श्रीमते रामानुजाय नमः
परमाचार्य श्रीमद्यामुनाचार्य समनुगृहीते,
सिद्धित्रये ईश्वरसिद्धिः॥
अण्णङ्गरार्यः
(व्याख्या) ध्यात्वा श्रीपतिचरणौ नत्वा चाचार्यपादद्मयुगं ।
ईश्वरसिद्धेर्विवृतिं कुर्वे ललितां सुखावबोधार्थां ॥ १ ॥
त्रय्यन्तसिद्ध ईशो मतस्तु सद्युक्तिचिन्तकैरनिशं ।
भक्त्या ध्यानाभ्यासात्प्रकटः प्रज्ञां तनोतु मे शुभ्रां ॥ २ ॥
अथ खलु तत्रभवान् परमाचार्यः श्रीमद् भगवद्-यामुन-मुनिर् आत्म-चिन्तां विधाय
आत्म-सिद्धौ परमात्म-चिन्तां विदधद्
ईश्वरसिद्धाव् ईश्वरसाधक-प्रमाण-व्यवस्थापनायोपक्रममाणः प्रतिजानीते तत्रेति ।
पूर्वपक्षः
विश्वास-प्रस्तुतिः
(सू०) तत्र कस्यचिद् एकस्य
वशे विश्वं प्रवर्तते ।
इति साधयितुं पूर्वं
पूर्वपक्षं प्रचक्ष्महे ॥ १ ॥
मूलम्
(सू०) तत्र कस्यचिदेकस्य वशे विश्वं प्रवर्तते ।
इति साधयितुं पूर्वं पूर्वपक्षं प्रचक्ष्महे ॥ १ ॥
अण्णङ्गरार्यः
समस्तं चेतनाचतनात्मकं जगतेकस्य सर्वेश्वरस्य वशे इच्छायां सङ्कल्पलक्षणायां प्रवर्ततेप्रकर्षेण वर्तते असङ्कीर्णस्वरूपस्वभावव्यवस्थमास्ते,
प्रवर्तते च स्वे स्वे कर्मणि यथायथमिति कृत्स्नस्य सर्वेश्वरसङ्कल्पाधीनस्वरूपस्थितिप्रवृत्तिकत्वं साधयितुं प्रमाणतो व्यवस्थापयितुं,
प्रथमतः पूर्वपक्षं वर्णयाम इति कारिकार्थः ।
अत्र तत्रेति प्रक्रान्त-परामर्शक-तच्छब्द-निर्देशाद् एतत्-पूर्वतनः कश्चनेश्वर-सिद्ध-ग्रन्थभागः स्यात्,
यो बहोः कालात् पूर्वम् एव विलुप्त इत्यभ्यूह्यते १
मीमांसकाः
विश्वास-प्रस्तुतिः
तत्र मीमांसकाः प्राहुः -
नायं सर्वार्थ-दर्शन-शक्ति-सम्पन्नः पुरुषो ऽभ्युपगमम् अर्हति,
अतिपतित–सकल-साधक-प्रमाण-सम्भावना–भूमित्वात्
स्फुट-विविध-बाधकत्वाच् च ।
मूलम्
तत्र मीमांसकाः प्राहुः नायं सर्वार्थदर्शनशक्तिसम्पन्नः पुरुषोऽभ्युपगममर्हति,
अण्णङ्गरार्यः
नायम् इति ।
सर्वार्थसाक्षात्-कार– सर्व-कार्योपजनन-शक्ति-सम्पन्नश् चेतन-विशेष ईश्वर-शब्दितः
साधकाभावाद् बाधकबलाच् च नाङ्गीकर्तुं योग्य इत्यर्थः ।
‘अतिपतिते’ ति ।
अतिपतिता - अपक्रान्ता सकलसाधकप्रमाणसम्भावना यस्याः एवम्भूता भूमिर्विषयः,
तत्त्वाद् व्यपेत-सकल-साधक-प्रमाणसम्भावनात्मक- विषयत्वाद् इत्यर्थः ।
अत्र इति ‘अतिपतितसकलसाधकप्रमाणसंभावनाभूमित्वत्वा’ दिति ‘अतिपतितसकल साधकप्रमाणसंभावनाभूमित्वत्वा’दिति वा पाठः सम्भाव्यते ।
‘स्फुटे‘ति ।
स्फुटानि - प्रसिद्धानि विविधानि बाधकानि यस्यैवम्भूतत्वाच्चेत्यर्थः ।
न प्रत्यक्षम्
विश्वास-प्रस्तुतिः
तथाहि -
अस्य प्रत्यक्षम् अन्यद् वा साधकं भवेत्?
