१६ शिष्ट-बाह्य-ग्रहणे

विश्वास-प्रस्तुतिः

वेद-बाह्य-गृहीतत्वाद्
अ-प्रामाण्यम् अवादि यत् ।
एतद्+++(→पाञ्चरात्र)+++-बाह्य-गृहीतत्वाद्
वेदानां वा कुतो न तत् ॥+++(4)+++

Buitenen

117. The contention has been voiced that Pañcarātra is invalid because it is accepted by those who are outside the Veda." 240 But why could one not equally well contend that the Vedas are invalid
because they are accepted by those who are outside Pancarātra?

Buitenen - Notes

[240]: supra § 17: vedabāhyagrhītatvāt. I have rendered grhīta by “accepted’ to cover approximately the variety of meanings that Yāmuna detects in the word.

नरसिंहः

See the verse ‘विवादाध्यासितं’ etc., p. 17 above.

मूलम्

वेदबाह्यगृहीतत्त्वादप्रामाण्यमवादि यत् ।
एतद्बाह्यगृहीतत्वाद् वेदानां वा कुतो न तत् ॥

बाह्यत्वे गृहीतत्वे च विकल्पाः

विश्वास-प्रस्तुतिः

अपि च ।

किं चेदं वेद-बाह्यत्वं,
का वा स्यात् तद्-गृहीतता ।
किम् अङ्ग वेदाद् अन्यत्वं,
वेद-बाह्यत्वम् उच्यते ॥
+++(उत)+++ तन्-निषिद्धार्थ-कारित्वम्,
आहो+++(स्वित्)+++ तद्-द्वेष-शीलता ।

Buitenen

Furthermore, what exactly does this mean, being “outside the Veda,”
and what means “accepted by those who are outside the Veda?”
Does “being outside the Veda” mean
“being different from the Veda”
or “doing what is forbidden by the Veda”
or “being hostile to the Vedas?”

मूलम्

अपि च ।
किं चेदं वेदबाह्यत्वं का वा स्यात्तद्गृहीतता ।
किमङ्ग वेदादन्यत्वं वेदबाह्यत्वमुच्यते ॥
तन्निषिद्धार्थकारित्वमाहो तद्द्वेषशीलता ।

विश्वास-प्रस्तुतिः

तथा -

गृहीतत्वम् +++(नाम)+++ अधीतत्वं
ज्ञातत्वं वा विचार्यताम् ।
क्रियमाणार्थता वा स्याद्
+धेतुः सर्वत्र दुष्यति

Buitenen

Likewise we must inquire whether “accepted” means learnt” or “known” or “observed.”
In all cases the ground proves to be defective, 35

मूलम्

तथा -
गृहीतत्वमधीतत्वं ज्ञातत्वं वा विचार्यताम् ।
क्रियमाणार्थता वा स्याद्धेतुः सर्वत्र दुष्यति ॥

वेद-भिन्नैर् अधीतता ज्ञातता

विश्वास-प्रस्तुतिः

तत्र तावद् -

यदि वेदाद् विभिन्नत्वं
बाह्यत्वं, साऽप्य् अधीतता
“वेदाद् अन्यैस् त्रिभिर् वर्णैर्
अधीतं वैदिकं वचः ।
प्रमाणम् +++(पाञ्चरात्रं त्व् अप्रमाणम् उक्तम्)+++” इत्य् अनैकान्त्यं
हेतोस् तत्र प्रसज्यते

Buitenen

First of all, if “outside the Veda” means “different from the Veda,”
and “accepted” means “learnt”,
then the ground proves to be occasional,
since it equally applies to the Vedas themselves :
the Vedic statements, which are valid,
are “learnt” by members of the three estates,
which themselves are “different from the Veda.”

