वेङ्कटनाथः
1.4 एवं श्लोकत्रयोक्तायास्सहधर्मचारिण्या भगवतस्स्वरूपविग्रहावतारेष्वयोगव्यवच्छेदं वदन्नस्या अपि तद्वत्प्रधानप्राप्यत्वं सूचयति -
विश्वास-प्रस्तुतिः
शान्तानन्त-महा-विभूति परमं यद् ब्रह्म रूपं हरेर्,
मूर्तं ब्रह्म ततोऽपि तत्-प्रियतरं, रूपं यद् अत्यद्भतम् ।
यान्य् अन्यानि यथा-सुखं विहरतो रूपाणि सर्वाणि तान्य्
आहुस् स्वैर् अनुरूप-रूप-विभवैर् गाढोपगूढानि+++(=अनुप्रविष्टानि)+++ ते ॥ ४ ॥
मूलम्
शान्तानन्तमहाविभूति परमं यद्ब्रह्म रूपं हरेर्मूर्तं ब्रह्म ततोऽपि तत्प्रियतरं रूपं यदत्यद्भतम् ।
यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणि तान्याहुस्स्वैरनुरूपरूपविभवैर्गाढोपगूढानि ते ॥ ४ ॥
वेङ्कटनाथः
शान्तेति ॥ शान्तम् - अशनायाद्यूर्मिभिरपक्षयादिविकारैश्च नित्यानन्वितमिति भावः । अनन्तम् - त्रिविधपरिच्छेदरहितम् । महत्यौ शुद्धाशुद्धे विभूती यस्य तन्महाविभूति । परमं - सर्वोत्कृष्टम् । यच्छदः सवोपनिषत्प्रसिद्धिं सूचयति । ब्रह्म - निरतिशयबृहत्त्वबृंहणत्वयुक्तं रूपं, स्वरूपमित्यर्थः । अत एव व्यतिरेकविभक्तिश्चात्र घटते । हरेः – आश्रितदोषहारिणः सर्वेश्वरस्य, यद्वा सर्वसंहर्तुः, यथोक्तं पुराणे (हर्यष्टके) “ब्रह्माणमिन्द्रं रुद्रं च यमं वरुणमेव च । निगृह्य हरते यस्मात्तस्माद्धरिरितीर्यते ॥” इति । एतच्चतुर्विधप्रलयकर्तृत्वोपलक्षणम् । उक्तस्वरूपानुरूपं “मूर्तं ब्रह्म महाभाग (वि. पु. १.२२.६३)” इत्यादिप्रसिद्धं सालम्बनयोगविषयभूतं दिव्यविग्रहमाह - मूर्तमिति । मूर्तं - स्पर्शरूपादियुक्तं परमपदपर्यङ्कादिदेशपरिच्छिन्नं चेत्यर्थः । अत्र ब्रह्मशब्देन दिव्यविग्रहस्यातिमहत्त्वं स्वसंश्रितानां धीविकासहेतुत्वं च विवक्षितम् । ततोऽपि (तै. उ. भृगु. ६.३) “आनन्दो ब्रह्म” इत्याद्याम्नातात्स्वरूपादपि तत्प्रियतरं तस्य निरतिशयानन्दस्य भगवतः स्वरूपादपि सौन्दर्यादिगुणयोगादतिशयेन प्रीतिविषयभूतम् । तदिति व्यस्तं वा, प्रसिद्ध्यतिशयद्योतनार्थं यत्तदित्यन्वेतव्यम् । रूपशब्द इह दिव्यविग्रहपरः । यच्छब्देन श्रुतिषु भगवच्छास्त्रादिषु च नित्यत्वादिविशिष्टतया प्रसिद्धिस्सूच्यते । अत्यद्भुतं - सन्निवेशगुणविहारप्रभावादिभिरतिविस्मयावहम् । एवमादिमं रूपमुक्तम् । अथ तद्विजृम्भितानि व्यूहव्यूहान्तरविभवान्तरादीन्याह - यान्यन्यानीति । यच्छब्द इहावताररहस्यप्रकरणादिप्रसिद्धिपरः । बहुवचनेन “पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः (गीता ११.१५)” इत्याद्युक्तं भूयस्त्वं विवक्षितम् । अन्यानि – पररूपात् तदंशतया सन्निवेशैर्वर्णादिभिश्च विलक्षणानि । यथासुखं - मनुष्यादिसजातीयावतारदशायामप्यस्य स्वाभाविकसुखादिनिवृत्तिर्दुःखं वा नास्तीति भावः । विहरत इत्यनेनावताररूपाणां स्वेच्छामात्रहेतुकत्वं क्रीडार्थत्वं च गम्यते । तेन कर्महेतुकत्वादिशङ्का निरस्ता । एतेषु स्वरूपादिषु किञ्चिदपि श्रियाऽनन्वितं नास्तीति द्योतनाय सर्वाणि तानीत्युक्तम् । आहुः – श्रुतिस्मृत्यादीनि, तद्विदो वा स्वयम्भूवसिष्ठपराशरपाराशर्यात्रिकाश्यपशौनकमङ्कणशतमखधनदादयः तत्तत्संहिताप्रणेतारः । स्वैः - तवासाधारणैः, अनुरूपरूपविभवैः - अनुरूपाणां रूपाणां सम्पद्भिः । रूपाण्येव वा विभवः, प्रभूतानुकूल्यैरनुरूपरूरैरिति यावत् । रूपशब्द इहापि पूर्ववत् स्वरूपादित्रिकविषयः । भगवत्स्वरूपादीनामेतत्स्वरूपादीनि यथाक्रममनुरूपाणि । अनुरूपत्वं च संबन्धे सति प्रकृष्टं सादृश्यम् । रत्नकाञ्चनादिन्यायेन स्वसम्बन्धिनि शोभातिशयहेतुत्वं वा । त्रयाणामानुरूप्यं “मद्धर्मधर्मिणी नित्यम् (ब्राह्मपुराणे)”, “नित्यैवैषा जगन्माता (वि. पु. १.८.१७)”, “देवत्वे देवदेहेयम् (वि. पु. १.९.१४५)” इत्यादिभिरभिहितम् । भगवच्छास्त्रे त्वस्य विस्तरः ।
गाढोपगूढानि - दृढ-संबद्धानि वियोगानर्हाणीत्य् अर्थः ।
एतेन सन्नियोग-शिष्ट-न्यायः सूचितः ।
अपराध-भीतानां भगवतस् सर्वदा शरण्यत्वार्थं प्राप्तिदशायां
शर्करान्वित-दुग्ध-न्यायेन निरतिशय-भोग्यत्वार्थं च
सर्वप्रकारेण श्रिया गाढोपगूढत्वोक्तिः । निरतिशयभोग्यस्यापि तादृशभोग्यान्तरोपश्लेषेणापि भोग्यत्वमविरुद्धम् । ते - भगवदभिमतस्वरूपरूपादिसंपद इति भावः । अस्त्वेवं भगवत्स्वरूपरूपादिषु तत्तदनुरूपाकारैरस्यास्सवन्धः, क्वचित् “सर्वभूतस्थिता द्विजा (लक्ष्मीसहस्रनामस्तोत्रे १२३ श्लो.)”, “यथा सर्वगतो विष्णुः (वि. पु. १.८.१७)” इत्यादिकं वचनमन्यत्र प्रशस्तपदार्थमात्रवासित्ववचनं च कथं घटेतामिति चेदत्र ब्रूमः -
शुभैक-वास-वचसां
सर्व-गत्व-गिराम् अपि ।
अभिमान-विशेषाद्यैर्
विषयः स्याद् व्यवस्थितः ॥ १५ ॥
“व्यापिनी सर्वगे”त्याद्याः
“सुसूक्ष्मे”त्यादयस्तथा ।
श्रीसमाख्या मिथो वैरं
जह्युस् तात्पर्य-भेदतः ॥ १६ ॥
शक्ति-काल-वशाद् अस्या
विभुत्वाद्य्-उपपादकाः ।
प्रच्छन्न-स्पष्ट-जैनाध्व-
निरोधाद् अ-गती-कृताः ॥ १७ ॥
