१३ वेद-तुल्य-प्रामाण्यम्

विश्वास-प्रस्तुतिः

ननु कथं श्रुति-विरुद्धस्य तन्त्रस्य प्रामाण्याभ्युपगमः?

Buitenen

108. OBJECTION. But how can it be assumed that the Tantra,
which conflicts with scripture, has validity?

मूलम्

ननु कथं श्रुतिविरुद्धस्य तन्त्रस्य प्रामाण्याभ्युपगमः?

विश्वास-प्रस्तुतिः

तत्प्रामाण्ये हि श्रुत्या सह विकल्पः प्राप्नोति,

Buitenen

For if it is valid,
it becomes optional beside 89 scripture;

मूलम्

तत्प्रामाण्ये हि श्रुत्या सह विकल्पः प्राप्नोति,

विश्वास-प्रस्तुतिः

+++(पाञ्चरात्रेण)+++ विकल्पश् च अष्ट-दोष-दुष्टः,

Buitenen

and optionality is deficient in the case of the Tantras by eight defects.

नरसिंहः

Vide Tantravārtika, pp. 89-90. Cf. Tantraśuddha, pp. 11-12:

“व्रीहिभिर् यजेत”, “यवैर् यजेत” इत्य् उभयम् अपि वाक्यं प्रमाणम् । तत्र व्रीहि-वाक्याश्रयणे यव-वाक्यम् अनाश्रयणीयं भवति । अश्यक्यत्वात् युगपत् उभयानुष्ठानस्य । तत्र प्राप्तं यव-वाक्य-गतं प्रामाण्यं विना कारणेनापह्नुतव्यम्; अप्रामाण्यस्य प्रमाणत्वं षष्ठ-गोचर-कल्पम् अभाव-प्रमाणावसेयम् अङ्गीकर्तव्यम्; एवम् अपि केनापि हेतुना प्रयोग-साधनत्वेन यवाभ्युपगमे पूर्वम् अपाश्रय्य[[??]] प्रामाण्यस्य पुनर् आश्रयणीयत्वम्; तन्-निरासेनाङ्गीकृतस्य अप्रामाण्यस्य पुनः परित्याग इति चत्वारो दोषा एकस्मिन् वाक्ये प्रसज्यन्ते । द्वितीये ऽपि प्राप्त-परित्यागो ऽप्राप्ताश्रयणं परित्यक्तोपादानं यत् आनीतस्य परित्याग इति चत्वारो दोषाः । तथा ऽपि तुल्य-बलत्वात् गत्य्-अन्तराभावाच् च व्रीहि-यवयोर् विकल्प आश्रितः ।

मूलम्

विकल्पश्च अष्टदोषदुष्टः,

विश्वास-प्रस्तुतिः

स च क्वचिद् अन्यतर-परित्याग-कारणाभावाद् अगत्या ऽभ्यनुज्ञायते,
यथा “व्रीहिभिर् यजेत यवैर् यजेत” इति,

Buitenen

Option is assumed
when there is no invariable rule that something should be such and not otherwise,
because there is no reason to reject, in one case or another, an alternative statement;
for instance: “He must sacrifice with rice,”
beside “he must sacrifice with barley.”

नरसिंहः

‘क्वचित्’ = वेद-वाक्ये

व्रीहिभिर्यजेत … Āpastamba Śrautasūtra, VI. 3.1.13.

यवैर्यजेत … To be identified.

मूलम्

स च क्वचिदन्यतरपरित्यागकारणाभावादगत्याऽभ्यनुज्ञायते, यथा व्रीहिभिर्यजेत यवैर्यजेत इति,

विश्वास-प्रस्तुतिः

न हि तत्रान्यतरद् अपहर्तुं शक्यम् -
उभयोर् अप्य् अन्-अपेक्षत्वाविशिष्टत्वात् ।

Buitenen

In the latter case it is impossible to eliminate one or the other
because both neither of these statements is characterized by independence.

नरसिंहः

अनपेक्षत्वाविशिष्टत्वात् = अपौरुषेयत्वात् ।

मूलम्

न हि तत्रान्यतरदपहर्तुं शक्यम् उभयोरप्यनपेक्षत्वाविशिष्टत्वात् ।

विश्वास-प्रस्तुतिः

चैवम् अपि पञ्च-रात्र-श्रुत्योर् विकल्पेन भवितव्यम् अतुल्यत्वात्,

Buitenen

In the former case, however, there can be no such option between scripture and Pafcarātra,
because the two are not equal;

मूलम्

न चैवमपि पञ्चरात्रश्रुत्योर्विकल्पेन भवितव्यम् अतुल्यत्वात्,

विश्वास-प्रस्तुतिः

निरपेक्षं हि वैदिकं वचनं - अपौरुषेयत्वात्,
सापेक्षं च पञ्च-रात्र-वचनम् इति।
कथम् अनयोर् विकल्पः?

Buitenen

for the Vedic statement is independent, because it is preterhuman,
whereas the Pañcaratra statement is dependent.
So how can they be alternatives and optional?