मूलम्

तत्र तावद् -
यदि वेदाद्विभिन्नत्वं बाह्यत्वं साऽप्यधीतता ।
वेदादन्यैस्त्रिभिर्वर्णैरधीतं वैदिकं वचः ।
प्रमाणमित्यनैकान्त्यं हेतोस्तत्र प्रसज्यते ॥

विश्वास-प्रस्तुतिः

ज्ञातत्वे ऽपि गृहीतत्वे
दोषाद् अस्मान् न मुच्यसे ।

Buitenen

If you take “accepted” to mean “known,” you do not get rid of the same defect.

मूलम्

ज्ञातत्वेऽपि गृहीतत्वे दोषादस्मान्न मुच्यसे ।

वेद-भिन्नैः क्रियमाणार्थता

विश्वास-प्रस्तुतिः

पूर्वोक्तं वेद-बाह्यत्वं,
क्रियमाणार्थता यदि ॥
गृहीतताऽपि, वेदैः +++(तद्-गृहीतैः)+++ स्यात्
तथैव व्यभिचारिता ।

Buitenen

If the term “outside the Veda” means “different from the Veda,”
and “accepted” means “observed,”
then there would likewise be an occasional application of the ground to the Vedas themselves.

मूलम्

पूर्वोक्तं वेदबाह्यत्वं क्रियमाणार्थता यदि ॥
गृहीतताऽपि वेदैः स्यात्तथैव व्यभिचारिता ।

प्रतिषिद्धार्थ-कर्तृत्वे

विश्वास-प्रस्तुतिः

प्रतिषिद्धार्थ-कर्तृत्वे
वेद-बाह्यत्व-लक्षणे ॥
व्यभिचारस् त्रयी-वाक्यैः
प्रायश्चित्त-विधायकैः । +++(4)+++

Buitenen

If “outside the Veda” is taken to mean “performing forbidden acts,” the ground has an occasional application to those statements of the Veda
which enjoin expiatory ceremonies. ([241]: Manusmrti, 8.107.)

मूलम्

प्रतिषिद्धार्थकर्तृत्वे वेदबाह्यत्वलक्षणे ॥
व्यभिचारस्त्रयीवाक्यैः प्रायश्चित्तविधायकैः ।

विश्वास-प्रस्तुतिः

प्रायश्चित्त-विधायकानि वाक्यानि
“कूष्माण्डैर् जुहुयात्” इत्यादीनि
प्रतिषिद्ध-कारिभिर् अधीत-गृहीतानुष्ठीयमानार्थान्य् एव प्रमाणानीति
तादृश-वेद-बाह्य-गृहीतत्वम् अनैकान्तिकम् ।

Buitenen

For since statements enjoining expiations, e.g. “One must sacrifice with the kusmanda verses,”
whose content is to be “learnt”, “known” and “observed,” by those who perform forbidden acts, are authoritative,
it would follow that the ground “because they are accepted by people outside the Veda” is occasional,242

Buitenen - Notes

People who do prohibited acts follow Vedic expiations; but if acceptance by people who commit forbidden acts is sufficient to deny the validity of what they accept, this means that the validity of the Veda would be denied.

नरसिंहः

Cf. Bodhāyanadharmasūtra, III. vii. 1:

कूष्माण्डैर् जुहुयात् यो ऽपूत इव मन्येत ।

मूलम्

प्रायश्चित्तविधायकानि वाक्यानि कूष्माण्डैर्जुहुयात् इत्यादीनि प्रतिषिद्धकारिभिरधीतगृहीतानुष्ठीयमानार्थान्येव प्रमाणानीति तादृशवेदबाह्यगृहीतत्वमनैकान्तिकम् ।

वेद-द्वेषि-ग्रहणम्

विश्वास-प्रस्तुतिः

नापि वेद-द्वेषि-जन-परिगृहीतत्वाद् अ-प्रामाण्यं पञ्च-रात्र-तन्त्राणाम्,
हेतोर् असिद्धत्वात्,

Buitenen

Nor are the Pañcaratra Tantras invalid
because they are “accepted” by people hostile to the Veda,
for the ground is unproved.

