्पाद्वाचिन इव गोशब्दात्किरणादिवाचिनस्तस्य । अस्माकं संबन्धिशब्दत्वप्रसिद्धिः

धर्मभूतज्ञानवाचिनि सावकाशा । भवतां तु धर्मिणः स्वरूपज्ञानस्य धर्मभूतस्य च विषयज्ञानस्य भेदाभावातेकस्यैव चैतन्यस्यात्मरूपस्य निर्विशेषत्वसिद्धान्तात्संबन्धिशब्दत्वप्रथानोपपन्ना संविदादिशब्दस्येति । निर्विशेषज्ञप्तिमात्रस्य पर्वृत्तिनिमित्तायोगेनैव धर्मिवाचिज्ञानशब्दवाच्यत्वमपि न संभवतीत्यप्यनुसन्धेयं ।

एवं परैरात्मतयाभिमतस्य प्रमाणफलस्यागन्तुकत्वादात्मधर्मत्वाच्च नात्मत्वमित्यक्तं । अथ तस्य प्रागभावासिद्धिं परोक्तामनुवदति यत्तु स्वत इति । अन्यतः सिद्ध्यभावस्फोरकं स्वतःसिद्धस्य इति । अनुभवस्येति विशेष्यपदमध्याहार्यं । तद्विरोधादेवप्रतियोगिना यौगपद्यावस्थानासंभवलक्षणाद्विरोधादेव । प्रागभावादेः संवित्प्रागभावादेः । शिष्टं स्पष्टं । दूषयति त} दित्यादिना । ज्ञानसामान्यस्य स्वसमानकालिकार्थग्राहित्वनियमे दोषमाह {अतीते ति । शङ्कानुवादः अथे ति । इतीत्यनन्तरं मतमिति शेषः । संवित्प्रागभावस्य स्वसमानकालिकग्रहग्राह्यत्वमेवेति नियम इति शङ्काग्रन्थार्थः । नियममुपगम्याऽह किमेवम् इति । तत्सिद्धेःसंवित्प्रागभावग्रहसिद्धेः । न प्रागभावाद्यसिद्धिःन संवित्प्रागभावाद्यसिद्धिः । अयं च नियमो यद्यपि सिद्धान्ते युक्तः,विद्यमानयत्किञ्चज्ज्ञानप्रागभावस्य विद्यमानेनैव ज्ञानान्तरेणानुमानादिना ग्रहणात् । अहमिदानीं चाक्षुषाभाववानुन्मीलितचक्षुष्कत्वादित्याद्यनुमानसंभवात् । अथापि परमतेऽयं नियमोऽनुपपन्न इत्याह

तत्प्रागभाव इति । भवता हि ज्ञानं ज्ञानान्तराग्राह्यमिष्यते । एवं सति तज्ज्ञानप्रागभावस्तेनैव समानकालिकेनग्राह्यः स्याद्भवदुक्तनियमानुसारात् । तच्चानुपपन्नमिति भावः । नन्वत एवास्माभिः संवित्प्रागभावासिद्धिरुच्यत इति चेत्तत्राह ऐन्द्रियिके ति । लौकिकप्रत्यक्ष एव समानकालिकपदार्थग्राहित्वमिति नियमः । न तु ज्ञानसामान्यस्य, प्रमितिसामान्यस्य वा । तथा च प्राक्कालिकस्य स्वप्रागभावस्य तेनैव वर्तमानेन ज्ञानेन ग्रहणे नानुपपत्तिरिति हार्दं । अग्रेचैतद्व्यक्तीभविष्यति । प्रमाणस्य प्रमेयाविनाभूतत्वात्प्रमाणज्ञानस्य स्वयंप्रकाशत्वेन नित्यत्वात्तत्प्रमेयमपि नित्यमिति मतं निराकरोति एतेने ति । एतेनप्रमाणज्ञानमात्रस्य समानकालपदार्थग्राहित्वनियमाभावेन । निरसनीयमतानुवादः मानम् इति । स्वयंप्रकाशत्वात्, मानंप्रमितिः, स्वतःसतनन्यापेक्षसत्ताकं सदास्त्येव । एवं चेत्, अतो वक्ष्यमाणाद्धेतोः तन्मेयं च वस्तु सदास्त्येव । हियतः, मानंप्रमाणज्ञानं, मेययुगेव प्रमेयाविनाभाव्येवेत्यर्थः । स्वयंप्रकाशस्यापि प्रमाणज्ञानस्य प्रमाणजन्यत्वादेवानित्य

त्वं । तत्प्रागभावग्रहोऽपि स्वतः परतो वा संभवेदेव । अतो मितिनित्यत्वमुपजीव्य मेयनित्यत्वव्यवस्थापनमयुक्तं । प्रमाणज्ञानस्य समानकालार्थग्राहकत्वनियमाभावाच्चेति पराकरणप्रकारोबोध्यः । नन्वसदर्थग्राहित्वे मितेः कथं प्रमेयाविनाभावो घटते ? । तत्राह न ही ति । यदा प्रभितिस्तदा प्रमेयमिति न प्रमेयाविनाभावः प्रमितेः । किन्तु यद्देशकालसंबन्धित्वेन यादृशाकारवत्त्वेन च यद्भासते प्रमितौ, तस्य तत्प्रकाराभावाभावपर्यवसितं प्रमेययोगित्वं । अतद्रूपानवगाहित्वं मेये, तद्वति तत्प्रकारकत्वमेव च तदिति भावः । स्मृतेरप्रामाण्यमतमपि प्रतिक्षिपति प्रसङ्गतः अत एवे ति । प्रलापः प्रलापमात्रं । निरर्थकं वचनमिति यावत् । अतीतमपि बाह्यमर्थं तथात्वेनैवावगाहिन्याः स्मृतेर्न निर्विषयता, मेयव्यभिचारो वा । प्रमेययोगित्वस्य तद्वति तत्प्रकारावगाहित्वरूपत्वादेवेति भावः ।

अथे त्यादिः शङ्कानुवादः । उत्येते ति वा, मतम् इति वा शेषः पूरणीयः । परिहारो यद्येव मित्यादिः । स्वतःसिद्धत्वात्संविदः प्रागभावाद्यसिद्धिरिति वदता प्रमाणाभावस्येदानीं तद्धेतुत्वेनाभिधाने हेत्वन्तरं । प्रमाणाभावोऽप्यसिद्ध इति भावः । समर्थितत्वा दिति । अभिहितं हि पूर्वमेव स्वापमदमूर्च्छादशासु च योग्यानुपलम्भनिराकृतः तत्सद्भावो नाभ्युपगममर्हती ति । अत्रेदं बोध्यम् अप्रकाशेऽपि संविदः स्वापेऽहं न जानामीति तदभावप्रत्यक्षमात्मनि तदा न घटते यद्यपि । स्वापस्य व्याघातात् । सविषयकज्ञानसामान्याभावो हि सः । अथापि स्वयंप्रकाशस्वभावायाः संविदोऽप्रकाशात्स्वापेऽभावः सिद्धः । तत्प्रतीतित्स्वानुमानिकी प्रबोध एवास्मरणनियमानुमितेन स्वापकालिकसंविदननुभवलिङ्गेन योग्यानुपलब्धिलक्षणेन । इदमेव चानुमानं ज्ञानत्वसामान्येन स्वापे स्वस्याप्यभावं विषयीकरोतीति सिद्धं स्वप्रागभावग्रहः स्वेनैवेति ।

प्रकारान्तरेणाप्यनित्यत्वं संविदां साधयति अपि चे ति । न साधयतिन प्रकाशयति । तत्तस्मात् । कालविशेषावच्छिन्नैवकादाचित्कैव । कादाचित्कतया प्रत्यक्षप्रकाशस्याभिनयः अहमिदानीमेवास्मि नान्यदा इति । चेतनसमाध्यारोपेणैवं व्यपदेशः । यद्वा प्रमाणफलस्यैवात्मत्वस्वप्रकाशत्वयोः परैरुपगमात्तन्मत एवमेव प्रकाशः प्रमितेः स्यादित्याकूतं । इतरथे ति । प्रत्यक्षस्य समानकालीनार्थप्रकाशकत्वस्वाभाव्येन तस्य नित्यत्वे तद्विषयस्य घटादेरपि नित्यत्वप्रसङ्ग इति यावत् । यावत्स्वसत्तं घटादिर्नाध्यक्ष्यते, किन्तु सन्नपि कदाचिदेव, तथाच घटाद्यध्यक्षस्य कादाचित्कत्वं न विषयासत्त्वप्रयुक्तम्,

किन्तु स्वस्य कादाचित्कत्व प्रयुक्तमेवेति भावः । अत्र प्रयोगः प्रत्यक्षसंवित्स्वविषयकालाव्यापिनी, समानकालीनार्थभासकत्वे सति यावदर्थसत्तं तदप्रकाशकत्वादिति । प्रत्यक्षवदनुमानादिसंविदामप्यनित्यत्वं साधयति एवम् इति । कादाचित्कतयैव चकासती ति शेषः । लिङ्गपरामर्शादिसापेक्षाणां तासां न हि नित्यत्वं संभवति । अन्वमिनवम्, अशाद्बयमित्यादिप्रतीतयश्च कादाचित्कतां गमयन्ति । समानकालार्थग्राहित्वनियमरहितानामप्येतासां प्रतीतं कादाचित्कत्वं न विषयासत्त्वौपाधिकम्, किन्तु स्वरूपप्रयुक्तमेवेति भावः । ननु सविषयकज्ञानानामनित्यत्वेऽपि निर्विषयं ज्ञानमात्रं नित्यमिति चेत्तत्राह नचे ति । प्रत्यक्षानुमानपदे भावप्रधाने । धीसंविदादिपदानां सविषयकज्ञान एव स्वारसिकः प्रयोगः । तदर्थस्य च साश्रयत्वनियम एव । उपलम्भबलाच्छास्त्रबलाच्च स्वरूपज्ञानस्यापि न निर्विशेषत्वमिति भावः । एतेन चैतन्यमात्रं नित्यनिर्विशेषस्वप्रकाशरूपं सत् । तस्यैवान्तः करणवृत्त्यवच्छिन्नस्य विषयप्रकाशकत्वं । वृत्त्यवच्छेदकादाचित्कतया विशिष्टस्य तस्यानित्यत्वप्रतीतिः । अन्तःकरणावच्छिन्नं तदेव ज्ञात्रित्यपि परास्तं । अन्तःकरणस्य वृत्तिः किं व्यापारलक्षणा उत परिणामलक्षणा । नाद्यः, तावन्मात्रेण ज्ञानव्यापारमन्तरा विषयप्रकाशाभावात् । इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां तेनास्यक्षरति प्रज्ञा इत्यादिषु मनैन्द्रियद्वारकज्ञानप्रसरणत

एवार्थप्रकाशव्यवस्थापनात् । क्वचित्प्रज्ञामनसोरभेदोपदेशस्तु ज्ञानव्यापारानुगुणव्यापारवत्त्वान्मनसो भाक्तो ज्ञेयः । न द्वितीयः, मनसो विषयाकारपरिमाणे दृढतरप्रमाणाभावात् । चैतन्यस्य निर्विशेषत्वे च न प्रमाणम्; येन तस्यैवौपधिकभेदरूपत्वकल्पनं ज्ञात्रादेः साधीयो भवेत् । निरूपाधिकज्ञातृज्ञेयज्ञानभेदप्रतिपादकाबाधितप्रत्यक्षशास्त्रादिप्रमाणबाधितं चेदमित्यलमधुना ।

एवं स्वेनैव स्वप्रागभावसिद्धिमुक्त्वान्यतोऽपि तामाह न चान्ये ति । अतीतस्य स्वकीयज्ञानस्य स्मृत्यादिग्राह्यत्वमुक्त्वा परकीयज्ञानस्यापि ज्ञानान्तरग्राह्यत्वमाह प्रतिकूले ति । परकीयस्य विषयविशेषेऽनुकूलत्वज्ञानस्य प्रतिकूलत्वज्ञानस्य वा तदीयहानोपादानादिप्रवृत्तिरूपदर्शनानुमेयत्वादिति यावत् । ज्ञानस्य ज्ञानान्तरग्राह्यत्वानुपगमे बाधकमाह तदनुपगमे चे ति । परज्ञानानुपगमे व्यवहाराच्छक्तिग्रहस्य परज्ञानानुमानसापेक्षत्वाच्छक्तिग्रहस्यैवासंभवेन तन्मूलस्य व्यवहारस्य विलोपप्रसङ्ग इत्यर्थः । यद्वा शब्दार्थसंबन्धस्य बोध्यबोधकभावस्य बोधघटितस्य ज्ञानस्य ज्ञानान्तरग्राह्यत्वानुपगमे व्याकरणादिना

प्रतिपादनासंभवात्समस्तशाब्दव्यवहारविलोपप्रसङ्ग इत्यर्थः । शब्दार्थग्रहणासंभवेनशब्दार्थसंबन्धग्रहणासंभवेन । परकीयज्ञानानुमानानुपगमे गुरूपसर्पणादेरप्यनुपपत्तिरित्याह गुरूपसर्पणे ति । तस्यगुरोः ।

अथानुभाव्यत्वस्यानुभूतित्वविरुद्धत्वं प्रतिक्षिपति नचान्यविषयत्वइति । स्वाश्रयस्येत्युभयत्र संबध्यते । स्वाश्रयाय स्वयमेव प्रकाशमानत्वम्, स्वाश्रयाय स्वविषयप्रकाशकत्वं वा स्वसत्ताकाले संविदो विद्यत एव । उभयविधं चेदमनुभूतित्वं स्वसत्ताकाले स्वाश्रयायाप्रकाशमानत्वे स्वविषयाप्रकाशकत्वे वा न घटेत । न तदस्ति । अतीतत्वदशायां स्वाश्रयाय वर्तमानदशायां वा पुरुषान्तराय ज्ञानान्तरेण भासमानत्वेऽपि तस्या न निरुक्तानुभूतित्वभङ्गप्रसङ्ग इति भावः । अनुभाव्यत्वस्याननुभूतित्वेऽप्रयोजकत्वं चाह घटादे रिति । तथास्वाभाव्याभावादेवनिरुक्तोभयविधानुभूतित्वविरहादेव । अननूभूतित्वमनुभूतिभिन्नत्वम्, अनुभूतिपदावाच्यत्वं वा । साहचर्यमात्रेणानुभाव्यत्वस्याननुभूतित्वप्रयोजकत्वे प्रतिबन्द्युपक्षेपः अपि चे ति । तत्प्रसङ्गःअननुभूतित्वप्रसङ्गः । असतोदृष्टान्ततया निर्देशः परप्रक्रियया । एवं संविदोऽनुभाव्यत्वं समर्थ्याऽत्मनोऽपि तत्, संविद्भिन्नत्वं च समर्थयते न चात्मनइति । अनुभूतित्वंविषयधीरूपत्वं । अनुभवितृत्वात्विषयध्यधिकरणत्वात् । नाप्यसा विति । ज्ञानान्तरनिरपेक्षप्रकाशस्यापि निजात्मस्वरूपस्य श्रवणादिज्ञानग्राह्यत्वात्, परात्मनोऽपि तच्छरीरगतचेष्टादिनानुमेयत्वादात्मनोऽननुभाव्यत्वं श्रुतियुक्तिविरुद्धमनुपपन्नमित्यर्थः । आस्थीयताम् इति । घटादेः ज्ञानानाश्रयत्वमेवानात्मत्वेऽज्ञानाविरोधित्वमेवाननुभूतित्वे प्रयोजकमिष्यतां नानुभाव्यत्वमित्यर्थः । शङ्कात्र अथे ति । तेज्ञानानाश्रयत्वाज्ञानाविरोधित्वे । विषयत्वेअनुभाव्यत्वे । परिहारः अविषयत्वेऽपी ति । तथैव ते स्यातां गगनकुसुमवदिति

यावत् । असत्त्वमेव तयोः प्रयोजकंनाननुभाव्यत्वमिति चेतननुभाव्यत्वेऽसत्त्वमपि प्राप्तं तद्वदेव । अप्रयोजकत्मवमिति चेत्तुल्यमनुभाव्यत्वेऽपीति हार्दं । इत्यलम् इति । व्याप्त्याभासमूलत्वात्कुतर्कत्वं । अत एवाप्रतिष्ठितत्वं सिषाधयिषितार्थसिद्धिपर्यवसानविरह इति बोध्यं । एव मनुभाव्यत्वसमर्थनेन परतोऽपि संविदः प्रागभावसिद्धिरभिमता । सिद्धान्ते धर्मभूतज्ञानस्य नित्यत्वेऽपि विषयप्रकाशोपयोग्यवस्थाविशेषविशिष्टस्यानित्यत्वादीष्टमेवेति ध्येयं ।

स्वप्रकाशत्वात्संविदो न प्रागभावसिद्धिः । प्रागभावाभावाच्चानुत्पन्नत्वं, तत एव

भावविकाररहितत्वं चोक्तमन्यैः । तत्र संवित्प्रागभावसिद्धिसमर्थनेनानुत्पन्नत्वहेतोः स्वरूपासिद्धं सिद्धवत्कृत्य विकारान्तरनिरासकानुमानेऽनैकान्त्यमाह व्यभिचरती ति । सप्तम्या अवच्छेदकत्वमर्थः । तस्य व्यभिचारपदार्थेऽन्वयः । अनुत्पन्नत्वं प्रागभावावच्छेदेनाविनाशित्वरूपसाध्यव्यभिचारीत्यर्थः । तदधिकरणस्यैव तन्निष्ठधर्मावच्छेदकत्वात्प्रागभावस्य हेतुनिष्ठव्यभिचारावच्छेदकस्य हेतुमत्त्वं साध्याभाववत्त्वं च सिद्ध्यति । भावे ति । भाववृत्तित्वस्यानुत्पन्नत्वहेतुविशेषणत्वेऽपि पराभिमतायामनादिसान्ताविद्यायां व्यभिचार इत्यर्थः । व्यभिचारेऽवच्छेदकस्या ज्ञानस्य तद्धेतुत्वविवक्षातोऽविद्ययेति तृतीया । अनैकान्त्यं परिहर्तुं शङ्कते अपरमार्था इति । परमार्थविकारराहित्यं साध्यं । तदभावश्च परमार्थविकारो नाविद्यायामिति न व्यभिचार इति भावः । प्रतिवक्ति परमार्थाश्चे ति । तेतव । मते इति पूरणीयं । साध्यस्यसाध्यघटकविकारादेः । साधनस्य वासाधनघटकोत्पत्तेर्वा । अर्थवत्तामश्रुवीतान्वितार्थकं भवेत्; व्यभिचारस्यासिद्धेश्च वारकतया सप्रयोजनं वा । संविदोऽपि कल्पितोत्पत्तिमत्त्वसंभवेन स्वरूपासिद्धिवारणाय साधनस्य वेत्युक्तं । अयं भावः परमार्थविकारादेः परमार्थोत्पत्तेर्वानुपगमाद्भवतां साध्यहेत्वोः पारमार्थ्यविशेषणं न घटते ।

साध्यसाधनव्यतिरेकव्याप्तीनामप्रसिद्धिप्रसङ्गात् । अविशेषणे च व्यभिचारस्य स्वरूपासिद्धेर्वा न परिहारसंभव इति । तथा च सती ति । उपहासगर्भमुपालम्भवचनमिदं । तथा च सतिविशेषणदाने सति च । व्यभिचारवारकं विशेषणं विवक्षतासिद्धौ दृष्टिर्न विधीयत इति भावः ।

अनुत्पन्नत्वान्निर्भेदत्वं संविद इति चानूद्य प्रतिक्षिपति यदपी ति । तदपि ने ति । सजातीयविजातीयस्वगतभेदानामबाधिताध्यक्षादिसिद्धत्वाद्बाधितविषयं तन्निषेधानुमानमिति भावः । विभागि भेदयोगि । विजातीयभेदनिषेधेऽनुत्पन्नत्वेन सिषाधयिषितेऽनैकान्त्यमाह अजस्यैवे ति । पराभिमतेऽज्ञानेऽपि तदाह अनादित्वेने ति । आत्मानात्मभेदस्यापरमार्थत्वात्परमार्थभेदस्य निषेधे नानैकान्त्यमित्यभिमानेन शङ्कते अपरमार्थ इति । अभिमानं निराकरोति परमार्थभेद इति । जन्मप्रतिबद्धः उत्पत्तिमत्त्वव्याप्यः । यत्परमार्थभेदवत्तदुत्पन्नमिति हि व्यतिरेकव्याप्तिर्वाच्या । सा च न; परमार्थभेदस्यैव भवन्नयेऽप्रसिद्धेः । तथा च विशेषणदानेऽसिद्धिप्रसङ्गः । विशेषणादाने चानैकान्त्यं दुष्परिहरमिति भावः । नच परमार्थत्वरूपव्यधिकरणधर्मावच्छिन्नभेदनिष्ठप्रतियोगिताकाभावः साध्यते, तथा च न

दोष इति वाच्यं । एवमपि भवन्मते हेतुसाध्ययोः । साहचर्यग्रहोपयोगिपक्षातिरिक्तस्थलान्तराभावाद्व्याप्यत्वासिद्धिरेव । व्यघिकरणाधर्मावच्छिन्नप्रतियोगिताकाभावस्य केवलान्वयितया व्यतिरेकव्याप्तेरपि दुर्वचत्वात् । नच शास्त्रत एव संविन्मात्रस्य नित्यत्वं निर्भेदत्वं च सिध्यतीति वाच्यं । शास्त्रस्यापि भवन्मतविप्रतीपत्वात् । नित्यानां चिदचिदीश्वरादीनां परमार्थतो भेदो हि शास्त्रेषु वर्ण्यत इत्यन्यत्र विस्तरः । अग्रे च व्यक्तीभविष्यति । संविदि सजातीयभेदनिषेधे साध्यमाने प्रत्यक्षबाधमाह निर्बाधे ति । दृग्दृश्यभेदःदृशां, दृश्यानां, दृग्दृश्यानां च मिथो भेदः ।

संविदः स्वगतभेदनिषेधानुमानेऽपि दूषणमाह तदपी ति । संविद्धर्माणां प्रमाणसिद्धत्वकथनेन संविदि धर्मनिषेधसाधनस्य कालात्ययापदिष्टत्वं फलितं । अत एव संवित्पक्षके व्यतिरेकिणि धर्मपक्षके चान्वयिनि संविद्धर्मनिषेधानुमाने पक्ष एव व्यभिचारोद्भावनं घटते । ननु संविद्धर्माणां संविदभिन्नतया भिन्नधर्मनिषेधानुमाने न क्षतिरित्यत्राह तत्सिद्धावपी ति । विवादविषयाणां धर्माणां संप्रतिपन्नसंवित्स्वरूपता न घटत इति भावः । घटपटयोरिवाकारभेदाच्च संवित्तद्धर्मयोर्नैक्यमित्याह स्वरूपभेदाच्चे ति । स्वरूपभेदमेवोपपादयति स्वाश्रय मित्यादिना । कस्यचित्किञ्चिदर्थस्य । प्रकाशनंप्रकाशापादनं । संवेदनमिति भावप्रधानो निर्देशः । संवेदनत्वमिति यावत् । यद्वा प्रकाशनंप्रकाशकं । आत्मनेस्वस्मै, स्वाश्रयाय वा । स्वाश्रयाय स्वविषयप्रकाशकत्वं संवेदनस्य संवेदनत्वम्; स्वयंभासमानत्वं च संवेदनस्य स्वयंप्रकाशत्वमित्येनयोर्धर्मयोः स्वरूपभेदो बोध्यः । संवेदनत्वस्वयंप्रकाशत्वशरीरानुप्रविष्टं प्रकाशपदार्थमाह प्रकाशश्चे ति । प्रकाशोऽयं ज्ञाततापरर्यायो धर्मविशेषः । अयं च न जडमात्रस्य, किन्तु चित्पदार्थस्यापि । तदुच्यते चिदचिदशेषपदार्थसाधारण इति । संवित्सिद्धावेवे ति । संविदः स्वप्रकाशत्वसाधन इत्यर्थः । यद्वा संवित्सिद्धिनामके प्रकरण एवेत्यर्थः

। एतेनाऽत्मसिद्धेः पूर्वमेव संवित्सिद्धेः कृतत्वं ज्ञायते । यद्यपि उपलभ्यमाने संवित्सिद्धिग्रन्थभागे प्रकाशपदार्थनिरूपणं नोपलभ्यते । अथापि संवित्सिद्धौभूयांसो भागा आदावन्ते मध्ये च विलुप्ताः । तत्रैतत्संभवतीति ध्येयं । धर्मान्तरप्रकाशानभ्युपगमेऽप्याह तदनभ्युपगमइति । व्यवहारानुगुण्यमेव ज्ञानाधीनं प्रकाशशब्दितं । अव्यवह्लियमाणस्यापि ज्ञानतोव्यवहारयोग्यताक्षुण्णैवेति भावः । एकसङ्ख्यावच्छेदः एकत्वसङ्ख्यावत्त्वं । शङ्कते नच जडत्वे ति । जडत्वाभावः स्वप्र

काशत्वम्, देशकालापरिच्छिन्नत्वे विभुत्वनित्यत्वे । बहुत्वाभाव एकत्वं । न त्वेतानिभावरूपाणि । अभावस्य चाधिकरणात्मकत्वान्न संविदः सधर्मत्वं प्रसजतीति भावः । परिहरति तथाभूतैरपी ति । अभावानामतिरिक्तत्वमधिकरणवृत्तिधर्मान्तररूपत्वं वा । आधाराधेयभावप्रतीतिस्वारस्यादित्यभावरूपैरपि सधर्मत्वमवर्जनीयमित्यर्थः । यस्मिन्प्रतीते निषेध्यबुद्धिर्नोदेति तस्यैवाभावरूपत्वं । प्रतीयमानायामपि संविदि अनित्यत्वादिसंशयोदयाच्च न तदभावरूपत्वं तस्याः । किन्तु सर्वकालसंबन्धित्वादिविरोधिधर्मान्तरलक्षणमेव नित्यत्वादीति भावः । संविदी ति । विरोधिधर्मवत्ताबोधनमन्तरा जडत्वादिनिषेधकत्वानुपपत्तिः प्रतिज्ञायाः ; तद्बोधने च सधर्मत्वसिद्धिरवर्जनीयेति भावः । नच जडत्वादिविरोधिस्वरूपत्वमेव प्रतिज्ञया बोध्यते संविदो न विरोधिधर्मवत्त्वमिति वाच्यं । सर्वाध्यासाधिष्ठानभूतायास्तस्याः सर्वविरोधित्वासिद्धेः । नच शुद्धा सा तथेति वाच्यं । तस्याः सर्वविशेषप्रत्यनीकत्वोपगमे जडत्वादिप्रत्यनीकतेवाजडत्वादिप्रत्यनीकतापीति जडाजडविलक्षणत्वादिप्रसङ्गात् । अजडत्वाद्यभावेऽपि अजडादिस्वरूपैव सेति चेद्धर्मत्वाभावेऽपि धर्मस्वरूपैव सा किं न स्यादिति दिक् ।

भेदादिधर्मपक्षकचित्संबन्धित्वाभावसाधनेऽनैकान्त्यमप्याह चेत्यम् इति । चेत्यमनुभाव्यं । आत्मनिचिन्मात्र आत्मनि । किञ्च चिद्धर्मत्वाभावसाधनमनुपपन्नं । प्रतियोग्यप्रसिद्धेः । धर्मा न चित इत्यपि न साधीयः । षष्ठ्यर्थस्य संबन्धस्य चित्पदार्थेनानन्वयाद्भवतासित्याह अपि चे ति । प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेः चितो विभक्त्यर्थसंबन्धित्वं सिद्धमिति तत्र विशेषसामान्यनिषेधप्रतिज्ञा व्याहतार्थेति भावः ।

{सिद्धिश्चेदभ्युपेयेत संविदः स्यात्सधर्मता ।
न चेत्तुच्छत्वमेवोक्तं भवेच्छशविषाणवत् ॥१० ॥
ननु सिद्धिरेव सा । कस्य भोः? यदि न कस्यचित्, न तर्हि सिद्धिरेव । सा हि पुत्रत्वमिव कस्यचित्किञ्चित्प्रति । आत्मन इति चेत्, कः षष्ठ्यर्थः ?तदेवं व्योमारविन्दसदृशवपुषि यथोदितदृशि वेदान्ततात्पर्यवर्णनं वेदान्तायैव स्यात् ।
अपि च नित्यत्वेऽप्यनुभुतेः प्रत्यभिज्ञानुपपत्तिस्तदवस्थैव । सा हि अनुभवितारं पूर्वापरकालावस्थायिनमुपस्थापयति अहमिदमन्वभूवमिति । अनुभूतिस्त्वनुभूतिरेव भवताम्, न तां प्रति सा कर्त्रीं कर्म वा ।
(इति मायावाद्यभिमतनित्यविज्ञानात्मत्वनिरासप्रकरणम्)
यद्युच्येत परमार्थतः तथाभूतापि भ्रान्त्यानुभवितृतया परिस्फुरति रजततयेव शुक्तिः । न हि तथ्यमनवलम्ब्य मिथ्यावभासस्योत्थानमिति; तन्न । तथा सति अनुभवसमानाधिकरणतयानुभविताहमर्थः प्रकाशेत अनुभूतिरहमिति, पुरःस्थितभास्वरद्रव्यशङ्खमुखचन्द्रादेराकारतयेव रजतपीतमुकुरस्थताद्वित्वादि । पृथगवभासमान एव तु अयमनुभवो दण्ड इव देवदत्तमर्थान्तरमहमर्थंविशिंषनालक्ष्यते अनुभवाम्यहमिति । तदेवमनुभवविशिष्टमस्मदर्थमवभासयन्नयमहंप्रत्ययः कथमिव विशेषणभूतानुभूतिमात्रावलम्बनः प्रतिज्ञायेत, दण्डमात्र इव दण्डी देवदत्त इति प्रत्ययः ।
कुतश्चैष निश्चयःअध्यस्तं ज्ञातृत्वमिति? । स्थूलोऽहमितिवत्देहात्माभिमानवतः प्रतिभासनादिति चेत्; नन्वात्मतयाभिमतानुभूतिरपि तदूत एवावभातीति सापि तथा स्यात् । तत्त्वज्ञानोदयात्परतोऽपि तदनुवृत्तेर्न तथा सेति चेत्; किं भोः! तत्त्वज्ञानात्परमबोद्धैवायमात्मा ? हन्तैवं वरमितोऽतत्त्ववेदित्वम्; भ्रान्त्यापि हि तत्र बहु भद्रं पश्यतीति ।
ननु ज्ञातृत्वं ज्ञानक्रियाकर्तृत्वं विक्रियात्मकं जडमहङ्कारग्रन्थिस्थं । तत्फलभुगकर्ताविक्रियः साक्षी प्रकाशमात्र आत्मा । कर्तृत्वादिर्हि दृश्यत्वाद्रूपादिवन्नात्मधर्मः । कर्तृत्वे ह्यात्मनोऽहंप्रत्ययगोचरत्वेऽपि देहस्येवानत्मत्व परार्थत्वजडत्वादिप्रसङ्गो दुर्निवारः । दृष्टं च लौकिकवैदिककर्मसु कर्तृतया प्रसिद्धाद्देहात्तत्क्रियाफलभुजः प्रमातुः अहंप्रत्ययिनः पृथक्त्वं । तथेहापि प्रमातुरहमर्थाद्विलक्षणः साक्षी प्रत्यगात्मेति युक्तं । नैवं युक्तं । अहं जानामीति ज्ञातृतया सिध्यतः प्रत्यगात्मनो व्यतिरेकेण सिक्षिणो नाम प्रकाशमात्रस्याऽत्मनोऽनुपलब्धेः । देहेन्द्रियमनःप्राणविज्ञानेभ्यो ज्ञानाश्रयतया विविच्यमाने प्रतीपमञ्चतीव निर्भासमानोऽहंभाव एव हि प्रत्यक्त्वं नाम । साक्षित्वमपि तस्य साक्षाज्ज्ञातृत्वं । न ह्यजानन्सिक्षीत्यपदिश्यते । सर्वं च प्रकाशमानं ज्ञात्रेऽहमिति चकासते प्रकाशत इति प्रत्यात्मसिद्धोऽयमनुभवः अहं जानामि, मह्यं प्रकाशत इति ।
(इति ज्ञातुरहमर्थस्य प्रत्यगात्मत्वनिरूपणम्)
न चाव्याकृतपरिणामभेदस्याहङ्कारनाम्नो बुद्धिनामधेयस्य वा ज्ञातृत्वं ; देहस्येवाचेतनत्वपरिणामित्वजडत्वपरार्थत्वादिहेतुभिस्तदनुपपत्तेः । न च चितिच्छायापत्त्या तयोस्तत्संभवः । अचाक्षुषस्य छायादर्शनात् । न च ज्ञातृत्वं चितावपि ते वास्तवमस्ति, येनाग्निसंपर्कादयः पिण्ड इवौष्ण्यं तत्संपर्कादर्थान्तरे ज्ञातृत्वं जायेत ज्ञायेत वा ।
(इत्यहङ्कारस्य ज्ञातृत्वतत्प्रतीत्यनुपपत्तिनिरूपणम्)
यद्युच्येतज्ञाप्तिमात्रमेवाऽत्मानमभिव्यञ्जनचेतनोऽप्यहङ्कारः स्वाश्रयतया तमभिव्यनक्ति । स्वभावो ह्ययं व्यञ्जकानाम्यदात्मस्थतयाभिव्यङ्ग्यमभिव्यञ्जन्ति, दर्पणजलखण्डमुण्डादय इव मुखमिहिरबिम्बगोत्वादीन् ।
तत्कृतश्चायमहं जानामीति भ्रमः । अत एव खलु अहमुल्लेखविगमे सुषुप्तिमुक्तयोः स्वाभाविकविशदानुभवमात्ररूपेणाऽत्मनः प्रकाशः । तत एव चानात्मत्वमहमर्थस्य । तथा च सौरेशं वचः
“}
{आत्मनश्चेदहं धर्मो यायान्मुक्तिसुषुप्तयोः ।
यतो नान्वेति तेनायमन्यदीयो भवेदहम }
{”} {इति ।
(इति अहङ्कारस्य संविदभिव्यञ्जकत्वपूर्वपक्षोपपादनम्)}

प्रकारान्तरेणापि संविदः सधर्मकत्वं साधयति सिद्धिश्चे दिति । सिद्धिः प्रकाशः । तदुपगमे तेनैव संविदः सधर्मता स्यात् । तदनुपगमे तु शशविषाणादिवदप्रकाशमानाया असिद्ध्यन्त्यास्तस्यास्तुच्छत्वमेव प्रसज्यत इति कारिकार्थः ॥१० ॥

अत्र शङ्कते ननु सिद्धिरेवे ति । न प्रकाशाश्रयः, किन्तु प्रकाशस्वरूपैव संवित् । तन्न तुच्छत्वं सधर्मकत्वं वेति भावः । आक्षिपति कस्य भो रिति । सविशेषत्वप्रसङ्गाद्भीतः पर आह न कस्यचि दिति । प्रतिवक्ति सिद्धान्ती न तर्ही ति । प्रकाशो हि धर्मो विना धर्मिणा न घटत इति भावः । सिद्धेः ससंबन्धिकत्वं व्युत्पादयति सा ही ति । पितुर्हि पुत्रः । पुत्रत्वमिवानुयोगिप्रतियोगिसापेक्षा सिद्धिरिति भावः । अनन्यगतिकतयाऽह आत्मन इति । आत्मानुयोगिकात्मप्रतियोगिकैव सिद्धिः संविद इत्यर्थः । आत्मशब्दोऽत्र स्वरूपवाची । एवं चेत्सधर्मत्वमायात्येव संविद इत्याह {क} इति । पितरं प्रति पुत्रस्य पुत्रत्वमिवात्मप्रतियोगिकः प्रकाशो धर्मः संविदात्मनः सिध्यतीत्यर्थः । एवं कारि

कार्थ आक्षेपपरिहारपदकैः कतिभिश्चिद्विवृतः । एवं संविदो निर्विशेषत्वं निरस्य निर्विशेषसंविदि वेदान्ततात्पर्यवर्णनं वेदान्तानामप्रामाण्यप्रर्यवसायीत्याह तदेवम् इति । वेदान्तायवेदविनाशाय । वेदप्रामाण्योच्छित्त्यै इति यावत् ।

क्षणिकविज्ञानात्मवादे स्मरणाद्यनुपपत्त्या निरस्ते हि नित्यविज्ञानात्मवादिन उत्थानं । एतत्पक्षेऽपि तामाह अपि चे ति । ज्ञातुर्नित्यत्व एवाहमिदमन्वभवमित्यादेरुपपत्तिः ; नतु ज्ञाननित्यत्वमात्रेणेति भावः ।

एतदेव विवृणोति अनुभूति रिति । एवकारार्थमाह न ताम् इति । यद्यपि सिद्धान्तेऽपि नानुभवितृत्वमनुभूतेः । अथाप्यनुभाव्यत्वमिष्यते । ज्ञातुश्चाहमर्थस्यात्मनो नित्यत्वं । तथाच पूर्वानुभूतानुभूत्यादिप्रतिसन्धानं घटते । परमते त्वननुभाव्यत्वादननुभवितृत्वाच्च संविदात्मनो निरुक्तप्रतिसन्धानानुपपत्तिरेवेति भावः । तदेवं प्रतिसन्धानबलाज्ज्ञातुरेवात्मत्वं न ज्ञानमात्रस्येति स्थित हृदि । एतदेव समर्थयिष्यत्यग्रिमग्रन्थसन्दर्भेण ।

तत्रादौ ज्ञातृत्वप्रतीतेर्भ्रान्तिरूपतां पराभिमतामनुवदति यद्युच्येते ति । संविन्मात्र परमार्थः । स एवात्मा । अस्मिन्नधिष्ठाने ज्ञातुरहमर्थस्य भ्रान्तिः शुक्ताविव रजतस्य । भ्रमोपपत्त्यर्थमधिष्ठानसंविन्मात्रपारमार्थ्यमभ्युपेयमिति परेषामाशयः । दूषयति तन्ने ति । तथा सती ति । अयमाशयः धर्मिणि धर्म्यन्तरारोपे आरोप्याधिष्ठानयोः समानाधिकरण्येन (अभेदेन) भानं भवेदिदं रजतमिति यथा । अन्यत्रान्यधर्मारोपे चारोप्यधर्मवता तथा भानं दृष्टं शङ्खः पीतवान्, मुख दर्पणस्थं, चन्द्रौ द्वाविति । न चैवमत्रानुभूतिरहमिति वा अहंवतीति वा भानमस्ति । तन्न संविदि अहमर्थारोप इति युक्तमिति । अहमर्थे संविदारोपोपगमस्तु न घटते परेषां सत्यालम्बनत्वनियमादारोपस्य, अहमर्थस्य चासत्यत्वादिति ध्येयं । पृथ गिति । पृथगवभासमानत्वं प्रकारतया प्रकारिणो विलक्षणत्वेन भासमानत्वं । अहन्दण्डीति प्रतीतितुल्यत्वादहं जानामीति प्रतीतेरहमर्थे ज्ञानधर्मवत्तावगाहित्वमेवेति यावत् । तदेवम् इति । दण्डमात्रे इति विषयसप्तमी । दण्डमात्रालम्बन इत्यर्थः । यथा दण्डी पुरुष इत्यत्र दण्डमात्रस्य सत्यत्वं पुरुषस्यारोपितत्वं च न, एवमहं जानामीत्यत्रापि न ज्ञानमात्रस्य सत्स्त्वं ज्ञातुर्मिथ्यात्वं च । किन्तु ज्ञातुरहमर्थस्य सत्यत्वमेव युक्तमभ्युपगन्तुं बाधकानुपलब्धेरित्याशयः ।

ज्ञातृत्वप्रतीतेर्भ्रान्तित्वेऽनुयुङ्ले किं नियामकमिति कुत इति । पूर्वपक्षी तत्प्रति

वक्ति स्थूल इति । भ्रान्तैर्गृह्यमाणत्वाज्ज्ञातृत्वमध्यासलक्षणमिति भावः । नेदमध्यस्तत्वसाधकं बाधितत्वेन सोपाधिकत्वादित्याशयमन्तर्निधाय प्रतिबन्दीमाह नन्वात्मतये ति । देहात्मभ्रमवतागृह्यमाणाया अपि संविदोऽबाध्यत्वान्न मिथ्यात्वमिति समाधिं वाचयति पूर्वपक्षिमुखतः तत्त्वज्ञानोदया दिति । तुल्यमिदं ज्ञातृत्वस्यानध्यस्तत्वं इत्याह किं भो रिति । तत्त्वज्ञानफले मोक्षेऽपि ज्ञातृत्वमनुवर्तत इत्यबाधितत्वमित्याशयः । मोक्षे ज्ञातृत्वस्य निवृत्तावनर्थं प्रसञ्जयति हन्तैवम् इति । दुःखनिवृत्त्या मुक्तेः पुमर्थत्वमिति चेदानन्दानुभवनिवृत्त्यानुभवित्रहमर्थनिवृत्त्या चापुमर्थत्वं प्रसज्यते इति भावः ।

ज्ञातृत्वादेरनात्मधर्मत्वात्तन्निवृत्तावपि न पुमर्थतोपघातो मुक्तेरिति शङ्कते ननु ज्ञातृत्वम् इति । अहङ्कारोऽन्तःकरणम्, तदेव दुर्मोचत्वाद्ग्रन्थिः, तन्निष्ठमेव ज्ञातृत्वं ज्ञानात्मना परिणामलक्षणं विक्रियात्मकं जडपरिणामत्वाज्जडं चेत्यर्थः । आत्मनः स्वरूपमाह तत्फलेति । कर्तृत्वस्य फलभोक्ता, अविक्रियत्वादकर्ता,

प्रकाशमात्नस्वरूपतया साक्षीचात्मास्तीत्यर्थः । प्रकाशः मात्रा यस्य सः प्रकाशमात्रः । कर्तृत्वे इति । आत्मा न कर्ता नाप्यहमर्थः, आत्मत्वादनन्यार्थत्वादजडत्वादविक्रियत्वाद्वा तन्नैवं यन्नैवं यथा देह इति प्रयोगा अत्र गर्भिताः । कर्तृभिन्नस्य भोक्तृत्वं कथम्? तत्राह दृष्टम् इति । एतद्दूषयति नैवम् इति । ज्ञातृव्यतिरिक्तस्य प्रकाशमात्रस्यात्मनोऽनुपलम्भबाधमुक्त्वा प्रत्यक्त्वबलादेवाहमर्थत्वमात्मन एषितव्यमित्याह देहेन्द्रिये ति । ज्ञानस्य देहादावसंभवाद्धि तद्वैलक्षण्यमात्मनः साधितं । तज्ज्ञातृत्वमात्मन एष्टव्यं । देहादिश्चेदङ्कारगोचरः । तत्राहङ्कारस्त्वाभिमानिक एव । तदहंभावस्य देहादिगतेदम्भावतः प्रतीपत्वं विरुद्धत्वं । प्रतीपमञ्चतीति च प्रत्यकू अहङ्कारगोचरः । तत्प्रत्यक्त्वादहन्त्वमात्मन आपतति । देहादेर्दृश्यादिदङ्कारगोचराद्द्रष्टर्यात्मनि प्रतीपं विरुद्धमार्गं गच्छतीवेत्युप्रेक्षा । मूले अञ्चतीति सप्तम्यन्तं । स्थिते आत्मनीति शेषः । साक्षित्वमपी ति । साक्षाद्द्रष्टरि संज्ञाया मित्यनुशासनादिति भावः । सर्वं च ज्ञेयं ज्ञात्नात्मन एव भासते न ज्ञानमात्नाय । ततश्च ज्ञातुरेवात्मत्वं न ज्ञानमात्नस्येत्याह सर्वम् इति । चकासते इति चतुर्थ्यन्तं । अतश्च न ज्ञानमात्नस्य साक्षित्वं संभवति, किन्तु ज्ञातुरेवेति तस्यैवात्मत्वं न ज्ञानमात्नस्येति हार्दं । यत्तु ज्ञातृत्वं विक्रियात्मकमिति; तन्न । न हि कापिलमत इव ज्ञानपरिणामित्वं ज्ञातृत्वमिष्यते श्रुत्यन्तहार्दाभिज्ञैः । किन्तु अर्थप्रकाशनोपयोगिव्यापारवद्धर्मभूतज्ञानाश्रयत्वमेव । सविषयके

धात्वर्थे कर्तृताया आश्रयत्वरूपत्वात्, कर्मत्वस्य विषयतारूपत्ववत् । यदपि कर्तृरन्यस्य भोक्तृत्वमिति, तदपि वार्तं । उपादानादिकायिकक्रियानुगुणज्ञानेच्छापूर्वकान्तरप्रयत्नाश्रयत्वरूपस्य मुख्यकर्तृत्वस्यात्मन्येवोपपत्तेः । शास्त्रफलं प्रयोक्तरि कर्ताशास्त्रार्थवत्त्वा दिति हि वेदवेदान्तहार्दाभिज्ञाः । यदपि कर्तृत्वादिर्दृश्यत्वान्नात्मधर्म इति, तदपि मन्दं । दृश्यत्वं चेद्वाह्येन्द्रियग्राह्यत्वं तदसिद्धमान्तरप्रयत्नाधारत्वलक्षणे पक्षे । अनुभाव्यत्वं चेत्तत्, तर्ह्यप्रयोजकत्वं हेतोः । यदपि कर्तृत्वादौ अनात्मत्वाद्यपादानम्, तदपि भग्नमूलं । अमुख्यस्यैव तस्यानात्मत्वादिव्याप्यत्वात्मुख्यकर्तृत्वाहप्रत्ययास्पद आत्मन्यनात्मत्वाद्यप्रसक्तेरिति सङ्क्षेपः ।

एवमात्मन एव ज्ञातृत्वमहं त्वं च मुख्यमित्युक्त्वा प्रकृतिपरिणामविशेषे बुद्ध्याख्ये महत्तत्वे तत्कार्येऽहङ्कारे वा ज्ञातृत्वमनुपपन्नमित्याह न चाव्याकृते ति । अचेतनत्वमनात्मत्वम्, न त्वज्ञातृत्वं । साध्यहेत्वोरैक्यप्रसङ्गात् । महानहङ्कारो वा न ज्ञाता अनात्मत्वात्परिणामित्वाज्जडत्वात्परार्थत्वाद्वा देहवदिति प्रयोगः । ननु ज्ञातृत्वस्यासंभवेऽपि चिच्छायापत्या चित्संपर्काद्वा तत्न ज्ञातृत्वप्रतीतिरस्त्वित्यत्नाह नच चिती ति । अरूपत्वाच्चितो न प्रतिबिम्बो बुद्ध्यादौ संभवति । येन स्फटिके लोहितप्रतिभासवत्तत्न चैतन्यप्रतिभासो भवेत् । नच चितौ ज्ञातृत्वमस्ति । येन तत्संपर्कात्तत्न ज्ञातृत्वं तत्प्रतिभानं वा भवेतग्निसङ्गादयसि औष्ण्यभानवदिति भावः । सांसर्गिको गुणो दोषो वा तत्न तत्न जायते ज्ञायते चेति जायेत ज्ञायेत वेत्युक्तिः ।

अथ ज्ञातृत्वप्रतीतेर्निर्वाहाय पराभिमतमहङ्कारस्य संविदभिव्यञ्जकत्वपक्ष मनुवदति यद्युच्येते त्यादिना । अभिव्यञ्जयन्प्रकाशयन् । स्वाश्रयतयास्वाश्रितया । बहुव्रीहेस्तल् । खण्डमुण्डादयो गोव्यक्ति भेदाः । मिहिरबिम्बंसूर्यबिम्बं । शिष्टं स्पष्टं । तत्कृतश्चे ति । संविदभिव्यञ्जकत्वप्रयुक्तश्चाहङ्कारस्य संविदाश्रयत्वप्रतिभासो मुखाद्यभिव्यञ्जकत्वप्रयुक्तश्चाहङ्कारस्य संविदाश्रयत्वप्रतिभासो मिखाद्यभिव्यञ्जकत्वप्रयुक्त इव दर्पणादेर्मुखवत्त्वादिप्रतिभास इत्यर्थः । अहंभावः प्रकृतिपरिणामविशेषस्यैव, न त्वात्मन इत्याह अत एवे ति । यतो ज्ञातृत्वप्रतीतिर्भ्रान्तिः, अत एव चैतन्यमात्रतयाऽत्मनः स्वापेमुक्तौ च भानं । न तु तदाहम्भावभानमिति भावः । अत एवे ति । सौषुप्तिकमौक्तिकात्मानुभवतोऽहम्भावानुल्लेखादेवाहमर्थस्यानात्मत्वमित्यथ्रः । अत्र संवादतया सुरेश्वराचार्यवचनमु

पादत्ते आत्मनइति । अहम्भाव आत्मधर्मश्चेत्सुषुप्तिमुक्तयोर्यायातन्वियात् । यतो नान्वेति ततोऽयमनात्मधर्म एवेत्यर्थः ।

विश्वास-प्रस्तुतिः

तदिदमसंबद्धं । यतः
शान्ताङ्गार इवादित्यमहङ्कारो जडात्मकः ।
स्वयञ्ज्योतिषमात्मानं व्यनक्तीति न युक्तिमत् ॥११ ॥
आत्मत्वाभिमताजडानुभवाधीना हि सर्वपदार्थाभिव्यक्तयोऽभिप्रेयन्ते । तादृशमशेषार्थसाधकमुदयास्तमयविपरिवृत्तिशून्यप्रकाशस्वभावं तमनुभवं तदधीनसिद्धिरचिदहङ्कारोऽभिव्यनक्तीत्युपहास्यमिदमात्मविदां ।

मूलम्

तदिदमसंबद्धं । यतः
शान्ताङ्गार इवादित्यमहङ्कारो जडात्मकः ।
स्वयञ्ज्योतिषमात्मानं व्यनक्तीति न युक्तिमत् ॥११ ॥
आत्मत्वाभिमताजडानुभवाधीना हि सर्वपदार्थाभिव्यक्तयोऽभिप्रेयन्ते । तादृशमशेषार्थसाधकमुदयास्तमयविपरिवृत्तिशून्यप्रकाशस्वभावं तमनुभवं तदधीनसिद्धिरचिदहङ्कारोऽभिव्यनक्तीत्युपहास्यमिदमात्मविदां ।

पक्षमेनं प्रतिक्षिपति तदिदम् इति । अहङ्कारस्य जडस्य स्वयंप्रकाशचैतन्यप्रकाशकत्वमनन्वितमनुपपन्नत्वादित्याह शान्ते ति । शान्ताङ्गारःजलनिर्वापिताग्निपिण्डः । अप्रकाशस्वरूपस्य तस्य प्रकाशमयादित्यप्रकाशकत्वमिवाप्रकाशस्व रूपस्य जडस्य प्रकृतिपरिणामविशेषस्य स्वप्रकाशसंविदात्मस्वरूपप्रकाशकत्वमनुपपन्नमित्यर्थः ॥११ ॥

इममेवार्थां प्रपञ्चयति आत्मत्वे त्यादिना । सर्वार्थप्रकाशकं कदाचित्प्रकाशतेऽथ न, पुनःकदाचित्प्रकाशते इत्युदयास्तमयपर्यायवृत्तिरहितनित्यप्रकाशस्वरूपमनुभवात्मानं नियमेन तदधीनप्रकाशो जडोऽहङ्कारोऽभिव्यनक्तीति विप्रतीपवचनमिदं समीपस्थानामपि आत्मतत्त्वविदामुपहासास्पदमित्यर्थः । न खलु सर्वं साधयतः स्वतःसिद्धस्य च सदानुभवात्मनः प्रकाशकान्तरापेक्षा । नच जडस्य नियमेन तदाभास्यस्याहङ्कारस्य तत्प्रकाशनसामर्थ्यं । येनानुभवस्याहङ्काराभिव्यङ्ग्यत्ववचनमुपपन्नं भवेदिति भावः ।

विश्वास-प्रस्तुतिः

किञ्चव्यङ्ग्यव्यङ्क्तृत्वमन्योन्यं न च स्यात्प्रातिकूल्यतः ।
व्यङ्ग्यत्वेऽननुभूतित्वमात्मनि स्याद्यथा घटे ॥१२ ॥
दिनकरकरव्यङ्ग्यकरतलं तदभिव्यञ्जकं दृष्टमिति मा वोचः । करतलस्य तद्बाहुल्यमात्रहेतुत्वात् । तथाभूताश्च दिनकरमरीचयः स्फुटमुपलभ्यन्त इति न करतलव्यङ्ग्यत्वं ।
अपि च केयमभिव्यक्ति ? यानुभूतिरूपस्यात्मनोऽहङ्कारेण क्रियत इत्युच्यते । न तावत्तत्सिद्धिः, तस्य स्वतःसिद्धत्वेनानन्याधीनसिद्धित्वाभ्युपगमात् । नापि तद्विषयज्ञानम्, ज्ञानान्तराननुभाव्यत्वात् । अनुभाव्यत्वे हि घटादिवदननुभू
तित्वप्रसङ्गः । अत एव न ज्ञानकरणानुग्रहः । स हि वेद्यगतज्ञानोदयप्रतिबन्धकापनयनेन वा दीपेनेव सन्तमसनिरसनेन चक्षुषः; वेद्यसन्निकर्षोपाधित्वेन वा व्यक्तिदर्पणादेरिव जातिनिजमुखादिबोधकस्य नयनादेः; वित्तृगतकलङ्कक्षालनेन वा शमदमादिनेव परावरात्मतत्त्वज्ञानोपायस्याऽगमादेः । न तावदनुभवगमहङ्कारापनेयमस्ति किञ्चित्ज्ञानोदयपरिपन्थि । अज्ञानं तु ज्ञानसमानाश्रयविषयतया न तदुभयभावविरहिणि भवदभिमतसाक्षिणि निक्षेपमर्हति । न खलु ज्ञानप्रसक्तिशून्यो घटादिरज्ञानीत्युच्यते । तथैव न जातुचित्ज्ञातृत्वं ज्ञानमात्रस्येति न तस्याप्यज्ञानं भवेत् । भवदपि वा तदहङ्कारापनेयं नेष्यते; ज्ञानैकनिवर्त्यत्वादज्ञानस्य, तथाभ्युपगमाञ्च । ज्ञानं च स्वविषय एवाज्ञानं निवर्तयति । न च तद्विषयत्वमात्मतयाभिमत स्यानुभवस्येष्यत इति तत्रत्यमज्ञानं न केनचित्कदाचिदुच्छिद्येत । ज्ञानप्रागभावरूपं चाज्ञानं न ज्ञानोत्पत्तिप्रतिबन्धकमिति शक्यं व्यपदेष्टुं । भावरूपमज्ञानमनिर्वचनीयं जगदुपादानमित्यादि प्रलापमात्रमिति संबन्धनिरूपणे प्रतिपादयिष्यते । अतो न वेद्यदोषापनयनरूपा अहङ्कारेणानुभवाभिव्यक्तिः ।

मूलम्

किञ्चव्यङ्ग्यव्यङ्क्तृत्वमन्योन्यं न च स्यात्प्रातिकूल्यतः ।
व्यङ्ग्यत्वेऽननुभूतित्वमात्मनि स्याद्यथा घटे ॥१२ ॥
दिनकरकरव्यङ्ग्यकरतलं तदभिव्यञ्जकं दृष्टमिति मा वोचः । करतलस्य तद्बाहुल्यमात्रहेतुत्वात् । तथाभूताश्च दिनकरमरीचयः स्फुटमुपलभ्यन्त इति न करतलव्यङ्ग्यत्वं ।
अपि च केयमभिव्यक्ति ? यानुभूतिरूपस्यात्मनोऽहङ्कारेण क्रियत इत्युच्यते । न तावत्तत्सिद्धिः, तस्य स्वतःसिद्धत्वेनानन्याधीनसिद्धित्वाभ्युपगमात् । नापि तद्विषयज्ञानम्, ज्ञानान्तराननुभाव्यत्वात् । अनुभाव्यत्वे हि घटादिवदननुभू
तित्वप्रसङ्गः । अत एव न ज्ञानकरणानुग्रहः । स हि वेद्यगतज्ञानोदयप्रतिबन्धकापनयनेन वा दीपेनेव सन्तमसनिरसनेन चक्षुषः; वेद्यसन्निकर्षोपाधित्वेन वा व्यक्तिदर्पणादेरिव जातिनिजमुखादिबोधकस्य नयनादेः; वित्तृगतकलङ्कक्षालनेन वा शमदमादिनेव परावरात्मतत्त्वज्ञानोपायस्याऽगमादेः । न तावदनुभवगमहङ्कारापनेयमस्ति किञ्चित्ज्ञानोदयपरिपन्थि । अज्ञानं तु ज्ञानसमानाश्रयविषयतया न तदुभयभावविरहिणि भवदभिमतसाक्षिणि निक्षेपमर्हति । न खलु ज्ञानप्रसक्तिशून्यो घटादिरज्ञानीत्युच्यते । तथैव न जातुचित्ज्ञातृत्वं ज्ञानमात्रस्येति न तस्याप्यज्ञानं भवेत् । भवदपि वा तदहङ्कारापनेयं नेष्यते; ज्ञानैकनिवर्त्यत्वादज्ञानस्य, तथाभ्युपगमाञ्च । ज्ञानं च स्वविषय एवाज्ञानं निवर्तयति । न च तद्विषयत्वमात्मतयाभिमत स्यानुभवस्येष्यत इति तत्रत्यमज्ञानं न केनचित्कदाचिदुच्छिद्येत । ज्ञानप्रागभावरूपं चाज्ञानं न ज्ञानोत्पत्तिप्रतिबन्धकमिति शक्यं व्यपदेष्टुं । भावरूपमज्ञानमनिर्वचनीयं जगदुपादानमित्यादि प्रलापमात्रमिति संबन्धनिरूपणे प्रतिपादयिष्यते । अतो न वेद्यदोषापनयनरूपा अहङ्कारेणानुभवाभिव्यक्तिः ।