मूलम्

निरपेक्षं हि वैदिकं वचनं - अपौरुषेयत्वात्,
सापेक्षं च पञ्चरात्रवचनमिति।
कथमनयोर्विकल्पः ।

इतर-निरपेक्षता

विश्वास-प्रस्तुतिः

श्रूयतां - पञ्च-रात्र-शास्त्रस्यापि निरपेक्षत्वाद् एव +++(विकल्पत्वम्)+++।

Buitenen

109. REFUTATION. Listen: because Pañcarātra too is independent.

नरसिंहः

‘निरपेक्षत्वात्’, वचनान्तर-मूलान्तर-निरपेक्षत्वात् ।

मूलम्

श्रूयतां पञ्चरात्रशास्त्रस्यापि निरपेक्षत्वादेव ।

विश्वास-प्रस्तुतिः

कथन्नु पौरुषेयस्य
वचसो निरपेक्षता ।

Buitenen

OBJECTION. How can a statement deriving from a person be independent?

मूलम्

कथन्नु पौरुषेयस्य वचसो निरपेक्षता ।

विश्वास-प्रस्तुतिः

इति चेद् इदम् आचष्टां
पृष्टस् सन्न् एष तार्किकः ॥
किम् अस्य बोधकत्वाय
परापेक्षा ऽभ्युपेयते
किं वा निश्चायकत्त्वाय
यथाऽर्थ-ज्ञापनाय वा ॥
पुम्-अर्थत्वाय वा तत्र
चतुर्णाम् अप्य् असम्भवः ।

Buitenen

REFUTATION.
Let us ask the logician to explain this-
must dependence on something else
be assumed for a statement to be informative,
to give positive certainty,
or to state the truth about its content,
or to serve a purpose of human importance?
All four are impossible.

मूलम्

इति चेदिदमाचष्टां पृष्टस्सन्नेष तार्किकः ॥
किमस्य बोधकत्वाय परापेक्षाऽभ्युपेयते ।
किं वा निश्चायकत्त्वाय यथार्थज्ञापनाय वा ॥
पुमर्थत्वाय वा तत्र चतुर्णामप्यसम्भवः ।

विश्वास-प्रस्तुतिः

न खलु “चक्रवर्त्य्-उपचारेण भगवन्तं समर्चयेद्”
इतीदं वचनं श्रूयमाणं
बोधकत्वाय किञ्चिद् अपेक्षते,
अन्यत्र व्युत्पत्ति-ग्रहणात्,

Buitenen

When the statement is heard,
“One must worship the Bhagavan with the attendance due an emperor,” (not identified)
nothing else is required for this statement to be informative,
because the meaning of the words has already become known from other contexts.

नरसिंहः

चक्रवर्त्युपचारेण … To be identified.

व्युत्पत्ति-ग्रहणं विना अन्यत् किम् अपि नापेक्षत इति भावः।

मूलम्

न खलु चक्रवर्त्युपचारेण भगवन्तं समर्चयेदितीदं वचनं श्रूयमाणं बोधकत्वाय किञ्चिदपेक्षते अन्यत्र व्युत्पत्तिग्रहणात्,

विश्वास-प्रस्तुतिः

न च तावता सापेक्षत्वेन दौर्बल्यं -
श्रुताव् अपि दौर्बल्य-प्रसङ्गात् ।+++(4)+++

Buitenen

Nor does this small measure of dependence prove the weakness of the statement’s [[90]] validity, for the same weakness would follow for śruthi too.

Buitenen - Notes

in order to understand any statement, one must first know the meaning of the words that compose it;
this may be called dependence,
so that to this extent any statement is dependent for its informativeness on other and prior knowledge;
but this must also apply to Vedic statements.

मूलम्

न च तावता सापेक्षत्वेन दौर्बल्यं श्रुतावपि दौर्बल्यप्रसङ्गात् ।

विश्वास-प्रस्तुतिः

नापि निश्चय-जननाय,
न हि “अर्चयेद्” इत्य् एतत् “अर्चयेन् न वे"ति संशयितं प्रत्ययम् उत्पादयति -
व्युत्पत्ति-प्रतिपत्ति-व्याकोप-प्रसङ्गात् ।

Buitenen

Nor is anything else required for the statement to give positive certainty;
for the statement “One must worship….” does not occasion doubt
whether one must or must not worship,
since that would entail a negation of the direct declaration of the real sense.

मूलम्

नापि निश्चयजननाय,
न हि अर्चयेदित्येतत् अर्चयेन्न वेति संशयितं प्रत्ययमुत्पादयति व्युत्पत्तिप्रतिपत्तिव्याकोपप्रसङ्गात् ।

विश्वास-प्रस्तुतिः

नापि यथार्थत्वाय,
ह्य् उत्पन्नं ज्ञानं
स्व-कारण-व्यतिरेकेण यथार्थत्वाय अपरम् अपेक्षते -
+++(वेद-वाक्य-)+++गुणतः प्रामाण्यस्यायुक्तत्वात्, +++(गुणत्व-)+++अनभ्युपगमाच् च ।

Buitenen

Nor is anything required for the statement to be true to the facts,
for the knowledge produced by the statement does not require anything outside its own cause226 to be true to the facts,
because secondary validity is inappropriate and not admitted.

