१ कान्तस् ते

विश्वास-प्रस्तुतिः

कान्तस् ते पुरुषोत्तमः, फणि-पतिः शय्या, ऽऽसनं, वाहनं
वेदात्मा विहगेश्वरो, यवनिका माया जगन्-मोहिनी ।
ब्रह्मेशादि-सुर-व्रजः स-दयितस् त्वद्-दास-दासीगणः
श्रीर् इत्य् एव च नाम ते भगवति +++(न पृथग् विशेषणम् )+++, ब्रूमः कथं त्वां वयम् ॥ १ ॥

मूलम्

कान्तस्ते पुरुषोत्तमः फणिपतिः शय्याऽऽसनं वाहनं वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी ।
ब्रह्मेशादिसुरव्रजः सदयितस्त्वद्दासदासीगणः श्रीरित्येव च नाम ते भगवति ब्रूमः कथं त्वां वयम् ॥ १ ॥

वेङ्कटनाथः - कान्तस् ते कान्तस्त्-अ **कान्तस्त** इति । कान्तः - प्रियः, अनुरूपपतिरित्यर्थः । ते - सर्वमङ्गलास्पदत्वेन प्रमाणसिद्धायाः । एतत्-पद-द्वयाभिप्रेतं व्यञ्जितं गद्ये “देव-देव-दिव्य-महिषीम् (शरणागतिगद्ये)” इति ।
वेङ्कटनाथः - पुरुषोत्तमः

“द्वाविमौ पुरुषौ लोके (गीता १५.१६)” इत्य्-आदिभिस्
स्वेनैव निरुक्तेन परत्व-व्यञ्जकेन समाख्या-विशेषेण लक्ष्मी-कान्तं विशिनष्टि - पुरुषोत्तम इति ।
अत्र पञ्चम्य्-आदि-विभक्ति-त्रयेऽपि समासश् शब्द-वित्-सम्मतः ।
अनेन हिरण्यगर्भादीनाम् अपि भगवद्-अपेक्षया ऽधमत्व-व्यञ्जनात्
तत्-पत्नीभ्यः पुरुषोत्तम-पत्न्या उत्तमत्वं सूचितम् ।
अवतारेऽपि ह्यसौ “नारीणामुत्तमा (रामायणे बाल. १.२७)” इत्युच्यते ।
एवम् अस्याः पति-संबन्धेन प्रकर्ष उक्तः ।

वेङ्कटनाथः - फणिपतिः शय्या

अथ पत्युर् इव विभूति-संबन्धेनापि प्रकर्षं वदन्
नित्य-सूरि-परिवृढानाम् अपि एतद्-उपकरणत्वम् उदाहरति – फणिपतिः शय्येति
अत्र फणिपति-शब्देन सुरभिसुकुमार-शीतल-विशालोन्नतत्वादि-रूपाः पर्यङ्कगुणा व्यज्यन्ते ।
तत्-प्रभावश् च,

“कल्पान्ते यस्य वक्त्रेभ्यो
विषानल-शिखोज्ज्वलः ।
सङ्कर्षणात्मको रुद्रो
निष्क्रम्यात्ति जगत्-त्रयम् ॥
बिभ्रच्-छेखरी-भूतम्
अ-शेषं क्षिति-मण्डलम् ।
आस्ते पाताल-मूल-स्थः
शेषो ऽशेष-सुरार्चितः
तस्य वीर्यं प्रभावं च
स्वरूपं रूपम् एव च ।
हि वर्णयितुं शक्यं
ज्ञातुं वा त्रिदशैर् अपि ॥
(वि. पु. २.५.१९-२१)

इत्यादिषु प्रसिद्धः ।
स्तोत्रे च “तया सहासीनमनन्तभोगिनि (३९)” इत्यादौ ।

वेङ्कटनाथः - आसनम्

आसन-शब्द इह काकाक्षि-न्यायाद् उभयतो योज्यः ।
उक्तं ह्य् आद्ये पुराणे तन्-नाम-सहस्रे,

“भोगप्रिया भोगवती
भोगीन्द्र-शयनासना
(लक्ष्मीसहस्रनामस्तोत्रे १२० श्लो.)”

इति,

“अजिता कर्षणी नीतिर्
गरुडा गरुडासना
(लक्ष्मीसहस्रनामस्तोत्रे १०० श्लो.)”

इति च ।

वेङ्कटनाथः - वेदात्मा विहगेश्वरः

“वहेयं यज्ञं प्रविशेयं वेदान्”

इति सौपर्ण-श्रुति- (ऋग्वेदखिल-सौपर्णाध्याये ३०.१०) -विवक्षितं वेदाभिमानि-देवताधिष्ठातृत्वम् अभिप्रेत्याह - वेदात्मा विहगेश्वर इति ।
वेदाधिष्ठातृतया वेदानाम् आत्मा;
यद् वा, तद्-विशिष्टत्वेन तत्-समानाधिकरणतया वेद आत्मा यस्येति विग्रहः ।
“सुपर्णोऽसि गरुत्मान् (तैत्तिरीयसंहिता ४-१-४२)” इत्यादिष्व् अप्य् अस्य वेदात्मत्वं ग्राह्यम् ।
एवं सर्व-वेदाभिमानितया सर्वज्ञत्वम् अप्य् अस्य सूच्यते ।
बलादि-गुण-जातम् अपि अमृता(प)हरणादिषु प्रसिद्धम् ।

यद्यपि विहगेश्वर-शब्दः

“सत्यः सुपर्णो गरुडस्
तार्क्ष्यस् तु विहगेश्वरः”

इति श्रीसात्त्वतादिषु प्राणादि-पञ्चकाधिपतित्वेनावस्थितस्य गरुडस्य
व्यूह-विशेषम् अभिधत्ते,
तथाप्यत्र विशेषकाभावाद् गरुत्मन्-मात्र-विषयः ।

फणिपतिविहगेश्वरयोर् उपादानम् इह
मिथो विरुद्ध-जातीयैर् अप्य् अविरोधेन युगपत् सेव्यत्वं सूचयति ।
कैमुत्याद् अन्येषां नित्यानां मुक्तानाम् अप्य् एतत्-परिजन-परिच्छद-भावेनावस्थानं ख्याप्यते,
तेषाम् अप्य् एतद्-आज्ञा-करत्वम् उक्तं
श्रीवकुण्ठगद्ये “शेष-शेषाशनादि-सर्व-परिजनम्” इत्यादिना ।
एवं सर्वस्या अपि नित्य-विभूतेस् तच्छेषत्वं तात्पर्यतः प्रदर्शितम् ।

वेङ्कटनाथः - यवनिका माया जगन्मोहिनी

अथ लीलाविभूतौ अचिद्-अंशस्य प्रथमं तच्-छेषताम् आह
यवनिका माया जगन्मोहिनीति ।
अत्र यवनिका-शब्दाभिप्रेतं
गद्ये “भगवत्–स्व-रूप-तिरोधान-करीम् (शरणागतिगद्ये)” इति विवृतम् ।

एतद्-ग्रन्थ-द्वय-तात्पर्येण दिव्य-दम्-पत्योर्
अनाश्रितापेक्षया त्रिगुण-तिरस्-करण्या तिरोधेयत्वं फलितम् ।

माया-शब्दोऽयम्
“मायां तु प्रकृतिं विद्यात् (श्वेताश्वतरोपनिषत् ४-१०)”
इति प्रकृति-विषयतया श्वेताश्वतरैर् अधीतः ।
स च विचित्र-सृष्ट्य्-उपकरणतया प्रकृतेर् आश्चर्यमयत्वं व्यञ्जयति ।
जगन्-मोहिनीत्यनेन
जीव-परमात्मादिषु विपरीत-धी-हेतुत्वं
शब्दादि-गुण-परिणति-शबलित–स्व-विषय-भोग्यता-बुद्धि-जनकत्वं च विवक्षितम् ।

वेङ्कटनाथः - ब्रह्मेशादि-सुर-व्रजः

ईदृश-प्रकृति-मोहितानां कर्म-वश्यानां संर्वेषाम् अपि
विष्णु-पत्नी-शेषत्वम्
उत्कृष्ट-मुखेन कैमुत्य-न्यायाद् उपलक्षयति –
ब्रह्मेशादि-सुर-व्रजः सदयितस् त्वद्-दास-दासी-गण इति ।

प्रकर्ष-निदर्शनाद् ईश्वरत्व-शङ्कास्पदयोः

“एतौ द्वौ विबुधश्रेष्ठौ (भार. शान्ति. ३५०-१०)”

इत्य्-आद्य्-उक्तयोर् ब्रह्मेशयोर् अप्य्
अग्नीन्द्रादिभिर् ऐक-राश्य-सूचनाय व्रज-गण-शब्दौ ।
सदयित इत्य् उपादाने ऽप्य् औचित्यात्
दासी-शब्दस् तत्-पत्न्य्-अंशे ऽन्वेतव्यः ।

वेङ्कटनाथः - श्रीः भगवती

उक्तार्थे श्रुत्य्-आदीनि प्रमाणानि तिष्ठन्तु,
असाधारण-समाख्यैवालम् इति ख्यापयति -
श्रीर् इत्येव च नाम त इति ।

“श्रयन्तीं श्रीयमाणां च
शृण्वतीं शृणतीम् अपि
(अहिर्बुधन्यसंहिता २१.८)”

“शृणाति निखिलं दोषं
शॄणाति च गुणैर् जगत् ।
श्रीयते चाखिलैर् नित्यं
श्रयते च परं पदम् ॥
(अहि. सं. ५१.६२)”

इत्य्-आदि-निरुक्तिर् इहाभिप्रेता ।

“निस्-सङ्कल्पा निराश्रया (लक्ष्मीसहस्रनामस्तोत्रे १८ श्लो.)”

इति नाम तु

“श्रयते च परं पदम्”

इत्य्-आद्य्-अ-विरोधेन नेयम्

“अकलङ्का ऽमृताधारा (लक्ष्मीसहस्रनामस्तोत्रे १७ श्लो.)”