एवं किल ते वदन्ति - यथा विभुस्वभावस्येश्वरस्याघटितघटनासामर्थ्यादणुत्वम्, तथाऽणुस्वभावाया एव तस्या विभुत्वमिति । तत्र दृष्टान्तस्तावदयुक्तः । उपाध्यवच्छेदमात्रोण ह्यणुत्वमीश्वरेऽङ्गीक्रियते, न तु स्वरूपतः । यदि चाघटितघटनाशक्त्याऽत्र विरुद्धद्वयसंभवः, तदा सवाद्वैतभेदाभेदपक्षाभ्यां किमपराद्धम्? अथोच्येत - अणुस्वभावत्वेऽपि विकासकशक्त्याऽस्याः कदाचिद्विभुत्वमविरुद्धमिति, तथा सति समानन्यायतया सर्वेषामात्मनां स्वरूपविकासस्वीकारे विरोधो न स्यात्, “न च पर्यायादप्यविरोधो विकारादिभ्यः (ब्र. सू. २.२.२३)” इति जैनप्रतिक्षेपसूत्रमप्यपार्थकं स्यात् । ननु च “का चाऽन्या त्वामृते देवि (वि. पु. १.९.१२२)” इत्यादिन्यायेन भगवद्विग्रहनिवासित्वमनन्तगरुडादिवन्नित्यभगवदिच्छानियमिताधिकारविशेषसिद्धतया श्रियः स्तुतये भवतु, भगवत्स्वरूपे तु गाढसंबन्ध उच्यमानः सर्वसाधारणत्वान्नैतस्याः स्तुत्यै स्यात् । तत्र यद्यनुरूपत्वोक्त्या स्तुतिसिद्धिरभिप्रेता, तदा किं तदनुरूपत्वम्? अणुत्वेन वैषम्येऽपि स्वतन्त्रशेषिणं प्रति पारतन्त्र्यशेषत्वाभ्यां विभूतित्वेनातिशयावहत्वमिति चेत्; तदपि सर्वचिदचित्समानम् । न चानादिसर्वज्ञत्वादिसाम्यमिहानुरूप्यं, तस्यापि नित्यसूरिसाधारणतया तान्प्रति शेषित्वेनोक्तायास्तस्यास्तेन स्तुत्यनुपपत्तेः । अन्यथा द्रव्यत्वचेतनत्वादिभिरपि स्तोतव्यत्वप्रसङ्गात् । अथ (वि. पु. १.९.१२६) “त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम्” इत्यादिवचनस्वारस्यावगताद्विभुत्वादनुरूपत्वं विवक्ष्यते? तदप्ययुक्तम्, जीवेश्वरकोटिविकल्पानुपपत्तेः । जीवत्वं ह्यणुत्वव्याप्तम्, क्वचिज्जीवे तन्निवृत्तावतिप्रसङ्गः । “यथा सर्वगतो विष्णुः (वि. पु. १.८.१७)” इत्यादिव्याप्तिवचनं “सौम्यासौम्यैर्जगद्रूपैस्त्वयैतद्देवि! पूरितम् (वि. पु. १.९.१२१)” इत्युक्तासङ्ख्यातविग्रहसंबन्धाभिप्रायं स्यात् । ईश्वरत्वे तु भगवतोऽन्यत्वे तस्य समाधिकदरिद्रत्वश्रुतिविरोधः । तदनन्यत्वे दम्पतित्वाद्यनुपपत्तिः । आनुरूप्यवचनं चानर्थकं स्यात् । इमौ चात्यन्तसाम्यस्वरूपैक्यपक्षौ पूर्वमपि निरस्तौ । अत्र भेदाभेदकाल्पनिकभेदाभेदपक्षौ च प्रामाणिकैः प्रतिक्षिप्ताविति । अत्रोच्यते – यत्तावदुक्तम् – इतरसाधारणैराकारैः स्तुत्यनुपपत्तिरिति, तदसत्, व्यावर्त्यान्तरवत्त्वे प्रयोजनविशेषवत्त्वे च सत्यनेकसाधारणैरपि कैश्चित् स्तुत्युपपत्तेः । स्तूयते हि सर्वेश्वरोऽपि नित्यमुक्तसाधारणैराकारैः सर्वज्ञत्वादिभिः । यत्तु विभुत्वे जीवेश्वरकोटिविकल्पानुपपत्तिरिति, तत्र केचिदेवं परिहरन्ति, जीवत्वेऽप्यस्याः विभुत्वं न विरुध्यते, जीवविषयाणुत्वश्रुतिर्हि न सर्वजीवव्यापिनी, तत्तत्प्रकरणसन्निहितेषु बद्धेष्वेव तत्प्रवृत्तेः, “वालाग्र (श्वे. उ. ५.९)” इत्यादौ तु “स चानन्त्याय कल्पते” इति मुक्तविषयो वाक्यशेषः आत्मनां निर्विकारत्वस्थापनाद्धर्मभूतज्ञानद्वारा व्याप्तिमभिसन्धत्ते । एवम् “सर्वमेवाविशन्ति” इत्यादीनि वाक्यान्तराण्यपि । एतच्च “प्रदीपवदावेशः (ब्र. सू. ४.४.१५)” इत्यादिसूत्रेषु प्रदर्शितम् । नित्येषु च संप्रतिपन्नजीवसाजात्यागतस्याणुत्वस्य बाधकश्रुत्यभावादनुग्राहकसद्भावाच्च स्वीकारः । लक्ष्म्यास्तु तथैव प्राप्तस्याणुत्वस्यानन्यथासिद्धव्यापित्ववचनं बाधकम् । न च सर्वगतादिशब्दानां सार्वत्रिकावतारसर्वशेषित्वादिप्रतिपादकत्वं कल्प्यम्; यथाश्रुतस्वीकारे विरोधाभावात् । नापि मुक्तवद्धर्मभूतज्ञानद्वारा व्याप्तिकल्पनं युक्तम्; तद्वत् बाधकश्रुत्याद्यभावात् । विभुद्वयासंभव इह बाधक इति चेन्न, कालतत्त्वे नित्यमुक्तेश्वराणां धर्मभूतज्ञाने च विभुत्वस्वीकारात् । जीवलक्षणमपि परतन्त्रचेतनत्वमात्रम्, अणुचेतनत्वं त्वेतद्व्यतिरिक्तजीवविषयम् । अथवा जीवलक्षणेऽणुशब्दः परिच्छिन्नमात्रपरस्सन् अमुष्यां भगवत्पराधीनायां स्वातन्त्र्यगुणपरिच्छेदेन वर्तताम् । एवं च जन्माद्यधिकरणे (श्रीभाष्ये १.१.२) भाष्यम् “अनन्तपदं देशकालवस्तुपरिच्छेदरहितस्वरूपमाह । सगुणत्वात्स्वरूपस्य स्वरूपेण गुणैश्चानन्त्यम् । तेन पूर्वपदद्वयव्यावृत्तकोटिद्वयविलक्षणाः सातिशयस्वरूपस्वगुणा नित्या व्यावृत्ताः” इति । अत्र ह्यन्येषां नित्यानां स्वरूपतो गुणतश्च सातिशयत्वेन व्यावृत्तत्वं, लक्ष्म्यास्तु स्वरूपतो निरतिशयत्वेऽपि पारतन्त्र्यादियोगात् गुणतस्सातिशयतया व्यावृत्तता युज्यते । तथा च जगत्कारणत्वलक्षणेऽपि व्यापारतः सातिशयत्वाद्व्यावृत्तत्वम् । अतो जीवत्वेऽप्यस्याः स्वरूपविभुत्वेन पतिस्वरूपानुरूप्यमिति । अपरे त्वस्याश्चेतनत्वात् अचिदन्यत्वं विभुत्वाज्जीवान्यत्वं पारतन्त्र्यादीश्वरान्यत्वं च । न हि सदसद्विलक्षणादिष्विवात्र विरोधः, जीवेश्वररूपेण विविधात्मविभागवचनेषु त्वस्या अनुक्तिरविवक्षामात्रात् । वस्तुतस्तु पतिपुत्रव्यावृत्तपत्नीन्यायेन लक्ष्म्याः कोट्यन्तरत्वम्, तत्र लक्ष्म्या अपि सत्ता भगवदधीना, भगवतस्तु वैभवं रत्नप्रभापुष्पपरिमलन्यायेन लक्ष्म्यायत्तम् । अतोऽत्रापि पतिस्वरूपानुरूप्यं पत्नीस्वरूपस्य सुगममिति । अन्ये तु स्वरूपस्थितिरेवमस्तु, तथापि सेयमीश्वरकोटिः, विभूतिद्वयशेषित्वादिमात्रेण तल्लक्षणसिद्धेः । तत्र सर्वशेषित्वादिकं भगवतः । अस्यास्तु तदितरसर्वशेषित्वादिकमिति विभागः । अनुरूपत्वं तु पूर्ववदेव, जगत्कारणत्वादिब्रह्मलक्षणं तु पतिमात्रगोचरम् । अत एव तस्य सर्वेश्वरत्वं समाधिकदरिद्रत्वं चेति । तदिदं पक्षत्रयमन्योन्यमनतिविप्रकृष्टम् । जीवादिसमाख्यानिवेशे तु मिथो विवादः ॥
प्रागुक्तेन सहैतेषु
पक्षेष्व् अत्र चतुर्ष्वपि ।
स्वतन्त्र-पति-नित्येच्छा-
सिद्धं सर्वम् इदं श्रियः ॥ १८ ॥
अपि चैवं, “न तस्येशे कश्चने” (तै. ना. १.१.२) त्यादिदर्शनात् । अतश्चतुर्भिरप्येतैः पत्यावैश्वर्यविश्रमः ॥ १९ ॥ अत एव “नरसम्बन्धिनो नाराः (अहिर्बुध्न्य. ५२.५०)” इति नरशब्दार्थत्वेऽप्यस्याः पतिवत् तदिच्छायत्तं प्रधानप्राप्यत्वादिकमविरुद्धम् । आकारसाम्येऽपि क्वचिद्व्यापारो भिद्यते । सर्वकर्तुर्वल्लभाप्रीत्युद्देशेन तत्तल्लीलाप्रवृत्तेस्तस्या अपि तदन्वयोक्तिरविरुद्धा । सहारब्धेऽपि कार्ये लौकिकपतिन्यायेन पतिप्राधान्यव्यपदेशः पतिकर्तृकत्वमात्रव्यपदेशश्चोपपन्नः । पतिबुद्ध्यधीनस्यापि पत्न्या गुणभावस्योभयेच्छासिद्धत्वव्यपदेशस्तस्या अपि तथैवेष्टत्वाविशेषादुपपद्यत इति गमनिकेति । अत्र सर्वभूतेश्वरत्वादिवचनसाम्यादस्या गुणभाव उभयेच्छाप्रयुक्त इति केचिदाहुः ॥