Buitenen - Notes

If the cause (here: God) is above suspicion, the statement will be accurate.

gunataḥ prāmāṇyasyājuktateūd anabhjupagamãe; my understanding is that a statement has its validity by itself,
and no secondary validity in the sense that its content must first be validated by some other means.
The validity itself must be proved (namely by the character of the personal author or by its preterpersonal origin), but once proved, the statement itself is valid.

मूलम्

नापि यथार्थत्वाय, न ह्युत्पन्नं ज्ञानं स्वकारणव्यतिरेकेण यथार्थत्वाय अपरमपेक्षते गुणतः प्रामाण्यस्यायुक्तत्वात् अनभ्युपगमाच्च ।

विश्वास-प्रस्तुतिः

न च पुरुषार्थत्वाय परापेक्षा -
शास्त्र-शरीर-पर्यालोचनाद् एव तत्-सिद्धेः,

Buitenen

Nor is it necessary for the statement to be dependent on something else
in order to serve a purpose of human importance,
for the proof of this purpose follows from a consideration of the entire body of doctrine.

मूलम्

न च पुरुषार्थत्वाय परापेक्षा शास्त्रशरीरपर्यालोचनादेव तत्सिद्धेः,

विश्वास-प्रस्तुतिः

इह हि यथोक्त-संस्कारवतां शास्त्र-श्रवणात् तद्-अर्थ-ज्ञानं,
ततस् तद्-अर्थं पाञ्चकालिकानुष्ठानम्,
ततो निरतिशय-संपत्-प्राप्तिर्
इति शास्त्राद् एवावगम्यते ।

Buitenen

In this case, those who have undergone the afore-mentioned sacraments have knowledge of the content of the statement
when they have heard the doctrine,
and hence they perform the “five-timesa-day” rites ([228]: Vaisnava rite observed five times a day: pañcakálika.), which form this content,
and hence they attain to supreme perfection;
this is learnt solely from the Sastra itself.

नरसिंहः

Cf. Ahirbudhnya Saṁhitā ch. XV:

पाञ्चकालिकम् अच्छिद्रं कुर्वाणः शत-वार्षिकम्॥ [15b]
क्षेत्र-ज्ञं सर्व-भूतानां वासुदेवं विशन्ति ते॥ [17b]
पञ्च-काल-रतो नित्यं दया-क्षान्ति-धृति-स्थितिः॥ [49b]
प्राप्त-वेदान्त-विज्ञानो वैष्णवं श्रयते पदम्॥ [53b]

मूलम्

इह हि यथोक्तसंस्कारवतां शास्त्रश्रवणात् तदर्थज्ञानं ततस्तदर्थंपाञ्चकालिकानुष्ठानम्, ततो निरतिशयसंपत्प्राप्तिरिति शास्त्रादेवावगम्यते ।

आप्ति-निश्चयो नापेक्षितः

विश्वास-प्रस्तुतिः

अथोच्येत

सत्य् अपि पञ्च-रात्र-तन्त्राणां स्वतः-प्रामाण्ये
यावत् तद्-वक्तुर् आप्ति-निश्चय-पुरस्सरं दोषाभावो नावधार्यते
न तावत् प्रामाण्यं निष्पाद्यत

इति

Buitenen

110. Or if the objection is raised that,
granted the self-validity of Pañcaratra,
this validity is not complete
as long as it has not been made certain
that there are no defects,
after it has been made certain that the speaker is reliable,-

मूलम्

अथोच्येत सत्यपि पञ्चरात्रतन्त्राणां स्वतःप्रामाण्ये यावत्तद्वक्तुराप्तिनिश्चयपुरस्सरं दोषाभावो नावधार्यते न तावत्प्रामाण्यं निष्पाद्यत इति

विश्वास-प्रस्तुतिः

तद् असत्,
हि दोषाभाव-ज्ञानं प्रामाण्यं निष्पादयति
निर्दोष-ज्ञान-कारणाद् एव तद्-उत्पत्तेः । +++(4)+++

Buitenen

I reply that this view is not correct;
knowledge that there are no defects does not completely establish validity,
since the validity arises from the cause itself of defectless knowledge
and not from the defectlessness of this knowledge.

मूलम्

तदसत्, न हि दोषाभावज्ञानं प्रामाण्यं निष्पादयति निर्दोषज्ञानकारणादेव तदुत्पत्तेः ।

विश्वास-प्रस्तुतिः

न च निर्दोषत्वायाप्तत्वादि-गुण-निश्चयः -
सत्ता-मात्रेण तत्-सिद्धेः,

Buitenen

[[91]] 111. Nor is positive certainty about such of the speaker’s qualities as his reliability
required for his statement to be defectless,
because the statement’s defectlessness is proved solely by its being defectless.