इति पूर्वोक्तानुसाराच् च ।

अ-मृतो हि परमात्मा,
तद्-आधारा चेयम् ।

अत एव हि सोऽपि श्री-निवासः,
श्रीधर इति च समाख्यायते ।
उक्तं च श्री-सात्त्वते -

“यतोऽहम् आश्रयश् चास्या
मूर्तिर् मम तदात्मिका”

इति ।

यन्-निवेशात् सर्वत्र प्राशस्त्य-धीः,
सैव हि ते समाख्येत्य् एव-काराभिप्रायः ।

निर्दोष-मङ्गल-गुणाकरत्व-ज्ञापनाय भगवतीत्य् उक्तिः ।

वेङ्कटनाथः - ब्रूमः कथं त्वाम्

ईदृशातिशय-शालिन्याः श्रियो यथावत् स्तोतुम् अशक्यतामाह - ब्रूमः कथं त्वाम् इति ॥
त्वाम् - उक्त-प्रक्रियया
विष्णु-पत्नीत्वेन, तद्-इतर-सर्व-शेषित्वेन, तद्-उचित-नाम-धेयादि-योगेन च प्रसिद्धाम्

“न ते वर्णयितुं शक्ता
गुणान् जिह्वाऽपि वेधसः
(वि. पु. १.९.१३३)”

इति चतुर्-मुखेनापि स्तोतुम् अशक्यतयोक्तां चेति भावः ।

वयं - परिमित-ज्ञान-शक्तयः ।

“ब्रह्माद्यास्सकला देवा मुनयश्च तपोधनाः ।
त्वां स्तोतुमपि नेशानास्त्वत्प्रसादलवं विना ॥”

इति वचनानुसारेण
ब्रह्मादीनां स्वस्य चात्राविशेष-व्यञ्जनाय बहुवचनम् ।

कथं ब्रूमः – कार्त्स्न्येन त्वद्वर्णनमशक्यं, परिच्छिद्य वर्णनं त्वनुचितमिति भावः ।

वेङ्कटनाथः - श्रीश् चेतनम्

ये पुनराहुः -

श्रीर् नाम भगवतः सर्व-कर्तुर् अधिष्ठेया प्रकृतिर्

इति, ये च

तस्य सत्ताऽहन्ता-प्रभा-शक्ति-विद्येच्छा-भोक्तृतादि-रूपेयम्,
शास्त्रेषु तथा-तथा व्यपदेश-दर्शनाद्

इत्य् आहुः;
तेषां तत्र-तत्रैव शास्त्रे निर्बाधेन चेतनत्व-व्यपदेशेन निरासः ।

अत्राप्य् अयम् अर्थः -
ते त्वाम् इति युष्मच्छब्देन,
संबोधनेन च श्रियश् चेतनत्वम् उपस्थापयता सूचितः ।

सत्तादि-शब्दास् त्व् अस्यां भगवद्-अन्तर्-अङ्ग-विशेषणत्वाद्य्-अभिप्रायाः ।
प्रकृतेर् अन्यत्वं तु
ते यवनिकेत्य्-अनेनापि दर्शितम् ।

न चास्याः प्रकृति-शब्दोपात्तता-मात्रेण त्रिगुण-द्रव्य-तादात्म्यम्,

“वासुदेवः परा प्रकृतिः (पाञ्चरात्राधिकरण-भाष्ये)”,

“प्रकृतिश् च प्रतिज्ञा-दृष्टान्तानुपरोधात् (ब्र. सू. १.४.२३)”

इत्य्-उक्ते
भगवत्य् अपि प्रसङ्गात् ।

“जगद्-उत्पादिका शक्तिस्
तव प्रकृतिर् इष्यते ।
सैव नाम-सहस्रैस् तु
लक्ष्मीः श्रीर् इति कीर्त्यते ॥”,

“मूल-प्रकृतिर् ईशानी (लक्ष्मीसहस्रनामस्तोत्रे ६६ श्लो.)”,

“प्रकृतेः पुरुषाच् चान्यस्
तृतीयो नैव विद्यते”

इत्य्-आदीनि ब्रह्म-वचनान्य् अपि
लक्ष्मी-नारायणयोः प्रकृति-पुरुष-रूप–विभक्त-विभूति-विशेषाभि(मानित्वाभि)प्रायाणि ।

रहस्याम्नाये तु
प्रकृतौ लक्ष्म्यां च विद्या-शब्दः प्रयुक्त
इत्य् एतावताऽपि न तयोस् स्वरूपैक्यम् ।
तत्र हि
सत्त्वोन्मेष-मुखेन विद्या-हेतुतया प्रकृतौ विद्याशब्दः,
लक्ष्म्यां तु विद्या-प्रवर्तकत्वाद्
इति विशेषः ।

वेङ्कटनाथः - श्रिया भिन्न-चेतनत्वम्

ये तु

सत्तादि-विशिष्टो भगवान् एव श्रीर्

इति वा,

श्री(स्त्री)-रूप-नित्य-विग्रहान्तर-विशिष्टः स एवेयम्

इति वा,

दैत्य-मोहन-भूमिका-परिग्रह-न्यायेन
स्वयम् एव भोगार्थं परिगृहीत-कादाचित्क-कान्ता-विग्रहः
स एव श्रीर्

इति वा वदन्ति;
तेऽपि तद्-विषय-निर्बाध-नित्य-भिन्न-चेतनत्व-व्यपदेशकैस् तैस् तैरेव शास्त्रैः निराकृताः ।

“ह्रीश्च ते लक्ष्मीश्च पत्न्यौ (उत्तरनारायणानुवाके)”

इति श्रुतिश् च
पत्युः पत्न्याश् च स्वरूप-भेदं स्वरसतो दर्शयति ।
न चात्रानन्यथा-सिद्धं बाधकम् अस्ति ।
इदम् अप्य् अत्र “कान्तस् ते” इति व्यधिकरण-निर्देशेन व्यञ्जितम् ।

वेङ्कटनाथः - श्रीर् नावयवमात्रम्

ये च मन्यन्ते -

भगवत एव स्वरूपैकदेशः पृथग्-अहन्तया परस्-पर-भोक्तृत्वाय
सर्वदा परिगृहीत-स्त्री-रूपः श्री-शब्दार्थः;
तेन भेदाभेद-व्यपदेशयोश् चेतनत्वस्य चाविरोध

इति;
तेऽपि ब्रह्मणः स्वरूपतो निरवयवत्वं प्रतिपादयद्भिः प्रमाणैर् निरस्ताः ।

“नर-नारीमयो हरिः” इति ब्राह्म-पुराण-वचनेन तु
हरेर् नारीमयत्व-व्यपदेशः
“ज्योत्स्नेव हिम-दीधितेः (सन. सं.)” इति तत्रत्यदृष्टान्तानुसारेण
प्रभाश्रयस्य प्रभामयत्व-व्यपदेशवत्
स्वरूप-भेदाविरोधेन निर्वाह्यः ।

एतेन

बीजादेर् अङ्कुरोपादानांशवद्
विश्वोपादानस्य ब्रह्मणः
कार्योपयुक्त-स्वरूपैकदेश एव
स्वभावतो वा परिणति-शक्त्या वा, उपाधिभेदेन वा
भिन्नाहन्ताश्रयः “श्रीर्” इति व्यपदिश्यत

इति पक्षोऽपि प्रतिक्षिप्तः;
ब्रह्मणः स्वरूप-परिणामादेश् च शारीरके निरस्तत्वात् ।

उपहितांश-भेद-पक्षस् तु

विग्रहाद्य्-उपाधौ सञ्चरति निरवयवे ब्रह्म-स्वरूपे
सरिज्-जलादौ घटादिनेवोपाधिना
कस्यचिद् अंशस्यान्यत्राकर्षणायोगात्,

घटाकाश-न्यायेन पूर्व-पूर्वोपहितांश-परित्यागे तु
तत्-तद्-अंश-रूपस्य +++(पृथग् अनुभव-)+++भोक्तुर् अ-भावाद्
उत्तरोत्तरोपहितांशानां पूर्व-पूर्वांशानुभूत-भोग-प्रतिसन्धानानुपपत्तेः,
भोक्तृ-सन्तत्य्-एकता-मात्रेण प्रतिसन्धाने
+++(क्षणिकवादि-)+++सौगत-मतोन्मज्जनेन स्थिरात्म-परित्याग-प्रसङ्गाच्
चात्यन्तानुपपन्नः ।

अवतारपरिणामोपाधिभिन्नांश-वादिनो लक्ष्म्यादेर् नित्य-देहादि-प्रमाणैश्च निरासिरे ।
एतद् अपि सर्वम् अत्र व्यधिकरण-प्रयोगेनैव सूचितम् ।

“कीर्तिश् श्रीर् वाक् च नारीणाम् (गीता १०.३४)”

इत्य्-आदि-समानाधिकरण-प्रयोगश् च
पूर्वापरवत् स्व-रूप–भेदेऽपि संबन्ध-विशेष-निबन्धनः ।

“विष्णोश् श्रीर् अनपायिनी" (वि. पु. १.८.१७)

इत्यादिभिर् व्यधिकरण-प्रयोगैश्च भेदस् सिद्धः ।

वेङ्कटनाथः - न कर्मवश्या

तर्ह्य् अग्र्य-प्राय-न्यायात् सह-पठित-नार्य्-अन्तरवत् कर्म-वश्यत्वं स्यात्।

न स्यात्, वचन-विरोधे न्यायस्यानवकाशात् ।

न चेद् एवम्

“आदित्यानाम् अहं विष्णुः (गीता १०.२१)”,
“वृष्णीनां वासुदेवोऽस्मि (गीता १०.३७)”,
“अनन्तश्चास्मि नागानां
वैनतेयश्च पक्षिणाम् (गीता १०-३०)”

इत्यत्र कुतस् तथात्व-निस्तारः?
“निर्धारणाद्” इति चेन् न ।
साजात्येऽपि वैषम्य-मात्रेण तद्-उपपत्तेः ।
ईश्वरत्वानीश्वरत्व–कर्म-वश्यत्वाकर्मवश्यत्वादौ तु
प्रमाणान्तरम् एव शरणम् इति ।
इदं चास्याः कर्म-वश्य-वैजात्यम् इह ब्रह्मादिभ्योऽप्यधिकत्वोक्त्या प्रकाशितम् ।

वेङ्कटनाथः - विग्रहैक्यं क्वचिद् उभयेच्छया

नन्व् अर्ध-लक्ष्मीक-विग्रह-योगः
श्रीपतेः श्रियश् च विग्रहैक्यं स्व-रूपैक्यं भेदाभेदं वा सूचयति ।
उक्तञ् च श्री-विष्णु-वैभवाधिकारे –

“त्वं यादृशोऽसि कमलाम् अपि तादृशीं
ते दारान् वदन्ति युवयोर् न तु भेद-गन्धः ।
माया-विभक्त-युवती-तनुम् एकम् एव
त्वां मातरं च पितरं च युवानम् आहुः ॥”

