विश्वास-प्रस्तुतिः
ननु च भगवतस् सर्व-ज्ञत्वेनासंभाव्यमानायाम् अपि भ्रान्तौ
सर्व-शक्तित्वेन विप्रलब्धमपि भवतीति
किम् इदम् अपि शास्त्रं व्यामोहयितुम् अभिहितम्?
उत वस्तुतोऽवहितबुद्ध्या निबद्धम् इति?
Buitenen
115. OBJECTION. However, granted that error is made inconceivable by the Bhagavan’s omniscience,
yet, since He is also omnipotent,
He can also have composed the Pancarātra in order to deceive.
Now, when people, considering this possibility, are confused in their minds as to
which view they should take,
that this Sastra has been promulgated to deceive them,
or that it has been stated according to the truth with complete attentiveness of mind,
मूलम्
ननु च भगवतस्सर्वज्ञत्वेनासंभाव्यमानायामपि भ्रान्तौ सर्वशक्तित्वेन विप्रलब्धमपि भवतीति
किमिदमपि शास्त्रं व्यामोहयितुमभिहितम् उत वस्तुतोऽवहितबुद्ध्या निबद्धम् इति?
विश्वास-प्रस्तुतिः
अन्यतर-पक्षावलम्बन-विक्लव-मनसां
क इव निर्णयोपायः?
प्रत्युत वेद-विरोधाद् एव विप्लवन-फलम् इत्य् अध्यवस्याम
इति ।
Buitenen
what way is there to resolve their dilemma? We should prefer to decide that since it militates against Scripture it results in disaster.
मूलम्
अन्यतरपक्षावलम्बनविक्लबमनसां क इव निर्णयोपायः, प्रत्युत वेदविरोधादेव विप्लवनफलमित्यध्यवस्याम इति ।
विश्वास-प्रस्तुतिः
तत्रोच्यते “विप्रतिषेधात्” इति -
समस्त-श्रुतीतिहास-पुराण-लोक-विप्रतिषेधात्।
Buitenen
REFUTATION. To this objection the Author replies vipratisedhat, i.e., on account of the contradiction of all śruti, epic, purana and worldly experience.
नरसिंहः
Brahmasūtra II. ii. 42
मूलम्
तत्रोच्यते विप्रतिषेधात् इति, समस्तश्रुतीतिहासपुराणलोकविप्रतिषेधात्।
नाकारणम्
विश्वास-प्रस्तुतिः
यदि विना कारणेन भगवतः सर्व-शक्तित्व-मात्राद् विप्लावन-शङ्का -
Buitenen
If, without any reason, merely because the Bhagavan is omnipotent, the question is raised
if He might bave intended to ruin His devotees,
मूलम्
यदि विना कारणेन भगवतः सर्वशक्तित्वमात्राद् विप्लावनशङ्का -
विश्वास-प्रस्तुतिः
हन्तैवं सर्वशक्तित्वान्
नरके धार्मिकान् अपि ।
पातयेन् नेति सन्देहान्
निश्चेष्टं जगद् आपतेत् ॥ +++(4)+++
Buitenen
why, then one could also raise the question whether He would not hurl even the virtuous into hell by a whim of His omnipotence and consequently the whole world would fall into inactivity!
मूलम्
हन्तैवं सर्वशक्तित्वान्नरके धार्मिकानपि ।
पातयेन्नेति सन्देहान्निश्चेष्टं जगदापतेत् ॥
विश्वास-प्रस्तुतिः
अपि चायं सर्वशक्तित्वेन विप्रलिप्समानः
किम् अतीन्द्रियासत्यार्थान् वेदान् आदौ निर्माय
स्व-स्व-निर्माण-स्मरण-शक्तिम् अपि हिरण्य-गर्भादेर् अपहृत्य
तत्-प्रभृति स्वाध्याय-परम्पराम् इमां प्रवर्तितवान् न वेति संशयानाः
कथं विश्वसिमः ।+++(5)+++
Buitenen
[[95]]
Besides, we could also raise the question whether He did not wish to deceive people, because He is omnipotent, and thus created in the beginning the Vedas themselves with false meanings, which are also suprasensible, took away from Brahma etc. also the power of recollecting that He was the creator of the Vedas,
and from then onward set in motion the transmission of Vedic instruction until the present day:
how can we be sure about it?