अन्योन्येच्छा-विधातादि??-
निवृत्तौ तत्-परत्वतः ।
ऐककण्ठ्यम् अ-शेषाणाम्
आगमानां भवत्विति ॥ २० ॥
पञ्चस्व् एतेषु पक्षेषु
कश्चिदेकः प्रमाणवान् ।
स-लक्ष्मीकस्य साम्राज्यं
सर्वथा सुप्रतिष्ठितम् ॥ २१ ॥
इहैवं क्वचिदंशे तु
संशयेऽपि विपश्चिताम् ।
उपयुक्तांश-वैशद्याद्
उपाय-फल-संभवः ॥ २२ ॥+++(4)+++
अत्र स्वामित्व-सौलभ्य-
फल-दत्व–फलत्वतः ।
आनुरूप्येण संबन्धः
श्रीपतौ दर्शितः श्रियः ॥ २३ ॥
अपि चात्र द्वयार्थमनुसन्धित्सता श्रीशब्दनिरुक्तयश्च तत्रतत्र सूचिताः । मत्वर्थस्तु नित्ययोगस्वरूपरूपादिसर्वविषयतया चतुर्थश्लोके व्यञ्जितः । नारायणशब्दार्थोऽपि “कान्तस्ते पुरुषोत्तमः”, “शान्तानन्तमहाविभूती”त्यादिभिः संग्रहेणोक्तः । चरणशब्दोपलक्षितविग्रहयोगोऽपि “मूर्तं ब्रह्मे”त्यादिना प्रदर्शितः ।।
एवं सङ्क्षिप्त-सिद्धांश-
विशदी-कार-पूर्वकम् ।
साध्यं प्राप्यम् उपायं च
स्तोत्रे संदर्शयिष्यति ॥ २४ ॥
कवि-कथक-सिंह
इत्थं त्रय्य्-अन्ताचार्य इत्य् अभिख्यातः ।
व्यवृणुत यामुन-विहितां
रमा-स्तुतिं वेङ्कटेश-कविः ॥ २५ ॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यम्य कृतिषु रहस्यरक्षायां चतुश्श्लोक्यधिकारः ॥
॥ चतुश्श्लोकीभाष्यं समाप्तम् ॥
गोपालः
पूर्वश्लोके श्रियः अरविन्दलोचनस्य भगवतो मनःकान्तात्वमुक्तं स्वात्यन्तवाल्लभ्येन स्वकृतपुरुषकारस्य नैयत्येनानुल्लङ्घनीयत्वोपपादकम् । मोक्षणसङ्कल्पनिष्पादनविषये मातुः श्रियः पुरुषकारनिर्वर्तनम् । मोक्षणसङ्कल्पस्येश्वरतत्त्वनिष्ठत्वात्, मुमुक्षुप्पडिव्याख्यानादिग्रन्थेषु बहुशः उभाभ्यामपि दम्पतीभ्यां सहघटितमीश्वरतत्त्वमिति नेश्वरमात्रस्य पत्न्याः स्वबुद्ध्या पृथक्कृतस्येश्वरतत्त्वपूर्तिरिति च निर्धारितमनुसृत्य मोक्षणसङ्कल्पस्योभयकर्तृकत्वं श्रीवैष्णवसर्वाचार्यसम्मतत्वेन सम्मन्तुं न दुःशकम् । उभयोर्मोक्षणसङ्कल्पकर्तृकत्वेन वर्णने ‘छायेवानुगता भव’ इति ज्ञान्यग्रेसरजानकीपितृवैदेहमुखेन महर्षिगीतानुसारेण यद्यत्पत्या सङ्कल्प्यते तत्तत् छायाभूतया वा छायावत् तत्कृतसर्वानुकारिण्या वा श्रिया मोक्षणविषयसङ्कल्पकरणेपि अनुगम्येत । सर्वथा भर्तृकृतसङ्कल्पस्य तत्क्षण एव पत्नीमनस्यपि प्रतिच्छायात्वेन उदयो भवेदिति आश्रयणं सुलभं स्वरसं च । निरतिशयवेगात्प्रतिफलनक्रियायाः मूलभूतबिम्बक्रियातः यौगपद्यभेदकरूपकालभेदोऽपि नात्यन्तं परिगणनयोग्यः । ‘अन्वासते पत्नि(वह्नि)मतो यथार्हं च्छायास्सजीवा इव धर्मदाराः’ (6.59) इति सजीवच्छायात्वेन निरूपिताः धर्मपत्न्यः सङ्कल्पसूर्योदये अगस्त्याश्रमवर्णने । सूर्यस्य पत्नी च्छायादेवीति प्रसिद्धम् । सूर्ये वा चन्द्रे वा प्रकाशमाने तदालोले दृश्यमानायाः पुरुषच्छायायाः पुरुषदेहचलनादिप्रयुक्ततत्तुल्यचलनादिक्रियावत्वं भवतीति प्रसिद्धम् । श्रीमन्मध्वमते केशवप्रतिविम्बत्वेनोक्तानां जीवानां क्रियास्सर्वाः विम्बभूतेश्वरकर्तृकक्रियाणां प्रतिफलनभूता इत्युच्यते । ‘अनुकृतेस्तस्य च’ इति सूत्रे, ‘स्थितः स्थितामुच्चलितः प्रयाताम्’ इति रघुवंश श्लोक इव, ‘यथा धेनुर्वत्सं च्छाया वा सत्त्वम् अनुगच्छति’ इति भगवद्गुणदर्पणे भट्टार्यैरुदाहृतश्रुत्यनुसारेण बिम्बकृत्यनुसारित्वं च्छायाभूतपत्न्यास्सुग्रहम् । दम्पत्योस्सहत्वं सर्ववैदिकक्रियासु प्रसिद्धम् । वेदान्तानां प्रयोजनकाष्ठाभूतसंसारिजीवमोक्षणक्रियायां सर्वमातापितृभूतयोर्दम्पत्योस्साहित्येन कर्तृत्वान्वयः स्वरस इत्यपि सुग्रहम् । ‘उभयाधिष्ठानमेकं शेषित्वम्’ इति सर्वपूर्वाचार्यसम्प्रतिपत्तिः । ‘उद्देश्यत्वं जननि भजतोरुज्झितोपाधिगन्धं प्रत्यग्रूपे हविषि युवयोरेकशेषित्वयोगात् । पद्मे पत्युस्तव च निगमैर्नित्यमन्विष्यमाणो नावच्छेदं भजति महिमा नर्तयन्मानसं नः ॥’ इति श्रीस्तुतिश्लोके, प्रत्यग्रूपात्महविस्समर्पणे सम्प्रदानत्वेनोद्देश्यत्वं दम्पत्योस्सहैव । तच्चोद्देश्यत्वमुपाधिलेशरहितमत्यन्तं मुख्यमित्युभयोर्महिमा मनसस्सानन्दनर्तनेन वर्णितः दम्पत्योरुभयोरपि ऐश्वर्यादिसर्वमहिम्नां स्वाभाविकत्वरूपस्वतस्सिद्धत्वं श्रियोऽपि भगवद्विषये इव पुनः पुनरभ्यासेन पृथुगद्ये निगद्यते । पुरुषकारनिर्वर्तनार्थं मातरं श्रियं प्रपद्य, ‘प्रपत्तिस्सफला भवतु’ इति मातुराशिषं लब्ध्वा, प्रपत्तिरूपप्रार्थनाक्षणे मातापितृरूपेश्वरतत्त्वघटकदिव्यदम्पत्योर्मध्ये ज्ञानसामान्यस्य, ‘श्रियः पतिसंज्ञकस्य श्रिया नित्यविशिष्टस्य भगवतः श्रीवैशिष्ट्यविशिष्टत्वेनैव भाव्यम्’ इति, ‘श्रीसरोमुनेः’ ‘तामरयाळ्केळ्वनोरुवनैये नोक्कुमुणर्वु (தாமரையாள் கேள்வன் ஒருவனையே நோக்கும் உணர்வு)’ इति गाथया, ‘ज्ञानं चेत् श्रियः पतिं विहाय नैव प्रतिष्ठां भजेतेति’ यतिपतेर्वार्तया च ज्ञानविशेषरूपप्रपदने परं तां श्रियं प्रयत्नपूर्वकं व्यावर्त्य अत्यन्तं निश्शेषतो विहाय श्रीमच्छब्दरूपोपक्रमश्रुतिम् ऐदम्पर्येण निर्निमित्तं तिरस्कृत्य भगवन्मात्रस्य गोप्तृत्वेन वरणीयत्वं शरण्यत्वेनोद्देश्यत्वं च भजनीयमिति निर्बन्धनं स्वरसं स्याद्वेति सर्वैरालोचनीयम् । उभयोरपि बुद्धौ संनिधापननैयत्यस्य निरपवादमौत्सर्गिकत्वात् प्रपदनक्षणेऽपि रक्षकत्वेन प्राप्तायाः श्रियः प्रयत्नतो व्यावर्तनमेव करणीयं भवेत् तामुद्देश्यत्वात् बहिर्भावनाय । दयादिविशेषणान्तराणामिवास्याः श्रियोऽपि अविशेषेण वैशिष्ट्ये लक्ष्म्याः चेतनत्वरूपविशेषात् न निरपेक्षोपायत्वनियमभङ्गः शक्यशङ्कः स्वरसतः भर्तृच्छायाभूतायाः तस्याः उपायप्रार्थनोद्देशे वैशिष्ट्येनेश्वरस्वातन्त्र्यस्य न कापि हानिस्संभावयितुं शक्या । यथा दयादिगुणाः ईश्वरानन्याः तथा श्रीरपि तदनन्या । गायत्रीमन्त्रे ‘सवितुर्देवस्य भर्गः’ इत्यत्र भर्गश्शब्दस्य भगवत्कारुण्यप्रभारूपदेवीपरत्वं स्वरसस्वरसं वर्णितं, ‘जयत्याश्रितसन्त्रासध्वान्तविध्वंसनोदयः । प्रभावान् सीतया देव्या परमव्योमभास्करः ॥’ इति श्लोके । इत्थं च वैष्णवाध्वत्वेनात्र पूर्वश्लोकनिर्दिष्टकठवल्लीवर्णिताध्वपारभूतविष्णुपरमपदप्रापणाय प्रथमं पुरुषकारत्वेन श्रियः प्रापणाय तत्पुरुषसमासमाश्रित्य, अनन्तरं शब्दावृत्तिं कृत्वा साक्षात्प्रपत्त्युद्देश्यत्वे, ‘अनन्याधीनकल्याणमन्यमङ्गलकारणम् । जगन्निदानमद्वन्द्वं द्वन्द्वं वन्दामहे महः ॥’ इति प्रसिद्धसर्वमङ्गलभूतद्वन्द्वघटकावुभावप्येकीकृत्य तत्संग्रहणद्वन्द्वसमासाश्रयणेन कार्यमित्यर्थवर्णनं नास्वरसम् । श्रीमद्भट्टार्यप्रोक्तश्रीविषयकतदन्तर्भावन्यायस्य प्रपत्त्युद्देशव्यापारेऽपवादकं किमपि वचनं न पश्यामः । नित्ययुक्तत्वेन प्रसिद्धां मतुब्रूपश्रुतिरूपवचनेन सुस्पष्टं वैशिष्ट्याभिधानवतीं श्रियं प्रपत्तिरूपास्मद्ज्ञानविशेषे परं यत्नतो बहिष्कृत्य केवलभगवन्मात्रोद्देशः कर्तव्य इति निर्बन्धनगतिर्न तथा स्वारसिकीव । करणमन्त्रे उपायबोधकपूर्वखण्डे समासेन प्रयोगः कृतः, फलभावकोत्तरखण्डे व्यस्तरूपेण च प्रयोगः कृत इति स्वारस्यं च न विस्मरणीयम् । इत्थं द्वन्द्वसमासं जगन्निदानद्वन्द्वविषये समाससामान्ये द्वन्द्वसमासस्याभ्यर्हितत्वं निर्धारितवतो भगवतो रुचिमनुसृत्य प्रयुज्य, अनन्तरश्लोके फलविषये, ‘क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता’ इति याज्ञ्यवल्क्यस्मृत्युक्तरीत्या परमां विशुद्धिं प्राप्तानां नित्यमुक्तानामेतद्द्वन्द्वप्रजाभूतानां स्वाविभागेन नित्यपरिष्वञ्जनव्यापारे काष्ठागतरागेण निरतिशयवात्सल्येनाऽऽनन्दघनस्वस्वरूपाभ्यां ततोऽपि तत्प्रियतरस्वमूलविग्रहाभ्यां स्वेच्छागृहीतेतरतदुपादानकसर्वेतरविग्रहाभ्यां च साहित्येन निरन्तरं सम्पूर्णं व्यापृतत्वमत्र वर्ण्यते । प्रथमश्लोके पुरुषोत्तमस्य नारीणामुत्तमाया वध्वाश्च फणिपतिरूपपर्यङ्कस्य साधारणत्वं फणितं मुक्तिरूपसर्वविशुद्धप्रजापरिष्वञ्जनेऽपि फणिपतिरूपपर्यङ्कारूढत्वस्य साधारणत्वं सर्वनित्यमुक्तानामस्तीति ईश्वरमिथुनस्य दयाकाष्ठावर्ण्यतेऽत्र तुरीये फलश्लोके ॥
‘भोगमात्रसाम्यलिङ्गाच्च’ इति शारीरकशास्त्रान्तिमाधिकरणीयसूत्रप्रयुक्तमात्रशब्देनाभिप्रेतः कार्त्स्न्यार्थोऽप्यनेन श्लोकेन विवृतो भवति । अस्मिन् तुरीयश्लोके शारीरकतुरीयाध्यायप्रतिपादितं फलं विव्रियते । ‘फलमपि च शारीरकमितः’ इत्येतत्स्तुतिभाष्यमङ्गलश्लोके पठितरीत्या दम्पत्योः पित्रोर्नित्यपरिष्वङ्गरूपप्राप्तेरेव फलत्वादुभयोर्गाढोपगूढानन्दघनदिव्यात्मस्वरूपे, ततोऽपि तत्प्रियतरौ आद्यनित्यदिव्यमङ्गलविग्रहौ च, दुग्धराशित्वेनोत्प्रेक्षिताद्यविग्रहयोः परिणामभूताः आत्मभूतज्ञानिभक्तेच्छानुसारिस्वात्मेच्छापरिगृहीतभक्तमधुरतमस्वमधुरतमदिव्यमङ्गलविग्रहाश्चात्र प्राप्यमोक्षफलत्वेन निर्दिश्यन्ते । ‘शान्तानन्तमहाविभूति’ इति शब्दस्वरूपमात्रेण शान्तनित्यभोगविभूतिसंज्ञकमोक्षलोकोऽपि ध्वनिना ज्ञाप्यते । निरन्तरनित्यवात्सल्याविष्टौ मातापितृभूतदम्पती अत्यन्तविशुद्धस्वप्रजाभूतनित्यमुक्तानां सततमविच्छेदेन गाढोपगूढपरिष्वङ्गलोलौ स्तः । सिंहासनभूतशेषपर्यङ्कारोहं तेषां सर्वेषामपि वात्सल्यकरुणाभ्यां दत्तः । मोक्षणात्पूर्वमविद्यावृतानां संसारिणां मोक्षलोकप्रवेशकाले स्वपर्यङ्कारोहदानेन तेषामविद्यां निःशेषतो विनिवर्त्य ऐकान्तिकात्यन्तिकीं विशुद्धिं प्रदाय काष्ठागतया आशया गाढं परिष्वजतश्च । संसारदशायामपि प्रत्यहं तदा तदा प्रजानां परिश्रान्तानां विश्रमायतनमपेक्षमाणानां विश्रमदानाय पापचिन्तारुच्यादिहेतुभूतबहिरन्तःकरणानि निर्व्यापारतारूपस्वापं प्रापय्य, तासां, ‘अत्र स्तेनो अस्तेनो भवति भ्रूणहा अभ्रूणहा, पुल्कसो अपुल्कसः, अनन्वागतं पुण्येन, अनन्वागतं पापेन’ इत्यादिश्रुतिभिर्वर्णितरीत्या तात्कालिकीं देहसम्बन्धाभिमानराहित्यरूपविशुद्धिं प्रदाय गाढं ताः परिष्वज्य विलक्षणं किञ्चित्सुखमपि प्रदाय दुःखानुभवाभावं च करुणया निर्वर्त्य प्रजाविषये स्वपरिष्वङ्गाशां पूरयतः । ईश्वरज्ञानात् परमविशुद्धिसम्पादनसमये तत्फलभूतमोक्षप्राप्तौ सत्यां तदा नित्यतया भाविपरिष्वङ्गस्य मातापित्रोः सततं वर्तमानायाः तद्दानतीव्ररुचेश्च द्योतकं संसारकालेऽपि स्वापदशायां स्वस्वेतरसर्वविस्मारकहार्ददम्पतिपरिष्वङ्गदानम् । हार्दरूपावतारे हृदयगुहायां स्वरूपेण दिव्यमङ्गलविग्रहेण चावस्थितत्वं मातापित्रोरुभयोरपि समानम् । तेन च संसारिचेतनोज्जीवनविषये सिद्धोपायत्वमुभयोरनादेः कालात्समं यावत्फलोदयं नित्यानुवर्तमानं चेति लभ्यते । ‘अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च’ इति सूत्रेण सर्वसंसारिहृदयौकसि हार्दावतारस्य करुणयावस्थानस्य दर्शनसमानाकारप्रीतिरूपापन्नभक्तियोगे विषयीभवनार्थत्वं, तद्विषयीभवनेन दर्शनरूपमोक्षफलानुग्रहणार्थत्वं च स्पष्टीकृतम् । तदोकस्सूत्रेण च ‘हार्दानुगृहीतः’ इति स्पष्टपठित्रा इयमनुग्रहेच्छा स्पष्टीकृता । हृदयगुहायामवस्थितयोर्मातापित्रोरुभयोरपि भवेदेतदिच्छाप्रयत्नकृत्यादिरूपोपायत्वम् । अर्भकौकस्सूत्रे अर्भकशब्दपठनं न केवलं हृदयौकसोऽल्पत्वरूपपूर्वपक्षहेतुप्रदर्शनार्थं, किन्तु अर्भकशब्दस्य परमप्रसिद्धमुख्यार्थभूतस्वप्रजार्थकत्वमपि विश्वतोमुखाल्पाक्षरसूत्रप्रणेतृरसिकसार्वभौमबादरायणहृदयगतं स्यादिति मन्महे । अर्भकौकस्त्वात्कथं विभुना सर्वेश्वरेण संसारिजीवस्याविद्यान्धकारमयात्यल्पसुषिरभूतहृदयगुहा अनादिकालात्सततं निवासस्थानत्वेनाद्रियेत, विभुस्वरूपेण तेन कथं वा तत्रावस्थातुं शक्येतेत्यपि पूर्वपक्षिमनोगताक्षेपयोः, अर्भकौकस्त्वादिति पूर्वपक्षिप्रयुक्तहेतुपदमेव वैचित्र्यरसोत्पादनाय सिद्धान्त्यपि सिद्धान्तहेतुत्वेनादृत्य, ‘दहरकुहरे देवस्तिष्ठन् निषद्वरदीर्घिकानिपतितनिजापत्यादित्सावतीर्णपितृक्रमात्’ (सङ्कल्प.