इति ।

तन् न; उभयेच्छया विग्रह-मात्रस्यैकीकरण-संभवेनान्यथाप्य् उपपन्नतया
विग्रहैक्यस्य श्रुत्य्-आदि-विरुद्ध-स्वरूपैक्यादि-कल्पकत्वायोगात् ।

तथाप्य् एकेनैव परमात्मना यथा-कथञ्चित् सर्व-निर्वाहे
किम् अत्रात्म-भेद-स्वीकारेण

इति चेन् न,
कॢप्तौ वक्तव्यस्य
श्रुतौ वक्तुम् अयुक्तत्वात् ।
उक्ता च श्रुतिः प्राग् एव ।
तद्-अनुगुणं च श्री-विष्णु-स्मृतौ (९९.६) भूमि-वाक्यम्

“आक्रम्य सर्वां तु यथा त्रिलोकीं
तिष्ठत्य् अयं देव-वरो ऽसिताक्षि ।
तथा स्थिता त्वं वरदे तथापि”

इत्य्-आदिकम् ।

वेङ्कटनाथः - दम्-पत्योर् न स्वरूपैक्यम्

“नानयोर् विद्यते परम् (वि. पु. १.८.३५)”

इत्यादिभिः पुराणवचनैः,

“एक-तत्त्वम् इवोदितौ (अहिर्बुध्न्यसंहिता ३.२६)”

इत्य्-आदि-भगवच्-छास्त्र-वचनैश् च
स्व-रूपैक्यम् अनयोर् अपास्तम् ।
लाघव-तन्-मात्रावलम्बने तु
सर्वेषाम् अप्य् आत्मनाम् ऐक्यं प्रसजेत् । +++(4)+++

आत्म-भेदम् अनिच्छन्तो
भाष्यादिषु निराकृताः
दिव्ययोस् त्व् इह दम्पत्योः
मिथो भेदः प्रसाधितः ॥ २ ॥

सर्वेषाम् आत्मनां यैस् तु
भिन्नाभिन्नत्वम् इष्यते
लक्ष्मी-नारायणैक्योक्तिस्
तेषां, सद्भिर् उपेक्ष्यते ॥ ३ ॥

यत्र क्वचिद् अ-भेदोक्तिर्
यद्य् आप्त-वचने भवेत् -
“राम-सुग्रीवयोर् ऐक्यम् (रामा. सु. ३५.५१)
इत्य्-आदिवद् इहास्तु सा ॥ ४ ॥

वेङ्कटनाथः - न माया

अत्र निर्विशेष–चिन्-मात्र–ब्रह्म–स्व-रूप–तिरोधान-करी मिथ्या-भूता मायैव
कल्पित-रूप-विशेषोपश्लिष्ट-ब्रह्म-प्रतिच्छदवती
लक्ष्मीर् इत्य् उच्यते

इति पक्षोऽपि तादृश-ब्रह्म–तत्-तिरोधानादि-निरासाद् एव निर्धूतः ।
इदम् अप्य् अत्र मायायाः
प्रस्तुत–दम्-पति–व्यतिरिक्त–जगन्-मोहनत्वोक्त्या प्रख्यापितम् ।

वेङ्कटनाथः - न मायया बाधा

ननु यवनिका बहिर्-अन्तस्-स्थितयोः दृष्टि-प्रसर-निरोधेन
मिथोऽवलोकन-विरोधिनी लोके दृष्टा ।
अतः श्रियोऽपि यवनिका तथा स्यात् ।

मैवम्, तद्-अधीन-सर्व-व्यापारया मायया
तस्याः सर्व-विषय–सह-ज–दृष्टि-निरोधायोगात्,
क्षेत्र-ज्ञानाम् अपि
भगवन्-मायया धी-सङ्कोचस्य दुष्कृतोपाधिकत्वात्,
अ-कर्म-वश्येषु नित्य-मुक्तेश्वरेषु तत्-प्रसङ्गाभावाद् इति ।

वेङ्कटनाथः - न क्षुद्रैस् तादात्म्यम्

अस्तु तर्हि कर्म-वश्य-तादात्म्यात् कर्म-फलान्वयः,
ब्रह्मादीनां कर्म-वश्यत्वं तावत्

“युग-कोटि-सहस्राणि
विष्णुम् आराध्य पद्म-भूः ।
पुनस् त्रैलोक्य-धातृत्वं
प्राप्तवान् इति शुश्रुम ॥
(इतिहाससमुच्चये १३.८)”

इत्यादिभिः प्रसिद्धम्,
किं पुनस् तत्-पत्नीनाम् ।
ताभिश् च तादात्म्यम् अस्यास्
तत्र-तत्र विशेषतस् तत्-तत्-सामानाधिकरण्येन व्यज्यते ।

गायत्री-कल्पेषु च सन्ध्यात्रये वर्ण-वाहनादि-विशेषितं रूप-त्रयम्
एकस्या एव देवतायाः प्रतिपाद्यते ।
उक्तं च कैश्चिल् लक्ष्मी-स्तोत्रे - “गीर्-देवतेति गरुड-ध्वज-वल्लभेति” इत्य्-आदिभिः ।
अतः कर्म-वश्य-तादात्म्याद् यवनिका-रूपित-माया-तिरोहित-ज्ञानत्वम् अस्या उपपद्यत

इति ।
तद् असत् ।
विशेषतः सामानाधिकरण्यस्य
“यद्-यद्-विभूतिमत् सत्त्वम् (गीता १०.४१)”
इत्य्-उक्तेन विभूत्य्-अध्याय-न्यायेन निर्वाहात् ।
तापनीयोपनिषदि, घृतसूक्ते च
लक्ष्म्यास् ते ते शब्दा अपि
निरुक्ति-विशेषैस् तत्-तद्-विभूति-योगेन वा नेतव्याः ।

गायत्रीकल्पानां तु लक्ष्मी-विभूति-भूताया एव गायत्र्य्-आख्यायाः देवतायाः
सन्ध्या-भेदेन वैष्णव्य्-आदि–समाख्यानुगुण-वाहन-रूपादि-परिग्रह-शक्त्या
माहात्म्य-वर्णने तात्पर्यं
तत्र तत्र व्यक्तम् ।
तादृशाश्च वाहनादयो ऽन्ये स्युः ।
न हि सारूप्य-मात्रेण
त एवैता इति निश्चयः,
अनेकेषाम् एक-जातीय-वाहनादि-दर्शनात् ।+++(5)+++

द्रुहिणादिषु केषांचिद्
ईश्वर-व्यक्तिता-भ्रमात्
तत्-पत्नीष्व् अपि लक्ष्म्य्-अंश-
वादः श्रुत्यादि-बाधितः ॥ ५ ॥

एतदभिप्रायेण ह्य् अत्रोक्तम् -
स-दयितस् त्वद्-दास-दासी-गण इति ।

वेङ्कटनाथः - सर्वशेषिता

अस्त्व् एवं, तथापि स्त्र्य्-अंश-मात्रापेक्षयैव
श्रियो विभूतिमत्त्वम् अस्तु,
ब्राह्म-वैष्णवादि-पुराणेषु तथा दर्शनात् ।
अतः श्रीमत एव सर्व-विभूति-शेषित्वम्

इति । अत्र ब्रूमः -

“दासभूताः स्वतस् सर्वे
ह्य् आत्मानः परमात्मनः
(अहर्बुध्न्यसंहितायां मन्त्रराजपदस्तोत्रे १२ श्लो.)”

इत्य्-आदिभिः सर्वेषाम् आत्मनां परमात्म-दासत्व-सिद्धेः
“जायापत्योर् न विभागः (आप. धर्म. २.६.१५.१६)” इति न्यायात्
पति-दासानां पत्नी-दासत्वम् अवर्जनीयम् ।

नन्व् एवं पत्न्या अपि पति-दासत्वे सति,
तां प्रति (पति)दासानां दासत्वम् अयुक्तं स्यात् ।

तन् न,
लोके वेदे वा क्वचिद् अपि
पत्न्याः पतिं प्रति दासत्वाभावात् ।
अत एता हि

“यदा यदा हि कौसल्या
दासीवच् च सखीव च
(रामा. अयो. १२.६८)”

इति दृष्टान्ततयोच्यते ।

“अहं शिष्या च दासी च
भक्ता च तव माधव”

इति (वाराहे) भूमि-वचनम् अप्य् उपचारतो नेयम् ।
यद्य् अपि पत्नीनां पति-दासत्वं,
तथाऽपि पति-दासान्तराणां तद्-दासत्वम् अपि
यथालोकं युज्यते ।
अस्ति च
सर्वेषां भगवद्-दासत्वेऽपि तत्-तद्-उपाधिभिः मिथो दासत्वम् ।
इह त्व् एकयैवेच्छया विभूति-द्वयस्य नित्यम् उभयार्थतयोपात्तत्वाद्
देवता-द्वन्द्व-हविर्-न्यायेन ब्रह्मादीनाम् उभय-शेषत्वं युक्तम् एव ।
गद्यादिषु विभूति-मध्ये तस्याः पाठोऽपि
पत्य्-अपेक्षया पारार्थ्य-मात्र-साम्याद् उपपन्नः ।

आत्मान्तराणां सर्वेषां
लक्ष्मी-तत्-पति-दासताम् ।
+++(ॐकारे)+++ ‘मकारस् तु तयोर् दास’
इति केचिद् अधीयते ॥ ६ ॥

एवं सति
भगवत्-पत्न्य्-अन्तरापेक्षया ब्रह्मादीनां दासत्वं भवतु वा मा वा,
उक्तं तावद् उपपन्नम् ।

अतः

“पुन्नामा भगवान् हरिः ।
स्त्री-नाम्नी लक्ष्मीर् मैत्रेय
(वि. पु. १.८.३५)”,

“यो यो जगति पुम्भावः
स विष्णुरिति निश्चयः ।
यो यस्तु नारीभावः स्यात्
तत्र लक्ष्मीर्व्यवस्थिता ॥
(सनत्कुमारसंहिता)

इत्याद्य्-उक्तो विभूति-विभागस् तु

लौकिक–दम्-पत्योर् यथोचित-विनियोगानुगुण-भूषणादि-विभागवन्
नित्येच्छा-नियमित-विशेषाभिमानार्थ