अस्तु विऽनुभवस्य केनचिद्व्यङ्ग्यत्वं । अस्तु वाहङ्कारस्य किञ्चिदभिव्यञ्जकत्वं । परं तदभिव्यङ्ग्यैकस्वभावस्याहङ्कारस्य तदभिव्यञ्जकत्वमनुपपन्नमित्याह किञ्चे ति । व्यङ्ग्ये ति । अनुभवात्माहङ्कारयोः परस्परं व्यङ्ग्यव्यञ्जकभावोऽनुपपन्नः । प्रातिकूल्यतःस्वभावविरोधलक्षणादुक्तात्प्रतिकूलभावत इत्यर्थः । नियमेन तद्व्यङ्ग्यस्वरूपस्य तद्व्यञ्जकत्वं हि विरुद्धमिति प्रोक्तम् । अहङ्कारस्य संविदधीनव्यक्तेरेव तद्व्यञ्जकत्वं स्यात् । मिथ्यापदार्थस्य प्रतिभासाधीनसत्ताकस्य प्रतिभासाभावे सत्ताया एव दिर्लभत्वात् । संविच्च स्वयं भासमानैवाहङ्कारं व्यञ्जेत् । अन्यथा जडत्वप्रसङ्गात् । तथाच स्वप्रकाशसंविदधीनप्रकाशाहङ्काराधीनप्रकाशत्वं संविद उक्तं भवेत् । तथा चान्योन्याश्रयःसंवित्प्रकाशाधीनोऽहङ्कारप्रकाशः अहङ्कारप्रकाशाधीनश्च संविदः प्रकाश इति । उक्तलक्षणात्प्रातिकूल्याद्वाधकोपनिपातान्न मिथो व्यङ्ग्यव्यञ्जकत्वं संविदहङ्कारयोः संभवतीति च तात्पर्यान्तरं वर्णितं श्रीमन्निगमान्तगुरुचरणैस्तत्त्वटीकायां । परमते संविदोऽहङ्कारव्यङ्ग्यत्वे दूषणान्तरमाह व्यङ्ग्यत्वे इति । अन्याधीनप्रकाशत्वेऽनुभूतेरननुभूतित्वप्रसङ्गो घटादेरिवेत्यर्थः ॥१२ ॥

तद्व्य ङ्ग्यस्यापि तद्व्यञ्जकत्वे न विरोधः, दृष्टत्वादिति शङ्कामपनुदति दिनकरे ति । हस्ततलस्य वातायनविवरप्रविष्टसूर्यकिरणानां गतिप्रतिरोधेन संहतिमात्रहेतुत्वं । संहतानां च तेषां स्फुटप्रकाशः स्वत एवेत्याह करतलस्ये ति । गतिप्रतिरोधेनापि संवित्स्फुटप्रकाशहेतुत्वं करतलस्येव दुर्घटमहङ्कारस्यामूर्तस्येति हार्दं ।

एवमहङ्कारव्यङ्ग्यत्वं संविदात्मनोऽनपेक्षितमनुपपन्नं चेत्युक्तं । अभिव्यक्तिप्रकाराणां संभावितानां प्रकृतेऽनुपपत्तेरपि नाहङ्कारस्य तदभिव्यञ्जकत्वमित्याह अपि चे त्यादिना । तत्सिद्धिः संविदात्मप्रकाशः ।

स्वप्रकाशत्वेनान्यापेक्षूप्रकाशत्वाभावोपगमान्न संवित्प्रकाशहेतुत्वमहङ्कारस्य । संविदो ज्ञानान्तरागोचरत्वेन तद्विषयकज्ञानजनकत्वमपि तदभिव्यञ्जकत्वमहङ्कारस्य नेति प्रकाशनप्रकाशकज्ञानजनकत्वरूपाभिव्यञ्जकत्वप्रकारद्वयं दूषितं । अत एवेति । अननुभाव्यत्वादेवानुभवस्य तद्विषयकानुभवकरणस्याप्रसिद्ध्या तदनुग्रहलक्षणाभिव्यक्तिप्रकारोऽपि न संभवतीत्यर्थः । अस्तु वा तज्ज्ञानकरणं किञ्चित् । तदनुग्रहप्रकाराः प्रकृते न संभवन्तीति वदननुग्रहं विकल्पयतितावत्स ही ति । सःअनुग्रहः ग्राहकस्य सहकारिसम्पत्त्यापादनलक्षणः । वेद्यगते ति । वेद्यगतज्ञानोत्पत्तिप्रतिबन्धकनिरसनेन तज्ज्ञानकरणानुग्रह आद्यः कल्पः । द्वितीयमाह वेद्ये ति । करणस्य ग्राह्यसन्निकर्षप्रयोजकत्वेनेति यावत् । व्यक्तिर्हि स्वद्वारा चक्षुरादेर्वेद्यजात्यादिसन्निकर्षं संपादयति । दर्पणादिश्च चाक्षुषरश्मिगतिपरापर्तनेन मुखादिसन्निकर्षं चक्षुषः । तृतीयमाह वेत्तृगते ति । कलङ्कःज्ञानोत्पत्तिविरोधी पापादिः । नाविरतो दुश्चरिता दित्यादिना च शमादेस्तत्त्वज्ञानजनकशास्त्रसहकारित्वं ज्ञायते । निष्कामकर्मणा शमादिनाचापाकृतपापरागादिदोषस्य शुद्धचित्तस्यैव हि शास्त्रेण तत्त्वज्ञानोत्पत्तिः । प्रकृते प्रथमानुग्रहकल्पस्यानुपपत्तिमह न ताव दिति । नन्वज्ञानमेव ज्ञानोत्पत्तिविरोधि वेद्येऽनुभवात्मनि वर्तत इति चेत्तत्राह अज्ञानम् इति । ज्ञानेन समानावाश्रयविषयौ यस्यैवंभूतमज्ञानम्, ज्ञानसमानाश्रयं ज्ञानसमानविषयं चेति यावत् । तदुभयभावविरहिणिज्ञानाश्रयत्वज्ञानविषयत्वरहिते । निक्षेपंपदन्यासम्,

संबन्धमिति यावत् । अज्ञानं हि ज्ञानप्रागभावरूपं तत्समानयोगक्षेमं वान्यत्ज्ञातृत्वप्रसक्तिशून्ये भवदभिमतेऽनुभवात्मनि न घटते घटादाविवेति भावः । भवदपी त्यभ्युपगम्य वादः । आत्माश्रितत्वेऽप्यज्ञानस्याहङ्कारेण निवर्त्यत्वाभावाद्वेद्यदोषापनायकत्वरूपमभिव्यञ्जकत्वं न तस्येति भावः । पराभिमतेऽनुभवात्मनि अज्ञानस्योपगमेऽनिष्टं चाह ज्ञानं चे ति । आत्मनिष्ठमात्मविषयं चाज्ञानमात्मनोऽननुभाव्यत्वाज्ज्ञानानिवर्त्यं नित्यंप्र

सज्यते, समानाश्रयविषयत्वेनैव ज्ञानाज्ञानयोर्बाधकबाध्यभावादिति भावः । आत्मविषयकज्ञानोपगमश्वापसिद्धान्तपराहतः । एतेनान्तःकरणवृत्तिव्याप्यत्वमेवेष्यते आत्मनः । नतु तदवच्छिन्नचैतन्यव्याप्यत्वं । येन जडत्वादि प्रसज्येत । आत्माकारान्तःकरणवृत्त्यैवात्माज्ञाननिवृत्तिरित्यपि निरस्तं । वृत्तेर्जडभूताया अज्ञाननिवर्तकत्वायोगात् । ज्ञानमेव ह्यज्ञानस्य निवर्तकं । तदवच्छिन्नचैतन्यनिवर्त्यत्वे तु ज्ञेयत्वाद्यात्मनोऽवर्जनीयमेवेति दिक् । अज्ञानं च किं ज्ञानप्रागभावरूपम्; आहोस्विद्भावरूपमिति विकल्प्य दूषयति ज्ञाने त्यादिवाक्यद्वयेन ।

विश्वास-प्रस्तुतिः

करणानामभूमित्वान्न तत्संबन्धहेतुता ।
अहमर्थस्य बोद्धृत्वान्न स तेनैव शोध्यते ॥१३ ॥
न च स्वाश्रयतयाभिव्यङ्ग्यप्रकाशनमभिव्यञ्जयितुः स्वभावः; प्रदीपादावदर्शनात् । यथावस्थितवस्तुप्रकाशानुकूलस्वभावत्वाच्च ज्ञानतत्साधनतदनुग्राहकाणां । तच्च स्वतःप्रामाण्यन्यायात्; तदनभ्युपगमे च सर्वत्रानाश्चासप्रकङ्गात् । व्यक्तेस्तु जातिराकार एवेति तथा प्रत्यायनम्; न व्यञ्जकत्वप्रयुक्तं ; उक्तादेव व्यभिचारात् । दर्पणादिस्तु नायनमहःप्रतिफलनलक्षणदोषहेतुर्नाभिव्यञ्जको वदनादेः । व्यञ्जकस्त्वालोकादिरेव । व्यञ्जकत्वेऽपि प्रतीपगमनदोषप्रयुक्तस्तत्रान्यथावभासः । न चेह तथाहमर्थस्य तादृशदोषापादकत्वं स्वभावः । तथा सति सर्वस्यापि प्रत्यक्षादेरप्रामाण्यप्रसङ्गान्न किञ्चित्तथ्यं स्यात् । तस्माज्ज्ञातृतया सिद्ध्यन्नहमर्थ एव प्रत्यगात्मा; न ज्ञप्तिमात्रं ।
(इत्यहङ्कारस्य संविदभिव्यञ्जकत्वनिराकरणप्रकरणम्)
यत्तु सुषुप्तिसुक्तयोर्ज्ञप्तिमात्रतया स्फुरणम्, अहमिति तु न प्रतिभातीति; तत्र सुषुप्तौ तथावस्थितिः पुरस्तादेव निरस्ता । अहमित्येकरूपेण आप्रबोधात्तत्राप्यात्मनः स्फुरणात् । यदि परं परागर्थाननुभवात्तमोगुणाभिभवाच्च न विविच्य स्फुटं चकास्ति; भवदभिमतानुभूतिरपि तदानीं तथैव हि प्रथत इति वाच्यं । नाहमहम्, नाप्यर्थान्तरम्, अपि त्वनुभूतिमात्रमज्ञानसाक्षितयावतिष्ठत इत्येवंविधं स्वापसमयभवमनुभवं नहि सुप्तोत्थितः कश्चित्परामृशन्नुपलब्धचरः । एतावन्तं कालं न किञ्चिदहमवेदिषमिति परामर्शनादेव तथात्वं लभ्यत इति चेत्; कथमिव? न किञ्चिदिति निर्देशादिति चेत्; नन्वेवमनुभूतिप्रतिभासोऽपि प्रत्याख्यातः स्यात् । अपि च सुषुप्तिसमयसिद्धमात्मानमहमिति परामृश्य न किञ्चिदवेदिषंमिति तस्य वेदने प्रतिषिध्यमाने तात्कालिकीं
वित्तिसिद्धिमहमर्थस्य चासिद्धिमभिदधानोऽनुभवविरोधमपि न जानाति देवानां प्रियः । निर्विषया निराश्रया च वित्तिर्नास्तीत्युक्तमेव ।
ननु मामप्यहं न ज्ञातवान्प्रसुप्त इत्यस्ति हि प्रबोधे प्रत्ययः । सत्यम्; स तु वर्णाश्रमादिविशिष्टतया प्रबोधसमयसंवेद्यमानं देहिनं मामित्यादाय स्वाप्ययावस्थाप्रसिद्धाविशदस्वानुभवैकतानाहमर्थस्य तेन रूपेणाज्ञातत्वं प्रज्ञातत्वं प्रज्ञापयति, न पुनर्ज्ञस्वभावस्याहमर्थस्यापि । एवमिव खल्वयमनुभवःअत्र सुप्तोऽहमीदृशश्चेत्येवं मामपि न ज्ञातवानहमिति । अपि च, आत्मा सुषुप्तौ अज्ञानसाक्षित्वेनाऽस्त इति हि यौष्माकी स्थितिः । साक्षित्वं च साक्षाज्ज्ञातृत्वमित्युक्तं । स चायं जानामीति प्रतिभासमानोऽस्मदर्थ एवेति कथमिव तदानीमहमर्थो न प्रथेत । स्वस्मै प्रकाशमानोऽहमित्येव हि प्रकाशत इति । तत्सिद्धं स्वापादिदशास्वप्यात्मा प्रकाशमानोऽहमित्येव प्रकाशत इति ।
(इति स्वापेऽहमर्थभानसमर्थनप्रकरणम्)
यत्तु मुक्तावहमर्थो नोपावर्तत इति; तद्वार्तं । यतस्तथा सति वैनाशिकदर्शन इवात्मनाश एवापवर्गः प्रकारान्तरेण प्रतिज्ञातः स्यात् । नो खलु अहमिति धर्ममात्रम्, येन तदपगमेऽप्यविद्यानिवृत्त्यामिवात्मनः स्वरूपेणावतिष्ठत इत्युच्यते । अहमित्येव हि तस्य स्वरूपं । ज्ञानमपि हि तद्धर्मत्वेन तस्यैव प्रकाशते ज्ञानं मे जातमिति । का कथा पुनरर्थान्तरस्याऽत्मत्वे ? ।
अन्यश्चयः सांसारिकदुःखैः दुःखित्वेनाऽत्मानं तत्त्वतोभ्रान्त्या वा प्रत्येति दुःख्यहमिति, सः सर्वमिदमनिष्टजातं कथमहमपुनरूदयपनुद्याव्याकुलः स्वस्थो भूयासमिति सञ्जातमुमुक्षः तत्साधने प्रवर्तते । स यदि साधनानुष्ठानादहमेव न भविष्यामीत्यवगच्छति, अपगच्छेदसौ मोक्षकथाप्रसङ्गादपि । ततश्चासम्भवदधिकारितया सर्व एव वेदान्तविधयः सर्वाणि च मोक्षशास्त्राणि प्रामाण्यादेव प्रच्यवेरन् । अहमुपलक्षितः प्रकाशोऽपवर्गेऽवस्थास्यत इति चेत्, किमतः? न हि मयि नष्टेऽपि कोऽपि प्रकाशः स्थास्यतीति कश्चित्प्रेक्षावान्प्रयस्यति ।
एतेन तदपि परास्तम्, अस्मत्प्रत्यये योऽनिदमंशः चिदेकरसः प्रकाशः स आत्मा । तस्मिंस्तद्बलनिर्भासिततया लक्षणतो युष्मदर्थ एवाहं जानामीति सिध्यन्नर्थ
इति । प्रत्यक्षविरोधात् । अहं जानामीति सिध्यश्चेतनो सुष्मदर्थ इति माता बन्ध्येतिवद्व्याहतार्थंवचः । न चासौ अन्याधीनावभासः, चैतन्यस्वभावतया स्वयञ्ज्योतिष्ट्वात् । प्रकाशश्च प्रकाशत्वादेव कस्यचिद्भवेद्दीपादिप्रकाशवदिति नात्मा भवितुमर्हति । अतो ज्ञातृतयाहमिति सिद्ध्यन्नर्थ एवाऽत्मा ।
स च मुक्तावप्यात्मनेऽहमित्येव प्रकाशते, स्वस्मै प्रकाशमानत्वात् । यो यः स्वस्मै प्रकाशते स सर्वोऽहमित्येव प्रकाशमानोदृष्टः, यथा तथावभासमानत्वेनोभयवादिसंमतः संसार्यात्मा । यः पुनरहमिति न चकास्ति नासौ स्वस्मै प्रकाशते, यथा घटादिः । स्वस्मै प्रकाशते चायं मुक्तात्मा । तस्मात्सोऽहमित्येव प्रकाशते । न चैवं प्रकाशमानत्वे मुक्तस्याज्ञानित्वसंसारित्वादिप्रसङ्ग आपादनीयः । मुक्तत्वविरोधात् । अतदुपाधित्वाच्च तत्प्रत्ययस्य । न ह्यज्ञानोपाधिरहंप्रत्ययः । ब्रह्मात्मपरोक्षज्ञानक्षपितनिरवशेषाविद्यानामपि वामदेवादीनाम(मे) तत्प्रत्ययदर्शनात् । श्रयते हिऽतद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सुर्यश्च अहमेव च वर्तामि भविष्यामीऽत्यादि । तथा कथञ्चिदप्यविद्यादिक्लेशैर्लेशतोऽपि जातुचिदपरामष्टस्य परमपुरुषस्याप्यहमित्यात्मपरामर्शः प्रज्ञायतेऽहन्ताहमिमास्तिस्त्रो देवताःऽऽबहु स्यां प्रजायेयऽऽसरिक्षत लोकान्नु सृजा इतिऽ, तथाऽयस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मिलोके वेदे च प्रथितः पुरुषोत्तमःऽ ॥ऽतेषामहं समुद्धर्ताऽऽअहं बीजप्रदः पिताःऽऽवेदाहं समतीतानिऽ इत्येवमादिभिः ।
एवं च साक्षादहमर्थादात्मनो विलक्षणेऽपि देहे येनाऽव्यक्तिकपरिणामभेदेनाहमिति भ्रमः, तदभिप्रायोऽहङ्कारस्य क्षेत्रान्तर्भावोपदेशो भगवतःऽमहाभूतान्यहङ्कारऽ इति । बहुमन्तव्यजनावधीरणहेतुश्चासौ गर्वापरपर्यायः तत्र तत्र शास्त्रेषु प्रायशोहेयतयोपदिश्यते । तस्मादहमिति मतिर्बाधकापेता साक्षादात्मगोचरैव । अनात्मनि तु शरीरे भवन्ती अविद्येति युक्तं । उक्तं चऽश्रूयतां चाप्यविद्यायाः स्वरूपं कुलनन्दन । अनात्मन्यात्मबुद्धिर्याऽ इति महर्षिणा वासिष्ठनन्दनेन । नच ज्ञप्तिमात्र प्रतिभासः कस्यचित्शरीरेऽस्ति । येन तन्मात्रात्मवादिनोऽप्यनात्म (न्योत्म) बुद्धिरुपपद्येत ।

मूलम्

करणानामभूमित्वान्न तत्संबन्धहेतुता ।
अहमर्थस्य बोद्धृत्वान्न स तेनैव शोध्यते ॥१३ ॥
न च स्वाश्रयतयाभिव्यङ्ग्यप्रकाशनमभिव्यञ्जयितुः स्वभावः; प्रदीपादावदर्शनात् । यथावस्थितवस्तुप्रकाशानुकूलस्वभावत्वाच्च ज्ञानतत्साधनतदनुग्राहकाणां । तच्च स्वतःप्रामाण्यन्यायात्; तदनभ्युपगमे च सर्वत्रानाश्चासप्रकङ्गात् । व्यक्तेस्तु जातिराकार एवेति तथा प्रत्यायनम्; न व्यञ्जकत्वप्रयुक्तं ; उक्तादेव व्यभिचारात् । दर्पणादिस्तु नायनमहःप्रतिफलनलक्षणदोषहेतुर्नाभिव्यञ्जको वदनादेः । व्यञ्जकस्त्वालोकादिरेव । व्यञ्जकत्वेऽपि प्रतीपगमनदोषप्रयुक्तस्तत्रान्यथावभासः । न चेह तथाहमर्थस्य तादृशदोषापादकत्वं स्वभावः । तथा सति सर्वस्यापि प्रत्यक्षादेरप्रामाण्यप्रसङ्गान्न किञ्चित्तथ्यं स्यात् । तस्माज्ज्ञातृतया सिद्ध्यन्नहमर्थ एव प्रत्यगात्मा; न ज्ञप्तिमात्रं ।
(इत्यहङ्कारस्य संविदभिव्यञ्जकत्वनिराकरणप्रकरणम्)
यत्तु सुषुप्तिसुक्तयोर्ज्ञप्तिमात्रतया स्फुरणम्, अहमिति तु न प्रतिभातीति; तत्र सुषुप्तौ तथावस्थितिः पुरस्तादेव निरस्ता । अहमित्येकरूपेण आप्रबोधात्तत्राप्यात्मनः स्फुरणात् । यदि परं परागर्थाननुभवात्तमोगुणाभिभवाच्च न विविच्य स्फुटं चकास्ति; भवदभिमतानुभूतिरपि तदानीं तथैव हि प्रथत इति वाच्यं । नाहमहम्, नाप्यर्थान्तरम्, अपि त्वनुभूतिमात्रमज्ञानसाक्षितयावतिष्ठत इत्येवंविधं स्वापसमयभवमनुभवं नहि सुप्तोत्थितः कश्चित्परामृशन्नुपलब्धचरः । एतावन्तं कालं न किञ्चिदहमवेदिषमिति परामर्शनादेव तथात्वं लभ्यत इति चेत्; कथमिव? न किञ्चिदिति निर्देशादिति चेत्; नन्वेवमनुभूतिप्रतिभासोऽपि प्रत्याख्यातः स्यात् । अपि च सुषुप्तिसमयसिद्धमात्मानमहमिति परामृश्य न किञ्चिदवेदिषंमिति तस्य वेदने प्रतिषिध्यमाने तात्कालिकीं
वित्तिसिद्धिमहमर्थस्य चासिद्धिमभिदधानोऽनुभवविरोधमपि न जानाति देवानां प्रियः । निर्विषया निराश्रया च वित्तिर्नास्तीत्युक्तमेव ।
ननु मामप्यहं न ज्ञातवान्प्रसुप्त इत्यस्ति हि प्रबोधे प्रत्ययः । सत्यम्; स तु वर्णाश्रमादिविशिष्टतया प्रबोधसमयसंवेद्यमानं देहिनं मामित्यादाय स्वाप्ययावस्थाप्रसिद्धाविशदस्वानुभवैकतानाहमर्थस्य तेन रूपेणाज्ञातत्वं प्रज्ञातत्वं प्रज्ञापयति, न पुनर्ज्ञस्वभावस्याहमर्थस्यापि । एवमिव खल्वयमनुभवःअत्र सुप्तोऽहमीदृशश्चेत्येवं मामपि न ज्ञातवानहमिति । अपि च, आत्मा सुषुप्तौ अज्ञानसाक्षित्वेनाऽस्त इति हि यौष्माकी स्थितिः । साक्षित्वं च साक्षाज्ज्ञातृत्वमित्युक्तं । स चायं जानामीति प्रतिभासमानोऽस्मदर्थ एवेति कथमिव तदानीमहमर्थो न प्रथेत । स्वस्मै प्रकाशमानोऽहमित्येव हि प्रकाशत इति । तत्सिद्धं स्वापादिदशास्वप्यात्मा प्रकाशमानोऽहमित्येव प्रकाशत इति ।
(इति स्वापेऽहमर्थभानसमर्थनप्रकरणम्)
यत्तु मुक्तावहमर्थो नोपावर्तत इति; तद्वार्तं । यतस्तथा सति वैनाशिकदर्शन इवात्मनाश एवापवर्गः प्रकारान्तरेण प्रतिज्ञातः स्यात् । नो खलु अहमिति धर्ममात्रम्, येन तदपगमेऽप्यविद्यानिवृत्त्यामिवात्मनः स्वरूपेणावतिष्ठत इत्युच्यते । अहमित्येव हि तस्य स्वरूपं । ज्ञानमपि हि तद्धर्मत्वेन तस्यैव प्रकाशते ज्ञानं मे जातमिति । का कथा पुनरर्थान्तरस्याऽत्मत्वे ? ।
अन्यश्चयः सांसारिकदुःखैः दुःखित्वेनाऽत्मानं तत्त्वतोभ्रान्त्या वा प्रत्येति दुःख्यहमिति, सः सर्वमिदमनिष्टजातं कथमहमपुनरूदयपनुद्याव्याकुलः स्वस्थो भूयासमिति सञ्जातमुमुक्षः तत्साधने प्रवर्तते । स यदि साधनानुष्ठानादहमेव न भविष्यामीत्यवगच्छति, अपगच्छेदसौ मोक्षकथाप्रसङ्गादपि । ततश्चासम्भवदधिकारितया सर्व एव वेदान्तविधयः सर्वाणि च मोक्षशास्त्राणि प्रामाण्यादेव प्रच्यवेरन् । अहमुपलक्षितः प्रकाशोऽपवर्गेऽवस्थास्यत इति चेत्, किमतः? न हि मयि नष्टेऽपि कोऽपि प्रकाशः स्थास्यतीति कश्चित्प्रेक्षावान्प्रयस्यति ।
एतेन तदपि परास्तम्, अस्मत्प्रत्यये योऽनिदमंशः चिदेकरसः प्रकाशः स आत्मा । तस्मिंस्तद्बलनिर्भासिततया लक्षणतो युष्मदर्थ एवाहं जानामीति सिध्यन्नर्थ
इति । प्रत्यक्षविरोधात् । अहं जानामीति सिध्यश्चेतनो सुष्मदर्थ इति माता बन्ध्येतिवद्व्याहतार्थंवचः । न चासौ अन्याधीनावभासः, चैतन्यस्वभावतया स्वयञ्ज्योतिष्ट्वात् । प्रकाशश्च प्रकाशत्वादेव कस्यचिद्भवेद्दीपादिप्रकाशवदिति नात्मा भवितुमर्हति । अतो ज्ञातृतयाहमिति सिद्ध्यन्नर्थ एवाऽत्मा ।
स च मुक्तावप्यात्मनेऽहमित्येव प्रकाशते, स्वस्मै प्रकाशमानत्वात् । यो यः स्वस्मै प्रकाशते स सर्वोऽहमित्येव प्रकाशमानोदृष्टः, यथा तथावभासमानत्वेनोभयवादिसंमतः संसार्यात्मा । यः पुनरहमिति न चकास्ति नासौ स्वस्मै प्रकाशते, यथा घटादिः । स्वस्मै प्रकाशते चायं मुक्तात्मा । तस्मात्सोऽहमित्येव प्रकाशते । न चैवं प्रकाशमानत्वे मुक्तस्याज्ञानित्वसंसारित्वादिप्रसङ्ग आपादनीयः । मुक्तत्वविरोधात् । अतदुपाधित्वाच्च तत्प्रत्ययस्य । न ह्यज्ञानोपाधिरहंप्रत्ययः । ब्रह्मात्मपरोक्षज्ञानक्षपितनिरवशेषाविद्यानामपि वामदेवादीनाम(मे) तत्प्रत्ययदर्शनात् । श्रयते हिऽतद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सुर्यश्च अहमेव च वर्तामि भविष्यामीऽत्यादि । तथा कथञ्चिदप्यविद्यादिक्लेशैर्लेशतोऽपि जातुचिदपरामष्टस्य परमपुरुषस्याप्यहमित्यात्मपरामर्शः प्रज्ञायतेऽहन्ताहमिमास्तिस्त्रो देवताःऽऽबहु स्यां प्रजायेयऽऽसरिक्षत लोकान्नु सृजा इतिऽ, तथाऽयस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मिलोके वेदे च प्रथितः पुरुषोत्तमःऽ ॥ऽतेषामहं समुद्धर्ताऽऽअहं बीजप्रदः पिताःऽऽवेदाहं समतीतानिऽ इत्येवमादिभिः ।
एवं च साक्षादहमर्थादात्मनो विलक्षणेऽपि देहे येनाऽव्यक्तिकपरिणामभेदेनाहमिति भ्रमः, तदभिप्रायोऽहङ्कारस्य क्षेत्रान्तर्भावोपदेशो भगवतःऽमहाभूतान्यहङ्कारऽ इति । बहुमन्तव्यजनावधीरणहेतुश्चासौ गर्वापरपर्यायः तत्र तत्र शास्त्रेषु प्रायशोहेयतयोपदिश्यते । तस्मादहमिति मतिर्बाधकापेता साक्षादात्मगोचरैव । अनात्मनि तु शरीरे भवन्ती अविद्येति युक्तं । उक्तं चऽश्रूयतां चाप्यविद्यायाः स्वरूपं कुलनन्दन । अनात्मन्यात्मबुद्धिर्याऽ इति महर्षिणा वासिष्ठनन्दनेन । नच ज्ञप्तिमात्र प्रतिभासः कस्यचित्शरीरेऽस्ति । येन तन्मात्रात्मवादिनोऽप्यनात्म (न्योत्म) बुद्धिरुपपद्येत ।

द्वितीयेऽनुग्रहकल्पे दूषणं करणानाम् इति । अभूमित्वातविषयत्वात् । इन्द्रियाग्रा

ह्यत्वादात्मनो नात्मेन्द्रियसन्निकर्षोपाधित्वेनाभिव्यञ्जकत्वमहङ्कारस्य संभवतीत्यर्थः । तृतीये दूषणं अहमर्थस्ये ति । स्वगतकल्मषस्य स्वेनैव केवलेन निवर्तनायोगान्न तृतीयोऽपि कल्पः कल्पत इत्यर्थः ॥१३ ॥

एवं व्यञ्जकत्वं निरस्य पराभिमतं व्यञ्जकस्वभावमपि निरस्यति नचे ति । प्रदीपो हि घटादेः प्रकाशको न स्ववृत्तितया तं प्रकाशयति । न खल्वेवं प्रतीतिः प्रदीपे घट इति, प्रदीपो घटवानिति वा । किन्तु यथावस्थितवेषेणैव भूतले घट इतीति भवदुक्ते नियमेऽनैकान्त्यमिति भावः । ज्ञानादीनां यथावस्थितवस्तुप्रकाशहेतुत्वमेवेत्यत्र युक्तिमाह तच्चे ति । प्रामाण्यस्वतस्त्वात्मकयुक्तेरित्यर्थः । ज्ञानसामग्रीप्रयोज्यत्वं ज्ञानभासकसामग्रीभास्यत्वं च प्रामाण्यस्योत्पत्तौ ज्ञप्तौ च स्वतस्त्वं । ननु स्वतःप्रामाण्ये क्वचिज्ज्ञाने विपरीताकारावगाहनं कुतः? ज्ञानसामग्रयामतिरिक्तदोषसंवलनादेव । स्वतःप्रामाण्यग्रहेऽप्यनभ्यासदशापन्नज्ञाने प्रामाण्यसंशयश्च दोषमूलत्वसंशयादेवेति च बोध्यं । प्रामाण्यस्य स्वतस्त्वानुपगमे बाधकमाह तदनभ्युपगम इति । सर्वज्ञानेष्वपि अप्रामाण्यशङ्काप्रसक्तेः प्रामाण्यस्य स्वतस्त्वानुपगमे स्वतस्त्वमेष्टव्यं । अन्यथा तु जातेऽपि प्रामाण्यनिश्चयेऽप्रामाण्यशङ्का निरर्गलप्रसरा भवेदेव । निष्कम्पप्रवृत्तिश्च कुत्रापि न घटेतेति भावः । व्यक्ते रिति । व्यक्तेर्नाभिव्यञ्जकत्वप्रयुक्तं स्वाश्रिततया जातेः प्रकाशनं । किन्तु व्यक्तयपृथक्सिद्धप्रकारत्वरूपवस्तुस्वभावादेव । व्यञ्जकस्त्वालोकादिरेव । व्यक्तेर्व्यञ्जकत्वमपि न संप्रतिपन्नमिति भावः । दर्पणादि रिति । दर्पणादि प्रतिहतगतेश्चाक्षुषतेजसः प्रतिनिवृत्य मुखाभिमुखतया प्रसरणमेव मुखस्यान्यथाप्रतीतौ दोषरूपं प्रयोजकं । प्रतिलोमगतिरूपदोषप्रयोजकस्य दर्पणादेर्व्यञ्जकत्वं भवतु, मा वा । न व्यञ्जकत्वप्रयुक्तमन्यथाभानमिति भावः । न चेहे ति । तादृशदोषापादकत्वम्ज्ञानकरणानां

विपरीतग्रहणोपयोगिव्यापृतिरूपदोषापादकत्वं । तथासती ति । प्रमाणाधीनप्रमितावहमर्थस्यापि हेतुत्वात्प्रमाणदोषसंपादकत्वे तस्य न किञ्चिदपि यथार्थज्ञानं संभवेत्प्रमाणजन्यमित्यर्थः । तस्मा दिति । ज्ञातृत्वप्रतीतेर्निरुक्तदिशा भ्रान्तित्वायोगाज्ज्ञातृतया सिद्ध्यन्नहमर्थ एवात्मा । न ज्ञाप्तिमात्रमिति भावः । अत्रायं प्रयोगःज्ञानं नात्मा धर्मतया प्रमितत्वाद्रूपादिवदिति । एवं ज्ञातुरहमर्थस्यात्मत्वं समर्थितं ।

अथ स्वापे मुक्तौ चाहमर्थस्य भानं नास्ति, तन्नाहमर्थस्यात्मत्वं युक्तमिति परमतमनूद्य निरस्यति यत्तु सुषुप्ती त्यादिना । तत्रसुषुप्तिमुक्तयोः । घटकत्वं सप्तम्यर्थः । तस्य सुषुप्ताव

न्वयः । तथावस्थितिः अहंभावविगमेन ज्ञप्तिमात्रतयात्मनोऽवस्थितिः, पुरस्तादेव निरस्ता, प्रतिसन्धानबलात्स्वापेऽहमर्थसद्भावतत्प्रतीतिसमर्थनबलादिति भावः । यदी ति । उच्येतेति शेषः । तत्तत्परागर्थानुभवितृत्वेन स्फुटं ज्ञानज्ञेयतो विविच्याऽत्मनो भानं स्वापे नास्तीति परं यद्युच्येतेत्यर्थः । परागर्थाननुभवाद्विविच्य भानं न, तमोगुणाभिभवाच्च स्फुटं तन्नेति अनुसन्धेयं । परमतेऽपि तत्समानमित्यह भवदभिमते ति । विशदभानाभावेऽपि सूक्ष्मतयाहमर्थस्य भानं पराभिमतसंविद इव स्वापेऽस्तीति च हार्दं । नाहमहम् इति । इदानीमहन्त्वेन भासमान आत्मास्वापे तथा नास्तीत्यर्थः । एकमहमित्यधिकं पतितं वा । एतावन्तमित्यादिप्रतिसन्धानमज्ञानसाक्षितयाहमर्थस्यैव स्वापे सत्त्वेऽनुगुणमिति भावः । शङ्कते एतावन्तम् इति । तथात्वम्संविन्मात्रस्य भासमानत्वं । प्रत्यवतिष्ठते सिद्धान्ती कथम् इति । प्रतिवक्ति शङ्किता न किञ्चि दिति । आक्षिपत्येनं नन्वेवम् इति । किञ्चिदित्यहमर्थस्येवासङ्कोचात्संविदोऽपि क्रोडीकारात्संविन्मात्रस्यापि भानं भवतां तदाभिमतं न सिद्ध्येदित्यर्थः । ननु किञ्चिदिति जडमात्रस्य परामर्श इति चेत्तर्ह्यहमर्थस्यापि न निषेधः प्रत्यक्त्वेनाजडत्वादिति भावः । यद्वा ज्ञेयमात्रस्य किञ्चिदिति परामर्शो न ज्ञानस्येति चेत्तुल्यनयेन ज्ञातुरपि न परामर्श इति भावः । परपक्षे प्रतिसन्धानविरोधमाह अपि चे ति । देवानां प्रियःमुर्खः । तथाहि निपातनं । अनुभवप्रकारानभिज्ञत्वं च मौर्ख्यं । न हि भूतले घटो नास्तीत्यस्य घटसद्भावभूतलनिषेधविषयकत्वं कस्यचिन्मतं । किन्तु घटनिषेधभूतलास्तित्वविषयकत्वमेव

। तत्तुल्या चैतावन्तमितिप्रतीतिर्ज्ञाननिषेधज्ञातृसद्भावविषयैवेति भावः । ननु सविषयसंविन्निषेधेऽपि निर्विशेषसंवित्प्रकाशे न विरोध इत्यत्राह निर्विषये ति । निर्विषयमपि साश्रमेव ज्ञानं मतं स्वापे । तच्च धर्मभूतं नैव तदा प्रकाशत इति तु सिद्धान्तिनः ।

स्वापेऽहमर्थाननुभवे प्रतिसन्धानान्तरं प्रमाणत्वेन शङ्कते ननु माम् इति । परिहरति अर्धाङ्गीकारेण सत्यम् इति । प्रतीतावभ्युपगमः । स्वापेसर्वथाहमर्थाननुभवेऽनभ्युपगमः । स्वाप्यये ति । स्वापकालिकाविशदस्वप्रकाशैकाश्रयस्येत्यर्थः । तेन रूपेणवर्णाश्रमादिविशिष्टवेषेण । ज्ञस्वभावस्यज्ञातृस्वरूपस्य । स्वापे न ज्ञानस्य प्रकाशः, किन्तु ज्ञातृस्वरूपस्यैवेति द्योतनायेदमुक्तं । प्रतीतेरर्थमभिलपति एवमिवे ति । इवशब्दोऽवधारणे । अज्ञानसाक्षित्वेनाऽत्मा स्वापे प्रकाशत इति परपक्षरीत्यापि तदाहमर्थस्य भानमवर्जनीयमित्याह अपि चे ति । साक्षाद्द्रष्टरि संज्ञायाम् इति साक्षात्कर्तर्येव हि

साक्षिशब्दोऽनुशिष्टः । स च ज्ञातृत्वेन प्रती

तोऽहमर्थ एवेति अहमज्ञ इत्यज्ञानसाक्षितया स्वापेऽहमर्थभानं सेत्स्यत्येवेति भावः । प्रत्यक्त्वस्याहंबुद्धिव्यवस्थाप्यत्वादपि आत्मनोऽहन्त्वमेषितव्यमेवेत्याह स्वस्मै इति । स्वापेऽहमर्थभानसमर्थनमुपसंहरति तत्सिद्धम् इति । स्वापादीत्यादिपदेन मोहाद्यवस्था ग्राह्या ।

अथ मुक्तावहमर्थनिवृत्तिमनूद्य दूषयति यत्तु इति । त द्वार्तं इति । वार्तंफल्गु । तदिदं मतं क्षुद्रमित्यर्थः । यत} इति । वैनाशिकदर्शनंबौद्धदर्शनं । प्रकारान्तरेण अहम्भावाननुवृत्तिकथनमुखेन । {येने ति । आत्मन इत्यस्याग्रे आत्मा इति पूरणीयं । अहमर्थस्य धर्ममात्रत्वे तन्निवृत्तावपि मुक्तौ आत्मा अनुवर्तते इति भवत्कथनं साधीयो भवेत् । न तु धर्ममात्रं सः । किन्तु स एवात्मेति पिण्डितार्थः । ज्ञानमात्रस्यात्मत्वं प्रतिक्षिपति ज्ञानमपी ति । धर्मतया प्रमीयमाणस्य ज्ञानस्य न स्वतन्त्रात्मत्वं संभवतीति भावः । अन्तरङ्गस्य ज्ञानस्यैवाऽत्मत्वासम्भवे बहिरङ्गस्येन्द्रियादेः सुतरां न सम्भावितमात्मत्वमित्याह का कथे ति । ज्ञातृतया प्रमीयमाणादहमर्थादन्यस्य न कस्याप्यात्मत्वं युक्तमिति भावः ।

मुक्तावहंभावनिवृत्तौ दूषणान्तरमाह अन्यश्चे ति । सुखदुःखभोक्तृत्वं दुःखत्रयाभिघातात्मुमुक्षुत्वं च ज्ञातुरहमर्थस्यैव, स चेत्स्वस्यैव विनाशं मुक्तौ जानीयात्न तस्यै स्पृहयेत् । तथाच तस्या अपुरुषार्थत्वप्रसक्तिः । नापि मोक्षसाधनज्ञानानुष्ठानयोः प्रवर्तेतैवं जानन् । तथाच ज्ञापकतयानुष्ठापकतया च प्रामाण्यं भजतां मोक्षशास्त्राणां प्रामाण्यं भज्येतेति भावः । नही ति । यथा देहगेहाद्युपलक्षितः पृथिवीभागः स्थास्यतीति स्वदेहगेहनाशे न प्रवर्तेत स्वयमेव कश्चित्प्रेक्षापूर्वकारी, एवमहमर्थोपलक्षितः प्रकाशः स्थास्यतीति बुद्ध्या न स्वनाशाय मोक्षाय ज्ञाताहमर्थः प्रवर्तेतेति भावः ।

चित्त्वात्स्वयंप्रकाशत्वम्, ततः प्रत्यक्त्वं, ततश्चात्मत्वं चितो ज्ञानस्यैव, न तु तद्भिन्नस्याहमर्थस्येति पक्षं प्रतिक्षिपति एतेने ति । अहं जानामीति प्रत्यये चैतन्यैकरूपः पराग्भिन्नः प्रत्यक्यः जानामीति प्रतीयते, सः प्रकाश एवात्मा । तस्मिन्नधिष्ठाने भासमानः तदधीनप्रकाशः अहमर्थो युष्मदर्थलक्षण एवपरागर्थस्वरूपं एव, तन्नात्मेत्यर्थः । तस्मिन्नित्यनेन चिद्भिन्नत्वं, तद्बलनिर्भासिततयेति अस्वप्रकाशत्वं, लक्षणतो युष्मदर्थ एवेति पराक्त्वं चाहमर्थस्यानात्मत्वे लिङ्गमुक्तं लक्षणतःस्वरूपतः; यद्वा अस्वयंप्रकाशत्वलिङ्गात् । ज्ञानं स्वप्रकाशं ज्ञानत्वात्, ज्ञानं प्रत्यक्स्वयंप्रकाशत्वात्, ज्ञानमात्मा प्रत्यक्त्वादिति प्रयोगत्रयम्, अहमर्थो न स्वयंप्रकाशःचिद्भिन्नत्वात्, अहमर्थः पराकन्याधीनप्रकाशत्वात्, अहमर्थो नात्मा पराक्त्वा

दिति प्रयोगत्रयं चात्रगर्भितं । अस्य प्रतिक्षेवयुक्तिः पर्त्यक्षविरोधा दिति । चितो ज्ञानस्याऽत्मत्वे धर्मिग्राहकमानबाधोऽत्र विवक्षितः । प्रत्यक्षेण तस्य धर्मत्वेनैव प्रमीयमाणत्वात् । अहमर्थो युष्मदर्थ इति प्रतिज्ञावाक्ये विरोधमाह अहं इति । माता वन्ध्येति प्रतिज्ञातुल्येयमिति यावत् । ननु युष्मदर्थ इति ल् आक्षणिकं पराक्त्वपरं । नातो विरोधः । पराक्त्वं चाहमर्थस्य चिदधीनप्रकाशत्वादित्यत्राऽह न चासा विति । अत्र प्रयोगः अहमर्थोऽनन्यापेक्षप्रकाशः चैतन्यधर्मकत्वात्, यन्नैवं यन्नैवं यथा घट इति । प्रात्यक्षिकी धर्मत्वेन प्रमितिश्चैतन्यस्याऽत्मत्वे पूर्वं बाधकत्वेनोक्ता । अथाऽनुमानिकीं तां तथात्वेनाऽह प्रकाशश्चे ति ।

मुक्तावहमर्थस्य सद्भावे पूर्वं तर्क उक्तः । अथ तदा मुक्तस्याहन्त्वेन भानेऽनुमानं समग्राङ्गकन्यायमुखेन प्रपञ्चयति स चे ति । न चैवम् इति । एवं भासमानत्वे अहन्त्वेन भासमानत्वे मुक्तस्य संसारिण इवाज्ञत्वादि नापादयितुं शक्यते, मुक्तत्वविरोधात्शास्त्रसिद्धमुक्तिदशाभाव्यज्ञाननिवृत्त्यादिविरोधादित्यर्थः । मुक्तात्मा अज्ञानवान्संसरणधर्मवान्वा अहन्त्वेन भासमानत्वात्संसार्यात्मवदिति अनुमानं मुक्तविशेष प्रतिपादकशास्त्रबाधितमिति भावः । ननु नास्माभिरज्ञत्वादि मुक्तस्य साध्यते । किन्तु अहन्त्वेन भासेत यदि मुक्तात्मा, तर्ह्यज्ञानादिमान्स्यादिति प्रसञ्जनमेव क्रियत इति चेत्तत्राप्याह अतदुपाधित्वा दिति । तत्प्रत्ययस्याहमितिप्रत्ययस्य, अतदुपाधित्वाच्चाज्ञानकारणकत्वाभावच्चेत्यर्थः । आपाद्यापादकयोर्व्याप्यव्यापकभावे सति ह्यापादनं युज्यते । नात्र सोऽस्ति तन्नियामकहेतुहेतुमद्भावाद्यभावादिति भावः । अज्ञानोपाधिरिति बहुव्रीहिः अज्ञानमुपाधिः प्रयोजकं यस्येति । वामदेवादीनामित्यादिपदेन महादेवादिर्ग्राह्यः । अतत्प्रत्ययेतिप्राचीनमुद्रितपाठस्त्वशुद्धः । एतत्प्रत्ययेति वा, अहंप्रत्ययेति वा पाठः संभाव्यते । अहमेव चे ति रुद्रवाक्यमथर्वशिरसि । निवृत्तसवासनाविद्यादोषाणामपि अहंप्रत्ययदर्शनात्नास्याज्ञानोपाधित्वं संभवतीति भावः । अहमन्न मित्यादिमुक्तानुसन्धानवाक्यमप्यत्रानुसन्धेयं । नन्वेतेषां बाधितानुवृत्तिरूपोऽहंप्रत्यय इत्यत्राप्याह तथे ति । अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । क्लेशग्रहणं कर्मविपाकाशयानामुपलक्षणं ।

क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेषरिश्वरइति हि योगतन्त्रे प्रसिद्धं । सर्वदा सर्वथाविद्यारहितस्येश्वरस्याहमिति स्वात्मनि प्रत्ययो नाविद्यादिमूलः संभवेदिति हार्दं । सृष्टिप्राक्कालेऽहङ्काराद्युपाधेरभावात्तदानीन्तनोऽहंप्रत्ययोनेश्वरस्य परोपाधिप्रयुक्तः, किन्तु स्वरूपप्रयुक्त एवेति प्रदर्शनाय सृष्टिसङ्कल्पवाक्योपादानं । चिदचिदन्तर्यामिस्व

रूपपामर्शी हन्ताहमि त्यहंशब्दः । मुक्तप्राप्यपरस्वरूपवाची यस्मा दिति गीतावाक्येभगवतोऽहंशब्दः । नच सोपाधिरीश्वरोऽन्तर्यामी मुक्तप्राप्यो वा भवतीति भावः । तथा मृत्युसंसारसागरतारकं शुद्धमेव स्वरूपं भगवतोऽहमिति निर्दिष्टं तेषामह मित्यत्र । नहि स्वयं सोपाधिरितरोपाधिमोचनसमर्थ इति भावः । पितृत्वरक्षकत्वाद्यभिप्रायं च अहं बीजप्रदःपिते ति । अहंशब्दितं जगत्कारणस्वरूपं नाज्ञानोपहितं, न वा ज्ञानमात्रम्, किन्तु सर्वज्ञमिति ज्ञापनाय चोपात्तं वेदाहम् इति वचनं । न चैषां निष्कृष्टस्वरूपविषयाणामहंशब्दानां बहूनाममुख्यत्वं युक्तं । किन्तु प्रत्यक्त्वप्रवृत्तिनिमित्तकत्वान्मुख्यत्वमहन्त्वेन स्वरूपभानप्रयुक्तत्वमेव चेति भावः ।

नन्वेवमहम्भावस्याऽत्मस्वरूपत्वेऽहङ्कारस्य क्षेत्रान्तर्भाववचनं त्याज्यत्वप्रतिपादनं च गीतास्थं कथमित्यत्राऽह एवं चे ति । आव्यक्तिकपरिणामभेदेन प्रधानपरिणाममहत्परिणामेनाहङ्कारेण । अनहमहं क्रियतेऽनेनेत्यहङ्कारः । करणं च मानसं । तथा चानहमि देहेऽहमभिमानहेतुरनात्मनि आत्मभ्रमहेतुरहङ्कारः क्षेत्रान्तर्गतत्वेनोपदिष्ट इति फलितं । अथ अहङ्कारं बलं दर्पम् इति त्याज्यत्वेनोक्तस्याहङ्कारस्याभिजनादिनिमित्तदुरभिमानमूलगर्वरूपत्वमाह बहुमन्तव्ये ति । अनहमहं क्रियत इति चात्र व्युत्पत्तिः । प्रशस्तकुलीनदेहावात्माभिमान इत्यर्थः । सचायं पूज्यावमाननहेतुगर्वहेतुत्वाद्गर्व इत्युज्यते इति भावः । च्व्यर्थमन्तर्भाव्योभयत्र व्युत्पत्तिः । च्व्यर्थमनन्तर्भाव्य तु व्युत्पन्नोऽहङ्कार इति आत्मनि अहं बुद्धिवाचीति विवेकः । तस्मा दिति । अबाधिताहंबुद्धिर्मुख्याऽत्मगोचरैव । देहादौ तु सा भ्रान्तिलक्षणैवेति भावः । अत्र संवादिपुराणरत्नवचनं श्रूयताम् इति । आत्मन्येष न दोषाय शब्दोऽहमिति यो द्विज । अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः ॥ इति च तत्रत्यमत्रानुसन्धेयं । आत्मविज्ञानम् अहम्बुद्धिः । शब्दोऽहंशब्दः । वासिष्ठनन्दनेनवसिष्ठपुत्रस्य शक्तेः पुत्रेण भगवता पराशरेण । देहात्मभ्रमाकारपरीक्षातोऽपि स्वीकार्यमहमर्थत्वमात्मन इत्याह न च ज्ञप्ती ति । अनात्मबुद्धिः अनात्मन्यात्मबुद्धिः । तथैव पाठः स्यादिति संभाव्यते । ज्ञप्तिमात्रस्यात्मत्वे स्थूलासंविदित्येव देहात्मभ्रमस्याऽकारः स्यात् । नतु स्थूलोऽहमिति । अतोऽप्यात्माहमर्थ एव । यस्मिन्सति अहमिति

बुद्धिर्देहे उदेति । अपक्रान्ते च न । सोऽयमात्माहमर्थ एवेति च युक्तमभ्युपगन्तुमिति भावः ।

विश्वास-प्रस्तुतिः

अतः प्रत्यक्षसिद्धत्वादुक्तन्यायागमान्वयात् ।
अविद्यायोगतश्चात्मा ज्ञाताहमिति भासते ॥१४ ॥

मूलम्

अतः प्रत्यक्षसिद्धत्वादुक्तन्यायागमान्वयात् ।
अविद्यायोगतश्चात्मा ज्ञाताहमिति भासते ॥१४ ॥

इति ज्ञातुरात्मनो मुक्त्यादौ सर्वदाप्यहंभावभानसमर्थनप्रकरणम्

विश्वास-प्रस्तुतिः

यदुक्तमजडत्वाद्वित्तिरेवाऽत्मेति; तत्रेदं वाच्यं किमिदमजडत्वं नामेति । यद्युच्येतसदपि यन्न प्रकाशते तज्जडम्, तद्विपरीतमव्यभिचरितप्रकाशसत्ताकमजडमिति; तथा सति सुखादिभिर्व्यभिचारी हेतुः । न खलु सुखदुःखेच्छादयो विद्यमाना अपि कदाचिदमवभासमाना भवन्ति । स्वसत्ताप्रयुक्तप्रकाशत्वमपि दीपादिभिरनैकान्तिकं । ज्ञानव्यतिरिक्तप्रकाशानङ्गीकाराच्चासिद्धता, विरुद्धता च । यदि मतमव्यभिचरितप्रकाशोऽपि सुखादिरन्यस्मै प्रकाशत इति घट इव जडतां नातिवर्तते, तेनानात्मेति; ज्ञानं वा किं स्वस्मै प्रकाशते? अन्यस्यैव हि तदपि जानतोऽहमर्थस्य प्रथतेऽहं जानामीति, अहं सुखीतिवत् । तेन स्वस्मै प्रकाशमानत्वमभिप्रेत्य प्रयुज्यमानोऽजडत्वहेतुरसिद्धः संविदि । अतः सत्तयैव स्वमात्मानं प्रति सिध्यन्नजडोऽहमर्थ एवात्मा । तत्संबन्धायत्ता तु ज्ञानस्यापि प्रकाशता । अत एव हि स्वाश्रयचेतनं प्रति प्रकटता, इतरं प्रत्यप्रकटता च ज्ञानस्य सुखदुःखदेरिव । नचैवमात्मान्तरसंबन्धमर्थान्तरं वापेक्ष्यायमात्माऽत्मने प्रकाशते । एतच्चानन्तरमेवोपपादयिष्यते ।

मूलम्

यदुक्तमजडत्वाद्वित्तिरेवाऽत्मेति; तत्रेदं वाच्यं किमिदमजडत्वं नामेति । यद्युच्येतसदपि यन्न प्रकाशते तज्जडम्, तद्विपरीतमव्यभिचरितप्रकाशसत्ताकमजडमिति; तथा सति सुखादिभिर्व्यभिचारी हेतुः । न खलु सुखदुःखेच्छादयो विद्यमाना अपि कदाचिदमवभासमाना भवन्ति । स्वसत्ताप्रयुक्तप्रकाशत्वमपि दीपादिभिरनैकान्तिकं । ज्ञानव्यतिरिक्तप्रकाशानङ्गीकाराच्चासिद्धता, विरुद्धता च । यदि मतमव्यभिचरितप्रकाशोऽपि सुखादिरन्यस्मै प्रकाशत इति घट इव जडतां नातिवर्तते, तेनानात्मेति; ज्ञानं वा किं स्वस्मै प्रकाशते? अन्यस्यैव हि तदपि जानतोऽहमर्थस्य प्रथतेऽहं जानामीति, अहं सुखीतिवत् । तेन स्वस्मै प्रकाशमानत्वमभिप्रेत्य प्रयुज्यमानोऽजडत्वहेतुरसिद्धः संविदि । अतः सत्तयैव स्वमात्मानं प्रति सिध्यन्नजडोऽहमर्थ एवात्मा । तत्संबन्धायत्ता तु ज्ञानस्यापि प्रकाशता । अत एव हि स्वाश्रयचेतनं प्रति प्रकटता, इतरं प्रत्यप्रकटता च ज्ञानस्य सुखदुःखदेरिव । नचैवमात्मान्तरसंबन्धमर्थान्तरं वापेक्ष्यायमात्माऽत्मने प्रकाशते । एतच्चानन्तरमेवोपपादयिष्यते ।

इति ज्ञानात्मत्वसाधकाजडत्वदूषणम्

विश्वास-प्रस्तुतिः

न च ज्ञानेन सहोपलम्भनियमोऽहमर्थस्यार्थान्तरतां वारयति, ज्ञानस्यापि तथात्वप्रसङ्गात् । तदपि हि तेन नियतेन सहोपलम्भमित्यहमर्थादनर्थान्तरं मिथ्यारूपमेवाऽपद्येत । असिद्धश्च संविद्विशेषैः सहोपलम्भनियमः, प्रत्येकं व्यभिचारदर्शनात् । न च विशेषमात्रं निर्धूतनिखिलविषयविशेषोपश्लेषं वा वित्तिमात्रमस्ति, येन सहोपलम्भनियमः
संवेदितुरभिधीयेत । सामान्यं तु सदपि सौगतेर्न वस्तुतयाऽस्थीयते । समस्तवृत्तिप्रत्यस्तमयेऽपि स्वयञ्ज्योतिरयमात्मावतिष्ठत इति च वक्ष्यामः । स्ववाग्विघातश्चएकं द्वाविति निर्देशात् । द्वयोर्ह्येकक्रियानुप्रवेशे सहशब्दः, शिष्येण सह गच्छत्याचार्य इति यथा । अपि च निलतद्धियोरिति द्वे उपादाय अभेद इत्येकत्वविधिः सवित्रीवन्ध्यात्वविधिरिव । अनेकान्तश्च संविदि प्रतिषिध्यमानैर्जडत्वादिभिः; सर्वज्ञज्ञानेन सहोपलम्भनियमभागिभिः संसारिज्ञानैश्च । तेषामभेदाभ्युपगमे ज्ञानस्य जडत्वमूर्तत्वादि, बुद्धस्य बद्धत्वमित्यापद्येत । नियमेनैकज्ञानसिद्धत्वमप्युक्तप्रकारेण प्रत्यु
क्तं । विपक्षव्यतिरेकश्चासिद्धः । भवतु नियमेनैकज्ञानसिद्धत्वं ज्ञानज्ञेयज्ञातृणाम्, मा च भूदभेदः; को विरोधः? ।