मूलम्
तथाहि - अस्य प्रत्यक्षमन्यद्वा साधकं भवेत्?
अण्णङ्गरार्यः
उपक्षिप्तयोरीश्वरे साधकाभावबाधकभावयोः साधकाभावं तावदादौ समर्थयितुमुपक्रमते ‘तथाहि’त्यादिना ।
अन्यत् - अनुमानादि ।
विश्वास-प्रस्तुतिः
प्रत्यक्षम् अपि लौकिकं यौगिकं वा ?
मूलम्
प्रत्यक्षमपि लौकिकं यौगिकं वा ?
लाौकिकम्
विश्वास-प्रस्तुतिः
2.2 व्यवस्थित-मित-स्वार्थं
न तावद् इह लौकिकम् ।
साधनं तेन सर्वार्थ-
तज्-ज्ञानादेर् असिद्धितः ॥
मूलम्
2.2 व्यवस्थितमितस्वार्थं न तावदिह लौकिकम् ।
साधनं तेन सर्वार्थतज्ज्ञानादेरसिद्धितः ॥
अण्णङ्गरार्यः
लौकिकस्येन्द्रियार्थसन्निकर्षजस्य प्रत्यक्षस्येश्वरासाधकतामुपपादयति ‘व्यवस्थिते’ति ।
हेतुगर्भमिदं विशेषणम् ।
लौकिकप्रत्यक्षस्य विषया यतः परिमिता व्यवस्थिताश्च, अत इत्यर्थः ।
इह - ईश्वरे विषये ।
साधनंसाधकम् ।
प्रमाणमिति यावत् ।
तेन - लौकिकप्रत्यक्षेण ।
असिद्धितः -अप्रकाशतः ।
अयं भावः - चाक्षुषस्य तावत् प्रत्यक्षस्य रूपरूपिरूपैकार्थसमवेतसङ्ख्यादय एव विषयाः, न तु रसादय इति परिमितता ।
उद्भूतानभिभूतमेव रूपं महत्त्वैकाधिकरणं ग्राह्यं न तु परमाण्वादिगतमिति तत्रापि व्यवस्थितता ।
एवं रासनादिष्वपि बोध्यम् ।
एवंभूतस्य चैन्द्रियिकप्रत्यक्षस्य सर्वार्थादेरप्रकाशकत्वान्नेश्वरे प्रमाणत्वं सम्भवति ।
सर्वार्थदर्शनकरणसामर्थ्यविशिष्टो ह्यभिमतः सः ।
सर्वार्थस्य तद्ग्रहणस्य तच्छक्तेश्च ग्रहणमन्तरा च न तस्यग्रहणं घटते ।
सर्वार्थेष्वयोग्यानामपि प्रविष्टत्वाच्छक्तेश्चातीन्द्रियत्वात् , ज्ञानस्य बहिरिन्द्रियाग्राह्यत्वाद्वाह्यार्थानां च केवलेन मनसाऽग्रहान्नेन्द्रियेण केनापि सर्वार्थादेर्ग्रहणम् ।
तद्ग्रहणमन्तरा च न विशिष्टेश्वरग्रहणम् ।
‘नागृहीतविशेषणे’ ति न्यायात् ।
तदैन्द्रियिकलौकिकप्रत्यक्षं नेश्वरे प्रमाणं भवितुमर्हतीति ॥ 2 ॥
विश्वास-प्रस्तुतिः
सर्वार्थ-दर्शन-शक्ति-शालिनम् अवगमयता हि
देश-काल-स्वभाव-विप्रकर्ष-व्यवधान-जुषः
सर्व एवार्थास् तद्-दर्शनं शक्तिश् च गोचरयितव्यानि ।
मूलम्
सर्वार्थ-दर्शन-शक्ति-शालिनम् अवगमयता हि
देश-काल-स्वभाव-विप्रकर्ष-व्यवधान-जुषः
सर्व एवार्थास् तद्-दर्शनं शक्तिश् च गोचरयितव्यानि ।
अण्णङ्गरार्यः
‘व्यवस्थिते’त्यादीकारिकार्थं स्वयमेव विवृणोति ‘सर्वार्थे’ति ।