इत्य्-अभिप्रायेण
फणि-पत्य्-आदीनाम् अप्य् अत्र लक्ष्मी-शेषत्वोक्तिर् इति ।

वेङ्कटनाथः - श्री-स्वरूपम्

केचित् तु नाना-विध-वादि-विप्रतिपत्ति-मोहिताः
“सर्वथा दुर्-निरूपं लक्ष्मी-तत्त्वम्” इति मन्यन्ते ।
तेऽप्ये् एवम् इह निरूपणेन निर्धूताः ।

किञ्च सद्–अ-सद्–अ-निर्वचनीयत्वादि-रूप-दुर्-निरूपत्वं
तत्-तन्-मत-निरासाद् एव निरस्तम् ।

येन-केनचिद् आकारेण दुर्निरूपत्वं तु
सर्वत्रापि संभवति,
उपयुक्तांश-निरूपणस्यापि संप्रतिपन्न-साम्यान्
नात्र विशेष इति ॥ १ ॥+++(4)+++

गोपालः

ततोऽपि स्तोत्ररत्नस्य पूर्वरचितत्वसम्भवः । श्लोकचतुष्टयमात्रघटितेयं स्तुतिः । मातृविषये शिशुत्वमभिमन्यत इव । सौन्दर्यलहर्यां श्रीशङ्करभगवत्पादैः द्रमिडशिशुरित्यात्मा मातृसन्निधौ निर्दिश्यते । मातृप्रसादनाय दीर्घस्तुतेरनपेक्षा । शारीरकाध्यायसंख्याऽऽदृता चतुस्संख्ययास्य स्तोत्रस्य । शारीरकाध्यायविषयाः क्रमेणास्यां चतुश्श्लोक्यां भगवतीव श्रियामपि संघटन्ते । ‘स्वशेषाऽशेषार्थो निरवधिकनिर्बाधमहिमा फलानां नेता यः फलमपि च शारीरकमितः । श्रियं तत्सध्रीचीं तदुपसदनत्रासशमनीमभिष्टौति स्तुत्यामवितथमतिर्यामुनमुनिः ॥’ इत्याचार्यश्लोकोऽत्र भाव्यः । अनेन ईश्वरत्वस्य मिथुने व्यासज्यवृत्तित्वं सिध्यति । ‘लोककान्तस्य कान्तत्वात्’ इति रामविषये गीतमादिकविना । सर्वलोककमनीयः सर्वलोककान्तः श्रियः कान्तः । ते कान्तः सर्वलोककान्तः । ते कान्तः पुरुषोत्तमः । श्रीकान्तमुद्दिश्य पुरुषोत्तमत्वं विधीयते । उद्देश्यं पूर्वं, विधेयं परम् । ‘ह्रीश्च ते लक्ष्मीश्च पत्न्यौ’ इति पुरुषसूक्तोत्तरानुवाकः । श्रीभूमिपत्नीयुगलदर्शने भर्तुः पुरुषसूक्तप्रतिपाद्यस्य पुरुषस्याभिगम्यत्वं निश्चित्य तत्संनिकर्षं प्राप्य ‘ते’ इति तत्रैव प्रत्यक्षं संबोध्यते तत्पूर्वं परोक्षतयैव भगवन्निर्देश कृतः ‘स’ इत्यादिना । तत्र पत्या पत्न्यौ निरूप्येते, ‘ते पत्न्यौ ह्रीश्च लक्ष्मीश्च’ इति । अत्र पतिर्निरूप्यते पत्न्या ‘ते कान्तः पुरुपोत्तमः’ इति, ‘रामानुजं लक्ष्मणपूर्वजं च’ इति न्यायेन । ‘मातर्लक्ष्मि यथैव मैथिलजनस्तेनाध्वना ते वयं त्वद्दास्यैकरसाभिमानसुभगैर्भावैरिहामुत्र च । जामाता दयितस्तवेति भवतीसम्बन्धदृष्ट्या हरिं पश्येम प्रतियाम याम च परीचारान् प्रहृष्येम च ॥’ इति श्रीगुणरत्नकोशश्लोकोऽत्र भाव्यः । ‘पुंसूक्तादिप्रसिद्धो गुणनिधिरघजिद्ब्रह्मशब्दार्थ उक्तः’ (1.1.35) ‘नानागमोद्यद्विशयशमनतश्श्रीमति ब्रह्मतोक्तेः’ (1.1.38) इति सारावल्युक्तमिह भाव्यम् ॥
ते कान्तः पुरुषोत्तमः इत्यत्रोपक्रम एव पठनेन श्रीभाष्यप्रदर्शितरीत्या ब्रह्मशब्दार्थोपक्रमत्वं स्तोत्रस्य ब्रह्मशब्दार्थोपक्रमत्वं लभ्यते । पुरुषोत्तमस्यैव मोक्षप्रदत्वप्रसिद्धिः खण्डनखाद्यग्रन्थकृता श्रीहर्षेण प्रख्यापिता नैषधीयद्वितीयसर्गारम्भे ‘अधिगत्य जगत्यधीश्वरादथ मुक्तिं पुरुषोत्तमाद्यथा । वचसामपि गोचरो न यः स तमानन्दमविन्दत द्विजः ॥’ (2.1) इति । एतन्नाम्ना तृतीयश्लोककथितवैष्णवाध्वपारगमनरूपश्रेयःप्रदानसामर्थ्यम् एतद्दिव्यमिथुनस्यास्तीति सच्यते । ‘वेदान्तास्तत्त्वचिन्तां मुरभिदुरसि यत्पादचिह्नैस्तरन्ति’ इति श्रीगुणरत्नकोशे श्रियः पतित्वस्य परब्रह्मोपलक्षकत्वं कथितमिव । ‘ते’ इति वदन् मातृनिकटे आगत्य तां संबोधयति । ‘ते’ इति पदेन ‘ते पत्न्यौ’ इति श्रुतिः स्मार्यते । ‘लक्ष्मीस्ते पत्नी’ इति भगवन्तमुद्दिश्य प्रयुक्तस्य वाक्यस्य स्थानेऽत्र मातरमुद्दिश्य ‘ते कान्तः पुरुषोत्तमः’ इति पदविपरिणामः क्रियते । ‘श्रीमान् लोकत्रयाश्रयः’ हति सहस्रनामसु पठनेन श्रीमत्त्वात् लोकत्रयं तमाश्रयते, इतरथा तस्याऽभिगम्यत्वमेवन स्यादितीदं व्यज्यते । ते इत्यत्र संबोध्या प्रति निर्देशः ‘श्रीरित्येव च नाम ते’ इति चतुर्थपादे श्लोकान्ते पुनरभ्यस्ते । ते, ते, इति पुनः पुनः पठनं ‘ह्रीश्च ते लक्ष्मीश्च पत्न्यौ’ इत्यत्र ते पदस्यानुकरणं, आदरबाहुल्येनाम्रेडनं च व्यञ्जयति ॥
पुरुषोत्तमशब्दो भगवति लोकवेदप्रसिध्या रूढः । तस्मिन्नेव मुख्यवृत्तः । अन्यत्र तद्गुणलेशयोगादौपचारिकः । ‘यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः’ इति गीताश्लोकः स्मार्यतेऽत्र पुरुषोत्तमशब्दपठनेन । ‘प्रथितः’ इति गीताश्लोकपदेन रूढिरूपा प्रसिद्धिर्द्योत्यते । प्रथितः प्रसिद्धः । कूटस्थशब्दवाच्यादक्षरान्मुक्तात्मनोऽपि अतीतत्वरूपाधिकत्वम्, उभयविभूतिनायकत्वं च द्योत्यते । पुरुषोत्तमशब्दनाक्षरशब्दवाच्यसर्वभूतानि लीलाविभूतिः । कूटस्थशब्दवाच्यनिर्विकारनित्यमुक्तपुरुषाः नित्यविभूतिस्थाः । फणिपतिः, विहगेश्वरः इति नित्यसूरिपरिचर्यमाणोक्तिः पूर्वार्धे नित्यविभूतिनायकत्वं गमयति । उत्तरार्धे ब्रह्मेशादिसुरव्रजतद्दयितादिस्वाम्यकथनेन लीलाविभूतिनायकत्वं समर्प्यते । नागोत्तमशब्दवत्पुरुषोत्तम शब्दो विगृह्यते शाब्दिकैः पुरुषेषूत्तम इति । ‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः’ इति गायता भगवता उत्तमः पुरुषः इति व्यस्तप्रयोगेऽपि इयं रूढिरस्तीति ज्ञाप्यते । ‘परं ज्योतिरुपसम्पद्य स्वेनरूपेणाभिनिष्पद्यते, स उत्तमः पुरुषः’ इति दहरप्रजापतिविद्ययोरभ्यस्तश्रुतिवाक्ये पठितः ‘उत्तमः पुरुषः’ नारायणपरो ज्योतिः पुरुषोत्तमः । श्रीशाङ्करगीताभाष्ये ‘आभ्यां क्षराक्षराभ्याम् अन्यः विलक्षणः, क्षराक्षरोपाधिद्वयदोषेणास्पृष्टो नित्यशुद्धबुद्धमुक्तस्वभावः - उत्तमः उत्कृष्टतमः पुरुषस्त्वन्योऽत्यन्तविलक्षणः आभ्यां परमात्मा इति परमश्चासौ देहाद्यविद्याकृतात्मभ्यः, आत्मा च सर्वभूतानां प्रत्यक् चेतनः, इत्यतः परमात्मेति उदाहृतः उक्तः वेदान्तेषु । स एव विशेष्यते यः लोकत्रयं भूर्भुवस्स्वराख्यं स्वकीयया (चैतन्य)बलशक्त्या आविश्य प्रविश्य बिभर्ति स्वरूपसद्भावमात्रेण बिभर्ति धारयति, अव्ययः न अस्य व्ययः विद्यते इत्यव्ययः, कः, ईश्वरः सर्वज्ञः नारायणाख्यः ईशनशीलः ॥
