श्रीमते रामानुजाय नमः
परमाचार्य श्रीमद्यामुनाचार्य समनुगृहीते,
सिद्धित्रये संवित्सिद्धिः
अद्वितीयश्रुत्यर्थविचारः
3.1 एकमेवाद्वितीयं तद्ब्रह्मेत्युपनिषद्वचः ।
ब्रह्मणोऽन्यस्य सद्भावं ननु तत्प्रतिषेधति ॥
3.2 अत्र ब्रूमोऽद्वितीयोक्तौ समासः को विवक्षितः ।
किंस्वित्तत्पुरुषः किं वा बहुव्रीहिरथोच्यताम् ॥
परमतेअत्र तत्पुरुषायोगः
3.3 पूर्वस्मिन्नुत्तरस्तावत्प्राधान्येन विवक्ष्यते ।
पदार्थस्तत्र तद्ब्रह्म ततोऽन्यत्सदृशं तु वा ॥
3.4 तद्विरुद्धमथो वा स्यात्रिष्वप्यन्यन्न बाधते ।
अन्यत्वे सदृशत्वे वा द्वितीयं सिध्यति ध्रुवम् ॥
3.5 विरुद्धत्वे द्वितीयेन तृतीयं प्रथमं तु वा ।
ब्रह्म प्राप्नोति यस्मात्तत् द्वितीयेन विरुध्यते ॥
3.6 अतः सप्रथमाः सर्वे तृतीयाद्यर्थराशयः ।
द्वितीयेन तथा स्पृष्ट्वा स्वस्थास्तिष्ठन्त्यबाधिताः ॥
3.7 ननु नञ् ब्रह्मणोऽन्यस्य सर्वस्यैव निषेधकम् ।
द्वितीयग्रहणं यस्मात्सर्वस्यैवोपलक्षणम् ॥
3.8 नैवं निषेधो न ह्यस्माद्वितीयस्यावगम्यते ।
ततोऽन्यत्तद्विरुद्धं वा सदृशं वाऽत्र वक्ति सः ॥
3.9 द्वितीयं यस्य नैवास्ति तद्ब्रह्मेति विवक्षिते ।
सत्यादिलक्षणोक्तीनामपलक्षणता भवेत् ॥
3.10 अद्वितीये द्वितीयार्थनास्तितामात्रगोचरे ।
स्वनिष्ठत्वान्नञर्थस्य न स्याद्ब्रह्मपदान्वयः ॥
3.11 द्वितीयशून्यता तत्र ब्रह्मणो न विशेषणम् ।
विशेषणे वा तद्ब्रह्म तृतीयं प्रथमं तु वा ॥
बहुव्रीह्ययोगः
3.12 प्रसक्तं पूर्ववत्सर्वं बहुर्वीहौ समस्यति ।
ब्रह्मणः प्रथमा ये च तृतीयाद्या जगत्र्त्रये ॥
3.13 ब्रह्म प्रत्यद्वितीयत्वात्स्वस्थास्तिष्ठन्त्यबाधिताः ।
किञ्च तत्र बहुव्रीहौ समासे संश्रिते सति ॥
3.14 वृत्त्यर्थस्य नञर्थस्य न पदार्थान्तरान्वयः ।
सत्यार्थान्तरसम्बन्धे षष्ठी यस्येति युज्यते ॥
3.15 द्वितीयवस्तुनास्तित्वं न ब्रह्म न विशेषणम् ।
असत्त्वान्न ह्यसद्ब्रह्म भवेन्नापि विशेषणम् ॥
3.16 तस्मात्प्रपञ्चसद्भावो नाद्वैतश्रुतिबाधितः ।
स्वप्रमाणबलात्सिद्धः श्रुत्या चाप्यनुमोदितः ॥
सिद्धान्तेअद्वितीयश्रुत्यर्थः
3.17 तेनाद्वितीयं ब्रह्मेति श्रुतेरर्थोऽयमुच्यते ।
द्वितीयगणनायोग्यो नासीदस्ति भविष्यति ॥
3.18 समो वाऽभ्यधिको वाऽस्य यो द्वितीयस्तुगण्यते ।
यतोऽस्य विभवव्यूहकलामात्रमिदं जगत् ॥
3.19 द्वितीयवागास्पदतां प्रतिपद्येत तत्कथम् ।
यथा चोलनृपः सम्राडद्वितीयोऽद्य भूतले ॥
3.20 इति तत्तुल्यनृपतिनिवारणपरं वचः ।
न तु तद्भृत्यतत्पुत्रकलत्रादिनिषेधकम् ॥
3.21 तथा सुरासुरनरब्रह्मब्रह्माण्डकोटयः ।
क्लेशकर्मविपाकाद्यैरस्पृष्टस्याखिलेशितुः ॥
3.22 ज्ञानादिषाङ्गुण्यनिधेरचिन्त्यविभवस्य ताः ।
विष्णोर्विभूतिमहिमसमुद्रद्रप्सविप्रुषः ॥
3.23 कः खल्वङ्गुलिभङ्गेन समुद्रान् सप्तसङ्ख्यया ।
गणयन् गणयेदूर्मिफेनबुद्बुदविप्रुषः ॥
3.24 यथैक एव सविता न द्वितीयो नभःस्थले ।
इत्युक्तया न हि सावित्रा निषिध्यन्तेऽत्र रश्मयः ॥
3.25 यथा प्रधानसङ्ख्येयसङ्ख्यायां नैव गण्यते ।
सङ्ख्या पृथक्सती तत्र सङ्ख्येयान्यपदार्थवत् ॥
सिद्धान्तेश्रुत्यन्तरोपष्टंभः)**
3.26 तथा, पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।
इति ब्रुवन् जगत्सर्वमित्थम्भावे न्यवेशयत् ॥
