वेङ्कटनाथः
1.3 एवं स्तुत्याक्षेपसमाधानव्याजेन स्वामित्वसौलभ्यादिकं प्रतिपाद्य स्तोतुमुपक्रान्तः सर्वाश्रयणीयत्वाय सकलपुरुषार्थहेतुत्वमुदाहरणविशेषार्थान्तरन्यासाभ्यामुपपादयति -
विश्वास-प्रस्तुतिः
ईषत्-त्वत्-करुणा-निरीक्षण-सुधा-सन्धुक्षणाद् रक्ष्यते
नष्टं प्राक् तद्-अ-लाभतस् त्रिभुवनं, संप्रत्य् अनन्तोदयम् ।
श्रेयो न ह्य् अरविन्द-लोचन–मनः–कान्ता-प्रसादाद् ऋते
संसृत्य्+++(=धर्मार्थकाम)+++–अक्षर+++(=प्रत्यग्-आत्मानुभव)+++–वैष्णव+++(=भगवत्प्राप्त्य्)++++अध्वसु नृणां संभाव्यते कर्हिचित् ॥ ३ ॥
मूलम्
ईषत्त्वत्करुणानिरीक्षणसुधासन्धुक्षणाद्रक्ष्यते नष्टं प्राक्तदलाभतस्त्रिभुवनं संप्रत्यनन्तोदयम् । श्रेयो न ह्यरविन्दलोचनमनःकान्ताप्रसादादृते संसृत्यक्षरवैष्णवाध्वसु नृणां संभाव्यते कर्हिचित् ॥ ३ ॥
वेङ्कटनाथः
ईषदिति ॥ एतदनुग्रहैकदेशोऽपि अनन्तानिष्टनिवृत्तेरनन्ताभ्युदयसिद्धेश्च निदानमिति व्यञ्जयितुमीषच्छब्दः । त्वच्छब्देन “प्रणिपातप्रसन्ना हि (राम. सु. २७.४५)”, “क्षिप्रप्रसादिनीं देवीम् (धनदीये)” इत्यादिषूक्तः स्वभावस्सूच्यते । सामान्यतश्च तदनुग्रहस्य सदातनत्वमुक्तं मङ्कणसंहितायाम् “पद्मे स्थिता पद्मवर्णा पद्मनाभप्रिया शुभा । सदाऽनुग्रहसंपन्ना सा मे देवी प्रसीदतु ॥” इति । अष्टोत्तरशतनामस्तात्रे (३ श्लो.) च “नमामि कमलां का(क्षा)न्तिं क्षमां क्षोरोदसंभवाम् । अनुग्रहापरामृद्धिमनघां हरिवल्लभाम् ॥” इति । अनिष्टनिवर्तनेष्टप्रापणानुगुणकरुणाहेतुकं निरीक्षणं करुणानिरीक्षणम् । करुणया विषयीकरणं वा निरीक्षणशब्देनोपचर्यते । तदिदमुक्तं तत्संहितायाम् “सामर्ग्यजुर्मयीं देवीं वेदगर्भां मनस्विनीम् । लोकैकेशविभूतीनां कारणं यन्निरीक्षणम् ॥ (महालक्ष्मीसं.)” इति । तस्य विश्वसञ्जीवनतया सुधात्वरूपणम् । तया सन्धुक्षणं - सम्यगुल्लासनम् । अत्र पञ्चम्युक्तं हेतुत्वं तु उदयापेक्षया रक्षणापेक्षया च योज्यम् । रक्ष्यते – निरुपद्रवमवस्थाप्यते । प्राक् - त्वदुपेक्षाकाले, तदलाभतः - त्वन्निरीक्षणालाभतः, न तु त्वत्कोपतः, “कः कुप्येद्वानरोत्तम (राम. यु. ११६.३८) इत्यादि वदन्त्यास्तव कोपासंभवात् । त्रिभुवनशब्देन त्रैलोक्यान्तर्वर्तिनः क्षेत्रज्ञा लक्ष्यन्ते । संप्रति “ततोऽवलोकिता देवाः (वि. पु. १.९.१०६)” इत्याद्युक्तायां त्वन्निरीक्षणदशायाम् । अनन्तोदयं पूर्वकालादप्यतिशयिताभ्युदयमित्यर्थः । उक्तं ह्येतत्सर्वमिन्द्रेण “त्वया देवि परित्यक्तं सकलं भुवनत्रयम् । विनष्टप्रायमभवत् त्वयेदानीं समेधितम् ॥ (वि. पु. १.९.१२३)” इति । अत्र प्रलयादिकं विवक्षितमिति केचित् । एवमन्वयव्यतिरेकाभ्यामेतत्कटाक्षाधीनं देवादीनामैश्वर्यमिति दर्शितम् । यथाऽऽह काश्यपः (काश्यपीये) “ब्रह्माद्याश्च सुरास्सर्वे मुनयश्च तपोधनाः । एधन्ते त्वत्पदच्छायामाश्रित्य कमलेश्वरि ॥” इति । मङ्कणसंहितायाञ्चाष्टानामपि लोकपालानां तत्पूजानिरतत्वं च प्रपञ्चितं द्रष्टव्यम् । उक्तसमर्थनव्याजेन सर्वपुरुषार्थानां तत्प्रसादाधीनत्वमाह - श्रेय इति । अत्र त्वत्प्रसादादिति वक्तव्ये अरविन्दलोचनमनःकान्ताप्रसादादिति कथनं तथाविधप्रसिद्धिप्रकर्षद्योतनार्थम् । अरविन्दलोचनशब्देन “यं पश्येन्मधुसूदनः (भार. शान्ति. ३५८.७३)” इत्याद्यभिप्रेतं श्रीपतेरप्यनुग्रहशीलत्वं सूच्यते । तन्मनःकान्तात्वोक्तिः सर्वापेक्षितदाने तयोस्समानाभिप्रायत्वं व्यनक्ति । अत्र मनश्शब्दो बुद्धावुपचरितः, भगवतः करणायत्तज्ञानत्वाभावात् । मनःकान्ता - अभिमतेत्यर्थः । पूर्वं कान्तस्ते इत्युक्तम्, अत्र तु इयं भगवतः कान्तेति । एतेन परस्परानुकूलतया सर्वत्र व्यापारे सामरस्यं व्यज्यते । प्रसादात् - कृपाविशेषादिति यावत्, अस्याः क्वचिदपि निग्रहासंभवेन तन्निवृत्तिरूपप्रसादायोगात् ।
संसृति-शब्द इह पुरुषार्थसमभिव्याहारात् पारिशेष्याच् चैश्वर्यपरः ।
तेन त्रिवर्गान्तर्-भूतं सर्वम् अभिमतम् अपि विवक्षितम् ।
अक्षर-शब्दस्तु प्रत्यग्-आत्मानुभव-परः ।
वैष्णवाध्व-शब्देन गति-विशेष-द्वारा भगवत्-प्राप्तिर् लक्ष्यते ।
एतेषु श्रेयः - श्रेष्ठं सुखं तत्साधनं वा ।
“पुण्यश्रेयसी सुकृतं वृषः (वैजयन्ती)” इति हि पठन्ति ।
नृणाम् इति सर्वक्षेत्र–ज्ञोपलक्षणम् ।
हिरण्यगर्भस्यापि ब्राह्मे पुराणे तद्-अधीनैश्वर्यत्वम् उक्तम्
“पद्म-योनिर् इदं प्राप्य
पठन् स्तोत्रं (सूक्तं) ततः क्रमात् ।
दिव्यं चाष्टगुणैश्वर्यं
तत्प्रसादाच्च लब्धवान् ॥”
इति ॥
ब्रह्मादीनां +++(लक्ष्मीः→)+++यद्-आयत्तं
वैभवं, यस्य सा स्वयम् ।
तस्य कैमुत्य-निर्धार्यम्
ईश्वरत्वं श्रियःश्रियः (पतेः) ॥ १४ ॥
एतत्प्रसादादृते नृणां श्रेयो हि न संभाव्यत इति व्यतिरेकोक्त्याऽग्नीन्द्रादिप्रयुक्तमपि नृणां श्रेयः एतदधीनमिति व्यज्यते । हिशब्देन श्रीसूक्तश्रीस्तुत्यादिषु सर्वशास्त्रेषु च प्रसिद्धिर्द्योत्यते । न संभाव्यते - न सिध्यतीत्यर्थः । ईदृशस्यास्याः प्र(भा)सादस्येन्द्रादीनामिव कालभेदभेद्यत्वं च नास्तीति व्यञ्जनाय कर्हिचिदित्युक्तम् ।