यथा(व्या)ख्यातस्य ईश्वरस्य ‘पुरुषोत्तमः’ इत्येतत् नाम प्रसिद्धम् । तस्य नामनिर्वचनप्रसिद्ध्या अर्थवत्वं नाम्नो दर्शयन् ‘निरतिशयः अहमीश्वरः’ इत्यात्मानं दर्शयति भगवान् - यस्मात् क्षरमतीतः अहं संसारमायावृक्षम् अश्वत्थाख्यम् अतिक्रान्तः अहम् अक्षरादपि संसारमायारूपवृक्षबीजभूतादपि च उत्तमः उत्कृष्टतमः ऊर्ध्वतमो वा, अतः ताभ्यां क्षराक्षराभ्याम् उत्तमत्वात् अस्मि लोके वेदे च प्रथितः प्रख्यातः । पुरुषोत्तमः इत्येवं मां भक्तजनाः विदुः । कवयः काव्यादिषु च इदं नाम निबध्नन्ति’ इति । ‘हरिर्यथैकः पुरुषोत्तमः स्मृतः’, ‘स उत्तमः पुरुषः’ इत्यादि लेकिवेदप्रसिद्ध्या पुरुषोत्तम इति मां भक्तजना विदुः’ इति तत्र भाष्योत्कर्षदीपिका व्याख्या । ‘राघवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम्’ इत्ययोध्याकाण्डारम्भे राघवस्य पुरुषोत्तमत्वं तन्नामसंपादकापूर्वषड्गुणविशिष्टत्वं चोक्तम् । ‘राघवत्वेऽभवत्सीता’, ‘सीता लक्ष्मीः’ इति पराशरः । राघवं कामयमाना रावणावरजा राक्षस्यपि राघवे पुरुषोत्तमशब्दं प्रयुयुजे । ‘पुरुषोत्तमः कः’ इति प्रष्टुः यामुनाचार्यस्य ईश्वरभक्तं कालिदासं पृच्छ इति भावः ॥
यथा त्वत्कान्तः पुरुषोत्तमः तथा त्वं ‘नारीणामुत्तमा वधूः’ । सुतरां तुल्यत्वं दम्पत्योः । श्रियः पतेः अनुरूपः शय्या फणिपतिः । ईश्वरमिथुनस्य फणिपतिः शय्या, सिंहासनं च, विहगेश्वरः औपवाह्यम् इति पतीश्वरशब्दाभ्यां शय्यावाहनविषयप्रयुक्ताभ्यां द्योत्यते । कान्तर्योर्दम्पत्योः कीर्तने तयोः का उत्तमा शय्या इत्याकाङ्क्षा सहजा । सा सद्य एव पूर्यते फणिपतिश्शय्या इति कीर्तनेन । योगीश्वरमिथुनमिदं सिद्धानां योगिनां सन्निधौ मिथश्शत्रूणां शाश्वतिकविरोधिनामपि परस्परं वैरत्यागो भवति इति सूत्रितं भगवता पतञ्जलिना ‘तत्सन्निधौ वैरत्यागः’ इति । फणिपतिपन्नगाशनयोरत्र शेषिदम्पत्योस्सकाशे परममैत्र्या सततसहसन्निधानं स्वामिनोर्नित्यसिद्धयोगित्वं सूचयति । फणिपतिः शय्या आसनं च भवति । ‘तया सहासीनमनन्तभोगिनि प्रकृष्टविज्ञानबलैकधामनि । फणामणिव्रातमयूखमण्डलप्रकाशमानोदरदिव्यधामनि ।’ इति स्तोत्ररत्नश्लोकोऽत्र भाव्यः । ‘अनन्तभोगिनि’ इति तत्रत्यपदस्यार्थद्वयं ग्राह्यम् । अनन्तनामा भोगी तस्मिन्नित्येकोऽर्थः । अनन्तसुखिनीत्यपरोऽर्थः । आसीनयोश्शयानयोश्च दम्पत्योरिवास्यानन्तस्यापि भोगः सुखानुभवोऽनन्तः । तद्भोगानवरो भोगो न भोगोऽस्य । कदाचित् दम्पत्योश्शय्यासनभोगः सान्तस्स्यात् । तयोर्भोगस्य सान्तत्वकल्पनेऽपि अस्य फणिपतेश्शय्यासनभूतस्य नियमेनाऽऽनन्त्यमेव भवति ॥
शय्या प्रायेण अचेतना भवेत् । अनयोश्शय्या प्रकृष्टविज्ञानबलैकधामा सर्वज्ञश्चेतनः । चेतनस्य शय्याभवनेऽस्ति भूयस्सौकर्यम् । शयानदम्पत्योस्सदा जाग्रता शेषिदम्पत्यभीष्टसर्वविधसुखसम्पादनैकनिरतेनानन्तेन शय्या भूतेन शेषिणोस्तदा तदा जायमानसर्वेच्छाज्ञात्रा तयोर्यथा यया सुखं जायेत तथा तथा आत्मानं विपरिवर्तनविपरिणमनाभ्यां प्राध्वं कारयितुं शक्यते । एतस्य चेतनत्वमनुकूलम् । विश्वं बिभ्रितोरनन्तस्वरूपयोः दम्पत्योर्भरणे चेतनभूतशय्यायाः दुर्भरभारवहनेन दुःखवेदनासम्भवोऽस्ति । शय्याया अचेतनत्वे नेदृशकष्टस्यापातसंभवः । सुदुर्वहसुमहद्भारपीडितश्चेतनः वेदनाबलेन भृशमुछ्वसेन्निश्वसेच्च । शय्यायाश्चेतनत्वे ईदृशं कष्टमापद्येत । विश्वं कृत्स्नं शिरोभिः सततं लीलयैवानायासेन बिभ्राणस्यानन्तस्य बलस्यानन्तत्वात् न तस्य मनागपि व्यथाजनिः अनन्तशेषिमिथुनभारवहनादिना इति व्यञ्जितं ‘प्रकृष्टविज्ञानबलैकधामनि’ इति स्तोत्ररत्नश्लोके विज्ञानबलयोर्निरवधिकत्वकथनेन । ‘एकधाम’ इत्यत्र एकशब्देन ज्ञानबलकाष्ठयोस्सहवर्तित्ववैरल्यं सूच्यते । चेतनसंभावितभारवहनवेदनाजनितोच्छ्वासनिःश्वासाभावः बलिष्ठायामचेतनायां शय्यायां सुसंभवः । सर्वेश्वरेश्वरः कान्तः पुंप्रधानेश्वरेश्वरी लोकैकेश्वरी अस्य जगतः ईशाना पत्नी । सर्वलोकेश्वरमिथुनस्यासनं सिंहासनमेव भवेत् । पुरुषोत्तमपदस्य विग्रहप्रतिपादनेऽस्ति काचिद्दुर्घटता । सा च फणिपतिभाष्येण घट्यते । नागोत्तमादिवत्सिद्धं भवतीति तद्भाष्यभाषितमपि अस्य कवेः स्मृतिपथमारूढम् । ‘पुरुषोत्तमः’ ‘फणिपतिः’ इत्यव्यवहितसमभिव्याहारेण एतद्विषयफणिपतिभाष्यमपि सिस्मारयिषितम् ॥
उभयविभूतिनायकेनानेन मिथुनेन स्वशासनीयविभूतिद्वयसततसञ्चरणार्थं सर्वोत्तमं वेगवत्तमं वाहनं ध्रुवमाकाङ्क्ष्येत । सर्वलोकमातापितराविमौ दम्पती । आर्ताः प्रजास्सर्वा विश्वस्थाः आर्तितितीर्षया रक्षतु भगवानिति ‘भृशं क्रन्देयुः’ दुर्मोचोद्भटकर्मकोटिनिगडिताः तापत्रयातुराः संसारान्मोचनं काङ्क्षन्तः आसते । तत्फलदातारौ इमौ दम्पती सर्वबन्धेभ्यो मोक्षणायाह्वयेरन् । आपन्नार्तिप्रशमने बद्धदीक्षेण मिथुनेन अतिवेगमतिक्षिप्रं तत्समीपगमनाय तद्रक्षणाय च वेगवद्वाहनं ध्रुवमपेक्ष्येत । ‘आहुः श्रुतिं विबुधनायक तावकीनामाशागणप्रशमहेतुमधीतवेदाः । आकर्णिते तदियमार्तरवे प्रजानामाशाः प्रसाधयितुमादिशति स्वयं त्वाम्’ इति देवनायकपञ्चाशत् श्लोकः, ‘आनेतुमात्मरभसेन समीहमानः रक्षोन्मुखं नतगृहेषु रमासहायम् । प्रायः प्रभोस्तदपृथक्स्थितिवृत्तिशक्तिं सङ्कल्पमप्युपहरिष्यति तद्रथोऽसौ ॥’ (10.17) इति सङ्कल्पसूर्योदयश्लोकश्चात्र भाव्यौ । आकाशयानेन लोकत्रयसञ्चरणं दम्पत्योर्भोगाय भवेत् । कर्दमदेवहूत्योराकाशविमानसञ्चरणादिविहारप्रचुरं गार्हस्थ्यं वैमानिकैरपि प्रार्थ्यमनुपममिति शुकेन वर्णितम् । सर्वलोकसञ्चारणायातिवेगवत्गगनमार्गधावनदक्षगरुडादिवाहनमेवानुकूलतमम् । वेदात्मा च गरुत्मान् सुपर्णः । वेदरूपं शास्त्रमेव दिव्यमिथुनं वहन् अस्मत्कर्णसमीपमागत्य श्रवणादिपरम्परयाऽस्मद्धृदि प्रतिष्ठापयेम्(त्?) । ‘शेषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां सम्पद्यन्ते विहरणविधौ यस्य शय्याविशेषाः’ इति प्रसिद्धत्वेन गीतं श्रीस्तुतौ । शेषशय्या कीर्तनानन्तरं वेदमौलिरूपशय्यायाः तदात्मभूतसुपर्णकीर्तनद्वारा सूचनं न्याय्यमेव ॥
‘यवनिका माया जगन्मोहिनी’ - परस्परकमनीयौ नित्ययुवानौ लावण्यनिधी दम्पती । तयोरेकान्तबहिर्विहारादिसाधकशय्यावाहनादिकथनं न्याय्यमेव । दम्पत्योः शय्याविहारकथनेन ‘यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणि तान्याहुस्स्वैरनुरूपरूपविभवैर्गाढोपगूढानि ते’ इत्यन्तिमश्लोकवर्णितरीत्या नित्ययुक्तयोरनयोः प्रायेण गाढोपगूढत्वेन वर्तनं सूचितं भवति । तयोस्तद्विग्रहयोर्वा जनतादृश्यत्वेऽत्यन्तमनौचित्यं भवेत् । सर्वे लोकाः अन्धाः एतद्दम्पतिदर्शनविषये । भगवतस्स्वरूपतिरोधानकरी माया यवनिकाभूय चर्मचक्षुषो जनान् तद्वीक्षणात्यन्तासमर्थान् कृत्वा दम्पत्योः गाढोपगूढादीन्यत्यन्तं गूहयति । ‘मायायवनिकाच्छन्नम्’ इति भागवते । ‘भूयश्चान्ते विश्वमायानिवृत्तिः’ (1.10) इति श्वेताश्वतरे मायायाः विश्वजनमनोनयनतिरोधायकविश्वमायात्वं निगदितम् । अस्मिन् श्लोके कीर्तिता यवनिका विश्वमाया सर्वजगन्मोहिनी । विश्वस्मिन् नैकोऽपि मायातिरस्करिण्यतिरोहितोऽस्ति एतेन योगमायासमावृतत्वात् दिव्यमिथुनस्य माययाऽपहृतज्ञानानां जनानां एतद्दम्पती विहारदर्शनस्य न प्रसक्तिः । विजितमायानां विमलमनसां दर्शनपथप्राप्तौ नैतयोर्विहाराणां कश्चिदपायः । विमलमनसां तेषां चित्तमपि पूर्वकीर्तितफणिपतिवत् वेदमौलिवच्च स्वयमपि मिथुनविहारशय्या भवन्तीति पूर्वोदाहृतश्रीस्तुतिश्लोके गीतम् । अनयोरात्ममिथुनयोर्ज्ञानानन्दपरीवाहमयज्ञानतदवस्थामात्रभूतविहाराणां न प्राकृतत्वगन्धलेशोऽपि शक्यशङ्कः ॥