Buitenen - Note
[236]: Since Brahma is the creator of the world, he can know whether there were Vedas or not before creation; by taking away Brahma’s memory, God in His omnipotence could start the myth of the preterpersonal origin of the Veda..
मूलम्
अपि चायं सर्वशक्तित्वेन विप्रलिप्समानः किमतीन्द्रियासत्यार्थान् वेदानादौ निर्माय स्व-स्वनिर्माणस्मरणशक्तिमपि हिरण्यगर्भादेरपहृत्य तत्प्रभृति स्वाध्यायपरम्परामिमां प्रवर्तितवान्न वेति संशयानाः कथं विश्वसिमः ।
स्वरूप-विरुद्धम्
विश्वास-प्रस्तुतिः
अथास्य सत्य् अपि सर्व-शक्तित्वे
यावच्-छक्ति-करणे प्रमाणाभावाद् अनवस्थानाद्
Buitenen
Or the position can be taken that
since there is no evidence that,
while He is indeed omnipotent,
He acted up to the full measure of His omnipotence,
मूलम्
अथास्य सत्यपि सर्वशक्तित्वे यावच्छक्तिकरणे प्रमाणाभावाद् अनवस्थानाद्
विश्वास-प्रस्तुतिः
भगवतश् च स्व-भावाप्त-कामतया विप्रलम्भ-प्रयोजन-विरहाद्
Buitenen
since there is no purpose for Him to deceive people
because He is satisfied in all His desires,
मूलम्
भगवतश्च स्वभावाप्तकामतया विप्रलम्भप्रयोजनविरहाद्
विश्वास-प्रस्तुतिः
वैषम्य-नैर्घृण्यादि-दोषैर् मात्रया ऽपि चासंस्पृष्टत्वात्
Buitenen
and since He is not in the least affected by defects of partiality and cruelty etc.
नरसिंहः
Cf. ibid. II. i. 34:
वैषम्य-नैर्घृण्ये न, सापेक्षत्वात्, तथा हि दर्शयति।
मूलम्
वैषम्यनैर्घृण्यादिदोषैर्मात्रयापि चासंस्पृष्टत्वात्
विश्वास-प्रस्तुतिः
सर्वप्राणिजातस्य स्वभावसौहृदेन व्यवस्थानात्।
Buitenen
because He abides with natural affection for all living beings;
नरसिंहः
Cf. Śvetāśvatara III. 17:
सर्वस्य प्रभुम् ईशानं सर्वस्य शरणं सुहृत्॥
मूलम्
सर्वप्राणिजातस्य स्वभावसौहृदेन व्यवस्थानात्
दोषास्मरणम्
विश्वास-प्रस्तुतिः
विप्रलब्धुं प्रणीतत्वे च
विदुषाम् अद्य यावत् स्वाध्यायाध्ययन–तद्-अर्थानुष्ठानवतां
तत्-कर्तृ-दोष-विस्मरणानुपपत्तेस्
तादृशाशङ्का नास्ति
इति चेत्
तद् एतत् सर्वम् अन्यत्रापि समानम् ।
Buitenen
and since, if He had composed
the Pañcaratrain order to deceive, it would be impossible to demonstrate that
the wise men who, up to now, learn its instructions
and perform the contents of these instructions
have forgotten the defects of its author,
it must follow that such a suspicion does not arise;
and if this view is taken, all this will equally apply to the other Vedas as well.
मूलम्
विप्रलब्धुं प्रणीतत्वे च
विदुषामद्य यावत् स्वाध्यायाध्ययन-तदर्थानुष्ठानवतां तत्कर्तृदोषविस्मरणानुपपत्तेस्तादृशाशङ्का नास्तीति चेत्तदेतत्सर्वमन्यत्रापि समानम् ।
विश्वास-प्रस्तुतिः
तथा हि -
Buitenen
Therefore,
मूलम्
तथा हि ।
विश्वास-प्रस्तुतिः
किम् अस्यावाप्त-कामस्य
सर्वज्ञस्य दया-निधेः ।
अल्प-सत्त्वैर् अ-लब्धार्थैर्
विप्रलब्धैः प्रयोजनम् ॥
Buitenen
what possible purpose could He who is satisfied in all His desires,
who is omniscient and a treasury of compassion
have in deceiving the poor people
who have failed to understand the meaning (of the Veda)?