3.27 तथा, एतावानस्य महिमा ततो ज्यायस्तरो हि सः ।
यत्रान्यन्न विजानाति स भूमोदरमन्तरम् ॥
3.28 कुरुतेऽस्य भयं व्यक्तमित्यादिश्रुतयः पराः ।
मेरोरिवाणुर्यस्येदं ब्रह्माण्डमखिलं जगत् ॥
3.29 इत्यादिकाः समस्तस्य तदित्थम्भावतापराः ।
वाचारम्भणमात्रं तु जगत् स्थावरजङ्गमम् ॥
3.30 विकारजातं, कूटस्थं मूलकारणमेव सत् ।
अनन्यत्कारणात्कार्यं पावकाद्विस्फुलिङ्गवत् ॥
3.31 मृत्तिकालोहबीजादिनानादृष्टान्तविस्तरैः ।
नाशकद्दग्धुमनलस्तृणं मज्जयितुं जलम् ॥
3.32 न वायुश्चलितुं शक्तः तच्छक्तयाप्यायनादृते ।
एकप्रधानविज्ञानाद्विज्ञातमखिलं भवेत् ॥
3.33 इत्यादिवेदवचनतन्मूलाप्तागमैरपि ।
ब्रह्मात्मनाऽऽत्मलाभोऽयं प्रपञ्चश्चिदचिन्मयः ॥
प्रपञ्चनिशेधायोगः
3.34 इति प्रमीयते ब्राह्मी विभूतिर्न निषिध्यते ।
तन्निषेधे समस्तस्य मिथ्यात्वाल्लोकवेदयोः ॥
3.35 व्यवहारास्तु लुप्येरन् तथा स्याद्ब्रह्मधीरपि ।
व्यावहारिकसत्यत्वान्मृषात्वेऽप्यविरुद्धता ॥
3.36 प्रत्यक्षादेरिति मतं प्रागेव समदूदुषम् ।
अतश्चोपनिषज्जातब्रह्माद्वैतधितधिया जगत् ॥
3.37 न बाध्यते विभूतित्वाद्ब्रह्मणश्चेत्यवस्थितम् ।
ननु सत्त्वे प्रपञ्चस्य नास्तीति प्रत्ययः कथम् ॥
3.38 असत्त्वे वा कथं तस्मिन्नस्तीति प्रत्ययो भवेत् ।
सदसत्त्वं तथैकस्य विरुद्धत्वादसम्भवि ॥
3.39 सदसत्प्रत्ययप्राप्तविरुद्धद्वन्द्वसङ्गमे ।
तयोरन्यतरार्थस्य निश्चयाभावहेतुतः ॥
3.40 सदसत्त्वं प्रपञ्चस्य जैनास्तु प्रतिजानते ।
सत्त्वप्राप्तिं पुरस्कृत्य नास्तीति प्रत्ययोदयात् ॥
3.41 सदा सत्त्वं प्रपञ्चस्य साङ्ख्यास्तु प्रतिपेदिरे ।
सदसत्प्रत्यय प्राप्तविरुद्धद्वन्द्वसङ्कटे ॥
3.42 विरोधपरिहारार्थं सत्त्वासत्वांशभङ्गतः ।
सदसद्भ्यामनिर्वाच्यं प्रपञ्चं केचिदूचिरे ॥
3.43 सत्त्वासत्त्वे विभागेन देशकालादिभेदतः ।
घटादेरिति मन्वाना व्यवस्थामपरे जगुः ॥
3.44 तदेवं वादिसम्मर्दात् संशये समुपस्थिते ।
निर्णयः क्रियते तत्र मीमांसकमतेन तु ॥
3.45 घटस्वरूपे नास्तित्वमस्तित्वं यद्यबूबुधत् ।
स्यादेव युगपत्सत्त्वमसत्त्वं च घटादिषु ॥
3.46 इदानीमिदमत्रास्ति नास्तीत्येवंविधा यतः ।
देशकालदशाभेदादस्तिनास्तीति नो धियः ॥
3.47 अतो देशादिभेदेन सदसत्त्वं घटादिषु ।
व्यवस्थितं निरस्तत्वा (स्या) द्वादस्येह न सम्भवः ॥
3.48 ननु देशादिसम्बन्धः सत एवोपपद्यते ।
न देशकालसम्बन्धादसतः सत्त्वमिष्यते ॥
3.49 संबन्धो द्व्याश्रयस्तस्मात्सतः सत्त्वं सदा भवेत् ।
असतः कारकैः सत्त्वं जन्मनेत्यतिदुर्घटम् ॥
3.50 आद्यन्तवान् प्रपञ्चोऽतः सत्कक्ष्यान्तर्निवेक्ष्यते ।
उक्तं च - आदावन्ते च यन्नास्ति नास्ति मध्येऽपि तत्तथा ॥
3.51 अतो निश्चितसद्भावः सदा सन्नभ्युपेयताम् ।
असतः सर्वदाऽसत्त्वं जन्ययोगात् खपुष्पवत् ।
असत्त्वे न विशेषोऽस्ति प्रागत्यन्तासतोरिह ॥
तत्त्वमसिवाक्यार्थविचारः
3.52 श्वेतकेतुमुपादाय तत्त्वमित्यपि यच्छ्रुतम् ।
षष्ठप्रपाठके तस्य कुतो मुख्यार्थसम्भवः ॥
3.53 कार्पण्यशोकदुःखार्तश्चेतनस्त्वंपदोदितः ।
सर्वज्ञस्सत्यसङ्कल्पो निस्सीमसुखसागरः ॥
3.54 तत्पदार्थस्तयोरैक्यं तेजस्तिमिरवत्कथम् ।
त्वमर्थस्थे तटस्थे वा ….. ( तदेर्थस्थे च भेदके ) ।
