वेङ्कटनाथः
1.2 अथ “कथं ब्रूम” इति स्तुत्यारम्भाक्षेपहेतुतयोदाहृतं स्तोतव्यगतमुत्कर्षं मुखान्तरण दृढीकुर्वन्नेव तदुपश्लिष्टं सौलभ्यविशेष(गुण)मनुसन्धाय स्तोतृगतदयनीयदशानिरूपणेन हेतुना स्तुत्यारम्भं समाधत्ते –
विश्वास-प्रस्तुतिः
यस्यास् ते महिमानम् आत्मन इव त्वद्-वल्लभोऽपि प्रभुर्
नालं मातुम् इयत्तया निरवधिं नित्यानुकूलं स्वतः ।
तां त्वां “दास” इति, “प्रपन्न” इति च स्तोष्याम्य् अहं निर्भयो
लोकैकेश्वरि लोक-नाथ-दयिते दान्ते दयां ते विदन् ॥ २ ॥
मूलम्
यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभुर्नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः ।
तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयो लोकैकेश्वरि लोकनाथदयिते दान्ते दयां ते विदन् ॥ २ ॥
वेङ्कटनाथः
यस्या इति । यस्या इत्य्-एतावता पर्याप्तेऽप्य्
अत्र “त” इत्य्-अधिकोपादानं
धर्मि-ग्राहक-मान-सिद्धासाधारण-विशेष-द्योतनार्थम् ।
महिमानं विभूति-द्वय-शेषित्व-रूपं निरतिशयानुकूल-गुणयोग-रूपं च ।
आत्मन इव - स्वस्येव ।
त्वद्वल्लभः - त्वत्प्रियतमः ।
प्रभुः - सर्वविषयज्ञानशक्त्यादिमान् ।
प्रभुर् अपीत्य् अन्वयः ।
अपिर् अनुक्तसमुच्चयार्थो वा, त्वं च त्वद्वल्लभश्चेत्यर्थः ॥
नालं मातुम् इयत्तया परिच्छिद्यानुसंधातुम् असमर्थः ।
सर्वशक्तेः क्वचित् कथमसामर्थ्यम्? इत्यत्राह - निरवधिम् इति ।
विषयस्यापरिच्छिन्नत्वात्
तत्र सर्वज्ञस्य सर्वशक्तेरपि परिच्छिन्नत्व-ज्ञानाभावो न दोष इति भावः ।
यथोक्तं श्रीवत्साङ्कमिश्रैः -
“देवि त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते यद्यप्येवमथापि नैव युवयोस्सर्वज्ञता हीयते (श्रीस्तवे १० श्लो.)”
इति । ईदृशश्च महिमा वेदार्थसङ्ग्रहेऽप्युक्तः - “अनवधिकमहिमा महिषी” इति ।
विवृतश्च गद्यारम्भे “भगवन्नारायणे”त्यादिना ।
श्रद्धासूक्त–मेधासूक्तादितिसूक्त–वाक्सूक्तादिष्व्
एतद्विभूति-विशेष-प्रतिपादकेषु,
विशेषतः श्रीसूक्ते च
विचित्रा एतन्-महिमानस् तत्-तद्-भाष्यकारैः प्रपञ्चिताः प्रतिपत्तव्याः ।
अस्या महिम्नः प्राप्यान्तर्भावज्ञापनाय नित्यनिरुपाधिकानुकूलत्वमाह - नित्यानुकूलं स्वत इति । तां - सर्वज्ञसाक्षिकतादृशमहिमानम् । त्वां महत्त्वसङ्गतसौलभ्यगुणयोगात् मदीयस्तोत्रश्रवणकौतुकेनाभिमुखीभूताम् । दास इति प्रपन्न इति च - प्रतिबुद्धदासभावत्वात्, प्रपन्नत्वाच्चेति (अर्थः) भावः । उभयमिदं सम्भूय “प्रेष्यस्य क्षमितव्यं मे (रामा. किष्कि. ३६.११)” इत्यादिन्यायेन निर्भयत्वे हेतुः ।
पृथु-गद्य-मुखेऽस्माभिः
श्री-प्रपत्तिर् इयं सताम् ।
श्रीपतौ स्थितम् ऐकान्त्यं
न विहन्तीति साधितम् ॥७॥
स्तोष्याम्यहं निर्भयः – अनाद्युपचितापराधस्त्वन्महिमस्तोत्रानुगुणज्ञानशक्तिरहितश्चाहं नित्यसूरिभिः निगमैश्च कार्त्स्न्येन स्तोतुमशक्यां त्वां प्रतिबुद्धदास्यप्रपन्नत्वव्याजेन निर्भयः स्तेष्यामीत्युक्तं भवति । एवं स्तोत्राक्षेपतत्समाधानव्याजेन प्रवृत्तमपि श्लोकद्वयमिदं प्रकृष्टस्तुतिरूपमेव । त्वत्प्रपन्नस्य मे न कुतश्चिदप्यनीश्वराद्भयमित्यभिप्रायेणाह - लोकैकेश्वरीति । लोकैकेश्वरः – प्रमाणसिद्धानां सर्वेषामद्वितीय ईश्वरः । ईश्वर-शब्दश्चात्रान्तर्नीतशेषित्वं नियन्तृत्वमभिप्रैति । “पतिं विश्वस्य (तै. ना.)” इति विश्वशेषित्वेन निर्दिष्टस्य शेष्यन्तरनिवृत्तिविवक्षायाम्, “आत्मेश्वरम्” इति निर्देशात् । “यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः (गीता १५.