ननु मोक्षप्रदत्वं भगवत एवेति सर्वत्र स्थापितम् ।
श्री-सात्त्वते च
स्वस्य मोक्षप्रदत्वं देवीनाम् ऐश्वर्य-प्रदत्वं च विभज्योक्तम्;
तद् अत्र संसृत्य्-अक्षर-वैष्णवाध्वस्व् इति अविशेष-वचनं
प्रशंसामात्रपरं स्यात् ।
मैवम् । श्री-सात्त्वत एव
“यामालम्ब्य सुखेनेमं
दुस्तरं हि गुणोदधिम् ।
निस्तरन्त्य् अचिरेणैव
व्यक्त-ध्यान-परायणाः ॥”
इति बन्धहेतुभूतगुणोदधिनिस्तरणकारणत्वेन लक्ष्मीसमाश्रयणस्य प्रतिपादनात् ।
उक्तं च स्वयंभुवा
“सर्व-काम-प्रदां रम्यां
संसारार्णव-तारिणीम् ।
क्षिप्र-प्रसादिनीं लक्ष्मीं
शरण्याम् अनुचिन्तयेत् ॥
(ब्राह्मपुराणे)”
इति । ब्राह्मे च पुराणे तन्नामान्येवं पठ्यन्ते “सकृद्विभाता सर्वार्तिसमुद्रपरिशोषिणी (लक्ष्मीसहस्रनामस्तोत्रे ८७ श्लो.)”, “भवभङ्गापहारिणी (लक्ष्मीसहस्रनामस्तोत्रे १२२ श्लो.)”, “परनिर्वाणदायिनी (लक्ष्मीसहस्रनामस्तोत्रे २३ श्लो.)”, “ज्योतिष्मत्यमृतावहा (लक्ष्मीसहस्रनामस्तोत्रे १२२ श्लो.)” इत्यादीनि ।
वैष्णवे च “आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी” इति ।
अत्र विमुक्तिफलदायित्वस्यात्मविद्याविशेषणत्वेऽपि तादृशविद्यायास्तदधीनत्वोक्त्या प्रकृतसिद्धिः । मोक्षहेतुभूतात्मगुणसिद्धिश्च तदधीनेति तत्रतत्रोक्तम् । एवं स्थिते गद्यारम्भोक्तन्यायेन मोक्षोपायतदधिकारयोस्तावदेतन्मूलत्वं दुरपह्नवम् । मोक्षप्रदे भगवति मुमुक्षूणां घटकतयैषा तिष्ठतीति च सर्वसम्मतम् । परिपूर्णानुभवप्रदानसङ्कल्पस्तु भगवतः स्वस्यैव वा, सपत्नीकस्य वेति यथाप्रमाणं भवतु । सर्वथा वैष्णवाध्वश्रेयःप्रदत्वमस्या इहोच्यमानं न विरुद्धमिति ॥ ३ ॥
गोपालः
‘तत्त्वेन यश्चिदचिदीश्वरतत्स्वभावभोगापवर्गतदुपायगतीरुदारः । सन्दर्शयन्निरमिमीत पुराणरत्नं तस्मै नमो मुनिवराय पराशराय ॥’ इति स्तोत्ररत्ने पुराणरत्नस्य पराशरप्रणीतस्य चिदचिदीश्वरतत्त्वविषये तत्तत्स्वभावविषये पुरुषैरर्थ्यमानभोगापवर्गतदुपायगतिविषये च तत्त्वैकान्ततः स्पष्टस्पष्टतया सन्दर्शकत्वं दृढमवधारितम् । श्रीतत्त्वरूपेश्वरतत्त्वविषयेऽपि तदेव निःसंशयं निष्कृष्टं प्रमाणमादृत्य साक्षात्स्तुतिभूतैतच्छतुश्श्लोक्युत्तरार्द्धरूपश्लोकद्वये ईश्वरमिथुनस्य साहित्येन ईश्वरतत्त्वघटकत्वं, पुंद्वन्द्वभूताग्नावैष्णवाग्नीषोमीयादिदेवताद्वन्द्वेषु च