नरसिंहः

The argument here is that the handling of Vedic texts by the unorthodox people like the Buddhists and the Jains, cannot bring down the authoritative character of those texts. Otherwise, the Vedas would long ago, have become invalid since the unorthodox schools of thought tried to explain the Vedic passages as they pleased contradicting their original significance. The authority of the Vedas is for all time to come and the wrong handling of those texts by others cannot undermine it.

मूलम्

नापि वेदद्वेषिजनपरिगृहीतत्वादप्रामाण्यं पञ्चरात्रतन्त्राणाम्, हेतोरसिद्धत्वात्,

विश्वास-प्रस्तुतिः

अपि च न वेद-द्वेषि-जन-परिग्रहः प्रामाण्यं प्रतिहन्ति,

Buitenen

Besides, acceptance by people hostile to the Veda does not by itself refute the validity of what is accepted. +++(5)+++

मूलम्

अपि च न वेदद्वेषिजनपरिग्रहः प्रामाण्यं प्रतिहन्ति,

विश्वास-प्रस्तुतिः

यदि हि प्रतिहन्यात् - निरर्गलस् तर्हि नास्तिकानां पन्थाः +++(तत्-परिग्रहेण)+++,
ते हि वेद-प्रामाण्य-प्रोत्सादनाय प्रयस्यन्तः+++(←यस्)+++ ।

Buitenen

If it did, the Path of the Heretics would be unbarred;
for they endeavour to uproot the validity of the Veda.

मूलम्

यदि हि प्रतिहन्यान्निरर्गलस्तर्हि नास्तिकानां पन्थाः, ते हि वेदप्रामाण्यप्रोत्सादनाय प्रयस्यन्तः ।

विश्वास-प्रस्तुतिः

कथञ्चिद् वेद-वाक्यानि
गृहीत्वा विप्रलम्भनात्+++(=वञ्चनात्)+++ ।
अनायासेन मिथ्यार्थान्
वेदान् कुर्युर् दिगम्बराः ॥

Buitenen

Thus the naked Jainas could effortlessly render the Vedas untruthful
simply by accepting" the Vedas in some manner by way of deception.

नरसिंहः

Cf. Tantravārtika I. iii. 3, p. 85:

लोकायतिक-मूर्खाणां नैवान्यत् कर्म विद्यते ।
यावत् किञ्चिद् अदृष्टार्थं तत् दृश्यार्थं हि कुर्वते ॥

मूलम्

कथञ्चिद्वेदवाक्यानि गृहीत्वा विप्रलम्भनात् ।
अनायासेन मिथ्यार्थान् वेदान् कुर्युर्दिगम्बराः ॥

विश्वास-प्रस्तुतिः

अथ

तत्रानधिकारिणाम् अध्येतॄणाम् एव

न चाभिव्याहरेद् ब्रह्म
स्वधा-निनयाद् ऋते ।

इत्य्-आदिवचन-पर्यालोचनया
दोषो न निर्दोष-वेद-वाक्यानाम्

इति चेत्

Buitenen

118. OBJECTION, A consideration of such statements as “He should never use the Veda, except at a funerary offering,” (Manusmrti) shows that the defect affects only the unqualified students, not the defectless Vedic statements themselves.

नरसिंहः

Manusmṛti II. 172a. The reading found is: ‘नाभिव्याहारयेत्’ etc. A similar statement is found in the Gautama Dharmasūtra II. 9: ‘न ब्रह्माभिव्याहारयेत्’ & c.

मूलम्

अथ तत्रानधिकारिणामध्येतॄणामेव न चाभिव्याहरेद् ब्रह्मस्वधानिनयादृते ।
इत्यादिवचनपर्यालोचनया दोषो न निर्दोषवेदवाक्यानामिति चेत्

विश्वास-प्रस्तुतिः

तत्-प्रस्तुत-तन्त्रेष्व् अप्य् अनधिकारि-श्रोतृ-जनानाम् एष दोषः,
न निर्दोष-तन्त्राणाम्
इति सर्वं समानम् अन्यत्राभिनिवेशात् ।

Buitenen

REPLY. Then the defect affects only the unqualified students in the case of the Tantras under discussion as well,
and not the defectless Tantras themselves;
so everything is the same, depending on what partisan view one takes.