सू. 10.69) इति श्लोकोपपादितरीत्या स्वप्रजाभूतसंसारिजीवस्य स्वकर्मवशेन तत्र निपतितत्वात् तत्र यावज्जीवं तेनोषितव्यत्वाच्च कथञ्चित्तदुद्धरणेच्छया सीदमानतद्विरहस्यासह्यतया च तत्र तेन सह यावच्छरीरपातं वसतीति परिहारमुत्तरत्वेन निपुणं निबध्नाति । ‘निचाय्यत्वादेवम्’ इत्यत्र एवंपदस्य अर्भकौकस्त्वेनेत्यर्थमपि कृत्वा पूर्वपक्ष्युक्तार्भकौकस्त्वप्रकारेण तदोकसा भगवता पितृभूतेन निचाय्यत्वात् दर्शनीयत्वादिति सिद्धान्तिसमाधानक्रमोऽपि ग्रहीतुं शक्यः । ‘व्योमवच्च’ इति सूत्रखण्डस्य संसारिजीवहृदयरूपात्यल्पात्यशुचिदभ्राकाशभूतौकसः परमव्योमभूतात्यायामवदानन्दाकाशत्रिपाद्विभूतिवत् आदरणीयत्वाच्चेति नामैकदेशे नामग्रहणमिति न्यायेन व्योमवच्चेति पदस्य परमव्योमपरत्वेन व्याख्यानमप्यभिप्रेयत इव । व्योमवच्च निचाय्यत्वात्हृदयरूपार्भकौकसः । ‘यो वेद निहितं गुहायां परमे व्योमन्’ इत्यानन्दवल्लीश्रुत्यनुग्रहः एतद्व्याख्यानस्य वक्तुं शक्यः । ‘औदन्वते महति सद्मनि भासमाने श्लाघ्ये च दिव्यसदने तमसः परस्मिन् । अन्तः कलेबरमिदं सुषिरं सुसूक्ष्मं जातं करीश कथमादरणास्पदं ते ॥’ इत्याक्षेपरीतिरपि एतत्सूत्रपूर्वपक्षहेतुनिदर्शकेन, ‘अर्भकौकस्त्वात्तद्व्यपदेशाच्च न्नेति चेत्’ इति सूत्रखण्डेन जिघृक्ष्येत । निरतिशयवात्सल्यप्रयुक्तोद्दिधीर्षया प्रजया सहैव वसति अस्मत्कर्मकृततत्कलेबरं ब्रह्मपुरमिति श्रुतिप्रसिद्धस्वपुरत्वेन मन्यते । अस्मत्हृदयं च पुण्डरीकत्वेन मत्वा स्ववेश्मेत्यभिमन्यते । ‘श्रुतिस्मृती ममैवाज्ञे’ इति प्रमाणानुसारेण च्छान्दोग्यदहरश्रुतौ तादृशवर्णनं भगवदभिप्रायरुच्याद्यनुसार्येव स्यात् ॥
‘नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी । यथा सर्वगतो विष्णुः तथैवेयं द्विजोत्तम ॥’ इति मैत्रेयं प्रति पराशरस्य निष्कर्षोक्तिः प्रथमांशाष्टमाध्याये दृश्यते । अनन्तराध्याये च सप्तदशश्लोकात्मकेन्द्रस्तुतौ, ‘त्वं माता सर्वलोकानां देवदेवो हरिः पिता । त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम् ॥’ इति पठितम् । उभयत्रापि सर्वजगन्मातृत्वं तस्याः, सर्वप्रजापरिष्वङ्गफलकं सर्वगतत्वम् उभयोरपि मातापित्रोश्चाविशेषेण निरुपाधिकत्वेनाभिधीयते । तत्रापि लक्ष्म्याः व्याप्तिरुपक्रमपठिता । इन्द्रस्तुतौ उभयोरपि चराचरकृत्स्नव्याप्तत्वस्पष्टकथनं, प्रथमोपात्तपराशरनिष्कर्षावेदकश्लोके ‘यथा सर्वगतो विष्णुः’ इति दृष्टान्तवाक्योपात्तसर्वगतत्वगुणस्य स्वाभाविकत्वं मातुरपि समानमिति स्वरसतः प्रापयतीव । श्रीमद्विष्णुचित्तचरणैः पुराणरत्नव्याख्याने ‘यथा सर्वगतो विष्णुः’ इति श्लोकस्य ‘यथेति सर्वगतो विष्णुर्यथा - यत्स्वभावः, इयमपि तथा तत्स्वभावा इति विष्णोः सर्वगतत्वसत्यज्ञानादिस्वरूपकल्याणगुणादीनामतिदेशः’ इति प्रथमं व्याख्यानं कृतम् । तेन च सर्वगतत्वरूपविष्णुगुणस्य तत्स्वाभाविकत्वस्य च मातर्यतिदेशः कृत इति पराशरतात्पर्यं विवृतमाचार्यैरिति गम्यते । तदनन्तरम् ‘अथवा भगवान् विभुत्वेन सर्वगतः, अस्यास्तच्छक्तिवशात् अणुत्वेऽपि तत्र तत्र संनिधानात् सर्वगतत्वमुक्तम्, इयं च सर्वगता’ इति योजनान्तरमभिहितं स्वभावतोऽणुत्वेऽपि विभुत्वशक्तेरपि श्रियस्सत्वात् तया स्वशक्त्या सर्वगतत्वमुपपद्यते इत्यभिप्राय इव । तच्छक्तिवशादित्यत्र तत्पदस्य विभुत्वपरामर्शकत्वं सुग्रहम् । तस्य विष्णुपरामर्शकत्वेऽपि सर्वगतत्वरूपफलस्य नित्यत्वादुभयोः पक्षयोरपि फले न विशेषः । तस्मादेतद्विषयेऽन्तःकलहस्य न किमपि प्रयोजनमावश्यकता वा ॥
पुरुषकारकरणानन्तरं प्रपदनसमये उभयोरप्युद्देश्यत्वं वा, भगवत एकस्यैवोद्दश्यत्वं वा, मोक्षणसङ्कल्पकर्तृत्वमुभयोर्वा एकस्यैव वेत्यत्र विप्रतिपत्तिर्दृश्यते । श्रीमन्नारायणेत्यत्र मतुबा स्पष्टमभिहितं श्रीवैशिष्ट्यं प्रायेण सर्वैरभ्युपगम्यते । श्रियः उपलक्षणत्वपक्षे न निर्बन्धः क्रियते । दम्पत्योर्मिथः शेषशेषिभावस्य सत्वादत्यन्तं समप्राधान्यमुभयोर्न स्वरसतो वक्तुं शक्यम् । ‘नित्यानुकूलं स्वतः’ इत्येतत्प्रबन्धद्वितीयश्लोके देवीमहिम्नो भगवताप्यपरिच्छेयत्वस्य निरवधिकत्वस्य च स्वतस्सत्वेऽपि तन्महिम्नस्तस्याश्च भगवतो नित्यमनुकूलत्वैकान्त्यस्याभिहितत्वात् भगवदिच्छायास्सर्वदा नियमेनानुवर्तिन्याः पत्न्याः प्रजारक्षणदीक्षणे भर्त्रा सह दीक्षितायाः प्रजामोक्षणसङ्कल्पकरणे सहत्वापेक्षया न निरपेक्षत्वभङ्गः शङ्कनीयः । चतुश्श्लोकीभाष्ये आचार्यैः भर्त्रा सह वैशिष्ट्येनोद्देश्यत्वं वा समुच्चित्य द्वन्द्वस्योद्देश्यत्वं वा भवत्विति द्वेधाप्यनुमतिः प्रदर्शिता । ‘मोक्षप्रदे भगवति मुमुक्षूणां घटकतयैषातिष्ठतीति च सर्वसंमतम् । परिपूर्णानुभवप्रदानसङ्कल्पस्तु भगवतस्स्वस्यैव वा, सपत्नीकस्य वेति यथाप्रमाणं भवतु । सर्वथा वैष्णवाध्वश्रेयःप्रदत्वमस्या इहोच्यमानं न विरुद्धमिति’ इति चतुःश्लोकीभाष्यश्रीसूक्तिरत्रावधेया, अनुभाव्या च । ‘पञ्चस्वेतेषु पक्षेषु कश्चिदेकः प्रमाणवान् ।’ इत्यप्यस्मिन्विषये कलहो मास्त्विति परमकल्याणबुद्ध्या अन्तःकलहाद्भिया चाचार्यसामरस्याभिप्रायप्रदर्शनं संभावनीयम् । पञ्चसु पक्षेषु व्यक्त्यैक्यपक्षोऽपि अभिहितः । लक्ष्मीतन्त्रग्रन्थादिषु देव्यपि भगवतोऽवतारभूतेति भूयः कथ्यते । तथा चेत् ‘एकमेवाद्वितीयम्’ इति श्रावितस्यात्यन्तमनुरोधो भवेत् । अद्वितीयश्रुतेः, ‘यथा चोलनृपः सम्राडद्वितीयोऽद्य भूतले । इति तत्तुल्यनृपतिनिवारणपरं वचः । न तु तद्भृत्यतत्पुत्रकलत्रादिनिषेधकम्’ इति अपृथक्सिद्धविशेषणवैशिष्ट्यस्यानिवारकत्वमिति एतच्छतुःश्लोकीकर्त्राऽनुगृहीतम् । एतद्विषये यथारुचि यः कश्चित्पक्षः परिगृह्यताम् । नात्र वयं कमपि निर्बन्धं कर्तुमिच्छामः प्रभवामश्च ॥