यजमानप्रदीयमानहविरुद्देश्यत्वस्य व्यासज्यवृत्त्या द्वन्द्वनिष्ठत्वमिति वैदिकन्यायानुसारेणात्महविस्समर्पणरूपात्मयागेप्यात्महविस्समर्पणोद्देश्यत्वम् ईश्वरदम्पत्योरविभक्तमेकमिति देवतापारमार्थ्यवित्पराशरहृदयं प्रकाशयति । एतच्छ्लोकपूर्वार्द्धे श्रीविष्णुपुराणवर्णितामृतमथनवृत्तान्तप्रकरणमतिसंक्षेपेण संगृह्यते श्रेयःसामान्यप्राप्तिविषये अन्वयव्यतिरेकाभ्यां लक्ष्म्याः प्रसादस्य कारणत्वनैयत्यं सिद्ध्यतीति पराशरनिष्कर्षसन्दर्शनप्रदर्शनाय ॥
‘फलमत उपपत्तेः’ इति साधनाध्यायद्वितीयपादोपसंहारे मोक्षान्तसर्वफलहेतुभूतेश्वरतत्त्वस्य पूर्वपराधिकरणनिष्कृष्टोपनिषत्प्रसिद्धशारीरकशास्त्रप्रतिपाद्यपरब्रह्मत्वमभिप्रेत्य अतश्शब्देन तदेव परामृष्टम्; तच्च परब्रह्मजिज्ञासासूत्रोद्दिष्टं जन्मादिसूत्रलक्षितं श्रियः पतिरूपपुरुषोत्तमाभिधानमिति भाषितं जिज्ञासासूत्रे । जन्माद्यधिकरणसारावल्यां च, ‘श्रीमति ब्रह्मतोक्तेः’ इति, ‘पुंसूक्तादिप्रसिद्धो गुणनिधिरघजिद्ब्रह्मशब्दार्थ उक्तः’ इति च तत्प्रसाधितम् । भगवता पराशरेण श्रियः पतेरेव ब्रह्मणः सर्वफलहेतुत्वं प्रतिज्ञातमुपपादितं चामृतमथनप्रकरणे । ‘त्वया देवि परित्यक्तं सकलं भुवनत्रयम् । विनष्टप्रायमभवत् त्वयेदानीं समेधितम् ॥’ इति इन्द्रस्तोत्रश्लोकपठितशब्दसौसादृश्यमस्य श्लोकस्य रस्यम् । तत्र यथा दृढावन्वयव्यतिरेकौ, तथैवेहापि पूर्वोत्तरार्द्धयोः । तत्र दुर्वासश्शपनप्रकरणे, अक्षान्तिसारसर्वस्य प्रकृतिकोपनस्य दुर्वाससः कोपजनिः, तत्प्रयुक्तत्रैलोक्यनिःश्रीकभवनरूपशापवाग्विसर्गश्च वर्णितौ । शापनिमित्तं च, ‘श्रियो धामस्रजं यस्त्वं मद्दत्तां नाभिनन्दसि’, ‘मया दत्तामिमां मालां यस्मान्न बहुमन्यसे । त्रैलोक्यश्रीरतो मृढ विनाशमुपयास्यति ।’ इति दुर्वाससा स्वदत्तस्य इन्द्रशिरोधार्यदेवीपुष्पमालोपहारस्यावमाननेति द्विरभ्यस्तम् । देव्यास्तद्विषये क्रोधः कुत्रापि न वर्णितः केनापि । अत एव ‘तदलाभतः प्राक्नष्टम्’ इति कटाक्षलेशस्यापि पूर्ववृत्तस्याननुवृत्तिरूपालाभ एव पूर्ववृत्तसलक्ष्मीकत्वस्यादर्शनमात्रं दुर्वासश्शापवशादापतितमिति व्यज्यते । ईषत्त्वत्करुणानिरीक्षणसुधासन्धुक्षणात् सम्प्रत्यनन्तोदयं त्रिभुवनं दृश्यते । इदं च करुणानिरीक्षणं, तेन संधुक्षणं चापराधकृद्गजेन्द्रेन्द्रादिनिर्वर्तिताभिषेकाद्यव्यवहितानन्तरवृत्तमिति सम्प्रतीत्यनेन बोध्यते । अत्र हेतुश्च नापाङ्गानां भूयस्त्वं, किन्तु