मूलम्

तत्प्रस्तुततन्त्रेष्वप्यनधिकारिश्रोतृजनानामेष दोषः, न निर्दोषतन्त्राणामिति सर्वं समानमन्यत्राभिनिवेशात् ।

अनधिकारि-ग्रहणम्

विश्वास-प्रस्तुतिः

अथ मतं

वेदबाह्यत्वं नाम वैदिक-कर्मानधिकारित्वं
तद्-अनधिकारिभिर् वेद-बाह्यैर् गृहीतत्वात्
चैत्य-वन्दन-वाक्यवद् अ-प्रमाणम्

इति

Buitenen

244 Or if it be held that “outside the Veda” means “unqualified to perform Vedic acts,”
and that Pañcaratra is invalid, like the caityavandana statements,"
because it is accepted by those who, being unqualified, are outside the Veda,

Buitenen - Notes

supra § 17: this Buddhist injunction is outside the Veda

नरसिंहः

Bhaṭṭa Medhātithi, commenting upon Manusmṛti XII. 95, quotes from some unidentified source:

नोदनाः चैत्य-वन्दनतः स्वर्गो भवति ।

मूलम्

अथ मतं वेदबाह्यत्वं नाम वैदिककर्मानधिकारित्वं तदनधिकारिभिर्वेदबाह्यैर्गृहीतत्वात् चैत्यवन्दनवाक्यवत् अप्रमाणमिति

अनधिकारः क्व?

विश्वास-प्रस्तुतिः

तत्रापि किम् अखिल-वैदिक-कर्मानधिकारि-जन-परिगृहीतत्वं हेतुः,
उत कतिपय-वैदिक-कर्मानधिकारि-गृहीतत्वम्
इति विविच्य व्याचष्टाम् ।

Buitenen

the following distinction must be 99 considered
is the ground here that the Tantras are accepted by people unqualified for all Vedic rites,
or by people who are unqualified for some Vedic rites?
This point should be clarified.

मूलम्

तत्रापि किमखिलवैदिककर्मानधिकारिजनपरिगृहीतत्वं हेतुः, उत कतिपयवैदिककर्मानधिकारिगृहीतत्वमिति विविच्य व्याचष्टाम् ।

अनधिकारो ऽखिले

विश्वास-प्रस्तुतिः

तावद् अग्रिमः कल्पः
कल्पते हेत्व्-असिद्धितः ।
हि सो ऽस्ति मनुष्येषु
यः श्रौते क्वापि कर्मणि ॥
नाधिकुर्याद् अहिंसादौ
नृमात्रस्याधिकारः । +++(5)+++

मूलम्

न तावदग्रिमः कल्पः कल्पते हेत्वसिद्धितः ।
न हि सोऽस्ति मनुष्येषु यः श्रौते क्वापि कर्मणि ॥
नाधिकुर्यादहिंसादौ नृमात्रस्याधिकारः ।

विश्वास-प्रस्तुतिः

अन्यथा हि ब्राह्मण-हनन–तद्-धनापहरण–वर्णाङ्गना-संगम–वेदाध्ययनादि कुर्वाणाश् चण्डालादयो न दुष्येयुः - तद्-अनधिकारित्वात् ।

Buitenen

Now, the first alternative cannot be adopted,
because the ground is not proved.
For there is no human being who is not qualified for any shrauta rite whatsoever, e.g. non-violence etc.,
because his humanity as such provides his qualification.
Otherwise candālas etc. would do no wrong
if they committed such crimes a brahmin-murder, theft of brahmin wealth, miscegenation with caste-women, study of the Veda etc.,
simply because they were not qualified to observe these prohibitions.