अवगमयता - गृह्णता ।
अवगमयन्त इति पूर्वमुद्रितपाठोऽशुद्धः ।
देशविप्रकर्षो दूरदेशस्थत्वम् ।
कालविप्रकर्षोऽतीतत्वमनागतत्वं च ।
स्वभावविप्रकर्षोऽयोग्यत्वमतीन्द्रियत्वरूपम् ।
योग्यानामपि कुड्यादिव्यवहितानां चक्षुरादिनाऽग्रहणं दृष्टम् ।
सर्वार्थेष्वेवम्भूता अपि पदार्थाः प्रविष्टा इति भावः ।
एवकारोऽप्यर्थे ।
गोचरयितव्यानि - विषयीकरणीयानि ।
‘नपुंसकमनपुंसकेने’ति क्लीबैकशेषनिर्देशोऽयम् ।
विश्वास-प्रस्तुतिः
न च विद्यमानेन्द्रिय-सन्निकर्ष-योग्य- कतिपय-विषय-निपत-वृत्तेर् लौकिक-प्रत्यक्षस्य
निरवधिर् अयं महिमा संभावना-भूमिर् इति
कथम् इव तद् इह साधनम् इति मन्येमहि।
मूलम्
न च विद्यमानेन्द्रिय-सन्निकर्ष-योग्य- कतिपय-विषय-निपत-वृत्तेर् लौकिक-प्रत्यक्षस्य
निरवधिर् अयं महिमा संभावना-भूमिर् इति
कथम् इव तद् इह साधनम् इति मन्येमहि।
अण्णङ्गरार्यः
’ न चे ’ ति ।
विद्यमानेत्यनेन कालविप्रकृष्टस्य व्यवच्छेदः ।
इन्द्रियसन्निकर्षयोग्येत्यनेन व्यवहितस्य देशविप्रकृष्टस्य च ।
कतिपयेत्यनेनातीन्द्रियस्य ।
कतिपयविषयनियतवृत्तेः - निरुक्तविधककतिपयपदार्थमात्रग्रहणानुगुणव्यापारवतः ।
निरवधिर्महिमा अपकर्षासमानाधिकरणोत्कर्षः ।
स च ज्ञानस्य सर्वार्थगोचरत्वरूपः ।
तत् - लौकिकप्रत्यक्षम् ।
इह - सर्वदर्शित्वादिविशिष्टईश्वरे ।
साधनं - प्रमाणम्।
शिष्टं स्पष्टम् ।
यौगिम्
विश्वास-प्रस्तुतिः
नापि योगिप्रत्यक्षमस्य साधकम् ; यतः -
मूलम्
नापि योगिप्रत्यक्षमस्य साधकम् ; यतः -
अण्णङ्गरार्यः
योगिप्रत्यक्षस्यापीश्वरासाधकत्वं साधयति ‘प्रत्यक्षत्व’ इति ।
विश्वास-प्रस्तुतिः
2.3 प्रत्यक्षत्वे तद् अप्य् एवं
विद्यमानैक-गोचरम् ।
भूतादि-गोचरं नैव
प्रत्यक्षं प्रतिभादिवत् ॥
मूलम्
2.3 प्रत्यक्षत्वे तदप्येवं विद्यमानैकगोचरम् ।
भूतादिगोचरं नैव प्रत्यक्षं प्रतिभादिवत् ॥
अण्णङ्गरार्यः
प्रत्यक्षत्वव्यापकत्वाद्वर्तमानार्थग्राहकत्वस्य योगिज्ञानमपि प्रत्यक्षं चेद् वर्तमानैकग्राहि भवेदिति
न तस्य सर्वार्थग्राहकत्वम् ।
अतीतादिविषयत्वे वा न तत्प्रत्यक्षं भवेत् ।
किन्तु प्रतिभादिज्ञानवद् उपनीत-भान-विशेष-रूपम् एव संशयादि-सहम् इति
न प्रमाणताम् अनुभवितुम् अलम् ईश्वर इत्यर्थः॥3॥
विश्वास-प्रस्तुतिः
तत् खलु योगिविज्ञानम् ऐन्द्रियिकं न वा ?