नरसिंहः
दयानिधेः … See G.A. Grierson, Indian Antiquary, vol. 37, p. 260:
India again owes the preservation of the idea of a God of Grace, of the Fatherhood of God, to the Bhāgavatas.
विप्रलब्धैः … ‘प्राणिभिः’ *इति विशेष्यम् अध्याहार्यम्।
मूलम्
किमस्यावाप्तकामस्य सर्वज्ञस्य दयानिधेः ।
अल्पसत्त्वैरलब्धार्थैर्विप्रलब्धैः प्रयोजनम् ॥
महाजन-गृहीतता
विश्वास-प्रस्तुतिः
विप्रलब्धुं कृतं तन्त्रं
कथं वा परम-र्षयः ।
इतस् ततः प्रशंसन्ति
तुल्य-वच् छ्रुति-मूर्धभिः ॥ +++(4)+++
Buitenen
Or how could the supreme sages everywhere praise the Tantra as being equal to the Upanisads,
if it had been composed in order to deceive?
मूलम्
विप्रलब्धुं कृतं तन्त्रं कथं वा परमर्षयः ।
इतस्ततः प्रशंसन्ति तुल्यवच्छ्रुतिमूर्द्धभिः ॥
विश्वास-प्रस्तुतिः
तथा हि वेदैस् सह निर्विशेषं
वाराह-रामायण-भारतादौ ।
अमुष्य तन्त्रस्य रहस्यभावं
वदन्ति सन्तस् तम् इमं वदामः ॥
Buitenen
For thus the saints declare in Vārāha Purana, the Ramayana and the Bharata etc. that this Tantra is an equally esoteric doctrine as the Vedas; and we declare the same.
नरसिंहः
‘निर्विशेषं’ समानम् इत्य् अर्थः।
मूलम्
तथा हि वेदैस्सह निर्विशेषं वाराह-रामायण-भारतादौ ।
अमुष्य तन्त्रस्य रहस्यभावं व (पठन्तीति द्रविडपाठः ।)दन्ति सन्तस्तमिमं वदामः ॥
विश्वास-प्रस्तुतिः
वेदेन पञ्चरात्रेण
भक्त्या यज्ञेन च द्विज ।
प्राप्योऽहं नान्यथा प्राप्यो
वर्षलक्षशतैरपि ॥
Buitenen
[[96]]
“Through Veda, Pañcaratra, through devotion and sacrifice, O Brahmin, I can be attained,
and not in any other way, even in hundreds of lacs of years.
नरसिंहः
Varāhapurāṇa Ch. 66. śls. 19, 14, 15a, 18a.
मूलम्
वेदेन पञ्चरात्रेण भक्त्या यज्ञेन च द्विज? ।
प्राप्योऽहं नान्यथा प्राप्यो वर्षलक्षशतैरपि ॥
विश्वास-प्रस्तुतिः
पञ्चरात्रं सहस्राणां
यदि कश्चिद् ग्रहीष्यति ।
कर्म-क्षये च मद्-भक्तो
यदि कश्चिद् भविष्यति ॥
तस्य वेदाः पञ्चरात्रं नित्यं हृदि वसिष्यति +++(=वत्स्यति)+++ ।
Buitenen
If one among thousands will grasp the Pañcarātra and,
at the expiry of his karman, will die my devotee, the Vedas and the Pañcarātra will dwell in his heart forever.237
[237]: not identified.
मूलम्
पञ्चरात्रं सहस्राणां यदि कश्चिद् ग्रहीष्यति ।
कर्मक्षये च मद्भक्तो यदि कश्चिद् भविष्यति ॥
तस्य वेदाः पञ्चरात्रं नित्यं हृदि व(वत्स्य प्राप्ते वसिष्यतीत्यार्षम् ।)सिष्यति ।
विश्वास-प्रस्तुतिः
यद् इदं पञ्च-रात्रम् मे
शास्त्रं परम-दुर्लभम् ॥
तद् भवान् वेत्स्यते सर्वं
मत्-प्रसादाद् अ-संशयम् ।
Buitenen
This supreme Pañcarātra doctrine of mine, which is not difficult to grasp, that you shall reach to all the world by my grace, doubtless.25
[238]: not identified.
