विश्वास-प्रस्तुतिः - मङ्गलम्

यत्-पदाम्भो-रुह-ध्यान-
विध्वस्ताशेष-कल्मषः ।
वस्तुताम् उपयातो ऽहं
यामुनेयं नमामि तम् ॥

मूलम्

यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः ।
वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥

वेङ्कटनाथः ॥ चतुश्श्लोकीभाष्यम् ॥

स्व-शेषाशेषार्थो निर्-अवधिक–निर्-बाध–महिमा
फलानां दाता यः फलम् अपि च शारीरक-मितः ।
श्रियं तत्-सध्रीचीं तद्-उपसदन-त्रास-शमनीम्
अभिष्टौति स्तुत्याम् अ-वितथ-मतिर् यामुन-मुनिः ॥ १ ॥

अत्र समन्वयाविरोध-साधन–फल-विषय–शारीरक-चतुर्-अध्यायी-समधिगतस्य भगवतः
सर्व-प्रकाराभिमतानुरूप-सह-(धर्म-चारिणी)-धर्मिणी-विशिष्टतयाऽपि सर्वाधिकत्वं
“कश् श्रीश्श्रियः (स्तोत्ररत्ने – १२)” इत्य्-उक्त-कैमुतिक-न्याय-काकु-गर्भया चतुश्-श्लोक्या प्रकाशयन्
प्रथमं श्रियः प्रतिपिपादयिषितानां विभूति-द्वय-शेषित्वादीनां स्थापकम् आह -

गोपालः

॥ श्रीः ॥
॥ चतुश्श्लोकीव्याख्या ॥

स्तोत्र-रत्नम् इत्य् आचार्य-यामुन-कृत-भगवत्-स्तोत्र-नाम ।
एतत्-स्तोत्रात् पूर्वं रचितं तत्-स्तोत्रम् इति प्रतिभाति ।
तत्रैव नाथोपज्ञस्यास्मद्-दर्शनस्य प्रवर्तकस्य, स्वपितामहस्य
स्तुति-रूपं मङ्गलं निबद्धं त्रिभिः श्लोकैः ।
वैदिक-कपिञ्जलाधिकरण-न्यायः
शान्ति-शब्द-पठनस्य त्रिर् अभ्यासश्
चानुसृत इव त्रित्व-संख्या-श्रयणेन ।

पुराण-रत्न-कृत्, देवता-पारमार्थ्य-वित्

इति पराशरः, तत्-पुराणं च स्तुतं तत्र
स्तोत्र-प्रदर्शित-सर्व-तत्त्वानां पराशरानुग्रह-भाक्त्व-प्रदर्शनाय ।
अत्रापि पराशरपुराणमेव शब्दतोऽर्थतश्चानुसृतमिति स्पष्टम् । स्तोत्ररत्ने शेषस्य बहुप्रकारैः यथोचितं यथा यथा शेषिसौकर्यं तथा तथा रूपपरिग्रहो वर्णितः । ‘निवासशय्यासनपादुकांशुकोपधानवर्षातपवारणादिभिः । शरीरभेदैस्तव शेषतां गतैर्यथोचितं शेष इतीर्यते जनैः’ इति श्लोके फणिपतेः स्वामिसेवार्थं परिगृहीतानि बहुरूपाणि निर्दिष्टानि । अत्र च शय्या आसनम् इति सेवारूपद्वयमेवाभिहितं शब्दतः । इतराणि चोपलक्षणविधया जिघृक्ष्यन्ते । सुपर्णविषये ‘दासस्सखा वाहनमासनं ध्वजो यस्ते वितानं व्यजनं त्रयीमयः’ इते बहुरूपभजनमुक्तम् । अत्र वाहनपदेनेतराण्युपलिलक्षयिषितानि । यत्र पूर्णोपदेशस्तद्ग्रन्थस्यैव पूर्वरचितत्वं साम्प्रतम् । ‘पुरुषोत्तमः कः’ इति स्तोत्ररत्ने प्रश्नः कृतः । अत्र तस्योत्तरं दीयते -