१७)” इत्यस्यार्थश्चैवं संगृहीतः - “व्यापनाद्भरणात् स्वाम्यादन्यः पञ्चदशोदितः (गीतार्थसंग्रहे १९)” इति । तत्र च भाष्यम् – (गीताभाष्ये १६.१) “व्यापनभरणस्वाम्यैरर्थान्तरतया” इति । ईदृशेश्वरपत्नीत्वादिह लोकैकेश्वरीत्युक्तम् । एतेन “पुंप्रधानेश्वरेश्वरी (लक्ष्मीसहस्रनामस्तोत्रे १ श्लो.)” इति समाख्याऽपि गतार्था । त्वत्प्रसादे सति सर्वेश्वरादपि मे भयं नास्तीत्याह - लोकनाथदयित इति । दयिता-शब्द इह वल्लभात्वाभिप्रायः । सर्वभयाभयहेतुभूतः सर्वेश्वरोऽपि त्वदभिमतं नातिक्रामतीति भावः । अनेन संबुद्धिद्वयेन स्तुतिविषयत्वौचित्यातिशयोऽपि सूचितः । ईदृशीं त्वामाश्रितस्य मे त्वत्तोऽपि भयं नास्तीत्याह – दान्ते दयां ते विदन् इति । प्रतिबुद्धदास्यः कृपोत्तम्भकदीनावस्थापन्नः आज्ञातिलङ्घनाद्विरताभिसन्धिः प्रपन्न इह दान्त-शब्दाभिप्रेतः । मातृत्वप्रयुक्तवात्सल्यातिशयवत्यास्ते दान्ते पुरुषे भगवत्कारुण्यादप्यतिशयितां दयां जानन्नहमेवं प्रपन्नत्वान्निर्भय इत्यन्वयार्थः । प्रश्रितमात्रपरो वाऽत्र दान्त-शब्दः । तावन्मात्रेऽपि हि तस्या विशेषाभिमानः तयैवोक्तः (म. ल. संहिता) “धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि । प्रश्रिते दानशीले च सदैव निवसाम्यहम् ॥” इति । एवंविधश्च दयाविशेषः “करुणा(स्रा)ग्रानतमुखी (लक्ष्मीसहस्रनामस्तोत्रे १४ श्लो.)” इत्यस्याः समाख्ययैव ख्यापितः । अष्टोत्तरसहस्र(शत?)नामसु च पठ्यते - “करुणां वेदमातरम्” इति । करुणाप्रचुरतयाऽसौ करुणात्वोक्तिः ।
पारम्यापह्नवः पत्यौ
बाह्यानां मानवाधितः?? ।
इति ख्यापयितुं श्रीशं
श्रीदृष्टान्तम् इहाब्रवीत् ॥८॥
अथ स्यात् “आनीदवातँ स्वधया तदेकम् (तै. ब्रा. २.८.९)” इति प्रलयदशायां स्वधाशब्दवाच्यया कयाचित् परस्य ब्रह्मणोऽननं श्रूयते । सा चात्र “स्वधा त्वं लोकपावनी (वि. पु. १.९.१०९)” इति पुराणोक्तेः, महाभारते च श्रीवासवसंवादे “अहं स्वाहा स्वधा चैव” इति स्वयमेवोक्तत्वादौचित्याच्च लक्ष्मीरेव । अतस्तदधीनप्राणनत्वं ब्रह्मण इति । तन्न । स्वाधीनसर्वसत्ताकस्य तस्यान्याधीनप्राणनत्वासंभवात् । स्वधाशब्दस्य चात्र प्रयोगदर्शनमात्रेण लक्ष्मीविषयत्वकल्पनादपि स्वस्मिन् धीयत इति व्युत्पत्त्या स्वसत्ताविषयत्वस्य कल्पयितुं युक्तत्वात् । स्वकीयं विश्वधारणसामर्थ्यमेव वा स्वधा । तथा श्रेष्ठश्चेत्यत्र भाष्यम् – (२.४.७) “ ‘आनीदवातम् (ऋक्. ८.१०.१२९.२)’ इति तु न जैवं श्रेष्ठं प्राणनमभिप्रेत्योच्यते । अपि तु परस्य ब्रह्मण एकस्यैव विद्यमानत्वमुच्यते” इति । अत्रानन्याधीनसत्ताकत्वमेव ह्यभिप्रेतम् । अस्तु वा “स्वधये”ति पदं लक्ष्मीविषयम् । तथाऽपि सहयोगविवक्षैवात्र युक्ता । यथा महाभारते – (मोक्ष. ३४७.७२) “कृत्वा मत्स्थानि भूतानि चराणि स्थावराणि च । एकाकी विद्यया सार्धं विहरिष्ये द्विजोत्तम ॥” इति । ननु “ततो भूयो जगत्सृष्टिं करिष्यामीह विद्यया (भार. मोक्ष. ३४७.७३)” इति वाक्यशेषेणौचित्यात् तत्र विद्याशब्दः प्रकृतिविषयः स्यात् । भवत्वेवम् । तथाऽपि प्रस्तुतमहोक्तिमात्रसंभवोदाहरणमिदं युज्यत एव । यद्वा “तेनयं स च धर्मात्मा मुहूर्तमपि जीवति (राम. सु. १५.२५)” इतिवत् स्वधया आनीदिति प्रेमपारतन्त्र्ये तात्पर्यम् ।