मूलम्

न च ज्ञानेन सहोपलम्भनियमोऽहमर्थस्यार्थान्तरतां वारयति, ज्ञानस्यापि तथात्वप्रसङ्गात् । तदपि हि तेन नियतेन सहोपलम्भमित्यहमर्थादनर्थान्तरं मिथ्यारूपमेवाऽपद्येत । असिद्धश्च संविद्विशेषैः सहोपलम्भनियमः, प्रत्येकं व्यभिचारदर्शनात् । न च विशेषमात्रं निर्धूतनिखिलविषयविशेषोपश्लेषं वा वित्तिमात्रमस्ति, येन सहोपलम्भनियमः
संवेदितुरभिधीयेत । सामान्यं तु सदपि सौगतेर्न वस्तुतयाऽस्थीयते । समस्तवृत्तिप्रत्यस्तमयेऽपि स्वयञ्ज्योतिरयमात्मावतिष्ठत इति च वक्ष्यामः । स्ववाग्विघातश्चएकं द्वाविति निर्देशात् । द्वयोर्ह्येकक्रियानुप्रवेशे सहशब्दः, शिष्येण सह गच्छत्याचार्य इति यथा । अपि च निलतद्धियोरिति द्वे उपादाय अभेद इत्येकत्वविधिः सवित्रीवन्ध्यात्वविधिरिव । अनेकान्तश्च संविदि प्रतिषिध्यमानैर्जडत्वादिभिः; सर्वज्ञज्ञानेन सहोपलम्भनियमभागिभिः संसारिज्ञानैश्च । तेषामभेदाभ्युपगमे ज्ञानस्य जडत्वमूर्तत्वादि, बुद्धस्य बद्धत्वमित्यापद्येत । नियमेनैकज्ञानसिद्धत्वमप्युक्तप्रकारेण प्रत्यु
क्तं । विपक्षव्यतिरेकश्चासिद्धः । भवतु नियमेनैकज्ञानसिद्धत्वं ज्ञानज्ञेयज्ञातृणाम्, मा च भूदभेदः; को विरोधः? ।

अहमर्थस्याऽत्मत्वं निगमयति {अत} इति । जानाम्यहमिति ज्ञानधर्मित्वेन प्रत्यक्षसिद्धत्वादहमर्थस्यैवाऽत्मत्वं । अहन्त्वेन तस्य मुक्तावपि भानेऽनुमानमुक्तमागमश्च । प्रत्यक्त्वान्यथानुपपतितलक्षणस्तर्कोऽप्युक्त आत्मनोऽहमर्थत्वव्यवस्थापकः । स्थूलोऽहमिति देहात्मभ्रमरूपाविद्यासङ्गतेश्च ज्ञाताहमर्थ एवात्मा, स च सर्वदाहमिति भासते इति कारिकार्थः । आत्मा ज्ञातैवेत्यत्रापि प्रत्यक्षादिकमस्तीति गर्भितमत्र । प्रत्यक्षं चाहं जानामीत्यादिकं प्रसिद्धमेव । ज्ञानस्य देहादिधर्मत्वनिषेधेन परिशेषानुमानमपि सिद्धं । सास्त्रवचनानि चाग्रे मूल एव निर्देक्ष्यन्ते । ज्ञानसमानाश्रयत्वादज्ञानस्याज्ञातृत्वे आत्मनोऽविद्यान्वयायोग इति तर्कोऽप्यक्तप्राय इति । एवं ज्ञातुरहमर्थस्यात्मत्वं व्यवास्थापि ॥१४ ॥

अथ ज्ञानस्याऽत्मत्वे साधकत्वेन परैरुपन्यस्तमजडत्वमपि विकल्प्य दूषयति यदुक्त मित्यादिना । तद्विपरीतमित्यस्य विवरण मव्यभिचरिते त्यादि । अव्यभिचरितःनियतः प्रकाशो यस्याः, एवंभूता सत्ता यस्य, तदजडमित्यर्थः । स्वसत्ताव्यापकप्रकाशत्वमजडत्वमिति यावत् । तथा सती ति । अनात्मसु सुखादिष्वपि निरुक्ताजडत्वस्य सत्त्वात्व्यभिचार इत्युक्तं भवति । अजडत्वप्रकारान्तरं दूषयति स्वसत्ते ति । यस्य स्वसत्तयैव प्रकाशः, तत्स्वसत्ताप्रयुक्तप्रकाशम्, तत्ता जडत्वमित्यपि प्रदीपादौ व्यभिचारि । दीपस्य प्रकाशे हि न दीपान्तरापेक्षा । ननु चक्षुरादेरपेक्षास्त्येव तत्रेति चेत्; अस्तु नाम; तावता स्वसत्ताप्रयुक्तताया अनपायात् । स्वसत्तामात्रप्रयुक्तत्वविवक्षा तु न संभवति, संविद्यसिद्धेः । विजातीयात्मापेक्षत्वात्तत्प्रकाशस्य । एतच्चानन्तरमेव स्फुटीभविष्यति । दूषणान्तरमप्याह ज्ञाने ति । ज्ञानतो धर्मोऽतिरिक्तः प्रकाशो नाम नाभिमतः । ज्ञानमेव तु प्रकाशरूपं । तत्स्वसत्ताप्रयुक्तप्रकाशत्वरूपो हेतुरसिद्धः पक्षे ज्ञाने । तत्प्रकाशं नित्यमभ्युपगच्छतः तस्य स्वसत्ताप्रयुक्तत्वकीर्तनं विरुद्धं च । यद्वा प्रकाशवत्त्वस्य संविद्युपगमेऽभिमतनिर्विशेषत्वविरोध इति भावः । स्वस्मै स्वयं भासमानत्वरूपमजडत्वमात्मत्वे साधकं तु स्वरूपासिद्धमित्याह यदि मतम् इति । ज्ञानप्रकाशस्य तदाश्रयनिबन्धनत्वमाह तत्संबन्धे ति । प्रकाशताज्ञानरूपता, प्रकाशमानता वा । स्वाश्रयाय स्वविषयप्रकाशकत्वरूपं ज्ञानत्वं, प्रकाशमानता चात्मधर्मताहेतुके एव । नहि स्वाश्रयादन्यस्मै स्वविषयं प्रकाशयति ज्ञानं, स्वयं वा प्रकाशते इति भावः । {अत} इति ।

स्वस्मै स्वयं भास

मानत्वमहमर्थस्यैवेति स एवात्मेत्यर्थः । प्रकटताप्रकाशमानता । आत्मान्तरसंबन्धमाश्रयान्तरसंबन्धं । अर्थान्तरंज्ञानादि । एतच्चे ति । अनन्यसाधनइत्येतद्विवरण इति भावः ।

संविद आत्मत्वमाधकमजडत्वं प्रदूष्य ज्ञात्रादेः संविदभेदसाधकं प्रकटसौगताभिमतं सहोपलम्भनियमं दूषयति नच ज्ञानेने ति । ज्ञानस्यापी ति । मिथ्याभूतेनाहमर्थेन सहोपलम्भनैयत्यतौल्यात्संविदस्तदभेदात्मिथ्यात्वप्रसक्तिरिति भावः । अभिमतविरुद्धापादकत्वाद्धेतोर्भवदीयस्य विरुद्धत्वमिति हेतुदोष उद्भावितो भवति । अहमर्थेन सहैवोपलम्भं संविद उपपादयति तदपी ति । नियतेनस्वप्रकाशव्यापकप्रकाशवता । तेनाहङ्कारेण । सहोपलम्भो यस्य तत्सहोपलम्भं । किञ्च, तदुपलम्भव्याप्योपलम्भवत्त्वरूपो हि सहोपलम्भनियमः परैः तदभेदसाधको मतः । स चायमहमर्थस्य संविदभेदसाधने पक्षेऽसिद्ध इत्याह असिद्धश्चे ति । अत्र विकल्पःकिं ज्ञानविशेषेण तेन तेन सहोपलम्भनियमोऽहमर्थस्य विवक्षितः, उत ज्ञानविशेषमात्रेण, आहोस्वित्ज्ञानमात्रेणेति । तत्राद्येऽसिद्धिः, चाक्षुषादिज्ञानप्रकाशमन्तरापि अहमर्थस्य ज्ञानान्तरप्रकाशे प्रकाशमानत्वादिति प्रत्येकं व्यभिचारदर्शना दित्युक्तं । द्वितीयतृतीयकल्पयोर्देषमाह नच विशेषे ति । न निर्विशेषं सामान्यम् इति न्यायाच्चाक्षुषादिव्यतिरिक्तं ज्ञानविशेषमात्रं ज्ञानमात्रं वा नास्ति । तत्तद्विशेषप्रकाशव्यभिचारश्चाहमर्थप्रकाशस्योक्त एव तत्तद्विशेषप्रकाशाभावेऽप्यहमर्थप्रकाशत इति भावः । नन्वेवमपि ज्ञानत्वावच्छिन्नप्रकाशेनाव्यभिचार एव । अहमर्थप्रकाशे ज्ञानत्वावच्छिन्नप्रकाशध्रौव्यादित्यत्राह सामान्यम् इति ।

अनुवृत्तसामान्यानुपगमात्सौगतैरेवं हेतुस्तेषां दुर्वच इति भावः । विनापि ज्ञानप्रकाशेनाहमर्थप्रकाशोऽस्तीत्याह सिद्धान्तरीत्या च समस्ते ति । स्ववा गिति । साहित्यस्य भेदनियतत्वात्सहैवोपलम्भमानत्वहेतुव्यपदेश एव भेदव्यपदेशरूप इति तेन संविदहमर्थयोरैक्यसाधने प्रतिज्ञाहेतुवाक्ययोर्विरोध एकं द्वित्वादितिवदिति भावः । प्रतिज्ञाहेतुघटकपदयोर्विरोधमुक्त्वा प्रतिज्ञाघटकपदयोस्तमाह अपि चे ति । सहोपलम्भनियमादभेदो नीलतद्धियो रित्येवं हि तेषां प्रतिज्ञा । द्वित्वविशिष्टेऽत्रैकत्वविधिर्जननीवन्ध्यात्वविधिरिव व्याहत इति यावत् । ज्ञानज्ञात्रोरभेदसाधनदूषणप्रसङ्गेऽस्मिन्ज्ञानज्ञेययोरभेदसाधकप्रयोगदूषणादिसाधमदूषणप्रकारसाम्यादि ति ध्येयं । शब्ददोषमुक्त्वार्ऽथदोषमन्यमाह अनेकान्तश्चे ति । संविदः स्वयंप्रकाशत्वाज्जडत्वादिप्रकाशकाले ज्ञानप्रकाशोपि नियतः । तथा च संविदा सहोपलम्भनियमभाजां जडत्वमूर्तत्वादीनां संविदभेदे संविदो जडत्वमूर्तत्वादिप्रसङ्गः । धर्मधर्मिभेदानुपगमात्, अभेदेप्याधाराधेयभावप्रतीत्युपगमाच्च । एवं सर्व

ज्ञस्य बद्धज्ञानानामुपलम्भे नियमेन बुद्धज्ञानमप्युपलम्यते, तेषां बुद्धज्ञानमहोपलम्भानां बुद्धज्ञानाभेदे बुद्धस्य बद्धत्वापत्तिः । तत्र तत्राभेदानुपगमे चानैकान्त्यं हेतोरिति भावः । अभेदसाधकं हेत्वन्तरमपि तुल्यरीत्या निरस्यति नियमेनैके ति । एकज्ञानसिद्धत्वं एकज्ञाने द्वयोः प्रकाशमानत्वं । निरासप्रकारश्चएकज्ञानविषयत्वेनाहमर्थे संविदभेदस्य साधने तुल्यनयेनाहमर्थाभेदोऽपि संविदि प्रसज्येत । चाक्षुषादिज्ञानविशेषेणैव सिद्धत्वं चाहमर्थस्यासिद्धं । ज्ञानान्तरतोऽपि सिद्धेः, स्वापे स्वतः सिद्धेश्चेति । अप्रयोजकत्वमप्याह विपक्षे ति । विपक्षव्यतिरेकःविपक्षे बाधः । तदसिद्धिमेवोपपादयति {भव} त्विति । साध्याभाववति हेतोर्वृत्तावापाद्यमानायां बाधकस्तर्को नास्ति । अतोऽप्रयोजको हेतुरिति भावः ।

विश्वास-प्रस्तुतिः

किमप्रकाशरूपत्वात्प्रकाशमनुरुध्यते ।
व्यवहाराय नीलादिराहोस्वित्तदभेदतः ॥१५ ॥
इति सन्दिह्यमानत्वान्नाभेदः शक्यनिर्णयः ।
बोध्यस्थश्चैष नियमो न पुनर्बुद्धिबोद्धृगः ॥१६ ॥
स्पष्टश्च प्रत्यक्षबाधः, सर्वज्ञानेषु वेद्यादिव वित्तेरपि वेदितुर्भेदस्यापरोक्षत्वात् । नच प्रतियोगिनः प्रत्यक्षत्वं दृश्यत्वं वा भेदस्याऽपरोक्ष्ये त्वपेक्षितव्यम्, सिद्धिमात्रेण तदुपपत्तावप्रयोजकत्वेन तद्विशेषस्यानाक्षेपात् । अनवभासमानेऽपि प्रतियोगिनि भावाः स्वरूपत एव विलक्षणाः प्रत्यक्ष्यन्त इति सर्वलोकस्वसाक्षिकमेतत् ।
ननु जीवतो भेदप्रत्यक्षस्य शिरसि पदनिधानेन सहोपलम्भनियमस्याभेदेन प्रतिबन्धग्रहणमिति कथमिव ततस्तद्वाधसंभवः । तथासति हि ज्वालाभेदानुमानमपि तदेकत्वप्रत्यभिज्ञयापोद्येत । अविशेषज्ञो देवानां प्रियः । तत्र हि क्ल्प्तकारणदोषानुवृत्तौ सत्यां जायमानोऽपरोक्षावभासो न निरवद्यप्रत्यक्षपूर्वकमनुमानं बाधितुमर्हति । तथाहिअचिरनिर्वापितारोपितेष्वेकवर्तिभागवर्तिषु बहुषुदीपेषु तद्भेदादर्शिनः सुसदृशतया स एवायमिति स्मृतिरुपजायते इति दृष्टं । अतोऽन्यत्राप्यप्रतिबन्धपुष्कलकारणक्रमोपनिपातादवयवविश्लेषाच्च सुसदृशनिरन्तरप्रवृत्तप्रदीपप्रवाहालम्बनैव तथा मतिरिति निश्चीयते । तथैकनानात्वप्रत्ययः स्वतःप्राप्तेन्द्रियवृत्तिविपर्ययप्रयुक्तः समसमयोपजायमानानेकानवद्यप्रत्यक्षप्रतिक्षिप्तविषयश्चद्विचन्द्रादौ दृष्ट इति नासौ तत्रैकत्वानुमानमभिभवितुं प्रभवति । न चैवमिह ज्ञातृज्ञानज्ञेयविवेकसाक्षात्कारी प्रत्यय इति प्रतिरुणद्ध्येवायमिहाभेदानुमानोदयप्रसक्तिं । न चोपलब्धिसाहित्यनियमादेव तथात्वमत्रानुमेयमिति युक्तम्, विपक्षे बाधकानुपलब्धेः । संविदधीनसिद्धितयापि तथा नियमोपपत्तेः । अनैन्द्रियिकत्वेन च तद्वृत्तिविपर्ययस्याकिञ्चित्करत्वात् । योग्यानुपलम्भपराकृतत्वाच्च बाधकप्रत्ययस्य । अपि च विषयसिद्धिर्हि संवित् । सा च स्वयंप्रकाशेत्यविवादः । तेनावर्जनीयस्तथा नियमः । नच भेदोऽपि सिद्धिमन्तरेण सिध्येदित्यनुन्मत्तेन युक्तमापादयितुमित्यलमनेनानुभवपराहतमतातिव्याकुलीकरणेन ।

मूलम्

किमप्रकाशरूपत्वात्प्रकाशमनुरुध्यते ।
व्यवहाराय नीलादिराहोस्वित्तदभेदतः ॥१५ ॥
इति सन्दिह्यमानत्वान्नाभेदः शक्यनिर्णयः ।
बोध्यस्थश्चैष नियमो न पुनर्बुद्धिबोद्धृगः ॥१६ ॥
स्पष्टश्च प्रत्यक्षबाधः, सर्वज्ञानेषु वेद्यादिव वित्तेरपि वेदितुर्भेदस्यापरोक्षत्वात् । नच प्रतियोगिनः प्रत्यक्षत्वं दृश्यत्वं वा भेदस्याऽपरोक्ष्ये त्वपेक्षितव्यम्, सिद्धिमात्रेण तदुपपत्तावप्रयोजकत्वेन तद्विशेषस्यानाक्षेपात् । अनवभासमानेऽपि प्रतियोगिनि भावाः स्वरूपत एव विलक्षणाः प्रत्यक्ष्यन्त इति सर्वलोकस्वसाक्षिकमेतत् ।
ननु जीवतो भेदप्रत्यक्षस्य शिरसि पदनिधानेन सहोपलम्भनियमस्याभेदेन प्रतिबन्धग्रहणमिति कथमिव ततस्तद्वाधसंभवः । तथासति हि ज्वालाभेदानुमानमपि तदेकत्वप्रत्यभिज्ञयापोद्येत । अविशेषज्ञो देवानां प्रियः । तत्र हि क्ल्प्तकारणदोषानुवृत्तौ सत्यां जायमानोऽपरोक्षावभासो न निरवद्यप्रत्यक्षपूर्वकमनुमानं बाधितुमर्हति । तथाहिअचिरनिर्वापितारोपितेष्वेकवर्तिभागवर्तिषु बहुषुदीपेषु तद्भेदादर्शिनः सुसदृशतया स एवायमिति स्मृतिरुपजायते इति दृष्टं । अतोऽन्यत्राप्यप्रतिबन्धपुष्कलकारणक्रमोपनिपातादवयवविश्लेषाच्च सुसदृशनिरन्तरप्रवृत्तप्रदीपप्रवाहालम्बनैव तथा मतिरिति निश्चीयते । तथैकनानात्वप्रत्ययः स्वतःप्राप्तेन्द्रियवृत्तिविपर्ययप्रयुक्तः समसमयोपजायमानानेकानवद्यप्रत्यक्षप्रतिक्षिप्तविषयश्चद्विचन्द्रादौ दृष्ट इति नासौ तत्रैकत्वानुमानमभिभवितुं प्रभवति । न चैवमिह ज्ञातृज्ञानज्ञेयविवेकसाक्षात्कारी प्रत्यय इति प्रतिरुणद्ध्येवायमिहाभेदानुमानोदयप्रसक्तिं । न चोपलब्धिसाहित्यनियमादेव तथात्वमत्रानुमेयमिति युक्तम्, विपक्षे बाधकानुपलब्धेः । संविदधीनसिद्धितयापि तथा नियमोपपत्तेः । अनैन्द्रियिकत्वेन च तद्वृत्तिविपर्ययस्याकिञ्चित्करत्वात् । योग्यानुपलम्भपराकृतत्वाच्च बाधकप्रत्ययस्य । अपि च विषयसिद्धिर्हि संवित् । सा च स्वयंप्रकाशेत्यविवादः । तेनावर्जनीयस्तथा नियमः । नच भेदोऽपि सिद्धिमन्तरेण सिध्येदित्यनुन्मत्तेन युक्तमापादयितुमित्यलमनेनानुभवपराहतमतातिव्याकुलीकरणेन ।

(इति सौगताभिमतग्राह्यग्राहकविकल्पप्रत्युद्धारनिराकरणम्)

विश्वास-प्रस्तुतिः

अप्रकाशात्मनश्च नीलादेः प्रकाश इत्यनुभवसिद्धत्वान्न समर्थनान्तरं प्रार्थयते । आत्मा तु प्रकाशस्वभाव एव । न च तावताज्ञानत्वम्, स्वतन्त्रत्वात् । परतन्त्रमागन्तु यावदर्थेन्द्रियसन्निकर्षादिकारणसन्निधानमवतिष्ठमानमर्थावच्छिन्नरूपं ज्ञानमिति प्रागेवावोचाम । आत्मा तु स्वतन्त्रो ज्ञाता अहमिति प्रत्यात्मं प्रथते । यदिपुनरीदृशोऽप्ययमनन्याधीनसिद्धितया ज्ञानमभिलप्यते, अभिलप्यतां कामं । तथापि ज्ञानवदेवेदं ज्ञानम्, न ज्ञप्तिमात्रतया ।

मूलम्

अप्रकाशात्मनश्च नीलादेः प्रकाश इत्यनुभवसिद्धत्वान्न समर्थनान्तरं प्रार्थयते । आत्मा तु प्रकाशस्वभाव एव । न च तावताज्ञानत्वम्, स्वतन्त्रत्वात् । परतन्त्रमागन्तु यावदर्थेन्द्रियसन्निकर्षादिकारणसन्निधानमवतिष्ठमानमर्थावच्छिन्नरूपं ज्ञानमिति प्रागेवावोचाम । आत्मा तु स्वतन्त्रो ज्ञाता अहमिति प्रत्यात्मं प्रथते । यदिपुनरीदृशोऽप्ययमनन्याधीनसिद्धितया ज्ञानमभिलप्यते, अभिलप्यतां कामं । तथापि ज्ञानवदेवेदं ज्ञानम्, न ज्ञप्तिमात्रतया ।

(इत्यद्वैत्यभिमतग्राह्यग्राहकविकल्पप्रत्युद्धारनिराकरणम्)

विश्वास-प्रस्तुतिः

अत एव हि च्छन्दोगाःऽअथ यो वेदेदं जिघ्राणीति स आत्माऽ इत्याद्यामनन्ति । तथाऽकतम आत्माऽ इति प्रश्नपूर्वकमिदमेव लक्षणमामनन्ति वाजसनेयिनःऽयोऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषःऽ इति । अत्र हि योऽयं सर्वलोकानुभवसिद्धो विविधविषयवेदनप्रचुरः प्राणेषु प्रेरकतया स्थितो हृदयायतने अन्तर्ज्योतिः अहमिति प्रत्यक्त्वेन प्रकाशते, स पुरुष इति यथोदितमेवात्मस्वरूपमुपदिश्यते ।ऽएष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषःऽ इत्याथर्वणाः । तथाऽविज्ञातारमरे केन विजानीयादितिऽऽन पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम्ऽऽस उत्तमः पुरुषः नोपजनं स्मरन्निदं शरीरम्ऽऽएवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्तिऽऽतस्माद्धा एतस्मान्मनोमयादन्योऽन्तर आत्मा विज्ञानमयःऽ इत्याद्याः ।
ऽसत्यं ज्ञानऽ मित्यत्रापि ब्रह्मलक्षणनिर्देशे ज्ञानशब्दो न ज्ञानमात्रवचनः ; अपि तु तद्वद्वचनः । तद्वचनत्वेऽलितिऽ इति आद्युदात्तत्वप्रसक्तेः । अन्तोदात्तश्चायं ज्ञानशब्दः । मत्वर्थीयाच्प्रत्ययान्तत्वे तथात्वं घटते; नान्यथेत्येतत्परमात्मनिरूपणे अतिनिपुणमुपपादयिष्यामः । ऐतरेयोपनिषदपिऽप्रज्ञानं ब्रह्येऽत्युक्त्वाऽस एतेन प्राज्ञेनात्मनाऽ इति प्रकृष्टज्ञानवन्तमेवेश्वरं दर्शयति । तत्सिद्धं ज्ञातैवायमात्मेति ॥

मूलम्

अत एव हि च्छन्दोगाःऽअथ यो वेदेदं जिघ्राणीति स आत्माऽ इत्याद्यामनन्ति । तथाऽकतम आत्माऽ इति प्रश्नपूर्वकमिदमेव लक्षणमामनन्ति वाजसनेयिनःऽयोऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषःऽ इति । अत्र हि योऽयं सर्वलोकानुभवसिद्धो विविधविषयवेदनप्रचुरः प्राणेषु प्रेरकतया स्थितो हृदयायतने अन्तर्ज्योतिः अहमिति प्रत्यक्त्वेन प्रकाशते, स पुरुष इति यथोदितमेवात्मस्वरूपमुपदिश्यते ।ऽएष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषःऽ इत्याथर्वणाः । तथाऽविज्ञातारमरे केन विजानीयादितिऽऽन पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम्ऽऽस उत्तमः पुरुषः नोपजनं स्मरन्निदं शरीरम्ऽऽएवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्तिऽऽतस्माद्धा एतस्मान्मनोमयादन्योऽन्तर आत्मा विज्ञानमयःऽ इत्याद्याः ।
ऽसत्यं ज्ञानऽ मित्यत्रापि ब्रह्मलक्षणनिर्देशे ज्ञानशब्दो न ज्ञानमात्रवचनः ; अपि तु तद्वद्वचनः । तद्वचनत्वेऽलितिऽ इति आद्युदात्तत्वप्रसक्तेः । अन्तोदात्तश्चायं ज्ञानशब्दः । मत्वर्थीयाच्प्रत्ययान्तत्वे तथात्वं घटते; नान्यथेत्येतत्परमात्मनिरूपणे अतिनिपुणमुपपादयिष्यामः । ऐतरेयोपनिषदपिऽप्रज्ञानं ब्रह्येऽत्युक्त्वाऽस एतेन प्राज्ञेनात्मनाऽ इति प्रकृष्टज्ञानवन्तमेवेश्वरं दर्शयति । तत्सिद्धं ज्ञातैवायमात्मेति ॥

(इति देहादिविलक्षणप्रत्यगात्मस्वरूपनिरूपणप्रकरणम्)

{किं पुनरस्मिन्देहादिव्यतिरेकिणि चेतने प्रत्यगात्मनि प्रमाणम्? । अनु
मानमिति नयविचक्षणोऽक्षपादः । यदाह “}
इच्छाद्वेषप्रयत्नसुखदुःखज्ञाना न्यात्मनो लिङ्ग *{“ं इति ।
किममीषामात्मनाविनाभावो धूमध्वजविशेषेणेव धूमविशेषस्य दृष्टः? हन्तैवं तत एव तत्प्रमितेः किमनुमानेन? । माभूद्विशेषतोदर्शनम्; सामान्यतस्तु भविष्यति । तथाहिइच्छादयः कार्यत्वानित्यत्वगुणत्वादिभिः शब्दादय इवाऽश्रिततयानुमीयन्ते । यश्चैषामाश्रयः स आत्मा । गुणत्वं च परिशेषात् । न सामान्यविशेषसमवायाभावाः अनित्यत्वात् । न द्रव्यं कर्म वा, व्यापकद्रव्यसमवायादिति । विशेषगुणत्वं चानित्यत्वे सत्यस्मदाद्येकेन्द्रियग्राह्यत्वनियमात्रूपादिवत् । एवमाश्रयमात्रमुपस्थापयन्तोऽन्वयव्यतिरेकिणो हेतवः द्रव्यान्तरगुणत्वं च प्रत्याचक्षाणैः केवलव्यतिरेकिसाधनैरात्मगोचरतया नियम्यन्ते । तथा हि भवतिइच्छादयो न महाभूतगुणाः, स्वात्मन एव प्रत्यक्षत्वात्; अबाह्येन्द्रियग्राह्यत्वाद्धा । ये भूतगुणास्ते स्वात्मपरात्मप्रत्यक्षाः बाह्यकरणप्रत्यक्षाश्च, यथा रूपादयः । न तथेच्छादय इति न तद्गुणाः । दिक्कालमनांसि पुनः न विशेषगुणवन्ति; नापि तद्गुणानां प्रत्यक्षत्वमिति न तेषामपि गुणाः । अकारणगुणपूर्वत्वातयावच्छरीरभावित्वादित्यादयः शरीरविशेषगुणत्वप्रतिषेधहेतवः प्राचीनाश्चात्रानुक्रष्टव्याः । तेनेच्छादयो न शरीरगुणाः तद्गुणभावापवादप्रमाणवत्त्वे सति गुणत्वात् । ये यथोक्तसाध्या न भवन्ति, ते यथोक्तसाधना अपि न भवन्ति; यथा रूपादयः । यथोक्तसाधनाः पुनरिच्छादय इति यथोक्तसाध्या एवेति । विमतिपदास्पदेभ्यः शरीरादिभ्योर्ऽथान्तरगुणा इच्छादय इति वा प्रतिज्ञा । यथोक्त एव हेतुः । उदाहरणं च प्रयोक्तव्यं । सामान्येन

वान्वयः प्रदर्शनीयःयो यद्गुणभावापवादकप्रमाणवत्त्वे सति गुणः, स ततोर्ऽथान्तरस्य गुणः; यथा पृथिव्यादिभ्यः शब्द इति आकाशसिद्धिवदात्मसिद्धिरिति ।}*

(इति विलक्षणात्मन आनुमानिकत्वपक्षनिरूपणम्)

विश्वास-प्रस्तुतिः

इदमपि न समीचीनमित्येके । तथाहिअन्वयव्यतिरेकिहेतुभिर्देहादिसाधारणमाश्रयमात्रमवगमितं । न च तावताऽत्मसिद्धिः । केवलव्यतिरेकी तु साधनदशामेव नासादयति, सपक्षान्वयविरहात्, असाधारणवत् । नचैवं केवलान्व
यिनो विपक्षव्यतिरेकदर्शनविकलतया साधारणवदसाधनत्वं । देशकालादिशङ्गितोपाधिविगमेप्यन्वयदर्शनेन साध्यान्वितस्वभावतया परिनिश्चितत्वात् । नच साधनाभावे साध्याभावदर्शनमात्रेण साध्यान्वितस्वभावत्वं शक्यं निश्चेतुं । अभावस्यानन्तदेशव्यापितयानवयवेन ग्रहणस्यैव दुष्करत्वात्, कलयाप्यन्यत्रवृत्तौ संबन्धे नियमासंभवात् । सन्देहग्रस्तत्वाच्चकिं साधनाभावप्रयुक्तः साध्याभावः, किं वा निमित्तान्तरप्रयुक्त इति । पृथिव्यादिभ्योर्ऽथान्तरगुणत्वप्रतिज्ञापि द्रव्यान्तराप्रसिद्धेरप्रसिद्धविशेषणा ।

मूलम्

इदमपि न समीचीनमित्येके । तथाहिअन्वयव्यतिरेकिहेतुभिर्देहादिसाधारणमाश्रयमात्रमवगमितं । न च तावताऽत्मसिद्धिः । केवलव्यतिरेकी तु साधनदशामेव नासादयति, सपक्षान्वयविरहात्, असाधारणवत् । नचैवं केवलान्व
यिनो विपक्षव्यतिरेकदर्शनविकलतया साधारणवदसाधनत्वं । देशकालादिशङ्गितोपाधिविगमेप्यन्वयदर्शनेन साध्यान्वितस्वभावतया परिनिश्चितत्वात् । नच साधनाभावे साध्याभावदर्शनमात्रेण साध्यान्वितस्वभावत्वं शक्यं निश्चेतुं । अभावस्यानन्तदेशव्यापितयानवयवेन ग्रहणस्यैव दुष्करत्वात्, कलयाप्यन्यत्रवृत्तौ संबन्धे नियमासंभवात् । सन्देहग्रस्तत्वाच्चकिं साधनाभावप्रयुक्तः साध्याभावः, किं वा निमित्तान्तरप्रयुक्त इति । पृथिव्यादिभ्योर्ऽथान्तरगुणत्वप्रतिज्ञापि द्रव्यान्तराप्रसिद्धेरप्रसिद्धविशेषणा ।

(इति नैयायिकाभिमतात्मानुमाननिरासः)

{एतेन साङ्ख्योदीरितसाधनभेदा अप्यपोदिता वेदितव्याः सङ्घातपरार्थत्वादयः । तथा च तानेव तावदादितो व्याकुर्महे
“}
{सङ्गातपरार्थत्वात्र्रिगुणादिविपर्ययादधिष्ठानात् ।
पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थं प्रवृत्तेश्च }
{”
अयमर्थःदेहेन्द्रियादयः परार्थाः सङ्गातत्वाच्छयनासनशरणादिवत् । प्रत्यक्षं च शरीरस्य सङ्घातत्वं, भूतानां च । अव्यक्तमहदहङ्कारेन्द्रियाणां च सुखदुःखमोहात्मतया तथात्वमनुमेयं तद्वदेव । न चेन्द्रियाणामाहङ्कारिकत्वस्याभ्युपेतस्य, साध्यन्त्वाभिमतपारार्थ्यधर्मस्य चासंहतपरार्थत्वस्यान्यथात्वापादनादुभयविशेषविरुद्धत्वं हेतोः; अहङ्कारान्वयव्यतिरेकानुविधानेन “}
देवा वैकारिकाः स्मृताः {”} {इत्याद्यागमबलेन प्रकाशलाघवगुणान्वयेन च वैकारिकाभिधानसात्त्विकाहङ्कारभेदयोनित्वस्येन्द्रियाणां प्रमाणसिद्धस्यापवादानुपपत्तेः । आत्मनस्तु सङ्घातत्वे तस्यापि सङ्घातान्तरार्थतयानवस्थापत्त्या निष्प्रमाणकानेककल्पनाप्रसङ्गात्, अप्रयोजकत्वाच्च सङ्घातत्वस्य शेषित्वे, दृष्टान्तदृष्टाशेषधर्मोपस्थापनेऽनुमानप्रामाण्य स्यैवासम्भवापत्तेः तदसङ्घातत्वस्य चाप्रचाल्यत्वात् । नच प्रमाणान्तरबलेनानाहङ्कारिकत्वसङ्घातान्तरार्थत्वयोर्बाधेऽबाधितेन सङ्घातपरार्थत्वेनापि न भवितव्यं । एवं च संहतत्वव्यापकावरुद्धत्रैगुण्यादिरहितोऽसंहत आत्मा सिद्धः ।
तथा देहादयः सुखदुःखमोहात्मकतया परेणाधिष्ठीयन्ते, यन्त्रादिभिरिव रथादयः । अपि
चानुकूलप्रतिकूलवेदनीये सुखदुःखेभृत्यभ्रातृव्यवदनुकूलनीयप्रति
कूलनीयवती । दृश्यत्वाद्देहादयो घटादय इव विलक्षणद्रष्ट्टका इति । अधिष्ठातुरनुकूलप्रतिकूलवेदकस्य द्रष्टुः त्रैगुण्यादिविपर्ययः पूर्ववदेव निर्णेतव्यः । तथा देहादेरव्यक्तान्तस्य कृत्स्न्स्य त्रिगुणात्मकतयात्यन्तदुःखोपशमनलक्षणमोक्षदशानुपपत्तेः तदर्थं च शास्त्राणां महाधियां च प्रवृत्तेरस्ति देहादिव्यतिरिक्तोऽसंहतः त्रैगुण्याद्यसंस्पृष्टः पुरुष इति ॥}

(इति साङ्ख्याभिमतात्मानुमाननिरूपणम्)

{अत्रापि सङ्घातपारार्थ्यादिभिर्यद्यपि परः कोऽप्यधिष्ठाता द्रष्टा सिद्धः, तथापि न तस्यासंहतत्वात्रिगुणत्वादिरभिमतविशेषः शक्यनिश्चयः । तथाहिसङ्घातस्य सङ्घातान्तरार्थत्वनियमदर्शनबलादापतन्ती परापरा सङ्घातकल्पना न दोषाय, कार्यतयेवानादि कारणपरम्परापरिकल्पना । न चाप्रयोजकत्वमपि; असङ्घातस्यासङ्गस्याशेषविक्रियाशून्यस्यानाधेयातिशयकूटस्थचितिमात्रवपुषः पुरुषस्य सङ्घातं प्रति परत्वानुपपत्तेः । तद्वि तस्य शेषि भवति, तच्च तदर्थम्; यद्येनोपक्रियते क्रियते वा, यच्चोपकरोति करोति वा । न च तथा साङ्ख्यपुरुष इति कतं तस्य सङ्घातं प्रति परत्वं ? कथन्तरां च सङ्घातस्य तादर्थ्यं ? । अनुपकार्योप्युपकार्यतयाऽत्मानं मन्यत इति चेत्; कामं मन्यताम्; किमायातमुपकार्यत्वस्य? । न खलु बालास्तलमलिनतादिमत्तया गगनमभिमन्यन्त इति तस्य तथात्वं भवति ।
अपि च तथाविधभ्रमोऽपि कस्य कथमुदयत इति विवेचनीयं । न तावच्चितिशक्तेः; सर्वविक्रियाशून्यतयातिविशुद्धायामशुभशतनिदानभूतभ्रमपरिणामासम्भवात् । अन्तःकरणं तु बुद्ध्यपरपरिभाषाभिधानमचेतनतया तनुरिव न भ्राम्यति । अचिदपि स्वच्छतया चितिच्छायापन्नं चेतनायत इति चेत्; न; नीरूपायाः चितेर्बुद्धेश्च छायातद्ग्रहणानुपपत्ते । छायेव छायेति चेत्; कः खलु इवार्थ? ;चितिसरूपत्वमिति चेत्; हन्तैवमशेषविकाररहितचितिसरूपतापत्तावन्तःकरणमपि प्रत्यस्तमितसमस्तवृत्तिकमापद्यत इति दुरुपपादतरोऽयं भ्रमसुखदुःखादिविकारयोगः प्रत्यात्मसिद्धः । चेतनत्वेन सरूपत्वमिति चेत्; न; चितिरेव हि ते पुरुषः, न चेतयिता । यथाऽह तत्रभवान्पतञ्जलिः “}
यदा चितिरेव पुरुषः किमत्र केन व्यपदिश्यत {”} {इति । अजडायमानत्वमिवार्थ इति चेत्; अजडत्वमपि न ज्ञातृत्वा
तिरिक्त किञ्चिदित्युक्तमेव । तेनैव तद्विवरणमिति च न किञ्चिदेतत् । अपि च चितिसन्निधानाधीनां बुद्धिसिद्धिमभिदधानः कथमिव तदजडिमानं प्रतिजानीयात्? नच चितिस्वान्तयोर्बिम्बप्रतिबिम्बाधाराभिमतयोरन्यतरस्मिन्नप्यविद्यमानस्य विषयविशेषोपरक्तज्ञातृत्वलक्षणधर्मभेदस्य प्रतिबिम्बे सम्भवः । प्रत्युक्तश्चायं प्रतिबिम्बवादः प्रच्छन्नबाह्यमतप्रत्यादेशे ।
यदुच्यतेनिर्विकारायापि पुंसे तत्सन्निधिमहिमसमुत्थापितप्रमाणविपर्ययादिविचित्रवृत्तिभेदं स्वान्तमेव स्ववृत्तिं विषयविशेषांश्चोपदर्शयति, सामन्तचक्रमिव पराक्रमीयः प्रतिबलविलोलनादिवृत्तीः स्वामिने, ततः साक्षी भोक्ता चापदिश्यते, राजेति विक्रमी विजयी चेति; तदनुपपन्नं । द्रष्ट्रे हि दर्शनीयं दृश्यते । नच दृशिमात्रात्मवादिनां सांख्यानां तदुपजीविनां च प्रच्छन्नानां द्रष्टृत्वं वास्तवमस्ति । नच काल्पनिकेन शेषित्वसम्भवः । कल्पनापि न सम्भवतीत्युक्तमेव । राजा तु सामान्यतो विशेषतो वा तेषु कर्मस्वमात्यान्नियुञ्जानः तत्फलमैश्वर्यादि चाश्रुवानः स्वस्वामिभावहेतुक्रयप्रतिग्रहजननादि व्यापारयोगी न निष्क्रियस्यानाधेयातिशयस्य पुंसो निदर्शनमिति यत्किञ्चिदेतत् ।}

(इति कापिलाभिमतात्मानुमाननिरसनम्)

विश्वास-प्रस्तुतिः

स्थूलोऽहं, गच्छाभ्यहमित्यादिप्रत्यक्षमृदितविषयतया प्रसिद्धैवातीतकालता व्यतोरेकानुमानभेदानामित्यानुमानिकीमप्यात्मसिद्धिमश्रद्दधानाः श्रौतीमेव तां श्रोतियाः सङ्गिरन्ते ।
श्रुतयो हि साक्षादेवात्मनः शरीरादिव्यतिरेकमादर्शयन्ति
ऽस एष नेति नेतिऽऽअकायमव्रणमस्नाविरं शुद्धमपापविद्धम्ऽऽयोनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽऽन जायते म्रियते वा कदाचित्ऽऽजीवापेतं वावकिलेदं म्रियतेऽऽन हि वै सशरीरस्य सतः
प्रियाप्रिययोरपहतिरस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतःऽ इत्याद्याः । कालान्तरभाविस्वर्गादिसाधनविधयश्चाऽक्षिपन्ति देहादिव्यतिरिक्तं नित्यं चेतनमिति श्रुतितदनुपपत्तिप्रमाणकोऽयं प्रत्यगात्मेति ।

मूलम्

स्थूलोऽहं, गच्छाभ्यहमित्यादिप्रत्यक्षमृदितविषयतया प्रसिद्धैवातीतकालता व्यतोरेकानुमानभेदानामित्यानुमानिकीमप्यात्मसिद्धिमश्रद्दधानाः श्रौतीमेव तां श्रोतियाः सङ्गिरन्ते ।
श्रुतयो हि साक्षादेवात्मनः शरीरादिव्यतिरेकमादर्शयन्ति
ऽस एष नेति नेतिऽऽअकायमव्रणमस्नाविरं शुद्धमपापविद्धम्ऽऽयोनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽऽन जायते म्रियते वा कदाचित्ऽऽजीवापेतं वावकिलेदं म्रियतेऽऽन हि वै सशरीरस्य सतः
प्रियाप्रिययोरपहतिरस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतःऽ इत्याद्याः । कालान्तरभाविस्वर्गादिसाधनविधयश्चाऽक्षिपन्ति देहादिव्यतिरिक्तं नित्यं चेतनमिति श्रुतितदनुपपत्तिप्रमाणकोऽयं प्रत्यगात्मेति ।

(इति विलक्षणात्मनः शास्त्रैकप्रमाणकत्वपक्षनिरूपणम्)

विश्वास-प्रस्तुतिः

ननु हिताहितप्राप्तिपरिहारमात्रपरस्याऽम्नायस्य शिरसि किमिति महानयं भारः प्रक्षिप्यते? अनुमानागमाद्यशेषप्रमाणमूलभूतेन प्रत्यक्षेणैव ह्येनं प्रतिपद्यामहे । ममेदं शरीरम्, इदमहं जानामीति घटादिदृश्येभ्य इवायं द्रष्टा देहादपि पृथग्भूतः प्रत्यक्षं परिस्फुरति ।

मूलम्

ननु हिताहितप्राप्तिपरिहारमात्रपरस्याऽम्नायस्य शिरसि किमिति महानयं भारः प्रक्षिप्यते? अनुमानागमाद्यशेषप्रमाणमूलभूतेन प्रत्यक्षेणैव ह्येनं प्रतिपद्यामहे । ममेदं शरीरम्, इदमहं जानामीति घटादिदृश्येभ्य इवायं द्रष्टा देहादपि पृथग्भूतः प्रत्यक्षं परिस्फुरति ।

(इत्यात्मनः प्रत्यक्षत्वपक्षोपक्षेपः)

विश्वास-प्रस्तुतिः

मैवं वोचः । इन्द्रियार्थसन्निकर्षजं हि विज्ञानं प्रत्यक्षं । न चेन्द्रियाणि रूपादिव्यतिरेकिणि निरतिशयसूक्ष्मे प्रतीचि परागर्थ इव सन्निकर्षेण ज्ञानं जनयितुमर्हन्ति । यथा आम्नायतेऽपराञ्चिरवानि व्यतृणत्स्वयंभूःऽ इति ।

मूलम्

मैवं वोचः । इन्द्रियार्थसन्निकर्षजं हि विज्ञानं प्रत्यक्षं । न चेन्द्रियाणि रूपादिव्यतिरेकिणि निरतिशयसूक्ष्मे प्रतीचि परागर्थ इव सन्निकर्षेण ज्ञानं जनयितुमर्हन्ति । यथा आम्नायतेऽपराञ्चिरवानि व्यतृणत्स्वयंभूःऽ इति ।

अप्रयोजकत्वमेवोपपादयति कि} मित्यादिना सार्धश्लोकेन । किं नीलादिर्विषयोऽस्वयंप्रकाशत्वात्स्वव्यवहाराय प्रकाशंस्वप्रकाशकं ज्ञानमाकाङ्क्षते, उताहो तदभेदतःसंविदभिन्नत्वात्प्रकाशमनुरुध्यते इति संदेहान्नीलतद्वियोरभेदोऽशक्यनिर्णय इत्यर्थः । संविदनुरोधित्वं नीलादेः संविदा सहैवोपलभ्यमानत्वलक्षणं । इदं च किं संविदभेदप्रयुक्तमुत स्वप्रकाशे नीलादेर्जडस्य स्वप्रकाशसंविदपेक्षाप्रयुक्तमिति विशये यावदभेदप्रयुक्तत्वनिर्णयो न भवति, न तावदस्याभेदसाधकत्वं । अभेदप्रयुक्तत्वनिर्णायकं च नास्ति । तथा चाप्रयोजकत्वमिति भावः । स्याद्वासहोपलम्भनियमो बोध्ययोरेवाभेदसाधकः, न तु बुद्धिबोध्ययोर्बुद्धिबोद्ध्रोर्वेत्याह *{बोध्यस्थ*इति । बुद्धीनां बोद्धॄणां वा सहोपलभ्यमानानां नाभेदः । बुद्धस्य बद्धत्वापातात् । नापि बुद्धिबोध्ययोर्बुद्धिद्ध्रोर्वा, बुद्धेर्जडत्वादिप्रसङ्गात्सत्यमिथ्यार्थयोरैक्यप्रसङ्गाच्च । किन्तु बोध्ययोरेव तथाभूतयोरभेद इष्यतां गुणगुणिप्रभृत्योः कथञ्चिदित्यर्थः । बुद्धिबोद्धृग इति तु प्रकृताभिप्रायेण । यद्वा बोध्ययोरेव सहोपलम्भनियमः संभवति । न पुनर्बुद्धिबोद्धध्रोः । बुद्धिमन्तरापि बोद्धुः प्रकाशात्स्वापादावित्यर्थः ॥१५ ॥१६ ॥

ज्ञानज्ञात्रोरभेदसाधने प्रत्यक्षबाधितत्वमप्याह स्पष्टश्चे ति । घटमहं जानामीति हि स्फुटो ज्ञेयज्ञातृज्ञानानां भेदप्रतिभासः । तद्वाध इत्यर्थः । शङ्कते न चे ति । प्रत्यक्षज्ञानविषयत्वं, ज्ञानविषयत्वं वा प्रतियोगिनः तद्भेदप्रत्यक्षे कारणत्वेनापेक्षितं । प्रकृते संविदो ज्ञानान्तरागोचरत्वेन स्वयंप्रकाशत्वात्तद्भेदप्रत्यक्षं ज्ञातरि न संभवतीति शङ्कितुराशयः । परिहति सिद्धिमात्रेणे ति । प्रतियोगिनः संविदः सिद्धिमात्रेणप्रकाशमात्रेण, तदुपपत्तौसंविद्भेदप्रत्यक्षोपपत्तौ, अप्रयोजकत्वेनप्रत्यक्षदिज्ञानान्तराधीनतत्प्रकाशस्य भेदप्रत्यक्षेऽहेतुत्वेन, तद्विशेष

स्यप्रकाशविशेषस्य प्रत्यक्षादिज्ञानान्तराधीनस्य अनाक्षेपाताक्षेपायोगादित्यर्थः । अयं भावः अन्योन्याभावप्रत्यक्षेऽधिकरणस्य प्रत्यक्षमेवापेक्षितम्, प्रतियोगिनः प्रकाशमात्रं च । नतु प्रतियोगिनः प्रत्यक्षं । स्तम्भे पिशाचभेदस्याप्रत्यक्षत्वापत्तेः । प्रतियोगिनः प्रकृते वेदनस्य प्रकाशस्तु स्वत एवास्ति । तत एव वेदितरि तद्भेदप्रत्यक्षे नानुपपत्तिरिति । वस्तुतस्तत्तदसाधारणाकार एव इतरतादात्म्यधीविरोधित्वेन तस्य तस्येतरस्माद्भेदरूपः । स च प्रतियोग्यनवभासेऽपि भासत एवोत्याह अनवभासमान इति । तथा च ज्ञातुरहन्त्वेन भानमेव संविद्भेदग्रहणमिति भावः । तद्भिन्नत्वव्यवहारे पुनः प्रतियोगिपरामर्शसहकृतमसाधारणाकारज्ञानं हेतुरिति बोध्यं । सर्वलोके ति । एतेन भेदस्य प्रत्यक्षं न संभवति । क्षणिकस्य प्रत्यक्षस्य प्रतियोगिग्रहणपूर्वकभेदग्रहणपर्यन्तमनवस्थानात् । युगपत्प्रतियोग्यभावाधिकरणग्रहे तु समूहालम्बनवदुपश्लेषविशेषासिद्धिप्रसङ्गात् । अतो भ्रमरूप एव भेदग्रह इत्यपास्तं । तत्तदसाधारण धर्मस्यैवेतरभेदरूपत्वात्तस्य च धर्मिणि प्रथमक्षण एव गृहीतेः । अत एवापूर्ववस्तुदर्शने विलक्षणोऽयं कश्चन पदार्थ इति भेदप्रतीतिर्लोकसम्मता स्वानुभवसिद्धा च नापह्नवार्हा इति सर्वलोकस्वसाक्षिक मित्युक्तं ।

शङ्कते ननु जीवत इति । शिरसि पदनिधानेनतिरस्करणेन । प्रतिबन्धग्रहणंव्याप्तिग्रहणं । ततःभेदप्रत्यक्षतः । तद्वाधसम्भवःअभेदानुमानबाधसंभवः । तथासतिप्रत्यक्षस्यानुमानबाधकत्वे । अपोद्येतबाध्येत । अयं भावः भिन्नत्वेन गृह्यमाणयोरेव हि सहोपलम्भनियमोऽभेदव्याप्यत्वेन गृहीतः । तेन चाभेदानुमाने प्रत्यक्षे भेदग्रहणांशोभ्रमलक्षण इति निश्चीयते । न चोपजीव्यविरोधः । प्रत्यक्षसिद्धवस्तुस्वरूपस्य व्याप्तिग्रहोपयोगिनोऽभ्युपगमात् । भेदस्य च व्याप्तिग्रहानुपयुक्तत्वादिति । परिहरति अविशेषज्ञ इति । दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यं न जानासीत्यर्थः । तदेवोपपादयति

तत्रे ति । न प्रत्यक्षत्वमनुमानत्वं वा बाध्यत्वे बाधकत्वे वा प्रयोजकं । किन्तु दोषमूलत्वमदोषमूलत्वं चैव तथा । तथा च यथा ज्वालाभेदानुमानमदोशमूलं बाधकम्, ज्वालैक्यप्रत्यक्षं तु सादृश्यदोषमूलं बाध्यं भवति; नैवं प्रकृते ज्ञातृज्ञेयज्ञानभेदग्रहस्य दोषमूलत्वमिति समुदिताशयः । ज्वालैक्यप्रत्यक्षे क्ल्प्तकारणदोषानुवृत्तिमुपपादयति तथाही त्यादिना । अचिरप्रशमितत्वपुनरुद्दीपितत्वोक्त्या ज्वालयोर्वास्तवभेदो ज्ञाप्यते । तददर्शनमेकवर्तिवृत्तित्वज्ञानं चैक्यभ्रमे तयोर्हेतुरित्युक्तं भवति । निर्वापणपुनरुद्दीपनद्रष्टुश्च ज्वालयोर्भेदप्र्त्यक्षं वर्तत इति तेन बाधितत्वमपि निर्वापणाद्यद्रष्टृनिष्ठ ज्वालयोक्यप्रत्यक्षे विव

क्षितं । निरुक्तं भ्रमहेतुमनिर्वापितस्थलेप्युपपादयति **अत **इति । तैलवर्त्यवयवाग्निसंयोगस्य दीपहेतोरन्यान्यतया ज्वालाभेदोऽङ्गीकार्योऽनिर्वापणस्थलेऽपि । कारणधारानुवृत्तिबलाच्च कार्यधारानुवृत्तिः । पूर्वपूर्वज्वालायास्तु कारणनिवृत्त्या निवृत्तिरेव । तद्धेतुर्हि तैलवर्त्यवयविशेषाग्निसंयोगः । अग्नेराश्रयाशित्वाद्वर्त्यवयवविशेषनाशे तदग्निसंयोगस्य नाशो ह्यावश्यकः । एवं पूर्वोत्तरदीपज्वालयोर्भेदे सिद्धे सजातीयदीपधारायां भेदाग्रहात्सादृश्यरूपदोषदर्शनाच्चैक्यभ्रम इति भावः । नानाभूते ऐक्यभ्रमं प्रत्यक्षरूपमुदाहृत्यैकस्मिन्नानात्वभ्रममपि प्रत्यक्षरूपमुदाहरति तथैके ति । स्वाभाविकचाक्षुषरश्मिप्रसरणस्य विपर्ययो द्वैतीभावोऽङ्गुल्यवष्टम्भादिप्रयुक्तश्चन्द्रद्वित्वभ्रमे दोषः । अस्य च निर्देषपुरुषीयचन्द्रैक्यप्रत्यक्षबाधितत्वं समसमये त्यादिनोच्यते । दृष्टान्तितात्दार्ष्टान्तिके वैषम्यमुपपादयति न चैवम् इति । ज्ञातृज्ञानज्ञेयभेदनिरूपितलौकिकविषयिताशाली घटमहं जानामीति साक्षात्कारः दोषमूलः, अभेदप्रत्यक्षबाधितो वा नैव दृश्यते । तदभेदानुमानबाधकत्वं सुस्थितमिति भावः । विपरीतं कस्मान्न भवतीत्यत्राह न चोपलब्धी ति । तथात्वंज्ञानाभिन्नत्वं ज्ञातृज्ञेययोः । पूर्वोक्तमप्रयोजकत्वं स्मारयति विपक्ष इति । विपक्षे बाधकतर्कविरहाद्व्याप्त्यसिद्ध्यासिद्धमभेदानुमानं न ज्ञानज्ञातृज्ञेयभेदप्रत्यक्षे बाधकत्वेन शक्यशङ्कमिति भावः । ज्ञानादिभेदग्रह इन्द्रियवृत्तिप्रसृतिभेदरूपदोषमूलो भवेदित्यत्राह अनैन्द्रियिकत्वेने

ति । बाह्येन्द्रियाग्राह्यत्वेन ज्ञानज्ञात्रोस्तद्भेदग्रहस्य नेन्द्रियवृत्तिभेदप्रयुक्तत्वं संभवतीत्यर्थः । अत्र बाधकप्रत्ययोऽपि नास्ति चन्द्रद्वित्वभ्रम इवेत्याह योग्यानुपलम्भे ति । न चैवमिहे ति वाक्याभिप्रेतमनेन वाक्यद्वयेन विवृतं । संविदधीने तिवाक्योक्तं प्रपञ्चयति अपि चे ति । तथानियमःसंविदा सहोपलम्भनियमः । अवर्जनीयःअभेदस्यानुपगमेऽपि दुर्वारः । ननु संविदमन्तरापि विषयादिः सिध्यत्वित्यत्राह न च भेदोऽपी ति । भेदःग्राह्यग्राहकभेदः । सिद्धिंज्ञानं । अपसिद्धान्तश्चैवं कथन इति भावः । यद्वा सहोपलम्भनियमस्याभेदसाधकत्वे स्वव्याघातमप्याह न च भेदोपी ति । भेदप्रतिभासोऽपि संविदैव वाच्य इति निरुक्तहेतोर्भेदस्यापि संविदभेदे भेदघटितो हेतुरपि न सिध्येदिति यावत् । यद्वा भवदभिमतः संविदां भेदोपि न सिध्येदिति भावः ॥

एवं प्रकटसौगताभिमतं संविदभेदसाधकं सहोपलम्भनियमं प्रदूष्य प्रच्छन्नसौगताभिमतं प्रकाशस्वभावत्वमपि दूषयति अप्रकाशे ति । अप्रकाशात्मनःअप्रकाशस्वभावस्य ज्ञानभिन्नस्य च । अनेन ज्ञेयस्य ज्ञानाभेदानुमाने प्रत्यक्षबाधो, हेतोः पक्षेऽसिद्धिश्च प्रादर्शिषातां ।