मूलम्
तत् खलु योगिविज्ञानमैन्द्रियिकं न वा ?
विश्वास-प्रस्तुतिः
ऐन्द्रियिकम् अपि बहिर्-इन्द्रिय-सम्भवम् आन्तर-करण-जनितं वा ?
मूलम्
ऐन्द्रियिकमपि बहिरिन्द्रियसम्भवमान्तरकरणजनितं वा ?
न बाह्येन्द्रियम्
विश्वास-प्रस्तुतिः
बहिर्-इन्द्रियाणि तावत्
समधिगत-निज-विषय-सन्निकर्ष-सहकारीणि
तद्-गोचर-ज्ञान-जननानीति
जगति विदितम् ।
मूलम्
बहिरिन्द्रियाणि तावत्समधिगतनिजविषयसन्निकर्षसहकारीणि तद्गोचरज्ञानजननानीति जगति विदितम् ।
विश्वास-प्रस्तुतिः
अतो - न रसनादिभिर् अ-जातातिवृत्त-व्यवहितादि- सकल-विषय-वेदन-प्रसङ्गः ।
मूलम्
अतो न रसनादिभिरजातातिवृत्तव्यवहितादि सकलविषयवेदनप्रसङ्गः ।
विश्वास-प्रस्तुतिः
न चाविद्यमानैर् अजातादिभिः संभवति सन्निकर्षः ;
तस्य द्व्य्-आश्रयत्वाद्,
आश्रयाभावे तद्-असम्भवात् ।
मूलम्
न चाविद्यमानैरजातादिभिः संभवति सन्निकर्षः ; तस्य द्व्याश्रयत्वादाश्रयाभावे तदसम्भवात् ।
विश्वास-प्रस्तुतिः
अतोऽपेक्षितोऽर्थ-सन्निकर्षः ।
मूलम्
अतोऽपेक्षितोऽर्थसन्निकर्षः ।
विश्वास-प्रस्तुतिः
सहकारि-विरहे कथम् इन्द्रियाण्य् अतीतादि-विषय-साक्षात्-काराय कल्पेरन्?
मूलम्
सहकारिविरहे कथमिन्द्रियाण्यतीतादिविषयसाक्षात्काराय कल्पेरन्?