श्लोकपदार्थोऽवतरामः । ‘शान्तानन्तमहाविभूती’ति । अनन्तमहाविभूतीति लीलाविभूतिसहजनानाविधविक्रियाव्यापारसंसारदुःखप्रदत्वाद्यैश्वर्यकृत्यान्यत्यन्तं शान्तानि भगवतः स्वरूपे इत्युच्यते । तथा च, शान्ताः अनन्तमहाविभूतयः - नानाविधजगद्व्यापारादिरूपावस्थाविशेषा यस्मिन् तदिति विग्रहः । विभूतिरैश्वर्यं, विविधभवनं च । जगद्व्यापारनिर्वहणे अनन्तावस्थाभेदसंभवोऽस्ति भगवतोऽपि । लीलाविभूतिसंभावितप्राकृतानन्तक्रियारहितम् । ‘त्रिभुवनमिदं शान्तक्षोभं समाधिरनाकुलः प्रसृमरसुधाधाराकारा प्रसीदति शेमुषी’ (सङ्कल्प.सू. 10.11) इति भक्तियोगादिसाधने यतमानानां प्रीतिरूपापन्नज्ञानाधिगमारम्भे एव भाविमुक्त्यवस्थानुभाव्यात्यन्तशान्तिरसस्याङ्कुरितत्वं वर्ण्यते सङ्कल्पसूर्योदये । शान्तोदितमित्यागमादिप्रसिद्धस्य, ‘सञ्चिन्तयन्त्यखिलहेयविपक्षभूतं शान्तोदितं शमवता हृदयेन धन्याः । नित्यं परं वरद सर्वगतं सुसूक्ष्मं निष्पन्दनन्दथुमयं भवतः स्वरूपम् ॥’ इति वरदराजपञ्चाशद्वर्णितस्य निष्क्रियस्य शान्तिसमृद्धस्य निष्पन्दनन्दथुमयस्य भवतः स्वरूपस्य वा ग्रहणं, ‘शान्तानन्तमहाविभूती’ति । ‘शान्तेऽनन्तमहिम्नि निर्मलचिदानन्दे तरङ्गावलीनिर्मुक्तेऽमृतसागराम्भसि मनाङ्मग्नोऽपि नाचामति’ इति प्रबोधचन्द्रोदये शान्तब्रह्मस्वरूपस्य वर्णनमिह भाव्यम् । ब्रह्मस्वरूपभूतोर्मिरहितामृतसागराम्भसि मग्नोऽपि कदाचिदपि मनागपि तदम्भोरसं नाचामतीति कवेर्विस्मयस्तत्र । अम्भसि मग्नानामवशात् तदम्भःपानं सहजमनिवार्यं च ॥
‘परमम्’ परो मा अस्मादिति परमशब्दस्य व्युत्पत्तिः प्रदर्शिता आचार्यैरस्मद्ग्रन्थेषु, श्रीमन्मध्वमतग्रन्थेषु च । यद्यपि, ‘परमतस्सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः’ इत्यधिकरणे जन्मादि कर्तृब्रह्मस्वरूपस्यापि सर्वस्मात्परत्वं कथ्यत इव । नित्यविभूतावनुभूयमानब्रह्मस्वरूपस्य शान्त्येकरसस्यात्र परमत्वं वर्ण्यते ‘शान्तं परमं यद्ब्रह्मरूपम्’ इति । ‘हरेः’ इति जगद्व्यापारादीनामत्र शान्तविभूतौ शान्तस्वरूपे च संहृतत्वं द्योत्यत इव । उत्तरार्द्धे ‘यथासुखं विहरतः’ इत्यत्र वर्णितलीलाविभूतौ यथासुखं विहरतो ब्रह्मतः भोगविभूत्येकरसविशिष्टशान्तस्वरूपस्य भेदो व्यज्यतेऽनुपसृष्टकेवलहरिपदेन ॥
‘मूर्तं ब्रह्म ततोऽपि तत्प्रियतरं रूपं यदत्यद्भुतम्’ - शारीरकशास्त्रप्रथमाध्यायप्रथमपादे, आनन्दमयाधिकरणेन ब्रह्मस्वरूपस्य तदानन्दस्य च निरतिशयानुकूलत्वं प्रसाधितम् । तदनन्तरतच्छेषान्तरधिकरणे, ब्रह्मणो, दिव्यमङ्गलविग्रहस्य, भक्तमनोनयनहारिणः, भक्तेच्छानुविधायि स्वेच्छापरिगृहीतस्य, प्रकृतिसम्बन्धलेशरहितस्य, अदृश्यादतीन्द्रियात्, ‘अद्रेश्यमग्राह्यम्…अपाणिपादं’, ‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्’ इत्यादिश्रुतिभिर्वर्णितात् स्वरूपात् मोक्षसाधनध्यानालम्बनयोग्यतारूपशुभाश्रयत्वरूपगुणविशेषेण प्रजाभूतचेतनानामत्यन्तोपकारकत्वात् प्रियतमत्वमस्तीति तादृशविग्रहवैशिष्ट्यं तत्स्वरूपस्योपवर्णितम् । स्वस्वरूपतोऽपि स्वविग्रहस्य प्रियतरत्वेऽयमेको हेतुः । अस्ति चान्यो हेतुः, यः स्पष्टं प्रदर्शितः श्रीभागवततृतीयस्कन्धद्वितीयाध्यायारम्भे उद्धवमुखेन महाभागवताय विदुराय श्रोत्रे, ‘यन्मर्त्यलीलौपयिकं स्वयोगमायाबलं दर्शयता गृहीतम् । विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषणभूषणाङ्गम् ॥’ (3.2.12) इति, ‘तथैव चान्ये नरलोकवीराः य आहवे कृष्णमुखारविन्दम् । नेत्रैः पिबन्तो नयनाभिरामं पार्थास्त्रपूताः पदमापुरस्य ॥’ (3.2.20) इति च । ‘परं पदं भूषणभूषणाङ्गम्’ इति भगवतः कृष्णस्य दिव्यमङ्गलविग्रहो वर्णितः, यः तत्पूर्वं, ‘प्रदर्श्याऽतप्ततपसामवितृप्तदृशां नृणाम् । आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम् ॥’ (3.2.11) इत्युपक्षिप्तः । ‘आभरणस्या(प्या)भरणं, प्रसाधनविधेः प्रसाधनविशेषः । उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥’ (2.3) इति विक्रमोर्वशीये ऊर्वशीगात्रशोभावर्णनं, ‘भूषणभूषणाङ्गम्’ इत्यत्र गीतस्यानुसारि । ‘भूषायुधैरधिगतं निजकान्तिहेतोर्भुक्तं प्रियाभिरनिमेषविलोचनाभिः । प्रत्यङ्गपूर्णसुषमासुभगं वपुस्ते दृष्ट्वा दृशौ विबुधनाथ न तृप्यतो मे ॥’ इति देवनायकपञ्चाशति देवनायकविग्रहानुभवो भाव्यः । ‘परं पदं’ इति विग्रहवर्णनं, ‘तद्विष्णोः परमं पदम्’ इति स्वरूपविषयकश्रौतवर्णनस्मारकम् । ‘विस्मापनं स्वस्य च’ इति भगवतोऽपि विस्मयकरमत्यद्भुतमिति स्पष्टं शुकवर्णनम् अस्मिन् श्लोके ध्रुवं कविहृदयस्थम्, एतदर्थस्य स्पष्टार्षप्रमाणत्वात् वर्णनरीतिसौसादृश्याच्च । ‘सौभगर्द्धेः’ इति स्वविग्रहस्य निरतिशयसुभगत्वानुभवो भगवतानुभूत इति हेतुर्वर्णितः । तेन चात्यद्भुतमिति स्वविग्रहविषये स्वविस्मयः अत्यन्तमुचित एवेति तस्य न्याय्यत्वं दृढीक्रियते । ‘ऋद्धेः’ इत्यतिशयितत्वं वर्ण्यते । स्वरूपादपि विग्रहस्य सौभगमधिकमृद्धमिति ऋषेर्भावः ॥