यद्यपि जडत्वान्न प्रकाशस्वभावत्वं ज्ञेयस्य, अथापि स्वयंप्रकाशज्ञानसंबन्धात्कादाचित्कप्रकाशो घटते घटादेरिति भावः । ज्ञाता ज्ञानाभिन्नः प्रकाशस्वभावत्वादित्यत्र तु हेतुरुपगम्यते, न साध्यमित्याह न च तावते ति । ज्ञानत्वं विषयप्रकाशकधीत्वं । ज्ञाधात्वर्थस्य हि कर्तृधर्मत्वं ज्ञानस्य । आत्मनस्तु धर्मित्वान्न तथात्वमिति भावः । ज्ञानस्वभावं तावदाह परतन्त्रम् इति । प्रकारतैकस्वभावत्वं, कादाचित्कत्वं, विषयावगाहित्वं चेति ज्ञानधर्माः । अवतिष्ठमानमनुवर्तमानं धारारूपतया । धारावाहिकविज्ञानमेकं ज्ञानं मतं हि नः इति पक्षे तु स्वरूपत एवानुवर्तमानं यावद्विषयान्तरसंचारमिति विवेकः । आत्मस्वभावमाह आत्मे ति । धर्मित्वं ज्ञातृत्वमहन्त्वेन भानं चात्मनो धर्माः । नन्वेवं ज्ञानभिन्नत्वे आत्मनो ज्ञानमिति व्यपदेशः कथं घटत इत्यत्राह यदी ति । अनन्यत्स्वं । आत्मनि ज्ञानशब्दो ज्ञानसादृश्यात् । तच्च स्वाधीनप्रकाशत्वरूपं स्वयंप्रकाशत्वं स्वनिरूपितविषयतावत्त्वतादात्म्योभयसंबन्धेन किञ्चिद्विशिष्टत्वलक्षणमिति भावः । तथापी ति । ज्ञानशब्देनाभिलप्यमानमात्मस्वरूपं ज्ञानतुल्यमेव, न तु ज्ञाप्तिमात्रतया मुख्यं ज्ञानमित्यर्थः । यद्वा ज्ञानायतनमेव मन्तव्यं नतु ज्ञप्तिमात्रतयेति । मन्तव्यमिति शेषः । ततश्च ज्ञातुरात्मनो ज्ञानाभेदानुमानं पराभिमतं प्रबलप्रत्यक्षबाधितमिति भावः ।

प्रत्यक्षतर्कसिद्धमात्मनो ज्ञातृत्वमागमतोऽपि प्रतिष्ठापयति अत एवे ति । अथे त्यादिवाक्यं ज्ञात्रहमर्थात्मत्वपरं । योऽयम् इति ऐन्द्रियिकज्ञानप्रचुरस्येन्द्रियाधिष्ठातुरात्मनो हृदयान्तःस्थत्वस्वप्रकाशत्वपरं ।

इन्द्रियादिप्रवृत्त्यनुगुणसङ्कल्पप्रयत्नवत्त्वरूपाधिष्ठानलभ्यं कर्तृत्वं, ज्ञातृत्वं च स्वयंप्रकाशत्वाज्ज्ञानशब्दितस्यात्मनः प्रतिपादयद्वाक्यं एष ही त्यादि । मुमुक्षुभिर्ज्ञेयमात्मस्वरूपं ज्ञातृत्वविशिष्टमिति प्रतिपादयद्वाक्यं विज्ञातारम् इति । विज्ञातृजीवात्मशरीरकं परमात्मानमित्यर्थः । मुक्तौ ज्ञानवत्त्वपरं न पश्यःइति । पश्यःसर्वदर्शी मुक्तात्मा । मुक्तिदशायां ज्ञानाभावश्रुतिर्हेयदर्शनाभावपरेति न पश्य इत्यादि व्यवस्थापयति । दुःखतांकुत्रापि वस्तुनि प्रतिकूलत्वं । भगवद्विभूतितया हि सर्वस्य स्वानुकूलत्वेन दर्शनं तदा । सर्वं ह पश्यः पश्यति इत्युत्तरर्धमप्यत्रोदाहार्यं । एतद्विवरणरूपं स उत्तम इत्यादि । स तत्र पर्येती त्यादि नोपजनं स्मरन्इत्यन्तमत्रोदाहार्यत् । कलाषोडशकस्य निवृत्तावपिमुक्तौ स्वरूपनिरूपकधर्मभूतज्ञानानिवृत्तिपरं एवमेवे ति । ज्ञानवत्त्वेनात्मनो देहेन्द्रियमनप्राणविज्ञानवैलक्षण्यपरं च तस्माद्वे तीति विवेकः ।

एवं ज्ञातृत्वमात्मनो व्यवस्थाप्य परमात्मनोऽपि तद्व्यवस्थापयति सत्यम् इति । तद्वद्वचनःज्ञानवद्वाची । तद्वचनत्वेज्ञानवाचित्वे । ज्ञानवाची भावल्युडन्तो ज्ञानशब्दो लित्स्वरेणाद्युदात्तो भवेत् । अयं तु अन्तोदात्तः । तदच्प्रत्ययान्तोऽयं ज्ञातृवाची स्वीकार्य इति भावः । ऐतरेये ति । प्रकरणबलात्प्रज्ञानशब्दः प्रज्ञानवत्पर इति भावः । प्राज्ञेनप्रज्ञ एव प्राज्ञः । स्वार्थेऽण् । तेन । सर्वज्ञेन परमात्मनेत्यर्थः । देहेन्द्रियमनः प्राणधीभ्योऽन्यइति प्रतिज्ञातात्मस्वरूपनिरूपणमुपसंहरति तत्सिद्धम् इति ॥

अथ अनन्यसाधन इति प्रतिज्ञातं स्वयंप्रकाशत्वमात्मनः समर्थयितुं प्रमाणपरीक्षामुपक्रमते किं पुन रित्यादिना । अनुमानम् इति । यद्यप्यहं जानामीति प्रत्यक्षमेव तत्र प्रमाणं सम्भवति । तस्य देहादिविषयत्वायोगात् । अथापि विलक्षणात्मविषयत्वं प्रत्यक्षस्येदं प्रमाणमत्रैवं प्रवर्तितुमर्हतीत्येवं सामग्रीनिरूपणाद्यात्मकेन तर्केणैव व्यवस्थाप्यमित्याशयः । यदाहे ति । इच्छादि विलक्षणात्मनोऽनुमापकं यदाह, अतोऽनुमानमेव प्रमाणं तत्रेत्यक्षपादाशयो विज्ञायत इत्याशयः ।

चोदयति किममीषाम् इति । धूमध्वजःअग्निः । अयं भावः व्याप्तिग्रहस्य सहचारदर्शनमूलकत्वेन विलक्षणात्मना सहचारदर्शने इच्छादीनां प्रत्यक्षेणैव तस्य सिद्धेः कृतमनुमानेन । सहचारादर्शने च कथं तेन व्याप्तिर्गृह्येत । अगृहीतव्याप्तिकेन चेच्छादिना कथन्तरां तदनुमानमिति । परिहरति माभू दित्यादिना । सिषाधयिषित साध्यविशेषेणेच्छादिविशेषस्य सहचारग्रहो मास्तु । आश्रयित्वगुणत्वाभ्यां सहचारदर्शनादेवात्मानुमानं प्रवर्तते । एतच्च सामान्यतो दृष्टमिति भावः । एतदेवोपपादयति तथाही ति । कार्यत्वमुत्पत्तिमत्त्वं । अनित्यत्वंविनाशित्वं । गुणत्वंगुणत्वजातिमत्त्वम्, विशेषणतैकस्वभावत्वं वा । एतानि व्याप्यान्याश्रितत्वस्य । इच्छादय आश्रितागुणत्वाद्रूपवदित्यनुमानमत्र विवक्षितं । अत्र हेतुं साधयति गुणत्वं चे ति । पदार्थत्वेन द्रव्याद्यन्यतमत्वे प्राप्ते द्रव्यादिभेदकानुमानतो द्रव्यत्वादिव्युदासे द्रव्यादिभेदविशिष्टं पदार्थत्वमेव परिशिष्यमाणं गुणत्वं व्यवस्थापयतीत्यर्थः । इतरभेदानुमानान्याह न सामान्ये ति । अभावभेदसाधनेऽनित्यत्वमुत्पत्तिविनाशवत्त्वरूपं वाच्यं । नातः प्रागभावे प्रध्वंसे वा व्यभिचारः । व्यापके ति । विभुसमवेतत्वादित्यर्थः । नैयायिकमतेनायं हेतुः सिद्धः । न कर्म, संयोगविभागयोरनपेक्षकारणत्वाभावात्, न द्रव्यं असंयोगित्वादिति वा हेतुर्वाच्यः । गुणत्वं प्रसाध्य विशेषगुणत्वं प्रसाधयति विशेषे ति । रूपत्वादौ व्यभि

चारस्य वारणायानित्यत्वे सतीति । संयोगादौ तद्वारणाय विशेष्यदलं । एवमपि प्रभायां व्यभिचारः स्यात्, चक्षुर्मात्रग्राह्यत्वात्तस्याः । अतो गुणत्वे सतीति वाच्यं । एवमपि प्रभाभित्तिसंयोगे तत्प्रसङ्गः । अत एकोन्द्रियमात्रग्राह्यजातिमत्त्वं विशेष्यं वक्तव्यं । एवं चानित्यत्वविशेषणस्य वैयर्थ्यं । गुणत्वदलस्यापि । प्रभात्वजातौ मानाभावात्, तेजस्त्वादेश्च द्वीन्द्रियग्राह्यत्वात् । परन्तु प्रभात्वजातेः प्रामाणिकत्वे वायोः स्पार्शनोपगमे वा गुणत्वदलमावश्यकमेवेति बोध्यं । योगिनां मनसापि रूपादेर्ग्रहादस्मदादीति विशेषणं अयोग्यभिप्रायं । सामान्यतो दृष्टानुमानस्याश्रयविशेषपर्यवसानसिद्धये परिशेषानुमानान्याह एवम् इति । प्रत्याचक्षाणैःप्रतिक्षिपद्भिः । सामान्यतोदृष्टमन्वय्यनुमानमेवेतरभेदानुमानसहकृतं विशेषानुमापकमित्येकः पक्षः । सामान्यतोदृष्टेतरभेदानुमानतोऽग्रे प्रसिध्यन्विशिष्टहेतुः केवलव्यतिरेकिरूपस्तथेति चापरः । अनेन च वाक्येनाद्यः पक्षः स्फोर्यते । ये भूतगुणा इति । अत्र योग्या इत्यप्यनुसन्धेयं । व्यतिरेक्युपनयनिगमने न तथे ति । दिक्काले ति । इच्छादयो न दिक्कालमनोगुणाः, विशेषगुणत्वात्, प्रत्यक्षत्वाद्वा; ये पुनर्दिगादिगुणाः सङ्ख्यादयः, न ते प्रत्यक्षा, विशेषगुणा वा । अकारणे ति । अनुक्रष्टव्याःअनुकर्षणीयाः । नानानुमानफलितं सामान्यप्रयोगमाह तेने ति । पक्षान्तरमपि प्रतिपादयति विमतिपदे ति ।

विमतिपदम्विप्रतिपत्तेः स्थानम्निमित्तंनानावादः, तदास्पदेभ्यः तद्विषयेभ्य इत्यर्थः । अत्रायं प्रयोगःइच्छादयः तदाश्रयत्वेन विप्रतिपन्नशरीरादिव्यतिरिक्तगुणाः तद्गुणत्वबाधकप्रमाणविषयगुणत्वादिति । उदाहरणं चे ति । व्यतिरेकीत्यादिः । प्रसिद्धद्रव्यभिन्नस्याद्रव्यस्य प्रसिद्धावपि तद्गुणत्वस्याप्रसिद्ध्या नान्वय्युदाहरणं सम्भवति । न चैवं साध्यव्यतिरेकस्याप्यनुमानात्पूर्वमप्रसिद्ध्या व्यतिरेक्युदाहरणं वा कथं घटत इति वाच्यं । प्रसिद्धद्रव्यव्यतिरिक्तसमवेतत्वस्यैव साध्यत्वात्तद्व्यतिरेकस्य रूपादौ प्रसिद्धिसम्भवाच्चेति हृदयं । अन्वयव्याप्तिर्वा सामान्यमुखी सम्भवतीत्याह सामान्यतो वे ति । विलक्षणशब्दाश्रयसिद्ध्युपजीवनेनेदं । तदनुमाने च गन्धाद्यन्तर्भावेण व्याप्तिग्रहणमिति भावः । एवं च केवलव्यतिरेक्यनुपगमेऽपि न क्षतिरिति ध्येयं ।

नैयायिकाभिमतां विलक्षणात्मसिद्धिमानुमानिकीं प्रतिक्षिपन्ति श्रोत्रियाः इदमपी ति । अन्वयिनाश्रयमात्रस्य सिद्धावपि केवलव्यतिरेकिणाऽश्रयविशेषः सेत्स्यतीत्यत्राह केवले ति । साधनदशामनुमापकत्वावस्थाम्, नासादयति न प्राप्तोति, सपक्षान्वयविरहात्साध्येन सहचारदर्शनस्थलसम्बन्धाभावादित्यर्थः । असाधारणव दिति । पक्षमात्रवृत्तिहेतोरसाधारणस्य

साध्यसहचारग्रहविरहादगृहीतव्याप्तिकस्य यथा न गमकत्वम्, एवं केवलव्यतिरेकिणोऽपि व्याप्तिग्रहायोगात्न गमकत्वमिति भावः । ननु सति सपक्षे हेतोरवृत्तेरसाधारणस्य सदोषत्वं । केवलव्यतिरेकिणि तु सपक्षस्यैव विरहान्न दोष इति चेत्; मैवम्; केवलव्यतिरेकिणि साध्यस्य प्रसिद्धिरस्ति न वानुमानात्पूर्वं । अस्ति चेद्यत्र प्रसिद्धिः तत्र हेतोः सत्त्वेऽन्वयित्वम्, असत्त्वे तु असाधारणत्वमेव । नास्ति चेत्साध्यव्यतिरेकस्याप्यप्रसिद्धेः केवलव्यतिरेकित्वमपि दुर्घटमिति दिक् । विस्तरस्तु न्यायपरिशुद्ध्यादावनुसन्धेयः । शङ्कते न चैवं इति । विपक्षव्यतिरेकःविपक्षासत्त्वं । साधारणवत्पक्षत्रयवृत्तिहेतुवत् । साधारणे यथा विपक्षेसत्त्वाद्धेतोरसाधकत्वम्, केवलान्वयिन्यपि विपक्षस्यैवाप्रसिद्धेः तत्सत्त्वाभावस्याप्यप्रसिद्धेस्तथागमकत्वं स्यादित्यर्थः । अन्वयव्यतिरेकिणि उभयविधसहचारदर्शनाद्व्याप्तिग्रहस्य दृष्टेः साध्यहेत्वो सहचारादर्शनात्केवलव्यतिरेकिणोऽसाधकत्वं चेदभिमतम्, तर्हि साध्याभावसाधनाभावयोः सहचारादर्शनात्केवलान्वयिनोऽप्यसाधकत्वं स्यादिति चाकूतं । परिहरति देशकालादी ति । कस्मिंश्चिद्देशे काले वा हेतुः साध्यमन्तरापि प्रयोजकान्तरात्स्यादिति देशकालविशेषान्तर्भावेण शङ्कितोपाधेरनुकूलतर्केण निवर्तने सति साध्यहेत्वोः सहचारदर्शनमात्रतोऽपि अन्वयव्याप्तिर्निश्चीयत इत्यर्थः । अपिर्भिन्नक्रमः । अन्वयदर्शनेनेत्यनन्तरंयोज्यः । साध्यान्वितस्वभावतयासाध्यव्याप्यतया । व्यतिरेकव्याप्तिग्रह एव व्यतिरेकसहचारग्रहस्यापेक्षया केवलान्वयिनि अन्वयव्याप्तिग्रहस्य व्यतिरेकाप्रसिद्धावपि नानुपपत्तिरिति च भावः । विपक्षसत्त्क्स्यैवाप्रसिद्ध्यैव रूपपञ्चकसम्पत्तिः केवलान्वयिन इति चाशयः सिद्धान्तिनां । नन्वेवं

साध्यसाधनव्यतिरेकयोः सहचारदर्शनत एव व्यतिरेकव्याप्तिग्रह उपपद्यत इति शङ्कते न च साधनाभाव इति । साध्यान्वितस्वभावत्वम्साधनस्य साध्यनिरूपितव्यतिरेकव्याप्तिमत्त्वं साध्याभावव्यापकाभावप्रतियोगित्वलक्षणं । व्याप्तिनिश्चयायोगे हेतुमाह अभावस्ये ति । व्यतिरेकिणोः साध्यसाधनयोरधिकरणपेक्षया तदभावाधिकरणानामानन्त्यात्कलयांऽशेन क्कचिदपि साध्याभाववति हेतोर्वृत्तौ व्यतिरेकसाहचर्यनियमलक्षणव्यतिरेकव्याप्तेरसम्भवादित्यर्थः । व्यतिरेकिसाध्यसाधनवतः परिमितत्वेन क्वचित्कार्त्स्न्येन ग्रहणमपि सम्भवेदिति च हार्दं । ननु यावत्सु प्रत्यक्षेष्वधिकरणेषु व्यतिरेकयोः सहचारदर्शनत एव व्याप्तिर्निश्चीयेतेत्यत्राह सन्देहे ति । व्यतिरेकव्याप्तिर्हि साध्याभावे हेत्वभावव्याप्तिगर्भिता । साध्याभावोऽस्तु, हेत्वभावो मास्त्विति शङ्कायां च न साधनाभावव्याप्यत्वं साध्याभावे गृह्येतानुकूलतर्कविरहे । साध्यस्या

साधननीमित्तत्वसाधननियतस्वभावत्वाद्यन्यथानुपपत्तिलक्षणतर्कबलाच्छङ्कानिवारणं च साध्यसाधनयोः सहचारदर्शनमूलहेतुहेतुमद्भावाद्यवधारणमन्तरा न घटत इति केवलव्यतिरेक्यसिद्धिरिति च हार्दं । विशिष्टहेतुना पृथिव्यादिव्यतिरिक्तगुणत्वानुमाने च साध्याप्रसिद्धिमाह पृथिव्यादिभ्य इति । अर्थान्तरस्य गुणादेः प्रसिद्धावपि तद्वृत्तिगुणत्वलक्षणं साध्यमप्रसिद्धमेव । न च पृथिव्याद्यर्थान्तरसमेवतत्वमेव साध्यते । तच्च रूपत्वादौ प्रसिद्धमेवेति वाच्यं । निरुक्तसमवेतत्वस्य गुणक्रियाभिन्न एव प्रसिद्धेर्गुणे ज्ञानादौ तत्साधनायोगः । अर्थान्तरद्रव्यसमवेतत्वं चानुमानात्प्रागप्रसिद्धमेवेति हार्दं ।

नैयायिकोक्तात्मानुमानदूषणानि साङ्ख्योक्तात्मानुमानेष्वप्यतिदिशति एतेने ति । तथा चे ति । विलक्षणात्मसाधकत्वेन साङ्ख्याभिमतानेव हेतून्प्रथमं विवृणुमहे शिष्यवैशद्याय क्षेपसौकर्याय चेति भावः ।

सङ्घातपरार्थत्वा दित्यादिः साङ्ख्यकारिका । एनां व्याख्याति अयमर्थ इत्यादिना । शरणं गृहं । सङ्घातत्वमवयवसमुदायात्मकत्वं । भूतानांपञ्चानां महाभूतानां । अव्यक्ते ति । सुखदुःखमोहात्मत्वं सुखादिस्वरूपत्वम्, सुखादिजनकत्वरूपं वा । तेन तथात्वंसत्त्वरजस्तमोरूपगुणत्रयसङ्घातात्मकत्वं अनुमेयं कार्यरूपेण शरीरादिवदेवेत्यर्थः । सङ्घातत्वहेतोर्विरुद्धत्वं शङ्कते न चेन्द्रियाणाम् इति । उभयविशेषविरुद्धत्वम्पक्षसाध्ययोरभिमतविशेषविरुद्धाकारापादकत्वं । अनाहङ्कारिकत्वेन सङ्घातत्वस्य भूतभौतिकेषु, संहतपरार्थत्वेन च गेहशय्यादिषु भूयःसहचारदृष्टेर्व्याप्तेर्गृहीततया पक्षान्तर्गतेन्द्रियाणामभिमताहङ्कारिकत्वविरुद्धस्यानाहङ्कारिकत्वस्य, साध्यघटकस्य च परस्याभिमतासंहतत्वविरुद्धस्य संहतत्वस्याऽपादकत्वाद्विरुद्धत्वं सङ्घातत्वहेतोरिति भावः । हेतोरुभयविशेषविरुद्धत्वं च नेत्यन्वयः । अविरुद्धत्वमुपपादयति अहङ्कारे त्यादिना । अहङ्कारवृत्तौ सत्यामेवेन्द्रियाणां मनःपर्यन्तानां वृत्तेर्दर्शनात्तदभावे च स्वापेऽदर्शनादाहङ्कारिकत्वं तेषामवसीयते । तत्रापि सत्त्वङ्कार्यलाघवप्रकाशयोगात्सात्विकाहङ्कारकार्यत्वमिति भावः । आगमश्च देवा वैकारिका दश, एकादशं मनश्चे ति स्मृतिरूपः । देवाःइन्द्रियाणि प्रकाशयोगाद्देवाधिष्ठितत्वाद्वा । वैकारिकस्य सात्त्विकाहङ्कारस्येमे कार्यभूता इति वैकारिकाः । अपवादानुपपत्तेःबाधनानुपपत्तेः । सङ्घातत्वस्यानुहङ्कारिकत्वेन न व्याप्तिः । त्रैगुण्यात्मकस्येन्द्रियजातस्याऽहङ्कारिकत्वेन प्रमाणप्रतिपन्नत्वेनानैकान्त्यादिति भावः । पक्षविशेषविरुद्धत्वं

परिहृत्यसाध्यविशेषविरुद्धत्वं परिहरति

आत्मनस्त्वि ति । अप्रयोजकत्वाच्चे ति । असंहतस्याप्यात्मनश्चेतनत्वादेव भोक्तृत्वस्योपपत्तेः भोक्तत्वलक्षणे परत्वे प्राधान्ये सङ्घातत्वस्याप्रयोजकत्वमिति भावः । यदि सङ्घातत्वस्य परत्वे प्रयोजकत्वं स्यात्तर्हि संहतपरार्थत्वेन व्याप्तिः सम्भवेन्नाम सङ्घातत्वस्य । व्याप्तिबलादनेकसङ्घातकल्पनापि सोढव्या भवेत् । न चैवं । तथा च संहतपरार्थत्वे सङ्घातत्वस्य व्याप्यत्वासिद्धत्वमिति हार्दं । सङ्घातपरत्वेनानुमितस्यात्मनः सङ्घातत्वं योग्यानुपलब्धिबाधितञ्चेति बोध्यं । सङ्घातत्वस्य परार्थत्वेन व्याप्तिस्तु प्रमाणान्तरविरोधाभावात्प्रसेत्स्यतीत्याह न च प्रमाणान्तरे ति । सङ्घातपरार्थत्वानुमानेनात्मासिद्धिं निगमयति एवं चे ति । सङ्घातत्वव्यापकपरार्थत्ववत्सत्त्वादिगुणत्रयतत्कार्यरहित इति संहतत्वे त्यादेरर्थः । परस्य संहतत्वेऽनवस्थाप्रसक्तेः त्रैगुण्यविपर्ययः अत्रैगुण्यात्मकत्वरूपो मन्तव्य इत्युक्तं असंहत इति । त्रिगुणादिविपर्ययादित्यन्तः कारिकांशो विवृतः ।

अथाधिष्ठानादित्यंशं विवृणोति तथा देहादय इति । सुखदुःखमोहात्मकतयासुखाद्यात्मकसत्त्वादिसङ्घातरूपतया । परेणस्वभिन्नेन चेतनेन । अधिष्ठीयन्तेकार्यानुगुणतया प्रेर्यन्ते । यन्त्रादिभिः सारथिप्रभृतिभिः । भोक्तृभावादित्येतद्विवृणोति अपि चानुकूले ति । अनुकूलनीयःअनुकूलबुद्धिभाक् । अनुकूलवेदनीयःअनुकूलत्वप्रकारकबुद्धिविषयः । एवं प्रतिकूलनीयप्रतिकूलवेदनीयावूह्यौ । भ्रातृव्यःशत्रुः । भोक्तृभावादित्यस्य द्रष्टृत्वपरतया योजनान्तरं दृश्यत्वा दिति । अधिष्ठातु रित्यादि । सङ्घातप्रवृत्तेरधिष्ठात्रन्तराधीनतयाधिष्ठातुः सङ्घातत्वे तत्प्रवृत्तेरप्यधिष्ठात्रन्तराधीनत्वं स्यात्, एवमग्रेऽपीत्यनवस्थाप्रसङ्गादधिष्ठातुरसङ्घातत्वमेष्टव्यं । एवं सुखेनानुकूलनीयस्य दुःखेन प्रतिकूलनीयस्य वा भोक्तुः त्रिगुणत्वे तस्यापि अनुकूलप्रतिकूलवेदनीयत्वस्य प्राप्तेरनुकूलनीयप्रतिकूलनीयान्तरापादकत्वादनवस्थाप्रसङ्ग इत्यत्रिगुणत्वमेष्टव्यं । देहादिपक्षकविलक्षणद्रष्ट्रनुमानेन चात्मनो देहादिवैलक्षण्यमपि सिद्धमिति भावः । कैवल्यार्थं प्रवृत्तेश्चे त्यंशं विवृणोति तथा देहादे रिति । अत्रायं प्रयोगःकैवल्यसाधनप्रवृत्तिः कैवल्यदशाप्राप्तियोग्यात्मतत्त्वज्ञानपूर्विका,कैवल्यसाधनप्रवृत्तित्वात्, या या फलविशेषसाधनप्रेक्षावत्प्रवृत्तिः सा सा तत्तत्फलप्राप्तियोग्यात्मतत्त्वज्ञानपूर्विका, यथा स्वर्गसाधनप्रवृत्तिरिति । देहादेः प्रधानपर्यन्तस्य परिणामस्वभावस्य त्रिगुणस्य कैवल्यानुपपत्तिज्ञानाच्च विलक्षणात्मसिद्धिरिति भावः ॥

विलक्षणात्मसाधकतया साङ्ख्यैरुपक्षिप्तं सङ्घातपरार्थत्वानुमानं तावद्दूषयति

अत्रापी त्यादिना । परापरे ति । अन्यान्येत्यर्थः । पूर्वापरीभूतेति वा । परापरसङ्घातेति वा समस्तपाठः स्यात् । कार्यतयेवे ति । कार्यात्कारणमनुमेयं । कारणस्यापि कादाचित्कत्वेन कार्यत्वात्तत्कारणमप्यन्यत्, एवमुपर्युपरीति कारणपरम्पराकल्पना यथा प्रामाणिकी न दोषाय, एवमविनाभावबलादापतन्तीसङ्घातपरम्पराकल्पनापीति भावः । ननु सङ्घातत्वस्य भोक्तृत्वलक्षणे परत्वेऽहेतुत्वान्न सङ्घातपरार्थत्वेन सङ्घातत्वस्य व्याप्तिग्रह इत्यत्राऽह न चे ति ।

सङ्घातपरत्वं तदधीनातिशयभाजि सम्भवेत् । तदधीनातिशयश्चासंहते निर्लेपे निर्विकारऽत एवातिशयाधानानर्हे साङ्ख्याभिमतेपुरुषे न सम्भवतीति संहतस्यैव कस्यचित्सङ्घातशेषिणोऽनुमानेन सिद्धिर्नासंहतस्य साङ्ख्यमतपुरुषस्येति भावः । भोगरूपोऽप्यतिशयो न साङ्ख्यपुरुषस्य सम्भवेदिति हार्दं । एतेन पुरुषोऽस्ति भोक्तृभावा दित्यपि परास्तं । दृश्यते च खट्वादेः शरीरार्थत्वम्, शरीरस्य च शरीरान्तरार्थत्वं । अतस्तदधीनातिशयभाक्त्वरूपे तत्परत्वे सङ्घातत्वस्य प्रयोजकत्वेन तदवच्छिन्नपरार्थत्वेन व्याप्तिग्रहः सम्भवत्येवेति चाभिमतं । तद्धी ति । यद्येनोपक्रियते क्रियते वा तत्तस्य शेषि प्रधानमङ्गि भवति, यत्तूपकरोति करोति वा तत्तदर्थं तच्छेषः तदङ्गमित्यन्वयार्थः । उपक्रियतेअतिशयवान्क्रियते, स्त्रकूचन्दनादिनेव देहादिः, प्रयाजादिनेव च यागादिः । क्रियतेनिष्पाद्यते, दण्डादिनेव घटादिः, पुरोडाशादिनेव च यागादिः । तत्र उपक्रियमाणं क्रियमाणं वा अङ्गि, उपकारकं कारकं वा अङ्गमिति विवेकः । न च तथे ति । तथाअतिशयाधानार्हः । साङ्ख्यपुरुषःकापिलाभिमत आत्मा ।

नन्वनुपकार्यत्वेऽप्यात्मन एतैरुपकृतोऽहमित्युपकृतत्वभ्रमलक्षण एवोपकारो देहादिभिः साध्य इति तत्परत्वमुपपद्यत इति चेत्तत्राह अपि चे ति । चितिशक्तेःचैतन्यस्वरूपस्य पुरुषस्य । शक्तिशक्तिमतोरभेदाभिप्रायेणैवमुक्तिः । बुद्ध्यपरपरिभाषाभिधानम्बुद्धिरित्यपरं स्वीयतन्त्रसङ्केतितं यस्य नाम तदित्यर्थः । न भ्राम्यती ति । अन्तःकरणं न भ्रमाश्रयोऽचेतनत्वाद्धटादिवदिति यावत् । अचिदपी ति । अचेतनमपि चैतन्यप्रतिबिम्बाश्रयतया चेतनवद्भातीत्यर्थः । चिच्चेतनशब्दौ स्वयम्प्रकाशाभिप्रायावत्र । नीरूपाया इति । छायायाः कान्तिलक्षणाया उज्जवलरूपवद्धर्मभूताया नीरूपे चैतन्येऽसम्भवान्नीरूपे चान्तःकरणे तत्प्रतिफलनलक्षणसङ्क्रान्तेरयोगादित्यर्थः । रूपवत्येव हि स्फटिकादौ जपाकुसुमलोहितादिप्रतिफलनं दृष्टमिति भावः । शङ्कते छायेवे ति । न छायाशब्देन मुख्या कान्तिर्विवक्षिता । अपि तु सादृश्यं । चित्सादृश्यापत्तिश्चेतनायमानत्वमिति चेदित्यर्थः । प्रतिवक्ति कः ख ल्विति । सादृश्यं केनाकारेणेत्यर्थः ।

अत्राऽह

चितिसरूपत्वम् इति ।

वृत्तिपरिणामसामान्याभाववत्त्वेन सादृश्यमित्यर्थः । दूषयति हन्तैवम् इति । भ्रमादयो हि वृत्तयोऽन्तःकरणस्य निर्वृत्तिकत्वे नोपपद्यन्त इत्यर्थः । भ्रमोपपादनार्थं हि परिष्क्रियते चेतनायमानत्वम्, तच्चेन्निर्वृत्तिकत्वरूपम्, नैव प्रसङ्गो भ्रमाद्युदयस्य, तथा च यदर्थमयमारम्भः तत्कार्यमवसादितमिति भावः । प्रकारान्तरं शङ्कते चेतनत्वेने ति । ज्ञातृत्वेनेत्यर्थः । प्रकारान्तरं अजडायमानत्वम् इति । परिहरति अजडत्वम् इति । ज्ञातुरहमर्थस्यात्मन एवेतरानपेक्षप्रकाशत्वलक्षणमजडत्वं सम्भवतीति ज्ञात्रात्मसमर्थनावसरे प्रोक्तं । तथा चैवंविधाजडत्वस्य ज्ञातृत्वसमानाश्रयत्वाज्ज्ञातृत्वेनैव ज्ञातृत्वसमनर्थनं कृतं भवेदिति भावः । तेनैवे ति । ज्ञातृत्वैकाश्रयेणाजडत्वेनैवेत्यर्थः । एततजडायमानत्वम्, न किञ्चित्नार्थसाधकम्, विवक्षितभ्रमवत्तोपपादकं न भवति । असिद्धमसिद्धेन साध्यत इति यावत् । यद्वा न किञ्चिदेततनतिप्रसक्तं प्रकृतार्थोपपादकं दुर्निरूपमिति भावः । अन्तःकरणस्याजडत्वोपगमे साङ्ख्यस्यापसिद्धान्तं चाह अपि चे ति । नन्वन्तःकरणस्य चितिसारूप्यासम्भवेऽपि तस्मिन्चितिप्रतिबिम्ब एव ज्ञातृत्वादिमानस्तु इत्यत्राह न च चिती ति । बिम्बत्वेनाभिमताचित्, प्रतिबिम्बाधारत्वेनाभिमतमन्तःकरणं । द्वन्द्वस्याभिमतशब्देन कर्मधारयः । बिम्बगतस्य वक्रतादेः प्रतिबिम्बाधारगतस्य वा मालिन्यादेः प्रतिबिम्बे आरोपसम्भवः । न च ज्ञातृत्वं भ्रमो वा प्रकृतेऽन्यतरस्मिन्नप्यस्ति, यस्य चित्प्रतिबिम्बे आरोपः स्यादिति भावः । प्रत्युक्तश्चे ति । न्यायतत्त्वशास्त्रादाविति शेषः ।

नन्वन्तःकरण एव विषयाकारपरिणामलक्षणज्ञानवृत्तेरुपगमादन्यतरस्मिन्नप्यवृत्ति त्वमसिद्धं । ततश्च चितिबुद्ध्योर्विवेकाग्रहाच्चिति ज्ञातृत्वप्रतिभासो युज्यत एवेति शङ्कते यदुच्यत इत्यादिना । निर्विकाराया अपि चितिशक्तेः सन्निधानबलादेवान्तःकरणस्य प्रत्यक्षादिप्रमाणज्ञानभ्रान्त्यादिलक्षणा वृत्तिभेदाः समुदयन्ते । प्राधान्यात्चितेः तासां साक्षित्वं भोक्तत्वं च, यथा निश्चेष्टस्यापि सार्वभौमस्य प्राधान्यात्प्रबलसामन्तचक्रकर्तृकयुद्धपराक्रमविजयभाक्त्वं तद्वदिति शङ्कितुराशयः । पराक्रमीयःअतिशयेन पराक्रमवत् । परिहरति तदनुपपन्नम् इति । साक्षित्वं हि न चैतन्यमात्रत्वम्, किन्तु साक्षाद्द्रष्टृत्वं । न तच्चितेः, द्रष्टृत्वं कल्पितमिति चेत्निर्विकारे निर्धर्मके कूटस्थे चैतन्ये द्रष्टृत्वभ्रमोऽपि न सम्भवतीत्युक्तमेव । दृष्टान्ते तु न निर्व्यापारत्वंसार्वभौमस्य निर्धर्मकत्वं वा । स्वस्वामिभावे हेतवश्च क्रयप्रतिग्रहोत्पादनभरणादयः प्रसिद्धाः । राज्ञश्च भरणादिहेतुकं स्वामित्वमुपपन्नं । न तु साङ्ख्याभिमतस्य पुरुषस्येति

समुदिताशयः । ननु साङ्ख्याभिमतस्यात्मनोऽनुमानासम्भवेऽपि नैयायिकादिभिराधेयातिशयत्वेन भोक्तत्वेन चाभिमतस्यात्मनः सङ्घातपरार्थत्वानुमानेन साधनं स्यादिति चेत्, न । सङ्घातस्य संहतपरार्थत्वेन व्याप्रेरसंहतस्य परस्य सिद्धेरयोगात् । नच

भोक्त्रर्थत्वेनैव सङ्घातत्वस्य व्याप्तिरस्तु । तथा चासंहतात्मसिद्धिरप्रत्यूहेति वाच्यं । शरीरस्यापि शरीरान्तररूपभोक्त्रर्थत्वसाधनपर्यवसानाद्विवक्षितासिद्धेः । शरीरादिव्यतिरिक्तस्य भोक्तरनुमानात्पूर्वमसिद्ध्या च विलक्षणभोक्त्रर्थत्वेन व्याप्तेरग्रहाद्विलक्षणात्मसाधनायोग इति दिक् ।

आत्मनि देहादिभेदसाधकानुमानानां प्रत्यक्षबाधमप्याह स्थूलोऽहम् इति । प्रत्यक्षमृदितविषयतयाप्रत्यक्षबाधितसाध्यकतया । अतीतकालताबाधितहेत्वाभासता । व्यतिरेकानुमानभेदानांविलक्षणात्मानुमानानां कापिलनैयायिकाभिमतानां ।

देहादिभेदे आत्मनः श्रुतिमेव प्रमाणतयोपन्यस्यन्ति श्रोत्रियाः स एष इति । नेतिनेती त्यात्मनः शरीरादिगतप्रकारनिषेधः । शरीरभिन्नं शरीरधर्मव्रणादिरहितं चात्मस्वरूपमित्यकायमित्यादेरर्थः । योनिम् इति । अत्र शरीरप्रापकयोनिसम्बन्धप्रतिपादनेनात्मनः शरीरभिन्नत्वंसिध्यति । शरीरत्वायशीर्यमाणत्वाय । इदं च न स्वरूपेण, किन्तु शरीरविशिष्टवेषेण । तथाच देहादेरेवोत्पत्त्यादि नात्मन इत्यत्र श्रुतिर्न जायत इति । शरीरभिन्नत्वमुक्तमात्मनः । शरीरसंसृष्टत्वमप्यौपाधिकमेव, मुक्तौत्वशरीरत्वमेवेत्यत्र श्रुतिमुपादत्ते न ह वै इति । श्रुतिं प्रमाणमुक्त्वा विलक्षणात्मनि श्रुत्यर्थापत्तिमपि प्रमाणमाह कालान्तरे ति । तदनुपपत्ती ति । श्रुत्यर्थान्यथानुपपत्तीत्यर्थः । विध्यन्यथानुपपत्तीति वा । देहविनाशोर्ध्वभाविस्वर्गादिसाधनकर्मानुष्ठानं तद्विधानं वा भोक्तरात्मनो देहातिरेकं नित्यत्वं च विना हि न घटते । नन्वेव देहव्यतिरेके सिद्धेऽपीन्द्रियादिभेदो न सिध्यतीतिचेत्; अत्रोच्यतेगोलकातिरिक्तेन्द्रियस्यापि न शास्त्रमन्तरा सिद्धिः । शास्त्रतस्तु विलक्षणात्मन उपकरणत्वेनैव तत्सिद्धिरिति विलक्षणात्मसिद्धिः शास्त्रतो निष्प्रत्यूहेति ।

विलक्षणात्मनि अनुमानैकप्रमाणकत्वमागमैकप्रमाणकत्वं च मतभेदेनोपपाद्य प्रत्यक्षत्वं मीमांसकमतेन निरूपयितुमुपक्रमते ननु हिताहिते ति । हितं बलवदनिष्टाननुबन्धीष्टसाधनं शास्त्रैकसमधिगम्यं । अहितंबलवदनिष्टानुबन्धि । हिताहितप्रवर्तननिवर्तनैकपरस्य शास्त्रस्योपरि तत्त्वपरत्वस्यापि परिकल्पनं महाभारनिक्षेपलक्षणमेव । सह्येतवानन्यलभ्ये तत्त्वांशेऽपि कार्योपयोगिनि शास्त्रस्य तात्पर्यकल्पनं । न त्वन्यलभ्ये । देहादिविलक्षणश्चात्मा

प्रत्यक्षेणैव स्फुटमधिगम्यत इति नात्र पुरोवादितालक्षणं प्रामाण्यं शास्त्रस्य सम्भवतीति श्रोत्रियोपरि प्रत्यवस्थानं मीमांसकस्य ।

आत्मन इन्द्रियाग्राह्यत्वं शङ्कतेऽत्र श्रोत्रियः मैवं वोचइत्यादिना । रूपादिव्यतिरेकिणिरूपस्पर्शरहिते । द्रव्यप्रत्यक्षे हि उद्भूतरूपस्पर्शान्यतरस्य कारणत्वं । तदभावान्नात्मनः प्रत्यक्षत्वं सम्भवति । निरतिशयसूक्ष्म इत्यनेन इन्द्रियग्रहणायोग्यत्वं विवक्षितं । योग्य एव हि प्रत्यक्षं प्रभवति नायोग्य इति भावः । इन्द्रियाग्राह्यत्वे आत्मनः श्रुतिमुदाहरति पराञ्ची ति । परागर्थमात्रग्रहणसमर्थानीन्द्रियाणीत्यर्थः ।

विश्वास-प्रस्तुतिः

अचित्त्वप्रतिबद्धश्च सर्वोऽपीन्द्रियगोचरः ।
तेन नैन्द्रियिकं ज्ञानमात्मानं स्प्रष्टुमर्हति ॥१७ ॥
स्यान्मतम्भौतिकत्वाद्बहिरिन्द्रियाणि मा नामात्मनि प्रवर्तिषत । मनस्तु प्रवर्तिष्यते अभौतिकत्वादिति; तन्न; तस्यापीन्द्रियत्वे भौतिकत्वस्यापरिहार्यत्वात् । यथाऽम्नायतेऽअन्नमयं हि सोम्य मनःऽ इति । प्रपञ्चितं चैतन्निरूपणे ।

मूलम्

अचित्त्वप्रतिबद्धश्च सर्वोऽपीन्द्रियगोचरः ।
तेन नैन्द्रियिकं ज्ञानमात्मानं स्प्रष्टुमर्हति ॥१७ ॥
स्यान्मतम्भौतिकत्वाद्बहिरिन्द्रियाणि मा नामात्मनि प्रवर्तिषत । मनस्तु प्रवर्तिष्यते अभौतिकत्वादिति; तन्न; तस्यापीन्द्रियत्वे भौतिकत्वस्यापरिहार्यत्वात् । यथाऽम्नायतेऽअन्नमयं हि सोम्य मनःऽ इति । प्रपञ्चितं चैतन्निरूपणे ।

(इत्यात्मनोऽप्रत्यक्षत्वशङ्का)

विश्वास-प्रस्तुतिः

अथोच्येतास्ति तावदहमित्यपरोक्षावभासः प्रत्ययः । न चैन्द्रियिकत्वमन्तरेणासौ सम्भवति । क्ल्प्तं च बहिरिन्द्रियागोचरेऽपि सुखादौ स्वान्तस्वातन्त्र्यमिति तन्निमित्त एवायमहंप्रत्ययो युक्तः । प्रयोगश्च भवतिआत्मा मानसप्रत्यक्षग्राह्यः बहिरिन्द्रियायोग्यत्वे सति प्रत्यक्षत्वात्सुखादिवतिति ।

मूलम्

अथोच्येतास्ति तावदहमित्यपरोक्षावभासः प्रत्ययः । न चैन्द्रियिकत्वमन्तरेणासौ सम्भवति । क्ल्प्तं च बहिरिन्द्रियागोचरेऽपि सुखादौ स्वान्तस्वातन्त्र्यमिति तन्निमित्त एवायमहंप्रत्ययो युक्तः । प्रयोगश्च भवतिआत्मा मानसप्रत्यक्षग्राह्यः बहिरिन्द्रियायोग्यत्वे सति प्रत्यक्षत्वात्सुखादिवतिति ।

(इति भाट्टमुखेनात्मनो मानसप्रत्यक्षत्वानुमानोपक्षेपः)

विश्वास-प्रस्तुतिः

तन्न; संवेदनेन व्यभिचारात् । न च तदप्रत्यक्षं । जानामीत्यनन्योपाधिकतया प्रतिभानात् । अप्रत्यक्षत्वे च संवेदनस्यासिद्धिरेव स्यादित्युक्तमेव । नच तदपि मानसप्रत्यक्षतया सपक्षे निक्षेपमर्हति; विमर्दासहत्वात् । यदा खलु कुतश्चिदात्ममनःसंयोगाद्विषयसंवितुदयमासादयति, तदैव किं तत एव तद्गोचरमपि वेदनं जन्यते, उतान्यदान्येनेति वाच्यं । नच युगपदुभयजननं सम्भाव्यते । तथा हि सति
परापरतत्तद्गोचरनिरवधिकधीनिकुरुम्बजन्म तत्कालमेवापद्येत । नच तदस्ति । युगपदुत्पत्तौ विषयविषयित्वनियमश्च निर्निबन्धनः । असमसमयजन्मना ज्ञानेन वेद्यत्वे न प्रत्यक्षत्वं; क्षणिकत्वेनाग्रिमज्ञानस्य आग्राहकज्ञानोदयमवस्थानाभावात् । भावे च
सर्वज्ञानानां सर्वदावस्थानप्रसङ्गात् । कार्यविरोधित्वे चानन्तरमेव संस्कारोदयान्न कालान्तरे स्थितिरिति संविदो न मानसप्रत्यक्षवेद्यत्वं । न चाप्रत्यक्षा संविदिति स्फुटो व्यभिचारः । ऐन्द्रियिकत्वस्यानात्मत्वप्रतिबद्धत्वाद्विरुद्धता च । साध्यविकलश्च दृष्टान्तः, सुखदुःखयोः प्रत्यक्षत्वानभ्युपगमात् । अनभ्युपगमश्चेन्द्रियपौष्कल्यनाशयोरेव सुखदुःखत्वात् । न हि तस्मिन्नप्रत्यक्षे तत्पौष्कल्यंवैकल्यं वा प्रत्यक्षं भवति । इन्द्रियस्वरूप इवाभ्यासपाटवात्तयोरपरोक्षत्वाभिमानः, मनोऽवस्थाभेदेष्विव चानुमेयमनोवादिनां ।
यस्तु सुगतमतावलम्बी विज्ञानाभिन्नहेतुजतया तयोरपि तदन्तर्भावमभिमन्यते; कणभक्षपक्षाश्रयणेन वा तयोरात्मविशेषगुणत्वम्;ताभ्यां सुखदुःखाधिकरणं व्याचक्षीत; स्वतःसुखीत्येतद्विमर्शं वात्रत्यं । रागद्वेषादयस्तु चैतन्यस्यैवावस्थाविशेषास्तद्वदेव प्रत्यक्षीभवन्तीति न तन्निदर्शनेनानुमानोदयः । सुखप्रयुक्तविषयीकारचैतन्यं रागः, तद्विरोधप्रयुक्तविषयीकारं तदेव द्वेषः, भूतदुःखज्ञानेन चेतश्चलनं शोकः, आगामितज्ज्ञानेन चेतश्चलनं भयमित्यादि लक्षणग्रन्थादेवावगन्तव्यमित्यलं प्रविस्तरेण ।

मूलम्

तन्न; संवेदनेन व्यभिचारात् । न च तदप्रत्यक्षं । जानामीत्यनन्योपाधिकतया प्रतिभानात् । अप्रत्यक्षत्वे च संवेदनस्यासिद्धिरेव स्यादित्युक्तमेव । नच तदपि मानसप्रत्यक्षतया सपक्षे निक्षेपमर्हति; विमर्दासहत्वात् । यदा खलु कुतश्चिदात्ममनःसंयोगाद्विषयसंवितुदयमासादयति, तदैव किं तत एव तद्गोचरमपि वेदनं जन्यते, उतान्यदान्येनेति वाच्यं । नच युगपदुभयजननं सम्भाव्यते । तथा हि सति
परापरतत्तद्गोचरनिरवधिकधीनिकुरुम्बजन्म तत्कालमेवापद्येत । नच तदस्ति । युगपदुत्पत्तौ विषयविषयित्वनियमश्च निर्निबन्धनः । असमसमयजन्मना ज्ञानेन वेद्यत्वे न प्रत्यक्षत्वं; क्षणिकत्वेनाग्रिमज्ञानस्य आग्राहकज्ञानोदयमवस्थानाभावात् । भावे च
सर्वज्ञानानां सर्वदावस्थानप्रसङ्गात् । कार्यविरोधित्वे चानन्तरमेव संस्कारोदयान्न कालान्तरे स्थितिरिति संविदो न मानसप्रत्यक्षवेद्यत्वं । न चाप्रत्यक्षा संविदिति स्फुटो व्यभिचारः । ऐन्द्रियिकत्वस्यानात्मत्वप्रतिबद्धत्वाद्विरुद्धता च । साध्यविकलश्च दृष्टान्तः, सुखदुःखयोः प्रत्यक्षत्वानभ्युपगमात् । अनभ्युपगमश्चेन्द्रियपौष्कल्यनाशयोरेव सुखदुःखत्वात् । न हि तस्मिन्नप्रत्यक्षे तत्पौष्कल्यंवैकल्यं वा प्रत्यक्षं भवति । इन्द्रियस्वरूप इवाभ्यासपाटवात्तयोरपरोक्षत्वाभिमानः, मनोऽवस्थाभेदेष्विव चानुमेयमनोवादिनां ।
यस्तु सुगतमतावलम्बी विज्ञानाभिन्नहेतुजतया तयोरपि तदन्तर्भावमभिमन्यते; कणभक्षपक्षाश्रयणेन वा तयोरात्मविशेषगुणत्वम्;ताभ्यां सुखदुःखाधिकरणं व्याचक्षीत; स्वतःसुखीत्येतद्विमर्शं वात्रत्यं । रागद्वेषादयस्तु चैतन्यस्यैवावस्थाविशेषास्तद्वदेव प्रत्यक्षीभवन्तीति न तन्निदर्शनेनानुमानोदयः । सुखप्रयुक्तविषयीकारचैतन्यं रागः, तद्विरोधप्रयुक्तविषयीकारं तदेव द्वेषः, भूतदुःखज्ञानेन चेतश्चलनं शोकः, आगामितज्ज्ञानेन चेतश्चलनं भयमित्यादि लक्षणग्रन्थादेवावगन्तव्यमित्यलं प्रविस्तरेण ।

(इति गुरुमुखेनात्मनो मानसप्रत्यक्षत्वानुमानदूषणम्)

विश्वास-प्रस्तुतिः

एकस्य चात्मनो निरंशस्य न स्वापेक्षया ग्राह्यग्राहकभावः, विरोधादित्यप्युक्तमेव । अंशभेदाश्रयणे तत्सिद्धये चांशान्तरमाश्रयितव्यम्, तथा तत्र तत्रेत्यनवस्था; सङ्घातत्वं चात्मनः ।

मूलम्

एकस्य चात्मनो निरंशस्य न स्वापेक्षया ग्राह्यग्राहकभावः, विरोधादित्यप्युक्तमेव । अंशभेदाश्रयणे तत्सिद्धये चांशान्तरमाश्रयितव्यम्, तथा तत्र तत्रेत्यनवस्था; सङ्घातत्वं चात्मनः ।

(इति चात्मनो ग्राह्यग्राहकभावे विरोधोद्भावनम्)

विश्वास-प्रस्तुतिः

ननु च ग्राहकावभासः श्रुत्या, स्वसिद्धान्तश्रद्धाविप्रलब्धबुद्धि भिरभिहितः; इन्द्रियादिप्रत्यासन्नतत्तत्पदार्थमात्रस्फुरणात् । तादृशोऽपि क्वचिदस्तु नाम प्रत्ययः । स त्वागन्तुकात्मप्रतियोगिकप्राकट्यप्रकाशादिपदाभिधेयार्थधर्मानुमितज्ञानविशिष्टमानसप्रत्यक्षसिद्धात्मनिबन्धनः ।

मूलम्

ननु च ग्राहकावभासः श्रुत्या, स्वसिद्धान्तश्रद्धाविप्रलब्धबुद्धि भिरभिहितः; इन्द्रियादिप्रत्यासन्नतत्तत्पदार्थमात्रस्फुरणात् । तादृशोऽपि क्वचिदस्तु नाम प्रत्ययः । स त्वागन्तुकात्मप्रतियोगिकप्राकट्यप्रकाशादिपदाभिधेयार्थधर्मानुमितज्ञानविशिष्टमानसप्रत्यक्षसिद्धात्मनिबन्धनः ।

(इति प्राभाकरमते भाट्टस्यापि प्रत्यवस्थानम्)

विश्वास-प्रस्तुतिः

उच्यते । अहो खलु स्वानुभव एव विभ्रमः परीक्षकाणाम्, यत्विषयानुभवसमये पूर्वावस्थातो न कञ्चिद्विशेषमयमात्मनोऽवबुध्यत इति । उक्तं ह्येतर्तिदृश एवायमर्थः, ज्ञायते न वेति न विद्मः, मम वा प्रतिभासते परस्य वेत्यपि न विद्म इति न
जातुचिदेवं प्रतीतिरस्ति, ज्ञानज्ञात्रोरनवभासे तादृश्यपि प्रतीतिरापद्येत; इति । सोऽयं परसंचेतितात्स्वसंचेतितस्यातिशयः सर्वत्र परिस्फुरन्नसति ग्राहकावभासे नोपपद्येत । अनुमितज्ञानालम्बनत्वे चाज्ञासिषमित्येव प्रतिभासः स्यात्, न जानामीति; ज्ञानजन्यार्थातिशयदर्शनतद्व्याप्त्यनुसन्धानानुमानोदयसमयेऽनुं इत्सितज्ञानस्यातिवृत्तत्वात् । ज्ञानानुमानासम्भवः पूर्वमेवोक्तः । मानसप्रत्यक्षत्वं चात्मग्राह्यधीनिरस्तं । तथासति हि स्वपरवेद्ययोरनतिशयः स्यात् ।

मूलम्

उच्यते । अहो खलु स्वानुभव एव विभ्रमः परीक्षकाणाम्, यत्विषयानुभवसमये पूर्वावस्थातो न कञ्चिद्विशेषमयमात्मनोऽवबुध्यत इति । उक्तं ह्येतर्तिदृश एवायमर्थः, ज्ञायते न वेति न विद्मः, मम वा प्रतिभासते परस्य वेत्यपि न विद्म इति न
जातुचिदेवं प्रतीतिरस्ति, ज्ञानज्ञात्रोरनवभासे तादृश्यपि प्रतीतिरापद्येत; इति । सोऽयं परसंचेतितात्स्वसंचेतितस्यातिशयः सर्वत्र परिस्फुरन्नसति ग्राहकावभासे नोपपद्येत । अनुमितज्ञानालम्बनत्वे चाज्ञासिषमित्येव प्रतिभासः स्यात्, न जानामीति; ज्ञानजन्यार्थातिशयदर्शनतद्व्याप्त्यनुसन्धानानुमानोदयसमयेऽनुं इत्सितज्ञानस्यातिवृत्तत्वात् । ज्ञानानुमानासम्भवः पूर्वमेवोक्तः । मानसप्रत्यक्षत्वं चात्मग्राह्यधीनिरस्तं । तथासति हि स्वपरवेद्ययोरनतिशयः स्यात् ।

(इति प्राभाकरीयं स्वपक्षसाधनम्)

विश्वास-प्रस्तुतिः

ननु कथमिव ग्राहकानवभासे स्वपरवेद्ययोरनतिशयप्रसङ्गः? नहि ग्राहकसिद्धिनिबन्धनः स्वपरवेद्यविशेषः; स्वसमवेतविषयबोधजन्मना परसमवेतबोधजन्मना च तद्विशेषोपपत्तेः । स्वपरसम्बन्धिबोधविशेषोदव्यवस्थापि स्वीयपरकीयेन्द्रियार्थसन्निकर्षादिज्ञानहेतुसामग्रीभेदनिबन्धना । न चात्मसिद्धिरपि तत्सामग्र्यनुप्रवेशमर्हति; इन्द्रियादेरिवानवभासमानस्यैव हेतुत्वसम्भवात् । नच विषयबोध एवात्मबोध इति साम्प्रतं । न ह्यर्थान्तरसिद्धिरर्थान्तरस्य सिद्धिर्भवति, अतिप्रसङ्गात् । अपि च यदधीना भावानां रूपभेदव्यवस्था, तदपि हि संवेदनं तदानीं निलीनरूपमेवेन्द्रियादिवत् । कुतस्तु पुनः तदाश्रयस्यात्मनः प्रतिभासप्रसक्तिः? यदाहुःइदमहं जानामीति त्रितयावभासः सार्वत्रिकः, इति, तदप्यनुभवानारूढमेवानन्तरमेव प्रतिक्षिप्तमिति ।

मूलम्

ननु कथमिव ग्राहकानवभासे स्वपरवेद्ययोरनतिशयप्रसङ्गः? नहि ग्राहकसिद्धिनिबन्धनः स्वपरवेद्यविशेषः; स्वसमवेतविषयबोधजन्मना परसमवेतबोधजन्मना च तद्विशेषोपपत्तेः । स्वपरसम्बन्धिबोधविशेषोदव्यवस्थापि स्वीयपरकीयेन्द्रियार्थसन्निकर्षादिज्ञानहेतुसामग्रीभेदनिबन्धना । न चात्मसिद्धिरपि तत्सामग्र्यनुप्रवेशमर्हति; इन्द्रियादेरिवानवभासमानस्यैव हेतुत्वसम्भवात् । नच विषयबोध एवात्मबोध इति साम्प्रतं । न ह्यर्थान्तरसिद्धिरर्थान्तरस्य सिद्धिर्भवति, अतिप्रसङ्गात् । अपि च यदधीना भावानां रूपभेदव्यवस्था, तदपि हि संवेदनं तदानीं निलीनरूपमेवेन्द्रियादिवत् । कुतस्तु पुनः तदाश्रयस्यात्मनः प्रतिभासप्रसक्तिः? यदाहुःइदमहं जानामीति त्रितयावभासः सार्वत्रिकः, इति, तदप्यनुभवानारूढमेवानन्तरमेव प्रतिक्षिप्तमिति ।

(इति भाट्टेन प्राभाकरमतदूषणम्)

