१५ विरोधाभासे तारतम्यम्

विश्वास-प्रस्तुतिः

एवञ्च -

विरोधेऽपि विकल्पः स्याद्
भगवच्-छास्त्र-वेदयोः ।
विरोध एव नास्तीति
प्राग् एव प्रत्यपादयम्

Buitenen

Therefore, even if there were a conflict between the Bhagavan’s doctrine and the Veda, there still would be option between them; but we have already expounded that there is no conflict between them at all.

मूलम्

एवञ्च -

विरोधेऽपि विकल्पः स्याद् भगवच्छास्त्रवेदयोः ।
विरोध एव नास्तीति प्रागेव प्रत्यपादयम् ॥

विश्वास-प्रस्तुतिः

नन्व् अत्र-भवतां +++(शाबर-)+++भाष्यकाराणां विरुद्धांशाप्रामाण्याभिधानं कथम् इव?

विश्वास-टिप्पनी

नात्र शङ्करो भाष्यकार उक्तः - तस्यान्यत्रेह खण्डितत्वात्।
न च द्रमिडभाष्यकारः - उत्पत्त्यसम्भवाधिकरणे सूत्रेषु तद्-विप्रतिपत्तौ प्रमाणस्याभावात्।
न च श्रुतप्रकाशिकोक्त-पाञ्चरात्रपाशुपतादि-तुल्यत्व-कथकः कश्चन - यामुनस्य तत्रानङ्गीकारात्।
श्रुतिपारम्यवादिनं शबरनिभं गौरवास्पदं गृहीतुम् अलम्।

Buitenen

116. OBJECTION. However, how can the venerable Author of the Bhasya 239 state that those parts which are in conflict are invalid:

Buitenen - Notes

Sabarabhasya and KMS.

नरसिंहः

This reference by Yāmuna to ‘bhāṣyakāra’ has been taken by some Vaiṣṇava scholars as speaking of Dramiḍabhāṣyakāra, who is traditionally said to have commented upon the Brahmasūtra. But this may be taken as a reference to Śaṅkara himself.

Rāmānuja’s Śrībhāṣya also seems to support this position. Cf. Śrībhāṣya under II. ii. 42, p. 832:

यत् तु परैः सूत्र-चतुष्टयं कस्यचिद् विरुद्धांशस्य प्रामाण्य-निषेध-परं व्याख्यातम्,

with the above passage : “नन्व् अत्र भवतां” etc. Also cf. Śaṅkara on the above sūtra, p. 259:

यद्यप्य् एवं-जातीयको ऽंशः
समानत्वान् न विसंवाद-गोचरो भवति ।
अस्ति तु अंशान्तरं विसंवाद-स्थानम्
इत्य् अतः तत्-प्रत्याख्यानायारम्भः

etc.

मूलम्

नन्वत्र भवतां भाष्यकाराणां विरुद्धांशाप्रामाण्याभिधानं कथमिव,

विश्वास-प्रस्तुतिः

यद्य् अपि विरोधः - कृत्वा चिन्तया परिहृतस्,
तद् अपि गम्भीर-न्याय-सागरम् अवगाढुम् अ-परिवृढानां कोमल-मनसां
वेदानादरो मा भूद् इत्य्-एवम्-परम्,

Buitenen

REFUTATION. “If there be conflict, it is carefully eliminated.”
This statement means that those of frail minds,
who are not strong enough to plunge into the deep ocean of rules of interpretation, must not be [[97]] disrespectful to the Veda.

मूलम्

यद्यपि विरोधः कृत्वा चिन्तया परिहृतस्तदपि गम्भीरन्यायसागरमवगाढुमपरिवृढानां कोमलमनसां वेदानादरो माभूदित्येवम्परम्,

विश्वास-टिप्पनी

अत्रैव वेदस्य सुबोधतरत्वम् उक्तम्।
तच् च वेदाङ्गैस् तद्-उपबृंहणेन सिध्यतीति सुवचम्।

विश्वास-प्रस्तुतिः

यथैव हि भगवतो जैमिनेः “कर्म-फलोपन्यासः कर्म-श्रद्धा-संवर्धनाये"ति ।+++(5)+++

Buitenen

This is comparable to the venerable Jaimini’s exposition
that the fruits of acts serve to increase people’s faith in the acts.

नरसिंहः

Cf. Vedārthasaṅgraha, p. 157:

अश्रुत-वेदान्तानां कर्मणि अश्रद्धा मा भूद् इति देवताधिकरणे अतिवादाः कृताः; कर्म-मात्रे यथा श्रद्धा स्याद् इति ।

मूलम्

यथैव हि भगवतो जैमिनेः कर्मफलोपन्यासः कर्मश्रद्धासंवर्द्धनायेति ।