अथ स्यात् “मेधा श्रद्धा सरस्वती (वि. पु. १.९.११९)”, “अहं श्रद्धा च मेधा च” (वराहे) इति स्मृत्युपबृंहितया “श्रद्धया देवो देवत्वमश्नुते (काठके ३.३.११)” इति श्रुत्या पत्न्यधीनोत्कर्षत्वं परस्य देवस्य प्रतीयते इति । तदपि न चोद्यम् । स्वतस्सिद्धातिशयस्य भास्करस्य प्रभान्वयेनेव “श्रियः श्रीश्च भवेत् (रामा.)” इत्युक्तस्य भगवतः स्वपत्न्याऽप्यतिशयान्तरे दोषाभावात् । “अभिरूप एवाभरणेनापि द्योतमानत्वमश्नुत इत्यादिष्विवायोगव्यवच्छेदमात्रेणाप्यर्थोपपत्तौ बहुप्रमाणविरुद्धस्यान्ययोगव्यवछेदस्य कल्पयितुमयुक्तत्वात् । देवत्वं च निष्कृष्यमाणं देवनसंबन्ध एव, “कृत्तद्धितसमासेषु संबन्धाभिधानं त्वतलौ (कैयटे ५.१.११९)” इति शाब्दोक्तेः । तच्च देवनं विहरणादिरूपं स्ववल्लभासहितस्यैव परस्य देवस्य भवतीति सुस्थोऽयं पन्थाः । आहुश्च “यस्या वीक्ष्य मुखम् (श्रीस्तवे १ श्लो.)”, “अङ्गीकारिभिरालोकैः (श्रीगुणरत्नकोशे १ श्लो.)”, “क्रीडसि श्रीसमक्षम् (श्रीरङ्गराजस्तवे २.४४)” इत्यादि ।
एवमाप्तप्रणीतान्यन्यान्यपि कानिचित् स्तुतिवाक्यानि प्रमाणानां स्ववाक्यान्तराणां चाविरोधेन स्थाप्यानि । यानि च ब्राह्मे पुराणे “सर्वातिशायिनी प्रीतिः (लक्ष्मीसहस्रनामस्तोत्रे १२३ श्लो.)”, “सर्वोत्कृष्टा सर्वमयी (१२२)”, “अनौपम्या निर्विकल्पा (१७)” इत्यादीनि लक्ष्मीनामानि, तान्यपि “न तत्समश्चाभ्यधिकश्च दृश्यते (श्वे. उ. ६.८)”, “यस्मात्परं नापरमस्ति किञ्चित् (मुण्डके १.७.१)”, “तमीश्वराणां परमं महेश्वरम् (श्वे. ६.७)”, “क्षरात्मानावीशते देव एकः (श्वे. १.१०)”, “एक इद्राजा जगतो बभूव (तै. सं. ४.१.८)”, “शास्ता चराचरस्यैकः”, “एकः शास्ता न द्वितीयोऽस्ति शास्ता (कश्चित्) (भार. आश्व. २.७.१)”, “शास्ता विष्णुरशेषस्य” इत्यादिप्रमाणगणानुसारेण भगवद्व्यतिरिक्तसर्वापेक्षया तन्महिष्याः प्रकर्षं विवक्षन्ति । तथा सति “शक्तिचक्रस्य नायिका (सन. सं)” इति तत्रत्योक्तिरपि संगच्छते । शक्तिशब्दोऽपि ह्यत्र विहाराख्यकार्योपयुक्तविशेषणत्वाभिप्रायः पत्नीविषय एव ।
अत्यन्त-साम्यम् अप्य् अस्यां
दृष्टान्त-स्व-रसागतम् ।
स्थाप्यं नियत-निर्बाध-
पत्नीत्वाद्य्-अ-विरोधतः ॥९॥
अत्र “तस्य शक्तिद्वयं तादृगमिश्रं भिन्नलक्षणम्” इति सात्वतोक्तं देव्यास्तादृक्त्वमपि श्रुतिस्मृतिपूर्वापरादिप्रसिद्धपत्नीत्वाद्यनुगुणं योज्यम् । किञ्च, यथा मुक्तस्य भगवता परमसाम्ये श्रुतिस्मृत्यादिसिद्धेऽपि “जगद्व्यापारवर्जम् (४.४.१७)” इति लक्षणभूतैराकारैर्वैषम्यं स्थाप्यते, तथेहापि भवति । “भिन्नलक्षणमिति च तत्रैवोक्तम् । आहुश्च “पितेव त्वत्प्रेयान्” इत्यारभ्य “माता तदसि नः” इति । एवमनभ्युपगमे तां पुरस्कृत्य भगवदभिगमनमपि तत्रतत्रोक्तं दुश्शकं स्यात् । अस्ति कर्मार्हफलदे पत्यौ कृत्यद्वयं श्रियः । निग्रहाद्वारणं काले सन्धुक्षणमनुग्रहे ॥१०॥ उक्तं च श्रीविष्णुचित्तैः गद्यव्याख्यानारम्भे “मातृत्वैकरूपां श्रियं प्रपद्यते । माता हि हितादपि पुत्रस्य प्रियमेव पश्यति, पिता उभयं पश्यति; अतो दण्डधरत्वहीनतैवावलम्बनमस्यां दशायामासीत्” इति । अत्र वरदगुरूपदेशानुसारिभिः व्यासार्यैश्चोक्तम् “प्रतापोष्मलपितृत्वदुरासदभगवत्समाश्रयणसिद्धये पुरुषकारानुप्रविष्टवात्सल्यनिर्भरलक्ष्मीसमाश्रयणं श्रीमच्छब्दविवरणमुखेनाभिधीयते” इति । नन्वस्या दण्डधरत्वाभावे “दैत्यदानवमर्दिनी (लक्ष्मीसहस्रनामस्तोत्रे ८ श्लो.)” इत्यादिनामानि न घटेरन्; मैवम्; “सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् (रामा.सुन्द. ५.५१.२६)” इत्यादिष्विव कोपस्य पतिसंश्रयत्वेऽप्यस्यास्तदनुमतिमहिम्नाऽपि दैत्यनिरासादिसिद्धेः । स्वासाधारणविभूतिविशेषद्वारा वा तदुपपत्तिः । तदभिप्रायेण हि पुराणेषु “सौम्यासौम्यैर्जगद्रूपैः (वि.पु. १.९.१२१)” इत्याद्युच्यते ।
यत् किञ्चिद् अपि वैषम्यं
यदि नामात्र नेष्यते ।
तयोर् देह-व्यवस्थाऽपि