इत्थममूर्तपरब्रह्मस्वरूपतोऽपि मूर्तदिव्यविग्रहस्य प्रियतमत्वमत्यद्भुतत्वं च सिद्ध्यतः । विग्रहे ब्रह्मशब्दप्रयोगः अतीवरस्यः । स्वरूपविग्रहयोस्सन्तोलने स्वरूपस्येव विग्रहस्यापि ब्रह्मसंज्ञा समानेति रसः प्रदर्श्यते । उभयोः ब्रह्मशब्दाभिधेयत्वे कथञ्चित्समाने विग्रहरूपब्रह्मणः मूर्तत्वरूपध्यानालंबनसुकरतास्तीति अमूर्तात् ब्रह्मस्वरूपादतिशयरूपव्यतिरेको व्यज्यते । अमूर्तस्वरूपस्य ध्यानदुर्घटता, मूर्तविग्रहस्य ध्यानालम्बनसुलभतेति विशेषः विग्रहस्य स्वरूपादतिशये पर्यवसितः । ‘बृहत्वात् बृंहणत्वाच्च तद्ब्रह्मेत्यभिधीयते’ इति ब्रह्मशब्दाभिधेयत्वे बृहत्वबृंहणत्वे प्रवृत्तिनिमित्तत्वेनाभिहिते । ‘बृह बृहि वृद्धौ’ इति धातुद्वयनिष्पन्नो ब्रह्मशब्दः । असङ्कोचन्यायेन बृहत्वस्यानवधिकातिशयत्वं वर्ण्यते परब्रह्मस्वरूपविषये । निरतिशयबृहत्वं नास्ति बृहतोऽपि सावयवस्य विग्रहस्य । बृहणत्वं नाम बद्धजीवानां कर्माविद्यासंकुचितस्य स्वाभाविकविभुत्ववतो धर्मभूतज्ञानस्य सङ्कोचककर्मा विद्यादिक्षपणेन स्वाभाविकनिरतिशयदशया विकासयितृत्वं, तेन च स्वभावभूतगुणाष्टकाविर्भावयितृत्वं, ज्ञानानन्दादिषु ब्रह्मतुल्यतया ब्रह्मीकरणं च । ईदृशबृंहणत्वं स्वरूपस्येव विग्रहस्याप्यस्ति । ‘आपीठान्मौलिपर्यन्तं पश्यतः पुरुषोत्तमं । पातकान्याशु नश्यन्ति किं पुनस्तूपपातकम् ॥’ इति पापक्षयकरत्वं चास्ति मूर्तब्रह्मणः । कुवासनाकुबुद्धिकुतर्कनिचयादि विलापयितृत्वमप्यस्ति । ‘क्षीयन्ते चास्य कर्माणि’ इति मोक्षापेक्षितकर्मक्षयकरत्वसामर्थ्यमस्ति । भगवत्प्रियतमभूतसंसारिमोक्षणव्यापारेऽत्यन्तं शुभाश्रयसंज्ञकस्य स्वविग्रहस्योपकारकत्वमस्तीति तस्मिन् स्वरूपादपि प्रीत्यतिशयो न्याय्य एव । अत्यद्भुतमित्यस्याः सामान्योक्तेः तदत्यद्भुतमस्मदत्यद्भुतमित्यर्थो विवक्षितः । अत एव सामान्येनोक्तम् । ‘सत्यं विधातुं निजभृत्यभाषितं व्याप्तिं च भूतेष्वखिलेषु चात्मनः । अदृश्यतात्यद्भुतरूपमुद्वहन् स्तम्भे सभायां न मृगं न मानुषम् ॥’ इति लक्ष्मीनृसिंहविग्रहस्य नारदमुखेन श्रीभागवतसप्तमस्कन्धाष्टमाध्यायवर्णनमत्र स्मार्यते आचार्यैः, ‘रूपं यदत्यद्भुतम्’ इति विग्रहवर्णनेन । ‘नारसिंहवपुः श्रीमान्’ इति सहस्रनामस्त्रोत्रे नामद्वयसमभिव्याहारेण नारसिंहवपुषः अत्यतिशयितलावण्यवत्वं द्योतितमिति श्रीभट्टार्यैरुक्तम् । ‘तमद्भुतं बालकमम्बुजेक्षणम्’ इति कृष्णावतारवर्णकश्लोकेऽपि ‘तमद्भुतम्’ इति वर्णने तच्छब्देन वाचामगोचरत्वोक्त्या वाङ्मनसागोचरनिरतिशयाद्भुतमिति लभ्यते । श्रीरामावतारवर्णने ‘पुत्रेणामिततेजसा’ इति वर्णनेनात्यद्भुतलावण्यमपि लभ्येत । ‘राम इत्यभिरामेण वपुषा तस्य चोदितः । नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम् ॥’ इति अभितो रमयितृत्वबोधकाभिरामविशेषणेन वपुषोऽत्यद्भुतं वसिष्ठमनोहार्यभवदिति महाकविना ‘अमिततेजसा’ इति ऋषिवर्णनस्य भावो विवृत इव । ‘रूपं यदत्यद्भुतम्’ इत्यनेन आद्या परमपदनिलया मूर्तिरभिप्रेता । नृसिंहाद्यवतारविग्रहाणामत्यद्भुतलावण्यवत्वेन महर्षीणां वर्णनेन कैमुत्येनाऽऽधविग्रहस्यात्यद्भुतत्वं व्यज्यते ॥
‘यान्यन्यानि यथासुखं विहरतो (हरेः) रूपाणि’ - ‘स्वेच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितोऽसौ’, ‘यद्यद्धिया उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे सदनुग्रहाय’, ‘अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥’, ‘परित्राणाय साधूनाम्’ इत्यादीनि वचनानीह भाव्यानि । विभवावतारा अनन्ताः । ‘को वा कथं वा कति वा कदा वा विस्तारयन् क्रीडसि योगमायाम्’ इति परिगणयितुमशक्या इति शुकेन गीतम् । ‘परित्राणाय साधूनाम्’ इत्यत्रावतारप्रयोजनकथनावसरे, ‘साधवः - उक्तलक्षणधर्मशीलाः वैष्णवाग्रेसराः मत्समाश्रयणे प्रवृत्ताः मन्नामकर्मस्वरूपाणां वाङ्मनसागोचरतया मद्दर्शनाद्विना स्वात्मधारणपोषणादिकमलभमानाः क्षणमात्रकालं कल्पसहस्रं मन्वानाः प्रशिथिलसर्वगात्रा भवेयुरिति मत्स्वरूपचेष्टितावलोकनालापादिदानेन तेषां परित्राणाय’ इति भाषितम् । चन्द्रिकायां च, ‘न ह्यमीषामन्नपानताम्बूलादि धारणपोषणादिकं, किन्त्वहं कृष्ण एव सर्वं (पराङ्कुशमुनीनामेतदनुभवगाथाऽत्राऽऽचार्यैः प्रत्यभिज्ञाप्यते) इत्यभिप्रायेणोच्यते - मद्दर्शनाद्विना स्वात्मधारणपोषणादिकमलभमाना इति’, ‘स्वविश्लेषपरिक्लिष्टानामुज्जीवनाय प्रवृत्तस्य क्रमाद्भक्तानुभाव्याकारा उच्यन्ते - मत्स्वरूपचेष्टितावलोकनालापादि दानेनेति । न ह्यपवर्गसुखादिवदवतारमन्तरेण स्वसङ्कल्पमात्रेणैव तद्दातुं शक्यमिति भावः’, ‘एवं साधूनामान्तरभयात्परित्राणमुक्तम्’ इत्यादिभिस्तद्विवृतम् । ‘उदरमन्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदुषोऽमन्वानस्य’ इति श्रुतिरिह भयविवरणे आचार्यहृद्गता । ‘विनाशाय च दुष्कृताम्’ इति बाह्यासुरेभ्यो भयात्परित्राणमुक्तम् । सर्वेष्ववताररूपभवनेषु ‘यद्भावेषु पृथग्विधेष्वनुगुणान् भावान्स्वयं बिभ्रती यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका’ इत्याचार्यश्लोकः, तन्मूलभूतपूर्वोदाहृताः, ‘राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि । सर्वेषु चावतारेषु विष्णोः श्रीरनपायिनी ॥’ इत्यादि पराशरश्लोकाश्चात्र भाव्याः । एतत्स्तुतावाचार्यकवेः स्वश्लाघितपुराणरत्नश्लोकाः प्राचुर्येण हृत्स्था इति पूर्वमेवोक्तम् । ‘स्वाभिमतानुरूपनित्यनिरवद्यस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकातिशयासंख्येयकल्याणगुणगणश्रीवल्लभ’ इति पृथुगद्यसूक्तिरपीह भाव्या । ‘विहरतो रूपाणी’त्यनेनावताररूपपरिग्रहप्रयोजनं भक्तेभ्योऽत्यर्थसन्तोषप्रदानेन स्वयमप्यत्यर्थसन्तोषभागिति व्यज्यते । ‘यथासुखम्’ इत्यत्र दम्पत्योः सुखवत् भक्तानां यथा सुखं भवेत् तथेति चार्थग्रहणं स्वरसम् । सुखमनतिक्रम्य - यथासुखम् । एतेनावतारेषु दुःखित्वप्रदर्शनं विडम्बनमात्रमिति व्यज्यते । ‘रक्षोऽधमेन वृकवत् विपिनेऽसमक्षं वैदेहराजदुहितर्यपयापितायाम् । भ्रात्रा वने कृपणवत् प्रियया वियुक्तः स्त्रीसङ्गिनां गतिमिति प्रथयंश्चचार ॥’ इति नवमस्कन्धनवमाध्याये शुकगीतमिह भाव्यम् । ‘स्फारास्तीर्णभुजङ्गपुङ्गववपुः पर्यङ्कवर्यं गतौ सर्गस्थित्यवसानकेलिरसिकौ तौ दम्पती नः पती । नाभीपङ्कजशायिनः श्रुतिसुखैरन्योन्यबद्धस्मितौ डिम्भस्याम्बुजसम्भवस्य वचनैरोंतत्सदित्यादिभिः ॥’ इति श्लोके शीराब्धिशायिविभवे सुतवचनश्रवणस्य श्रुतिसुखत्वानुभवो वर्णितः । ‘किं मृष्टं सुतवचनं पुनरपि मृष्टं तदेव सुतवचनम्’ इत्याभाणकेन सुतवचनस्य सर्वस्मादपि मृष्टतरत्वमवधारितम् ॥