गुणे तत्त्वंपदश्रुत्योरैकार्थ्ये दूरवारितम् ॥
3.55 अज्ञत्वसर्ववेदित्वदुःखित्वसुखितादिके ।
विशेषणे वा चिद्धातोरथवाऽप्युपलक्षणे ॥
3.56 विरुद्धगुणसङ्कान्तेर्भेदः स्यात् त्वंतदर्थयोः ।
वाच्यैकदेशभङ्गेन चिदेकव्यक्तिनिष्ठता ॥
3.57 सोऽयं गौरितिवत्तत्त्वंपदयोरित्यपेशलम् ।
देशकालदशाभेदादेकस्मिन्नपि धर्मिणि ॥
3.58 विरुद्धद्वन्द्वसङ्कान्तेः सोऽयं गौरिति युज्यते ।
स्वप्रकाशस्य चिद्धातोर्विरुद्धद्वन्द्वसङ्गतौ ॥
- 59 न व्यवस्थापकं किञ्चिद्देशकालदशादिके ।
निर्धूतनिखिलद्वन्द्वस्वप्रकाशे चिदात्मनि ॥
3.60 द्वैतानर्थभ्रमाभावाच्छास्त्रं निर्विषयं भवेत् ।
एतेन सत्यकामत्वजगत्कारणतादयः ॥
3.61 मा ( योपाधौ ) परेऽध्यस्ताः शोकमोहदयः पुनः ।
अविद्योपाधिके जीवे विनाशेनेति यन्मतम् ॥
3.62 क्षुद्रब्रह्मविदामेतन्मतं प्रागेव दूषितम् ।
चित्स्वरूपे विशिष्टे वा मायाऽविद्याद्युपाधयः ॥
3.63 पूर्वस्मिन् सर्वसाङ्कर्यं परजीवाविभागतः ।
उत्तरस्मिन्नपि तथा विशिष्टमपि चिद्यदि ॥
3.64 चित्स्वरूपं हि निर्भेदं मायाऽविद्याद्युपाधिभिः ।
विभिन्नमिव विभ्रान्तं विशिष्टं च ॥
3.65 तटस्थावस्थिता धर्माः स्वरूपं न स्पृशन्ति किम् ।
न हि दण्डिशिरश्छेदाद्देवदत्तो न हिंसितः ॥
3.66 अचिदंशव्यपोहेन चिदेकपरिशेषता ।
अतस्तत्त्वमसीत्यादेरर्थ इत्यप्यसुन्दरम् ॥
3.67 अब्रह्मानात्मताभावे प्रत्यक् चित् परिशिष्यते ।
तत्त्वंपदद्वयं जीवपरतादात्म्यगोचरम् ॥
3.68 तन्मुख्यवृत्ति तादात्म्यमपि वस्तुद्वयाश्रयम् ।
भेदाभेदविकल्पस्तु यस्त्वया परिचोदितः ॥
3.69 अभेदाभेदिनोऽसत्वे बन्धे सति निरर्थकः ।
अभेदो भेदमर्दी तु स्वाश्रयीभूतवस्तुनोः ॥
3.70 भेदः परस्परानात्म्यं भावानामेवमेतयोः ।
स्वरूपमभ्युपेत्यैव भेदाभेद विकल्पयोः ॥
3.71 तेन वाग्वाधा विरोधेन निगृह्यसे ।
भिन्नाभिन्नत्वसम्बन्धसदसत्त्वविकल्पनम् ॥
3.72 प्रत्यक्षानुभवापास्तं केवलं कण्ठशोषणम् ।
नीले नीलमतिर्यादृगुत्पले नीलधीर्हि सा ॥
3.73 नीलमुत्पलमेवेदमिति साक्षाच्चकास्ति नः ।
यथा विदितसंयोगसम्बन्धेऽप्यक्षगोचरे ॥
3.74 भेदाभेदादिदुस्तर्कविकल्पा आधानविभ्रमः ।
तद्वत्तादात्म्यसम्बन्धे श्रुतिप्रत्यक्षमूलके ॥
3.75 श्रुतिदण्डेन दुस्तर्कविकल्पभ्रमवारणम् ।
निर्दोषाऽपौरुषेयी च श्रुतिरत्यर्थमादरात् ॥
3.76 असकृत्तत्त्वमित्याह तादात्म्यं ब्रह्मजीवयोः ।
ब्रह्मानन्दह्रदान्तःस्थो मुक्तात्मा सुखमेधते ॥
3.77 फले च फलिनोऽभावान्मोक्षस्यापुरुषार्थता ।
एकशेषे हि चिद्धातोः कस्य मोक्षः फलं भवेत् ॥
एकस्यास्संविदःप्रपन्चोपादानत्वे अनुपपत्तिः
3.78 किञ्च प्रपञ्चरूपेण का नु संविद्विवर्तते ।
न तावद्घटधीस्तस्यामसत्यामपि दर्शनात् ॥
3.79 न हि तस्यामजातायां नष्टायां वाऽखिलं जगत् ।
नास्तीति शक्यते वक्तुमुक्तौ प्रत्यबाधनात् ।
नाप्यन्यसंवित् तन्नाशेऽप्यन्येषामुपलम्भनात् ॥
3.80 ननु संविदभिन्नैका न तस्यामस्ति भेदधीः ।
घटादयो हि भिद्यन्ते न तु सा चित् प्रकाशनात् ॥
3.81 घटधीः पटसंवित्तिसमये नावभाति चेत् ।
नैवं, घटो हि नाभाति सा स्फुरत्येव तु स्फुटम् ॥
3.82 घटव्यावृत्तसंवित्तिरथ न स्फुरतीति चेत् ।
तद्व्यावृत्तिपदेनापि किं सैवोक्ताऽथ वेतरत् ॥