न सिध्येत् सर्व-संमता ॥११॥
अव्यवस्थिति-पक्षस् तु
हेतु-पक्षो ऽयम् इत्यपि ।
अश्रुतत्वाद् इहानुक्तेर्
दूषणं वाऽपि नार्हति ॥१२॥
न हि सिद्धे विकल्पः स्यान्
न सन्देहो ऽत्र निश्चयात् ।
न कालाद्यैर् विपर्यासस्
तन्-नित्यत्वादि-साधनात् ॥१३॥ ॥२॥
गोपालः
पूर्वश्लोके भर्तुरिव देव्या अपि उभयविभूतिनायकत्वमुक्तम् । तत्र पूर्वार्द्धे नित्यविभूतिनायकत्वम्, उत्तरार्द्धे प्रथमपादे ब्रह्मेशयोस्स्वर्गिणां च महेन्द्रादीनां तद्दयितानां च दासदासीत्वकथनेन तान्प्रति वचनवृत्त्या स्वामिनीत्वं कैमुत्यविधया देवतारक्ष्यमनुष्यादीन् प्रति नायकीत्वं च निरूपितम् । च्छान्दोग्यभूमविद्यायां, ‘गो अश्वं हस्तिभार्यं महिमेत्याचक्षते स भगवः कस्मिन् प्रतिष्ठितः’ इति पृष्ट्वा, स्वे महिम्नि प्रतिष्ठितः अथवा न महिम्नि इति निगदितम् । महिमशब्दस्य अश्वहस्त्यादिवाहनेषु लोकप्रसिद्धिः तत्र प्रोक्ता । ‘यस्यास्ते महिमानम्’ इत्यस्मिन् श्लोके महिमशब्देन पूर्वश्लोकोक्तवाहनासनशय्यादीनामनुवादः क्रियत इति रसो रस्यः । ‘स्वे महिम्नि’ इति श्रुतौ स्वकीयो महिमा स्वप्रतिष्ठाधिकरणत्वेन कथितः । तत्राऽप्यतृप्त्या स्वस्मिन्नेव प्रतिष्ठितः न स्वान्यत्वेन ग्राह्ये स्वधर्मभूतस्वमहिमनि इति कथितम् । अनन्यप्रतिष्ठो भूमशब्दितो भगवानिति स्वमात्रप्रतिष्ठितत्वप्रतिबोधनाय ‘अथवा न महिम्नी’ति निगदितम् । ‘ब्रह्मणो महिमानमाप्नोति’ इति फलश्रुताविवात्रस्थमहिमशब्दः निरतिशयं ब्रह्मानुभवं गमयेच्च । ‘यस्यानुभावमधिगन्तुमशक्नुवन्तः’ इति वरदराजपञ्चाशत् श्लोक इव, ‘अनुभावविशेषात्तु सेनापरिवृताविव’ इति रघुवंशश्लोक इव च महिमानुभावशब्दौ महिमार्थवाचकौ । महिमशब्दगम्यप्रसिद्धार्थवाचकौ । ‘तत्त्वेन यस्य महिमार्णवशीकराणुः शक्यो न मातुमपि शर्वपितामहाद्यैः । कर्तुं त्वदीयमहिमस्तुतिमुद्यताय मह्यं नमोऽस्तु कवये निरपत्रपाय ॥’ इति स्तोत्ररत्नश्लोकस्थमहिमशब्दोऽप्यत्र महिमशब्दार्थबोधनाय भाव्यः । तच्छ्लोकस्य एतच्छ्लोकदृष्टवर्णनरीतिसादृश्यं रस्यम् । तत्र सर्वज्ञानां विश्वाचार्याणां शिवविधिमुखानां भगवन्महिमार्णवपृषतस्यापि मातुमशक्यत्वं कथितम् । अत्र भगवत एव स्ववल्लभाभूतश्रीमहिम्नः इयत्तया मातुमसमर्थता वर्ण्यते । भगवतः स्वमहिम्नः परिच्छेदासामर्थ्यं सम्प्रतिपन्नदृष्टान्ततयोक्तम् ‘आत्मन इव’ इति ॥
अस्मिन् श्लोके पूर्वार्द्धं श्रियो लक्षणवाक्यमपि भवति । ईदृशलक्षणलक्षितां तां तत्पदार्थभूतेश्वरीं वाङ्मनसापरिच्छेद्यमहिमवतीं सर्वतो विलक्षणां नारीणामुत्तमां त्वामिति वर्णनरीतिः । ‘आत्मन इव’ इत्यनेन दम्पत्योरुभयोः परस्परमहिमपरिच्छेदाज्ञत्वासमर्थताभ्यां तुलारोपणे तुल्यत्वं व्यज्यते । स्व, स्वकान्तमहिमावध्यज्ञाने उभयोस्तुल्यता, यथा सार्वज्ञ-वाङ्मनसागोचरनिरतिशयानन्दादिषु । ‘त्वद्वल्लभः प्रभुरपि’ अत्र प्रभुशब्दः परिबृढशब्दपर्याय इव । ‘ब्रह्म परिबृढं सर्वतः’ इति यास्कपठितं स्मार्यत इव प्रभुशब्देन सर्वतः प्रभुरपि सर्वकार्यनिर्वहणे कृतमुखोऽपि त्वद्वल्लभः प्रभुरिति पदक्रमेण त्वद्वल्लभत्वात् भगवान् सर्वतः परिबृढः प्रभुरिति व्यज्यते । ‘श्रीमान् लोकत्रयाश्रयः’ इति सहस्रनामपदयोः क्रम इवात्र पदक्रमो द्रष्टव्यः । श्रीमत्वात् लोकत्रयाश्रयत्वम् । आश्रयपदं श्रियां मुख्यम् । श्रीशब्दव्युत्पत्तौ प्रथमप्रतिपन्नम् । प्रभुरपि नालं मातुं - त्वन्महिममानविषयेऽप्रभुः । अलं मातुं पर्याप्ततया कार्त्स्न्येन तत्त्वतो मातुमप्रभुः । इयत्तया मातुमप्रभुः । ‘प्रकृतैतावत्त्व’सूत्रप्रदर्शितरीत्या एतावत्त्वेन मातुमसमर्थतात्र ग्राह्या । ‘ईदृक्तया वा इयत्तयावा’ (रघु. 13.5) इत्यन्यत्रपठितमनुसृत्यात्र इयत्तयेति पदेनोपलक्ष्यत्वं ग्राह्यम् ॥