मूलम्

न च निर्दोषत्वायाप्तत्वादिगुणनिश्चयः सत्तामात्रेण तत्सिद्धेः,

विश्वास-प्रस्तुतिः

यथाह वार्तिककारः -

तदा न व्याप्रियन्ते तु
+++(अदुष्टताया)+++ ज्ञायमानतया +++(वक्तृ-)+++गुणाः ।

इति,

Buitenen

As the Author of the Varttika declares,

“Then the qualities (of the speaker) do not exert any influence (on the validity of his statement)
because (its defectlessness) is already known.“229

[229]: ślokavārttika, 2.6 7 ab.

नरसिंहः

Ślokavārtika under I.i.2, śl. 67a.

मूलम्

यथाह वार्तिककारः -

तदा न व्याप्रियन्ते तु
ज्ञायमानतया गुणाः ।

इति,

विश्वास-प्रस्तुतिः

दोषाभाव-ज्ञानेऽपि
गुणानां सत्तयोपयोगो दर्शितः,

दोषाभावे तु विज्ञेये
सत्तामात्रोपकारिणः ।

इति,

Buitenen

The same Author also shows that,
even when there is certainty about its defectlessness,
the existence of qualities (like reliability in the speaker) is helpful:

“When defectlessness is known,
they are helpful by merely existing.”

[230]: ib. 2.67 cd.

नरसिंहः

Ibid. 67b.

मूलम्

दोषाभावज्ञानेऽपि गुणानां सत्तयोपयोगो दर्शितः, दोषाभावे तु विज्ञेये सत्तामात्रोपकारिणः ।
इति,

हानोपादानादि

विश्वास-प्रस्तुतिः

न चोत्पन्नम् अपि प्रमाणं
हानोपादानादि-व्यवहारायापरमम् अपेक्षते -
स्मरणाभिलाषाभ्याम् एव तत्सिद्धेः,

Buitenen

Nor does the validity, when it has been established
require something else in order that
consequent actions of acceptance, rejection etc. proceed,
because action proceeds on the basis of recollection and desire.

मूलम्

न चोत्पन्नमपि प्रमाणं हानोपादानादिव्यवहारायापरममपेक्षते स्मरणाभिलाषाभ्यामेव तत्सिद्धेः,

विश्वास-प्रस्तुतिः

यथाहुः

स्मरणाद् अभिलाषाच् च
व्यवहारः प्रवर्तते

इति ।

Buitenen

As they say,

“Action proceeds on the basis of recollection and desire.”

[231]: not identified.

मूलम्

To be identified.

मूलम्

यथाहुः स्मरणादभिलाषाच्च व्यवहारः प्रवर्तते इति ।

(अ)कर्तृवत्ता

विश्वास-प्रस्तुतिः

अपि च

स्वतः-प्राप्त-प्रामाण्यानां वेदानाम् अपि
यावत् कर्तृ-भाव–निश्चय–पुरस्-सरं दोषाभावो नावधार्यते
न तावत् प्रामाण्यं प्रतिष्ठिति

इति समानं सापेक्षत्वम् ।

Buitenen

Moreover, in the case of the self-valid Vedas, too,
we find this same dependence in that their validity would not be completely established
as long as there were no certainty of their defectlessness
after the certainty about the non-existence of their author.

मूलम्

अपि च स्वतःप्राप्तप्रामाण्यानां वेदानामपि यावत्कर्तृभावनिश्चयपुरस्सरं दोषाभावो नावधार्यते न तावत्प्रामाण्यं प्रतिष्ठितीति समानं सापेक्षत्वम् ।

ईश्वरकृततया दोषाभावः

विश्वास-प्रस्तुतिः

अथ

योग्यानुपलम्भाद् एवानायास-सिद्धे वक्त्र्-अभावे
+++(तद्-अभावात्)+++ निराश्रय+++(←वक्तृ)+++-दोषाणाम् अ-सम्भवाद्
अ-प्रामाण्य-शङ्कैव वेदे नास्ति

इति चेत्

Buitenen

112. OBJECTION. But when the non-existence of their author is proved without effort
by the non-apprehension of what ought to be there,
the question of the non-validity does not arise for the Veda, for defects are impossible without something or someone in which they could reside.

मूलम्

अथ योग्यानुपलम्भादेवानायाससिद्धे वक्त्रभावे निराश्रयदोषाणामसम्भवादप्रामाण्यशङ्कैव वेदे नास्ति इति चेत्

विश्वास-प्रस्तुतिः

यथाहुः ।

+++(वक्त्र्-अभावे)+++ तत्रापवाद-निर्मुक्तिर् +++(प्रामाण्ये)+++
वक्तृ-भावाल् लघीयसी ।
वेदे तेनाप्रमाणत्वं
न शङ्काम् अधिगच्छति

इति ।

Buitenen

As they say:

“In that case (the Veda) the absence of non-validity follows quite naturally from the absence of an author;
therefore its validity cannot be questioned.”**”

[[92]]

नरसिंहः

Ślokavārtika under I.i.2, śl. 68.