विश्वास-प्रस्तुतिः
भवति च -
यत् यत् सहकारि
यत् कार्य-जननम् ,
तत्-तद्-अ-भावे न तज् जनयति ;
यथा क्षिति-सलिल-सहकार्य्- अङ्कुर-कार्य– जनन-बीजं, क्षित्य्-आद्य्-अभावे ऽङ्कुरम् +++(न जनयति)+++।
मूलम्
भवति च - यत् यत्सहकारि यत्कार्यजननम् , तत्तदभावे न तज्जनयति ; यथा क्षितिसलिलसहकारि अङ्कुरकार्यजननबीजं क्षित्याद्यभावेऽङ्कुरम् ।
विश्वास-प्रस्तुतिः
अर्थ-सन्निकर्ष-सहकारीणि बहिर्-इन्द्रियाणि ज्ञान-जननानीति
तान्यपि नातीतेऽनागते वाऽर्थे ज्ञानं जनयन्तीति
न तद्-उपजनितं प्रत्यक्षं
यथोक्त-विषय-नियमम् अतिक्रामति ।
मूलम्
अर्थसन्निकर्षसहकारीणि बहिरिन्द्रियाणि ज्ञानजननानीति तान्यपि नातीतेऽनागते वाऽर्थे ज्ञानं जनयन्तीति न तदुपजनितं प्रत्यक्षं यथोक्तविषयनियममतिक्रामति ।
नान्तःकरणम्
विश्वास-प्रस्तुतिः
नाप्य् आन्तर-करण-सम्भवम् +++(ईश्वर-प्रमाणम्)+++,
आन्तर-गोचर एव सुखादौ स्वान्त-स्वातन्त्र्यात् ।
मूलम्
नाप्यान्तरकरणसम्भवम् , आन्तरगोचर एव सुखादौ स्वान्तस्वातन्त्र्यात् ।
विश्वास-प्रस्तुतिः
बाह्य-विषय-मितिषु च
मनसो निरङ्कुश-करणताङ्गीकारे हि
कृतं चक्षुर्-आदिभिः । +++(5)+++
मूलम्
बाह्यविषयमितिषु च मनसो निरङ्कुशकरणताङ्गीकारे हि कृतं चक्षुरादिभिः ।
विश्वास-प्रस्तुतिः
अतश्च न कश्चिदन्धो बधिरो वा भवेत् । +++(5)+++
मूलम्
अतश्च न कश्चिदन्धो बधिरो वा भवेत् ।
विश्वास-प्रस्तुतिः
भवति चात्र -
विमति-पदं मनो
बहिर्-इन्द्रिय-निरपेक्षं न बाह्य-प्रत्यक्ष-गोचरे प्रवर्तते,
तत्र तत्-तन्त्र-वृत्तित्वात् । +++(5)+++
मूलम्
भवति चात्र - विमतिपदं मनो बहिरिन्द्रियनिरपेक्षं न बाह्यप्रत्यक्षगोचरे प्रवर्तते, तत्र तत्तन्त्रवृत्तित्वात् ।
विश्वास-प्रस्तुतिः
यद्य् अत्र यत्-तन्त्र-वृत्ति,
न तत्-तन्-निरपेक्षं तत्र प्रवर्तते,
यथाऽऽलोकापेक्ष-प्रवृत्ति चक्षुः
स्वगोचरे ऽन्ध-तमस+++(य्)+++ इति ।+++(4)+++
मूलम्
यद्यत्र यत्तन्त्रवृत्ति न तत्तन्निरपेक्षं तत्र प्रवर्तते, यथाऽऽलोकापेक्षप्रवृत्ति चक्षुः स्वगोचरेऽन्धतमस इति ।
न तप-औषधादि
विश्वास-प्रस्तुतिः
न च
सिद्धौषधमत् प्रतपः-समाधि-महिम- समासाधितातिशयानीन्द्रियाणि
कदाचिद् अपजहति समाधिगत-विषय-नियमम्
इति सम्भवति ;
सांसिद्धिक-सामर्थ्याविर्भावैक-फलत्वात् तेषाम् ,
सामर्थ्यस्य च प्रतिनियमात् +++(वक्ष्यमाणोदाहृत्या)+++।
मूलम्
न च सिद्धौषधमत्प्रतपःसमाधिमहिमसमासाधितातिशयानीन्द्रियाणि कदाचिदपजहति समाधिगतविषयनियममिति सम्भवति ; सांसिद्धिकसामर्थ्याविर्भावैकफलत्वात्तेषाम् , सामर्थ्यस्य च प्रतिनियमात् ।
विश्वास-प्रस्तुतिः
न खलु सुप्रयुक्त-भेषज-शत-विहित-संस्कारम् अपि श्रोत्रं
रूप-रस-विभागावगमाय कल्पते । +++(5)+++
मूलम्
न खलु सुप्रयुक्तभेषजशतविहितसंस्कारमपि श्रोत्रं रूपरसविभागावगमाय कल्पते ।
विश्वास-प्रस्तुतिः
भवति च - विवादाध्यासित-बाह्यभ्यन्तर-करण-पाटवातिशयो ऽनुल्लङ्घित-सीमा,
ऐन्द्रियिक-प्रकर्षत्वात् ,
दृश्यमान-तत्-प्रकर्षवद् इत्य् ऐन्द्रियिकं ज्ञानं
नातीतादि गोचरयति ।
मूलम्
भवति च - विवादाध्यासितबाह्यभ्यन्तरकरणपाटवातिशयोऽनुल्लङ्घितसीमा, ऐन्द्रियिकप्रकर्षत्वात् , दृश्यमानतत्प्रकर्षवत् इत्यैन्द्रियिकं ज्ञानं नातीतादि गोचरयति ।
न स्मृति-सहयोगः
विश्वास-प्रस्तुतिः
भावना-प्रकर्ष-पर्यन्त-जन्मनस् तु
सत्य् अपि विशद-निर्भासत्वे
प्राच्यानुभव-गोचराद् अनधिकम् अधिकं वा ऽध्यवस्यतः स्मृति-विभ्रम-स्रोतसोर् अन्यतरावर्तपरिवर्तिनः
कुतः प्रामाण्य-कूल-प्रतिलम्भः ?