मूलम्

अन्यथा हि ब्राह्मणहनन-तद्धनापहरणवर्णाङ्गनासंगम-वेदाध्ययनादि कुर्वाणाश्चण्डालादयो न दुष्येयुः तदनधिकारित्वात्।

विश्वास-प्रस्तुतिः

यस्य हि यन् न कर्तव्यं
तस्य हि तत्-करणं प्रत्यवायाय,

Buitenen

If a man does something he should not do,
he commits an offence.

नरसिंहः

Vide Karmamīmāṁsā*, p. 93:

While an injunction directs a positive act, a prohibition (niṣedha or pratiṣedha) serves to turn a man away from performing the action expressed in the verb and its object. The prohibition does not lead to any desirable result such as heaven; it serves none the less a useful purpose; the man, who obeys the direction not to eat the mysterious kalañja, by observing this taboo escapes the hell which else had been his fate. In disgusted technical phraseology of Mīmāṁsā, the negative applies not to the sense of the verb, but to the optative affix; as an optative urges us to action, so a negatived optative turns away from it.

मूलम्

यस्य हि यन्न कर्तव्यं तस्य हि तत्करणं प्रत्यवायाय,

विश्वास-प्रस्तुतिः

अतः सर्वेषाम् ईदृश-वैदिक-कर्मणि अधिकारो विद्यत एवेत्य्
असिद्धो हेतुः,
साधन-विकलश् च +++(चैत्य-वन्दन-)+++दृष्टान्तः ।

Buitenen

It follows that everybody is qualified to these Vedic rites,243
which shows that the ground is not proved
and that the illustration falls short of the means of proof.

Buitenen

in one sense.

For the observance of a prohibition is as much a ritual action as the observance of an injunction.

मूलम्

अतः सर्वेषामीदृशवैदिककर्मणि अधिकारो विद्यत एवेत्यसिद्धो हेतुः, साधनविकलश्च दृष्टान्तः ।

अनधिकार एकदेशे

विश्वास-प्रस्तुतिः

नापि कतिपय-वैदिक-कर्मानधिकारिभिर् गृहीतत्वाद् अ-प्रामाण्यं समस्त-वेद-वाक्यानाम् अप्रामाण्य-प्रसङ्गात्,

Buitenen

Nor can the second alternative be adopted
that the Tantras are invalid because they are accepted by people
who are unqualified for certain Vedic rites,
because that would entail the conclusion that all Vedic statements are invalid.

मूलम्

नापि कतिपयवैदिककर्मानधिकारिभिर्गृहीतत्वादप्रामाण्यं समस्तवेदवाक्यानामप्रामाण्यप्रसङ्गात्,

विश्वास-प्रस्तुतिः

अस्ति हि सर्वेषां कतिपय-वैदिक-कर्मानधिकारः,
ब्राह्मणस्येव राज-सूये,
राजन्यस्येव सोम-पाने,+++(5)+++

Buitenen

For every man has some Vedic rites for which he is not qualified:
the brahmin is not qualified for the Royal Consecration,
the ksatriya not for the ritual drinking of soma.

मूलम्

अस्ति हि सर्वेषां कतिपयवैदिककर्मानधिकारः, ब्राह्मणस्येव राजसूये, राजन्यस्येव सोमपाने,

विश्वास-प्रस्तुतिः

अतो व्यवस्थित-वर्णाधिकारि-गृहीत-वेद-वचनैर् अनैकान्तिको हेतुः, अ-प्रयोजकश् च ।

Buitenen

Consequently, this ground has an occasional application to the Vedic statements,
which are accepted by qualified persons belonging to the three estates,
and is therefore inconclusive.