3.83 सैव चेद्भासतेऽन्यच्चेन्न ब्रूमस्तस्य भासनम् ।
किञ्चास्याः स्वप्रकाशाया नीरूपाया न हि स्वतः ॥
3.84 ऋते विषयनानात्वान्नानात्वावग्रहभ्रमः ।
न वस्तु वस्तुधर्मो वा न प्रत्यक्षो न लैङ्गिकः ॥
3.85 घटादिवेद्यभेदोऽपि केवलं भ्रमलक्षणः ।
यदा, तदा तदायत्तो धीभेदावग्रहोदयः ।
कुतः, कुतस्तरां तस्य परमार्थत्वसम्भवः ॥
पूर्वपक्षेसंविन्नित्यत्वम्
3.86 किञ्च स्वयंप्रकाशस्य स्वतो वा परतोऽपि वा ।
प्रागभावादिसिद्धिः स्यात् , स्वतस्तावन्न युज्यते ॥
3.87 स्वस्मिन् सति विरुद्धत्वादभावस्यानवस्थितेः ।
स्वनिमित्तप्रकाशस्य स्वस्याभावेऽप्यसम्भवात् ।
अनन्यगोचरत्वेन चितो न परतोऽपि च ॥
तत्रसंविन्निर्धर्मकत्वम्
3.88 किञ्च वेद्यस्य भेदादेर्न चिद्धर्मत्वसम्भवः ।
रूपादिवत् , अतः संविदद्वितीया स्वयंप्रभा ॥
3.89 अतस्तद्भेदमश्रित्य यद्विकल्पादिजल्पितम् ।
तदविद्याविलासोऽयमिति ब्रह्मविदो विदुः ॥
उक्तपूर्वपक्षखण्डनविस्तरः; सम्विद्भेदसमर्थनम्
3.90 हन्त ब्रह्मोपदेशोऽयं श्रद्दधानेषु शोभते ।
वयमश्रद्दधानाः स्मो ये युक्तिं प्रार्थयामहे ॥
3.91 प्रतिप्रमातृविषयं परस्परविलक्षणाः ।
अपरोक्षं प्रकाशन्ते सुखदुखादिवद्धियः ॥
3.92 सम्बन्धिव्यङ्ग्यभेदस्य संयोगेच्छादिकस्य नः ।
न हि भेदः स्वतो नास्ति नाप्रत्यक्षश्च सम्मतः ॥
नित्यविभुसंविदैक्यपक्षेअनुपपत्तिः
3.93 यदि सर्वगता नित्या संविदेवा(का )भ्युपेयते ।
ततः सर्वं सदा भायात् , न वा किञ्चित्कदाचन ॥
3.94 तदानीं न हि वेद्यस्य सन्निधीतरकारिता ।
व्यवस्था घटते, वित्तेर्व्योमवद्वैभवाश्रयात् ॥
3.95 नापि कारणभेदेन, नित्यायास्तदभावतः ।
न च स्वरूपनानात्वात् , तदेकत्वपरिग्रहात् ॥
3.96 ततश्च बधिरान्धादेः शब्दादिग्रहणं भवेत् ।
गुरुशिष्यादिभेदश्च निर्निमित्तः प्रसज्यते ॥
संविद्भिन्नसर्वापलापेनशङ्का-तत्खण्डनञ्च
3.97 ननु नः संविदो भिन्नं सर्वं नाम न किञ्चन ।
अतः सर्वं सदा भायादित्यकाण्डेऽनुयुज्यते ॥
3.98 इदमाख्याहि भोः किं नु नीलादिर्न प्रकाशते ।
प्रकाशमानो नीलादिः संविदो वा न भिद्यते ॥
3.99 आदौ प्रतीतिसुभगो निर्वाहो लोकवेदयोः ।
यतः पदपदार्थादि न किञ्चिदवभासते ॥
3.100 द्वितीये संविदोऽद्वैतं व्याहन्येत समीहितम् ।
यद्ययं विविधाकारप्रपञ्चः संविदात्मकः ।
साऽपि संवित्तदात्मेति यतो नाना प्रसज्यते ॥
3.101 नचाविद्याविलासत्वाद्भेदाभेदानिरूपणा ।
सा हि न्यायानलस्पृष्टा जातुषाभरणायते ॥
तत्रअविद्येत्यत्र नञर्थविचारः
3.102 तथाहि यद्यविद्येयं विद्याभावात्मिकेष्यते ।
निरुपाख्यस्वभावत्वात्सा न किञ्चिन्नियच्छति ॥
3.103 अर्थान्तरमविद्या चेत्साध्वी भेदानिरूपणा ।
अर्थानर्थान्तरत्वादिविकल्पोऽस्या न युज्यते ।
विद्यातोऽर्थान्तरं चासाविति सुव्याहृतं वचः ॥
3.104 अथार्थान्तरभावोऽपि तस्यास्ते भ्रान्तिकल्पितः ।
हन्तैवं सत्यविद्यैव विद्या स्यात्परमार्थतः ॥
3.105 किञ्च शुद्धाऽजडा संवित् , अविद्येयं तु नेदृशी ।
तत्केन हेतुना सेयमन्यैव न निरूप्यते ॥
अविद्यापदार्थगतविद्या स्वरूपशोधनं
3.106 अपि चेयमविद्या ते यदभावादिरूपिणी ।
सा विद्या किं नु संवित्तिर्वेद्यं वा वेदिताऽथवा ।
वेद्यत्वे वेदितृत्वे च नास्यास्ताभ्यां निवर्तनम् ॥
3.107 न हि ज्ञानादृतेऽज्ञानमन्यतस्ते निवर्तते ।