‘ब्रह्मेशादिसुरव्रजः’ - पूर्वार्धनित्यविभूतिस्तन्नायकत्वं चोक्तम् । तस्याः स्वयं प्रकाशत्वेऽपि माययाऽपहृतज्ञानाय विश्वस्मै अप्रकाशमानत्वं चोक्तम् । अत्र लीलाविभूतौ ब्रह्मेशादीनां सुरमुख्यानां तन्महिषीणां च दिव्यमिथुननियाम्यत्वेनान्तर्गतत्वं समेषां तेषां तन्मिथुनदासत्वं च कीर्त्यते । प्रथमं पूर्वार्धे शेषाग्रगण्यस्य शेषत्वमुक्तम् । प्रभुसंमितस्य विश्वशासितुः वेदस्य चास्मद्बुद्धिसमीपं वाहनीभवनेन शेषत्वमुक्तम् । अस्मान् परब्रह्मसमीपवाहयितृ शब्दब्रह्म । ‘शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति’, ‘शब्दब्रह्मणि निष्णातो न निष्णायात्परे यदि । श्रमस्तस्य वि(श्रम)फलः (ह्य)अधेनुमिव रक्षतः’ इति श्रीभागवते । अत्र दिव्यमिथुनस्य ब्रह्मेशादिसर्वदेवतोपास्यत्ववर्णनेन मनुष्यादीनामप्युपास्यत्वं किंपुनर्न्यायसिद्धम् । तृतीयश्लोके ‘नृणाम्’ इति मनुष्यकीर्तनपूर्वकं मनुष्यसामान्यस्य एतन्मिथुनोपासनेन चतुर्विधफलप्राप्तिसंभावना, तद्विना तदसंभावना च गीयेते । मनुष्याधिकारं शास्त्रमिति बोधयत्सूत्रमपि नृणामिति पदेन सूच्यते । तदुपर्यपि देवमुख्यानां मोक्षार्थं तदुपासनकर्तव्यतायाः निर्णायकं देवताधिकरणं मध्वाद्यधिकरणद्वयमपि सूच्यते प्रथमश्लोकतृतीयपादेन । अत्र तेषामपि प्रत्यगात्मनां, ‘दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मनः । अतोऽहमपि ते दासः इति मत्वा नमाम्यहम्’ इत्यहिर्बुध्न्यवचनेन दास्यैकस्वरूपत्वं कथ्यते । विश्वाचार्याः विधिशिवमुखाः इदं तत्त्वं स्पष्टं गृणन्ति । स्वस्वरूपभूतायाः दास्यनिष्ठायाः स्वयमाचरणं च वेदयन्ति अस्मान् तदाचारे स्थापनाय । समुदायवाचिना व्रजशब्देन सर्वेषां देवानां तन्महिषीणां च वर्तमानं मिथस्तारतम्यमगणयित्वा ईश्वरमिथुनं प्रति एकराशित्वेन ऐकरूप्येण दासभूतत्वं द्योत्यते । मिथो भूयस्तारतम्यवन्तो ब्रह्मादिदेवाः ईश्वरमिथुनदासभूतैकवर्गघटका भवन्ति अविशेषेण । इदमेव व्यञ्जितमुदाहृताहिर्बुध्न्यसंहितावचनेन सर्वेषामात्मनां स्वतो दासभूतत्वात् तदविशेषेण तद्वदेव तत्सामान्येन महेश्वरस्यापि स्वस्य स्वतो दासभूतत्वस्य कीर्तनेन ॥
‘सदयितः’ - न केवलं दासास्ते, तत्पत्न्योऽपि दास्य एव । देवास्सर्वे स्वदयितासहिताः कुटुम्बीभूय तद्दास्यं परमादरेणानुतिष्ठन्ति । देवगणस्सर्वोऽपि तद्दासगणः, देवदयितागणस्सर्वोऽपि तद्दासीगणः । ‘देवतिर्यङ्मनुष्येषु पुंनामा भगवान् हरिः । स्त्रीनाम्नी श्रीश्च विज्ञेया नानयोर्विद्यते परम् ॥’ इति पराशरेण भगवता सर्वेषां पुंसां हर्यंशत्वं, सर्वासां स्त्रीणां लक्ष्म्यंशत्वं च विभज्येव कथितं स्त्रीपुंसयोरशंत्वे । दम्पत्योर्मिथः पराशरकथितरीत्या विभागे सत्यपि स्त्रीणां पुंसां च सर्वेषां दम्पत्योरविभागेन दासत्वमस्त्येव । देवेति श्लोकस्य, ‘सर्वस्योभयात्मकत्वेऽपि तत्राऽऽभिमुख्यातिशयविशेषात् अर्थवाण्यादीनां तदात्मकत्वमुक्तम्’ इति श्रीविष्णुचित्तीयव्याख्यया इदमनुगृह्यते । देवतिर्यङ्मनुष्येष्वित्यत्र शास्त्राधिकारभाजो देवमनुष्याः तदनधिकृताः तिर्यञ्चश्च कीर्त्यन्ते । शास्त्राधिकार्यनधिकारिणामपि सर्वेषां प्राणिनामीश्वरमिथुनदास्यमेव स्वरूपम् । ‘अकारेणोच्यते विष्णुः उकारो लक्ष्मिवाचकः । मकारस्तु तयोर्दासः इति प्रणवलक्षणम् ॥’ इति श्रुत्या सर्वेपां स्त्रीपुंसाम् अविशेषेणोभयदासत्वं श्रावितम् । इदं स्पप्टं विव्रियतेऽत्र श्लोकं सम्बोध्यमानलक्ष्मीदास्यकथनेन । दासगणः इत्येतावन्मात्रोक्तावपि दासदयितानां दासीनामपि दासगणेऽन्तर्भावो लभ्यत एव । दासीत्यधिकोक्त्या स्त्रीपुंभेदागणनेन सर्वेषां देवात्मनामुभयदासत्वं स्पष्टीक्रियते ॥
‘श्रीरित्येव च नाम ते’ - उभयविभूतिशेषित्वेनोत्कर्षः उक्तः श्रियाः तद्भर्तुश्च । स चोभयोस्साधारणः । अत्र श्रीरिति नाम्नैवास्याः उत्कर्ष उच्यते एतन्नाम्नाऽस्याः पुरुषकारत्वरूपासाधारणाकारेण भगवतोऽप्यधिक उत्कर्षः प्रतिपाद्यते । आकारत्रयसम्पन्ना श्रीः, आकारद्वयसम्पन्नो भगवान् । श्रीशब्दस्यार्षनिर्वचनेनानेकार्थाः प्रतिपादिताः ॥
‘शृणाति निखिलान् दोषान् श्रीणाति च गुणैर्जगत् । श्रीयते चाखिलैर्नित्यं श्रयते च परं पदम् । श्रयन्तीं श्रीयमाणां च शृण्वतीं शृणतीमपि ।’ (अहि. सं. २१.८) इति स्मर्यते । ‘श्रीङ् सेवायाम्’, ‘शृ विस्तारे’, ‘शृ हिंसायाम्’, ‘श्रु श्रवणे’ इत्यादि धातवः । प्राणिभिर्यद्यावदपेक्ष्यते स्वरक्षणविषये तत्सर्वमेतद्धातुभिस्समर्प्यन्ते । यद्यपि भगवान् ‘श्रियः श्रीः’ इति रामायणे वर्ण्यते केवलं ‘श्री’नाम श्रिया एव । श्रीरित्युपपदपूर्वकत्वादेवोत्कर्षवतां सर्वेषामुत्कर्षः पूज्यत्वं च समर्प्यते । शङ्करचतुर्मुखादीनां ‘श्रीशङ्करः श्रीचतुर्मुखः’ इति श्र्युपपदेनैव श्रीमत्वकथनं प्रसिद्धम् । ‘श्रीशङ्कराचार्यनवावतारम्’ इत्यत्र श्रीपदस्थाने उमादिपदनिवेशो न शक्यसंभवः । ‘उमाशङ्कराचार्य’ इत्यादिप्रयोगाः न सन्ति । श्रियो महिमा तन्नामैकव्युत्पत्तिद्वारा प्रसिद्ध्यति । नाम्नोऽभिधेयद्वारा यो यो महिमा स सर्वः नामवत्या भवति अस्याः महिमकार्त्स्न्यं वाङ्मनसाऽगोचरम् । श्रीशब्दश्रवणे, कैराश्रीयते, कमाश्रयते, किमर्थमाश्रीयते, किं शृणोति, कं श्रावयति, किं शृणाति, किं श्रीणाति इति बहुविधा आकाङ्क्षाः जायन्ते । एता आकाङ्क्षाः पूर्यन्ते निर्वचनव्युत्पत्तिभ्याम् । असङ्कोचन्यायेन सर्वैः सर्वफलार्थमाश्रीयते आश्रितानां सर्वदोषान् हिनस्ति अपगमयति आश्रितान् सर्वैर्गुणैः श्रीणाति । श्रीः श्रेयो मूर्तिः श्रेयांसि च असङ्कोचेन सर्वश्रेयांसि । ‘भगवति’ इति संबोधनपदेन भगवच्छब्दः भगवतीवास्यामपि मुख्यवृत्त इति व्यज्यते ॥