नरसिंहः

अप्रयोजकत्वम् एव प्रतिपादयति ‘चैत्य-वन्दनतः इत्य्-आदिना ।

मूलम्

अतो व्यवस्थितवर्णाधिकारिगृहीतवेदवचनैरनैकान्तिकोहेतुः, अप्रयोजकश्च ।

कारणदोषः

विश्वास-प्रस्तुतिः

चैत्यवन्दनतः स्वर्गो
भवतीतीदृशी मतिः ।
न तत्-परिग्रहान् मिथ्या
किन्तु कारण-दोषतः ॥

Buitenen

As to the illustration,
the view that heaven is attained by worshipping a caitya
is not invalidated by its being accepted by heretics,
but by the deficiency of its cause, [[100]]

मूलम्

चैत्यवन्दनतः स्वर्गो भवतीतीदृशी मतिः ।
न तत्परिग्रहान्मिथ्या किन्तु कारणदोषतः ॥

शिष्ट-परिग्रहः

विश्वास-प्रस्तुतिः

उक्तश्च वैदिक-समस्तास्तिक-प्रवर-भृगु-भरद्वाज-द्वैपायन-प्रभृति-मह-र्षि-जन-परिग्रहः,

Buitenen

119. We have already said that Pancarâtra has been accepted by the Vedic, and among all orthodox pre-eminent, sages Bhṛgu, Bharadvāja, Dvaipāyaṇa etc.

नरसिंहः

See G.A. Grierson, “The Nārāyaṇīya and the Bhāgavatas”, Indian Antiquary Vol. 37, p. 254:

The usual tradition is that it (the Bhāgavata doctrine) was transmitted: Deity—Nārada—saints including the Sun—Ṛṣis in his train—gods—Asita—to the world in different channels. Modern Bhāgavatas recognise two great teachers of their religion. One is Nārada, to whom is attributed Nāradīya Bhaktisūtra. Equally esteemed is the collection of Śāṇḍilyabhakti-sūtras. The author to whom it is attributed, composed the Śāṇḍilyavidyā quoted in the Chāndogya Upaniṣad III. xiv. 3.

See also p. 9 above, fn

मूलम्

उक्तश्च वैदिकसमस्तास्तिकप्रवरभृगु -भरद्वाज -द्वैपायनप्रभृति -महर्षिजनपरिग्रहः,

विश्वास-प्रस्तुतिः

अद्यत्वेऽपि हि पञ्च-रात्र-तन्त्र-विहित-मार्गेण
प्रासाद-करण–प्रतिमा-प्रतिष्ठापन–प्रणाम-प्रदक्षिणोत्सवादीनि प्रत्यक्ष-श्रुति-विहिताग्निहोत्रादिवत् श्रेयस्-करतर-बुद्ध्या ऽनुतिष्ठतः शिष्टान् पश्यामः।

Buitenen

And in the present day we can also observe how exemplary persons of great learning,
believing that these rites are most effective in attaining bliss,
perform the rites of temple-building, erection of idols, prostration, circumambulation and particular festival ceremonies,
just as they perform the agnihotra and other rituals enjoined directly by Scripture.

नरसिंहः

For a detailed account of temple-construction according to Pañcarātra-texts, see Agastyasaṁhitā 1-106; Ahirbudhnya Saṁhitā XXXVI. 31-49; Īśvarasaṁhitā XVI. 1, 219-247; 266-287; Kapiñjalasaṁhitā X. 61-66; 69-72; Jayākhyasaṁhitā XX. 73ff; Pādma ‘kriyā’ IV. 24-28, 35-45; V. 84-90; VIII; Pārameśvara X. 2-106; Pauṣkara XL. 92-109a, XLII. 71-118; Viṣṇutilaka VI. 1-342a, 449-498; Sanatkumāra ‘Brahma’ VIII; Sāttvata XXIV. 280-432a, XXV. 1-375; Hayaśīrṣa ‘Ādi’. XIII. 1-41; XXXVIII. 61; XLIV. 12-19.

For the installation of images, see Aniruddha XV, XXXIII, XXXIV; Īśvara XVI. 228-352, XVIII. 1-560; Jayākhya XX. 131b ff; Parama XVIII. 28-75; Pauṣkara XXXVIII. 1ff, 15-46; Sanatkumāra “Brahma” VI. 110 passim, IX. passim; Sāttvata XXV. 307ff; 320ff, XXVI. 375.