मूलम्

यथाहुः ।
तत्रापवादनिर्मुक्तिर्वक्तृभावाल्लघीयसी ।
वेदे तेनाप्रमाणत्वं न शङ्कामधिगच्छति ॥

इति ।

विश्वास-प्रस्तुतिः

हन्त तर्हि पञ्च-रात्र-तन्त्रेऽपि
सर्व-ज्ञ–सर्वेश्वर-वक्तृ-भावाद् एव
अ-यत्न-सिद्धे दोषाभावे
अप्रामाण्य-शङ्का नावतरतीति समानश् चर्चः ।

Buitenen

REFUTATION. Why, in the case of Pañcarátra too no question can arise about its validity, since the absence of defects is easily proved by the fact that the omniscient and omnipotent God is its speaker; so the argument is the same.

नरसिंहः

The similarity of status between the Vedas and the Āgamas, according to Yāmuna, lies in the fact that both of them are understood to be free from the defects that generally stand in their way. The way in which this ‘faultlessness’ is understood, however, differs between the Vedas and the Āgamas. As regards the Vedic texts, there being no author (apauruṣeya), there is no question of any defect ever appearing at all. As regards the Pañcarātrāgamas too, there could be no question of any defect ever arising, on the ground that they are the direct utterances of Vāsudeva, the Omniscient Supreme Lord of the Universe. This is what Yāmuna explains in the succeeding para: “etaduktaṁ bhavati” etc.

मूलम्

हन्त तर्हि पञ्चरात्रतन्त्रेऽपि सर्वज्ञसर्वेश्वरवक्तृभावादेव अयत्नसिद्धे दोषाभावे अप्रामाण्यशङ्का नावतरतीति समानश्चर्चः ।

विश्वास-प्रस्तुतिः

एतद् उक्तं भवति -

उभयोर् अपि स्वतःप्रामाण्ययोर् एकत्र दोषाभावनिश्चयः
तद्-आश्रय-पुरुषाभाव-निश्चयात्,
अन्यत्र तद्-विरुद्ध-गुण-वक्तृकत्व निश्चयाद्

इति ।

Buitenen

In other words, in both cases of self-validity there is positive certainty that there are no defects; in the case of the Veda because there is positive certainty that no person is involved who could possess these defects; in the case of Pañcarātra because there is positive certainty that its speaker possesses virtues which preclude defects.

मूलम्

एतदुक्तं भवति उभयोरपि स्वतःप्रामाण्ययोरेकत्र दोषाभावनिश्चयः तदाश्रयपुरुषाभावनिश्चयात्, अन्यत्र तद्विरुद्धगुणवक्तृकत्व निश्चयादिति ।

विश्वास-प्रस्तुतिः

यथा

औष्ण्याभाव-निश्चयो नभसि
तद्-आधाराभाव-निश्चयाज्,
जले तु तद्-विरुद्ध-शैत्योपलम्भाद्

इति । +++(4)+++

Buitenen

It is here as in the following two cases of absence of heat: there is no heat in ether because it is certain that there is no locus for heat in ether; nor is there heat in cold water because there is coldness which precludes heat.

मूलम्

यथा औष्ण्याभावनिश्चयो नभसि तदाधाराभावनिश्चयाज्जले तु तद्विरुद्धशैत्योपलम्भादिति ।

सापेक्षता न बाधिका

विश्वास-प्रस्तुतिः

किञ्च -

सापेक्ष-निरपेक्षत्वे
न हि बाधस्य कारणम् ।

Buitenen

113. Moreover, neither dependence nor independence is by itself a cause of invalidation.29

Buitenen - Note

[232] this speaks to 108, that the independent cognition cancels the dependent cognition, if there is conflict between them. Yamuna makes the point that this is not invariably true; that neither dependence nor independence is a cause of invalidation, sapeksanirapeksatve is a dual and requires the correction of karanam into kārane, If my understanding of the text is correct.+++(4)+++

मूलम्

किञ्च ।
सापेक्षनिरपेक्षत्वे न हि बाधस्य कारणम् ।

विश्वास-प्रस्तुतिः

शुक्तौ रजत-बोधस्य
निरपेक्षस्य बाधकम् …॥
“नेदं-रजत”-विज्ञानं
तत्-सापेक्षम् अपीष्यते ।

Buitenen

The independent cognition that some substance is silver
while in reality it is nacre
is invalidated by the cognition: “This is not silver:”
this cognition itself is considered as dependent.

([233]: namely, because it requires another cognition in order to be denied.)

मूलम्

शुक्तौ रजतबोधस्य निरपेक्षस्य बाधकम् ॥
नेदं रजतविज्ञानं तत्सापेक्षमपीष्यते ।

विश्वास-प्रस्तुतिः

“सेयं +++(समाना)+++ ज्वाले"ति संवित्तेस्
तैल-वर्ति-विनाश-जा ॥
अनुमा बाधिका दृष्टा
सापेक्षाऽप्य् - अक्ष-जन्मनः ।

Buitenen

The cognition “This is that flame,” is found to be invalidated
by the inferential cognition that arises from the disappearance of oil”;
the latter cognition itself is dependent because it arises from a sense-perception.

Buitenen - Note

[234]: namely, in the example of the burning lamp: is it the same flame that burns at six o’clock and at seven o’clock? We don’t see the flame change or be succeeded by another flame. Only inference shows that since there is a different amount of oil in the lamp at different times, it is different oil that is burning as a flame, so that the flame is really different. The sense perception is of the varying amounts of oil.