देव्याः ईषत्कटाक्षलव एव । ‘अमी यत्र द्वित्राः स च शतमखादिस्तदधरात्’ इति श्रीगुणरत्नकोशोक्तप्रकारेण सम्पूर्णैकद्वित्रादिकटाक्षपतनानाम् इदम्प्रथमतया इन्द्राय इन्द्रपदवीदानफलकमेव भवेत् । ईषदिति सम्पत्पुनरुदयकारणे कटाक्षे विशेषणदानं, तत्कार्यभूतस्य भुवनत्रयानन्तश्र्यभ्युदयलाभस्य वर्णने अनन्तपदविशेषणदानं च विवक्षितं कैमुत्यं पुष्कलीकुरुतः देवीकटाक्षनिरीक्षणस्यास्मिन् सुधानिमित्तं महत्संरंभघटितामृतमथनतदुत्पत्तिप्रकरणे सुधात्वेन रूपणमतीव रस्यम् । सर्वसुरासुरसमुदायैरतिक्लेशेन भगवन्निर्वर्तितबहुविधोपकारसाचिव्येन सम्पादितां प्राकृतां, मोक्षामृतस्य कदाप्यलम्भिकाम्, अमुख्यतयैवामृतनाम भजमानां सुधां सुबहुमेनिरे इन्द्रादयः । अमृतस्वरूपं भगवन्तं पश्यन्त एव न तममृतत्वेन भावयामासुः । स्वेभ्यः प्राकृतसुधालम्भनार्थातिक्लेशव्यापारेष्वेव तत्सहकारं विनियोजयामासुः । सुधया सह देवी च समुत्तस्थौ । तस्याः अभिषेकानन्तरं संसृत्यध्वानतीतामृतत्वरूपमोक्षादत्यन्तावरफलोद्देश्यकं, ‘आर्तो….अर्थार्थी’ इति गीताश्लोकनिर्दिष्टाधिकारद्वयमात्रं देवीभजने एषां सुरसुरेन्द्राणां निमित्तमभूत् । नैते मुमुक्षवः, बुभुक्षव एवैते । बुभुक्षुषु चातिबुभुक्षवः । इदं व्यज्यते एषाम् अध्वनः संसृत्यध्वत्वेनोत्तरार्द्धे वर्णनेन । ‘सम्प्रति दृश्यते नष्टं प्राक्’ इत्युक्त्या प्राक्नष्टमित्यस्य प्राक् अदर्शनं गतं, नात्यन्ताभावं गतमित्यर्थो धात्वर्थानुसारेण जिघृक्षितः । तच्च ‘सम्प्रति दृश्यते’ इत्यनेन स्पष्टीक्रियते । अनुपदमेव ‘अनन्तोदयम्’ इत्यत्रोदयशब्देन पूर्वमस्तमितत्वमात्रमेव, तच्च पुनरुदयावधिकमिति द्योत्यते । उत्तरार्द्धे व्यतिरेकः दृढं प्रतिज्ञायते । श्रीसकाशाद्विना कथं यस्य कस्यापि श्रेयो लाभस्संभाव्येतेति द्योत्यते श्रेयो न हीति प्रथमपठनेन ‘संभाव्यते न कर्हिचित्’ इति श्लोकोपसंहारे दृढनिषेधवाक्यशेषस्य निवेशनेन च । हिः हेतौ प्रसिद्धौ च । ‘अरविन्दलोचनमनःकान्ताप्रसादात्’ इत्यत्र द्वन्द्वसमासग्रहणं स्वरसमिव । ‘द्वन्द्वस्सामासिकस्य च’ इति भगवतैव प्रशस्तः द्वन्द्वसमासः । सर्वसमस्य साम्यरसिकस्य भगवतः उभयपदसमत्वपरिपालकद्वन्द्वसमासे रुचिः । न कस्यापि पदस्यापकर्षो भवति तस्मिन्समासे । ‘द्वन्द्वः समासोऽस्मि, सामासिकस्य समाससमूहस्य’ इति श्रीशाङ्करभाष्यम् । ‘सामासिकः समाससमूहः तस्य मध्ये द्वन्द्वसमासोऽहं, स