संविदेवेति चेत्तस्या ननु भावादसम्भवः ॥
3.108 किञ्चेयं तद्विरुद्धा वा, न तस्याः क्वापि सम्भवः ।
यतोऽखिलं जगद्व्याप्तं विद्ययैवाद्वितीयया ॥
3.109 अभावोऽन्यो विरुद्धो वा संविदोऽपि यदीष्यते ।
तदानीं संविदद्वैतप्रतिज्ञां दूरतस्त्यज ॥
अविद्यायाआश्रयानुपपत्तिः
3.110 किञ्चासौ कस्य ? जीवस्य, को जीवो ? यस्य सेति चेत् ।
नन्वेवमसमाधानमन्योन्याश्रवणं भवेत् ॥
3.111 न ते जीवादविद्या स्यात् , न च जीवस्या विना ।
न बीजाङ्कुरतुल्यत्वं जीवोत्पत्तेरयोगतः ॥
जीवाविद्यानिरासानन्तरंब्रह्माविद्यानिरासः
3.112 ब्रह्मणश्चेन्न सर्वज्ञं कथं तत् बंभ्रमीति ते ।
अविद्याकृतदेहात्मप्रत्ययाधीनता न ते ॥
3.113 ब्रह्मसर्वज्ञभावस्य, तत्स्वाभाविकताश्रुतेः ।
भेदावभासगर्भत्वादथ सर्वज्ञता मृषा ॥
3.114 तत एवामृषा कस्मान्न स्याच्छब्दान्तरादिवत् ।
यथा शब्दान्तराभ्याससङ्ख्याद्याः शास्त्रभेदकाः ॥
3.115 भेदावभासगर्भाश्च यथार्थाः, तादृशी न किम् ।
सर्वज्ञे नित्यमुक्तेऽपि यद्यज्ञानस्य सम्भवः ॥
3.116 तेजसीव तमस्तस्मान्न निवर्तेत केनचित् ।
सर्वज्ञत्वादिवचनप्रामाण्यं व्यावहारिकं ॥
3.117 तात्त्विकं तु प्रमाणत्वमद्वैतवचसामिति ।
नियामकं न पश्यामो निर्बन्धात्तावकादृते ॥
3.118 आश्रयप्रतियोगित्वे परस्परविरोधिनी ।
कथं वैकरसं ब्रह्म सदिति प्रतिपद्यते ॥
3.119 प्रत्यक्त्वेनाश्रयो ब्रह्मरूपेण प्रतियोगि चेत् ।
रूपभेदः कुतस्त्योऽयं यद्यविद्याप्रसादजः ।
ननु सापि तदायत्तेत्यन्योन्याश्रयणं पुनः ॥
अविद्यायावस्तुत्वं
3.120 अवस्तुत्वादविद्यायाः (नैतत् तद्दूषणं यदि) ।
वस्तुनो दूषणत्वेन त्वया क्वेदं निरीक्षितम् ॥
3.121 ससा…..उ( स्वसाध्यस्य सिद्धव ) त्कारात् दोषोऽन्योन्यसमाश्रयः ।
न वस्तुत्वादवस्तुत्वादित्यतो नेदमुत्तरम् ॥
अवस्तुत्वासिद्धिवचनं
3.122 समस्तेन नञा वस्तु प्रथमं यन्निषिध्यते ।
प्रतिप्रसूतं व्यस्तेन पुनस्तदिति वस्तुता ॥
अविद्यायाजीवस्य चैकत्वनानात्वविकल्पः
3.123 किञ्च प्रपञ्चनिर्वाहजननी येयमाश्रिता ।
अविद्या सा किमेकैव नैका वा तदिदं वद ।
तदाश्रयश्च संसारी तथैको नैक एव वा ॥
अविद्यैकत्वदूषणं
3.124 सा चेदेका, ततस्सैका शुकस्य ब्रह्मविद्यया ।
पूर्वमेव निरस्तेति व्यर्थस्ते मुक्तये श्रमः ॥
शुकादिमुक्तिमिथ्यात्वेनएकाविद्यापक्षसमर्थनम्
3.125 स्यान्मतं नैव ते सन्ति वामदेवशुकादयः ।
यद्विद्यया निरस्तत्वान्नाद्याविद्येति चोद्यते ॥
3.126 मुक्तामुक्तादिभेदो हि कल्पितो मदविद्यया ।
दृश्यत्वान्मामकस्वप्नदृश्यभेदप्रपञ्चवत् ॥
3.127 यत्पुनर्ब्रह्मविद्यातस्तेषां मुक्तिरभूदिति ।
वाक्यं तत्स्वाप्नमुक्त्युक्तियुक्ता प्रत्यूहतामिति ॥
तत्खण्डनं
3.128 नन्वीदृशानुमानेन स्वाविद्यापरिकल्पितम् ।
प्रपञ्चं साधयत्यन्यः कथं प्रत्युच्यते त्वया ॥
3.129 त्वदविद्यानिमित्तत्वे यो हेतुस्ते विवक्षितः ।
स एव हेतुस्तस्यापि भवेत्सर्वज्ञसिद्धिवत् ॥
3.130 इत्यन्योन्यविरुद्धोक्तिव्याहते भवतां मते ।
मुखमस्तीति यत्किञ्चित्प्रलपन्निव लक्ष्यसे ।
यथा च स्वाप्नमुक्त्युक्तिसदृशी तद्विमुक्तिगीः ॥
3.131 तथैव भवतोऽपीति व्यर्थो मोक्षाय ते श्रमः ।
यथा तेषामभूतैव पुरस्तादात्मविद्यया ॥