विश्वास-प्रस्तुतिः

अस्तु तर्हि ग्राहकतयैव सर्वार्थग्रहणसमयेष्वात्मसिद्धिः । अभ्युपगन्तव्या हि संविदः स्वतःसिद्धिः, सर्वप्रकारसाधनान्तरनिराकरणात्, सत्याश्च तस्याः कदाचिदनवभासादर्शनाच्च । यथा च संविदः
प्रकाशाव्यभिचारः, तथा प्रपञ्चितं प्रथमाधिकरण इति नात्रोपक्षिप्य प्रतिक्षेप्तव्यं । सतोऽपि प्रमेयजातस्य स्वापादिसमयेऽनुपलब्देरभ्युपगतं तावत्संविदः तत्साधकत्वं । अतः क्ल्प्तार्थान्तरसाधनभावया तयैवाऽत्मनोऽपि सिद्धिरभ्युपगन्तुं न्याय्या ।

मूलम्

अस्तु तर्हि ग्राहकतयैव सर्वार्थग्रहणसमयेष्वात्मसिद्धिः । अभ्युपगन्तव्या हि संविदः स्वतःसिद्धिः, सर्वप्रकारसाधनान्तरनिराकरणात्, सत्याश्च तस्याः कदाचिदनवभासादर्शनाच्च । यथा च संविदः
प्रकाशाव्यभिचारः, तथा प्रपञ्चितं प्रथमाधिकरण इति नात्रोपक्षिप्य प्रतिक्षेप्तव्यं । सतोऽपि प्रमेयजातस्य स्वापादिसमयेऽनुपलब्देरभ्युपगतं तावत्संविदः तत्साधकत्वं । अतः क्ल्प्तार्थान्तरसाधनभावया तयैवाऽत्मनोऽपि सिद्धिरभ्युपगन्तुं न्याय्या ।

(इति पुनः प्राभाकरेण स्वमतस्थापनम्)

विश्वास-प्रस्तुतिः

यत्तु विषयवित्त्युपरमेऽपि स्वापसमयेऽयमात्मा प्रकाशत इति, ततुपपत्तिभिरुपपद्यमानमपि यथाप्रतीति व्यवहरतां न चित्तमनुरञ्जयति ।

मूलम्

यत्तु विषयवित्त्युपरमेऽपि स्वापसमयेऽयमात्मा प्रकाशत इति, ततुपपत्तिभिरुपपद्यमानमपि यथाप्रतीति व्यवहरतां न चित्तमनुरञ्जयति ।

युक्तिमप्युपन्यस्यति अचित्त्वे ति । अचित्त्वप्रतिबद्धःअचित्त्वव्याप्यः । आत्मा नेन्द्रियग्राह्यश्चेतनत्वात्, यन्नैवं तन्नैवं यथा घटादीति चात्र प्रयोगः ॥१७ ॥

अत्र भाट्टमतमुपक्षिपति स्यान्मतम् इति । श्रोत्रियो दूषयति तन्ने ति । गन्धादिमत्त्वादेव हि घ्राणादेर्गन्धादिग्राहकता व्यवस्थिता । तथा च भौतिकत्वं घ्राणादेः स्थितं । तन्निदर्शनेन च मनसोऽपि भौतिकत्वं सेत्स्यति । तथा चाभौतिकऽत्माग्राहकत्वं घ्राणादेरिव मनसोऽपिस्यादिति भावः । भौतिकत्वे मनसः श्रुतिमप्याह अन्नमयम् इति ।

भाट्टः प्रतिवक्ति अथोच्येते त्यादिना । अपरोक्षावभासःपरोक्षप्रतीतिभिन्नः, लौकिकविषयितावानिति यावत् । सुखादौ मनसः स्वातन्त्र्यं च बहिरिन्द्रियानपेक्षप्रत्यक्षजनकत्वं । मानसप्रत्यक्षग्राह्यःमानसप्रत्यक्षनिरूपितलौकिकविषयतावान् । शिष्टं स्पष्टं ।

प्रकृतमनुमानं दूषयति गुरुमुखेन तन्ने त्यादिना । साध्याभाववति हेतो सत्त्वं हि व्यभिचारः । तत्र संविदि हेतौ विशेषणांशस्य सिद्धत्वाद्विशेष्यांशं तावत्साधयति न च तदि ति । अनन्योपाधिकतया लिङ्गपदज्ञानादिकारणानपेक्षतया । प्रतिभानात्प्रकाशात् । ननु ज्ञाततयैव ज्ञानानुमानमित्यनन्योपाधिकत्वं ज्ञानप्रतिभासस्यासिद्धमित्यत्राह अप्रत्यक्षत्वे चे ति । ज्ञानातिरिक्तायां ज्ञाततायां ज्ञानलिङ्गत्वेनाभिमतायां प्रमाणाभावात्, सत्या अपि तस्या अतीन्द्रियत्वेन ज्ञानस्य तेनाविनाभावग्रहायोगात्, ज्ञानजनकसामग्र्या ज्ञातताया एव साक्षाज्जननसम्भवादन्तरा ज्ञानकल्पनाया अपार्थत्वाच्चासिद्धिरेव स्याज्ज्ञानस्याप्रत्यक्षत्व इति भावः । संवेदने साध्यस्यापि सत्त्वमाशङ्कते न च तदपी ति । विकल्पासहत्वान्मानसप्रत्यक्षत्वं संविदो निरस्यति विमर्दे ति । विकल्पयति यदाइति । तथासती ति । विषयज्ञानस्योदयकाल एव तद्गोचरज्ञानज्ञानस्यापि आत्ममनःसंयोगरूपकारणबलादुत्पत्तिस्वीकारे पूर्वोत्तरीभूतविषयज्ञानज्ञानज्ञानज्ञानज्ञानज्ञानदीनां समुदायस्य यौगपद्यप्रसङ्गः इत्यर्थः । निकुरुम्बम्समुदायः । विषयज्ञानज्ञानज्ञानयोर्यौगपद्ये दूषणान्तरमाह युगप दिति । प्रत्यक्षे विषयस्य हेतुत्वात्पूर्वज्ञानजनितस्योत्तरज्ञानस्यानुव्यवसायरूपस्य पूर्वज्ञानविषयकत्वमुपपद्येत क्रमभावित्वे न तु यौगपद्य इत्यर्थः । अस्तु तर्हि क्रमिकत्वं विषयज्ञानतदनुव्यवसाययोरित्यत्रह असमे ति । ज्ञानस्य क्षणिकत्वादुत्तरज्ञानोत्पादकाले पूर्वज्ञानस्यासत्त्वान्न प्रत्यक्षत्वं सम्भवेत्पूर्वज्ञानेज्ञानान्तरवेद्यत्वोपगमेऽपीत्यर्थः । ज्ञानस्य क्षणिकत्वानुपगमे

दोषमाह भावे चे} ति । ननु न क्षणिकत्वम्, नापि स्थिरत्वं । किन्तु स्वकार्येणैव निवृत्तिरिष्यते ज्ञानस्येति चेत्तत्राह {कार्ये ति । कार्यस्य विरो

धित्वं नाशकत्वलक्षणं चेद्द्विक्षणावस्थायित्वं स्याज्ज्ञानस्य । सहानवस्थानलक्षणं चेदेकक्षणमात्रवृत्तित्वम् । अत्र तु सहानवस्थानलक्षण एव विरोधो विवक्षितः । द्विक्षणावस्थायित्वे तु नैयायिकप्रक्रियया मानसप्रत्यक्षोपपत्तेस्तन्निषेधानुपपत्तेरिति बोध्यं । नैयायिकमतेऽपि द्वितीयतृतीयादिज्ञानविषयकज्ञानाधारानुवृत्तिप्रसङ्गो बोध्यः । आत्मनो मानसप्रत्यक्षत्वानुमाने विरोधमप्याह ऐन्द्रियिकत्वस्ये ति । अनात्मत्वव्याप्यत्वादैन्द्रियिकत्वस्य व्यापकनिवृत्त्याऽत्मनि निवृत्तिरवर्जनीया । तथा च पक्षतावच्छेदकात्मत्वविरुद्धं साध्यमिति भावः । बाह्येन्द्रियग्राह्यत्वस्यैवानात्मत्वव्याप्यतेत्याग्रहेऽपि दूषणान्तरमाह साध्यविकलश्चे ति । साध्यशून्योऽन्वयद्दष्टान्त इत्यर्थः । साधनविकलत्वमपि यद्यपि फलति उपपादनप्रकारेण; अथापि सिद्धान्तप्रक्रियया ज्ञानावस्थारूपत्वात्सुखादेः ज्ञानस्य च स्वयंप्रकाशत्वात्स्वयंप्रकाशत्वं सुखादेर्हृदि निधाय साध्यविकलत्वमेव कीर्तितं । अन्वयद्दष्टान्ते साध्यस्य साधनस्य वा विरहेन तदवच्छेदेन साध्यव्याप्तिग्रहो हेतौ सम्भवतीति व्याप्यत्वासिद्धिर्विवक्षिता । ननु सुखदुःखयोरप्रत्यक्षत्वे प्रत्यक्षवदवभासस्तयोः कथम्? तत्राह इन्द्रिये ति । यथातीन्द्रियत्वेऽपीन्द्रियाणां ममेदं चक्षुः, अहं चक्षुष्मान्पश्यामीति प्रत्यक्षवदवभासश्चक्षुरादेः कदाचिच्चाक्षुषादिवृत्ति काले नानाचक्षुरादिवृत्ति प्रतिसन्धानवतश्चेतनस्येन्द्रियविषयसंस्कारप्राचुर्यप्रयुक्तः, तद्वदिन्द्रियावस्थारूपसुखदूःखपरामर्शोऽपि प्रत्यक्षसमानाकारस्तदभ्यासबाहुल्यादित्यर्थः

। अत्र निदर्शनं मनोवस्थे ति । अनुमेयमनोवादिनः बुद्धिव्यतिरिक्तं मनोऽनुमानेन साधयन्तः । कामसङ्कल्पादीनां मनोवृत्तिरूपत्वं कामःसङ्कल्पः सर्वं मन एवे ति श्रुत्याप्रतीयते । तेषां च

प्रत्यक्षत्वावभासः तद्विषयानुभावाभ्यासप्राचुर्यादेवेति वक्तव्यं यथा अनुमेयमनोवादिभिः, तथेति भावः ।

सुखदुःखयोरात्माभिन्नत्वम्, आत्मन आगन्तुकधर्मरूपत्वं च मतभेदेन प्रसिद्धमनुवदति यस्तुसुगते ति । अत्राह ताभ्या मिति । चतुर्थीद्विवचनं । बौद्धप्रक्रियया काणादप्रक्रियया वा क्षणिकात्मानन्यत्वं, नित्यस्यात्मन आगन्तुकधर्मरूपत्वं वा मन्यमानाभ्यां न्यायतत्त्वशास्त्रस्थं सुखदुःखाधिकरणम्, एतत्प्रकरणस्थं स्वतः सुखित्वविचारं वा प्रकीर्तयेदित्यर्थः । ननु सुखदुःखयोः मानसप्रत्यक्षत्वे विवादेऽपि रागद्वेषावेव निदर्शने भविष्यत इत्यत्राह सुखे ति । सुखत्वप्रयुक्तं विषयीकरणमुपादेयताप्रकाशनं यतः तज्ज्ञानमेव रागः सुखगोचरोपादेयताबुद्धिलक्षण इति यावत् । तस्य सुखस्य विरोध उपघातो येन तद्गोचरत्याज्यताप्रकाशकज्ञानमेव च द्वेषः । तयोश्च ज्ञानवदेव प्रकाश इति नं साध्यान्वय इति भावः । शोकभययोरपि न निदर्श

नत्वं सम्भवतीत्याह भूते ति । तच्चलनमिति मुद्रितपाठस्तु न साधुः । अतीतदुःखानुसन्धानप्रयुक्तश्चित्तविक्षोभः शोकः । आगामिदुःखहेतुपरामर्शाधीनश्चित्तसङ्क्षोभश्च भयं । तयोश्चान्तःकरणधर्मत्वादेव न प्रत्यक्षत्वमिति दृष्टान्तत्वायोग इति भावः ।

आत्मनो मानसप्रत्यक्षत्वे साधकस्यासम्भवमुक्त्वा बाधकमप्याह एकस्ये ति । एकस्यैकदैवैकक्रियायां कर्तृकर्मभावासम्भवलक्षणो विरोधोऽत्र विवक्षितः । उक्तविरोधपरिहारायात्मनि अंशभेदाश्रयणेदोषमाह अशंभेदे ति । ग्राहकात्मांशान्तरस्यापि प्रमाणसिद्धत्वावश्यम्भावेन तद्ग्राहकाशान्तरमेष्टव्यम्, एवमुपर्युपरीत्यनवस्थेत्यर्थः । कदाचिदेकांशेनान्यांशग्रहणम्, अन्यदा चांशान्तरेणैतदंशग्रहणमिति कालभेदेनोपपत्तेर्नानवस्थेति चेत्तत्राप्याह सङ्घातत्वं चे ति । आत्मनो निरंशत्वविरुद्धं च सांशत्वमेवं सति प्रसज्यत इत्यर्थः । सांशत्वे चानित्यत्वादि आपादनीयं । अत्रेदं बोध्यम्गुरुर्ज्ञातुरात्मनो ज्ञानविषयत्वं नानुमन्यते । किन्तु विषयज्ञानकालेषु ज्ञातृत्वबलात्प्रकाशमात्रं मनुते । ज्ञानस्यापि तथैवेति ।

एवं प्राभाकरेण दूषिते स्वपक्षे भाट्टस्तन्मतमपि दूषयति ननु चे ति । श्रुत्येत्यनन्तरं तन्न, सतु इति पूरणीयं । अत्र न च ग्राहकाभास इति पाठः सम्भाव्यते । श्रुत्येत्यनन्तरं सिद्ध्यती ति शेषः । स्वसिद्धान्तेत्यतः पूर्वं स तु इति योज्यं । स्वसिद्धान्ताभिनिवेशवशीकृतचेतसामभिमानमूलको ग्राहकावभासवादो न श्रुतिप्रमाणेन सिध्यतीति भावः । ग्राहकावभासो नाम सर्वज्ञानेष्वाश्रयतयाऽत्मनः स्फुरणं । श्रुत्यास्यासिद्धौ हेतुमनुभवविरोधमभिप्रेत्यानुभवप्रकारमाह इन्द्रियादी ति । अनुभवविरुद्धं हि न श्रुतिः प्रतिपादयेदिति हार्दं । श्रुत्येत्यत्रान्यथा पाठः स्याद्वा । स्वसिद्धान्ताभिमानिभिः प्राभाकरैरभिहितो ग्राहकावभासो न मन्तव्यः प्रतीतिविरोधात् । प्रतीतिर्हितत्तत्पदार्थमात्रं प्रकाशयतीति समुदिताशयः । ननु घटादिप्रत्यक्षेग्राहकाभासाभावे घटमहं पश्यामीत्याद्यनुभवः कथम्? तत्राह तादृशोऽपी त्यादिवाक्यद्वयेन । यस्य यद्विषये ज्ञानं जातं तस्यैव सोर्ऽथः प्रकाशत इति प्राकट्यस्याऽत्मप्रतियोगिकत्वमर्थधर्मस्य । तल्लिङ्गकं ज्ञानानुमानमेव च कादाचित्कं । ततश्चानुमितज्ञानोपरक्तात्ममानसरूपो निरुक्तानुभवश्च कादाचित्क एव, नायं घटचाक्षुषरूपः । येन विषयवित्तिषु प्रकाशेताऽत्मेति भावः । अत्र च मानसप्रत्यक्षे ज्ञानवत्त्वेन विषयत्वं देहादिमत्तया चाश्रयत्वमिति कर्मकर्तृविरोधपरिहारोऽभिमतो भाट्टानां ।

अत्र प्राभाकरस्य प्रत्यवस्थानं उच्यतइत्यादिना । स्वानुभव एवे ति । ज्ञाने जाते

तद्वत्त्वेनात्मोपलम्भोऽप्यनुभवसिद्धः । तत्रैव विभ्रमो नास्तिताभ्रम इत्यर्थः । स्वानुभवमप्यजानतः परीक्षकत्वं शोभनमित्युपालम्भः । विषयवेदनकाले ज्ञानस्य ज्ञातुश्चावभासाभावे दोषं पूर्वोक्तं स्मारयति उक्त मित्यादिना । ज्ञानस्या प्रकाशाभावे ज्ञायते न वेतिसंशयादिप्रसङ्गः । ज्ञातुः प्रकाशाभावे मम ज्ञायतेऽन्यस्य वेति संशयादिप्रसङ्ग इति भावः । सोऽयम् इति । संचेतितम्ज्ञातं । अतिशयःस्वात्मने प्रकाशमानत्वलक्षणोऽनुभूयमानः । अनुमिते ति । जानामीत्यादिप्रतीतेर्ज्ञाततालिङ्गानुमितज्ञानोपनीतभानात्मकात्ममानसप्रत्यक्षरूपत्वेऽतीतज्ञानालम्बनत्वादज्ञासिषमित्येवाभिलापः स्यात्, न तु जानामीति ज्ञाने वर्तमानत्वोल्लेख इत्यर्थः । नन्वतिशैघ्र्यात्क्षणभेदाग्रहनिबन्धनो वर्तमानत्वांशे भ्रमलक्षणो जानामीति प्रत्यय इति शङ्कायां तन्मते दूषणान्तरमपि संस्फोरयति ज्ञाने ति । स्वज्ञानव्यवहारहेतुकमेव स्वज्ञानानुमानमिति न सम्भवतीत्युक्तमेव प्राक् । ज्ञाततालिङ्गकमपि ज्ञानानुमानं ज्ञानेन ज्ञातताया अविनाभावग्रहासम्भवाज्ज्ञानसामग्र्यैवान्यथासिद्धत्वाच्च ज्ञातताया दुःस्थमेवेति हार्दं । विषयज्ञान एव ज्ञातुः प्रकाशं साधयितुं तस्य मानसप्रत्यक्षं च निरस्यति मानसे ति । आत्मन इत्यादिः । मानसप्रत्यक्षत्वमित्यत्र बहुव्रीहेः त्वप्रत्ययः ।

आत्मग्राह्यत्वं धियः स्वयंप्रकाशत्वं । तच्च ज्ञानस्य मानसप्रत्यक्षानुमानायोगप्रतिपादनात्सिद्धं । आत्मनो मानसप्रत्यक्षत्वं च व्यभिचारात्साधकत्वाभिमतस्य निरस्तं साधकाभावादित्यर्थः । धीनिरस्तम्व्यभिचारनिरूपिकया धिया निरस्तं । व्यभितारनिरूपकत्वोपपादकमात्मग्राह्येति धीविशेषणं । अत्राऽत्मग्राह्यधीव्यभिचारनिरस्तमिति वा अन्यथा वा मूलपाठः सम्भाव्यते । एवं ग्रहग्राहकयोः प्रकारान्तरेण भानासम्भवमुपपाद्य तदनवभासे विषयवित्तौ पूर्वोक्तातिशयासम्भवं निगमयति तथासती ति । अनतिशयःअविशेषः । स्वस्मै ज्ञायमानत्वेन भानमभानं चार्थस्येति वैलक्षण्यस्य विरहः स्वपरवेद्ययोः प्रसज्यते विषयवित्तौ ज्ञानज्ञात्रोरभाने हीत्यर्थः ।

भाट्टः प्रतिक्षिपति ननु कथम् इति । स्वस्मै भासमानत्वरूपो विशेषोर्ऽथस्य तज्ज्ञानस्य स्वनिष्ठत्वादेव घटते तज्ज्ञाने स्वस्याभानेऽपि । विषयबोधाश्रयत्वमेव स्वस्यातिशयोऽपूर्वो विषयवित्तिकाल इति च भावः । नच वित्तिवेदित्रोरग्रहे पूर्वोक्तः संशयस्तदवस्थ इति वाच्यम् । स्वज्ञानजार्थधर्मप्रकाशस्य स्वं प्रति प्रत्यक्षत्वादेव मम प्रकाशते न वेति संशयस्यानवकाशात् । ज्ञानफलप्रकाशेन झटित्येव ज्ञानस्यानुमानाच्च मम ज्ञानं जातमन्यस्य वेत्यादेरप्यप्रसक्तेः । नैयायिकप्रक्रियया तु कार्यनाश्यत्वाज्ज्ञानस्य द्विक्षणावस्थायित्वादनुव्यवसायबलादेव

न निरुक्तसंशयादिप्रसङ्गो ज्ञानज्ञात्रोरनवभासेऽपि विषयवित्ताविति च बोध्यं । आत्मनि बोधोदये आत्मप्रकाशस्य हेतुत्वं निरस्यति प्रसङ्गतः न चात्मे ति । ननु आत्मसिद्ध्यघटितापि विषयबोधसामग्र्येवात्मप्रकाशेऽपि हेतुरस्त्वित्यत्राह न च विषये ति । इन्द्रियार्थसन्निकर्षार्थयोग्यतादिघटिता विषयबोधसामग्री नायोग्यात्मबोधेऽपि समर्थेत्यर्थः । अतिप्रसङ्गात्पटबोधसामग्र्या घटादिबोधप्रसङ्गात् । विषयबोधे बोधस्याप्यप्रकाश इत्याह अपि चे ति । मानाधीना हि मेयसिद्धिः । तत्पदार्थानां जातिगुणादिविशेषव्यवस्था यदधीना तदपि संवेदनं विषयप्रकाशकालेऽप्रकाशमानस्वरूपं स्वरूपसदेव चक्षुरादिवदित्यर्थः । स्वरूपसज्ज्ञानेनैव विषयविशेषसिद्धिवत्स्वरूपसज्ज्ञात्रैव स्ववेद्यविषयातिशयसिद्धिरिति भावः । प्राभाकराणां मतमनुवदति यदाहु रित्यादिना । सार्वत्रिकःप्रत्यक्षानुमानादिसर्वविषयज्ञानव्यापी । तत्प्रतिक्षिपति तदपी ति । अनुभवानारूढमिति साधकाभाव उक्तः, अनन्तरमेव प्रतिक्षिप्तमिति च बाधकं ।

ज्ञानस्यैवायं स्वभावःयत्स्वविषयस्येव स्वस्वाश्रयप्रकाशहेतुत्वमपीति पुनः प्राभाकरः शङ्कते अस्तु तर्ही ति । ग्राहकतयैवज्ञानाश्रयतयैव । विषयबोधसामग्र्या विषयज्ञानमेव जातं । तच्च ज्ञानं स्वसामर्थ्यादेव अविषयमपि स्वं स्वाश्रयं च प्रकाशयतीति भावः । ज्ञानस्य स्वयंप्रकाशत्वं तावत्साधयति अभ्युपगन्तव्ये ति । सर्वप्रकारे ति । मानसप्रत्यक्षस्य ज्ञाततादिलिङ्गकानुमानस्य च निराकरणादित्यर्थः । कदाचि दिति । विद्यमानत्वे प्रकाशमानत्वनियमाच्चेत्यर्थः । प्रपञ्चित पिति । न्यायतत्त्वशास्त्रे इति शेषः । नात्रे त्यादि । प्रकाशव्यभिचारित्वमतमुपक्षिप्य ज्ञानस्य तत्नात्र निराकरणीयमित्यर्थः । एवं स्वप्रकाशत्वमुक्त्वा ज्ञानस्य विषयप्रकाशहेतुत्वं च साधयति सतोऽपी ति । सतोऽपि विषयस्य स्वापेऽप्रकाशो ज्ञाननिवृत्त्येति ज्ञानस्य विषयप्रकाशकत्वसिद्धिरिति भावः । **अत **इति । परप्रकाशकत्वेनैष्टव्यायाः संविद एव प्रमात्रवभासकत्वमपि युक्तमिति नात्मनः स्वयंप्रकाशत्वमपि कल्पनीयमिति भावः ।

स्वापेऽप्यात्मनो ज्ञानमस्तीति मतमनूद्य खण्डयति यत्तु इति । {त} दिति । सुखमहमस्वाप्समित्यादिप्रतिसन्धानस्य स्वापे आत्मप्रकाशमन्तरानुपपद्यमानत्वलक्षणयुक्तियुक्तमपि स्वपो आत्मनः प्रकाशमानत्वं नानुभवमात्रशरणानां हृद्यं भवतीत्यर्थः । उपपद्यमानमपीत्यपिनोपपत्तिरपि नैव । प्रतिसन्धानस्यान्यथैवोपपत्तेरिति स्फोर्यते । अन्यथासिद्धिरग्रे प्रपञ्चयिष्यते

मूल एव ।

विश्वास-प्रस्तुतिः

अपवृक्तस्य तु ज्ञानं हेत्वभावान्न संभवि ।
नित्यत्वे नित्यमुक्तिः स्यादर्थवादास्तथोक्तयः ॥१८ ॥
निर्धूतनिखिलकरणकलेवरज्ञानकर्मवासनानुबन्धस्यापवृक्तस्य न खलु स्वपरसंवेदनोदयनिबन्धनं किञ्चित्सम्भाव्यते । नच मनसो नित्येन्द्रियत्वेन तत्संयोगादेव तदा ज्ञानं जन्यत इति युक्तम्; स्वरूपतो गगनवत्नित्यस्यापि सतस्तस्येन्द्रियभावेन ज्ञानोत्पादकत्वस्य धर्माधर्मावरोधनिबन्धनत्वात् ।

मूलम्

अपवृक्तस्य तु ज्ञानं हेत्वभावान्न संभवि ।
नित्यत्वे नित्यमुक्तिः स्यादर्थवादास्तथोक्तयः ॥१८ ॥
निर्धूतनिखिलकरणकलेवरज्ञानकर्मवासनानुबन्धस्यापवृक्तस्य न खलु स्वपरसंवेदनोदयनिबन्धनं किञ्चित्सम्भाव्यते । नच मनसो नित्येन्द्रियत्वेन तत्संयोगादेव तदा ज्ञानं जन्यत इति युक्तम्; स्वरूपतो गगनवत्नित्यस्यापि सतस्तस्येन्द्रियभावेन ज्ञानोत्पादकत्वस्य धर्माधर्मावरोधनिबन्धनत्वात् ।

स्वाप आत्मनः प्रकाशं निषिध्य मुक्तावपि तं निषेधति अपवृक्तस्ये ति । अपवृक्तस्यमुक्तस्य । मुक्तज्ञानस्य नित्यत्वमस्त्विति चेत्तत्राह नित्यत्वे इति । संसरणाभावप्रसङ्गः फलितोऽत्र । ननु तर्हि मुक्तौ सार्वज्ञ्यपरश्रुतीनां का गतिः? तत्राह अर्थवादा इति । अज्ञानाकार्याभावनिमित्तका मोक्षसाधनप्रशंसापराः सार्वज्ञ्यादिश्रुतय इत्यर्थः ॥१८ ॥

श्लोकार्थमेव प्रपञ्चयति निर्धूते त्यादिना । ज्ञानवासना, कर्मवासना चानुबन्धः । निरस्तसमस्तदेहेन्द्रियवासनानुबन्धस्येत्यर्थः । स्वपरे ति । स्वस्वरूपविषयकस्यार्ऽथान्तरविषयकस्य वा ज्ञानस्योत्पादकमित्यर्थः । धर्माधर्मे ति । अदृष्टसहकाराधीनत्वादित्यर्थः ।

विश्वास-प्रस्तुतिः

धर्माधर्मावरुद्धं सन्मनो ज्ञानस्य साधनं ।
सति नित्येन्द्रियत्वेऽपि श्रोत्रवत्करणत्वतः ॥१९ ॥
नच योगजधर्मानुगृहीततत्संयोगस्य साधनत्वम;ऽक्षीयन्ते चास्य कर्माणिऽऽतदा विद्वान्पुण्यपापे विधूय निरञ्जनःऽ इत्यादिशुक्लेतरसकलकर्मप्रक्षयश्रुतिविरोधात् । धर्मफलत्वे चापवर्गस्य पुनरावृत्तिप्रसङ्गः ।ऽनास्त्यकृतः कृतेनऽऽतद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयतेऽ इत्यादिश्रवणाच्च । न चात्मसत्तयैव तदानीं तज्ज्ञाननिमित्तमिति वाच्यं । क्लप्तत्यागाक्लप्तकल्पनप्रसक्तेः । तन्मात्रनिमित्तत्वे च सर्वदा आत्मस्वरूपवत्तदपि विद्यत इति संसारानवतारप्रसङ्गात्, बन्धमोक्षावस्थयोरविशेषापत्तेश्च । न च देहेन्द्रियादिप्रतिबद्धतया इदानीं तदभाव इति वाच्यं । तत्खलु प्रतिबन्धकम्, यत्सति पुष्कलकारणे कार्योदयं निरुणद्धि । न चाद्याप्यात्मनः तत्पुष्कलकारणत्वं सिद्धम्; शरीरेन्द्रियवतामेव ज्ञानदर्शनात् । क्लप्तज्ञानकारणभावस्य तस्यैव तद्बन्धकत्ववचनमुन्मत्तवचः । अतो नास्त्यपवर्गदशायां ज्ञानं ।
तात्कालिकज्ञानसुखादिवादास्त्वात्मज्ञानविधिशेषतया गुणवादेन नेतव्याः । अतो विषयवित्तिसमय एवात्मसिद्धिनियमाद्यथोक्तनीत्या अर्थवित्तिषु वेदितृतयैवात्मसिद्धिरिति ।

मूलम्

धर्माधर्मावरुद्धं सन्मनो ज्ञानस्य साधनं ।
सति नित्येन्द्रियत्वेऽपि श्रोत्रवत्करणत्वतः ॥१९ ॥
नच योगजधर्मानुगृहीततत्संयोगस्य साधनत्वम;ऽक्षीयन्ते चास्य कर्माणिऽऽतदा विद्वान्पुण्यपापे विधूय निरञ्जनःऽ इत्यादिशुक्लेतरसकलकर्मप्रक्षयश्रुतिविरोधात् । धर्मफलत्वे चापवर्गस्य पुनरावृत्तिप्रसङ्गः ।ऽनास्त्यकृतः कृतेनऽऽतद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयतेऽ इत्यादिश्रवणाच्च । न चात्मसत्तयैव तदानीं तज्ज्ञाननिमित्तमिति वाच्यं । क्लप्तत्यागाक्लप्तकल्पनप्रसक्तेः । तन्मात्रनिमित्तत्वे च सर्वदा आत्मस्वरूपवत्तदपि विद्यत इति संसारानवतारप्रसङ्गात्, बन्धमोक्षावस्थयोरविशेषापत्तेश्च । न च देहेन्द्रियादिप्रतिबद्धतया इदानीं तदभाव इति वाच्यं । तत्खलु प्रतिबन्धकम्, यत्सति पुष्कलकारणे कार्योदयं निरुणद्धि । न चाद्याप्यात्मनः तत्पुष्कलकारणत्वं सिद्धम्; शरीरेन्द्रियवतामेव ज्ञानदर्शनात् । क्लप्तज्ञानकारणभावस्य तस्यैव तद्बन्धकत्ववचनमुन्मत्तवचः । अतो नास्त्यपवर्गदशायां ज्ञानं ।
तात्कालिकज्ञानसुखादिवादास्त्वात्मज्ञानविधिशेषतया गुणवादेन नेतव्याः । अतो विषयवित्तिसमय एवात्मसिद्धिनियमाद्यथोक्तनीत्या अर्थवित्तिषु वेदितृतयैवात्मसिद्धिरिति ।

(इति विषयवित्तिकालेष्वेवात्मनो भानमिति गुरुमतोपपादनम्)

विश्वास-प्रस्तुतिः

इदमप्यात्मतत्त्वापरिज्ञानोल्लसितपरिमितमतिविकल्पजल्पितमिति न रोचयन्ते त्रय्यन्तविदः । विषयवित्तिर्हि विषयवित्तिरेव । न हि तया आत्मवित्तिः स्वरूपं वा सेद्धुमर्हति, अतद्विषयत्वात् । यो हि यत्संविद्विषयो न भवति, नासौ तया सिध्यति रूपसंविदेवरसः । अविषयौ च विषयवित्तेर्बुद्धिबोद्धाराविति तावपि न तया सिध्यतः ।
ननु वेद्यस्वभावोऽयम्, यत्स्वविषयसंविदा सिध्यतीति । वित्तिस्तु वित्तिरेव, वेदिता च वेदितैवेति कुतस्तयोर्वेद्यस्वभावानुप्रवेशः । उक्तं हि तयोर्मानसप्रत्यक्षगोचरत्वम्, अनुमेयत्वासम्भवश्च । कुतस्तर्हि वित्तिसिद्धिः? स्वत एव । स्वयंप्रकाशा हि संवित् ।
मैवं । सापि हि विषयवदेवान्यस्यैव प्रकाशमानतया न स्वतःसिध्यति । स्वतःसिध्यन्ती च सा किमिति कञ्चिदेव प्रति चकास्ति, न सर्वान्प्रति । तत्समवायादिति चेत्यत्समवायिनी हि या संवित्तस्यैव सा चकास्ति, नेतरस्य, तदसमवायादिति; यद्येवम्, आश्रितस्तर्हि आत्मसंबन्धनिबन्धन एव संविदः प्रकाशः, तद्भावाभावानुविधिनात् । यद्युच्येतप्रकाशस्वभावाया एव सत्याः प्रतियोगिविशेषावच्छेदायैव तदपेक्षा, न स्वरूपसिद्धय इति; कुतः खल्वयं निश्चयः? यदि हि प्रतियोगिनिरपेक्षैव कदाचिदात्मस्वरूपमिव संवित्प्रकाशेत, तत एवमध्यवस्येमापि । न च तथास्ति । आश्रयप्रतियोगिसापेक्षैव संयोगपुत्रत्वादेरिव तस्याः स्वरूपसत्तेति न पृथक्सिद्ध्युत्प्रेक्षावकाशः । सत्याः संविदः प्रकाशव्यभिचाराभावात्स्वरूपप्रयुक्तः प्रकाश इति चेत्, सत्याः किं तस्या आत्मसंबन्धव्यभिचारोऽस्ति? । अपि चैवं सुखदुःखादयोऽपि त्वन्मते स्वतःसिद्धाःस्युः । न हि तेऽपि सन्तो न प्रकाशन्ते ।
अथार्थान्तरसाधकतया सर्ववादिसंमतायाः संविद एव परं स्वयंप्रकाशत्वमाश्रितं । तयैव तथाभूतया तदितरबाह्याभ्यन्तरसकलपदार्थसिद्ध्युपपत्तेः किमनेकस्व
यंप्रकाशभावाभ्युपगमेनेति भावः?

मूलम्

इदमप्यात्मतत्त्वापरिज्ञानोल्लसितपरिमितमतिविकल्पजल्पितमिति न रोचयन्ते त्रय्यन्तविदः । विषयवित्तिर्हि विषयवित्तिरेव । न हि तया आत्मवित्तिः स्वरूपं वा सेद्धुमर्हति, अतद्विषयत्वात् । यो हि यत्संविद्विषयो न भवति, नासौ तया सिध्यति रूपसंविदेवरसः । अविषयौ च विषयवित्तेर्बुद्धिबोद्धाराविति तावपि न तया सिध्यतः ।
ननु वेद्यस्वभावोऽयम्, यत्स्वविषयसंविदा सिध्यतीति । वित्तिस्तु वित्तिरेव, वेदिता च वेदितैवेति कुतस्तयोर्वेद्यस्वभावानुप्रवेशः । उक्तं हि तयोर्मानसप्रत्यक्षगोचरत्वम्, अनुमेयत्वासम्भवश्च । कुतस्तर्हि वित्तिसिद्धिः? स्वत एव । स्वयंप्रकाशा हि संवित् ।
मैवं । सापि हि विषयवदेवान्यस्यैव प्रकाशमानतया न स्वतःसिध्यति । स्वतःसिध्यन्ती च सा किमिति कञ्चिदेव प्रति चकास्ति, न सर्वान्प्रति । तत्समवायादिति चेत्यत्समवायिनी हि या संवित्तस्यैव सा चकास्ति, नेतरस्य, तदसमवायादिति; यद्येवम्, आश्रितस्तर्हि आत्मसंबन्धनिबन्धन एव संविदः प्रकाशः, तद्भावाभावानुविधिनात् । यद्युच्येतप्रकाशस्वभावाया एव सत्याः प्रतियोगिविशेषावच्छेदायैव तदपेक्षा, न स्वरूपसिद्धय इति; कुतः खल्वयं निश्चयः? यदि हि प्रतियोगिनिरपेक्षैव कदाचिदात्मस्वरूपमिव संवित्प्रकाशेत, तत एवमध्यवस्येमापि । न च तथास्ति । आश्रयप्रतियोगिसापेक्षैव संयोगपुत्रत्वादेरिव तस्याः स्वरूपसत्तेति न पृथक्सिद्ध्युत्प्रेक्षावकाशः । सत्याः संविदः प्रकाशव्यभिचाराभावात्स्वरूपप्रयुक्तः प्रकाश इति चेत्, सत्याः किं तस्या आत्मसंबन्धव्यभिचारोऽस्ति? । अपि चैवं सुखदुःखादयोऽपि त्वन्मते स्वतःसिद्धाःस्युः । न हि तेऽपि सन्तो न प्रकाशन्ते ।
अथार्थान्तरसाधकतया सर्ववादिसंमतायाः संविद एव परं स्वयंप्रकाशत्वमाश्रितं । तयैव तथाभूतया तदितरबाह्याभ्यन्तरसकलपदार्थसिद्ध्युपपत्तेः किमनेकस्व
यंप्रकाशभावाभ्युपगमेनेति भावः?

एतदेवोपपादयति धर्माधर्मे तिकारिकया । धर्माधर्मावरूद्धम्पुण्यपापलक्षणादृष्टनिबन्धनोपकरणत्वावस्थाविशिष्टं । श्रोत्रव दिति । कर्णशष्कुल्यवच्छिन्नाकाशस्यैव श्रोत्रत्वं । तस्य चादृष्टसहकारे सत्येव शब्दग्रहकरणत्वम्, न तद्विरहे इति यथादृष्टनिबन्धनः श्रोत्रस्येन्द्रिय भावः तथेति यावत् । तथा चादृष्टविरहान्मुक्तौ मनसो नेन्द्रियत्वमिति भावः ॥१९ ॥

शङ्कते न च योगजे ति ** ।}* मनस्संयोगस्य योगजधर्मानुगृहीतत्वम्योगजधर्मसहकृतत्वं । योगजधर्मप्रभावान्मुक्तावपि मनस इन्द्रियभावोऽनुवर्तत इति मानसमात्मज्ञानं तदा सम्भवतीति भावः । मुक्तौ योगजधर्मानुवृत्तौ श्रुतिविरोधमाह {क्षीयन्ते* इति । शुक्लेतरेति । पुण्यपापरूपेत्यर्थः । ननु

श्रुतेर्योगजधर्मव्यतिरिक्तसकलकर्मनिवृत्त्यभिप्रायकत्वमिति चेत्तत्राह धर्मफलत्वे चे ति । मोक्षकाले ज्ञानस्यात्मविषयकस्य सर्वविषयकस्य वा धर्मजन्यत्वे जन्यभावस्य विनाशित्वनियमात्पुनरज्ञानादिप्रसङ्ग इत्यर्थः । कर्मफलस्यानित्यत्वे श्रुतिमुदाहरति नास्त्यकृतइति । ननु मोक्ष आत्मैव ज्ञानहेतुरस्तु । तत्राह न चात्मे ति । आत्मा सत्तयैव मूलपाठः स्याद्वा । क्ल्प्ते ति । ज्ञानकारणतयाभिमतस्येन्द्रियादेः त्यागः, अक्ल्प्तस्यैव केवलस्यात्मनः ज्ञानकारणत्वेन कल्पनं च प्रसज्यत इत्यर्थः । दोषान्तरमप्याह तन्मात्रे ति । आत्मस्वरूपमात्रनिमित्तत्वे मुक्तिकालीनस्य ज्ञानस्य सर्वदैव तत्भवेदिति संसारानवतारप्रसङ्गः, ज्ञानस्याज्ञानतन्मूलसंसरणप्रतिबन्धकत्वादिति भावः । विशदतत्त्वसाक्षात्काररूपज्ञानभावेऽपि संसारोपगमे च दोषमाह बन्धे ति । मुक्तिकालज्ञानस्य संसारकालेऽपि सत्त्वे संसारापेक्षया मोक्षे वैलक्षण्यं न स्यादित्यर्थः । ननु दुःखध्वंसादिरेव मोक्षेविशेष इति चेत्, तर्हि तावन्मात्रमेव भवेन्मोक्ष इति कृतं ज्ञानादिनापार्थेनेति भावः । आत्मनो मुक्तिकालीनज्ञाने हेतुभूतस्य नित्यत्वेऽपि न संसारे तत्प्रसङ्गः । देहादेः प्रतिबन्धकत्वादिति शङ्कते न चे ति । परिहरति तत्खलु इति । प्रतिबन्धकत्वस्यासम्भवमुपपाद्य तत्र विरोधमप्याह क्ल्प्तज्ञाने ति । तस्यैवदेहेन्द्रियादेरेव । अर्थवादास्तथोक्तय इत्युक्तं विवृणोति तात्कालिके ति । दुःखनिवृत्तिपरा मुक्तौ सुखवादाः, ज्ञानप्रागभावनास्तिताभिप्रायकाश्च ज्ञानवादाः । ते चात्मज्ञानप्रशंसामात्रपरास्तद्विधिशेषभूता एवेत्यर्थः । प्राभाकरमतोपसंहारः

**अत **इति । यथोक्तनीत्याविषयप्रकाशकस्य ज्ञानस्यैव स्वस्वाश्रयप्रकाशकत्वं न्याय्यमित्युक्तनीत्या ।

प्राभाकरमतं प्रतिक्षिपति सिद्धान्ती इदमप्यात्मे त्यादिना । आत्मतत्त्वाज्ञानकार्या

आत्मप्रकारेष्वयथाप्रतिपत्तिभेदा येषां, तेषामिदं निरर्थकं वचनमित्यर्थः । कथं निरर्थकत्वं गुरुक्तेः? तत्राह विषये ति । न ही ति । आत्मवित्तिःआत्मधर्मभूतं ज्ञानं । स्वरूपमात्मस्वरूपं । अत्र आत्मा वित्तिस्वरूपं वा इति पाठः स्याद्वा । सेद्धुम्प्रकाशितुं । अतद्विषयत्वात्विषयवित्तिविषयत्वाभावात्तयोः ।

अविषययोरपि ज्ञानज्ञात्रोर्ज्ञानबलत एव सिद्धिरिति शङ्कते गुरुः ननु वेद्ये ति । वित्तिरेव, न तु वित्तिविषयः, विषयवज्जडा वा । वेदितैव, न तु वेद्यः, वेद्यवदज्ञाता वा । तथा च विलक्षणस्वभावत्वाद्भावानामविषययोरपि तयोः सिद्धिर्ज्ञावबलतः सेत्स्यतीत्यविषयत्वेनासिद्धिर्विषयवत्तयोर्दुर्भणमिति भावः । ननु ज्ञानान्तरविषयत्वेनैव तयोः प्रकाशोऽस्त्वित्यत्राह उक्तं ही ति । स्वबलत एव वित्तेः सिद्धिं शङ्कासमाधानमुखेनाह कुतइति । स्वत एवे ति । विषयज्ञानकालेऽविषयस्यापि तस्य ज्ञानस्य प्रकाशो भवतीत्यनायत्या स्वीकरणीयम्, तदाश्रयत्वेनात्मनश्चेति हार्दं ।

तत्र स्वप्रकाशत्वमाक्षिपति गुरूक्तं संविदः सिद्धान्ती मैव मित्यादिना । स्वाश्रयात्माधीनप्रकाशत्वादेव तस्मा एव प्रकाशमानत्वं संविदो घटत इति स्वतःसिद्धत्वासिद्धिरिति भावः । अत्र परः परिहारं शङ्कते तत्समवायादिति चे दिति । स्वयमेव स्वोक्तिं विवृणोति यत्समवायिनी ति । स्वयंप्रकाशापि संविदात्मापृथक्सिद्धत्वादात्मन एव प्रकाशत इति भावः । प्रतिक्षिपत्याक्षेप्ता यद्येवम् इति । तद्भावे ति । आत्मसंबन्धान्वयव्यतिरेकानुविधाय्यन्वयव्यतिरेकत्वात्संवित्प्रकाशस्याऽत्मसंबन्धहेतुकत्वं सिध्यतीत्यर्थः । पुनः परः शङ्कते यद्युच्येते ति । प्रतियोगीविषयः, स एव विशेषःविशेषणम्, तदवच्छेदायैवतत्संबन्धायैव, विषयप्रकाशकत्वायैवेति यावत् । तदपेक्षाआत्मसंबन्धापेक्षा । न तु स्वप्रकाशायेत्यर्थः । परिहरति **कुतः ।**एवं निश्चयो न संभवतीति यावत् । निश्चयासंभवमेवोपपादयति यदि ही ति । प्रतियोगिनिरपेक्षैव विषयनिरपेक्षैव । एवम्विषयप्रकाशनायैवात्मसंबन्धापेक्षा संविदो न स्वप्रकाशं प्रतीत्येवं । न च तथे ति । विषयप्रकाशकाल एव स्वाश्रयायैव प्रकाशमानायाः संविदः स्वप्रकाशे विषयात्मसंबन्धसापेक्षत्वमेषितव्यमिति भावः । अतीतादिविषयज्ञानेऽपि विषयेण संबन्धो ज्ञानस्य विषयविषयिभावलक्षणो विलक्षणः स्वरूपसंबन्धविशेषो

ऽस्त्येवेति हार्दं । ननु निर्विषया निराश्रया च संवित् । अन्तःकरणतद्वृत्त्युपधानौपाधिकं केवलं तस्याः साश्रयत्वादिप्रतीतिमात्रमित्यत्राह आश्रये ति । भूतले घटसंयोगस्याश्रयो भूतलम्, प्रतियोगी

घटः । पुत्रत्वस्याऽश्रयः पुत्रः, प्रतियोगी पिता । ज्ञानस्य प्रतियोगी विषयः, आत्माऽश्रयः । सिद्धिःस्थितिः प्रकाशश्च । निर्विषयत्वेन निराश्रयत्वेन च स्थितिः प्रकाशो वा संविदो नास्त्येव । संविन्मात्रानुभवश्चानुपलम्भबाधितः । तथा च संवित्प्रकाशे आत्मसंबन्धापेक्षापि दुर्वारैवेति भावः । स्वसत्ताव्यापकप्रकाशत्वेन स्वप्रकाशत्वं स्यात्संविद इति पुनः शङ्कते सत्या इति । परिहरति सत्या इति । तदा चात्मसम्बन्धस्य नियतपूर्वभावित्वादपेक्षितत्वाच्च संवित्प्रकाशे हेतुत्वमेष्टव्यमेवेति भावः । निरुक्तहेतुना स्वयंप्रकाशत्वसाधने दोषं चाह अपि चैवम् इति सुखादिष्वनैकान्त्यं हेतोरिति भावः ।

विश्वास-प्रस्तुतिः

तथा सति
सर्वस्यार्थस्य तद्वित्तेः साक्षी सर्वत्र संमतः ।
आत्मैवास्तु स्वतःसिद्धः किमनेकैस्तथाविधैः ॥२० ॥
किञ्च यो यस्य साक्षी तेनैव तस्य सिद्धिर्न लौकिकी ।
अर्थस्येवार्थवित्तेरप्यात्मा साक्षी हि लक्ष्यते ॥२१ ॥
सन्तु नामार्थवित्तयः स्वतःसिद्धाः,तथापि न ताभिरयमात्मा प्रत्यक्षीभवति, तत्साक्षित्वात् । यत्साक्षी खल्वयं पुरुषः, न तेनासौ प्रत्यक्षः, घटसाक्षात्कारीव घटेन । अर्थसंविदां च साक्षात्कारी चेतन इति सोऽपि न ताभिरपरोक्षीभवति ।

मूलम्

तथा सति
सर्वस्यार्थस्य तद्वित्तेः साक्षी सर्वत्र संमतः ।
आत्मैवास्तु स्वतःसिद्धः किमनेकैस्तथाविधैः ॥२० ॥
किञ्च यो यस्य साक्षी तेनैव तस्य सिद्धिर्न लौकिकी ।
अर्थस्येवार्थवित्तेरप्यात्मा साक्षी हि लक्ष्यते ॥२१ ॥
सन्तु नामार्थवित्तयः स्वतःसिद्धाः,तथापि न ताभिरयमात्मा प्रत्यक्षीभवति, तत्साक्षित्वात् । यत्साक्षी खल्वयं पुरुषः, न तेनासौ प्रत्यक्षः, घटसाक्षात्कारीव घटेन । अर्थसंविदां च साक्षात्कारी चेतन इति सोऽपि न ताभिरपरोक्षीभवति ।

(इति सिद्धान्तिना गुरुमतखण्डनम्)

ननु विषयसंबन्धस्येवात्मसंबन्धस्यापि संवित्प्रकाशेऽस्तु हेतुत्वं । तावता न स्वयंप्रकाशत्वस्य हानिः । स्वसजातीयज्ञानान्तरानपेक्षप्रकाशत्वात्तत्सिद्धेः । आत्मनस्तु न स्वयंप्रकाशत्वमेष्टव्यं विषयस्येव । किन्तु बाह्यार्थप्रकाशकत्वेनेष्टस्य ज्ञानस्यैवाऽत्मप्रकाशकत्वमपि कल्पनीयं लाघवादिति पुनः शङ्कते गुरुः अथार्थान्तरे ति । परिहरति तथासती ति ।

सर्वस्ये ति । नानास्वयंप्रकाशकल्पनायां गौरवे सति सर्वार्थानां सर्वज्ञानानां च साक्षात्कर्तुरात्मन एव स्वप्रकाशत्वं कल्पनीयं । नतु ज्ञानानामित्यर्थः । विषयाणामिव ज्ञानानामप्यात्मने प्रकाशमानत्वादात्मैकः स्वप्रकाशो भवतु । अन्ये सर्वे भवन्तु तदधीनप्रकाशा एवेति भावः ॥२० ॥

एवं संविदोप्यात्मायत्तप्रकाशत्वान्न मुख्यं स्वप्रकाशत्वमित्युक्तं । ज्ञानान्तरानपेक्षप्रकाशत्वेन भवतु नाम ज्ञानस्य तत्कथञ्चित् । अथापि न ज्ञानाधीनप्रकाश आत्मेत्याह

किञ्चे ति । यो} {यस्ये ति । साक्षीद्रष्टा, प्रकाशकः । सिद्धिः प्रकाशः । न लौकिकीनानुभवसिद्धा । लक्ष्यतेदृश्यते ॥२१ ॥

श्लोकं व्याख्याति स्वयमेव सन्तु नामे ति । उक्तनीत्या संवित्त आत्मप्रकाशानुपपत्तेस्स्वयंप्रकाशत्वमात्मन एष्टव्यमेवेति भावः ।

विश्वास-प्रस्तुतिः

सजातीयस्वसाध्यार्थनिरपेक्षात्मसिद्धयः ।
सर्वे पदार्थास्तेनात्मा निरपेक्षस्वसिद्धिकः ॥२२ ॥
न हि कश्चित्पदार्थः स्वप्रकाशायासाधारणसजातीयार्थान्तरापेक्षो दृष्टः । न खलु घटः स्वसिद्धये घटान्तरमपेक्षते; अपेक्षते तु विजातीयमालोकादि । एवमालोकोऽपि प्रकाशमानो नालोकान्तरमपेक्षते; नापि स्वापेक्षप्रकाशं घटादिकमपेक्षते; अपेक्षते तु विजातीयमिन्द्रियं । एवमिन्द्रियमपि नेन्द्रियान्तरं स्वापेक्षप्रकाशमालोकादि घटं वापेक्षते; अपेक्षते तु विजातीयं संवेदनं । एवं संवेदनमपि संविदन्तरं स्वाधीनसिद्धिकमिन्द्रियादिकं वा नापेक्षते स्वसिद्धौ; अपेक्षते तु विजातीयं स्वाश्रयभूतं स्वतन्त्रमात्मानं । एवमात्माप्यात्मान्तरं स्वाधीनसिद्धि संविदिन्द्रियादिकमपि स्वापरोक्षे नापेक्षत इत्यनन्यापेक्षा ह्यात्मस्वरूपसिद्धिः ।

मूलम्

सजातीयस्वसाध्यार्थनिरपेक्षात्मसिद्धयः ।
सर्वे पदार्थास्तेनात्मा निरपेक्षस्वसिद्धिकः ॥२२ ॥
न हि कश्चित्पदार्थः स्वप्रकाशायासाधारणसजातीयार्थान्तरापेक्षो दृष्टः । न खलु घटः स्वसिद्धये घटान्तरमपेक्षते; अपेक्षते तु विजातीयमालोकादि । एवमालोकोऽपि प्रकाशमानो नालोकान्तरमपेक्षते; नापि स्वापेक्षप्रकाशं घटादिकमपेक्षते; अपेक्षते तु विजातीयमिन्द्रियं । एवमिन्द्रियमपि नेन्द्रियान्तरं स्वापेक्षप्रकाशमालोकादि घटं वापेक्षते; अपेक्षते तु विजातीयं संवेदनं । एवं संवेदनमपि संविदन्तरं स्वाधीनसिद्धिकमिन्द्रियादिकं वा नापेक्षते स्वसिद्धौ; अपेक्षते तु विजातीयं स्वाश्रयभूतं स्वतन्त्रमात्मानं । एवमात्माप्यात्मान्तरं स्वाधीनसिद्धि संविदिन्द्रियादिकमपि स्वापरोक्षे नापेक्षत इत्यनन्यापेक्षा ह्यात्मस्वरूपसिद्धिः ।

(इति सिद्धान्तिनाऽत्मनः स्वप्रकाशत्वसमर्थनम्)

संविदधीनप्रकाशत्वे बाधकमुक्त्वाऽत्मनः स्वप्रकाशत्वे साधकमप्याह सजातीये ति । सर्वे हि प्रकाशमानाः पदार्थाः सजातीयंस्वात्यन्तसजातीयम्, स्वसाध्यंस्वाधीनप्रकाशं चार्थमनपेक्ष्यैव प्रकाशमाना इति आत्मापि प्रकाशमान आत्मान्तरं स्वापेक्षप्रकाशं ज्ञानादिचानपेक्ष्यैव प्रकाशत इत्यनुमन्तव्यं । तथाच स्वयंप्रकाशत्वं तस्य फलतीति भावः ॥२२ ॥

श्लोकार्थस्य प्रपञ्चनं नहि कश्चि दित्यादि । अत्रायं निष्कर्षः स्वविषयकज्ञानान्तरानपेक्षप्रकाशत्वलक्षणं स्वयंप्रकाशत्वं ज्ञानात्मनोः समानं । स्वेतरसकलनिरपेक्षप्रकाशत्वलक्षणं तु तदात्मस्वरूपस्यैवेति ।

विश्वास-प्रस्तुतिः

अत्राहुरात्मतत्त्वज्ञाः स्वतश्चैतन्यमात्मनः ।
स्वरूपोपाधिधर्मत्वात्प्रकाश इव तेजसः ॥२४ ॥
चैतन्याश्रयतां मुक्त्वा स्वरूपं नान्यदात्मनः ।
यद्धि चैतन्यरहितं न तदात्मा घटादिवत् ॥२५ ॥
चितिशक्तया न चात्मत्वं मुक्तौ नाशप्रसङ्गतः ।
(बोधेनैवान्यतो भेदे व्यर्था तच्छक्तिकल्पना) ॥२६ ॥
बुद्धिसुखदुःखादिनिःशेषवैशेषिकात्मगुणात्यन्तिकोपरमलक्षणो हि मोक्षःकणभक्षाक्षचरणमते । न चात्यन्तलुप्तकार्यं वस्तु तत्कार्यजननशक्तमित्यत्र किञ्चित्प्रमाणं क्रमते । देहादिविशिष्टसंबन्धितया दृश्यमानसुखदुःखज्ञानादिकार्यं विशिष्टवर्तिनीमेवात्मोत्पादशक्तिं कल्पयति, धूम इवार्द्रेन्धनसंबन्धिनि धूमध्वजे स्वोत्पादनसामर्थ्यम्, व्रीह्यङ्कुर इव च सतुषतण्डुले । अपि च बोधे सत्येवात्मनोऽनात्मव्यवच्छेदे संभवति कृतं तच्छक्तयाश्रयणेन ।
न चैवं सति बोध एव परमात्मेति युक्तम्, तस्याऽश्रयप्रतियोगिसापेक्षस्वरूपत्वादात्मनश्च तद्विपरीतस्वभावत्वात्; साक्षाच्च चेतयितुरहमर्थस्य स्फुरणात्; अनुभवतर्कागमबलेन चितिमत आत्मभावस्यानन्तरमेव प्रपञ्चितत्वाच्च । नच चितिमात्रात्मवादेऽपि तस्यागन्तुकविषयसंबन्धे बोधत्वमध्यारोप्य बोद्धृत्वसमर्थनं साधीयः, संबन्धस्योभयनिष्ठतयार्ऽथस्यापि बोद्धृत्वप्रसङ्गात् । न च कार्यकारणभाववद्व्यवस्थित्वम्, तत्र जनिमतो जनयितुश्च परस्परापेक्षानियमलक्षणसंबन्धः । इहापि स एवेति चेन्न, अपेक्षाहेत्वभावात् । किमर्थमर्थः चैतन्यमपेक्षते, चैतन्यं वार्ऽथं । सिद्ध्यर्थमिति चेत्, कः सिद्ध्यर्थः? न तावदुत्पत्तिः, तस्या निर्ज्ञातनिमित्तान्तरत्वात् । घटादयो हि प्रसिद्धमृद्दण्डचक्रभ्रमणादिपर्याप्तनिमित्तान्तर शालिनो न चितिमपि निजजननेऽपेक्षन्ते । निरस्तश्च विज्ञानमात्रवादः । नित्यस्यात्मन उत्पत्त्यर्थमर्थापेक्षेति सुव्याहृतं । सिद्धिः प्रकाश इति चेत्; किं भोः आत्मा स्वयञ्ज्योतिरप्यर्थाधीनप्रकाशः? यदसौ तदर्थमर्थमपेक्षते । महनीयमिदमात्मवेदित्वं । प्रकाशश्च न संविदतिरेकी कश्चिदर्थधर्मः संभवतीत्यावेदितं । संभवन्नप्यसौ न चितिस्वरूपमात्रनिमित्तः, सर्वदा सर्वार्थप्रकाशप्रसङ्गात् । न हि सदा संनिहितसमग्रकारणं कार्यं कदाचिद्भवति । आगन्तुकातिशयाश्रयणे वा नामान्त
रेण ज्ञानमेवाङ्गीकृतमिति तद्वानेवात्माऽयातः ।