ह्युभयपदार्थप्रधानत्वेनोत्कृष्टः’ इति श्रीगीताभाष्यम् । ‘पूर्वोत्तरान्यपदार्थप्रधानेभ्योऽव्ययीभावतत्पुरुषबहुव्रीहिभ्यो द्वन्द्वस्योत्कर्षमाह - स ह्युभयेति’ इति तत्र तात्पर्यचन्द्रिका । द्वन्द्वसमासग्रहणे, ‘पण्डैनाळाले निन्तिरुवरुळुं पङ्कयत्ताळ्तिरुवरुळुं कोण्डु (பண்டை நாளாலே நின் திருவருளும் பங்கயத்தாள் திருவருளும் கொண்டு)’ इति श्रीशठकोपमुनिजन्मक्षेत्राधिपतिविषयद्रमिडगाथागीतरीत्यनुसरणं भवेत् । पुरुषकारमात्रस्य साक्षान्मोक्षहेतुत्वाभावेन तस्य कदाप्यव्यभिचरितसुनिश्चितात्यन्तामोघहेतुत्वस्य वास्तवत्वात् तस्यैव मोक्षप्रदभगवत्कटाक्षैकसन्धुक्षकत्वाच्च षष्ठीतत्पुरुषमाश्रित्य भगवन्मनःकान्ताभूतश्रीमात्रस्य मोक्षणसङ्कल्परूपप्रसादसिद्ध्यर्थं नियमेनापेक्षितपुरुषकारत्वरूपप्रसादमात्रपरत्वं वा ग्राह्यम् । फलान्तरप्रदानेषु श्रीकर्तृकपुरुषकारस्यापेक्षानियमो नास्तीति दृश्यते क्वचित् क्वचित् । तथा चेत् तादृशस्थलेषु संसाराध्वाक्षराध्वसम्बन्धिषु दम्पत्योरुभयोरपि प्रसदनसाहित्यस्य फलाधिकरणसिद्धान्तप्रतिज्ञानुसारेणावश्यवक्तव्यत्वादत्र द्वन्द्वसमासाश्रयणं दुर्वारम् । ‘तदन्तर्भावात्त्वां न पृथगभिधत्ते श्रुतिरपि’ इति श्रीपराशरभट्टार्यप्रदर्शितन्यायस्य स्पष्टं कर्तृत्वेन निगदिते भगवति जगन्निर्वाहकार्येषु सहकर्तृत्वेन देव्या अप्यन्तर्भावप्रापकत्वमभिप्रेतं स्यात् । आत्मानं प्रत्यपि शेषिणः पत्युरप्यन्तर्भावः श्रीमात्रस्य कर्तृत्वेन निगदने प्राप्तिर्भवेद्वा न वेति चिन्तने भगवतः श्रीमात्रनिगदने अन्तर्भावनैयत्यं न वक्तुं सुशकम् । तस्मादत्र श्रीकर्तृकपुरुषकारनियमापेक्षारहितेषु मोक्षादवरसंसाराक्षराध्ववर्तिफलान्तरदानेषु उभयोः प्रसन्नत्वस्य द्वन्द्वसमासेन सुप्रापत्वे तत्समासाश्रयणमेव स्वरसम् । सर्वथात्र द्वन्द्वसमासाश्रयणस्यापि अवलम्बनीयताऽस्ति । ‘चतुर्विधा भजन्ते माम्’ इति अधिकारिचातुर्विध्ये निर्दिष्टेऽपि आर्तस्यार्तेः पूर्वप्राप्तैश्वर्यनाशप्रयुक्तत्वमाश्रित्य नष्टैश्वर्याधिकारिपरत्वं वर्णयित्वा, तस्यैव प्राङ्नष्टार्थस्य पुनरर्थित्वरूपार्थार्थ्यधिकारित्वेन व्याख्या भाषिता । तथा च आर्तोऽर्थार्थीत्युभयोरेकाधिकारित्वं प्रदर्शितम् । तादृशमधिकारित्रैविध्यम् एतच्छ्लोकोदिताधिकारित्रैविध्येनानुगृह्यते । तिरुप्पल्लाण्डुद्रमिडगाथाप्रबन्धेऽपि ईदृशमधिकारित्रैविध्यं प्रदर्शितम् । श्रीशठकोपमुनिगाथासु च इदमुपलभामहे ॥ ३ ॥