‘सर्वाणि तान्याहुः स्वैरनुरूपरूपविभवैः गाढोपगूढानि ते ।’ - सर्वाणि तानीत्यत्र सर्वशब्देन प्रथमपादोक्त’रूप’शब्दाभिप्रेतं स्वरूपं, द्वितीयपादोक्ता आद्या परमपदस्थदिव्यमूर्तिः, यान्यन्यानीति तृतीयपादोक्ताः अवतारविग्रहाश्च जिघृक्षितानि । सर्वाणि तानीत्यत्र सर्वशब्देन ‘सर्वेषु चावतारेषु विष्णोः श्रीरनपायिनी’ इति पराशरश्लोकः प्रत्यभिज्ञापितः । ‘वागर्थाविव संपृक्तौ’ इति रघुवंशारम्भे पार्वतीपरमेश्वरयोर्नित्यसंश्लिष्टत्वेन वर्णनं विष्णुतत्पत्न्योरपि तुल्यम् । ‘अशिथिलपरिरंभैराहितामिन्दिरायाः कनकवलयमुद्रां कण्ठदेशे(भोगे) दधानः । फणिपतिशयनीयादुत्थितस्त्वं प्रभाते वरद सततमन्तर्मानसं सन्निधेयाः ॥’ इति वरदराजपञ्चाशदन्ते गीतसुप्रभातपठनश्लोके स्वप्रियतमार्चावतारमूर्तिविषये शेषपर्यङ्के विग्रहयोर्गाढोपगूढत्ववर्णनं, ‘किमपि किमपि मन्दं मन्दमासक्तियोगादविरलितकपोलं जल्पतोरक्रमेण । अशिथिलपरिरंभैर्व्यापृतैकैकदोष्णोरविदितगतयामा रात्रिरेव व्यरंसीत् ॥’ (1.27) इत्युत्तररामचरिते सीतां प्रति रामस्य कथनं चात्र भाव्ये वरदमहादेवीविषयकाचार्यश्लोकः भवभूतिश्लोकवर्णनस्मारकः, कुमारसंभवे, ‘रतिवलयसनाथे(पदाङ्के) चापमासज्य कण्ठे’ (2.64) इति द्वितीयसर्गान्तश्लोके मन्मथकण्ठस्य रतिवलयमुद्रासनाथवर्णनस्य च स्मारकः । आर्द्रया तन्मुद्रया कण्ठे सुदृश्यया मन्मथो रत्या सह शतमखसन्निधानं निर्लज्जो ययाविति कवेर्भावो ज्ञाप्यते आचार्यैः । न साक्षात् रतिवलयसनाथस्तत्कण्ठः, किन्तु कतिपयक्षणपूर्वभूतकान्तागाढपरिरंभाहितार्द्रतत्करकमलवलयमुद्रासनाथ एव सः इति कविसार्वभौमहृदयं प्रकाश्यते कविसिह्मेनाचार्येण । ‘विष्णोर्देहानुरूपां वै करोत्येषाऽऽत्मनस्तनुम्’ इति पराशरश्लोकोऽनुस्रियतेऽस्मिन् श्लोके, ‘ते अनुरूपरूपविभवैः’ इति । ‘स्वेच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितोऽसौ’ इति वचनरीत्या यदा यदा भगवान् जगद्धिताय स्वात्मभूतभक्तेच्छानुरोधेन वा स्वेच्छया वा कञ्चिद्दिव्यदेहं परिगृह्णाति तत्क्षण एव कान्ततद्देहगाढोपगूढत्वविरहरूपापायं क्षणमात्रमप्यसहमाना तदनुरूपामात्मनस्तनुं परिगृह्य, तत्कालपरिगृहीतकान्तदिव्यदेहेन परिरभ्य गाढोपगूढा भवतीति भावोऽत्र व्यज्यते । यान्यन्यानि भर्तृपरिगृहीतानि विभवरूपाणि तानि सर्वाणि सद्यस्तत्परिगृहीततुल्यरूपैर्गाढपरिरब्धानि भवन्तीति विष्णोस्सर्वविभवविग्रहेभ्यः देवीपरिगृहीततत्तदनुरूपविग्रहाणामविश्लेषरूपानपायित्वम् । ‘यद्भावेषु पृथग्विधेष्वनुगुणान् भावान् स्वयं बिभ्रती यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका’ इति नानावतारवर्णनस्तोत्रभूमिकाश्लोके, ‘तदनुगुणान् भावान् स्वयं बिभ्रती’ इत्यत्र स्वयं पदेन भर्तृप्रेरणां विनापि भर्तृसर्वविग्रहनित्यगाढाश्लिष्टत्वनैयत्यस्य क्षणमात्रापायप्रसङ्गमप्यसहमाना स्वयमेव सद्यः क्षणमात्रविलम्बं विना भर्तृनूतनपरिगृहीतविग्रहच्छाया यथा तत्क्षणमेव स्वयं तद्विग्रहं नित्यानपायित्वेनानुगच्छेत् तथेयमपि अनुगुणभावं परिगृह्य भर्तृनूतनविग्रहगाढाश्लिष्टैव भवतीत्याचार्यैर्व्यञ्जितम् । तथैवास्मिन् श्लोके यामुनाचार्याणां भावस्सुगमः । यथासुखं नवनवविग्रहपरिग्रहेण विहरतो हरेः विहरणप्रारंभे विहरणसाधनत्वेन यानि यानि रूपाणि परिगृह्यन्ते तेषां तेषां रूपाणां तत्क्षण एव अनुरूपरूपविभवान् त्वं परिगृह्य तैर्विभवविग्रहैर्भर्तुस्तानि तानि नवनव रूपाणि त्वन्नव नव विग्रहगाढाश्लिष्टानि भवन्तीति भावः । ‘सर्वेषु चावतारेषु विष्णोः श्रीरनपायिनी’ इति सूत्रभूतस्य महर्षिप्रतिज्ञावचनस्य, न केवलमीश्वरदम्पत्योस्स्वरूपयोः नित्यं गाढोपगूढत्वं, नापि केवलं तयोर्नित्यसिद्धाऽऽद्य शुभमूर्त्योश्च नित्यगाढोपगूढत्वं, किन्तु यानि यावन्ति रूपाणि अवतारेषु परिगृह्यन्ते दम्पतिभ्यां तानि सहैव परिगृह्यन्ते स्वेच्छामात्रेण गाढोपगूढतयैव ताभ्याम् । विष्णुपुराणे प्रथमांशाष्टमाध्याये, ‘नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी । यथा सर्वगतो विष्णुः तथैवेयं द्विजोत्तम ॥’ इति प्रतिज्ञाय पतित्न्योर्नित्यं स्वरूपतो विग्रहतो विभूतितश्चाविनाभूतत्वसर्वगतत्वादिकं विस्तरेणोपपादितमुभयोरप्याचार्ययोर्मूलप्रमाणत्वेन हृद्गतमिति स्पष्टमेव । ‘नित्यं तद्धर्मधर्मिणी’ इति पराशरोक्तमेवानुसृतं, ‘यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका’ इति दशावतारभूमिकाश्लोके । अत्र नानाकृतिरिति पदस्य न आकृतिनानात्वमर्थः, किन्तु नायकादपि अधिकनानादयाव्यापाररूपकृतिमत्वमर्थ इत्यस्मद्दशावतारस्तोत्रव्याख्यायां ‘मातर्मैथिलि’ इति श्रीगुणरत्नकोशश्लोकोदाहरणपूर्वकमुपपादितमिह भाव्यम् । धर्मैस्सधर्मत्वेऽपि कृतिभिरधिकत्वमस्या इति व्यतिरेको व्यञ्जितः । ‘फणिपतिः शय्या’ इत्युपक्रम्यात्रोपसंहारे गाढोपगूढत्ववर्णनेन शय्याक्षेपेणोपसंह्रियते । ‘शेषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां सम्पद्यन्ते विहरणविधौ यस्य शय्याविशेषाः’ इति श्रीस्तुतिगीतमिह भाव्यम् ॥ ४ ॥
लब्धं ज्ञानं मयाऽध्यात्मं
यन्मुखाद् अ-मृत-स्रुतः ।
तत्प्रसादैक-मूलेयं
व्याख्या मन्मुखनिस्सृता ॥
॥ समाप्तः ॥