3.132 मुक्तिर्भूतोच्यते तद्वत्परस्तादात्मविद्यया ।
अभाविन्येव सा मिथ्या भाविनीत्यपदिश्यताम् ॥
3.133 सन्ति च स्वप्नदृष्टानि दृष्टान्तवचनानि ते ।
ननु नेदमनिष्टं मे यन्मुक्तिर्न भविष्यति ।
आत्मनो नित्यमुक्तत्वान्नित्यसिद्धैव सा यतः ॥
3.134 तदिदं शान्तिकर्मादौ वेतालावाहनं भवेत् ।
येनैवं सुतरां व्यर्थो ब्रह्मविद्यार्जनश्रमः ॥
नित्यसिद्धमुक्त्यभिव्यक्तयेयत्न इति शंका
3.135 अविद्याप्रतिबद्धत्वादथ सा नित्यसत्यपि ।
असतीवेति तद्व्यक्तिर्विद्याफलमुपेयते ॥
3.136 हस्तस्थमेव हेमादि विस्मृतं मृग्यते यथा ।
यथा तदेव हस्तस्थमवगम्योपशाम्यति ॥
3.137 तथैव नित्य मुक्तात्मस्वरूपानवबोधतः ।
संसारिणस्तथाभावो व्यज्यते ब्रह्मविद्यया ॥
अभिव्यक्तिंविकल्प्य तत्परिहारः
3.138 हन्त केयमभिव्यक्तिर्या विद्याफलमिष्यते ।
स्वप्रकाशस्य चिद्धातोर्या स्वरूपपदे स्थिता ॥
3.139 संवित् किं सैव किं वाऽहं ब्रह्मास्मीतीति कीदृशी ।
यदि स्वरूपसंवित् सा, नित्यैवेति न तत्फलम् ॥
3.140 अथ ब्रह्माहमस्मीति संवित्तिर्व्यक्तिरिष्यते ।
ननु ते ब्रह्मविद्या सा सैव तस्याः फलं कथम् ॥
3.141 किञ्च सा तत्त्वमस्यादिवाक्यजन्या भवन्मते ।
उत्पत्तिमत्यनित्येति मुक्तस्यापि भयं भवेत् ॥
अविद्यायाःब्रह्मधीप्रतिबन्धकत्वायोगः
3.142 अपि च व्यवहारज्ञाः सति पुष्कलकारणे ।
कार्यं न जायते येन तमाहुः प्रतिबन्धकम् ॥
इह किं तद्यदुत्पत्तुमुपक्रान्तं स्वहेतुतः ।
3.143 अविद्याप्रतिबद्धत्वादुत्पत्तिं न प्रपद्यते ॥
न मुक्तिर्नित्यसिद्धत्वात् , न ब्रह्मास्मीतिधीरपि ।
3.144 न हि ब्रह्माहमस्मीति संवित्पुष्कलकारणम् ।
संसारिणस्तदास्तीति कथं सा प्रतिबध्यते ॥
3.145 यतः सा कारणाभावादिदानीं नोपजायते ।
न पुनः प्रतिबद्धत्वादस्थाने तेन तद्वचः ॥
जीवैकत्वपक्षस्यपुनर्विशिष्य दूषणम्
3.146 किञ्चैको जीव इत्येतद्वस्तुस्थित्या न युज्यते ।
अविद्यातत्समाश्लेषजीवत्वादी मृषा हि ते ॥
3.147 प्रातिभासिकमेकत्वं प्रतिभासपराहतम् ।
यतो नः प्रतिभासन्ते संसरन्तः सहस्रशः ॥
3.148 आसंसारसमुच्छेदं व्यवहाराश्च तत्कृताः ।
अबाधिताः प्रतीयन्ते स्वप्नवृत्तविलक्षणाः ॥
3.149 तेन यौक्तिकमेकत्वमपि युक्तिपराहतम् ।
प्रवृत्तिभेदानुमिता विरुद्धमितिवृत्तयः ॥
3.150 तत्तत्स्वात्मवदन्येपि देहिनोऽशक्यनिह्नवाः ।
यथाऽनुमेयाद्वह्न्यादेरनुमाना विलक्षणाः ॥
3.151 प्रत्यक्षं ते तथाऽन्येभ्यो जीवेभ्यो न पृथक् कथम् ।
न चेञ्चेष्टाविशेषेण परो बोद्धाऽनुमीयते ॥
3.152 व्यवहारोऽवलुप्येत सर्वो लौकिकवैदिकः ।
न चौपाधिकभेदेन मेयमातृविभागधीः ।
3.153 स्वशरीरेऽपि तत्प्रप्तेः शिरःपाण्यादिभेदतः ।
त(य)था तत्र शिरःपाणिपादादौ वेदनोदये ॥
3.154 अनुसन्धानमेकत्वे, तथा सर्वत्र ते भवेत् ।
प्रायणान्नरकक्लेशात् प्रसूतिव्यसनादपि ॥
3.155 चिरातिवृत्ताः प्राग् जन्मभोगा न स्मृतिगोचराः ।
युगपज्जायमानेषु ( मिथोह्यस्मरनत्स्थितः ) ॥
3.156 आश्रयासङ्करस्तत्र कथमैकार्थ्यविभ्रमः ।
न च प्रातिस्विकाविद्याकल्पितस्वस्वदृश्यकैः ॥
3.157 जीवैरनेकैरप्येषा लोकयात्रोपपद्यते ।
परवार्ताऽनभिज्ञास्ते स्वस्वस्वप्नैकदर्शिनः ।
कथं प्रवर्तयेयुस्तां सङ्गाद्येकनिबन्धनाम् ॥