मूलम्
भावनाप्रकर्षपर्यन्तजन्मनस्तु सत्यपि विशदनिर्भासत्वे प्राच्यानु भवगोचरादनधिकमधिकं वाऽध्यवस्यतः स्मृतिविभ्रमस्रोतसोरन्य तरावर्तपरिवर्तिनः कुतः प्रामाण्यकूलप्रतिलम्भः ?
विश्वास-प्रस्तुतिः
कुतस्तरां च प्रत्यक्षतयोत्तम्भनम् ? ।
मूलम्
कुतस्तरां च प्रत्यक्षतयोत्तम्भनम् ? ।
विश्वास-प्रस्तुतिः
प्रत्यक्षस्य वा सतः
कथम् इव विदित-विषय-नियम-व्यतिक्रमः ?
मूलम्
प्रत्यक्षस्य वा सतः कथमिव विदितविषयनियमव्यतिक्रमः ?
विश्वास-प्रस्तुतिः
अतिक्रामतो वा
कुतः प्रत्यक्षत्वम्?
मूलम्
अतिक्रामतो वा कुतः प्रत्यक्षत्वम्
विश्वास-प्रस्तुतिः
इति न विश्वानुभवैश्वर्यशालिनि प्रत्यक्षं प्रमाणम् ।
(इतीश्वरे प्रत्यक्षप्रमाणनिरसनम्॥)
मूलम्
इति न विश्वानुभवैश्वर्यशालिनि प्रत्यक्षं प्रमाणम् ।
(इतीश्वरे प्रत्यक्षप्रमाणनिरसनम्॥)
नानुमानादि
विश्वास-प्रस्तुतिः
नापि प्रमाणान्तरम् ।
तत् खल्व् अनुमानम् आगमो वा ?
मूलम्
नापि प्रमाणान्तरम् ।
तत् खल्वनुमानमागमो वा ?
विश्वास-प्रस्तुतिः
अनुमानम् अपि विशेषतो दृष्टं, सामान्यतो दृष्टं वा ?
मूलम्
अनुमानमपि विशेषतोदृष्टं सामान्यतोदृष्टं वा ?