मूलम्

सेयं ज्वालेति संवित्तेस्तैलवर्तिविनाशजा ॥
अनुमा बाधिका दृष्टा सापेक्षाऽप्यक्षजन्मनः ।

विश्वास-प्रस्तुतिः

अतो निरवकाशेन
सावकाशं निषिध्यते +++(न तु निरपेक्षेण)+++ ॥
न चेह सावकाशत्वं
भगवच्-छास्त्र-वेदयोः ।

Buitenen

The simple truth therefore is
that which is susceptible to invalidation
is invalidated by that which is not so susceptible;
in our present case there is no such susceptibility either of Scripture or of Pañcaratra.

मूलम्

अतो निरवकाशेन सावकाशं निषिध्यते ॥
न चेह सावकाशत्वं भगवच्छास्त्रवेदयोः ।

कर्ता

विश्वास-प्रस्तुतिः

अथ श्रुतिविरुद्धस्य
तन्त्रभागस्य दुश्शकम् ॥
वासुदेव-प्रणीतत्वं
निश्चेतुम् इति मन्यसे ।

Buitenen

[[93]]
114. Or if you think that it is impossible to give positive certainty that the Tantra is promulgated by Vasudeva,
as it is in conflict with Scripture,

मूलम्

अथ श्रुतिविरुद्धस्य तन्त्रभागस्य दुश्शकम् ॥
वासुदेवप्रणीतत्वं निश्चेतुमिति मन्यसे ।

विश्वास-प्रस्तुतिः

पञ्चरात्र-विरुद्धस्य
वेदभागस्य वा कथम् ॥
अपौरुषेयता-ज्ञानम्
आविर्भवति बाधितम् ।

Buitenen

I ask you :
Why then does the knowledge arise that Scripture is preterpersonal,
while it is invalidated because it conflicts with Pañcaratra?

मूलम्

पञ्चरात्रविरुद्धस्य वेदभागस्य वा कथम् ॥
अपौरुषेयताज्ञानमाविर्भवति बाधितम् ।

विश्वास-प्रस्तुतिः

तस्यापि वेद-भागत्वात्
तथाभावोऽभ्युपेयते ॥
अस्यापि पञ्चरात्रत्वात्
तत्-प्रणीतत्वम् इष्यताम् ।

Buitenen

They accept it that the Veda is preterpersonal just because it is Veda; but then one can equally claim that Pañcaratra is promulgated by Vasudeva just because it is Pañcaratra.

मूलम्

तस्यापि वेदभागत्वात् तथाभावोऽभ्युपेयते ॥
अस्यापि पञ्चरात्रत्वात् तत्प्रणीतत्वमिष्यताम् ।

विश्वास-प्रस्तुतिः

कर्तुर् अस्मरणात् तत्र
यदि चापौरुषेयता ॥
तत्-कर्तृकत्व-स्मृत्याऽत्र
किन् न स्यात् तत्-प्रणीतता ।

Buitenen

If the preterpersonal origin of the Veda is proved by the fact that there is no recollection of an author, then why not agree that Pañcaratra is promulgated by Vasudeva just because there is recollection of his authorship?

मूलम्

कर्तुरस्मरणात्तत्र यदि चापौरुषेयता ॥
तत्कर्तृकत्वस्मृत्याऽत्र किन्न स्यात्तत्प्रणीतता ।

विश्वास-प्रस्तुतिः

अस्ति ह्य् आ-स्त्री-कुमारं सा
दृढा स्मृति-परम्परा ॥
पञ्चरात्रस्य निर्माता
केशवो भगवान् इति ।

Buitenen

For there exists a strong transmission of the recollection, extending to women and children, that Kesava is the author of the Pancarãtra.

मूलम्

अस्ति ह्यास्त्रीकुमारं सा दृढा स्मृतिपरम्परा ॥
पञ्चरात्रस्य निर्माता केशवो भगवानिति ।

विश्वास-प्रस्तुतिः

तत्प्रणीतत्वविश्वासाद्
गजानश्वान् धनं बहु ॥
दक्षिणां विविधां दत्त्वा
प्रतिष्ठादीनि कुर्वते ।

Buitenen

So great a faith do people have in His authorship that they erect monuments according to the precepts of Pañcarātra, donating elephants, horses and great wealth in various fees,

नरसिंहः

For pratiṣṭhā-rite, see Sāttvatasaṁhitā Ch. XXV and Jayākhyasaṁhitā, paṭala 16.

मूलम्

तत्प्रणीतत्वविश्वासाद् गजानश्वान् धनं बहु ॥
दक्षिणां विविधां दत्त्वा प्रतिष्ठादीनि कुर्वते ।

विश्वास-प्रस्तुतिः

साङ्ख्यस्य कपिलो वक्ता
पञ्चरात्रस्य केशवः ॥
इति स्कन्दपुराणेऽपि
पठ्यते भारते तथा ।

Buitenen

In the Skanda Purana it is said that “Kapila is the promulgator of Samkhya, Kesava of Pañcaratra.”