नरसिंहः
Varāhapurāṇa Ch. 66. śl. 18b.
Also Cf. ibid. śl. 11b:
अलाभे वेद-मन्त्राणां पञ्च-रात्रोदितेन वा॥
मूलम्
यदिदं पञ्चरात्रम्मे शास्त्रं परमदुर्लभम् ॥
तद् भवान् वेत्स्यते सर्वं मत्प्रसादादसंशयम् ।
विश्वास-प्रस्तुतिः
पुराणैश्चैव वेदैश्च
पञ्चरात्रैस् तथैव च ॥
ध्यायन्ति योगिनो नित्यं
क्रतुभिश् च यजन्ति तम् ।
Buitenen
The Yogins mediate upon the Eternal One with Puranas, Vedas and Pañcaratras, and worship Him with the proper rites.
नरसिंहः
Rāmāyaṇa [ uttara ] Ch. X (Prakṣipta) [M.L.J. Press],p.1012. The reading found is:
यजन्ति पञ्चभिर् यज्ञैः सततं मधुसूदनम्॥ [61b]
यः पुराणे च वेदे च पञ्च-रात्रे च पठ्यते॥ [62b]
मूलम्
पुराणैश्चैव वेदैश्च पञ्चरात्रैस्तथैव च ॥
ध्यायन्ति योगिनो नित्यं क्रतुभिश्च यजन्ति तम् ।
विश्वास-प्रस्तुतिः
एवम् एकं साङ्ख्य-योगं
वेदारण्यकम् एव च ।
परस्-पराङ्गान्य् एतानि
पञ्च-रात्रञ् च सत्तम ॥
Buitenen
Thus Samkhya and Yoga on the one hand, and Veda and Aranyaka on the other hand are one and the same; all together they are the members that constitute Pañcaratra
नरसिंहः
वेदारण्यक … See Amarnath Ray, “Śrīkṛṣṇa and the source of the Bhagavadgītā,” Indian Historical Quarterly, Vol. IX, pp. 193-194:
Kṛṣṇa was the great religious teacher who brought about a Sāṁkhya-Yoga-Vedānta synthesis….The first book which is fragmentary might have been a remnant of the Āraṇyaka of the Sāttvatas, spoken of in the Nārāyaṇīya account of the Mahābhārata [XII. 348. 31]. When the doctrines of bhakti and avatāra and desireless action were adopted by Kṛṣṇa’s followers, they were called Bhāgavatas.
For a detailed account of the alliance between Pañcarātra and Sāṅkhya-Yoga and their influences and counter-influences, see G.A. Grierson, ‘The Nārāyaṇīya and the Bhāgavatas’, The Indian Antiquary, Vol. 37, pp. 255-258.
सत्तम … Mahābhārata XII. 336. 76.