विश्वास-प्रस्तुतिः
तत्र स-कल–पदवी-दवीयसि+++(=दूरे)+++ भगवति
न तावत्
स्व-लक्षण-साक्षात्-कार-पूर्वक- +अविनाभावावधारणाधीनोदयत्वाद्
इदम् अनुमानम् उद-तुमलम् । +++(4)+++
मूलम्
तत्र सकलपदवीदवीयसि भगवति न तावत्स्वलक्षणसाक्षात्कारपूर्वकाविनाभावावधारणाधीनोदयत्वादिदमनुमानमुदतुमलम् ।
विश्वास-प्रस्तुतिः
न ह्य् अनवगत-चर-हुत-भुजस् तद्-अविनाभावितया धूमम् अनुसन्धातुम् ईशते । +++(4)+++
मूलम्
न ह्यनवगतचरहुतभुजस्तदविनाभावितया धूममनुसन्धातुमीशते ।
विश्वास-प्रस्तुतिः
न च सर्वार्थ–निर्माण-साक्षात्-कार–पटीयसि
लिङ्गं सामान्यतो दृष्टम् अपि किञ्चन लभ्यते।
(इतीश्वरेऽनुमानस्य प्रामाण्यासम्भवोपक्षेपः॥)
मूलम्
नच सर्वार्थनिर्माणसाक्षात्कारपटीयसि लिङ्गं सामान्यतोदृष्टमपि किञ्चन लभ्यते।
(इतीश्वरेऽनुमानस्य प्रामाण्यासम्भवोपक्षेपः॥)
तार्किकवादः
2.4 नन्वेकचेतनाधीनं विवादाध्यासितं जगत् ।
अचेतनेनारब्धत्वादरोगस्य शरीरवत् ॥
2.5 तथा सर्वार्थनिर्माणसाक्षात्करणकौशलम् ।
कार्यत्वादेव जगतस्तत्कर्तुरनुमीयताम् ॥
2.6 किमस्य तस्मिन्नायत्तं किन्नु जन्माथवा स्थितिः ।
प्रवृत्तिर्वाऽऽद्ययोस्तावत् साध्यहीनं निदर्शनम् ॥
सिद्धसाधनवचनं
2.7 चेतनाधीनतामात्रसाधने सिद्धसाध्यता ।
चेतनैर्भोक्तृभिर्भोग्यः कर्मभिर्जन्यते हि नः ॥
2.8 उपादानं पृथिव्यादि यागदानादि साधनम् ।
साक्षात्कर्तुं क्षमन्ते यत्सर्व एव च चेतनाः ॥
2.9 कर्मणः शक्तिरूपं यदपूर्वादिपदास्पदम् ।
मा भूत्प्रत्यक्षता तस्य शक्तिमद्ध्यक्षगोचरः ॥
2.10 आगमादवगम्यन्ते विचित्राः कर्मशक्तयः ।
तेन कर्मभिरात्मानः सर्वं निर्मिमतां पृथक् ॥
सत्प्रतिपक्षितत्वम्
2.11 अपि च-स्वार्थकारुण्यभावेन व्याप्ताः प्रेक्षावतः क्रियाः ।
ईश्वरस्योभयाभावाज्जगत्सर्गो न युज्यते ॥
2.12 सुखैकतानं जनयेज्जगतकरुणया सृजन् ।
तत्कर्मानुविधायित्वे हीयेतास्य स्वतन्त्रता ॥
मीमांसकमतोपसंहारः
2.13 असिद्धत्वाद्विरुद्धत्वादनैकान्त्याच्च वर्णितात् ।
कार्यत्वहेतोर्जगतो नयथोदितकर्तृता ॥
तार्किकसमाधानम्
2.14 अत्र ब्रूमो न कार्यत्वं क्षित्यादौ शक्यनिह्नवम् ।
सभागत्वात् क्रियावत्त्वात् महत्त्वेनविशेषितात् ॥
2.15 तादृशादेव मूर्तत्वात् बाह्य प्रत्यक्षतान्वितात् ।
ससामान्य विशेषत्वादित्यादिभ्यो घटादिवत् ॥
2.16 प्रत्यक्षं तत् प्रमेयत्वात्पदार्थत्वाद्धटादिवत् ।
एकेच्छानुविधायीदमचैतन्यात् स्वदेहवत् ॥
2.17 एकेनाधिष्ठिताः कार्यं-कुर्वते स्रवचेतनाः ।
देहसम्बन्धसापेक्षकार्यकृत्त्वात् त्वगादिवत् ॥
2.18 एकप्रधानपुरुषं विवादाध्यासितं जगत् ।
चेतनाचेतनात्मत्वादेकराजकदेशवत् ॥
इति श्रीमद्विशिष्टाद्वैतसिद्धान्तप्रवर्तनधुरन्धरपरमाचार्य-श्रीभगवद्यामुनमुनिसमनुगृहीते सिद्धित्रये ईश्वरसिद्धिः