मूलम्

अत्राहुरात्मतत्त्वज्ञाः स्वतश्चैतन्यमात्मनः ।
स्वरूपोपाधिधर्मत्वात्प्रकाश इव तेजसः ॥२४ ॥
चैतन्याश्रयतां मुक्त्वा स्वरूपं नान्यदात्मनः ।
यद्धि चैतन्यरहितं न तदात्मा घटादिवत् ॥२५ ॥
चितिशक्तया न चात्मत्वं मुक्तौ नाशप्रसङ्गतः ।
(बोधेनैवान्यतो भेदे व्यर्था तच्छक्तिकल्पना) ॥२६ ॥
बुद्धिसुखदुःखादिनिःशेषवैशेषिकात्मगुणात्यन्तिकोपरमलक्षणो हि मोक्षःकणभक्षाक्षचरणमते । न चात्यन्तलुप्तकार्यं वस्तु तत्कार्यजननशक्तमित्यत्र किञ्चित्प्रमाणं क्रमते । देहादिविशिष्टसंबन्धितया दृश्यमानसुखदुःखज्ञानादिकार्यं विशिष्टवर्तिनीमेवात्मोत्पादशक्तिं कल्पयति, धूम इवार्द्रेन्धनसंबन्धिनि धूमध्वजे स्वोत्पादनसामर्थ्यम्, व्रीह्यङ्कुर इव च सतुषतण्डुले । अपि च बोधे सत्येवात्मनोऽनात्मव्यवच्छेदे संभवति कृतं तच्छक्तयाश्रयणेन ।
न चैवं सति बोध एव परमात्मेति युक्तम्, तस्याऽश्रयप्रतियोगिसापेक्षस्वरूपत्वादात्मनश्च तद्विपरीतस्वभावत्वात्; साक्षाच्च चेतयितुरहमर्थस्य स्फुरणात्; अनुभवतर्कागमबलेन चितिमत आत्मभावस्यानन्तरमेव प्रपञ्चितत्वाच्च । नच चितिमात्रात्मवादेऽपि तस्यागन्तुकविषयसंबन्धे बोधत्वमध्यारोप्य बोद्धृत्वसमर्थनं साधीयः, संबन्धस्योभयनिष्ठतयार्ऽथस्यापि बोद्धृत्वप्रसङ्गात् । न च कार्यकारणभाववद्व्यवस्थित्वम्, तत्र जनिमतो जनयितुश्च परस्परापेक्षानियमलक्षणसंबन्धः । इहापि स एवेति चेन्न, अपेक्षाहेत्वभावात् । किमर्थमर्थः चैतन्यमपेक्षते, चैतन्यं वार्ऽथं । सिद्ध्यर्थमिति चेत्, कः सिद्ध्यर्थः? न तावदुत्पत्तिः, तस्या निर्ज्ञातनिमित्तान्तरत्वात् । घटादयो हि प्रसिद्धमृद्दण्डचक्रभ्रमणादिपर्याप्तनिमित्तान्तर शालिनो न चितिमपि निजजननेऽपेक्षन्ते । निरस्तश्च विज्ञानमात्रवादः । नित्यस्यात्मन उत्पत्त्यर्थमर्थापेक्षेति सुव्याहृतं । सिद्धिः प्रकाश इति चेत्; किं भोः आत्मा स्वयञ्ज्योतिरप्यर्थाधीनप्रकाशः? यदसौ तदर्थमर्थमपेक्षते । महनीयमिदमात्मवेदित्वं । प्रकाशश्च न संविदतिरेकी कश्चिदर्थधर्मः संभवतीत्यावेदितं । संभवन्नप्यसौ न चितिस्वरूपमात्रनिमित्तः, सर्वदा सर्वार्थप्रकाशप्रसङ्गात् । न हि सदा संनिहितसमग्रकारणं कार्यं कदाचिद्भवति । आगन्तुकातिशयाश्रयणे वा नामान्त
रेण ज्ञानमेवाङ्गीकृतमिति तद्वानेवात्माऽयातः ।

(इति धर्मभूतज्ञानस्य नित्यत्वसाधनम्)

विश्वास-प्रस्तुतिः

नन्वेवमर्थसिद्धिव्यवस्थापकतयाभ्युपगतं ज्ञानमागन्तुकं क्रियारूपमिति कथं तदात्मस्वभावः ? । तथाहिअर्थान्तरगतत्वे सति जनकद्रव्यान्तर प्रति कार्यत्वादिकेन रूपेणासाधारणो गन्तव्यदेशप्राप्त्यादिर्यं प्रत्यसाधारणः तत्समवेतागन्तुकासाधारणगमनादिक्रियाजन्यो दृष्टः । तादृशी चार्थसिद्धिर्यं पुरुषं प्रत्यसाधारणी तत्समवेततादृशक्रियाजन्येति शक्यमनुमातुं । मैवं । अक्रियाजन्येनाभावप्राप्तक्षेत्रादिस्वत्वेन क्षेत्रिणं प्रत्यसाधारणेन क्षेत्रजव्रीह्यादिस्वत्वेन चानैकान्त्यात् । नच निर्व्यापारतया क्षेत्रिणस्तत्राजनकत्वम्; व्यापारकालादिना व्यभिचारात्, तद्भावभावित्वस्य चाविशेषात् । तज्जीवनमेव तत्र जनकव्यापार इति चेत्, ननु तत्सस्यपालनादिसाधारणमिति कथमसाधारणक्रियाजन्यत्वम्? अपि चैवं सति तदेवार्थप्रकाशेऽपि जनकव्यापारोऽस्तु; किमक्ल्प्तकल्पनया? । सत्यपि तस्मिन्नर्थो न प्रकाशत इति चेत्, स्वत्वं वा किं यथोदितं सति जीवने जायत एव ? । व्रीह्यादिसत्ताप्यपेक्ष्यत इति चेत्, इहापीन्द्रियादिप्रत्यासक्तिरिति समानश्चर्चः । अतो यं प्रत्यसाधारणो यथोदितधर्मः तदीयासाधारणधर्मनिमित्त इत्येतावत् । स चेष्यत एवात्मनश्चैतन्यं रवेरिव तेजस्वित्वं ।
न च हेतुभेदानुविधायितया, जानाभ्यज्ञासिषमित्यादिकालावच्छेदप्रतीतेर्गमनादेरिव ज्ञानस्यागन्तुकत्वमनुमेयम्; आदित्यप्रकाशेनानैकान्त्यात् । अस्ति हि तत्रापीमं देशमादित्यः प्रकाशयति प्राचीकशत्प्रकाशयिष्यतीति प्रतीतिः । स्वारसिकत्वेऽप्यादित्यप्रकाशस्य प्रकाश्यदेशसंबन्धकादाचित्कतया अवच्छेदप्रतीतिरुपपद्यत इति चेत्; इहापि तर्हीन्द्रियादिप्रत्यासत्तिसमासादितयोग्यभावोऽनुभाव्यभेदः स्वाभाविकमात्मनश्चैतन्यगुणमवच्छिनत्तीति तदपेक्षयैवेन्द्रियाद्यनुविधानमतीतानागतप्रत्युत्पन्नत्वप्रत्ययप्रयोगौ चोपपद्यन्ते ।
कथं पुनरत्र निर्णयः, मणिद्युमणिप्रकाशादेरिवौपाधिकोऽयं भेदः, न तु गमनपचनादेरिव स्वाभाविक इति ?
ताद्रूप्येणैव प्रत्यक्षत्वात् । न हि जातुचिदद्रूपोऽयमात्मा लोष्टादिवद्दष्टचरः । यश्च यद्गुणतयैव साक्षाद्भवति, स तत्स्वभावः,
मरुदिव स्पर्शगुणतयैवाध्यक्ष्यमाणः । यो यत्स्वभावो न भवति, न तद्विरहेणापि स्वरूपत उपलभ्यते, गमनादिरहिततयेव देवदत्तादिः ।
शरीरवदिति चेन्न, असिद्धत्वात् । स्यादेतत्यथैव ख्ल्वस्वभावभूतेनापि शरीरेण सध्रीचीन एवायं चेतनश्चकास्ति, तथा चैतन्येनापीति । तन्नैवम्, असिद्धत्वात् । न हि तनुविशिष्टतयैवायं चेतनः परिस्फुरति । योगिनां प्रणिहितमनसामुपरतबहिरिन्द्रियाणां च देहानुसन्धानविरहेणापि अहमिति स्फुटमनुभवात् । जानामीति प्रत्ययः शरीरवर्णसन्निवेशनिर्भासशून्यतया तत्त्वान्तरगोचर इति च प्रागेवावोचं । कर्मानुगुण्येन सुरमनुजादिजातीयतया भिद्यमानास्वागमापायिनीषु तनुषु मनस इवैकस्य वर्ष्मणः स्वभावानुबन्धित्वेनाश्रयितुमशक्यत्वात् । लिङ्गस्य पुनरनुवृत्तावपि अप्रत्यक्षत्वान्न व्यभिचारित्वं ।

मूलम्

नन्वेवमर्थसिद्धिव्यवस्थापकतयाभ्युपगतं ज्ञानमागन्तुकं क्रियारूपमिति कथं तदात्मस्वभावः ? । तथाहिअर्थान्तरगतत्वे सति जनकद्रव्यान्तर प्रति कार्यत्वादिकेन रूपेणासाधारणो गन्तव्यदेशप्राप्त्यादिर्यं प्रत्यसाधारणः तत्समवेतागन्तुकासाधारणगमनादिक्रियाजन्यो दृष्टः । तादृशी चार्थसिद्धिर्यं पुरुषं प्रत्यसाधारणी तत्समवेततादृशक्रियाजन्येति शक्यमनुमातुं । मैवं । अक्रियाजन्येनाभावप्राप्तक्षेत्रादिस्वत्वेन क्षेत्रिणं प्रत्यसाधारणेन क्षेत्रजव्रीह्यादिस्वत्वेन चानैकान्त्यात् । नच निर्व्यापारतया क्षेत्रिणस्तत्राजनकत्वम्; व्यापारकालादिना व्यभिचारात्, तद्भावभावित्वस्य चाविशेषात् । तज्जीवनमेव तत्र जनकव्यापार इति चेत्, ननु तत्सस्यपालनादिसाधारणमिति कथमसाधारणक्रियाजन्यत्वम्? अपि चैवं सति तदेवार्थप्रकाशेऽपि जनकव्यापारोऽस्तु; किमक्ल्प्तकल्पनया? । सत्यपि तस्मिन्नर्थो न प्रकाशत इति चेत्, स्वत्वं वा किं यथोदितं सति जीवने जायत एव ? । व्रीह्यादिसत्ताप्यपेक्ष्यत इति चेत्, इहापीन्द्रियादिप्रत्यासक्तिरिति समानश्चर्चः । अतो यं प्रत्यसाधारणो यथोदितधर्मः तदीयासाधारणधर्मनिमित्त इत्येतावत् । स चेष्यत एवात्मनश्चैतन्यं रवेरिव तेजस्वित्वं ।
न च हेतुभेदानुविधायितया, जानाभ्यज्ञासिषमित्यादिकालावच्छेदप्रतीतेर्गमनादेरिव ज्ञानस्यागन्तुकत्वमनुमेयम्; आदित्यप्रकाशेनानैकान्त्यात् । अस्ति हि तत्रापीमं देशमादित्यः प्रकाशयति प्राचीकशत्प्रकाशयिष्यतीति प्रतीतिः । स्वारसिकत्वेऽप्यादित्यप्रकाशस्य प्रकाश्यदेशसंबन्धकादाचित्कतया अवच्छेदप्रतीतिरुपपद्यत इति चेत्; इहापि तर्हीन्द्रियादिप्रत्यासत्तिसमासादितयोग्यभावोऽनुभाव्यभेदः स्वाभाविकमात्मनश्चैतन्यगुणमवच्छिनत्तीति तदपेक्षयैवेन्द्रियाद्यनुविधानमतीतानागतप्रत्युत्पन्नत्वप्रत्ययप्रयोगौ चोपपद्यन्ते ।
कथं पुनरत्र निर्णयः, मणिद्युमणिप्रकाशादेरिवौपाधिकोऽयं भेदः, न तु गमनपचनादेरिव स्वाभाविक इति ?
ताद्रूप्येणैव प्रत्यक्षत्वात् । न हि जातुचिदद्रूपोऽयमात्मा लोष्टादिवद्दष्टचरः । यश्च यद्गुणतयैव साक्षाद्भवति, स तत्स्वभावः,
मरुदिव स्पर्शगुणतयैवाध्यक्ष्यमाणः । यो यत्स्वभावो न भवति, न तद्विरहेणापि स्वरूपत उपलभ्यते, गमनादिरहिततयेव देवदत्तादिः ।
शरीरवदिति चेन्न, असिद्धत्वात् । स्यादेतत्यथैव ख्ल्वस्वभावभूतेनापि शरीरेण सध्रीचीन एवायं चेतनश्चकास्ति, तथा चैतन्येनापीति । तन्नैवम्, असिद्धत्वात् । न हि तनुविशिष्टतयैवायं चेतनः परिस्फुरति । योगिनां प्रणिहितमनसामुपरतबहिरिन्द्रियाणां च देहानुसन्धानविरहेणापि अहमिति स्फुटमनुभवात् । जानामीति प्रत्ययः शरीरवर्णसन्निवेशनिर्भासशून्यतया तत्त्वान्तरगोचर इति च प्रागेवावोचं । कर्मानुगुण्येन सुरमनुजादिजातीयतया भिद्यमानास्वागमापायिनीषु तनुषु मनस इवैकस्य वर्ष्मणः स्वभावानुबन्धित्वेनाश्रयितुमशक्यत्वात् । लिङ्गस्य पुनरनुवृत्तावपि अप्रत्यक्षत्वान्न व्यभिचारित्वं ।

(इति ज्ञानस्यात्मस्वभावत्वप्रतिष्ठापनम्)

विश्वास-प्रस्तुतिः

बोधस्वाभाव्ये पुंसः स्वापमूर्च्छयोः प्रकाशप्रसङ्ग इति चेन्न, विकल्पासहत्वात् । तथाहिप्रकाश इति पदार्थमात्रसाधारणं बोधजन्यं प्रकटतादिपदपर्यायं धर्ममभिप्रेत्य वायं प्रसङ्गः, अथ बोधमेव, तदविप्रकर्षं वा ? । आद्ये तदभावादेव न प्रसङ्गः । अभावश्च प्रकटित एव संवित्स्वतस्सिद्धिसमर्थनसमये । भावेऽपि तमःप्रतिबन्धादप्यनुदयः संभवी । इतरयोरभिमतमेवापादितमित्यदोषोद्भावनं । बोधस्वाभाव्ये हि पुरुषस्य स्वापादिदशासु च तथाभावोऽभिमत एवेति न हि तदापादनं दोषाय ।
अथ मतम्स्वापादावपि स्वानुभवसद्भावे जागर इव व्यवहारप्रसङ्ग इति; मैवम्, व्यवहारागोचरत्वात् । कः खल्वात्मनि व्यवहारः? न ह्यसावादातुं हातुमुपेक्षितुं वा शक्यः । व्याहारः प्रसज्यत इति चेत्, किमङ्ग! निर्विकल्पकबालमूकादिवेदनविषयो व्यवह्नियत एव? करणपाटवव्यवजिहीर्षादिसहकारिविरहात्तत्र व्याहारानुदय इति चेत्, समानोऽयं विधिरितरत्रापीति निरनुयोज्यानुयोगः ।
स्मृतिप्रसङ्ग इति चेन्न, अवृत्तित्वात् ।यद्युच्येतमूर्च्छादावात्मानुभवाभ्युपगमेर्ऽथान्तरानुभव इवैवमहमन्वभूवमिति परस्तात्स्मृतिः प्रसज्यत इति; तन्न, अवृतित्त्वात् । न हि मूर्च्छा प्रस्वापो वा बुद्धिवृत्तिविशेषो दर्शनस्पर्शनादिवत्, येन
स्मृतिबीजं संस्कारमादधीयातां । किन्तूद्भूतेन तमसोपरतव्यापारेषु करणेषु निर्वृत्तिकसांसिद्धिकबोधस्वरूपेणावस्थानमात्रमात्मनः । न च बोधस्वभावत्वादेवास्य संस्काराधायकत्वम्, अनवरतोपचीयमानसंस्कारतयानिर्मोक्षप्रसङ्गात् । अनुभवे च स्वानुरूपसंस्काराधाननिरुद्धे सदृशसंबन्धिदर्शनादिसमुद्बोधितनिजबीजानुसारेण स्मरणमुपजायते । न चेहात्मस्वरूपबोधस्य जातुचिन्निरोधो जन्म वा; नित्यात्मसत्ताप्रयुक्तत्वात् । निमित्तान्तराभावश्चानन्तरमेव व्याकरिष्यते? ।तदेवमनुवर्तमान एवानुभवे कथं स्मृतिरुदयमासादयेत्? । य एवाहं पूर्वेद्युरासं स एवाहमद्यापीति स्मृतिसंभिन्नप्रत्ययोऽपि कालावच्छिन्नस्वरूपगोचरः, न स्वरूपमात्रे । अविशदश्च स्वापादौ स्वानुभवो निर्विकल्पकश्च । पटीयसा सविकल्पकेनावगमेन स्मृतिबीजमाधीयत इति च कुतस्तत्प्रसङ्गः । साम्याच्चाननुभवाभिमानः शरीरतद्धारणप्रयत्नाननुसंधानवत् ।
न चाविकृतस्वाभाविकबोधमात्रेणावस्थाने स्वापमोक्षयोरविशेषापत्तिः; क्लेशवासनानां गुणाभिभवस्य चैकत्र भावात्, इतरत्र तदत्यन्तनिवृत्तेः । असंप्रज्ञातसमाधावपि परमवैराग्यशालिना पटुतरनिरोधसंस्कारेण चरिताधिकारिणा अपवर्गिणा विशेषः ।

मूलम्

बोधस्वाभाव्ये पुंसः स्वापमूर्च्छयोः प्रकाशप्रसङ्ग इति चेन्न, विकल्पासहत्वात् । तथाहिप्रकाश इति पदार्थमात्रसाधारणं बोधजन्यं प्रकटतादिपदपर्यायं धर्ममभिप्रेत्य वायं प्रसङ्गः, अथ बोधमेव, तदविप्रकर्षं वा ? । आद्ये तदभावादेव न प्रसङ्गः । अभावश्च प्रकटित एव संवित्स्वतस्सिद्धिसमर्थनसमये । भावेऽपि तमःप्रतिबन्धादप्यनुदयः संभवी । इतरयोरभिमतमेवापादितमित्यदोषोद्भावनं । बोधस्वाभाव्ये हि पुरुषस्य स्वापादिदशासु च तथाभावोऽभिमत एवेति न हि तदापादनं दोषाय ।
अथ मतम्स्वापादावपि स्वानुभवसद्भावे जागर इव व्यवहारप्रसङ्ग इति; मैवम्, व्यवहारागोचरत्वात् । कः खल्वात्मनि व्यवहारः? न ह्यसावादातुं हातुमुपेक्षितुं वा शक्यः । व्याहारः प्रसज्यत इति चेत्, किमङ्ग! निर्विकल्पकबालमूकादिवेदनविषयो व्यवह्नियत एव? करणपाटवव्यवजिहीर्षादिसहकारिविरहात्तत्र व्याहारानुदय इति चेत्, समानोऽयं विधिरितरत्रापीति निरनुयोज्यानुयोगः ।
स्मृतिप्रसङ्ग इति चेन्न, अवृत्तित्वात् ।यद्युच्येतमूर्च्छादावात्मानुभवाभ्युपगमेर्ऽथान्तरानुभव इवैवमहमन्वभूवमिति परस्तात्स्मृतिः प्रसज्यत इति; तन्न, अवृतित्त्वात् । न हि मूर्च्छा प्रस्वापो वा बुद्धिवृत्तिविशेषो दर्शनस्पर्शनादिवत्, येन
स्मृतिबीजं संस्कारमादधीयातां । किन्तूद्भूतेन तमसोपरतव्यापारेषु करणेषु निर्वृत्तिकसांसिद्धिकबोधस्वरूपेणावस्थानमात्रमात्मनः । न च बोधस्वभावत्वादेवास्य संस्काराधायकत्वम्, अनवरतोपचीयमानसंस्कारतयानिर्मोक्षप्रसङ्गात् । अनुभवे च स्वानुरूपसंस्काराधाननिरुद्धे सदृशसंबन्धिदर्शनादिसमुद्बोधितनिजबीजानुसारेण स्मरणमुपजायते । न चेहात्मस्वरूपबोधस्य जातुचिन्निरोधो जन्म वा; नित्यात्मसत्ताप्रयुक्तत्वात् । निमित्तान्तराभावश्चानन्तरमेव व्याकरिष्यते? ।तदेवमनुवर्तमान एवानुभवे कथं स्मृतिरुदयमासादयेत्? । य एवाहं पूर्वेद्युरासं स एवाहमद्यापीति स्मृतिसंभिन्नप्रत्ययोऽपि कालावच्छिन्नस्वरूपगोचरः, न स्वरूपमात्रे । अविशदश्च स्वापादौ स्वानुभवो निर्विकल्पकश्च । पटीयसा सविकल्पकेनावगमेन स्मृतिबीजमाधीयत इति च कुतस्तत्प्रसङ्गः । साम्याच्चाननुभवाभिमानः शरीरतद्धारणप्रयत्नाननुसंधानवत् ।
न चाविकृतस्वाभाविकबोधमात्रेणावस्थाने स्वापमोक्षयोरविशेषापत्तिः; क्लेशवासनानां गुणाभिभवस्य चैकत्र भावात्, इतरत्र तदत्यन्तनिवृत्तेः । असंप्रज्ञातसमाधावपि परमवैराग्यशालिना पटुतरनिरोधसंस्कारेण चरिताधिकारिणा अपवर्गिणा विशेषः ।

(इति ज्ञाननित्यत्वे प्रसक्ताक्षेपाणां परिहरणम्)

{कथं पुनर्निद्राया अवृत्तित्वे प्रबुद्धस्य प्रत्यवमर्शाः सुखमहमस्वाप्समित्याद्याः? न ह्यननुभूतगोचराः स्मृतयः संभवन्ति । सत्त्वसचिवसमुल्लसिततमोगुणानुभवभावितभावनायोनिः खलु सुखमहमस्वाप्सं, प्रसन्नं मे मनः, लघूनि मे गात्राणीति प्रत्यवमर्शः; रजस्तमस्समुद्रेके तु दुःखमहमस्वाप्सं, भ्रमत्यनवस्थितं मे चित्तमिति; सत्त्वरजसी त्वभिभूय नितान्तमुद्भूते तमसि गाढमूढं सुप्तोऽस्मि, गुरूणि मे गात्राणि, मुषितमिव मनः, मीलितमिव इति । सत्यमेवं । दत्तोत्तरं ह्येतत् । नैवामी वासनायोनयः प्रत्ययाः । अपि तु तात्कालिकशरीरेन्द्रियामनोवस्थाविशेषपर्यालोचननिमित्ता
आनुमानिका इति । एवंरूपा हीमेयतः प्रसन्नं मे मनः, सम्यगाहारपरिणामवशाल्लघूनि चाङ्गानि, अतः सुखमहमस्वाप्समिति । स्वापावस्थायां वा
इन्द्रियोपरमतारतम्यवशादविशदतात्कालिकतत्तदनुकूलप्रतिकूलविषयानुसन्धाननिबन्धनतयापि स्मरणमुपपद्यत इति न वृत्त्यन्तरत्वं निद्रायाः । कथं तर्हि पारमर्षं सूत्रं “अभावप्रत्ययालम्बना वृत्तिर्निद्रा}
” इति । निरोधपरत्वात्प्रकरणस्य न वृत्तिस्वरूपे तात्पर्यं विपर्ययवत् । नह्यतद्रूपप्रतिष्ठं मिथ्याज्ञानं किञ्चिदस्ति, सर्वसंविदामर्थाव्यभिचारात् । स चाधिकरणसिद्धः । साधयिष्यते चोपरिष्टात् । कैवल्यभागि यच्चित्तत्प्रत्यनीकतया निद्रादेर्निरोध्यत्वेनोपदेशः ।

(इति निद्राया वृत्तिरूपत्वनिषेधनम्)

विश्वास-प्रस्तुतिः

अस्तु वा पूर्वोक्तप्रमाणादिवृत्त्यभावकारणभूतप्रचिततमतमोगुणावलम्बना वृत्तिरेव निद्रा; सन्तु च प्रबुद्धप्रत्यवमर्शाश्च स्मरणानि; तथा सत्य(प्य) नवरतानुवृत्तबोधतया स्थितमेव पुंसो बोधस्वभावत्वं ।
आहबोधकारणानुवृत्त्यापि बोधानुवृत्तिरुपपद्यत इति कथं तथास्वाभाव्यनिश्चयः? इत्थं

मूलम्

अस्तु वा पूर्वोक्तप्रमाणादिवृत्त्यभावकारणभूतप्रचिततमतमोगुणावलम्बना वृत्तिरेव निद्रा; सन्तु च प्रबुद्धप्रत्यवमर्शाश्च स्मरणानि; तथा सत्य(प्य) नवरतानुवृत्तबोधतया स्थितमेव पुंसो बोधस्वभावत्वं ।
आहबोधकारणानुवृत्त्यापि बोधानुवृत्तिरुपपद्यत इति कथं तथास्वाभाव्यनिश्चयः? इत्थं

एवं विषयप्रकाशकादाचित्कत्वेनात्मनो धर्मभूतं ज्ञानमागन्तुकमेव । आत्मस्वरूपप्रकाशोऽपि न सर्वदा, किन्तु विषयज्ञानकाल एव ज्ञानतः, न स्वतः इति प्रत्यवस्थानप्रसङ्गे ज्ञानस्य नित्यत्वं तावद्व्यवस्थापयति अत्राहु रिति । आत्मस्वरूपप्रयुक्तं ज्ञानं । तच्चात्मनो नित्यत्वान्नित्यमेव । आत्मस्वरूपनिरूपकधर्मत्वाच्च ज्ञानस्य न ज्ञानरहितमात्मनः स्वरूपं व्यवतिष्टेत प्रकाशरहितमिव तेजः । अतो मुक्तावपि ज्ञानवत्त्वमुपेयम्, ज्ञानशून्यस्यानात्मत्वादिति श्लोकद्वयार्थः । ननु ज्ञानाभावेऽपि ज्ञानशक्तिमदात्मस्वरूपं मुक्तिकाल इत्यत्राह चितिशक्तये ति । लुप्तमुत्तरार्धमस्य । तत्स्थानेऽस्मदीयं पूरणं ( ) एतच्चिह्नान्तर्निवेशितं । नित्यस्य स्वरूपयोग्यत्वे फलावश्यंभावनियमाज्ज्ञानशक्तिमत्त्वे मुक्तस्य कदाचिज्ज्ञानमुदियात् । मुक्तौ कदापि ज्ञानस्यानुदयात्तच्छक्तिरपि तदा नष्टैवेति आत्मनाश एव प्रतिज्ञातो भवेत् । स्वरूपनिरूपकधर्मनिवृत्तौ स्वरूपनिवृत्तेरवश्यम्भावादित्यर्थः । ननु ज्ञानस्य ज्ञानशक्तेर्वा नात्मस्वरूपनिरूपकत्वं । किन्तु आगन्तुकमपि तदात्मन एवेष्यते धर्मभूतं न घटादेरित्यात्मनात्मव्यवस्थोपपद्यत इति चेत्; मैवं ज्ञानस्यात्मस्वरूपनिरूपकधर्मतायाः स्थापयिष्यमाणत्वात्, जडात्मवादस्य त्रय्यन्तविरुद्धत्वेन सद्भिरनादरणीयत्वाच्चेति हार्दं ॥२४ ॥२५ ॥२६ ॥

चितिशक्त्ये त्यादि विवृणोति बुद्धी त्यादिना । पाषाणकल्पस्य मुक्तात्मनोऽचिद्व्यावर्तकचिच्छक्तयाश्रयणं व्यर्थमित्याह अपि चे ति । लुप्तार्धविवरणं स्यादिदं ।

ननु नित्यत्वे ज्ञानस्याऽत्मत्वमपीष्यतां तस्यैवेति शङ्कामनूद्य परिहरति न चैवं सती ति । परम्वरं । तस्ये ति । विषयाश्रयसापेक्षस्य ज्ञानस्य तदनपेक्षस्वतन्त्रात्मस्वरूपत्वमयुक्तमित्यर्थः । किञ्च, कल्पनायामेव लाघवगौरवचर्चावसरः । नतु स्फुटप्रतिपन्ने बोद्ध्रात्मनीत्याह साक्षाच्चे ति । अहं जानामीति ज्ञात्रात्मप्रत्यक्षस्य भ्रमत्वमिति चेत्तत्राह अनुभवे ति । अनन्तरमेवाव्यवहितपूर्वमेव । ज्ञातुरात्मत्वसमर्थन इति यावत् । सत्प्रमाणतर्कानुग्रहात्ज्ञात्रात्मप्रत्यक्षस्याभ्रान्तित्वमेव संमन्तव्यमितिभावः । ननु चैतन्यमेवाऽत्मा । विषयसंबन्ध एव तस्य बोधो नाम । अतो बोद्धृत्वप्रतिपत्तिरात्मन उपपद्यत इति शङ्कते न च चितिमात्रे ति । विषयचैतन्यसंबन्धस्य बोधत्वाभिमतस्य संयोगरूपत्वे तस्य द्विष्ठत्वाद्विषयस्यापि बोद्धृत्वप्रसङ्ग इत्याह सम्बन्धस्ये ति । शङ्कते न च कार्ये ति । यथा कार्यकारणभावस्य हेतुहेतुमदुभयनिरूप्यत्वेऽपि हेतुहेतुमतोर्व्यवस्था इदमस्य कारणम्, इदं त्वस्य कार्यमिति, एवं चिद्विषयसंबन्धस्य विषयविषयिनिरूप्यत्वेऽपि बोद्धृबोध्यव्यवस्था घटत इति शङ्कितुराशयः । परिहरति तत्रे ति । यद्यपि कार्यस्य कारणस्य च संबन्धः कार्यकारणभावः कथ्यते । परं तु कार्यत्वं कारणनिरूपितं कार्यनिष्ठं स्वपूर्ववर्तिकारणापेक्षत्वलक्षणं स्वप्राक्कालावच्छेदेन कार्यव्यापककारणकत्वपर्यसायि, कारणत्वं च कार्यनिरूपितं कारणनिष्ठं स्वोत्तरभाविकार्यापेक्षत्वलक्षणं कार्यनियतप्राक्कालवर्तित्वपर्यवसायि भिन्नभिन्नमेव तत्र प्रविष्टं । अत्र

तु एक एवोभयसमवेतः संयोग इति व्यवस्थादुर्घटेत्यर्थः । यद्यपि संयोगस्योभयनिष्ठत्वेऽपि अनुयोगितासंबन्धेन तस्य चिन्निष्ठत्वाच्चित एव बोद्धृत्वम्, तत्प्रतियोगिनस्तु विषयस्य बोध्यत्वमिति व्यवस्था घटेत, अथापि न चिन्मात्रत्वमात्मनः, किन्तु चित्याश्रयत्वमपि श्रौतत्वादुपेयमेवेति ध्येयं । चिच्चेत्ययोरपि परस्परापेक्षानियमलक्षणा एव संबन्धोऽस्त्विति शङ्कते इहापी ति । परिहरति नापेक्षे ति । अपेक्षाया हेतुः प्रयोजनरूपोर्ऽथो नास्तीत्यर्थः । तस्यैव विवरणं किमर्थ मित्यादि । नन्वर्थानां वासनादोषाच्चैतन्य एव कल्पितत्वादधिष्ठानतया चितोऽपेक्षा स्यादेवेत्यत्राऽह निरस्तश्चे ति । एवमर्थस्योत्पत्तौ चिदपेक्षां प्रतिक्षिप्य चित

उत्पत्तावर्थापेक्षां प्रतिक्षिपति नित्यस्ये ति । नित्यचैतन्यस्यार्थापेक्षोत्पत्तिवचनं व्याहततरमिति भावः । तत्प्रकाशस्यार्थापेक्षां निरस्यति

किम् इति । महनीय मित्यादि सोपालम्भं । अनात्मवेत्तृत्वमेवैवं वक्तुः फलति । अर्थानां भासकस्यात्मज्योतिषः स्वयंप्राकाशत्वादिति भावः । नन्वस्तु प्रकाशेर्ऽथानां चिदपेक्षा । तत्राह प्रकाशश्चे ति । संविदेव प्रकाशः । तदर्थं संविदपेक्षा चेदात्माश्रय इति भावः । संविदतिरुक्तप्रकाशपक्षेऽप्याह संभवन्न् इति । चैतन्यमात्रापेक्षत्वेर्ऽथप्रकाशस्य नित्यत्वप्रसङ्ग इत्यर्थः । आगन्तुकधर्मवच्चिदपेक्षत्वे च तस्य ज्ञात्रात्मसिद्धिरप्रत्यहेत्याह आगन्तुकेति । आगन्तुकातिशयश्च स्वधर्मभूतज्ञानविकासरूप एव । तद्विशिष्टं ज्ञानं बोधः । तदाश्रय आत्मेति न बोधमात्रमात्मेति साम्प्रतमिति भावः ।

नन्वेवमात्मनो बोधस्वरूपत्ववद्बोधस्वभावत्वमपि न संभवति अनित्यस्य बोधस्य नित्यात्मस्वभावत्वायोगात् । अर्थिप्रकाशकादाचित्कत्वाय बोधकादाचित्कताया एव मन्तव्यत्वादिति शङ्कते नन्वेवम् इति । ज्ञानस्य क्रियात्वमागन्तुकत्वं च साधयितुं सामान्यव्याप्तिं शिक्षयति अर्थान्तरे ति । अर्थान्तरंग्रामादि । जनकद्रव्यान्तरंगन्ता । गन्तव्यदेशप्राप्तिर्ग्रामपुरुषसंयोगः । उभयनिष्ठोऽप्ययं पुरुषप्रवृत्तिमूलत्वेन पुरुषासाधारणः पुरुषनिष्ठागन्तुकगमनक्रियाजन्यो दृष्ट इत्यर्थः । तादधीन्यादिना तदसाधारणार्थान्तरनिष्ठधर्मत्वव्यापकं तन्निष्ठागन्तुकक्रियाजन्यत्वमिति फलितं । उदाहरणमुक्त्वोपनयनिगमने प्रदर्शयति तादृशी ति । प्रतिज्ञाहेतू अर्थसिद्धौ । अवयवत्रयप्रयोगो वा यथेच्छं । ज्ञेयनिष्ठश्च प्रकाशस्तत्तत्पुरुषासाधारणः तत्तत्पुरुषीयागन्तुकज्ञानक्रियाजन्यः सिषाधयिषितोऽत्र । व्याप्तिमेव दूषयति मैव मित्यादिना । अक्रिये ति । कुलपरम्परया प्राप्ते क्षेत्रादौ जन्मत एव स्वत्वं यस्य भागिनोऽन्यस्याभावात्, भावे वा दायतः; तत्र तदसाधारणेर्ऽथान्तरक्षेत्रादिस्वत्वे तन्निष्ठक्रियाजन्यत्वं नास्तीति व्यभिचार इत्यर्थः । अभावप्राप्तेत्यत्र भावप्राप्तेति स्वभावप्राप्तेति वान्यथा वा पाठः संभाव्यते । अन्यक्रियया दैवेन वा स्वक्षेत्रे पतितानां बीजानां प्ररूढानां स्वत्वे स्वासाधारणे स्वीयागन्तुकक्रियाजन्यत्वं नास्तीति व्यभिचारमपि प्रदर्शयति क्षेत्रिणम् इति । तद्भावे ति । यथा निर्व्यापारस्यापि व्यापारादेरन्वयव्यतिरेकाभ्यां कारणत्वम्, तथा क्षेत्रिणः सत्त्व एव

तन्निरूपितं क्षेत्रादिस्वत्वं सिध्यतीति तत्र तत एव निर्व्यापारस्यापि क्षेत्रिणो जनकत्वं सेत्स्यतीति भावः । ननु क्षेत्रिणो न निर्व्यापारत्वम्, किन्तु जीवनमेव व्यापार इति शङ्कते तज्जीवनमेवे ति । परिहरति ननु त दिति । क्षेत्रिणो जीवनं हि सस्यरक्षणादिसाधारणकारणं । न तु क्षेत्रादिस्वत्वेऽसाधारणकारणं । तथा

चासाधारणा गन्तुकक्रियाजन्यत्वानुमानेऽनैकान्त्यमेवेति भावः । ननु तद्व्यापारजन्यत्वमेव साध्यते । न त्वसाधारणक्रियाजन्यत्वं । नातो व्यभिचार इति चेत्तर्ह्यर्थान्तरमित्याह अपि चैवम् इति । तदेव बोद्धुर्जीवनमेव । किम् इति । आगन्तुकज्ञानकल्पनापार्थेति भावः । इहापी ति । इन्द्रियार्थसन्निकर्षादिसहकारिसम्पत्तौ बोद्धुर्जीवनमेवार्थप्रकाशे जनकमस्त्विति भावः । जीवनस्याप्युत्तरोत्तरकालसत्तालक्षणस्य न क्रियारूपत्वमिति न तद्व्यापारजन्यत्वमपि साध्यं । किन्तु तदसाधारणधर्मजन्यत्वमेवेत्युपसंहरति अत} इति । अस्त्वेवं । तावता भवतो लाभः कः? । तत्राह {स चेष्यत एवे ति । अस्मदनिष्टं साधयितुं प्रवृत्तस्य भवतोर्ऽथान्तरेण निग्रहणमेवास्माकं लाभ इति भावः । स्वभावप्राप्तक्षेत्रादिस्वत्वे व्यभिचारादेवागन्तुकधर्मजन्यत्वमपि न साधयितुं शक्यत इति चानुसन्धेयं ।

एवमर्थप्रकाशकादाचित्कत्वेन ज्ञानागन्तुकत्वसाधनं दूषितं । प्रकारान्तरेण च तत्साधनं दूषयितुमनुवदति न च हेतुभेदे ति । ज्ञानमागन्तुकं कालावच्छिन्नतया प्रतीतेः, गमनादिवत्, ज्ञानमिन्द्रियार्थसन्निकर्षादिजन्यं तद्भावाभावानुविधायिभावाभावत्वातिन्धनादिजन्यपाकादिवदिति प्रयोगद्वयमत्र गर्भितं । व्यभिचारेणैव दूषयति आदित्ये ति । स्वाभाविकस्याप्यादित्यप्रकाशस्य तत्तत्प्रकाश्यदेशसंबन्धस्य कालत्रयपरिच्छिन्नतया तद्विशिष्टविषयिणी कालपरिच्छिन्नत्वप्रतीतिः न प्रकाशस्वरूपस्य कादाचित्कत्वसाधिकेति शङ्कते स्वारसिकत्वेऽपी ति । स्वारसिकत्वम्स्वाभाविकत्वं । विशिष्टे विधिनिषेधौ विशेषणमुपसङ्कामतः सति विशेष्ये बाधे इति न्यायेन विशिष्टे कालावच्छेदप्रतीतिर्विशेषणे पर्यवस्यति । अनित्यत्वानुमानं च विशिष्टविषयम्, नतु स्वरूपमात्रविषयं । तथा च यद्रूपावच्छिन्नस्य कालावच्छेदप्रतीतिः तस्यानित्यत्वमेव स्वरूपमात्रस्य च न कालावच्छेदप्रतीतिरिति न व्यभिचार इति भावः । स्वरूपमात्रस्य कालावच्छेदप्रतीतिः पक्षेऽप्यसिद्धेति परिहरति इहापी ति । योग्यभावःप्रकाशयोग्यता । अवच्छिनत्तिकालावच्छिन्नत्वं यथा भवेत्तथा स्वसंबन्धेन विशिनष्टि चैतन्यमित्यर्थः । हेतुविशेषानुविधानस्याप्यन्यथासिद्धिमाह तदपेक्षयैवे ति । अर्थसंबन्धापेक्षयैवेत्यर्थः । तथा च प्रथमानुमानस्याप्रयोजकत्वमिति हार्दं ।

कालावच्छेदादेरौपाधिकत्वं स्वाभाविकत्वं तत्र तत्र दृष्टं । ज्ञाने तस्यौपाधिकत्वनिश्चय एकान्ततः कुत इति पुनः शङ्कते कथं पुन रिति । औपाधिकोऽयं

भेदःभूतभविष्यत्त्वादिभेदो ज्ञानस्य विषयसंबन्धौपाधिकः । ताद्रूप्येणैवे ति । ज्ञानस्य नित्यात्मस्वभावत्वान्नित्यत्वमिति तत्कालावच्छेदप्रतीतेरौपाधिकत्वं सुनिश्चेयमिति भावः । ज्ञानवत्त्वेनैव साक्षात्क्रियमाणत्वादात्मा ज्ञानस्वाभाव इत्यर्थः । साक्षात्कारो वृत्तिविशेषः । स चात्मनो ज्ञानवत्त्वेनैवेति यावत् । तेनात्मनः स्वरूपत एव प्रकाशमानस्य स्वापे ज्ञानवत्त्वेनाप्रकाशेऽपि न क्षतिः ।न चैवमपि अहं सुखी, अहं दुःखी, अहमिच्छामि, अहं द्विष्यामीत्यात्मनः साक्षात्कारे ज्ञानवत्त्वेनाप्रकाशादसिद्धत्वं हेतोरिति वाच्यम्; तत्राप्यहमिति अनुकूलप्रतिकूलविषयकज्ञानवत्त्वस्योल्लेखात्; सुखादेरपि ज्ञानावस्थाविशेषत्वाच्च । इच्छादिप्रत्यक्षकाले ज्ञानस्य स्वयंप्रकाशत्वादिच्छाद्यनुभववत्त्वेनाप्यात्मनो भानाच्च ज्ञानवत्त्वेनैवात्मन उपलम्भः सेत्स्यतीति चानुसन्धेयं । यद्यपि ज्ञानस्यात्मस्वभावत्वादौ श्रुतिरेव जागर्ति । अथापि युक्तिप्रधानत्वात्प्रकरणस्यास्य युक्तिरेवात्र निदर्शिता । शास्त्रं चाग्रे प्रदर्शयिष्यते । न ही ति । अचिद्रूपःचैतन्यानाश्रयः । शिष्टं स्पष्टं ।

अत्र शङ्कते शरीरवदिती ति । तद्वत्तयैवोपलभ्यमानत्वं न तत्स्वभावकत्वव्याप्यं । शरीरवत्तयैवोपलभ्यमानस्याप्यात्मनः शरीरस्वभावकत्वाभावादित्यर्थः । परिहरति असिद्धत्वा दिति । शङ्काग्रन्थस्य विवरणं स्यादेत दित्यादि । सध्रीचीन एवसहित एव । परिहारग्रन्थस्य विवरणं तन्नैव मित्यादि । शरीरवत्तयैवोपलम्भ आत्मनोऽसिद्धः । योगदशायामवधानदशायां मानसानुभवदशायामपि शरीरंविनैवात्मनो भानात् । तथाच न व्यभिचार इति भावः । योगिप्रत्यक्षे आत्मचिन्तने च देहं विनाऽत्मभानमुक्त्वा लौकिकप्रत्यक्षेऽपि तदाह जानामी ति । शरीरस्यात्मस्वभावत्वाभावं द्रढयति कर्मे ति । तत्तन्मनुष्यादिशरीरविशेषवत्तयैवोपलम्भश्चात्मनोऽसिद्ध इति च हार्दं । मनस इवेति वैधर्म्यदृष्टान्तः । मनो यथानुवर्तते न तथा शरीरमेकमिति यावत् । मुक्तावस्थायामपि मनोऽनुवृत्त्याशयेनेदं । ननु स्थूलशरीरस्य निवृत्तावपि सूक्ष्मशरीरस्य सर्वदानुवृत्तिर्वर्तते । तस्य च नात्मस्वभावत्वमिति तत्र व्यभिचार इति मन्दाशङ्कामपनुदति लिङ्गस्ये ति । अपिनानुवृत्तिरेव नास्ति प्रलये मोक्षे चेति व्यज्यते । लिङ्गशरीरस्यातीन्द्रियत्वाद्धेत्वभावान्न व्यभिचार इति च भावः ।

अत्रेदं बोध्यमात्मधर्मभूतज्ञानस्वरूपं तावन्नित्यमेव । किन्तु सङ्खोचविकासशालिनस्तस्य इन्द्रियादिद्वारकप्रसरणादर्थप्रकाशकत्वमिति

पुनरर्थप्रकाशकत्वविशिष्टस्यानित्यत्वमिष्यते । अतो विशिष्टविशेषेणानित्यत्वं स्वरूपतो नित्यत्वं च व्यवस्थापितं तस्यात्रेति ।

अथ नित्यत्वे ज्ञानस्य चतुर्धाऽक्षेपमुपक्षिप्य प्रतिक्षिपति बोधस्वाभाव्य इत्यादिना । ज्ञानस्वभावत्वे पुंसः स्वापमूर्च्छयोः स्वरूपप्रकाशः स्यादिति प्रथमाक्षेपः । प्रकाशपदार्थविकल्पेनैनं परिहरति विकल्पे त्यादिना । ज्ञानातिरिक्तस्य ज्ञानजन्यस्य प्रकाशस्य सत्त्वेऽपि आत्मनि बोधेन तस्याजननं स्वापे तमोगुणप्रतिबन्धाद्गाढान्धकारप्रतिबन्धादिव चाक्षुषस्याजननमिति भावः । तथाभावइति । बोधवत्त्वमित्यर्थः ।

बोधस्य सत्त्वे स्वाप आत्मनो व्यवहारप्रसङ्ग इति द्वितीयाक्षेपः । तमनुभाषते अथ मतम् इति । परिहरति मैवम् इति । व्यवहारः कायिको विचिको वाऽपाद्यते । आद्यो न सम्भवतीत्याह कः खल्वि ति । किंशब्दः क्षेपे । न ह्यसा विति । नित्यप्राप्तत्वादात्मस्वरूपस्येति भावः । द्वितीयमनुवदति व्याहारइति । परिहरति किमङ्गे ति । निर्विकल्पकं वाचकशब्दादिविशेषणानुल्लेखि यज्ज्ञानं बालमूकादेः, तत्सत्त्वेऽपि न तद्विषयस्य व्याहरणं दृश्यत इत्यर्थः । तथाच स्वविषयव्याहारव्याप्तिर्ज्ञानस्य नास्तीत्यस्थाने प्रसङ्ग इति भावः ।

अनुभवे सति स्वाप आत्मनो जागरणे स्मृतिप्रसङ्ग इति तृतीयाक्षेपः । तमनुवदति स्मृती ति । परिहरति अवृत्तित्वा दिति । शङ्काविवरणं यद्युच्येते त्यादि । परिहरविवरणं तन्ने त्यादि । न ही ति । बुद्धिवृत्तिविशेषः धर्मभूतज्ञानावस्थाविशेषः । स्वापादिकालिकात्मानुभवः स्वभावलक्षण एव, नतु धर्मभूतज्ञानावस्थाविशेषलक्षण इति यावत् । येने ति । ज्ञानवृत्तेरेव स्मृतिबीजसंस्कारजनकत्वमिति भावः । किन्तु इति । स्वापादौ स्वाभाविकधर्मभूतज्ञानवत्त्वेनावस्थानमेवात्मनः, न तु ज्ञानस्य वृत्तय इति भावः । न च बोधे ति । नित्यस्वविषयकबोधस्वभावकत्वादित्यर्थः । धर्मभूतज्ञानं तावत्नित्यमात्मविषयकम्, इन्द्रियार्थसन्निकर्षादिसहकारिसंपत्त्या

पुनर्विषयग्राहीति एकदेशिमतेनेदं । यद्वा बोध एव स्वो भावः स्वरूपम्, तत्त्वाच्चिद्रूपत्वादेवास्यऽत्मनः स्वविषयकसंस्कारजनकत्वं किं न स्यादिति शङ्का । परं प्रकरणवशात्पूर्वोक्तरीत्यैवार्थोऽत्र सुसङ्गतः । अस्यनित्यबोधस्य । नित्यबोधस्य संस्कारजनकत्वशङ्कां परिहरति अनवरते ति । तथासति सामग्रीबलात्प्रतिक्षणं सस्कारोदयसंभवेन संस्कारधाराविश्रमाभावप्रसङ्ग । तथा

च क्लेशकर्मविपाकाशयानामात्यन्तिकनिवृत्तिलक्षणमोक्षस्यासिद्धिप्रसङ्गः इत्यर्थः । नित्यबोधस्वरूपस्य संस्कारजनकत्वेदोषमुक्त्वा निष्प्रयोजनत्वमप्याह अनुभवे चे ति । संस्कारकल्पनं हि अनुभूतचरस्याननुभूयमानस्य प्रतिपत्त्यर्थं । नित्यानुभव एव जाग्रति कः संस्कारकल्पनाया अर्थ इति भावः । स्वानुरूपत्वम् अनुभवसमानविषयकत्वं । निजबीजम्स्मृतिबीजं, संस्कारः । नन्वात्मविषयिण्यपि स्मृतिर्दृष्टेत्यत्राह य एवाहम् इति । स्मृतिसंभिन्नप्रत्ययःपूर्वकालावच्छेदांशे स्मृतिरूपो वर्तमानकालावच्छेदांशेऽनुभवरूपश्चात्मस्वरूपगोचरः प्रत्ययः । कालावच्छिन्ने ति । आत्मस्वरूपमात्रस्य सदा प्रकाशेऽपि तत्तत्कालाद्यवच्छिन्नस्य वृत्तिग्राह्यतया वृत्तेश्च संस्कारजनकतया निरुक्त प्रत्यय उपपद्यत इत्यर्थः । न स्वरूपमात्रेन स्वरूपमात्रविषयकः । नित्यात्मबोधस्य संस्कारजनकत्वे बाधकं प्रयोजनाभावं चाभिधाय तस्य स्वापादिकालिकस्य संस्कारजनकत्वासंभवमप्यभिधत्ते अविशदश्चे ति । तमोगुणाभिभवादविशदः, बाह्यान्तरविशेषणानवगाहनान्निर्विकल्पश्चेत्यर्थः । पटीयसाअनभिभूतेन । स्मृतिबीजं संस्कारः । आधीयतेउत्पाद्यते । अत्रेदं बोध्यम् यद्यपि सुप्तोत्थितस्य सुखमहमस्वाप्स मित्यादिप्रतिसन्धानबलात्स्वापकालिकात्मस्वरूपानुभवस्यापि संस्कारजनकत्वमेष्टव्यं । अथापि एकदेशिमताश्रितवादोऽयं । अत एवाग्रे अस्तु वा इत्यादिना पक्षान्तरं वक्ष्यति । अनुभवे वर्तमाने तावन्मात्रविषयकस्मृतेरुदयायोगेऽपि प्रत्यवमर्शस्याधिकविषयस्य संस्कारबलादुदये न क्षतिरिति

। अधिकमग्रे । ननु सर्वदाऽत्मस्वरूपानुभव इत्यनुपपन्नं । विषयानुभवकाल एव सुखादिनाहमर्थप्रकाशस्यानुभवसिद्धत्वादित्यत्राह साम्याच्चे ति । एकाकारेणानुभूतमाने विशेषाकारास्फूर्तेरननुभवभ्रमः । अत्र निदर्शनं शरीरादि । यथा जागरे सदानुभूयमानस्यापि करचरणादिलक्षणस्य शरीरस्यागन्तुकविशेषस्फुरणवेलायामेव विशेषतः प्रतिपत्त्यान्यदाननुभूयमानतेव, यथा वाऽन्तरस्य जागरणे शरीरधारणप्रयत्नस्य सदानुवर्तमानस्यापि बुद्धिपूर्वहस्ताद्युत्क्षेपणकाल एव स्फुटावभासेनान्यदाननुभूयमानतेव, तथा प्रकृतेऽपीति भावः । यद्यपि शरीरधारणप्रयत्नस्य जीवनयोनिशब्दितस्यातीन्द्रियत्वमिष्यते तार्किकैः । अथापि अदृष्टत एव जीवनस्योपपत्तेरतीन्द्रिययत्नकल्पनं गुरुभूतं । जागरे तु प्रयत्नतोऽपि शरीरतदवयवधानणमिष्यते । स च प्रयत्नः प्रत्यक्षयोग्य एव । निद्रायां त्वदृष्टत एव शरीरधारणमिति हार्दमाचार्यतरणानां । तत्दृष्टान्तस्यास्य नानुपपत्तिरिति ध्येयं ।

स्वापेऽपि बोधानुवृत्तौ समाधिमुक्तयोः स्वापाविशेषप्रसङ्ग इत्याक्षेपान्तरमनूद्य परिहरति न चाविकृते ति । अविद्यादिक्लेशः, तमोगुणाभिभवादत्यन्तसङ्कुचितज्ञानत्वं च स्वापे । न हि तदा ज्ञानेन स्वात्मप्रकाशोऽपि । मोक्षे तु क्लेशात्यन्तनिवृत्तिः, आवरणनिवृत्त्या नित्यासङ्कुचितसर्वविषयज्ञानता चेति विशेषः । असंप्रज्ञाते ति । संप्रज्ञातेति क्वचित्पाठः । समाधौ च पुंसः परमवैराग्यनिरोधसंस्कारपाटवात्मैकप्रवणमनस्कत्वप्रयुक्तमोक्षोपायसिद्धिकृतः स्वापतो महान्विशेषोऽस्तीति भावः । चरिताधिकारेणे ति तु समीचीनः पाठः । कृताधिकारेणेत्यर्थः । अपवर्गिणाअपवर्गोपधायकेन । कैवल्यावस्थात्मसाक्षात्करणयोग्येनेति यावत् । मनसा इति विशेष्यमध्याहार्यं । चरिताधिकारिणेति पाठे तु कृतात्मनेत्यर्थः, कृतकृत्येनेति वा । एवं चित्स्वरूपत्वं चित्स्वभावत्वं चोपपादितं प्रसक्ताक्षेपपरिहरणेन ।

अथ स्वापेऽपि अनुत्यया वृत्त्यैवात्मनः प्रकाशः सेत्स्यति, कृतं स्वप्रकाशत्वेनेत्यन्तर्निधाय स्वापेऽपि बुद्धिवृत्तिरेष्टव्येति शङ्कते कथं पुन रिति । अत्रायं समुदिताशयःस्वापो नाम तमोगुणानुभवः । रिषदुद्बुद्धसत्त्वसहकृततम आलम्बनत्वे तस्य सुखत्वं, सत्त्वकार्यं च लघुत्वादिर् । इषदुद्बुद्धरजःसहिततम आलम्बनत्वे दुःखत्वं चलत्वादि च । सत्त्वरजसोरत्यन्ताभिभावकप्रोद्बुद्धतम आलम्बनत्वे च गाढमूढत्वादि । स्वापे तम अनुभवे सत्येव तज्जसंस्कारतः प्रबोधे सुखमस्वाप्समित्यादिप्रतिसन्धानस्योपपत्तिः नान्यथेति । अर्धाङ्गीकारेण परिहरति सत्यमेवम् इति । निरुक्तप्रतीतावभ्युपगमः । स्वापस्य तमोगुणालम्बनवृत्तिरूपत्वे, स्मृतिरूपत्वे च स्वापादौ निरुक्तप्रतीतेरनभ्युपगमः । तदाह दत्तोत्तरम् इति । आनुमानिका इति । वृत्तिसामान्यविरह एव स्वापः । योग्यास्मरणलिङ्गाच्च प्रकाशस्वभावाया वृत्तेरभावस्य तत्कालीनस्यानुमानं । देहेन्द्रियलाघवादिलिङ्गाच्च सुखत्वादेस्तत्रानुमानं । पूर्वदिनकृतस्यापरस्मिन्दिने