For a description of Utsavas, which are as many as fifty in number, see Agastya V. 1-2; Aniruddha XVII. 9-16a, XX. 1-16, XXIV, XXV. 1-4, XXVII; Īśvara X. 4a-10, XII. 1-233a, XIII. 1-265a, XIX. 469-473; Kapiñjala XXII. 3-5, 8-9; XXIII. 1-84a, XXIV. 1-69a; Pādma “caryā” X. 6-23, XI. 1-292, XIV. 1-85; Pārameśvara XVI. 1-55, XVII. 1-550, Śāṇḍilya I, XV. 1-126; Śrīpraśna XXX. 79-87; Sanatkumāra “Śiva” IX.

For the annual festival called Mahotsava, see Aniruddha XXI. 1-112; Īśvara X; Pādma “car” Xl; Śrīpraśna XXXI. 8, XXXVIII.

मूलम्

अद्यत्वेऽपि हि पञ्चरात्रतन्त्रविहितमार्गेण प्रासादकरण -प्रतिमाप्रतिष्ठापन -प्रणाम -प्रदक्षिणोत्सवादीनि प्रत्यक्षश्रुतिविहिताग्निहोत्रादिवत् श्रेयस्करतरबुद्ध्याऽनुतिष्ठतः शिष्टान् पश्यामः,

श्रेयस्-साधनता

विश्वास-प्रस्तुतिः

न चैतदाचरणं निर्मूलम् इति युक्तं
सन्ध्या-वन्दनाष्टका-चरणादेर् अपि निर्मूलत्व-प्रसङ्गात्,

Buitenen

And it is improper to maintain that their conduct has no foundation,
for that would entail that such smārta rites as crepuscular worship, astaka etc., are similarly without foundation.

मूलम्

न चैतदाचरणं निर्म्मूलमिति युक्तं सन्ध्यावन्दनाष्टकाचरणादेरपि निर्मूलत्वप्रसङ्गात्,

विश्वास-प्रस्तुतिः

उक्तं च शिष्टाचारस्य प्रामाण्यम् -
अपि वा कारणाग्रहणे -
प्रयुक्तानि प्रतीयेरन्न् इति ।

Buitenen

It has been said that the conduct of exemplary people is authoritative,246
and also that even when they do not know the cause of their custom,
they do know what is proper custom.

[246]: supra §14.

नरसिंहः

Pūrvamīmāṁsā I. iii. 7.

मूलम्

उक्तं च शिष्टाचारस्य प्रामाण्यम् अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्निति ।

भागवत-परिग्रहे ऽदोषः

विश्वास-प्रस्तुतिः

अथ भागवत-जन-परिगृहीतत्वाद् इति +++(अप्रामाण्ये)+++ हेतुः,
हन्त तर्हि तत्-परिगृहीतत्वाद् वाजसनेयकैकायन-शाखा-वचसां प्रत्यक्षादीनां चाप्रामाण्यप्रसङ्गः ।+++(5)+++

Buitenen

120. If the ground for the invalidity of Pañcaratra is that it is accepted by Bhagavatas,247 well, then the scriptural statements of the Ekayana Sakha and the Vājasaneyaka sakhas and the means of knowledge Perception, Inference etc., would also be invalid since the Bhagavatas accept those too!

[247]: supra § 16.

नरसिंहः

अथ … See p. 17 above, “एवं जात्या” & c.

वासननेय … The Ekāyanaśākhā belongs to the Śukla Yajurveda.

मूलम्

अथ भागवतजनपरिगृहीतत्वादिति हेतुः, हन्त तर्हि तत्परिगृहीतत्वाद् वाजसनेयकैकायनशाखावचसां प्रत्यक्षादीनां चाप्रामाण्यप्रसङ्गः ।

विश्वास-प्रस्तुतिः

अथ “तैर् एव परिगृहीतत्वाद्” इति +++(अप्रामाण्ये)+++ हेतुः
तद्-असाधारणानैकान्तिकम्, असिद्धञ्च ।

Buitenen

This same ground, moreover, namely that Pancarãtra is invalid because it is accepted by the Bhagavatas, suffers from two defects; it is both specially-occasional and unproved.248

[248]: supra § 59.