नरसिंहः

साङ्ख्यस्य … To be identified. See Tantraśuddha, p.22, for the second half of this verse:

वक्ता पञ्च-पदार्थानां साक्षात् देवो महेश्वरः॥

Cf. Mahābhārata, XII. 337.60a:

साङ्ख्यस्य वक्ता कपिलः परमर्षिस् स उच्यते ।

भारते …

The Nārāyaṇīya section of the Mahābhārata ( XII. chs. 334-348 ) is valuable as it is the only fairly full account of the Pāñcarātra doctrines that we possess in original Sanskrit….All the bhakti-writers from Rāmānuja down to the present day, assume the reader’s familiarity with the principles inculcated therein.

[ See G. A. Grierson, “The Nārāyaṇīya and the Bhāgavatas”, The Indian Antiquary, vol. 37, pp. 261-62. ]

मूलम्

साङ्ख्यस्य कपिलो वक्ता
पञ्चरात्रस्य केशवः ॥
इति स्कन्दपुराणेऽपि
पठ्यते भारते तथा ।

विश्वास-प्रस्तुतिः

पञ्चरात्रस्य कृत्स्नस्य
वक्ता नारायणः स्वयम् ॥
इदं महोपनिषदं
चतुर्-वेद-समन्वितम् ।

Buitenen

Likewise in the Mahabharata:

“Narayana Himself is the promulgator of the entire Pañcaratra.
This great Upanisada, consistent with the four Vedas,

नरसिंहः

पञ्चरात्रस्य … Mahābhārata, XII. 337. 63a. Variant: वक्ता तु भगवान् स्वयम्। Also cf. ibid. śl. 63b-64a:

सर्वेषु च नृप-श्रेष्ठ ज्ञानेष्व् एतेषु दृश्यते ।॥
यथागमं यथा ज्ञानं निष्ठा नारायणः प्रभुः ।

Quoting the line ‘पञ्च-रात्रस्य कृत्स्नस्य’ etc. in his Śrībhāṣya II. ii. 42 (p. 834), Rāmānuja says:

पञ्च-रात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् इत्य् उक्तवान् । एवं वदतश् चायम् आशयः। पौरुषेयाणां हि तन्त्राणां परस्पर-विरुद्ध-वस्तु-वादितया, अपौरुषेयत्वेन निरस्त-प्रमादादि-निखिल-दोष-गन्ध-वेद्य-वस्तु-विरुद्धाभिधायित्वाच् च, यथावस्थित-वस्तुनि प्रामाण्यं दुर्लभम्। वेद-वेद्यश् च पर-ब्रह्म-भूतो नारायणः। अतः तत्-तन्त्राभिहित-प्रधान-पुरुष-पशु-पति-प्रभृति-तत्त्वस्य वेदान्त-वेद्य-पर-ब्रह्म-भूत-नारायणात्मकतयैव वस्तुत्वम् अभ्युपगमनीयम् इति। … अतो वेदान्त-वेद्यः पर-ब्रह्म-भूतो नारायणः स्वयम् एव पञ्च-रात्रस्य कृत्स्नस्य वक्तेति, तत्–स्व-रूप–तद्-उपासनाभिधायि तत्-तन्त्रम् इति च तस्मिन्न्-इतर-तन्त्र-सामान्यं न केनचिद् उद्भावयितुं शक्यम्।

इदं … Mahābhārata, XII. 326, 100-101.

Discussing the position of the Pañcarātra with reference to the Upaniṣads, Dr. D. L. De in his article “Pāñcarātra and the Upaniṣads” [ Indian Historical Quarterly, Vol. IX ], p.648, says:

The Upaniṣads, with no set theory of philosophy or dogmatic scheme of theology to propound, form the root of all the later religio-philosophic systems of the country.

It cannot be said definitely whether the Pāñcarātras confined themselves wholly to the contemporary Upaniṣads in the matter of borrowing. They borrowed probably from the contemporary Upaniṣads as well as from the pre-existing Upaniṣads. The Upaniṣads are the sources from which they drew most of their doctrines.

For a detailed account of these borrowings, see ibid., pp.648-660.

मूलम्

पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ॥
इदं महोपनिषदं चतुर्वेदसमन्वितम् ।

विश्वास-प्रस्तुतिः

साङ्ख्य-योग-कृतान्तेन
पञ्च-रात्रानुशब्दितम् ॥
नारायण-मुखोद्गीतं
नारदोऽश्रावयन् मुनीन् ।
ब्रह्मणस्सदने तात!
यथादृष्टं यथाश्रुतम् ॥

Buitenen

as well as with the doctrines of Samkhya and Yoga, called Pañcaratra,
which was revealed by Nārāyaṇa’s tongue,
has been taught to the sages by Narada
as he had seen it and heard it in the abode of Brahma.”

नरसिंहः

साङ्ख्ययोग … See G.A. Grierson, Indian Antiquary, vol. 37, p. 261:

Nearly the whole Mokṣadharma-parvan consists lectures on Sāṅkhya-Yoga, together with attempts to reconcile it with Brahmaism. One system which results from the attempted reconciliation of these two opposite philosophies is attributed to Pañcaśikha and is explained at some length …The Nārāyaṇīya, while claiming to describe Sāṅkhya-Yoga really describes the Bhāgavata monotheism as united with this system, but also with more of a Brahmaist colouring than we find in the Gītā.