प्रत्यभिज्ञाबलात्स्वापकालिकात्मसत्तांशेऽप्यनुमानरूपैवेयं प्रतीतिरिति भावः । न वृत्त्यन्तरत्वम् इति । न तमोगुणविषयकबुद्धिवृत्तिरूपत्वं निद्राया उपगन्तव्यं । स्वापानुमानादेव निरुक्तप्रतीतेर्निर्वाहादित्यर्थः । निद्राया वृत्तिरूपत्वाभावे पातञ्जलसूत्रस्य का गतिरिति शङ्कते कथं तर्ही ति । उत्तरयति निरोधे ति । भावालम्बनवृत्तिसामान्याभावो निद्रेति तात्पर्यं । अस्याश्च वृत्तिवन्निरोद्धत्वसामान्याद्वृत्तित्वोपचार इति भावः । अत्र

निदर्शनं विपर्ययव दिति । अन्यथाख्यातेरभावेन भेदाग्रहस्यैव भ्रमस्थलाभिषिक्तस्य विपर्ययशब्दितस्य निरोद्धव्यत्वतात्पर्येण वृत्तित्ववन्निद्राया अपि वृत्तित्वं कीर्त्यत इति भावः । स चे ति । सर्वसंविदामर्थाव्यभिचारःयथार्थख्यातित्वलक्षणोन्यायतत्त्वसास्त्रीयाधिकरणसिद्ध इत्यर्थः । निरोद्धव्यत्वं चैषां कैवल्यसाधनपरिपन्थितयेत्याह कैवल्ये ति । कैवल्यभागि यच्चित्मोक्षाधिकृतमात्मस्वरूपम्, तत्प्रत्यनीकतयातदभिमतसाधनसिद्धिविघातकतयैतेषां निरोद्धव्यत्वमित्यर्थः ।

सुखमहमस्वाप्समिति प्रतीतेः प्रतिसन्धानरूपत्वमुपगम्याप्याह अस्तु वे ति । ज्ञानवत्तयैवोपलभ्यमानत्वादात्मनो बोधस्वभावत्वमुक्तं । निरुक्तरीत्या स्वापेऽपि बोधानुवृत्तिप्रतिपादनाच्च तदेव प्रतिष्ठापितं भविष्यतीति नास्माकं काचित्क्षतिः । यत्ति हृदयं वृत्त्यैवात्मनः प्रकाशो न स्वरूपत इति, तत्त्वाशामोदकायितमिति च पूर्वोत्तराभ्यां सुनिरूपितं भविष्यतीति भावः । स्मरणानिप्रतिसन्धानरूपाणि ।

विश्वास-प्रस्तुतिः

यतः स्वतस्सतो बोधादृते पुंसो यथोदितं ।
तमः स्वापादिकालीनं न सिध्येद्धेत्वसिद्धितः ॥२७ ॥
उपरतानि हि प्रस्वापकाले सर्वाण्येवेन्द्रियाणि सह मनसा । संस्कारस्य च न स्मृतेरन्यत्र सामर्थ्यं । न च स्वप्रकाशं तमः; अर्थान्तरवर्तिनोऽप्यनिशं प्रकाशप्रसङ्गात् । क्ल्प्तश्च सर्वार्थसाधनतया बोध इति तेनैव करणविरहिणा सता स्वभावभूतेनो(द्भूतेनो)द्भूतवृत्तेस्तमसोऽन्यस्य वाऽत्मवर्तिनो गुणस्य स्फुरणमिति बलादभ्युपगमनीयं ।
नित्यप्रकाशश्चात्मा प्रमातृत्वात् । अप्रमातृत्वव्यापकबद्धं ह्यनित्यप्रकाशत्वं व्यापकविरुद्धप्रमातृत्वभागिन्यात्मनि नात्मानं लभते ।

मूलम्

यतः स्वतस्सतो बोधादृते पुंसो यथोदितं ।
तमः स्वापादिकालीनं न सिध्येद्धेत्वसिद्धितः ॥२७ ॥
उपरतानि हि प्रस्वापकाले सर्वाण्येवेन्द्रियाणि सह मनसा । संस्कारस्य च न स्मृतेरन्यत्र सामर्थ्यं । न च स्वप्रकाशं तमः; अर्थान्तरवर्तिनोऽप्यनिशं प्रकाशप्रसङ्गात् । क्ल्प्तश्च सर्वार्थसाधनतया बोध इति तेनैव करणविरहिणा सता स्वभावभूतेनो(द्भूतेनो)द्भूतवृत्तेस्तमसोऽन्यस्य वाऽत्मवर्तिनो गुणस्य स्फुरणमिति बलादभ्युपगमनीयं ।
नित्यप्रकाशश्चात्मा प्रमातृत्वात् । अप्रमातृत्वव्यापकबद्धं ह्यनित्यप्रकाशत्वं व्यापकविरुद्धप्रमातृत्वभागिन्यात्मनि नात्मानं लभते ।

स्वापस्य वृत्तित्वोपगमेऽपि न ज्ञाननित्यत्वसिद्धिः । वृत्तेः करणजन्यत्वादिति परस्य शङ्कामनुवदति आहे ति । परिहरति इत्थम् इति । ज्ञानस्वभावत्वनिश्चयोऽनन्तरनिर्दिश्यमानप्रकारेणेत्यर्थः । {यत} इति । स्वापे कारणायोगात्स्वतःसिद्ध एव तमःप्रकाशको बोध इत्येष्टव्यमित्यर्थः ॥२७ ॥

श्लोकं स्वयमेव विवृणोति उपरतानी ति । अन्यस्य वासुखादेर्वा । उपरतव्यापारत्वात्करणानां स्वापे न ज्ञानवृत्तेरवसरः । अतः स्वाभाविकेन बोधेनैव तमोगुणप्रकाश

इति बलादेष्टव्यं यदि तमोऽनुभवः स्वाप इष्यते । तत्सिद्धं बोधस्वभावत्वमिति भावः । वस्तुतो ज्ञानस्य न स्वापे तमःप्रकाशकत्वमतिसङ्कुचितवृत्तित्वात् । स्वरूपानुभवबलात्सुखत्वेन तदा भासमानस्यात्मनः परामर्शः परं प्रबोध इति तु सिद्धान्तः । अस्वाप्सम् इति स्वापकालांशयोस्त्वनुमितिरूपैव निरुक्तप्रतीतिः । नित्यानुभवस्य संस्काराजनकत्वे तु साक्षादेव स्वापकालीनात्मस्वरूपानुभवस्य निरुक्तप्रतिसन्धानहेतुत्वं सुखत्वेनात्मागाहनांश इति च बोध्यं ।

बोधस्वभावस्याप्यात्मनो वृत्तिकाल एवास्तु प्रकाशो न सर्वदेत्यत्र तावन्नित्यप्रकाशत्वं साधयति नित्यप्रकाशश्चे ति । अप्रमातृत्वे ति । अप्रमातृत्वरूपं यद्व्यापकं, तद्व्याप्यमित्यर्थः ।

विश्वास-प्रस्तुतिः

स्वतःसिद्धप्रकाशत्वमप्यस्य ज्ञातृभावतः ।
अज्ञातृत्वेन हि व्याप्ता परायत्तप्रकाशता ॥२८ ॥

मूलम्

स्वतःसिद्धप्रकाशत्वमप्यस्य ज्ञातृभावतः ।
अज्ञातृत्वेन हि व्याप्ता परायत्तप्रकाशता ॥२८ ॥

(इत्यात्मनो ज्ञानस्वभावस्य नित्यस्वप्रकाशत्वसमर्थनम्)

विश्वास-प्रस्तुतिः

कः पुनरयं प्रकाशः, योऽस्य नित्योऽभ्युपेयेत स्वाभाविकश्च? कश्चास्यात्मना संबन्धः? । यदि ज्ञानमेव; संबन्धश्चाश्रयाश्रयित्वम्; ततो हेत्वभावेन साध्याभावस्य व्याप्तिमुपदर्शयितुं निदर्शनतया घटाद्युपादातव्यम्यदनित्यप्रकाशमन्याधीनप्रकाशं वा तदप्रमातृ, यथा घटादीति । तत्र च विशेषनिषेधस्य सामान्याभ्यनुज्ञाक्षेपकत्वादागन्तुकं ज्ञानं घटादावनुमतमापद्येत । अथ तन्माभूदिति विषयविषयिभाव एव संबन्धः संगीयेत, ततो नित्यवज्ज्ञानविषयत्वमात्मनः प्रसत्येत । ज्ञानविषयीकारश्च साधनविशेषायत्तत्वेन नियत इति न
स्वाभाविकत्वसम्भवः । अचेतनगोचर एव तथा नियम इति चेन्न, चेतनान्तरविषयीकारेऽपि तथाभावदर्शनात् । न चानात्मगोचर एव साधनसापेक्षत्वनियम इति वाच्यं । आत्मनोऽप्यानुमानिकागमिकयोगज्ञानविषयीकारे तत्सापेक्षत्वदर्शनात् । विरुद्धे चैकस्यैकक्रियायां कर्मकर्तृत्वे, सूच्यग्रस्येवात्मनिवेध्यवेधकत्वे । नित्यत्वनिरतिशयसूक्ष्मत्वव्यापित्वचित्स्वाभाव्यादिरूपेण प्रत्यगर्थस्यौपदेशिकत्वमानुमानिकत्वं वा, न स्वरूपतः । स्वरूपापेक्षयैव स्वतःसिद्धिरभ्युपेयत इत्यसमाधेयो विरोधः । रूपभेदेन गम्यगमकत्वाङ्गीकारपक्षेऽपक्षस्येव शब्दादेर्न स्वतःसिद्धत्वं ।

मूलम्

कः पुनरयं प्रकाशः, योऽस्य नित्योऽभ्युपेयेत स्वाभाविकश्च? कश्चास्यात्मना संबन्धः? । यदि ज्ञानमेव; संबन्धश्चाश्रयाश्रयित्वम्; ततो हेत्वभावेन साध्याभावस्य व्याप्तिमुपदर्शयितुं निदर्शनतया घटाद्युपादातव्यम्यदनित्यप्रकाशमन्याधीनप्रकाशं वा तदप्रमातृ, यथा घटादीति । तत्र च विशेषनिषेधस्य सामान्याभ्यनुज्ञाक्षेपकत्वादागन्तुकं ज्ञानं घटादावनुमतमापद्येत । अथ तन्माभूदिति विषयविषयिभाव एव संबन्धः संगीयेत, ततो नित्यवज्ज्ञानविषयत्वमात्मनः प्रसत्येत । ज्ञानविषयीकारश्च साधनविशेषायत्तत्वेन नियत इति न
स्वाभाविकत्वसम्भवः । अचेतनगोचर एव तथा नियम इति चेन्न, चेतनान्तरविषयीकारेऽपि तथाभावदर्शनात् । न चानात्मगोचर एव साधनसापेक्षत्वनियम इति वाच्यं । आत्मनोऽप्यानुमानिकागमिकयोगज्ञानविषयीकारे तत्सापेक्षत्वदर्शनात् । विरुद्धे चैकस्यैकक्रियायां कर्मकर्तृत्वे, सूच्यग्रस्येवात्मनिवेध्यवेधकत्वे । नित्यत्वनिरतिशयसूक्ष्मत्वव्यापित्वचित्स्वाभाव्यादिरूपेण प्रत्यगर्थस्यौपदेशिकत्वमानुमानिकत्वं वा, न स्वरूपतः । स्वरूपापेक्षयैव स्वतःसिद्धिरभ्युपेयत इत्यसमाधेयो विरोधः । रूपभेदेन गम्यगमकत्वाङ्गीकारपक्षेऽपक्षस्येव शब्दादेर्न स्वतःसिद्धत्वं ।

(इति ज्ञानाश्रयत्वविषयत्वयोः प्रकाशमानत्वरूपत्वे दोषानुकीर्तनं ।)

अथोच्येतन प्रकाशो ज्ञानं । अपि तु तन्निमित्तश्चेतनेतरसर्वपदार्थसाधारणो धर्मः, यद्वशात्प्रकाशत इति प्रख्योपाख्येप्रतायेते सर्वपदार्थेष्वविशेषेण; आश्रयाश्रयित्वलक्षणश्च संबन्धस्तेन सह सर्वभावानां । स च यथोदितसाधनबलादेव सांसिद्धिको नित्यश्चात्मन इति । पराकृतोऽयं पक्षः । न ज्ञानातिरेकी प्रकाशो नाम । यद्व्यवहारोपजननानुगुणं ज्ञानं, तत्प्रकाशत इत्युच्यते । ज्ञेयस्य ज्ञातुः स्वात्मनश्च व्यवहारानुगुणं ज्ञानमुदयत इति युक्तः त्रिष्वपि एकरूपः प्रकाशतेव्यवहारः । तत्त्वान्तरप्रकाशाभ्युपगमेतात्स्वाभाव्ये झ्र् न} {ट {च पुनः किं चैतन्याश्रयणेन? । न च प्रकाश एव तदिति वाच्यम्, घटादेरपि प्रकाशवत्तया चेतनत्वप्रसङ्गात् । यद्युच्येत्सति चेतनावत्त्वे पुंसः प्रकाशमानत्वमितिः संविदीदानीं का वार्ता? चेतनैव हि सा, न चेतयते । अथ संविदस्तत्संबन्धाधीनः स धर्म इति चेत्; कस्तया संबन्धः, यस्तन्निबन्धनम्? । नाश्रयाश्रयित्वम्; घटादेस्तदभावप्रसङ्गात् । न विषयविषयिभावः, तस्यैवानिरूपणात् । अनिरूपणं च भ्रान्त्यधिकरणसिद्धान्तारम्भे संवित्सिद्धौ चानुसन्धातव्यं । आत्मनस्तस्य चाप्रकाश प्रसङ्गश्च । ज्ञानाधीनप्रकाशाश्रयतैव सिद्धिः, तया चानुमेयं ज्ञानमिति पक्षः प्रागेव प्रतिक्षिप्तः ।
स्वप्रकाशसंविद्वादिनोऽपि व्यवहारानुकूल्ये वैरूप्यमशक्यपरिहारं । आत्मनि समवेतं ज्ञानमसंबन्धिन्यर्थे प्रकाशं व्यवहारं वा कथं प्रसुवीतेत्यपि चिन्त्यं । इन्द्रियलिङ्गादिस्वकारणप्रत्यासत्तिवसादिति मा वोचः । न खलु लब्धात्मकं कार्यं स्वनिमित्तकारणमनुरुध्य कार्यमारभते । मा भूदुदकाहरणादि घटादेः कुलालादिसमानाधिष्टानं । न च निमित्तकारणनाशे कार्यनाशः । नश्यति चेन्द्रियसंप्रयोगादिनाशे रूपादिज्ञानं । अत इन्द्रियेण सह चैतन्यमपि निस्सृत्य तेन तेनार्थेन सन्निकृष्यते, हस्तादिनेव त्वगिन्द्रियं । तथा सति हि तदुपाधिकत्वात्तज्ज्ञानस्य युक्तं तद्भावानुविधायित्वं । अन्यथोत्पन्नं ज्ञानमिन्द्रियार्थसन्निकर्षनिवृत्तौ किमिति निवर्तते? । ज्ञानजन्यार्थधर्मप्रकाशवादिनोऽपि समानोऽयं दोषः । निमित्तकारणं हि ज्ञानं । कुतस्तन्निवृत्तौ अर्थप्रकाशो निवर्तते? कुतो वा यावत्तद्भावमवतिष्ठते ? ।}

ननु नित्यप्रकाशत्वं स्वाभाविकबोधकृतमेव किं न स्यादित्यत्राह स्वतःसिद्धे ति । व्याप्ताव्याप्या । व्यापकाभावाद्व्याप्याभाव इति यावत् । ज्ञातृत्वस्वाभाव्यादेवानन्याधीनप्रकाशत्वसिद्धिरिति भावः । ज्ञानस्य प्रकाशो ज्ञानान्तरानपेक्षोऽप्यात्मसम्बन्धापेक्ष इति ज्ञानेऽनन्याधीनप्रकाशत्वलक्षणं साध्यं नास्ति, तेन सपक्षे ज्ञाने सति पक्षमात्रवृत्ति ज्ञातृत्वं भवत्यसाधारणमिति शङ्कानवकाशः ।यद्यपि केवलव्यतिरेकिणो न प्रमाणत्वं सिद्धान्ते । अथापि परप्रक्रियया परान्प्रत्येतत्समर्थनं सम्भवत्येव । सिद्धान्ते तु पूर्वोक्तान्वयिनैव स्वप्रकाशत्वसिद्धिरात्मनः । नित्यत्वग्राहकप्रमाणबलाच्चात्मनः तत्प्रकाशस्यापि नित्यत्वमर्थसिद्धं । श्रुतिभिश्च सकलार्थप्रतिष्टेति परमाचार्याणामाशयः ॥२८ ॥

अथ प्रसङ्गात्प्रकाश पदार्थं निर्णेतुं विमर्शमुपक्षिपति कः पुन रिति । नित्यस्यापि ज्ञानस्य प्रतिकर्मव्यवस्थोपपादकत्वाच्चैतद्विमर्शस्य प्रकृतोपयोगिता । यदी ति । प्रकाशत इत्यत्र धात्वर्थः प्रकाशो ज्ञानं । आख्यातार्थश्चाश्रयत्वमिति यदि कथ्यते इत्यर्थः । एतद्दूषयति **तत **इति । तत्र चे ति । व्यतिरेक्युदाहरणवाक्ये नित्यप्रकाशरूपविशेषनिषेधस्य प्रकाशसामान्याभ्युपगमपर्यवसायित्वाच्च घटादावागन्तुकज्ञानवत्त्वमभ्युपगतं भवेदित्यर्थः । न चैवं सति तत्र हेत्वभावोऽज्ञातृत्वं न स्यादिति वाच्यं । अनात्मत्वस्यात्राज्ञातृत्वपदेन विवक्षितत्वात् । प्रकाशाश्रयत्वमात्रस्य तु साधनायोगः सिद्धत्वादिति च बोध्यं । उक्तदोषपरिहाराय प्रकारान्तरं शङ्कते अथ तन्माभू दिति । यदि ज्ञानविषयत्वं प्रकाशमानत्वमुच्यत इति यावत् । एतदपि दूषयति **तत **इति । नित्यप्रकाशवत्त्वसाधनेनात्मनः सार्वदिकं ज्ञानविषयत्वं प्रसज्यत इत्यर्थः । इष्टमेवेदमिति चेत्तत्राह ज्ञाने ति । ज्ञानस्य विषयप्रकाशनव्यापारो हि इन्द्रियादिद्वारकः । अत इतरानपेक्षो

नित्यश्च ज्ञानविषयभाव आत्मनो दुःसाध इत्यर्थः । तथा नियम इति । करणमपेक्ष्यैव विषयीकरणमिति नियम इत्यर्थः । तथा भावे ति । करणव्यापारसापेक्षत्वदर्शनादित्यर्थः । न चे ति । स्वात्मभिन्नविषय एव विषयीकारस्य करणापेक्षत्वमुच्यत इति न च वाच्यमित्यर्थः । आत्मनोऽपीति । स्वात्मप्रकाशनेऽपि शब्दलिङ्गादिकरणसापेक्षत्वदर्शनात्नियमसङ्कोचो न करणीय इत्यर्थः । ननु स्वरूपमात्रविषयकं नित्यज्ञानं सिषाधयिषितं । अस्य चात्मविषयीकरणे न करणापेक्षेत्यत्राह विरुद्धे इति । स्वरूपमात्रस्यैव कर्तृत्वकर्मत्वयोरुपगमो विरुद्धः । स्वरूपमात्रज्ञाने आकारभेदादविरोधसमर्थनमपि न सम्भवतीत्याह नित्यत्वे त्यादिवाक्यद्वयेन । ननु स्वरूपस्यैव गम्यत्वेपि तस्यैव गमकत्वं सामान्यविशेषधर्मभेदाद्धटेतेत्यत्राह

रूपभेदेने ति । यथा शब्दशब्दस्य शब्दशब्दवाच्यत्वेऽपि वाच्यता श्रोत्रग्राह्यगुणत्वाकारेण, वाचकता चानुपूर्वीविशेषेणेति न स्वयंप्रकाशत्वमपक्षस्य शब्दस्य, एवं ग्राह्यग्राहकतावच्छेदकधर्मभेदे पक्षीकृतस्यापि आत्मनो न स्वप्रकाशत्वं सिध्येदित्यर्थः । एवं विमर्शकेन पक्षद्वयं दूषितं ।

अथ भाट्टप्रक्रियामनुवदति अथोच्येते ति । प्राकट्यं प्रकाशः, आश्रयत्वं च संबन्धः । प्रकाशत इति प्रतीतिव्यवहारौ च प्राकट्याश्रयत्वार्थकावेव प्राचुर्येण प्रवर्तेते । ज्ञानजन्यः प्रकाशश्च चेतनाचेतनसर्वपदार्थसाधारणः । स एव नित्यः स्वाभाविकश्चात्मनः साध्यतां ज्ञातृत्वबलादिति शङ्काग्रन्थार्थः । प्राभाकरमुखेन निराकरोतीमं पक्षं पराकृत इति । ज्ञातताव्यवहारस्य स्वप्रकाशज्ञानत एवोपपत्तेर्न ज्ञानजन्ये ज्ञातताख्ये धर्मान्तरे प्रमाणं किमपीति पराकरणप्रकारः । त्रिष्वप्येके ति । प्रकाशो ज्ञानम्, तदधीनव्यवहारानुगुण्यं सम्बन्धः प्रकाशत इत्यत्राख्यातार्थ इति पक्ष एव ज्ञेयज्ञानज्ञातृषु एकार्थकता प्रकाशतेव्यवहारस्य घटत इत्यर्थः । त्रितयव्यवहारानुगुण्यापादनं घटादिज्ञानस्य स्वभाव इति हार्दं । ज्ञानातिरिक्तस्य प्रकाशस्य नित्यस्यात्मन्युपगमे तत्र ज्ञानं व्यर्थमिति चाह तत्त्वान्तरे ति । स्वविषयकज्ञाने सत्येवात्मनः प्रकाशमानतेति क्षेमसाधारणप्रयोजकतोपगमान्नात्मनि चैतन्यस्य वैयर्थ्यमिति शङ्कते यद्युच्येते ति । आक्षिपति संविदी ति । संवित्ज्ञानमेव, न ज्ञानाश्रयः । तथा च चैतन्यसमवायित्वस्य प्रकाशमानताप्रयोजकत्वे चैतन्ये तदभावात्प्रकाशमानता न घटेतेति भावः । ननु चैतन्यसम्बन्ध एव प्रकाशहेतुरुपेयत इति चेत्तत्राह कस्तये ति । तयाचेतनया । संबन्धविकल्पेन दूषणमत्र क्रियते । चैतन्यवदात्मसमवेतत्वस्य चैतन्यसंबन्धत्वे घटादेरप्रकाशापत्तिः । तदाह घटादे रिति । चैतन्यविषयत्वस्य तत्त्वे च चैतन्यस्यात्मनश्चाप्रकाशापत्तिः । तदाह आत्मन इति । आत्मनःसंविदः । तस्यपुंसः

। प्रकाशप्रयोजकस्य चैतन्यविषयत्वस्याङ्गुल्यग्रेणेव स्वात्मस्पर्शस्याशक्यत्वाच्चैतन्ये, कर्मकर्तृत्वविरोधादात्मनि चासम्भव इति हार्दं । ननु कर्मकर्तृविरोधोपगमेऽस्तु ज्ञानाश्रयतयैवात्मनि प्रकाशतेव्यवहारः । ज्ञानस्य त्वतीन्द्रियस्य ज्ञाततालिङ्गकानुमानात्प्राकट्यं सम्भवति प्रकाशतेव्यवहारनिदानमित्यत्राह ज्ञानाधीने ति । ज्ञानानुमानप्रतिक्षेपाच्च ज्ञानस्य ज्ञानरूपतयैव प्रकाशतेव्यवहारो वाच्यः । तथा च प्राकट्येन ज्ञानजधर्मेणार्थेषु, ज्ञानरूपतया ज्ञाने, ज्ञानाश्रयतयैव चात्मनि प्रकाशतेव्यवहार इति त्रिष्वपि तस्यैकरूप्यासम्भव एतन्मत इति स्थितं ।

एवं भाट्टमते ज्ञेयज्ञानज्ञातृषु प्रकाशतेव्यवहारस्यैकरूप्यासम्भवं गुरुमुखेन प्रोच्य गुरुमतेऽपि त्रिषु व्यवहारानुगुण्ये ऐकरूप्यासम्भवं विमर्शक उद्भावयति स्वप्रकाशे ति । ज्ञानविषयतयार्ऽथे, ज्ञानरूपतया ज्ञाने, ज्ञानाश्रयतया चात्मनि व्यवहारानुगुण्यं वक्तव्यमिति गुरुमतेऽपि वैरूप्यमशक्यपरिहारमित्यर्थः । दूषणान्तरमप्याह मतद्वये आत्मनी ति । अत्र शङ्का इन्द्रिये ति । यदर्थसंबद्धेन्द्रियलिङ्गादिना यज्ज्ञानं जनितम्, तत्तस्मिन्नर्थे प्रकटतां व्यवहारानुगुण्यं वा निष्पादयतीति शङ्कार्थः । प्रतिक्षिपति न खलु लब्धे ति । कार्यस्य स्वोत्पत्तावेव निमित्तकारणापेक्षा । न तु समुत्पन्नस्य स्वकार्यजननेऽपि । अन्यथा कुलालसन्निधान एव घटेन जलस्याहरणम्, नान्यत्रेपि स्यादित्यर्थः । ज्ञानस्यैव स्वकार्यनिष्पादने स्वनिमित्तापेक्षेत्याश्रयणे चेदमपि वैषम्यं प्रसज्यत इति भावः । कुलालादिसमानाधिष्ठानम्कुलालादिसमानाधिकरणं । वैषम्यान्तरमप्याह न चे ति । अन्यत्र निमित्तनाशे कार्यनाशस्यादर्शनात्ज्ञानस्यैव निमित्तनाशेन नाशाभ्युपगमेनापि वैषम्यं प्रसक्तं पक्षद्वयेऽपीत्यर्थः । कं तर्हि प्रकाशस्य व्यवहारस्य वोपपत्तिः? तत्राति । इति इन्द्रियादिद्वारा प्रसृतस्य तेन सहार्थसन्निकृष्टस्य ज्ञानस्यार्थप्रकाशकस्यार्थप्काव्यवहार जनकत्वं स्वीकार्यमनायत्येति हार्दं । सिद्धान्तिनां पक्षोऽयं । तथाससतीति । इन्द्रियेण सह प्रवृत्त्यादिमत्त्वे हि ज्ञानस्य तदर्थसन्निकृष्टस्य तत्प्रकाशकस्येन्द्रियार्थसन्निकर्षान्वयव्यतिरेकानुविधाय्यन्वयव्यतिरेकोपपत्तिरित्यर्थः । अन्यथे ति । इन्द्रियादिद्वारकज्ञानार्थसन्निकर्षस्यानुपगमे निमित्तनाशस्य कार्यनाशेऽहेतुत्वादिन्द्रियार्थसन्निकर्षादिनिवृत्तौ

ज्ञाननिवृत्तिर्न स्यादित्यर्थः ।

विश्वास-प्रस्तुतिः

न च सङ्ख्यादिनिदर्शनेनात्र प्रत्यवस्थानं युक्तम्;
असिद्धत्वेन नाशस्य सङ्ख्याया बुद्धिनाशतः ।
एकसङ्ख्यव सङ्ख्यात्वादन्याप्याद्रव्यभाविनी ॥२९ ॥
सर्वा ह्येकाश्रया सङ्ख्या नित्यानित्यार्थवर्तिनी ।
यावदाश्रयसत्येव संमता सर्ववादिनां ॥३० ॥
द्वित्वादिका परार्धान्ता सङ्ख्या यानेकवर्तिनी ।
सापि सङ्ख्यात्वसामान्ये सति कस्मान्न तादृशी ॥३१ ॥
ननु नैकत्वं सङ्क्या; स्वरूपानतिरेकात् । अतः साधनविकलमुदाहरणं ।
मैवं । सङ्ख्यैव सा; द्रव्यान्तरेऽप्यनुवृत्तेः । यदि घटादेः स्वरूपमेवैकत्वम्, ततो घट एकः, पट एक इति सर्वद्रव्यसाधारण्यमेकत्वस्य न स्यात् । नहि घटस्वरूपस्य पटस्वरूपेण संभवति सामानाधिकरण्यं घटः पट इति । अस्ति तु तदेकत्वस्य ।

मूलम्

न च सङ्ख्यादिनिदर्शनेनात्र प्रत्यवस्थानं युक्तम्;
असिद्धत्वेन नाशस्य सङ्ख्याया बुद्धिनाशतः ।
एकसङ्ख्यव सङ्ख्यात्वादन्याप्याद्रव्यभाविनी ॥२९ ॥
सर्वा ह्येकाश्रया सङ्ख्या नित्यानित्यार्थवर्तिनी ।
यावदाश्रयसत्येव संमता सर्ववादिनां ॥३० ॥
द्वित्वादिका परार्धान्ता सङ्ख्या यानेकवर्तिनी ।
सापि सङ्ख्यात्वसामान्ये सति कस्मान्न तादृशी ॥३१ ॥
ननु नैकत्वं सङ्क्या; स्वरूपानतिरेकात् । अतः साधनविकलमुदाहरणं ।
मैवं । सङ्ख्यैव सा; द्रव्यान्तरेऽप्यनुवृत्तेः । यदि घटादेः स्वरूपमेवैकत्वम्, ततो घट एकः, पट एक इति सर्वद्रव्यसाधारण्यमेकत्वस्य न स्यात् । नहि घटस्वरूपस्य पटस्वरूपेण संभवति सामानाधिकरण्यं घटः पट इति । अस्ति तु तदेकत्वस्य ।

ननु निमित्तनाशस्यापि कार्यनाशे हेतुत्वं क्वचिदेष्टव्यं । अन्यथापेक्षाबुद्धिनाशाद्दित्वादेर्नाशस्यानुपपत्तेः । तथा प्रकृतेऽपि भविष्यतीति शङ्कते न चे ति । परिहरति असिद्धत्वेने ति । अपेक्षाबुद्धिनाशेन द्वित्वादिनाशस्यासिद्धत्वेन न निमित्तनाशेन कार्यनाशे द्वित्वादेर्नाशस्य निदर्शनत्वं संभवतीत्यर्थः । एके ति । यावदाश्रयभावित्वादेकत्वस्येव द्वित्वादेः सङ्ख्यात्वान्नापेक्षाबुद्धिनाशान्नाश इत्यर्थः । असिद्धत्वमेतेनोपपादितं भवति । फलितोऽत्र प्रयोगःद्वित्वादिर्यावदाश्रयसती सङ्ख्यात्वादेकत्ववदिति ॥२९ ॥३० ॥३१ ॥

दृष्टान्ते हेत्वासिद्धिं शङ्कते ननु नैकत्वम् इति । परिहरति मैवम् इति । यदी ति । तत्तद्व्यक्तिस्वरूपस्यैवैकप्रतीतिव्यवहारनियामकत्वे घट एकः, पट एक इत्याद्यनुगतप्रतीतिव्यवहारानुपपत्तिः । तत्तद्व्यक्तित्वस्याननुगतत्वात् । एकत्वसङ्ख्यायास्तथात्वे तु एकत्वेनानुगमादनुगतप्रतीत्याद्युपपत्तिरिति भावः । तार्किकप्रक्रिययेदं ।

विश्वास-प्रस्तुतिः

किञ्चसंङ्ख्यैकता विरुद्धत्वात्द्विसङ्ख्येवान्यसङ्खया ।
एकं द्वाविति न ह्यस्ति सामानाधिकरण्यधीः ॥ ३२ ॥
यत्तु अनेकद्रव्यवृत्तित्वे सति गुणत्वात्संयोगवदयावद्द्रव्यभाविनीद्वित्वादिसङ्ख्येति, तन्ननात्वेऽनैकान्तिकम । न हि सतोरपि घटपटयोस्तन्नानात्वं नश्यति । न च तत्द्वित्वसङ्ख्यैव । त्रयाणां तदभावप्रसङ्गात् । न च तदेकत्वाभावमात्रं । तुच्छस्यापि नानात्वापत्तेः ।

मूलम्

किञ्चसंङ्ख्यैकता विरुद्धत्वात्द्विसङ्ख्येवान्यसङ्खया ।
एकं द्वाविति न ह्यस्ति सामानाधिकरण्यधीः ॥ ३२ ॥
यत्तु अनेकद्रव्यवृत्तित्वे सति गुणत्वात्संयोगवदयावद्द्रव्यभाविनीद्वित्वादिसङ्ख्येति, तन्ननात्वेऽनैकान्तिकम । न हि सतोरपि घटपटयोस्तन्नानात्वं नश्यति । न च तत्द्वित्वसङ्ख्यैव । त्रयाणां तदभावप्रसङ्गात् । न च तदेकत्वाभावमात्रं । तुच्छस्यापि नानात्वापत्तेः ।

दृष्टान्ते हेत्वसिद्धिं शङ्कतेऽ ननु नैकत्वऽं इति । परिहरतिऽ मैवऽमिति ।ऽ यदीऽ ति । तत्तद्व्यक्तिस्वरूपस्यैवैकप्रतीतिव्यवहारनियामकत्वे घट एकः, पट एक इत्याद्यनुगतप्रतीतिव्यवहारानुपपत्तिः । तत्तद्व्यक्तित्वस्याननुगतत्वात् । एकत्वसङ्ख्यायास्तथात्वे तु एकत्वेनानुगमादनुगतप्रतीत्याद्युपपत्तिरिति भावः । तार्किकप्रक्रिययेदं ।

स्वरूपत्वे बाधकमुक्त्वैकत्वस्य सङ्ख्यात्वे साधकमप्याहऽ सङ्ख्यकतेऽ ति । अत्र प्रयोगःएकत्वं सङ्ख्या सङ्ख्यान्तरविरुद्धत्वात्द्वित्वादिवदिति । हेतुं पक्षे घटयतिऽ *{एक}*ऽं इति । अत्रेदं बोध्यमुद्देश्यतावच्छेदकावच्छिन्नपर्याप्तेर्द्वित्वादिसंबन्धतया भानातेकत्वावच्छिन्नपर्याप्तेश्च द्वित्वादिसंबन्धत्वाभावेन न एकं द्वाविति प्रयोगः । एकं द्वित्ववदिति तु स्यान्नाम, अत्र द्वित्वसमवायस्यैव स्वरूपसंबन्धेन भानात्, तस्य चैकस्मिन्नप्यबाधात् । सङ्ख्यान्तरविरुद्धत्वं च सङ्ख्यान्तरपर्याप्त्यवच्छेदकावच्छिन्नपर्याप्तिकवृत्तिकत्वाभावलक्षणमिति । द्वित्वादेर्यावदाश्रयभावित्वानुमाने दृष्टान्ते साधनवैकल्यं परहृतमेतावता ॥ ३२ ॥

विश्वास-प्रस्तुतिः

आपेक्षिकत्वात्द्वित्वादेः प्रतियेग्यववग्रहात् ।
बुभुत्सोपरमाच्चापि सत्या एवानवग्रहः ॥ ३३ ॥
अतश्चैतन्यस्यैवेन्द्रियद्वारार्ऽथसन्निकर्ष एव तद्भावानुविधानोपपत्तिः ।
अन्यच्च, अर्थस्य प्रकाशकं हि ज्ञानं भवतां । सर्वं च प्रकाशकं प्रकाश्यवस्तुसन्निकृष्टमेव प्रकाशकं दृष्टं दीपप्रभादि । अतस्तदपि तथेति युक्तमाश्रयितुं । व्योमवदमूर्तस्य न क्रियावत्त्वमिति चेत्, केयं मूर्तिर्नाम ? यद्विरहिणः क्रियायोगः । यदि परिभाषिकी द्रव्यत्वे सति क्वाचित्कतेति ।
इष्यत एव सा चैतन्ये । न हि तत्सर्वगतं द्रव्यम्, तथासति युगपत्सर्वार्थसिद्धिप्रसङ्गात् । क्वाचित्कत्वे तु तद्वि यदैकदैकेन्द्रियेण संप्रयुक्तं तदर्थाभिमुखम्, न तदेन्द्रियान्तरमधितिष्ठति । अत एव हि युगपज्ज्ञानानुत्पत्तिः । निरतिशयवेगं च तत्, युगपदिवातिशीघ्रमनेकेन्द्रियाधिष्ठानदर्शनात् । अतो यथोदितममूर्तत्वमसिद्धं । स्पर्शवत्ता मूर्तिः, तद्वितरहान्निष्क्रियत्वमिति चेत्; शब्देनानैकान्तः । स खलु शङ्खमुखादेर्दवीयसोऽपि देशात्नोदनविशेषेण लोष्टादिरिव यावद्वेगं प्रतिष्ठते स्पर्शविहीनोऽपि । स्पर्शरहितस्यापि मनैन्द्रियस्य क्रियावत्त्वं पदार्थवाक्यार्थविदामुभयेषामपि संमतमेव ।
कथमतीतानागतयोरसतोश्चैतन्येन संप्रयोग इति चेत्, कथं वा विषयभावः, प्रकाशमानत्वम्, सङ्ख्यादियोगो वा तयोः ? यस्तत्र निर्वाहः, स एवात्रास्तु । अपि चातीततयानागततया च तावप्यद्यापि विद्येते इति तेन रूपेण बोधसन्निकर्षे कानुपपत्तिः ? किञ्च, यथा दवीयसि देशे सता ध्रुवशिंशुमारादिना दृक्तु सन्निकृष्यते, तथा दवीयसि काले सता कल्पाद्यन्तवर्तिना स्वयंभुवादिनेति नालोकं किञ्चित् । किञ्च

मूलम्

आपेक्षिकत्वात्द्वित्वादेः प्रतियेग्यववग्रहात् ।
बुभुत्सोपरमाच्चापि सत्या एवानवग्रहः ॥ ३३ ॥
अतश्चैतन्यस्यैवेन्द्रियद्वारार्ऽथसन्निकर्ष एव तद्भावानुविधानोपपत्तिः ।
अन्यच्च, अर्थस्य प्रकाशकं हि ज्ञानं भवतां । सर्वं च प्रकाशकं प्रकाश्यवस्तुसन्निकृष्टमेव प्रकाशकं दृष्टं दीपप्रभादि । अतस्तदपि तथेति युक्तमाश्रयितुं । व्योमवदमूर्तस्य न क्रियावत्त्वमिति चेत्, केयं मूर्तिर्नाम ? यद्विरहिणः क्रियायोगः । यदि परिभाषिकी द्रव्यत्वे सति क्वाचित्कतेति ।
इष्यत एव सा चैतन्ये । न हि तत्सर्वगतं द्रव्यम्, तथासति युगपत्सर्वार्थसिद्धिप्रसङ्गात् । क्वाचित्कत्वे तु तद्वि यदैकदैकेन्द्रियेण संप्रयुक्तं तदर्थाभिमुखम्, न तदेन्द्रियान्तरमधितिष्ठति । अत एव हि युगपज्ज्ञानानुत्पत्तिः । निरतिशयवेगं च तत्, युगपदिवातिशीघ्रमनेकेन्द्रियाधिष्ठानदर्शनात् । अतो यथोदितममूर्तत्वमसिद्धं । स्पर्शवत्ता मूर्तिः, तद्वितरहान्निष्क्रियत्वमिति चेत्; शब्देनानैकान्तः । स खलु शङ्खमुखादेर्दवीयसोऽपि देशात्नोदनविशेषेण लोष्टादिरिव यावद्वेगं प्रतिष्ठते स्पर्शविहीनोऽपि । स्पर्शरहितस्यापि मनैन्द्रियस्य क्रियावत्त्वं पदार्थवाक्यार्थविदामुभयेषामपि संमतमेव ।
कथमतीतानागतयोरसतोश्चैतन्येन संप्रयोग इति चेत्, कथं वा विषयभावः, प्रकाशमानत्वम्, सङ्ख्यादियोगो वा तयोः ? यस्तत्र निर्वाहः, स एवात्रास्तु । अपि चातीततयानागततया च तावप्यद्यापि विद्येते इति तेन रूपेण बोधसन्निकर्षे कानुपपत्तिः ? किञ्च, यथा दवीयसि देशे सता ध्रुवशिंशुमारादिना दृक्तु सन्निकृष्यते, तथा दवीयसि काले सता कल्पाद्यन्तवर्तिना स्वयंभुवादिनेति नालोकं किञ्चित् । किञ्च

सत्प्रतिपक्षमाशङ्कतेऽ यत्त्वनेकेऽ ति । परिहरतिऽ तदिऽ ति । नानात्वंबहुत्वं । तस्य च व्यासज्यवृत्तित्वाद्द्वित्वादिवद्गुणत्वमेव । न तु भेदरूपत्वं । भेदस्याव्यासज्यवृत्तित्वादिति भावः ।

ननु यावदाश्रयं सत्त्वे आश्रयोपलम्भकाले नियमत एकत्वस्येव द्वित्वादेरुपलम्भः प्रसज्यते इति चेत्तत्राहऽ आपेक्षिकत्वाऽ दिति । संबन्ध्यन्तरग्रहसापेक्षग्रहस्य द्वित्वादेः प्रतियोगिनः संबन्ध्यन्तरस्याग्रहणात्, ग्रहणे वा द्वित्वादिबुभुत्साया अपेक्षाबुद्धेश्च तद्वोधे सहकारिण्या विरहेण न सदा ग्रह इति भावः । एवं च निमित्तनाशनाश्यत्वस्य न निदर्शनीभवितुमलं द्वित्वादत्युक्तं भवति । वस्तुतोऽपेक्षाबुद्धिविशेषातिरिक्तं द्वित्वादिकमेवाप्रामाणिकमिति तन्नाशाधीनतन्नाशस्य न तरां प्रसक्तिरिति बोध्यम् ॥ ३३ ॥

{नातीतानागते बुद्धेर्दूरे भवितुमर्हतः ।
बुद्ध्या प्रकाशमानत्वाद्बुद्धिबोद्धृस्वरूपवत् ॥ ३४ ॥
एवं च चैतन्यस्य
निरतिशयवेगितयान्तरालदेशकालाग्रहणाभिमानोऽलातचक्रगतक्रमवद्देशभेदसंयोगविभागाग्रहणाभिमानवत् । अपि चेन्द्रियलिङ्गसंस्कारादेर्यदर्थप्रतिनियतं रूपम्, तैनैवोपश्लिष्य निस्सरच्चैतन्यमपि तद्गोचरेणैव सन्निकृष्टते ; यथा गवादिपदशक्तिरेकबुद्धिसिद्धेऽपि सामान्यविशेषात्मके वस्तुनि सामान्यांशेनैव संबध्यते, यथा वा विधिः प्राप्तांशपरिहारेणाप्राप्तांशमेव भावनायाः स्पृशति । अत इन्द्रियादिद्वारेण चैतन्यं तदर्थाभिमुखं निर्गच्छतीति न्याय्यं । यथाऽह भगवान्”}
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ” इति । मनुश्च, “ इन्द्रियाणां हि सर्वेषां यद्येकं क्षरतीन्द्रियं । तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकं ॥ {”} {इति ।
यत्तु गुणश्चैतन्यं गुणिनमपहाय कथमन्यतो यातीति ; तदयुक्तम्, प्रहाणानभ्युपगमात् । अप्रहायैवात्मानमितस्ततश्चेतना इन्द्रियादिद्वारान्निश्चरति । विच्छिन्नायाश्च तस्याः सन्धानासंभवः शास्र एवोक्तः । दृश्यन्ते च गुणा अपि शब्दगन्धसूर्यालोकरत्नप्रभादयो गतिमन्तो धर्म्यतिवर्तिनश्च । अतिसूक्ष्मो दूरगमनधर्मा भौतिको हि शब्दः ।
ननु नभ इव विभुः शब्दो व्यञ्जकध्वनिवशेन प्रादेशिक इव गत्वर इव चोपलभ्यते । तथाहिशब्दः सर्वव्यापी एकद्रव्यवर्तित्वे सत्याकाशगुणत्वात्तत्परिमाणवत् । मैवम्, अतद्गुणत्वात् । वायवीयः शब्दः, तेन नियतसहोत्पत्तिकत्वात्, तदीयस्पर्शवत् । यश्च येन द्रव्येण नियतसहोत्पत्तिर्गुणः स तद्गुण एव, यथा तथाविधा रूपादयः । नियतसहोत्पत्तिश्च वायुना शब्दः । उभयोरपि भेरीदण्डवंशदलनादिसंयोगविभागजत्वनियमात् । उत्पद्यते च शब्दः इन्द्रियग्राह्यत्वे सति गुणत्वात्गन्धादिवत् । कृतकश्च, क्रियोत्तरमेवोपलभ्यत्वात्संयोगादिवत् । न चाभिव्यञ्जकत्वं प्रयत्नादेः कल्प्यम्, गौरवात् । तत्प्रतीतिकारणत्वकल्पनादपि तत्कारणत्वकल्पनैव हि लघ्वी । अभिव्यञ्जकाश्च एकदेशावस्थितानेकेन्द्रियग्राह्यान्युगपदभिव्यञ्जन्ति, यथा प्रदीपो रूपसङ्ख्यापरिमाणानि करकादींश्चैकप्रदेशवर्तिनः । न चैवं ताल्वादिसंयोगविभागजनितपवन इति नासौ व्यञ्जकः ।}

ज्ञानस्यार्थसन्निकर्षानुपगमे बाधकमुक्त्वार्ऽथसन्निकर्षे साधकं चाहऽ अन्यच्चेऽ ति । ज्ञानस्य वहिःप्रसरणेऽमूर्तत्वविरोधमाशङ्कतेऽ व्योमवऽ दिति । मूर्तत्वविकल्पेनैनां शङ्कां

निरस्यतिऽ केयम्ऽ इत्यादिना ।ऽ न हि तऽ दिति । बन्धदशायां ज्ञानस्याविभुत्वमेवेति भावः ।ऽ न तदेऽ ति । एकेन्द्रियाधिष्ठानकाले इन्द्रियान्तरसंपृक्तं सत्तन्न प्रवर्तयति तदर्थसन्निकर्षायेत्यर्थः । एवं चाविभुद्रव्यत्वलक्षणमूर्तत्वस्य ज्ञाने सत्वादमूर्तत्वमसिद्धमिति भावः । स्पर्शवत्त्वं मूर्तत्वमिति पक्षे दोषमाहऽ शब्देनेऽ ति । यस्यास्पर्शत्वं तस्याक्रियत्वमिति नियमोऽसिद्धः । शब्दस्यामूर्तस्यापि क्रियावत्त्वात् । तथा चास्पर्शस्यापि ज्ञानस्य प्रसरणादौ नानुपपत्तिरिति भावः । अनैकान्त्यप्रदर्शनं शब्दे तस्य द्रव्यत्वमतेन । तस्य द्रव्यत्वे विमत्यामपि संप्रतिपन्नस्थलान्तरे तद्दर्शयत्ऽ स्पर्शेऽ ति । यद्वा ननु शब्दस्याश्रयद्वारैव गतिर्वाच्या । शब्दाश्रयश्च वायुः स्पर्शवानिति न निरुक्तनियमे क्षतिरिति चेत्तत्राहऽ स्पर्शेऽ ति । पदार्थविदः काणादाः, वाक्यार्थविदो जैमिनीयाः । उभयेषामपि सम्मतं मनसो निःस्पर्शस्यापि क्रियावत्त्वमित्यर्थः ।

अर्थसन्नकर्षेण ज्ञानस्यार्थप्रकाशकत्वेऽतीतेनानागतेन वार्ऽथेन सन्निकर्षायोगाज्ज्ञानन तत्तदर्थप्रकाशव्यवहारौ न घटेते इति शङ्कतेऽ कथमतीतेऽ ति । प्रतिबन्दीमाहऽ कथं वेऽ ति । अतीतानागतयोर्वर्तमानज्ञानविषयत्वं वैशेषिकमते, वर्तमानज्ञानाधीनप्रकाशाख्यधर्मसमवायित्वं भाट्टमते, मतद्वयेऽपि द्वित्वादिसङ्ख्या च वर्तमानापेक्षाबुद्धिजन्यातयोः कथं घटत इत्यर्थः । उत्तरतौल्यं स्फोरयतिऽ यस्तत्रेऽ ति । ज्ञानविषयत्वे ज्ञानाधीनधर्मभाक्त्वे वा ज्ञानाधीने वर्तमानत्वमर्थस्य नापेक्षितमित्यकामेनापि स्वीकार्यं । अस्माभिरपि ज्ञानसन्निकर्षस्तथैवोपपाद्यत इति भावः । वस्तुतः सिद्धान्ते ध्वंसप्रागभागभावलक्षणावस्थान्तरेण तयोरपि ज्ञानकाले सत्त्वाज्ज्ञानसन्निकर्ष उपपद्यत एवेत्याहऽ अपि चेऽ ति । कानुपपत्तिरित्यत्र क्वचित्का नामानुपपत्तिरिति पाठः । नन्वेवमपि तत्तत्कालस्य ज्ञानेन ग्रहणं न स्यादद्यतनेन, तस्येदानीमभावादित्यत्राहऽ किञ्चेऽ ति । ज्ञानास्यातिवेगितया तत्तत्कालसन्निकर्षेण तत्तद्ग्रहणमुपपन्नमित्यर्थः । व्यवहितकालसन्निकर्षे ज्ञानस्य निदर्शनं व्यवहितदेशसन्निकर्षोऽतिवेगिनो नायनतेजसः ।

दूरत्वेऽपि बुद्ध्या सन्निकर्षो घटत इत्युक्तं । इदानीं बुद्ध्यपेक्षयादूरत्वमेव नेत्याहऽ नातीतेऽ ति । बुद्ध्यदूरत्वमेव बुद्धिसन्निकर्षो बोध्यबोधबोद्धृसाधारण इति तु सिद्धान्तः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

नित्यत्ववादिनः शब्दा निर्भागव्योमवर्तिनः ।
श्रावणाश्चेत्यभिव्यक्तिनियमे नास्ति कारणम् ॥ ३५ ॥
देशैक्ये ग्राहकैक्ये च व्यञ्जकैक्यं हि दर्शितं ।
तदभावात्प्रयत्नोत्थमारुतः कारणं ध्वनेः ॥ ३६ ॥
अत एव च नानात्वं प्रत्युच्चारणमिष्यतां ।
कृतस्य कारणायोगाद्धेतुपौष्कल्यभेदतः ॥ ३७ ॥
किञ्चोदात्तानुदत्तत्वदीर्घत्वह्रस्वतादयः ।
गादिस्था युगपद्भान्तो न भिन्द्युः स्वाश्रयान्कथम् ॥ ३८ ॥
स्थानैक्यापातसादृश्यात्प्रत्यभिज्ञापि नैक्यतः ।
प्रदीपप्रत्यभिज्ञेव ज्ञापिता भेदहेतवः ॥ ३९ ॥
नन्वेवं चैतन्यसंयोगः, संयोगजो वा कश्चित्प्रकाशः प्राप्तः । उभयमपि तन्न चैतन्ये संभवति, भेदापेक्षत्वात्संबन्धस्य । आत्मनोऽपि न चैतन्येन संयोगः, तद्धर्मित्वात् । न हि धर्मधर्मिणोः संबन्धः संयोगः । समवायो हि सः ; अयुतसिद्धसंबन्धत्वात् । संयोगस्तु पृथक्सिद्धयोर्द्रव्ययोः क्रियानिमित्ता प्राप्तिः, अकार्य कारणयोर्वा तयोर्निरन्तरस्थितिः । चैतन्यसंयोगसमवाययोरन्यतरस्य, संबन्धमात्रस्य वा प्रकाशत्वे ज्ञातृज्ञानज्ञेयशरीरेन्द्रियेष्वव्याप्त्यतिव्याप्ती यथायोगमादर्शयितव्ये । तत्त्वान्तरप्रकाशाभ्युपगमस्त्वनुपलब्धिबाधितो न दूषणान्तरं प्रयोजयति । अतो यद्व्यवहारोदयानुगुणं ज्ञानम्, तत्प्रकाशत इत्येवाभ्युपगमो युक्तः । त्रितयव्यवहारानुगुण्यं संविदस्तु स्वभाव इत्यपर्यनुयोज्यं निमित्तवैरूप्यं । न हि स्वभावाः पर्यनुयोगमर्हन्ति । एवं चेत्संयोगसमवायविरहिणोऽपि पदार्थस्य निमित्तभेदानुसारेण व्यवहारहेतुः संविदिति युक्तमाश्रयितुं ।
उच्यते । उक्तमत्र, न निमित्तकारणमनुरुध्य कार्यं स्वकार्यमारभत इति । व्यवहारानुगुणसंवेदनत्वेऽपि प्रकाशपदार्थे प्रवृत्तिनिमित्तभेदो दुष्परिहर एव । बहुव्रीहिसमासाश्रयणे संविदन्तराभावेन तस्यां तदभावप्रसङ्गात् । कर्मधारयाश्रयणे ज्ञातृज्ञेययोरसंवेदनत्वेनाप्रकाशप्रसङ्गः । व्यवहारोदयानुगुण्यं च व्यवहारतोऽवगन्तव्यं । ततः प्रागेव च भवति विदितत्वप्रतीतिर्व्याहारश्च ।
यद्येवम्, कस्तर्हि प्रकासतेपदार्थः ? । न हि निरवद्यमेकरूपं ज्ञातृज्ञेयज्ञानानुगतं तमुपलभामहे । उच्यते । नूनं भवानश्रुतपूर्वी प्रथमाधिकरणस्य न्यायतत्त्वे । अभिहितं हि तत्रेदमनुभवे स्मृतिमुपपादयद्भिः,ऽअनुभवादूरत्वं स्मृतिनिमित्तऽं इति । एतदुक्तं भवतिसंविददूरत्वं प्रकाश इति ।
आहकिमिदमदूर इति ? दूरादन्यस्तद्विरुद्धस्तदभावो वा ? तथा विशेषणमुपलक्षणं वा अदूर इति ? विशेषणत्वे पक्षत्रयेऽपि संवेदनदूरत्वानुसन्धानपूर्विकया प्रकाशत इति प्रतीत्या भवितव्यं । न च तथास्ति । उपालक्षणत्वे स्वरूपान्तरं वाच्यं । न च दवगम्यत इत्युक्तं । उच्यते ; अलमस्थाने संभ्रमेण ।

मूलम्

नित्यत्ववादिनः शब्दा निर्भागव्योमवर्तिनः ।
श्रावणाश्चेत्यभिव्यक्तिनियमे नास्ति कारणम् ॥ ३५ ॥
देशैक्ये ग्राहकैक्ये च व्यञ्जकैक्यं हि दर्शितं ।
तदभावात्प्रयत्नोत्थमारुतः कारणं ध्वनेः ॥ ३६ ॥
अत एव च नानात्वं प्रत्युच्चारणमिष्यतां ।
कृतस्य कारणायोगाद्धेतुपौष्कल्यभेदतः ॥ ३७ ॥
किञ्चोदात्तानुदत्तत्वदीर्घत्वह्रस्वतादयः ।
गादिस्था युगपद्भान्तो न भिन्द्युः स्वाश्रयान्कथम् ॥ ३८ ॥
स्थानैक्यापातसादृश्यात्प्रत्यभिज्ञापि नैक्यतः ।
प्रदीपप्रत्यभिज्ञेव ज्ञापिता भेदहेतवः ॥ ३९ ॥
नन्वेवं चैतन्यसंयोगः, संयोगजो वा कश्चित्प्रकाशः प्राप्तः । उभयमपि तन्न चैतन्ये संभवति, भेदापेक्षत्वात्संबन्धस्य । आत्मनोऽपि न चैतन्येन संयोगः, तद्धर्मित्वात् । न हि धर्मधर्मिणोः संबन्धः संयोगः । समवायो हि सः ; अयुतसिद्धसंबन्धत्वात् । संयोगस्तु पृथक्सिद्धयोर्द्रव्ययोः क्रियानिमित्ता प्राप्तिः, अकार्य कारणयोर्वा तयोर्निरन्तरस्थितिः । चैतन्यसंयोगसमवाययोरन्यतरस्य, संबन्धमात्रस्य वा प्रकाशत्वे ज्ञातृज्ञानज्ञेयशरीरेन्द्रियेष्वव्याप्त्यतिव्याप्ती यथायोगमादर्शयितव्ये । तत्त्वान्तरप्रकाशाभ्युपगमस्त्वनुपलब्धिबाधितो न दूषणान्तरं प्रयोजयति । अतो यद्व्यवहारोदयानुगुणं ज्ञानम्, तत्प्रकाशत इत्येवाभ्युपगमो युक्तः । त्रितयव्यवहारानुगुण्यं संविदस्तु स्वभाव इत्यपर्यनुयोज्यं निमित्तवैरूप्यं । न हि स्वभावाः पर्यनुयोगमर्हन्ति । एवं चेत्संयोगसमवायविरहिणोऽपि पदार्थस्य निमित्तभेदानुसारेण व्यवहारहेतुः संविदिति युक्तमाश्रयितुं ।
उच्यते । उक्तमत्र, न निमित्तकारणमनुरुध्य कार्यं स्वकार्यमारभत इति । व्यवहारानुगुणसंवेदनत्वेऽपि प्रकाशपदार्थे प्रवृत्तिनिमित्तभेदो दुष्परिहर एव । बहुव्रीहिसमासाश्रयणे संविदन्तराभावेन तस्यां तदभावप्रसङ्गात् । कर्मधारयाश्रयणे ज्ञातृज्ञेययोरसंवेदनत्वेनाप्रकाशप्रसङ्गः । व्यवहारोदयानुगुण्यं च व्यवहारतोऽवगन्तव्यं । ततः प्रागेव च भवति विदितत्वप्रतीतिर्व्याहारश्च ।
यद्येवम्, कस्तर्हि प्रकासतेपदार्थः ? । न हि निरवद्यमेकरूपं ज्ञातृज्ञेयज्ञानानुगतं तमुपलभामहे । उच्यते । नूनं भवानश्रुतपूर्वी प्रथमाधिकरणस्य न्यायतत्त्वे । अभिहितं हि तत्रेदमनुभवे स्मृतिमुपपादयद्भिः,ऽअनुभवादूरत्वं स्मृतिनिमित्तऽं इति । एतदुक्तं भवतिसंविददूरत्वं प्रकाश इति ।
आहकिमिदमदूर इति ? दूरादन्यस्तद्विरुद्धस्तदभावो वा ? तथा विशेषणमुपलक्षणं वा अदूर इति ? विशेषणत्वे पक्षत्रयेऽपि संवेदनदूरत्वानुसन्धानपूर्विकया प्रकाशत इति प्रतीत्या भवितव्यं । न च तथास्ति । उपालक्षणत्वे स्वरूपान्तरं वाच्यं । न च दवगम्यत इत्युक्तं । उच्यते ; अलमस्थाने संभ्रमेण ।