संविदःसधर्मकत्वादप्यद्वितीयत्वायोगः
3.158 किञ्च स्वयंप्रकाशत्वविभुत्वैकत्वनित्यताः ।
त्वदभ्युपेता बाधेरन् संविदस्तेऽद्वितीयताम् ।
संविदेव न ते धर्माः, सिद्धायामपि संविदि ॥
3.159 विवाददर्शनात्तेषु ; तद्रूपाणां च भेदतः ।
न च ते भ्रान्तिसिद्धास्ते येनाद्वैताविरोधिनः ॥
3.160 तत्त्वा आवेदकवेदान्तवाक्यसिद्धा हि ते गुणाः ।
आनन्दस्वप्रकाशत्वनित्यत्वमहिमाद्यथ ॥
3.161 ब्रह्मस्वरूपमेवेष्टं, तत्रापीदं विविच्यताम् ।
ब्रह्मेति यावन्निर्दिष्टं तन्मात्रं किं सुखादयः ॥
3.162 अथवा तस्य ते, यद्वा त एव ब्रह्मसंज्ञिनः ।
आद्ये तत्तत्पदाम्नानवैयर्थ्यं वेदलोकयोः ॥
3.163 पूर्वोक्तनीत्याभेदश्च, जगज्जन्मादिकारणम् ।
अभ्युपेत्यैव हि ब्रह्म विवादास्तेषु वादिनाम् ॥
3.164 द्वितीये सैव तैरेव ब्रह्मणः सद्वितीयता ।
तृतीये ब्रह्म भिद्येत तन्मात्रत्वात्पदे पदे ॥
3.165 तत्समूहोऽथवा ब्रह्म तरुवृन्दवनादिवत् ।
प्रकर्षश्च प्रकाशश्च भिन्नावेवार्कवर्तिनौ ।
तेन न क्वापि वाक्यार्थो विभागोऽस्ति निदर्शनम् ॥
स्वयंप्रकाशत्वादेर्व्यावृत्तिरूपत्वेपिदोषः
3.166 जाड्यदुःखाद्यपोहेन यद्येकत्रैव वर्तिता ।
ज्ञानानन्दादिशब्दानां न सतस्सद्वितीयता ॥
3.167 अपोहाः किं न सन्त्येव, सन्तो वा, नोभयेऽपि वा ।
सत्त्वे सत्सद्वितीयं स्यात् जडाद्यामकतेतरे (ता परे) ॥
3.168 सदसद्व्यतिरेकोक्तिः पूर्वमेव पराकृता ।
तथात्वे च घटादिभ्यो ब्रह्मापि न विशिष्यते ॥
3.169 किञ्चापोह्यजडत्वादिविरुद्धार्थासमर्पणे ।
नैव तत्तदपोह्येत तदेकार्थैः पदैरिव ॥
3.170 प्रतियोगिनि दृश्ये तु या भावान्तरमात्रधीः ।
सैवाभाव इतीहापि सद्भिस्ते सद्वितीयता ॥
प्रपञ्चस्यापिसदसद्व्यतिरेकित्वायोगः
3.172 भूतभौतिकभेदानां सदसद्व्यतिरेकिता ।
कुतोऽवसीयते किं नु प्रत्यक्षादेरुता आगमात् ॥
3.173 प्रत्यक्षादीनि मानानि स्वस्वमर्थं यथायथम् ।
व्यवच्छिन्दन्ति जायन्त इति या (ता) वत् स्वसाक्षिकम् ॥
3.174 यथाऽग्रतः स्थिते नीले नीलिमान्यकथा न, धीः ।
एकाकारा , न हि तथा स्फटिके धवले मतिः ॥
3.175 क्षीरे मधुरधीर्यादृक् नैव निभ्बकषायधीः ।
व्यावहाराश्च नियताः सर्वे लौकिकवैदिकाः ॥
3.176 सत्यं प्रतीतिरस्त्यस्या मूलं नास्तीति चेन्न तत् ।
सा चेदस्ति तया मूलं कल्प्यतां कार्यभूतया ।
क्लृप्तं चेन्द्रियलिङ्गादि तद्भावानुविधानतः ॥
प्रत्यक्षस्यव्यवच्छेदकत्वायोगखण्डनं
3.177 यौगपद्यक्रमायोगाद्व्यवच्छेदविधानयोः ।
ऐक्यायोगाच्च भेदो न प्रत्यक्ष इति यो भ्रमः ।
भेदेतरेतराभावविवेकाग्रहणेन सः ॥
3.178 स्वरूपमेव भावानां प्रत्यक्षेण परिस्फुरत् ।
भेदव्याहारहेतुः स्यात् प्रतियोगिव्यपेक्षया ॥
3.179 यथा तन्मात्रधीर्नानानास्तिव्याहारसाधनी ।
ह्रस्वदीर्घत्वभेदा वा यथैकत्र षडङ्गुले ॥
3.180 एवं व्यवस्थितानेकप्रकाराकरवत्तया ।
प्रत्यक्षस्य प्रपञ्चस्य तद्भावोऽशक्यनिह्नवः ॥
3.181 आगमः कार्यनिष्ठत्वादीदृशेऽर्थे न तु प्रमा ।
प्रामाण्येऽप्यन्वयायोग्यपदार्थत्वान्न बोधकः ॥
3.182 नासत् प्रतीतेः , बाधाच्च न सदित्यपि यन्न तत् ।
प्रतीतेरेव सत् किं न , बाधान्नासत् कुतो जगत् ।
तस्मादविद्ययैवेयमविद्या भवताऽऽश्रिता ॥
मिथ्यात्वमिथ्यात्वविचारेणजगत्सत्यत्वस्थापनम्