मूलम्

अथ तैरेव परिगृहीतत्वादिति हेतुः तदसाधारणानैकान्तिकम्, असिद्धञ्च ।

विश्वास-प्रस्तुतिः

किमिति वा तत्परिग्रहादप्रामाण्यम्?

Buitenen

Why is Pañcarātra rendered invalid by their acceptance?

मूलम्

किमिति वा तत्परिग्रहादप्रामाण्यम्?

नात्रैवर्णिकत्वात्

विश्वास-प्रस्तुतिः

“अत्रैवर्णिकत्वाद्” इति चेत्
किं भोः त्रैवर्णिकेतर-सवर्ण-रथकार-निषादादि-परिगृहीतानुष्ठीयमानार्थानाम् आथर्वणवचसां
“रथकार आदधीत” “एतया निषाद-स्थपतिं याजयेत्” इत्य्-आदि-वचसां प्रामाण्यं नास्ति ?

Buitenen

If it is because they do not belong to the three estates,
then the Atharvanic statements whose content is accepted and observed by rathakaras, nisadas and other groups
which do not belong to the three estates
(Statements like “The rathakara must add fuel,”
“With [[101]] that he must sacrifice for the chief of the Nişādas,“249 etc.)
would also be invalid.

Buitenen - Notes

[249]: Quotations not identified; the groups enumerated are śūdras, and yet by Vedic injunction have to observe, i.e., to accept, the few Vedic injunctions addressed to them. Do they by their acceptance invalidate these injunctions?

नरसिंहः

रथकार … Cf. Āpastambaśrautasūtra V. 3.19.

एतया … Maitrāyaṇi Saṁhitā [ed. Dr. Leopold V. Schroeder] II. 2.4. The reading found is : “तया निषाद-स्थ-पतिं याजयेत् सा हि तस्येष्टिः ।” For the Niṣādasthapati-nyāya see Śabara on Pūrvamīmāṁsā VI. i. 51, 52.

मूलम्

अत्रैवर्णिकत्वादिति चेत् किं भोः त्रैवर्णिकेतरसवर्णरथकारनिषादादिपरिगृहीतानुष्ठीयमानार्थानामाथर्वणवचसां रथकार आदधीत एतया निषादस्थपतिं याजयेत् इत्यादिवचसां प्रामाण्यं नास्ति ।

विश्वास-प्रस्तुतिः

अस्तुवाऽत्रैवर्णिक-परिग्रहो ऽप्रामाण्य-हेतुः,
एतेषां तु भगवच्-छास्त्रानुगामिनां भागवतानाम्
उत्कृष्ट-ब्राह्मण्यं सर्व-प्रमाण-समवगतम् इति
तत्-परिग्रहः प्रामाण्यम् एव द्रढयति ।

Buitenen

Or, be it granted that the acceptance of certain rites by outcastes renders them invalid;
yet, in view of the fact that the eminent brahminhood of these Bhagavatas
who follow the doctrine of the Bhagavān
is evident by all criteria of knowledge,
their acceptance of Pañcaratra rather confirms its validity.

नरसिंहः

For a detailed notice of the origination, transformation and philosophy of the Bhāgavata religion and its contribution to the Indian thought, see G. A. Grierson, “The Nārāyaṇīya and the Bhāgavatas”, Indian Antiquary, Vol. 37, pp. 251-262.

मूलम्

अस्तुवाऽत्रैवर्णिकपरिग्रहोऽप्रामाण्यहेतुः, एतेषां तु भगवच्छास्त्रानुगामिनां भागवतानामुत्कृष्टब्राह्मण्यं सर्वप्रमाणसमवगतमिति तत्परिग्रहः प्रामाण्यमेव द्रढयति ।