निरवधिमिति हेतुगर्भं विशेषणम् । वस्तुतोऽत्र महिम्नोऽवधेरभावात् सावधित्वस्यापारमार्थ्यात् । अपरमार्थग्रहणरूपभ्रान्ततैवापद्येत देवीमहिम्नः इयत्तया परिच्छेद्यत्वमनने वर्णने वा । ज्ञानाभावरूपाज्ञानात् विपरीतज्ञानरूपभ्रान्तेः दोषगरीयस्त्वं सुवचम् । इदं सुविशदमुपपादितं, ‘देवि त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते यद्यप्येवमथापि नैव युवयोस्सर्वज्ञता हीयते । यन्नास्त्येव तदज्ञतामनुगुणां सर्वज्ञताया विदुः व्योमाम्भोजमिदन्तया किल विदन् भ्रान्तोऽयमित्युच्यते ॥’ इति श्रीस्तवे श्रीवत्साङ्कमिश्रैः । सत एव वस्तुनोऽज्ञानं दोषावहम् । असतो वस्तुनो वेदनाभावः न सार्वज्ञविरोधी । असद्वस्तुनो वेदनं सर्वथा सार्वज्ञविरोध्येव भवेत् । अतः वन्ध्यासुतशशशृङ्गाद्यवेदनं गुणायैव । स्वतो नित्यानुकूलस्त्वन्महिमा त्वद्वल्लभस्य यदि । जातु प्रतिकूलः स्यात् त्वन्महिमैकदेशोऽपि तस्य, तदा तदंशावेदने तदंशविस्मरणे वा कथञ्चित् कश्चित् हेतुरुत्प्रेक्ष्येत । त्वन्महिम्नस्तस्य नित्यमनुकूलत्वात् त्वन्महिमैकदेशविषयेऽप्यवेदनविस्मरणहेतुर्मृग्य एव । ‘स्वतो नित्यानुकूलम्’ अनुकूलत्वमानन्दः भर्तुर्नित्यमनुकूलत्वं नित्यानन्दत्वं तव त्वदीयमहिम्नश्च स्वभावः । स्वत एव नित्यानुकूलत्वं न परतः यत्किश्चिदुपाधेः व्याजाद्वा । स्वतस्सिद्धं नित्यानुकूल्यं सर्वथा सर्वदा निर्व्याजं निरुपाधिकम् । न कदापि भावशून्यत्वं, यथा ‘उपचारविधौ मनस्विनीनां न तु पूर्वाभ्यधिकोऽपि भावशून्यः’ (3.38) इति मालविकाग्निमित्रश्लोके । सर्वदा पूर्णभावविशिष्टं भर्तर्यानुकूल्यम् । ‘तां त्वां’, ‘नित्यानुकूलं स्वतः’ इत्यत्रानुकूलत्वं सर्वप्रजाविषयेऽपि ग्राह्यम् । यथा भर्तरि तथा प्रजासु । तत्राप्यपराधिषु जडेषु वत्सेषु । ‘मन्ये माता जड इव सुते वत्सला मादृशे त्वम्’ इति दयाशतकश्लोक इव स्वतस्सहजस्नेहरूपवात्सल्यस्याधिकमधिकं प्रसरणं भवेत् जडापराधिषु सुतेषु मादृशेषु । स्वतो वत्सला धेनुर्वत्से । ‘वत्सं धेनुरिव च्छाया वा सत्त्वं यथा अनुगच्छति’ इत्येकायनश्रुत्यामुक्तविषये प्रदर्शितं, तथात्र सर्वप्रजासु स्वतो मातृभूतायाः स्नेहमय्या देव्याः स्वतो नित्यानुकूलत्वम् । ‘अनुग्रहमयीं वन्दे नित्यमज्ञातनिग्रहाम्’ इत्यादिकमिह भाव्यम् । ‘नारायणेति यस्यास्ये वर्तते नाममङ्गलम् । नारायणस्तमन्वास्ते वत्सं गौरिव वत्सला ॥’ इति श्लोकोक्तनारायणवात्सल्यस्य मातृभूतदेवीवात्सल्यमूलत्वं सुवचम् । ‘दास इति’ स्वतश्शब्दोऽत्र दासशब्देनाप्यन्वेतुं शक्यः । दम्पत्योरुभयोः शेषत्वं दासत्वं च स्वतस्सिद्धमस्माकं ‘दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः । अतोऽहमपि ते दास इति मत्वा नमाम्यहम् ॥’ इति नृसिंहराजपदस्तोत्रे विश्वाचार्येण सर्वज्ञेन रुद्रेणोक्तमिह भाव्यम् । ‘आत्मदास्यं हरेः स्वाम्यं स्वभावं च सदा स्मर’ इति भगवतः स्वाम्यस्यास्मद्दास्यस्य च स्वभावसिद्धत्वं कथितम् । ‘अस्या मम च शेषं हि विभूतिरुभयात्मिका’ इत्यत्र ‘अस्या’ इति लक्ष्मीशेषत्वस्य सुनिश्चितत्वमत्यन्तमनपबाध्यत्वं सर्वलोकविदितत्वं च सुप्रसिद्धत्वेन प्रथमं पठितम् । मम चेति स्वस्य शेषित्वमन्वाचयेनोक्तम् । समीपवर्तिन्याः देव्यास्सन्निधौ तस्यास्तादृशप्राधान्यवर्णनं दक्षिणैकान्तनायकस्योत्तमगुण एव । ‘त्वं स्त्री त्वं पुमानसि’ इति श्वेताश्वतरश्रुतिः पुंस्त्वादपि स्त्रीत्वमेव