Cf. ibid., Ch. 337. śl. 1:
sāṅkhyaṁ yogaṁ pāñcarātraṁ vedāraṇyakameva ca।
jñānānyetāni brahmarṣe lokeṣu pracaranti ha॥
Also cf. ibid. śl. 59:
sāṅkhyaṁ yogaḥ pāñcarātraṁ vedāḥ pāśupataṁ tathā।
jñānānyetāni rājarṣe viddhi nānāmatāni vai॥
Commenting upon the verse “evamekam” in his Śrībhāṣya under II. ii. 39 (p. 834), Rāmānuja says:
साङ्ख्यं च योगश् च साङ्ख्य-योगम् । वेदाश् चारण्यकानि च वेदारण्यकम् । परस्पराङ्गान्य् एतानि, एक-तत्त्व-प्रतिपादन-परतयैकी-भूतानि; एकं पञ्च-रात्रम् इति कथ्यते । एतद् उक्तं भवति — साङ्ख्योक्तानि पञ्च-विंशति-तत्त्वानि , योगोक्तं च यम-नियमाद्य्-आत्मकं योगम्, वेदोदित-कर्म–स्व-रूपाण्य् अङ्गीकृत्य तत्त्वानां ब्रह्मात्मकत्वं, योगस्य च ब्रह्मोपासन-प्रकारत्वं कर्मणां च तद्-आराधन-रूपताम् अभिदधति । कर्म–स्व-रूपं प्रतिपादयन्त्य् आरण्यकानि । एतद् एव परेण ब्रह्मणा नारायणेन स्वयम् एव पञ्च-रात्र-तन्त्रे विशदीकृतम् इति । शारीरके च साङ्ख्योक्त-तत्त्वानाम् अब्रह्मात्मकता-मात्रं निराकृतम्, न स्व-रूपम् । योग-पाशुपतयोश् चेश्वरस्य केवल-निमित्त-कारणता, परावर-तत्त्व-विपरीत-कल्पना, वेद-बहिष्कृताचारो निराकृतः; न योग–स्व-रूपं, पशुपति–स्व-रूपं च । अतः
साङ्ख्यं योगः पञ्च-रात्रं वेदाः पाशुपतं तथा।
आत्म-प्रमाणान्य् एतानि न हन्तव्यानि हेतुभिःइति तत्-तद्-अभिहित-तत्-तत्-स्व-रूप-मात्रम् अङ्गीकार्यम् । जिन-सुगताभिहित-तत्त्ववत् सर्वं न बहिष्कार्यम् इत्य् उच्यते । ‘यथागमं यथा-न्यायं निष्ठा नारायणः प्रभुर्’ इत्य् अनेनैकार्थ्यात् ।
Also see Collected Works of Sir R. G. Bhandarkar (Bhandarkar Oriental Research Institute, 1933), Vol. I, pp. 248-294 for an article ‘The Rāmānujīya and the Bhāgavata or Pāñcarātra systems’.
मूलम्
एवमेकं साङ्ख्ययोगं वेदारण्यकमेव च ।
परस्पराङ्गान्येतानि पञ्चरात्रञ्च सत्तम? ॥
विश्वास-प्रस्तुतिः
वेदेन पञ्चरात्रेण
यः पश्यति स पश्यति ।
इदम् महोपनिषदं
चतुर्-वेद-समन्वितम् ॥
Buitenen
O excellent one! He who sees through Veda and Pañcaratra sees truly; this great Upanisada, consistent with the four Vedas….”
नरसिंहः
वेदेन … To be identified.
इदं … Mahābhārata XII. 326. 100a.
मूलम्
वेदेन पञ्चरात्रेण यः पश्यति स पश्यति ।
इदम्महोपनिषदं चतुर्वेदसमन्वितम् ॥
विश्वास-प्रस्तुतिः
वचसाम् एवम्-आदीनाम्
आनन्त्याद् उपरम्यते ।
इत्थं-भूतस्य तन्त्रस्य
विप्लवं यदि शङ्कसे ॥
सर्वत्र स्यादनाश्वास
इत्य् एतद् उपदिश्यते ।
Buitenen
Since the number of these and similar statements is infinite, we stop here. If you still raise the question if there cannot be ruin in such a Tantra,
then there can be no faith in anything. It is with this view in mind that the Author sets forth:
नरसिंहः
पञ्च-रात्रस्य परम-प्रमाण-भूतस्यापि विप्लावन-शङ्कायां सर्वत्रापि अप्रामाण्य-बुद्ध्या अनाश्वास एव भवेत् । विप्रतिषेधश् च स्याद् वैदिक-लौकिक-व्यवहाराणाम् इति सूत्रार्थं समुच्चिनोति ‘सर्वत्र स्याद् अनाश्वास’ इत्य् अनेन । ‘विप्रतिषेधात् इति’ इत्य् एतत् पर्यन्तम् एकं वाक्यम् ।
मूलम्
वचसामेवमादीनामानन्त्यादुपरम्यते ।
इत्थंभूतस्य तन्त्रस्य विप्लवं यदि शङ्कसे ॥
सर्वत्र स्यादनाश्वास इत्येतदुपदिश्यते ।
विश्वास-प्रस्तुतिः
“विप्रतिषेधात्”
इति।
Buitenen
vipratisedAt.
नरसिंहः
Brahmasūtra II. ii. 42.
मूलम्
“विप्रतिषेधात्”
इति।