पञ्चरात्रानुशब्दितम् … See ibid., p.258:

The Nārāyaṇīya sometimes alludes to the religion which it preaches as the doctrine of the Bhāgavatas, and sometimes as that of the Pāñcarātras. The two terms are not exactly synonymous, for the Pāñcarātras formed only one sect of the great Bhāgavata religion. Prof. R.G. Bhandarkar tells us that Dhruvasena I, one of the earliest princes of the Valabhi dynasty (C. 530 A.D.) is called a Bhāgavata, and Bāṇa (C. 600 A.D.) in the 8th chapter of the Harṣacarita mentions both the Bhāgavatas and the Pāñcarātras.

नारायणमुखोद्गीतं … According to the Śāntiparvan of the Mahābhārata (Gorakhpur edn.), the Sāttvata-teaching is said to have been announced by the sun:

सात्त्वतं विधिम् आस्थाय प्राक् सूर्य-मुख-निःसृतम् ।
पूजयामास देवेशं तच्-छेषेण पितामहान् ॥

See G.A. Grierson, Indian Antiquary, vol. 37, p.253:

We have no literary evidence as to the train of reasoning by which this doctrine (Bhāgavata) was reached, but to me it appears more than probable that it was a development of the Sun-worship that was the common heritage of both branches of the Aryan people—the Eranian and the Indian. All the legends dealing with the origins of the Bhāgavata religion are connected in some way or other, with the sun.

See also in this connection, L.D. Barnett, “The Hindu Gods and Heroes,” pp. 82-83.

मूलम्

साङ्ख्ययोगकृतान्तेन पञ्चरात्रानुशब्दितम् ॥
नारायणमुखोद्गीतं नारदोऽश्रावयन्मुनीन् ।
ब्रह्मणस्सदने तात! यथादृष्टं यथाश्रुतम् ॥

विश्वास-प्रस्तुतिः

एवमादिपुराणोक्तैः
सहस्रैर् न्याय-बृंहितैः ।
वासुदेव-प्रणीतत्वं
पञ्चरात्रस्य निर्व्यथम् ॥
किन्तु वेदस्य नित्यत्वे
विवदन्ते विपश्चितः ।

Buitenen

From these and thousands of other statements in the Puranas, which are supported by the rules of interpretation, the conclusion follows naturally that Pañcaratra was indeed composed by Vasudeva Himself.

On the other hand, some experts dispute that the Veda is eternal! ([[142]] [235]: The Naiyayikas.) [[91]]

मूलम्

एवमादिपुराणोक्तैः सहस्रैर्न्यायबृंहितैः ।
वासुदेवप्रणीतत्वं पञ्चरात्रस्य निर्व्यथम् ॥
किन्तु वेदस्य नित्यत्वे विवदन्ते विपश्चितः ।

विश्वास-प्रस्तुतिः

तेन निर्दोष-विज्ञान-
कारणत्वाद् द्वयोर् अपि ॥
निर्विशङ्कं प्रमाणत्वं
भगवच्छास्त्रवेदयोः । +++(5)+++

Buitenen

Therefore, the real ground for the thesis that the validity of the doctrine of the Bhagavan and that of the Veda is above question
is this that both are causes of defectless knowledge.

मूलम्

तेन निर्दोषविज्ञानकारणत्वाद् द्वयोरपि ॥
निर्विशङ्कं प्रमाणत्वं भगवच्छास्त्रवेदयोः ।

विश्वास-टिप्पनी

अन्ततो ऽस्मद्-आप्तानां चिरन्तनानुभवे निर्दोषत्वे साक्षात्कृते, नानवस्था, न चान्योऽन्याश्रयः।
कश्चन नूतनो ग्रन्थश् चेत् समस्या स्यात्। नानयोः।
आप्ति-निश्चयः - रक्त-विद्यादि-सम्बन्ध-परम्परया सफलया।
साफल्य-निश्चयः -

  • धारणाद् धर्मम् इत्याहुः। केन प्रजा वरं धृता इति साक्षात्कार्यम्

निगमनम्

विश्वास-प्रस्तुतिः

ततश् च तुल्यशिष्टत्वाद्
विकल्पेन प्रमाणता ॥
इति मत्वैतद् आचष्टे
सूत्रकारो महामनाः ।
विज्ञानादिभावे वा
तद्-अ-प्रतिषेध इति ॥

Buitenen

Consequently, because both are equally exemplary, they are optionally valid. It is with this view in mind that the wise Author of the Sūtras has explained: vijñanādibhave vaa tadapratiṣedhah.

नरसिंहः

Brahmasūtra II. ii. 41.

मूलम्

ततश्च तुल्यशिष्टत्वाद् विकल्पेन प्रमाणता ॥
इति मत्वैतदाचष्टे सूत्रकारो महामनाः ।
विज्ञानादिभावे वा तदप्रतिषेध इति ॥