प्रथमं निर्दिशति । स्त्रीणां विशेषतः माननीयत्वबुद्धिर्नेदानीन्तननवनागरिकत्वसिद्धा किन्तु पुरातनवैदिकप्राचीनमर्यादा सिद्धा । नेयं नवनागरिकता, किन्तु प्राचीनवैदिकपद्धतिरेवेयम् । स्त्रीसामान्यवाचकमेनाशब्दस्य ‘मानयन्त्येनां (स्त्रियम्) इति मेनाः सर्वाः स्त्रियः’ इति यास्कनिरुक्तप्रदर्शिता स्त्रीसामान्यवाचकत्वेन मेनाशब्दस्य व्युत्पत्तिः । अत एव पार्वती मातृहिमवत्पत्नी मेरुपुत्रीभूतमेनाविषये ‘मेनां मुनीनामपि माननीयामात्मानुरूपां विधिनोपयेमे’ (कु.सं. 1.18) इति कालिदासो जगौ । अस्य विस्तरश्चास्मदीये कुमारसंभवव्याख्याने द्रष्टव्यः ॥
श्रुतिपाठकत्वरूपवन्दित्वं पारम्पर्यप्राप्तदासकर्मेति प्रसिद्धम् । वन्दिकुलपरम्परासंभूताः वन्दिकर्मकराः दासाः स्तुतिकर्मणि निपुणा वा अनिपुणा वा भवेयुः । कुलप्राप्तकर्मकरणेऽनिपुणत्वं न तत्कर्माधिकारप्रच्यावकं भवेत् । कुलक्रमागतवैतालिककर्मकरपरम्परादासस्यात्र दासशब्दार्थत्वेन ग्रहणं ध्रुवमुचितम् । पितामहनाथमुन्युपज्ञम् अरयरत्वेन प्रसिद्धानां द्रमिडगाथाप्रबन्धस्य सतालं गानाभिनयनृत्तादिकैङ्कर्यनिर्वहणम् । इदानीमपि श्रीनाथमुनिकुलीनाः वंशपारम्पर्यक्रमेण तत्कैङ्कर्यं श्रीरङ्गे निर्वहन्ति । तत्कुलीनेषु संस्कृतकविताशक्त्यनुग्रहभाङ्क्षु स्तोत्ररत्नैतत्स्तुत्यादिस्तुतिभिः दिव्यदम्पतिस्तोत्ररचनारूपकर्मकररूपदासत्वाभिमतिः साम्प्रतिक्येव । स्तोत्ररत्नारम्भे प्रथमं त्रिभिः श्लोकैः पितामहं नाथमुनिं स्तुत्वा अन्ते च ‘पितामहं नाथमुनिं विलोक्य प्रसीद मद्वृत्तमचिन्तयित्वा’ इति स्वाभिलषितकृत्स्नप्रार्थनाज्ञापनरूपैतत्स्तोत्रोपसंहारे भगवत्प्रसादनिर्बन्धकहेतुत्वेन निर्दिष्टः श्रीरङ्गनाथमुनिना पितामहपौत्रत्वरूपसम्बन्ध इह भाव्यः । वक्तृवैलक्षण्याभावः वक्तृवैगुण्यमिति दोषद्वयस्यापि परिहारे, नाथोपज्ञं प्रवृत्तस्यास्मद्दर्शनस्य प्रवर्तकभूतस्य ‘यस्य नैगमिकं तत्त्वं हस्तामलकतां गतम्’ इत्युक्तरीत्या करबदरसमानमपरोक्षीकृतातीन्द्रियपरमात्मतत्त्वस्य योगिसार्वभौमस्य, स्वस्मै वेदान्ताचार्यकं कर्तुं स्वसमीपं स्वगृहमागन्तुमीश्वरमुनिं नियोजितवतः स्वोद्धरणाय करुणाकाष्ठां प्रदर्शितवतो मुनिनाथस्य श्रीरङ्गनाथस्य सम्बन्धनिर्देशः ध्रुवमुपकुर्यात् । सङ्कल्पसूर्योदयनाटकप्रस्तावनायां स्वनाटकनाटनदर्शनाय मिलितायाः प्रेक्षकसभायाः अभिरूपभूयष्ठत्वनिरूपणे ‘दिव्यप्रयोगदिदृक्षादत्तक्षणाः विचक्षणाश्च समुदिताः सामाजिकाः तथाहि ‘अवधारितनाट्यदेशिमार्गैरसमीचीनपराङ्मुखैरमीभिः । भरतागमदैवतैरिवैषा परिषत्सम्प्रति भासते महद्भिः’ इति ‘उपवेदमुदारधीः स्वनाम्ना भरतः सूचितभावरागतालम् । यमुदाहरति स्म विश्वभोग्यं तदभिज्ञैरबहिष्कृता वयं स्मः ।’ इति च निबद्धभावरागतालं दिव्यप्रबन्धदिव्यभावनामभिनयनृत्तादिभिः द्रष्टृश्रोतृमनसामावर्जकाः अरयरकुलीनाः श्रीरङ्गनाथदासाः तदभिनयनृत्तादिभूयःप्रेक्षणेन भावरागतालेषु अभिनयनृत्तभावुकतायां च नैपुण्यं सम्पादितवन्तश्च वर्णिताः ॥
अत्र चतुश्श्लोकीश्लोके प्रयुक्तेति पदद्वयमपि हेत्वर्थकम् । ‘प्रपन्न इति च’ इत्यत्र प्रपन्नशब्दः ‘किन्तु प्रपत्तिबलतारितविष्णुमायमद्वंश्यराजकुलदुर्ललितं किलैवम् । श्रीरङ्गराजकमलापदलालितत्वं यद्वाऽपराध्यति मम स्तुतिसाहसेऽस्मिन् ॥’ (श्रीरङ्गराजस्तव.पूर्व. 17) इति श्लोक इव ‘श्रीरङ्गेशपुरोहितः’ इति स्ववंश्यानां श्रीरङ्गराजकुलदासत्वेनाभ्युच्चयहेतुतया प्रपत्तिबलतारितविश्वमायत्वमभिदधातीव । ‘तस्माद्वध्यं प्रपन्नं न प्रतिप्रयच्छन्ति’, ‘सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतत् व्रतं मम ॥’ इत्यादिश्रुतिस्मृतीनां प्रपन्नस्य सर्वेभ्योऽभयसिद्धिं निश्चप्रचं प्रतिज्ञातॄणां प्रमाणानां स्मारणमिष्यते । ‘सर्वेभ्यो भूतेभ्य’ इत्यत्र ‘एको विष्णुर्महद्भूतम्’ इति प्रसिद्धमहाभूतात् स्वस्मादपि अभयं ददात्येव । ‘भीषास्माद्वातः पवते’ इति प्रसिद्धभयहेतोरभीतिर्ध्रुवं प्रपन्नैः काङ्क्ष्येत । संसाररूपमहाभयहेतुस्तन्निवर्तकश्च भगवानेव । भयकृदेव भयनाशनः । इतरेषां स्ववध्यस्य न त्राणसामर्थ्यम् । स्वस्य तु इतरैर्वध्यत्वेन सङ्कल्पितस्य त्राणे निरतिशयं सामर्थ्यमस्ति । पारमार्थिकी अमोघा शरणागतिस्त्राणसामर्थ्ययुक्तकारुणिक एव फलकरी स्यात् । ‘ब्रह्मा स्वयंभूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा । इन्द्रो महेन्द्रस्सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ॥’ इति रावणसभायां, सीतापहारिरावणस्य वधः रामेण सङ्कल्पितश्चेत् तद्वध्यस्य रावणवरदातृपितामहेन, कैलासपर्वतस्य विंशतिभुजबलेन चालने सन्तुष्यानुग्रहंकृतवता प्रत्यहं रावणेन सुदीर्घकालं शिवपूजाक्रमेण पूज्यमानेन रुद्रेण वा, न त्राणे सामर्थ्यस्य संभावना । स्वस्मिन्दासत्वं प्रपन्नत्वमिति संनिकृष्टतमसम्बन्धविशेषसंपादकाकारद्वयमस्तीति स्वकरिष्यमाणस्तोत्रस्य भयलेशं विना स्वकर्तव्यताबुद्धिः सुसंपादा । ‘स्तोष्याम्यहं निर्भयः’ - अहमिति स्वस्य ‘अमर्यादः क्षुद्रश्चलमतिरसूयाप्रसवभूः’ इत्यादिश्लोकेषु अनुसंहितनैच्यानुसन्धानमत्रानुसन्धत्ते स्तोत्रक्रियायामत्यन्तमनधिकृतोऽपि सन् प्रत्युत तदधिकारनिषेधकदोषबहुत्वविशिष्टोऽपि इति च व्यज्यते । अहमिति नात्राहंकृतौ तात्पर्यम् । गर्वाभिमानावलेपाद्यभाव एव तात्पर्यम् । दासत्वप्रपन्नत्वोभयविधसम्बन्धरूपप्रभ्वभिगमनयोग्यतासम्पत्तिवैशिष्ट्यं वाहं शब्देन बुबोधयिष्यते । तद्बलं विना स्वस्य स्तोतृत्वाधिकारे नान्वयप्रसक्तिलेशोऽपि । निर्भयं स्तोतृत्वेऽपि तादृशसम्बन्धद्वयविशिष्टत्वमेव हेतुः प्रभुतोऽपि दत्ताभयस्य प्रपन्नस्य, ‘न मे मोघं वचो भवेत्’ इति सर्वथाऽमोघस्य प्रपत्तिक्षणप्रतिज्ञातरक्षणसङ्कल्पस्यामोघत्वे पूर्णविश्वासात् न भयस्यावकाशः । प्रत्यहं स्तुतिपाठकवन्दित्वरूपदासकमकरत्वाच्च भयमपैति । ‘निर्भयं मामलज्जम्’ इति स्तोत्ररत्न इवात्र पठितस्य निर्भयशब्दस्य निर्लज्जत्वस्याप्युपलक्षकत्वं ग्राह्यम् । निर्भयो विलज्जश्चेत्यर्थसम्पत्तिः । तथाच ‘गायन् विलज्जो विचरेदसङ्गः’ इति श्रीभागवतविहितमपि अनुष्ठितं भवति ॥
‘लोकैकेश्वरि’ लोकभयाभयविधायिनो मरुत्तरणिपावकादयः महद्भयं वज्रमुद्यतमिव भगवदाज्ञातो भीतभीताः, ‘भीषास्माद्वातः पवते, भीषोदेति सूर्यः, भोषास्मादग्निश्चेन्द्रश्च, मृत्युर्धावति पञ्चम इति’ इति कम्पनसूत्रविषयवाक्योक्तरीत्या एजन्ते इति प्रसिद्धम् । ईश्वर्या अपि लक्ष्म्याः, सर्वभयहेतुभूतेश्वरात्कथं स्वदासेभ्यः प्रपन्नेभ्यश्च निर्भयत्वप्रदत्वसिद्धिरिति चेदुच्यते ‘लोकैकेश्वरि’ इति । अत्र सम्बोधने एकशब्दः मुख्यार्थकः ‘पुंप्रधानेश्वरेश्वरी’ इत्यत्र ईश्वरस्यापीश्वरीत्वं स्पष्टं निगदितम् । ‘अपाङ्गा भूयांसो यदुपरि परं ब्रह्म तदभूत् अमी यत्र द्वित्राः स च शतमखादिस्तदधरात् ।’ इति श्रीगुणरत्नकोशश्लोकः इह भाव्यः । ‘यं कामये तं तं उग्रं करोमि, तं ब्रह्माणम्’ इत्यादिमन्त्रोऽपीह भाव्यः । ‘शिवः शक्त्या युक्तो भवति च कदाचित् प्रभवितुं न चेदेवं देवः प्रभवति किल स्पन्दितुमपि’ इति सौन्दर्यलहर्युपक्रमश्लोकः उदाहृतः श्रीरङ्गरामानुजमुनिभिः स्वकृतन्यायसिद्धाञ्जनव्याख्यायाम्, आचार्यहृत्स्थत्वेन लक्ष्म्याः शक्तित्वेन निर्देशकप्रमाणहृदयावबोधनप्रकरणे ईश्वरपरिच्छेदान्ते । ‘अप्रमेयं हि तत्तेजः’ इत्यादिवाल्मीक्युपबृंहणश्लोकेषु ईश्वरतेजोरूपपराभिभवनरूपसामर्थ्यस्याप्रमेयता भूतकाष्ठागतदशा लक्ष्मीपतित्वैकाधीनेति विशदमुक्तम् । तेन चैतद्विषये श्रुतीनां हृदयं स्पष्टीकृतं तदन्तर्भावादिन्यायादपि ईश्वरं प्रत्यपीश्वरीत्व स्पष्टबोधकेश्वरेश्वरीत्वनिगदस्य प्रामाण्याधिक्यं सुवचम् । ‘त्वामेवाहुः कतिचिदपरे त्वत्प्रियं लोकनाथं किं तैरन्तःकलहमलिनैः किञ्चिदुत्तीर्यमग्नैः । त्वत्संप्रीत्यै विहरति हरौ संमु(न्मु)खीनां श्रुतीनां भावारूढौ भगवति युवां दैवतं दम्पती नः।’ इति परदेवताद्वन्द्वभूतसर्वशरण्यदिव्यदम्पत्योर्मिथस्स्पर्धाप्रसङ्गस्य वा न्यूनताधिक्यसंभावनाया वाऽशक्यशङ्कत्वात्, तदुल्लेखोद्यमस्य विरसविरसत्वाच्च वैषम्यगन्धरहितं निष्प्रत्यूहप्रणयघटितं नित्यानपायं साम्यं, स्नेहमयीत्वम्, ईश्वरत्वस्य तयोर्व्यासज्यवृत्तित्वं चाश्रयितुं योग्यम् । ‘न्यूनाधिकत्वसमताविषयैर्विवादैः’ इति गोदास्तुतौ न्यूनाधिकत्वयोः पूर्वपक्षत्वं, समतारूपसिद्धान्तपक्षे विश्रमश्च समतायाः सर्वोत्तरत्वेन चरमनिर्देशेन व्यञ्जितम् । श्रीमद्रामानुजसिद्धान्ते ईश्वरत्वस्य दम्पत्त्योर्व्यासज्यवृत्तित्वं वार्तामालाख्यद्रमिडग्रन्थे बह्वीषु पूर्वाचार्यवार्तासु स्पष्टं वर्णितम् । लक्ष्म्याः ऐश्वर्यस्यानन्तत्वं स्वाभाविकत्वं च स्पष्टं निगदितं पृथुगद्ये । तस्मात्प्रथमोक्ते ईश्वरस्यापीश्वरीत्वपक्षे नैर्भर्यं विहाय लोकनाथदयितात्वात् तस्याः स्वप्रजानाम् अभयसम्पत्तिसाधनेच्छायाः नायकं प्रति तद्विषयकस्ववचनस्य च कदाचिदपि भञ्जनं न क्रियेत स्वात्यन्तवल्लभेनेश्वरेणेतीदं, ‘लोकनाथदयितेति’ अव्यवहितानन्तरमेव सम्बोधनेन व्यज्यते । प्राचीनायां मुकुन्दमालायां ‘श्रीवल्लभे’त्युपक्रमपठितमत्र भाव्यम् । श्रीवल्लभत्वात् मोक्षरूपसर्वोत्तमश्रेयोभूतवरदाता भवति । वरदराजस्तवे श्रीमद्दीक्षितैः उपक्रममङ्गलश्लोके स्तोत्रप्रतिपाद्यवरदस्य मोक्षप्रदातृत्वं वरदसंज्ञयैव लब्धमिति, ‘श्रेयस्स मे दिशतु शाश्वतिकं मुकुन्दः’ इति चरमपादपठनेन व्यञ्जितम् ॥
‘दान्ते दयां ते विदन्’ - दासकुलपारम्पर्येण श्रीरङ्गनाथश्रीरङ्गनायकीभूतराजकुलदास्ये संवर्धितत्वात्, प्रत्यहं तद्वन्दितत्वेन तन्नन्तृत्वरूपशेषत्वस्याभ्यस्तत्वात्, ‘दान्तो यं वृषभयुवाहलशकटादिवहनयोग्यः कृतः’ इति, ‘शान्तो दान्त’ इति श्रुतौ दान्तशब्दस्यार्थवर्णकभामत्यनुसारेण नन्तृत्वरूपदान्तत्वं शेषत्वस्वरूपानुरूपस्तुतिकर्मप्रह्वत्वं कथञ्चिदस्ति । दान्ते मयि अदान्तत्वाभाववति ते सहजां दयां जानन् अहं निर्भयस्स्तोष्यामि । अदान्तत्वाभावः दान्तत्वरूपभावान्तरम् । अदान्तश्चेद्दयां नैवापेक्षेत । नापितां लभेत । नात्र दान्तिरूपभावगुणपौष्कल्यं विवक्षितम् । किन्तु ‘भावान्तरमभावोऽन्यो नान्योतोऽस्त्यनिरूपणात्’ इत्युक्तरीत्या अदान्तत्वाभावद्योतनेन यत्किञ्चिद्दान्तत्वरूपभावान्तरमात्रमत्राभिप्रेतमिव । दास्यं प्रपन्नत्वं चोभयमप्यस्मिन् स्तोतर्यस्ति । दासकुलजस्य स्तुतिरूपदासकर्मकरणे दान्तत्वमौत्सर्गिकमेव । ‘शरणमित्यपि वाचमुदैरिरम्’ इति, ‘भव शरणम्’ इति च वागुत्सृष्टा स्यादनेन । यद्यप्यहं त्वत्स्तुत्यपेक्षितज्ञानशक्त्यादिशून्यः, अहम् एतन्मात्रं जानामि, कथञ्चिद्दान्ते मयि त्वद्दया नियतेति । स्तोष्यामीत्यत्र द्वितीयश्लोकोत्तरार्द्धोक्त्या इतः परमेव मुख्यं स्तोत्रं प्रारप्स्यत इत्युच्यते ॥ २ ॥