‘ब्रूमः कथं त्वा वयम्’ - त्वां त्वन्महिमानं च कथं वयं याथार्थ्येन वर्णयेम । ब्रूम इत्यस्य स्तुतिवाचं ब्रूम इत्यर्थो ग्राह्यः स्तुतिप्रकरणत्वात् स्तोत्रान्तर्गतत्वात् अत्र स्तुतिशक्त्यभावः कथ्यते अनन्तरश्लोके च तत्प्रतिपाद्यते । इत्थं च चतुर्षु श्लोकेषु श्लोकद्वयं स्तुतिशक्त्यभावप्रतिपादकम् । तयोरपि स्तुतिरूपत्वमस्ति काष्ठागतत्वेन ॥
प्रथम श्लोकस्यास्य शारीरकप्रथमाध्यायविषप्रतिपादकत्वमिष्यते । श्रियः कान्तः पुरुषोत्तमः इत्याभ्यां ब्रह्मशब्दार्थ उच्यते । जन्मादिसूत्रविषयवाक्ये ‘यदभिसंविशन्ति जातानि भूतानि सर्वाणि परम’प्राप्यतया मुक्तौ, तत् लक्ष्मीनारायणद्वन्द्वमीश्वरतत्त्वभूतम् । दम्पत्योरुभयोः ईश्वरत्वं शेषित्वं प्राप्यत्वमित्यादिकं च सर्वमुभयोस्सहैव । व्यासज्यवृत्तयस्ते सर्वे ईश्वरधर्माः । ‘अस्या मम च शेषं हि विभूतिरुभयात्मिका’ इत्युभयविभूतिशेशित्वमुभयोस्सहैवेति पादत्रयेणात्र श्लोके स्पष्टं प्रतिपाद्यते । अनयोर्दास्यमेव नित्यमुक्तबद्धानां सर्वात्मनां स्वरूपम् । मुक्तावपि मिथुनप्रीत्युद्देश्यककैङ्कर्यम् आनन्दपरीवाहरूपम् । वेदात्मा विहगेश्वरोऽस्मद्बुद्धिसमीपं वाहयति तदिति कथनेन शास्त्रयोनित्वाधिकरणं सङ्गृह्यते । शास्त्रयोनित्वादिति हेतोः शास्त्रैकयोनित्वादित्यर्थः । शास्त्रैकयोनित्वाभावे शास्त्रयोनित्वं न सिद्ध्येत् । अप्राप्ते हि शास्त्रमर्थवदिति न्यायात् । यवनिका माया जगन्मोहिनी इति परमप्राप्यभूतेश्वरमिथुनप्राप्तेर्विरोध्युच्यते । दुरत्ययेयं गुणमयी वैष्णवी माया । ‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’ इति ब्रह्मप्रपत्त्यैव विश्वमायानिवृत्तिसंभवः । तृतीयपादेन देवताधिकरणं मध्वधिकरणं च सङ्गृह्येते ॥
अभयप्रदानराजपुत्र इति प्रख्यातस्य आच्चान्पिल्लै आचार्यस्य व्याख्यानतस्सारभूतान् विषयानत्र सङ्गृह्णीमः । (१) स्तोत्ररत्ने ‘भगवद्वन्दनं त्वाद्यं गुरुवन्दनपूर्वकम्’ इति वचनमनुसृत्य श्लोकत्रयेण गुरुवन्दनं कृतम् । वन्दितो गुरुः मुनिनाथः स्वस्य प्राचार्यः, न साक्षात्स्वाचार्यः । अखिलतमःकर्शनस्य संस्कृत-द्रावडोभयवेदान्तावलम्बिनोऽस्मद्दर्शनस्यास्माकमादिज्ञापकः । अत एव ‘नाथोपज्ञं प्रवृत्तम्’ इति सम्प्रदायविदः । गुरुपरम्परा स्मरणव्यापारे आचार्यप्राचार्ययोर्बुद्धौ संनिधाने ‘आचार्यप्राचार्ययोस्सन्निपाते उपसंजिघृक्षेदाचार्यं, प्रतिषेधेदितरः’ इति वचनमनुसृत्य प्राचार्यवन्दनं क्रियते आचार्यवन्दनं च न क्रियते ॥
(२) रामायणे बालकाण्डान्तिमश्लोके ‘उत्तमराजकन्यया’ इति सीता वर्णिता, ‘विभुः श्रिया विष्णुरिवामरेश्वरः’ इति श्रीस्तत्रोपमानतया निर्दिष्टा । श्रीरेव सीतात्वेन भगवतो राघवत्वेनावतरणे सहावतीर्णा । उत्तमराजकन्यायाः पुरुषोत्तमस्यैव कान्तत्वमुचितमिति व्यञ्जितं स्तुत्यारम्भ एव । ‘अहं श्लोककृत्’ इति मुक्तौ ब्रह्मविषयश्लोकरचनं तद्गानं चानन्दपरीवाहतया क्रियते । मुक्ततुल्यैराचार्यैरत्रापि तथैव उत्तमश्लोकविषयश्लोककरणगानादिभिः दिवसाः अपवर्गदशासमतयाऽतिवाह्यन्ते ॥
(३) स्तोत्ररत्नं सर्वभगवत्स्तोत्राणां यथामार्गदर्शि, तथा श्रीस्तोत्राणामियं मार्गदर्शिनी ॥
(४) ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै’ इति श्वेताश्वतरान्तःपठितश्लोके भगवतः चतुर्मुखब्रह्मस्रष्टृत्वं श्राव्यते । ‘यं कामये तं तम् उग्रं करोमि’ इति उग्रनाम्नः ईशस्य श्रियः कटाक्षेण रुद्रपदाधिकारभाक्त्वं श्राव्यते । विष्णुपुराणान्ते भगवच्छब्दस्य प्रत्यक्षरमर्थकथनेन भगवति मुख्यत्वप्रतिपादकाः श्लोकाः आचार्येणात्रोदाहृताः चतुर्थपादस्थसंबोधनरूपभगवति शब्दव्याख्याने । यद्यत्पत्युस्तत्सर्वं पत्न्याश्च भवति । ‘तदन्तर्भावात्त्वां न पृथगभिधत्ते श्रुतिरपि’ इति भट्टपादैः कथितो न्यायः प्रसिद्धः ॥
मिथुनशेषत्वं सर्वचेतनसाधारणमिति सर्वैराप्तैरुपपादितम् । श्रीभाष्यप्रथममङ्गलश्लोके ‘ब्रह्मणि श्रीनिवासे भवतु मम परस्मिन् शेमुषी भक्तिरूपा’ इति प्रार्थिता भक्तिशेमुषी श्रीनिवासोद्देश्यकत्वात् श्रीसन्निहितभगवद्विषयिणी इति भाष्यकाराभिप्रायः इत्यप्यनुगृहीतम् । अत्र प्रार्थिता भक्तिः साधनभक्तिरिति श्रुतप्रकाशिकानिष्कर्षः । तुरीयपादस्य तृतीयाध्याय चतुर्थाध्याय प्रथमभागप्रतिपादितसाधनभक्तिविषयकत्वं स्ववगममिव ॥
‘फणिपतिः शय्या’ - फणिपतिः पर्यङ्को भवति । सुषुप्त्यवस्थायां प्रत्यहं यदा यद्वा वयं स्वपिमः तदा तदा हृदयगुहावस्थितो भगवान् देहेन्द्रियादिसम्बन्धस्मरणरहितानामस्माकं केवलात्मस्वरूपस्य पर्यङ्को भवतीति सद्विद्याद्युपनिषत्प्रसिद्धम् । ‘तदभावो नाडीषु तच्छ्रुतेरात्मनि च’ इति सूत्रे सर्वे भाष्यकाराः, ‘आत्मनि चेति’ सूत्रखण्डे हार्दपरमात्मनः पर्यङ्करूपसुषुप्तिस्थानत्वेनापारकरुणावात्सल्ये भगवताऽऽविष्क्रियेते इति सूत्रकारस्य विस्मयरसः चशब्देन द्योत्यत इति सूचयन्ति । हिता नाम नाड्यः, पुरीतद्रूपहृदयमांसवेष्टनं, केवलजीवस्वरूपस्य विस्मृतदेहादिसम्बन्धरूपबन्धप्रयुक्तसंसारस्य स्वपतः अन्तरात्मभूतहार्दपरमात्मा च सुषुप्तिस्थानं सम्पद्यन्ते । प्रासादखट्वापर्यङ्करूपोपमा च प्रदर्श्यते सर्वैर्भाष्यकारैः एतेषां त्रयाणाम् । त्रिष्वेतेषु परमात्मैव साक्षात् सुषुप्तिस्थानं भवति । इतरयोर्द्वयोस्तत्प्रापकत्वं मार्गभूतत्वेन । ‘ब्रह्मैव साक्षात् सुषुप्तिस्थानम्’ इति तत्र श्रीभाष्यम् । अतस्स एवास्मच्छयनाय पर्यङ्को भवति । संसारदशायामित्थमनन्तकोटिजन्मसु प्रतिनिशं स्वापदशासामान्ये नैयत्येन पर्यङ्कीभवनमनुगृहीतवतो भगवतः, ‘कृते च प्रतिकर्तव्यम्’ इति न्यायमनुसृत्य शेषत्वमार्गेऽस्माकमनुष्ठानप्रापकाचार्यभूतेन फणिपतिना सर्वेषामस्माकमानृण्यसम्पत्तये अनाद्यनन्तकालं सर्वदा पर्यङ्कीभूयते । तत्कैङ्कर्यस्य तस्मिन्नेकस्मिन्नेव नियतत्वेऽपि, ‘अशेषशेषतैकरसते’ति गद्योक्तरीत्या परमपदे सर्वेपां नित्यमुक्तानां सर्वेतरनिर्वर्तितसकलकैङ्कर्याणां कैङ्कर्ये साक्षादनन्वितानामपि कैङ्कर्यनिर्वर्तयितृलब्धरससमानरसकार्त्स्न्यं सिद्ध्यति ॥