3.183 किञ्च भेदप्रपञ्चस्य धर्मो मिथ्यात्वलक्षणः ।
मिथ्या वा परमार्थो वा नाद्यः कल्पोऽयमञ्जसा ।
तन्मिथ्यात्वे प्रपञ्चस्य सत्यत्वं दुरपह्नवम् ॥
3.185 पारमार्थ्यैऽपि तेनैव तवाद्वैतं विहन्यते ।
सर्वाण्येव प्रमाणानि स्वं स्वमर्थं यथोदितम् ॥
3.186 असतोऽर्थान्तरेभ्यश्च व्यवच्छिन्दन्ति भान्ति नः ।
तथाहीह घटोऽस्तीति येयं धीरुपजायते ॥
3.187 सा तदा तस्य नाभावं पटत्वं वाऽनुमन्यते ।
नन्वस्तीति यदुक्तं किं तन्मात्रं घट इत्यपि ।
3.188 अर्थान्तरं वा , तन्मात्रे सदद्वैतं प्रसज्यते ।
अर्थान्तरत्वे सिद्धं तत् सदसद्भ्यां विलक्षणम् ॥
3.189 यद्येवमस्ति ब्रह्मेति ब्रह्मौपनिषदं मतम् ।
घटवत्सदसद्भ्यामनिर्वाच्यं तवा आपतेत् ॥
3.190 आनन्दसत्यज्ञानादिनिर्देशौरेव वैदिकैः ।
ब्रह्मणोऽप्यतथाभावस्त्वयैवैवं समर्थितः ॥
3.191 सदसद्व्यतिरेकोक्तिः प्रपञ्चस्य च हीयते ।
यद्यथाकिञ्चिदुच्येत तत्सर्वस्य तथा भवेत् ॥
3.192 तस्मादस्तीति संवित्तिर्जायमाना घटादिषु ।
तत्तत्पदार्थसंस्थानपारमार्थ्यावबोधिनी ॥
3.193 सजातीयविजातीयव्यवच्छेदनिबन्धनैः ।
स्त्रै स्त्रैर्व्यवस्थितै रूपैः पदार्थानां तु या स्थितिः ॥
3.194 सा सत्ता न स्वतन्त्त्राऽन्या तत्राद्वैतकथा कथम् ।
न च नानाविधाकारप्रतीतिः शक्यनिह्नवा ॥
धर्मनिषेधेपिसधर्मकतया सद्वितीयत्वम्
3.195 न वेद्यं वित्तिधर्मः स्यादिति यत्प्रागुदीरितम् ।
तेनापि साधितं किञ्चित् संविदोऽस्ति न वा त्वया ॥
3.196 अस्ति चेत् पक्षपातः स्यात् न चेत्ते विफलः श्रमः ।
अतःस्वरसविस्पष्टदृष्टभेदास्तु संविदः॥
3.197 यथारथादिभिर्वाह्यै (यथावस्थायिभिर्बाह्यै) र्नैक्यं याति घटादिभिः ।
सहोपलम्भनियमो न खल्वैकैकसंविदा ।
नचेदस्ति ससामान्यं सर्वं संवेदनास्पदम् ॥
सहोपलम्भनियमेनग्राह्यग्राहकापलापः पूर्वपक्षिणः
3.198 सहोपलम्भनियमान्नान्योऽर्थः संविदो भवेत् ।
यदेतदपराधीनस्वप्रकाशं तदेव हि ।
स्वयभ्प्रकाशताशब्दमिति वृद्धाः प्रचक्षते ॥
3.199 यस्मिन्नभासमाने हि यो नामार्थो न भासते ।
नासावर्थान्तरस्त(रं त) स्मान्मिथ्येन्दुरिव चन्द्रतः ॥
3.200 अभासमाने विज्ञाने न चात्मार्थावभासनम् ।
इति संविद्विवर्तत्वं प्रपञ्चः स्फुटमञ्चति ॥
तत्खण्डनम्
3.201 मैवं परिभवः प्रत्यक्षेण बलीयसा ।
संरक्ष्यमाण भेदास्ते नानुमानानुवर्तिनः ॥
3.202 तथा हीदमहं वेद्मीत्यन्योन्यानात्मना स्फुटम् ।
त्रयं साक्षाच्चाकास्तीति सर्वेषामात्मसाक्षिकम् ॥
3.203 प्रत्यक्षप्रतिपश्रं च नानुमानं प्रवर्तते ।
न हि वह्नेरनुष्णत्वं द्रव्यत्वादनुमीयते ॥
3.204 किञ्च हेतुर्विरुद्धोऽयं सहभावो द्वयोर्यतः ।
तवा हि नत् हि संवित्तिः स्वात्मना सह भासते ॥
3.205 नीलापद्युप्लवापेतस्वच्छचिन्मात्रसन्ततिः ।
स्वापादौ भासते , नैवमर्थः संवेदनात् पृथक् ॥
3.206 तेन संवेदनं सत्यं संवेद्योऽर्थस्त्वसन्निति ।
तदेतदपरामृष्टस्व वाग्बाधस्य जल्पितम् ॥
3.207 सहोपलम्भनियमो येनैवं सति हीयते ।
यस्मादृते यदाभाति भाति य(त) स्मादृतेऽपि तत् ।
घटादृतेऽपि निर्भातः पटादिव घटः स्वयम् ॥
एतावानेव संवित्सिद्धिभाग उपलभ्यते इति ।
श्रीमद्विशिष्टाद्वैतसिद्धान्तप्रवर्तनधुरन्धरपरमाचार्यश्रीमद्भगवद्यामुनमुनिसमनुगृहीते सिद्धित्रये संवित्सिद्धिः