विश्वास-प्रस्तुतिः
तत्-तत्-कल्पित-युक्तिभिस् शकलशः कृत्वा तदीयं मतं
यच्-छिष्यैर् उदमर्दि सात्त्वत-मत-स्पर्धावताम् उद्धतिः ॥
यच् चैतत् सततं मुकुन्द-चरण-द्वन्द्वास्पदं वर्तते
जीयान् नाथ-मुनिस् स्व-योग-महिम-प्रत्यक्ष-तत्त्व-त्रयः ॥
Buitenen
139. May Nāthamuni 303 be victorious, he to whom the Three Principles are immediately evident by virtue of his own miraculous power, he by whose pupils the arrogance of the rivals of the Sāttvata Doctrine is terminated after their own view was rent to pieces by variously apposite arguments, he whose spirit is for ever the abode of the feet of Mukunda.
[303]: Predecessor of Yāmuna at Śrīraṅga.
मूलम्
तत्तत्कल्पितयुक्तिभिस्शकलशः कृत्वा तदीयं मतं ।
यच्छिष्यैरुदमर्दि सात्त्वतमतस्पर्द्धावतामुद्धतिः ॥
यच्चेतत्सतं मुकुन्दचरणद्वन्द्वास्पदं वर्तते ।
जीयान्नाथमुनिस्स्वयोगमहिमप्रत्यक्षतत्त्वत्रयः ॥
विश्वास-प्रस्तुतिः
आकल्पं विलसन्तु सात्त्वत-मत-प्रस्पर्धि–दुष्-पद्धति–
व्यामुग्धोद्धत-दुर्विदग्ध-परिषद्-वैदग्ध्य-विध्वंसिनः ।
श्रीमन्-नाथ-मुनीन्द्र-वर्द्धित-धियो निर्धूत-विश्वाशिवाः
सन्तस् सन्तत-गद्य-पद्य-पदवी-हृद्यानवद्योक्तयः ।
Buitenen
May, for the length of this Aeon, play on the pious, enchanting and irreproachable sayings of the extensive collection of prose and verse compositions which eclipse the cleverness of the befuddled, conceited and witless assembly of the evil crowd of the rivals of the Sāttvata doctrine, whose spirit has been increased by the glorious Nāthamunīndra,304 and by which all the unholy powers are cleansed,
[304]: Nāthamuni compiled the sayings of the Vaiṣṇava saints, the Āḻvārs.
[[122]]
मूलम्
आकल्पं विलसन्तु सात्त्वतमतप्रस्पर्द्धिदुष्पद्धतिव्यामुग्धोद्धतदुर्विदग्धपरिषद्वैदग्ध्यविध्वंसिनः ।
श्रीमन्नाथमुनीन्द्रवर्द्धितधियोनिर्धूतविश्वाशिवाः सन्तस्सन्ततगद्यपद्यपदवीहृद्यानवद्योक्तयः ।
विश्वास-प्रस्तुतिः
इति श्री-यामुन-मुनि-विरचितम् आगम-प्रामाण्यम् ॥
मूलम्
इति श्री-यामुनमुनिविरचितमागमप्रामाण्यम् ॥