अत्र श्लोके पठितमासनं च कौषीतकीपर्यङ्कविद्याप्रदर्शितपर्यङ्काह्वयसिंहासनं कमलया सह भगवताधिरूढम् । भगवतः गमनाद्यवसरेषु गमनसाधनपादुकारूपत्वमपि शेषेण नियतं धार्यते । तथा च भगवतो भक्तजनसमीपं वाहयितृत्वमपि सिद्ध्यति । पादुकायाः कोसलराजत्वेन मूर्धाभिषेकः लक्ष्मणस्य राज्याभिषेक इव भवति । ‘यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे । वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् । उच्यमानोऽपि भरतो मया लक्ष्मण तत्त्वतः । राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति ।’ इति रामवाक्यं सत्यापितं पादुकाभ्यां पट्टाभिषेकनिर्वर्तनरूपवृत्तान्तेन । शेषस्य लक्ष्मणरूपत्वेनावतीर्णत्वं प्रसिद्धम् । शेषो लक्ष्मणः पादुकाद्वयं च । अतः पादुकयोरभिषेकस्तत्त्वतो लक्ष्मणस्याभिषेकोऽपि भवति । स्तोत्ररत्ने ‘निवासशय्यासनपादुकांशुकोपधानवर्षातपवारणादिभिः । शरीरभेदैस्तव शेषतां गतैर्यथोचितं शेष हतीर्यते जनैः ॥’ इति श्लोके निवासपदं पर्यङ्कविद्याप्रदर्शितसिंहासनवाचकम् । सिंहासननामैव पठितं निवासपदस्थाने सरोमुनिद्रमिडगाथायां स्तोत्ररत्नश्लोकमूलभूतायाम् । तत्रोभयत्र पठितानि अत्र चतुःश्लोकीश्लोकेऽपठितान्यन्यान्युपलक्षणविधया जिघृक्ष्यन्ते ॥
वाहनमिति पदं मध्यमणिन्यायेन फणिपतिना विहगेश्वरेण चान्वेतुं शक्यम् । तदर्थमेव तस्य फणिपतिविषयकपदेषु चरमत्वेन, विहगेश्वरविषयकपदेषु प्रथमत्वेन च निवेशनं कृतमिव । पादुकासहस्रे पादुका भगवन्तं भक्तसमीपं वाहयितुं भूयो भूयः प्रार्थ्यते । ‘वाहनं वेदात्मा विहगेश्वरः’ अत्र वेदस्यान्तिमभागभूतोपनिषदामस्मत्कर्णेषु भद्रभद्रतया निपतन्तीनामर्थज्ञानोत्पादनेनास्मद्बुद्धौ अत्यन्तसमीपं भगवत्स्वरूपस्य वाहयितृत्वं प्रसिद्धम् । बुद्धिसमीपं प्रापणमेव मुख्यम् । तादर्थ्यमेव वेदान्तानामुपनिषदाम् । ‘उपोपसर्गस्सामीप्ये’ । शब्दब्रह्मरूपवेदवेदान्तस्वरूपी भगवान् सुपर्णो गरुत्मान् शब्दगुणे आकाशे निपत्य कर्णशष्कुल्यवच्छिन्नाकाशभूतास्मच्छ्रोत्रे आचार्यस्य मधुमत्तमजिह्वाग्रात् अस्मद्भाग्यवशात् निपतति । विहगशब्दः आकाशपतत्पक्षिवाचकः । ‘नभः पतन्त्यात्मसमं हि पक्षिणः’ इति भागवतकथाकथनारम्भे सूतस्य स्वशक्तेरल्पत्वकथकविनयसूक्तिः । विहायसा गच्छतीति विहगः । विहगेश्वरो विहगपतिः । विश्वपतिरात्मेश्वरस्त्वत्कान्तः । फणिपतिरहीन्द्रोऽहीश्वरस्तावकशय्या, आसिकाभूतसिंहासनं च । प्रजाभूतानां मुमुक्षूणां स्वस्वपतिरूपश्रावकलक्ष्मणाचार्यादिरूपेणावतीर्णमाचार्यरूपवाहनम् । ‘बाहुं भुजगभोगाभमुपधायारिसूदनः । अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ॥’ इति महर्षिणा शेषस्य भगवतः सागरपुलिनशयने उपधानभूतत्वमुपमानविधया व्यञ्जितम् । ‘आविवाहसमयाद्गृहे वने शैशवे तदनु यौवने पुनः । स्वापहेतुरनुपाश्रितोऽन्यया रामबाहुरुपधान एष ते ॥’ इत्युत्तररामचरितप्रथमाङ्कान्तभागे सीतां ब्रुवन् रामः प्रतिशयनावसरपठितमहर्षिश्लोकरीत्या स्वबाहोः शेषभुजगाभत्वं मनस्यकरोदिति उल्लेखनं शक्यम् ॥
वर्षातपवारकच्छत्रत्वं, ‘शेषोऽन्वगात् वारि निवारयन् फणैः’ इति कृष्णवाहे वसुदेवे कंसकारागृहात् गोकुलं प्रति गच्छति, पर्जन्ये वर्षति, शेषस्य वर्णितम् । लक्ष्म्याः वक्षसि नित्ययोगरूपसततसंनिहितत्वस्य सदा सिद्धत्वात् गार्हस्थ्यात्यन्तविरुद्धब्रह्मचर्यवेषस्य वामनावतारे परिग्रहेऽपि तदाश्रमप्रत्यायकनिश्चितचिह्नभूतकृष्णाजिनेनैव, ‘कृष्णाजिनेन संवृण्वन् श्रियं वक्षःस्थलस्थिताम्’ इति पराशरोक्तरीत्या स्वमायाशक्त्या समावृणोदिति प्रसिद्धम् । कदापि न जह्यां त्वां, न त्वां क्षणमपि हातुमहं समर्था, हानप्रसङ्गः एव कदापि मम मा भूत् इति वदन्ती सा भर्त्रा ब्रह्मचर्याश्रमपरिग्रहेऽपि सुदृढं गूढं तत्रैव स्थितेति व्यज्यते ‘वक्षःस्थलस्थिताम्’ इति पदेन । स्वल्पकालमसंनिहिता भवेति भगवता प्रोक्तापि, न पारये क्षणमात्रवियोगमपीति कथयन्ती नैवोरसोऽपासर्पत् । तस्मात् ‘बभूव प्राकृतः शिशुः’ इति प्राकृतार्भकीभवनदशायामपि तया सह युक्तत्वादुभयोः छत्रत्वकैङ्कर्यं निर्वर्तितं शेषेणेति साम्प्रतं वक्तुम् । परमपदे पर्यङ्कीभूतसिंहासने उभयोः छत्रत्वं नित्यमुक्तसर्वसूरिलोकसाक्षिकं प्रदर्श्यते । श्रीसूक्तदिकं, ‘ह्रीश्च ते लक्ष्मीश्च पत्न्यौ’ इति पुरुषसूक्तोत्तरानुवाकश्रुतिः, ‘श्रद्धया देवो देवत्वमश्नुते’ इत्यादिश्रुतयश्च भर्त्रा सह लक्ष्म्याः परतत्त्वत्वबोधकानि प्रमाणानि । तानि श्रीतत्त्वस्वरूपम् अस्मत्कर्णसमीपं वाहयन्ति ॥
‘श्रीरित्येव च नाम ते’ केवलं श्रीपदं तवैव नाम भवति । श्रीपदम् आर्षनिर्वचनश्लोकप्रदर्शितरीत्या न केवलं त्वयि योगपौष्कल्यद्योतकं, किन्तु कैवल्येन त्वय्येव रूढं नाम भवति । महिमवतामितरेषां सर्वेषां त्वन्नामभूतश्रीशब्दरूपोपपदपूर्वकत्वेनैव मङ्गलभाक्तत्वं, महिमभाक्त्वं च । ‘यद्यद्विभूतिमत् सत्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं ममतेजोंशसंभवम् ॥’ इति भगवता महिमवता सर्वेषां महिम्नस्स्वतेजोंशसंभवत्वं गीतम् । भगवतस्तेजसः अप्रमेयत्वं कुत इति पृष्ट्वा मारीचमुखेन रावणं प्रति, ‘अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा’ इति बोधनेन महर्षिणा त्वत्पतित्वमूलत्वं कथितम् । शूर्पणखयापि, ‘यस्य सीताभवेद्भार्या यं च हृष्टा परिष्वजेत् । अतिजीवेत्स सर्वेषु लोकेष्वपि पुरन्दरात् ॥’ इति मारीचाश्रमात् प्रतिनिवृत्तं रावणं प्रति मारीचप्रोक्तसीतामहिममूलत्वानुसारेण रावणसभामध्ये उद्घोषितमपीह भाव्यम् । श्र्युपपदपूर्वकत्वेनैवेतरेषां सर्वेषां महिमवत्वाय माङ्गलिकत्वाय च निर्देशः क्रियत इति चतुःश्लोकीभाष्ये आचार्यैरनुगृहीतम् । इदं सर्वं ‘श्रीरित्येव च नाम ते’ इति एतत् प्रथ(म?)श्लोकखण्डेन विवक्षितम् । श्रीरित्येवेत्यत्र एवकारेण श्रीपदस्य कैवल्यमितरेषां निर्देश इव उपपदत्वाभावश्चाभिधीयेते । श्रीरिति ते एव नाम इत्यप्यन्वयोऽभिप्रेयते । इतरेषां तत्तन्नामपूर्वमुपपदत्वेन निर्देशमात्रम् । तेषां सर्वेषां महिमा माङ्गलिकत्वं च त्वन्नामभूतश्रीशब्दस्योपपदत्वेन निर्देशेनैव संपद्येते । ‘हे श्रीर्देवि! समस्तलोकजननि! त्वां स्तोतुमीहामहे’ इति श्रीस्तवे ‘हे श्रीः’ इति श्रीनाम्नैव श्रीस्सम्बोध्यते तन्निरतिशयमहिमप्रदर्शनाय । ‘ब्रूमः कथं त्वां वयम्’ इति श्रीनाम्न्यास्तव बोध्यमानो निरतिशयमहिमा कथमस्माभिर्यथावद्वर्णयितुं शक्यमिति सम्यक्तत्त्वगुणाभिवर्णनरूपलक्षणवत्याः स्तुतेरशक्यत्वं व्यज्यते । वयमित्यनेन, ‘यदेकैकगुणप्रान्ते श्रान्ता निगमवन्दिनः । यथावद्वर्णने तस्य किमुतान्ये मितम्पचाः? ॥’ इति यादवाभ्युदयप्रथमसर्गश्लोक इव मितम्पचा वयमित्यर्थो ग्राह्यः ॥ १ ॥