नन्वेवमपि व्यवहितदेशकालसन्निकर्षस्य मध्यवर्तिदेशकालसन्निकर्षनान्तरीयकतया मध्यवर्तिनामपि ग्रहणं स्यादिति प्रसङ्गमिष्टत्वेन परिहरतिऽ एवं चेऽ ति । नन्वेवमपि चक्षुषा प्रसृतस्य ज्ञानस्य रसादिभिरपि सति सन्निकर्षे तेन रूपस्यैव प्रकाशनं न तु रसादेरिति व्यवस्था कथमित्यत्राहऽ अपि चेऽ ति । यदर्थप्रतिनियतं रूपम्यदर्थ एव व्यवस्थितं बोधजननसामर्थ्यं । तेनतदर्थप्रतिनियतरूपेणेन्द्रियादिना । तद्गोचरेणैवतत्तादिन्द्रियादियोग्यार्थेनैव । एवं च चाक्षुषज्ञानस्य न रसादिना सन्निकर्ष इति भावः । योग्यांशेनैव संबन्धे लौकिकं वैदिकं च निदर्शनंऽ यथेऽ तिऽ यथा वेऽ ति च । गवादिपदशक्तेस्तद्व्यक्तिलक्षणविशेषेण सम्बन्धे तत्तत्पदाद्व्यक्त्यन्तरबोधो न स्यात् । सामान्यांशेन संबन्धे तु स्यादिति गवादिपदसंबन्धयोग्यत्वं सामान्यस्यैव मतं । विधेश्च प्राप्तार्थेऽन्वयस्य निरर्थकत्वादप्राप्तेनैवान्वययोग्यता मता । तेन तेन च तत्तदन्वय इष्यते यथा, एवं तत्तदैन्द्रियिकादिज्ञानस्य तत्तदिन्द्रियाद्यर्थेनैव संबन्धो मन्तव्यः ; अन्यथान्धबधिरादिविलोपप्रसङ्गात्, अव्यवस्थाप्रसङ्गाच्चेति भावः । भावनायाः साध्यसाधनेतिकर्तव्यतान्वयित्वेऽपि भावनान्ययिन्यप्राप्ते साधनांश एव विधितात्पर्यमिति मीमांसकाः । तदर्थाभिमुखमेवैन्द्रिययोग्यार्थप्रकाशनैकतत्परं । संबन्धमात्रं न सन्निकर्षः । किन्तु संबन्धविसेषः । स च तत्तदिन्द्रिययोग्यार्थेनैव तत्तदैन्द्रियिकज्ञनस्येति न चाक्षुषादिना

रसादेः प्रकाश इति हार्दं । चाक्षुषादिज्ञानस्य रसादिन संबन्ध एव नास्तीति तु कश्चन पक्षः । प्रागुक्तपक्ष एव तु युक्तः । इन्द्रियार्थभिमुखतया ज्ञानस्य प्रसरणे श्रीमद्गीतावाक्यं प्रमाणयतिऽ तदस्येऽ ति । " {इन्द्रियाणां हि चरतां
यन्मनोऽनुविधीयते}
" इति पूर्वार्धं । आत्मग्रहणप्रवृत्तं ज्ञानमिन्द्रियार्थप्रवणं मन इन्द्रियद्वारा विषयाभिमुखं नयतीत्यर्थः इन्द्रियद्वाराज्ञानस्य प्रसरणे मनोर्वाक्यम्ऽ इन्द्रियाणाऽं इति । क्षरतिबाह्यविषयमभिसरति । तेनेन्द्रियद्वारेण चैतन्यमिपि निस्सरति चर्मभस्त्रिकाच्छिद्रद्वारेव जलमित्यर्थः ।

ऽअप्रहायैवेऽति । सङ्कोचविकाशशालिनो ज्ञानस्यात्मधर्मस्यापरित्यज्यैवात्मसंबन्धं विकासावस्थया बाह्यार्थसंबन्धो घटत इति यावत् । गुणस्याप्याश्रयादन्यत्र गमने निदर्शनमाहऽ दृश्यन्तऽ इति । धर्म्यतिवर्तित्वन्धर्मिदेशाधिकदेशसंबन्धित्वं । गुणत्वं चायुतसिद्धप्रकारत्वलक्षणं द्रव्याद्रव्यसाधारणमत्र वाच्यम्, शब्दगन्धयोरद्रव्ययोरालोकप्रभयोश्च द्रव्ययोर्गुणत्वेनोपादानात् । गुणस्य गतिमत्त्वादि तु आश्रयांशद्वारा । न चैवं धर्म्यतिवर्तित्वमसिद्धमिति वाच्यं । प्रसिद्धाश्रयशङ्खपुष्पाद्यतिवर्तित्वे तात्पर्यात् ।ऽ दूराद्गन्धो वातीऽ तिश्रुतिर्गन्धस्य गतिमाह । शब्दस्य गतिमत्त्वंऽशङ्खनादोऽयऽ मित्याद्युपलब्धेर्दूरेऽपि । नन्वाकाशगुणत्वाच्छब्दस्याश्रयद्वारापि गतिर्नोपपद्यत इत्यत्राहऽ अतिसूक्ष्मऽ इति । भौतिकःभूतजनितः । भेरीदण्डाभिघातादिनोद्भूते वायौ शब्दो जायते । आश्रयवाय्यंशविशरणवशाच्च नानादिक्षु तस्यापि सम्बन्धो घटत इति भावः । अतिसूक्ष्मत्वाद्दूरगन्तृत्वं वायोः । आश्रयधर्मश्चाश्रययिण्युपचरित इति बोध्यं ।

नन्वाकाशगुणस्य शब्दस्य विभुत्वादेव न गमनापेक्षा । यत्कृते वायवीयत्वं कल्प्येत । व्यञ्जकयोगिदेश एवोपलम्भनियमाच्च न विभुत्वेऽपि सर्वत्रोपलम्भप्रसङ्ग इति शङ्कतेऽ ननु नभऽ इति । शब्दस्य विभुत्वं साधयतिऽ शब्दऽ इति । घटाकाशसंयोगादौ व्यभिचारवारणाय हेतौ विशेषणदलं । घटाद्येकत्वादौ तद्वारणाय विशेष्यं । एतद्दूषयतिऽ मैवऽं इति । स्वरूपासिद्धिमाहऽ अतद्गुणत्वाऽ दिति । आकाशगुणत्वाभावादित्यर्थः । नन्वाकाशगुणत्वं शब्दस्य शास्त्रसिद्धं कथं प्रतिक्षिप्यत इति चेत्; उच्यते । आगमानुसारे आकाशस्यैव न विभुत्वमिति न तरां तद्गुणस्य विभुत्वं । युक्त्या तु केवलया वायवीयत्वमेव सेत्स्यति शब्दस्येति हार्दं । युक्तिमेवाहऽ वायवीयऽ इति । विभुत्वं प्रतिक्षिप्य नित्यत्वमपि शब्दस्य प्रतिक्षिपति मीमांसकाभिमतम्ऽ उत्पद्यते चेऽ ति । अनेन वायवीयत्वानुमाने शब्दस्य हेतुविशेष्यांशासिद्धिरपि परिहृता । ननु तदुत्तरकालोपलभ्यत्वं तद्व्यङ्ग्यत्वादपि घटेतेत्यप्रयोजकत्वं हेतोरिति शङ्कां

प्रतिक्षिपतिऽ न चेऽ ति । गौरवात्तद्धेतुत्वकल्पनातस्तदभिव्यक्तिहेतुत्वकल्पनायां गौरवात् । विपक्षे गौरवप्रसङ्गः स्वपक्षस्यानुग्राहकस्तर्क इति हृदयं । अभिव्यक्तिपक्षेऽनुपपत्तिमप्याहऽ अभिव्यञ्जकाश्चेऽ ति । उच्चारणस्य वर्णाभिव्यञ्जकत्वे युगपदेव नानावर्णाभिव्यक्तिप्रसङ्गः । अभिव्यञ्जकस्यैकदेशस्थैकेन्द्रिय ग्राह्यसर्वाभिव्यञ्जनस्वाभाव्यादिति भावः । वर्णाभिव्यञ्जकपवने वैजात्यपरिकल्पने त्वतिगौरवम्व्यक्तिहेतुत्वकल्पनम्, व्यक्तिव्यवस्थित्यै व्यञ्जकै वैजात्यकल्पनं चेत्यपि बोध्यं ।

व्यञ्जकत्वे दोषमेवोपपादयति सार्धश्लोकेनऽ नित्यत्वेऽ ति । नित्यत्ववादिन इति षष्ठ्यन्तं । मते इति शेषः । एकाश्रयकत्वमेकन्द्रियग्राह्यत्वं च विशेषणद्वयेव सूचितं । तथा चैकोच्चारेणे सर्वव्यञ्जनप्रसङ्गो व्यञ्जकत्वपक्षे इति निगमयतिऽ देशैक्येऽ इति ।ऽ तदभावाऽ दिति । एकव्यञ्जकव्यङ्ग्यत्वाभावात्ध्वनेःवर्णस्योच्चारणप्रयत्नोत्थितः कोष्ठ्यमारुतस्ताल्वादिस्थानेऽभिघातं प्राप्त उत्पादक एव तस्य तस्य वर्णस्येत्यर्थः । व्यङ्ग्यत्वासंभवादुत्पाद्यत्वपक्षे प्रसक्तं प्रत्युच्चारणं गकारादेर्भिन्नत्वमपि सम्मन्तव्यमेवेत्याहऽ अत एवेऽ ति । विरुद्धधर्मोपलम्भादपि भेदं गादेः साधयतिऽ किञ्चोदात्तेऽ ति । आदिपदेन तारत्वमन्दत्वादि ग्राह्यं । एकस्यैव कालभेदेन विरुद्धान्वयसम्भवाद्युगपद्भान्त इत्युक्तं । भान्तःभासमानाः । व्यञ्जकत्वासम्भवादेव व्यञ्जकधर्मा व्यङ्ग्येसमारोप्यन्त इत्यपि दुर्वचमित्याशयः । ननु सोऽयं गकार इत्यादिप्रत्यभिज्ञा कथं प्रत्युच्चारणं भेदे ? तत्राहऽ स्थानैक्येऽ ति । सादृश्यमूलत्वाद्भ्रान्तिरूपा सेति भावः ॥ ३५ ॥ ३६ ॥३७ ॥ ३८ ॥ ३९ ॥

विश्वास-प्रस्तुतिः

भवत्वनुभवादूरं दूरादन्यद्विरोधि वा ।
तद्भावश्च प्रकाशत्वं (स्तु) किमत्र बहु जल्प्यते ॥ ४० ॥
प्रकाशत इति प्रतिभासोऽपि बुद्धिविप्रकर्षप्रत्यनीकबोधतत्संसृष्ट पदार्थस्वरूपविमर्श एव, बाह्यप्रकाशवत् ।
तत्रापि ह्यालोके तद्व्याप्तभूभागादौ च प्रकटादिप्रख्योपाख्ये आलोकादूरत्वनिमित्ते । यथा च तत्र तन्निमित्ता सन्तमसनिवृत्तिः, एवमिहापि ज्ञानदूरत्वनिमित्ता अज्ञाननिवृत्तिः । अत एव चानुभूते अनुभवे चोत्तरकालतुल्यत्स्मरणं ।
एवं च चैतन्यसंबन्धविशेषविषयविकल्पोऽप्यलब्धावकाश इति निरनुयोज्यानुयोग एव । नैरन्तर्यपदप्रयायमत्यन्तसामीप्यमात्रं च संयोगः । स एव परतन्त्राश्रितः समवायपदपरिभाषाभूमिर्वैशेषिकाणामिति नार्थान्तरत्वमूरीकृत्य विकल्पः संभवति । यथा च संयोगान्तर्भावः समवायस्य, तथा संबन्धविमर्शे दर्शयिष्यामः । ज्ञानादूरत्व प्रयुक्तो व्यवहारक्षमतालक्षणो वा परः प्रकाशः । स च सत्यपि स्वनिमित्तपौष्कल्ये प्रतिबन्धात्योग्यताविरहाद्वा व्यापित्वसङ्गित्वाद्यात्मधर्मान्तरेषु देहेन्द्रियादौ च न सञ्जायते, चक्षुस्सन्निकृष्ट इव कालिन्दीपयसि रूपरसादयः ।

मूलम्

भवत्वनुभवादूरं दूरादन्यद्विरोधि वा ।
तद्भावश्च प्रकाशत्वं (स्तु) किमत्र बहु जल्प्यते ॥ ४० ॥
प्रकाशत इति प्रतिभासोऽपि बुद्धिविप्रकर्षप्रत्यनीकबोधतत्संसृष्ट पदार्थस्वरूपविमर्श एव, बाह्यप्रकाशवत् ।
तत्रापि ह्यालोके तद्व्याप्तभूभागादौ च प्रकटादिप्रख्योपाख्ये आलोकादूरत्वनिमित्ते । यथा च तत्र तन्निमित्ता सन्तमसनिवृत्तिः, एवमिहापि ज्ञानदूरत्वनिमित्ता अज्ञाननिवृत्तिः । अत एव चानुभूते अनुभवे चोत्तरकालतुल्यत्स्मरणं ।
एवं च चैतन्यसंबन्धविशेषविषयविकल्पोऽप्यलब्धावकाश इति निरनुयोज्यानुयोग एव । नैरन्तर्यपदप्रयायमत्यन्तसामीप्यमात्रं च संयोगः । स एव परतन्त्राश्रितः समवायपदपरिभाषाभूमिर्वैशेषिकाणामिति नार्थान्तरत्वमूरीकृत्य विकल्पः संभवति । यथा च संयोगान्तर्भावः समवायस्य, तथा संबन्धविमर्शे दर्शयिष्यामः । ज्ञानादूरत्व प्रयुक्तो व्यवहारक्षमतालक्षणो वा परः प्रकाशः । स च सत्यपि स्वनिमित्तपौष्कल्ये प्रतिबन्धात्योग्यताविरहाद्वा व्यापित्वसङ्गित्वाद्यात्मधर्मान्तरेषु देहेन्द्रियादौ च न सञ्जायते, चक्षुस्सन्निकृष्ट इव कालिन्दीपयसि रूपरसादयः ।

एवं नित्यत्वविभुत्वप्रतिक्षेपेण वायवीयगुणत्वं व्यवस्थापितं युक्त्या शब्दस्य विसृत्वरत्वं च । आत्मगुणस्य चैतन्यस्यान्यत्र संबन्धमात्रे दृष्टान्तः शब्दो गन्दश्च । आश्रयमन्तरान्यत्र गमने दृष्टान्तः सूर्यालोको मणिप्रभा च । द्रव्यरूप्वादन्यत्र गमनं संभवति । आश्रयसंबन्धाविच्छेदात्तद्धर्मत्वं च सुस्थितमिति प्रघट्टकार्थः ।

एवमर्थसंबन्धश्चैतन्यस्योक्तः । प्रकाशतेव्यवहारश्च चैतन्यसंबन्धप्रयुक्त इत्यभिप्रेतं । अत्र प्राभाकरः शङ्कतेऽ नन्वेवऽं इति । चैतन्यसंयोगस्य प्रकाशमानताव्यवहारनियामकत्वे चैतन्ये तदाश्रये तदाश्रये च तद्व्यवहारानुपपत्तिः । चैतन्यसमवायस्य तथात्वे च चैतन्यतद्विषययोस्तद्व्यवहारानुपपत्तिः । चैतन्यसंबन्धमात्रस्य तथात्वे चेन्द्रियादेरपि प्रकाशप्रसङ्गः । अतो निमित्तविसेषादेव तत्तज्ज्ञानस्य तत्तदर्थव्यवहारहेतुत्वं स्वभावतश्च स्वस्वाश्रयव्यवहारहेतुत्वमेष्टव्यमित्यनर्थकमर्तचैतन्यसंबन्धकल्पनमिति समुदिताशयः । विभुद्वयस्य संयोगोऽस्तीति पक्षे क्रियाया अभावात्तत्र संयोगं प्रकारान्तरेण निर्वक्तिऽ अकार्येऽ ति । अवयवावयविभिन्नयोर्द्रव्ययोरन्तरालाव्यवहितस्थितिः संयोग इत्यर्थः । स चाविभौ क्रियया । विभ्वोस्तु स्वत एवेति भावः । अर्थसंबन्धस्य निरासादेव तज्जन्यधर्मान्तरप्रकाशपक्षो निरस्तः । धर्मान्तरप्रकाशेऽनुपलब्धिबाधमप्याहऽ तत्त्वान्तरेऽ ति ।ऽ अपर्यनुयोज्यऽं इति । स्वयमेव स्वस्य व्यवहारहेतुः, स्वाश्रयस्य स्वसमवायात्, विषयस्य तु स्वनिमित्तानुसारता इति प्रयोजकवैषम्यं न दूषणावहमित्यर्थः ।

गुरुमतेऽप्युक्ते दोषमाह विमर्शकःऽ उच्यतेऽ इति । स्वनिमित्तकारणवत्येव देशे स्वकार्यजनकत्वमदृष्टमन्यत्रेति इन्द्रियसन्निकर्षवत्येवार्थेज्ञानेन व्यवहारो निष्पाद्यत इति न

सम्यगिति भावः । दूषणान्तर मप्याहऽ व्यवहारेऽ ति । ज्ञातृज्ञेययोःस्वव्यवहारानुगुणज्ञानकत्वलक्षणः प्रकाशः । ज्ञानस्य तु स्वव्यवहारानुगुणज्ञानत्वलक्षणः स इति त्रिष्वनुगतः प्रकाशपदार्थो नास्त्यनुगतव्यवहारनियामक इत्यर्थः । ननु ज्ञानाधीनं व्यवहारानुगुण्यमेवास्तु प्रकाशः । स चानुगत इत्यत्राहऽ व्यवहारोदयेऽ ति । व्यवहारयोग्यतारूपप्रकाशस्य व्यवहारत एवानुमेयतया व्यवहारात्पूर्वमेव जायमानौ विदितत्वप्रतीतिव्यवहारावनुपपन्नावित्यर्थः ।

एवं विमर्शकेन प्रकाशपदार्थ आक्षिप्ते तटस्थः शङ्कतेऽ यद्येवऽं इति ।ऽ न हीऽ ति । ज्ञानसंबन्धमात्रस्याप्रकाशमानार्थसाधारण्यात्समवायादेश्चाननुगतत्वादन्यूनानतिरिक्तः प्रकाशतेपदार्थो दुर्निरूप इत्यर्थः । प्रकाशतेपदार्थःप्रकाशतेपदघटकप्रकृतिप्रत्ययार्थः । सिद्धान्ती समाधत्तेऽ उच्यतेऽ इत्यादिना । प्रथमाधिकरणस्येति शैषिकषष्ठी । अनुभवे स्मृतिं अनुभवविसयिणीं स्मृतिं ।ऽ अनुभवादूरत्वऽं इति । विषयस्येवानुभवस्याप्यनुभवादूरत्वमस्त्येवेति स्मृतरुपपद्यत इति यावत् । नन्वस्तु नामैतत् । प्रकृत किमायातं ? तत्राहऽ एतदुक्तऽं इति । संविददूरत्वं संविदोऽप्यस्तीत्युक्तप्रायं । तद्रूप एव प्रकाशपदार्थस्त्रिष्वनुगत इत्युक्तं भवतीत्यर्थः ।

शङ्कतेऽ किमिदऽं इति । नञो नानार्थत्वात्प्रकृतेत कोर्ऽथ इति जिज्ञासया शङ्का । नञो यं कञ्चनाप्यर्थमभ्युपगम्य शङ्कान्तरंऽ तथेऽ ति । दूरभेदादेः प्रकाशपदार्थत्वे दूरज्ञानापूर्विकयैव तत्प्रतीत्या भवितव्यं । न च तथोपलभ्यते । तस्योपलक्षणतेवे तूपलक्ष्याकारान्तरं वाच्यं । नचतदस्ति । एवं पक्षद्वयेऽप्यनुपपत्तिप्रतीतिः शङ्कबीजं । विकल्पासहत्वात्संविददूरत्वं न प्रकाशः स्यादित्याक्षेपो वाऽ कि}*ऽ मित्यादिः । परिहरतिऽ *{उच्यतेऽ इति ।

प्रथमविकल्पं प्रतिवक्तिऽ भवत्वनुभवेऽ ति । द्वितीयकल्पं प्रतिवक्तिऽ तद्भावश्चेऽ ति । अनुभवदूरभिन्नत्वमनुभवदूरविरोधित्वं वा प्रकाशत्वम्प्रकाशमानत्वम्, प्रकाशपदार्थ इति यावत् । अत्रानुभवपदं ज्ञानसामान्यार्थकं । अत्रेदं हार्दम्शाखा चन्द्र इत्यादिवदुपलक्ष्योपलक्षणयोः सामानाधिकरण्यनिर्देशःऽ *{तद्भावश्च
प्रकाशत्व}*ऽं इति । तथा च संविददूरत्वोपलक्षितो धर्मः प्रकाश इति ॥ ४० ॥

विश्वास-प्रस्तुतिः

अतो यथोक्तनीत्याऽत्मा स्वतश्चैतन्यविग्रहः ।
ज्ञा(भा)नस्वभाव एवान्यत्करणैः प्रतिपद्यते ॥४१ ॥

मूलम्

अतो यथोक्तनीत्याऽत्मा स्वतश्चैतन्यविग्रहः ।
ज्ञा(भा)नस्वभाव एवान्यत्करणैः प्रतिपद्यते ॥४१ ॥

यत्तु सुखादिनिदर्शनेनात्मविशेषगुणतया चितेरागन्तुकत्वमुपपादितम्, तदपि गुणवृत्तापरिज्ञानेन; यतः

प्रकाशपदार्थविचारो वृत्तः प्रासङ्गिकः । विषयवित्तिवेलायामेवात्मनो वित्त्यधीनः प्रकाश इति वादस्य निरासार्थं प्राग्यत्समर्थितं ज्ञानस्वभावत्वमात्मनोऽन्यापेक्षप्रकाशत्वं च, तन्निगमयति अत इति कारिकया । यतो ज्ञेयज्ञानज्ञातृसाधारणः प्रकाशो निर्वक्तुं शक्यते, अतः पक्षसपक्षानुगतप्रकाशसिद्ध्या सजातीयेतिकारिकोक्तयुक्तया स्वाधीनस्वप्रकाश आत्मा सिद्धः । स च ज्ञानस्वभावक एव । नत्वागन्तुकमस्य ज्ञानं । चक्षुरादिना प्रसृताच्च धर्मभूतज्ञानादर्थान्तरस्यापि प्रकाशको भवत्यात्मेति कारिकार्थः । हानस्वभाव इति प्राचीनमुद्रितपाठस्तु न समीचीनः ॥४१ ॥

विश्वास-प्रस्तुतिः

स्वरूपोपाधयो धर्मा यावदाश्रयभाविनः ।
नैवं सुखादि बोधस्तु स्वरूपोपाधिरात्मनः ॥४२ ॥

मूलम्

स्वरूपोपाधयो धर्मा यावदाश्रयभाविनः ।
नैवं सुखादि बोधस्तु स्वरूपोपाधिरात्मनः ॥४२ ॥

यथा च बोधोपाधिरात्मभावः, तथोपपादितं । सुखदुःखे च नात्मधर्मो, इन्द्रियसौष्ठवनाशयोरेव तद्भावोपपादनात् । व्याकरिष्यते चैतदन्तिमपदार्थसमर्थनावसर इति साधनविकलता च निदर्शनस्य । रागद्वेषादयोऽपि मनोवस्थाविशेषाः न साक्षादात्मगुणाः । विज्ञायते हि “कामः सङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्नीर्धीर्भीरित्येतत्सर्वं मन एवे"ति । गीयते चऽइच्छा द्वेषः सुखं दुःखऽमिति ।ऽचेतनाधृतिऽरिति क्षेत्रलक्षणमैकपद्येन । चेतनया ध्रियमाणः सङ्घातो हि देहः । स्ववृत्त्यनुगुणचैतन्यमात्रादेव प्रवर्तमानं क्षेत्रमिति यावत् । अत एव ह्यन्तर्यामिब्राह्नाणेऽयस्य पृथिवी शरीरम्ऽऽयस्यापः शरीरम्ऽऽयस्यात्मा शरीरऽमित्यादिनिर्देशः ।ऽतानि सर्वाणि तदूपुऽरिति च पुराणे ।

किमिदं धीरिति ? उत्प्रेक्षाभिप्रायं तत्, न ज्ञप्तिविषयं । तस्याः स्वाभाविकत्वस्य तस्यामेव श्रुतौ श्रूयमाणत्वात् । श्रूयते हि “न विज्ञातुर्विज्ञातोर्विपरिलोपो विद्यते” इति, “न हि द्रष्टुर्द्दष्टेर्विपरिलोपो विद्यते अविनाशित्वा"दिति च । ज्ञातुरविनाशित्वादेव ज्ञानस्याविनाशमुपपादयन्तीयं श्रुतिर्ज्ञातुः स्वरूपप्रयुक्तं ज्ञानमिति दर्शयति । न च दृष्टिविशेषणतया द्रष्टुरुपादानमिति साम्प्रतम्, पुंल्लिङ्गनिर्देशविरोधात्; हेतोश्च साध्यसमत्वापत्तेः । द्रष्टुः स्वरूपनिर्देशपरत्वेऽपि

दृष्टिपदस्यासमाधेयमहेतुत्वम्, स्वपक्षहानिश्च । आत्मनस्तु नित्यत्वमप्रचाल्यमनेकन्यायागमसिद्धं युक्तं हेतुतया व्यपदेष्टुं । न हि सति पदार्थे तत्स्वरूपोपाधयो न भवितुमर्हन्ति, सति कनक इव पैङ्गल्यम्, प्रभेव च प्रदीपे । तेनायमर्थःआत्मस्वभावभूतायाश्चितेर्बाह्याभ्यन्तरविषयविशेषसंबन्धप्रकारप्राप्तदृष्टिघ्रातिरसयतिवक्तिश्रुतिमतिस्पृष्टिविज्ञातिव्यपदेशभेदायाः स्वात्मावभासिन्याः संसारापवर्गावस्थयोर्न जातुचिद्विपरिलोपो विद्यत इति ।ऽस यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव, एवं वा अरे अयमात्मा अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघनःऽ तथा,ऽस्वेन भासा स्वेन ज्योतिषाऽऽआत्मज्योतिः सम्राडिति होवाचऽ इति । तथापवर्गदशायामेवच्छन्दोगाःऽ न पश्यो मृत्युं पश्यति न रोगं नोत दुःखतां । सर्वं ह पश्यः पश्यतिऽऽनोपजनं स्मरन्ऽ इति,ऽस वा एष एतेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमतेऽ इति च । अन्याश्चऽजानात्येवायं पुरुषः, ज्ञातव्यं तु न वेदऽ इत्याद्याः सकलकरणोपरमदशायामप्यात्मनः प्रबोधमभिदधानाः श्रुतयो बोधस्वभावतामस्य द्रढयन्ति ।ऽनिर्वाणमय एवायमात्मा ज्ञानमयोऽमलऽ इत्यादि च पुराणे ।ऽज्योतिषामपि तज्ज्योतिऽरित्यादि इतिहासे । भगवान्शौनकश्च

“यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणोः ।

दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा ॥

यथोदपानकरणात्क्रियते न जलाम्बरं ।

सदेव नीयते व्यक्तिमसतः सम्भवः कुतः ॥

तथा हेयगुणध्वंसादवबोधादयो गुणाः ।

प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते ॥“इति ।

अत एव हि सूत्रकारश्चऽज्ञोऽत एवऽ इति ।

( इति धर्मभूतज्ञाननित्यत्वस्य श्रुत्यादिभिः प्रतिष्ठापनम्)

तदेवमात्मस्वभावभूतस्य चैतन्यस्य चैतन्यस्य विषयसंश्लेषविशेषेषु निश्चयसंशयादिव्यवहारभेदः, तत्तद्विशेषभाजि चैतन्ये वा । चैतन्यस्य विषयेण दृढसंयोगो हि निश्चयः; तस्यैव बहुभिर्युगपददृढसंयोगः संशयः; ज्ञानवासनानुसारेण संश्लेषः स्मरणमित्यादिः । उक्तं चऽआत्मधर्मस्य चैतन्यस्य विषयेण संयोगो ज्ञानमित्युच्यतेऽ इति । नचैवं संयोगस्योभयाश्रितत्वेन विषयस्यापि ज्ञातृत्वप्रसङ्गः । विषयेण संयोगाभावात् ।

चैतन्येन हि तस्य संयोगः, बाह्यप्रकाशवत् । यथा खलु आलोकसंबन्धेऽपि प्रकाशे सूर्यादेरेव प्रकाशकत्वं न घटादेः । अथ सूर्यादितन्त्रत्वादालोकस्य स एव तद्धर्मा तत्संबन्धेनार्थान्तरस्य प्रकाश (क) इत्युच्यते, इहापि तर्हि चैतन्यस्यात्मधर्मत्वात्तेनार्थान्तरं स्पृशन्स एव जानातीत्युपपद्यते । तत्सिद्धं चैतन्यस्वभाव एवायमात्मा आत्मानं विदन्नेवास्ते; अन्यत्तु निमित्तभेदानुसारेण जानाति न जानाति चेति ।

(इति धर्मभूतज्ञानस्य संशयाद्यवान्तरभेदोपपादनम्)

तदेवं चैतन्यस्वभावः परिस्फुरन्नप्ययमात्मा गम्भीरजलाशयचरमीनवत्जलसंसृष्टक्षीरवच्च न विविच्य स्फुटं चकास्तीति तदुपपादनन्यायानुगताः पूर्वानुमानभेदाः वचनानि चाद्रियन्ते । तैरप्यपरितुष्यन्तो यमनियमादियोगा

ङ्गानुष्ठानक्षपिताशुद्ध्यावरणमलाःनिरोधाभ्यासपुटपाकनिर्धूतरजस्तमःकलङ्कसत्त्वोद्रेकसमुत्थस्वेतरसकलविषयवैलक्षण्यापरोक्षज्ञानाय प्रयतन्ते । भावनाप्रकर्षपर्यन्ते चापरोक्षज्ञानमुदयत इति सर्ववादिनिर्विवादमिति न तदुपपादनायाद्य प्रयत्यते ।

अथ यद्बोधस्य स्वाभाविकत्वप्रतिपक्षतयाऽगन्तुकत्वमुक्तम्, तदनूद्य प्रतिक्षिपति यत्तु सुखादीति । तदपीति । गुणवृत्तंगुणस्वभावः । स च कः? । तत्राह स्वरूपोपाधय इति । स्वरूपोपाधित्वं स्वरूपनिरूपकत्वं । तथाभूतानां धर्माणां यावदाश्रयभावित्वं स्वभावः । अन्येषां त्वागन्तुकत्वमिति गुणवृत्तं । अस्त्वेवम्, ततः किम्? तत्राह नैवमिति । वैषयिकस्य सुखादेरागन्तुकत्वं स्यादेव । बोधस्य त्वात्मस्वरूपनिरूपकत्वादात्मनश्च नित्यत्वस्य स्थापयिष्यमाणत्वान्नागन्तुकत्वं साधयितुं शक्यत इति बावः ॥४२ ॥

यथा चेति । बोधोपाधिरिति बहुव्रीहिः । ज्ञानाभिन्नस्वरूपनिरूपकधर्मक आत्मपदार्थ इत्यर्थः । ज्ञानवत्त्वेनैवोपलभ्यमानत्वयुक्तया बोधोपाधित्वमात्मनः समर्थितं । विषयसंबन्धकादाचित्कत्वाद्विषयोपरक्तज्ञानस्य कादाचित्कत्वप्रतीतावपि ज्ञानस्वरूपं नित्यमेवेति भावः । यद्यपि ज्ञानस्यात्मस्वभावत्वे नित्यत्वे च शास्त्रमग्रे प्रमाणीकरिष्यते । अथापि युक्तिप्रधानत्वात्प्रकरणस्यास्य युक्तिरेव पुरस्कृतेति बोध्यं । अनेन ज्ञानस्यागन्तुकत्वानुमाने स्वूरूपनिरूपकधर्मभिन्नत्वमुपाधिरित्युक्तं भवति । अथ तत्र निदर्शने हेत्वासिद्धिमप्याह सुखेति । अनुकूलप्रतिकूलज्ञानान्येव राद्धान्ते

सुखदुःखरूपाणि । तेषां च पक्षान्तर्भावान्न निदर्शनता । ज्ञानविशेषातिरिक्ते च सुखदुःखे करणपाटवापाटवलक्षणे । तयोश्च नात्मगुणत्वमिति हेत्वासिद्धिर्दृष्टान्त इति भावः । अन्तिमेति । स्वतःसुखीत्येतदंशसमर्थनावसर इत्यर्थः । नन्वेवमपि रागादेर्दृष्टान्तता स्यात्, आत्मविशेषगुणत्वादागन्तुकत्वाच्चेत्यत्राह रागेति । मनोवृत्तिभेदा रागादयो नात्मधर्माः । किन्त्वग्निधर्मस्यौष्ण्यादेस्तत्संसृष्टस्थाल्यामिव मनोधर्माणामात्मनि केवलं प्रतीतिः । तथा चोक्तं “निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः । दुःखाज्ञानमला धर्माः प्रकृतेस्ते न चात्मनः ॥” इति भावः । रागादेरन्तःकरणधर्मत्वं श्रुत्यामपि प्रतीयत इत्याह विज्ञायत इति । अस्मिन्नर्थे भगवद्वचनमपि संवादयति गीयते चेति । क्षेत्राश्रितत्वादन्तःकरणस्य तद्धर्मा रागदयः क्षेत्रधर्मत्वेनोक्ताः । नन्वत्र चेतनाधृतिरित्यपि । पठ्यते । अतो बोधस्यापि नात्मधर्मत्वमित्यत्राह चेतनाधृतिरिति । चेतनेति धृतिरिति च न पदद्वयं । किन्तु चेतनाधृतिरिति समस्तं । चेतनेन,चेतनया वा आधृतिर्यस्येति चेतनाधार्यं नियमतः शरीरमिति शरीरलक्ष्मोच्यतेऽत्रेति भावः । तदाह स्ववृत्तीति । वृत्तिः सत्ता, प्रवृत्तिर्वा । प्रवर्तमानम्प्रकर्षेण वर्तमानं लब्धस्थितिकम्; प्रवृत्तिमद्वा । आत्मचैतन्यसम्बन्धाधीनस्वसत्ताप्रवृत्तिसामान्यकं शरीरमिति फलितोर्ऽथः । इदमेव शरीरलक्ष्म साधु । करचरणादिमत्त्वादिलक्षणानामव्याप्त्यादिदोषादिति हृदये निधाय पृथिव्यादीनां परमात्मशरीरत्वपरश्रौतवचनान्युपादत्ते अत एवेति । भगवत्सङ्कल्पात्मकज्ञानेनैव लब्धस्वरूपस्थितिप्रवृत्तिकत्वात्सर्वस्य

तच्छरीरत्वं शोश्रुयते मुख्यमेवेति भावः ।

किमिति । नन्वन्तःकरणधर्मेषु धीरपि पठ्यते । तन्न बोधस्यात्मस्वभावत्वमिति गर्भितं चोद्यमत्र । परिहरति उत्प्रेक्षेति । चित्तवृत्तिविशेषेषु उत्प्रेक्षा धीरित्युच्यत इत्यर्थः । यद्यपि कामादिकानामपि मतमात्मधर्मत्वं । परं नैते स्वाभाविका आत्मनः, किन्तु कर्माद्युपाधिनिबन्धनाः । कामादितत्तद्बुद्धिवृत्तिहेतुव्यापारवत्तया च मनसस्तत्तदभेदनिर्देश औपचारिकः श्रुतौ कृत इति सिद्धान्तः । अथाप्यवस्थाविशेषविशिष्टस्य ज्ञानस्यैव रागादिरूपतया ज्ञानकादाचित्कत्वानुमाने

न रागादेर्दृष्टन्तता संभवति । नच विशिष्टनिदर्शनेन ज्ञानमात्रस्यागन्तुकत्वं साध्यमिति वाच्यं । अवस्थाविशिष्टस्यैवोपलभ्यमानतयाविशिष्टेज्ञानमात्रे आगन्तुकत्वसाधनायोगात् । तस्य श्रुतिसिद्धत्वे च तन्नित्यत्वमपि श्रुतिसिद्धमेवेति धर्मिग्राहकमानबाधः ।

असतोऽवस्थायोगेन च ज्ञाननित्यत्वमेव युक्तिमदिति हार्दं । यथाश्रुतं त्वभ्युपगमवादेन । ज्ञाननित्यत्वे श्रुतिमुदाहरति श्रूयते हीति । विज्ञातित्वदृष्टित्वाद्यवस्थाभाजो ज्ञानस्वरूपस्य नित्यत्वमत्र विवक्षितं । विपरिलोपःविनाशः । नन्वत्राविनाशित्वमेवोक्तम्, नानाद्यनन्तत्वं ज्ञानस्येत्यत्राह ज्ञातुरिति । स्वरूपनिरूपकत्वेन नित्यात्मस्वरूपप्रयुक्तस्य ज्ञानस्य पुरातनत्वमपि फलतीति भावः । न चेति । अभेदेन दृष्टिविशेषणत्वं द्रष्टृपदस्य न युक्तं, तथासति द्रष्ठ्या इति स्त्रीलिङ्गनिर्देशेन हि भाव्यमिति भावः । शब्दविरोधमुक्त्वार्थविरोधमाह हेतोश्चेति । साध्यसमत्वमसिद्धत्वं । सर्वकालवर्तमानतालक्षणनित्यत्वरूपसाध्यस्येवाविनाशित्वरूपहेतोरप्यसिद्धिरित्यर्थः । अविनाशित्वस्यैव साध्यतया तस्यैव हेतुत्वायोग इति वा । अर्थान्तरपरत्वमाशङ्क्य परिहरति द्रष्टुरिति । अत्र योजनायां दृष्टिपदं भावप्रधानं । ज्ञानत्वायोगव्यवच्छेदो द्रष्टुः साध्यः । अत्र चाप्रयोजकत्वेन हेतोरहेतुत्वमसाधकत्वं दुष्परिहरमिति बावः । स्वपक्षेति । आत्मनो ज्ञानरूपत्वोपगम आगन्तुकज्ञानवादिनोऽपसिद्धान्तश्चेत्यर्थः । अद्वैत्यभिमते च निरुक्तश्रुत्यर्थे दूषणमत्राभिमतं । यथाज्ञातुर्ज्ञानस्वरूपानतिरेके साध्ये व्यधिकरणासिद्धत्वेनात्मनित्यत्वस्याहेतुत्वं । ज्ञातुरहमर्थ स्यात्मत्वाविनाशित्वोपगमे चापसिद्धिन्त इति । निरुक्तश्रुतेरभिमतमर्थं वक्तुं विषयं विशोधयति वाक्यद्वयेन आत्मनस्त्विति, नहि सतीति च । नित्यात्मस्वरूपनिरूपकधर्मत्वं ज्ञानस्य नित्यत्वे हेतुर्वाक्यद्वयेन समसूचि । अथ श्रुतिवाक्यार्थमाह तेनेति । द्रष्टुरिति व्यधिकरणविशेषणं दृष्टेर्ज्ञानस्य धर्मभूतस्य । आत्मनो नित्यत्व मविनाशित्वादात्मन इत्युक्तं । द्रष्टुरिति

धर्मिनिर्देशाच्चात्मस्वरूपनिरूपकधर्मत्वं ज्ञानस्य सिद्धं । तथा च फलितं हेतुमाह आत्मस्वभावभूताया इति । नित्यात्मस्वभावत्वं हेतुः । एतेन व्यधिकरणासिद्धिशङ्का निरस्ता । विषयविशेष संबन्धप्रकारःइन्द्रियादिद्वारकप्रसृतिभेदाधीनचैतन्यार्थसंबन्धविशेषलक्षणः, तेन प्राप्तो दृष्ट्यादिव्यपदेशो ययेति समासः । दृष्टिश्चाक्षुषमध्यक्षं । घ्रातिर्घ्राणजं । रसयतिःरासनं । वक्तिःशाब्दं ज्ञानं । श्रुतिःश्रावणमध्यक्षं । मतिरनुमानं । स्पृष्टिःस्पार्शनमध्यक्षं । विज्ञातिरुपासनम्, योगजः साक्षात्कारो वा । स्वात्मावभासिन्याःस्वप्रकाशायाः । ज्ञानस्यात्मस्वभावत्वे नित्यत्वे चान्या अपि श्रुतीरुदाहरति स यथेति । अनन्तर इति बाह्यः, अबाह्य इति आन्तरश्च प्रदेशः सामस्त्येन

विवक्षितः । कात्स्नर्यं चात्मनः स्वरूपतो धर्मतश्च । तथाच ज्ञानस्वरूपत्वं ज्ञानस्वभावत्वं चात्मनः सदा लभ्यते । उक्तेर्ऽथे श्रुत्यन्तरं स्वेन भासा स्वेन ज्योतिषेति । स्वरूपतो धर्मतश्च प्रकाशरूपत्वमत्रोच्यते । आत्मज्योतिरित्यपि निरुक्तार्थमेव ।सूर्यादिज्योतिर्हिज्योतिष्मज्ज्योतीरूपं च, तथाऽत्मापि । सूर्यादिज्योतिषः प्रकाश इव, आत्मनो ज्योतीरूपं ज्ञानं स्वाभाविकमिति चात्र विवक्षितं । मुक्तौ ज्ञानानुवृत्तौ श्रुतिमुपक्षिपति तथापवर्गेति । स्वाभाविकाकाराविर्भावलक्षणायां मुक्तौ ज्ञानानुवृत्त्या ज्ञानस्यात्मस्वभावानुबन्धित्वं प्रसिध्यतीति भावः । स्वापेऽपि ज्ञानानुवृत्तिपरां श्रुतिमाह अन्याश्चेति । सतोऽपि ज्ञानस्यार्थसन्निकर्षाभावात्स्वापे नार्थप्रकाश इति जानात्येवेत्यादेरर्थः । नित्यत्व आत्मस्वभावत्वे च ज्ञानस्य स्मृतीश्चोदाहरति निर्वाणेति । पुराणेश्रीमति वैष्णवे । ज्ञानमय इति । मयट्प्राचुर्ये । एवकारोऽत्रापि संबध्यते । ज्ञानप्रचुर एवेत्यवधारणेन निरुक्तार्थलाभः । ज्योतिषामपीति महाभारते श्रीभगवद्गीतायां । ज्ञाननित्यत्वादौ स्फुटंश्रीविष्णुधर्मवचनमुपक्षिपति भगवानित्यादिना । आहेत्यध्याहार्यं ।

उक्तार्थे सूत्रमपि प्रमाणमित्याह अत एव हीति । अतःश्रुतित एव आत्मा ज्ञःज्ञातैवेति सूत्रार्थः । ज्ञ एवेत्यनेन नित्यत्वमात्मस्वभावत्वं च ज्ञानस्य सूत्रकृदभिमतं । अत एव ज्ञाननित्यत्वे स्वापेऽपि प्रकाशः स्यादित्याशङ्क्य परिहृतं पुंस्त्वादिवदित्यनेन ।

नन्वेवं ज्ञानस्यात्मधर्मभूतस्य स्वाभाविकत्वे तस्य संशयनिश्चयादिभेदः स्मृत्यनुभवभेदश्च कथम्? तत्राह तदेवमिति । युगपत्झटिति, नैरन्तर्येणेति यावत् । ज्ञानवासनाअनुभवाधीनसंस्कारो ज्ञानसूक्ष्मांशः । चैतन्यार्थसंश्लेषविशेषः, अर्थसंश्लेषविशेषविशिष्टं चैतन्यमेव वा संशयनिश्चयादिव्यपदेशभागित्युक्तं । तत्र प्रथमपक्षे शङ्कते न चैवमिति । संयोगस्य द्विष्ठत्वेन चित्यर्थसंयोगस्य ज्ञानत्वे विषयस्यापि ज्ञातृत्वप्रसङ्ग इत्यर्थः । चैतन्यस्य ज्ञातृत्वप्रसङ्गे कथञ्चिदिष्टापत्तिसम्भवाद्विषयस्य ज्ञातृत्वं प्रसञ्जितं । यद्वा विषयस्यविषयाश्रयस्य । यथाश्रुते आत्मनोऽपि

तत्तज्ज्ञानाश्रयत्वं न स्यात्पक्षेऽस्मिन् । अतः स्वाश्रयाश्रयत्वसंबन्धेन ज्ञानवत्त्वमेव ज्ञातृत्वमत्र पक्षे वाच्यमिति विषये न ज्ञातृत्वप्रसङ्ग इति । परिहरति विषयेणेति । विषयेणेति हेतौ तृतीया । विषयशब्दो विषयव्यापारपरः । एवमग्रे चातन्येनेत्यत्रापि । अयं भावःअर्थग्रहणार्थं व्याप्रियमाणं हि चैतन्यमेव । तथाच

विषयचैतन्यसंयोगस्य तत्तदर्थज्ञानत्वेऽपि तस्य स्वानुकूलव्यापृतिमच्चैतन्याश्रयत्वसंबन्धेनात्मन्येव सत्त्वात्तस्यैव ज्ञातृत्वं नार्थादेरित्युपलम्भबलाद्व्यवस्थाप्यम्, यथा आलोकार्थसंयोगस्यैव प्रकाशत्वेऽपि प्रकाशकत्वं स्वधर्मभूतालोकप्रसरणवशात्सूर्यादेरेव नार्थस्य तद्वदिति । यद्वा विषयानुयोगिकसंयोगाभावादिति विषयेणेत्यादेरर्थः । तस्य संयोगःविषयप्रतियोगिकसंयोगः । एवं प्रथमं पक्षमुपपाद्य तत्तदर्थसंबद्धं चैतन्यमेव तत्तदर्थज्ञानमिति द्वितीयं पक्षं शङ्कासमाधानमुखेन व्यवस्थापयति अथेति । प्रकाशःप्रकाशकः । सूर्यादितन्त्रत्वम्सूर्याद्यधीनस्वरूपस्थितिप्रवृत्तिकत्वं तदपृथक्सिद्धविशेषणत्वं च । तत्तदर्थसंबद्धालोकाश्रयस्यैव सूर्यादेः प्रकाशकत्वमिव तत्तदर्थसंबद्धचैतन्यवत आत्मन एव ज्ञातृत्वमित्यर्थः । अयमेव मुख्यः पक्षः । ज्ञातृत्वस्य साक्षादात्मनि सङ्गतेरिति भावः । अनन्यसाधन इत्युक्तमनन्याधीनसिद्धित्वं चैतन्यस्वभावत्वं चात्मनो निगमयति तत्सिद्धमिति । चैतन्यस्वभाव एवज्ञातृत्वस्वभाव एव । अनेन ज्ञानस्यागन्तुकत्वं निरस्तं । आत्मनं विदन्नेवास्तेनित्यानन्याधीनस्वप्रकाशवानेवास्ते । अनेनात्मनः प्रकाशस्यागन्तुकत्वं

ज्ञानप्रयुक्तत्वं च व्यावर्तितं । निमित्तभेदानुसारेण इन्द्रियलिङ्गादिज्ञानार्थसन्निकर्षोपाध्यन्वयव्यतिरेकानुविधानतः । शिष्टं स्पष्टं ।

स्वयंप्रकाशस्यात्मनः शाब्दादिप्रमाणधीगोचरत्वमपि साधयति तदेवमित्यादिना । अस्फुटप्रकाशे मीनो निदर्शनम्; अविवेकग्रहणे च क्षीरं । तदुपपादनन्यायानुगताःआत्मानात्मविवेकोपपादकावयवपञ्चकात्मकन्यायप्रयोज्याः, अनुमानभेदाःअनुमानविशेषाः । वचनानिप्रमाणवाक्यानि शास्त्रानुगतानि । तैरपि इति । अनुमानागमानां परोक्षैकहेतुत्वेन प्रस्फुटप्रकाशासम्पादकत्वात्तावन्मात्रेऽपरितोषः प्रस्फुटात्मप्रकाशाकाङ्क्षिणां युक्त एव हि । मन आदिगतज्ञानावारणदोषक्षपणं योगाङ्गानुष्ठानेन सम्पद्यत इति यमनियमेति द्योतितं । निरोधाभ्यासःयोगाभ्यासः । योगाश्चित्तवृत्तिनिरोध इति हि योगसूत्रं । योगाभ्यासपरिपाकतो रजस्तमःकालुष्यनिवृत्त्योद्रिक्तविशुद्धसत्त्वे मनसि आत्मविवेकसाक्षात्कारयोग्यतेति निरोधाभ्यासेत्यादेरर्थः । वैलक्षण्यस्यात्मगतस्यापरोक्षज्ञानाय, प्रयतन्तेआसिद्धिनिष्पत्तेर्निन्तरमात्मतत्त्वचिन्तनप्रवृत्तिमाचरन्ति । भावनेति । आत्मनो

निरन्तरानुचिन्तनलक्षणे योगे भावनाप्रकर्षपर्यन्ते निष्पन्ने सति, चापरोक्षज्ञानम्योगजधर्मानुगृहीतविशुद्धमनोजन्यात्मतत्त्वसाक्षात्कारः,उदयतेजायत इत्यर्थः ।

विश्वास-प्रस्तुतिः

एवमात्मा स्वतःसिद्ध्यन्नागमेनानुमानतः ।
योगाभ्यासभुवा स्पष्टं प्रत्यक्षेण प्रकाश्यते ॥४३ ॥

मूलम्

एवमात्मा स्वतःसिद्ध्यन्नागमेनानुमानतः ।
योगाभ्यासभुवा स्पष्टं प्रत्यक्षेण प्रकाश्यते ॥४३ ॥

(इत्यात्मप्रमाणनिरूपणप्रकरणम्)

अथास्य कालावच्छेदपरीक्षा । तत्र सुगतमतानुसारिणः सन्मात्रानुबन्धिनीं क्षणिकतामाचक्षाणा नित्यात्मदर्शनमेव सर्वानर्थमूलं मन्यमानाः क्षणभङ्गिनमेनं सङ्गिरन्ते; यत्सत्तत्क्षणिकम्, संश्चायमात्मेति । कथं पुनः सन्मात्रानुबन्धिनी क्षणिकता? । अक्षणिकस्य सत्तानुपपत्तेः । यन्न कस्मैचित्कार्याय, अन्ततः सार्वज्ञ्यविज्ञानगोतरत्वायापि न प्रभवति, न तस्य सद्भावः संभाव्यत इत्यर्थक्रियाकारितैव सत्ता भावानां । न च सा स्वव्यापकभूतक्रमयौगपद्यविरहिण्यक्षणिके संभविनीत्यन्यत्र निरवकाशतया क्षणिकतयैवानुबध्यते । कथं पुनः क्रमयौगपद्ययोरर्थक्रियाव्यापकत्वम्? कथं वा तयोरक्षणिकान्निवृत्तिः? । श्रूयतां ।

उक्तमर्थं सङ्गृह्णाति एवमात्मेति । स्वप्रकाशस्यात्मनो धर्मभूतं ज्ञानं विषयादिग्रहणे देहादिवैलक्षण्यग्रहणे चात्मन उपयुज्यत इत्येतावता सिद्धं । एवमात्मनि प्रमाणपरीक्षा वृत्ता ॥४३ ॥

अथ नित्यत्वं व्यवस्थावयितुं विचारमुपक्रमते अथास्येति । अस्यऽत्मनः, कालावच्छेदपरीक्षाकालसंबन्धविषयविचारः । प्रवर्तते इति शेषः । तत्रेति । आत्मनः कालसंबन्धे विचारविषये क्षणमात्रकालसंबन्धिनं विनाशिनमात्मानमामनन्ति केचन वादिनः (सौगताः) इति यावत् । कालसंबन्धः क्षणिकत्वलक्षण एवेत्यमीषामाशयः । सत्त्वात्क्षणिकत्वमात्मन इत्युक्तं । सत्त्वस्य क्षणिकत्वव्याप्यत्वे सिद्धे शोभनमिदं । तदेव कुत

इत्यतः सत्त्वं क्षणिकत्वव्याप्त्यर्हं परिष्करोति यन्नेति । अर्थक्रियाकर्तृत्वमेव सत्त्वम्, तच्च क्षणिकत्वव्याप्यमित्याशयः । सार्वज्ञ्यविज्ञानम्बुद्धज्ञानं । क्षणिकत्वव्याप्तिमेवोपपादयति न च सेति । अर्थक्रियाकर्तृत्वव्यापकं क्रमाक्रमान्यतरत् । तच्चाक्षणिके स्थिरेऽघटमानं कर्तृत्वं क्षणिके व्यवश्तापयतीति सत्त्व क्षणिकत्वव्याप्यमेवेत्यापततीति भावः । क्रमयौगपद्यान्यतरस्य कर्तृत्वव्यापकत्वम्, तस्य

स्थिरेऽसम्भवं चोपपादयितुं प्रश्नः कथं पुनरिति । उत्तरं श्रूयतामित्यादिना ।

विश्वास-प्रस्तुतिः

अर्थक्रियासु भावानां कर्तृत्वस्य द्वयी गतिः ।
क्रमेण युगपद्वेति न विधान्तरसंभवः ॥४४ ॥

मूलम्

अर्थक्रियासु भावानां कर्तृत्वस्य द्वयी गतिः ।
क्रमेण युगपद्वेति न विधान्तरसंभवः ॥४४ ॥

भावाभाववदनयोरन्यतरनिवृत्तावन्यतरव्यवस्थानादर्थक्रियाजनने भावानां न तृतीयप्रकारसंभव इति क्रमाक्रमप्रतिबद्धैवार्थक्रिया । न चाक्ष

णिके क्रमयौगपद्ये संभवतः ।

(एतावानेवात्मसिद्धिग्रन्थाभाग उपलभ्यते)

विश्वास-प्रस्तुतिः

इति श्रीमद्विशिष्टाद्वैतसिद्धान्तप्रवर्तनधुरन्धरपरमाचार्य
श्रीभगवद्यामुनमुनिसमनुगृहीते सिद्धित्रये आत्मसिद्धिः ॥

मूलम्

इति श्रीमद्विशिष्टाद्वैतसिद्धान्तप्रवर्तनधुरन्धरपरमाचार्य
श्रीभगवद्यामुनमुनिसमनुगृहीते सिद्धित्रये आत्मसिद्धिः ॥

अर्थेति । किञ्चिदर्थक्रियाकरणं क्रमेण, किञ्चिच्चाक्रमेणयुगपत् । यौगपद्यासंभवे क्रमः, तदभावे च यौगपद्यं नियतमिति क्रमयौगपद्यान्यतरव्याप्यैवार्थक्रिया भवतीत्यर्थः ॥४४ ।

भवत्वेवं । अथापि स्थिरे कथं न सा? तत्राह न चेति ।

ग्रन्थभागोऽग्रिमः क्वापि नेतः समुपलभ्यते ।

व्याख्यानं विहितं यावदुपलब्धस्य सारतः ॥

इति श्रीनागपुरी (तिरुनाङ्गूर) दिव्यदेशाभिजनेन प्रतिवादिभयङ्कराचार्यांन्वयभूषणविद्वद्वर्य श्रीकृष्णमाचार्याख्याचार्यवर्यपुत्ररत्नेन चतुस्तन्त्रीपारावारपारीणदिगन्तविश्रान्तकीर्तिदयामूर्तिश्रीमद्भाष्यकारदिव्यवंशावतीर्णश्रीभूतपुरीनिवासरसिकविद्वत्सार्वभौमहारीतश्रीमदासूरिरामानुजाचार्यदेशिकेन्द्रचरणकमलवरिवस्यासमधिगतपदवाक्यप्रमाणतन्त्रहृदयेन श्रीवैष्णवदासेन प्र.भ.अण्णङ्गराचार्येण न्यायव्याकरणशिरोमणिनोभयवेदान्तविदुषा प्रणीतमात्मसिद्धेर्व्याख्यानं सिद्धाञ्जनं जयतात्चिरं ।