सन्दर्भः
विश्वास-प्रस्तुतिः
तत्रैष सूत्रार्थः -
पूर्वं स्वाभिप्रेत-समय-परिपन्थि–कपिल- काश्यप-सुगत-जिन-पशुपति-मतानां
श्रुति-न्याय विरोधाद् असामञ्जस्यं प्रतिपाद्य
Buitenen
99. The meaning of the Sūtras is this. First the Author has set forth that the doctrines of Kapila, Kaśyapa, Buddha, Jina and Paśupati,218
who oppose the Author’s own accepted doctrine, are unnatural219 because they conflict with Revelation and logic.
[218]: In BrS., 2,2. [219]: asāmañjasya, taken from BrS., 2.2.37.
मूलम्
तत्रैष सूत्रार्थः पूर्वं स्वाभिप्रेतसमयपरिपन्थिकपिल-काश्यपसुगत-जिन-पशुपतिमतानां श्रुतिन्याय विरोधादसामञ्जस्यं प्रतिपाद्य
विश्वास-प्रस्तुतिः
अधुना स्वाभिप्रेत–पञ्च-रात्र-तन्त्राणाम् अपि इतर-समय-समान-परिगणनाद्
बुद्धौ सन्निहितानाम् इतर-समयवद् अ-सामञ्जस्यम् आशङ्क्य
प्रामाण्यं व्युत्पाद्यते +++(स्थूणा-निखनन-न्यायेन)+++।
Buitenen
Now, in order to remove the suspicion that the Pancarãtra Tantras (which are his own accepted doctrine) are equally unnatural with the other doctrines because their usual enumeration on an equal plane with the others has made them closely associated with them in people’s thinking, he elicits their validity.
नरसिंहः
सन्निहितानाम् … तन्त्रत्व-सामान्येन सन्निहितानाम् इति भावः।
व्युत्पाद्यते = स्थाप्यते।
मूलम्
अधुना स्वाभिप्रेतपञ्चरात्रतन्त्राणामपि इतरसमयसमानपरिगणनाद् बुद्धौ सन्निहितानाम् इतरसमयवदसामञ्जस्यम् आशङ्क्य प्रामाण्यं व्युत्पाद्यते ।
राम-मिश्रः
स्थूणा-निखनन-न्यायेन +इत्यर्थः -
यथा हि स्थूणां द्रढयितुम् इच्छवस्
ताम् स्वयम् एव हस्तेन परिचाल्य परीक्षन्ते ।
नरसिंहः
- व्युत्पाद्यते = स्थाप्यते ।
जीव-करणोत्पत्त्य्-अर्थेन
पूर्वपक्षः
विश्वास-प्रस्तुतिः
तत्राद्येन सूत्रद्वयेन पूर्वपक्ष उपक्षिप्यते,
Buitenen
In the first two Sūtras the prima-facie case is laid down:
नरसिंहः
According to Śaṅkara, all the four aphorisms of the utpattyasambhava section [ 11-ii-42-45 ] put forth the refutation of the Pañcarātra.
मूलम्
तत्राद्येन सूत्रद्वयेन पूर्वपक्ष उपक्षिप्यते,
विश्वास-प्रस्तुतिः
तथा हि -
पञ्चरात्रशास्त्रम् अप्रमाणम् उत्पत्त्यसंभवात् -
प्रतिपाद्यमानायाः संकर्षणाद्युत्पत्तेः असंभवात्।
Buitenen
the Pancarãtra likewise has no validity, utpattyasaṃbhavāt, i.e., on account of the impossibility of Saṅkarṣaṇa’s origination which is taught there.
मूलम्
तथा हि पञ्चरात्रशास्त्रम् अप्रमाणम् उत्पत्त्यसंभवात् प्रतिपाद्यमानायाः संकर्षणाद्युत्पत्तेः असंभवात्
विश्वास-प्रस्तुतिः
कथम् असंभवः? उभयथा ऽप्यनुपपत्तेः।
Buitenen
Why should it be impossible? Because it cannot be established in either of two possible cases;
मूलम्
कथम् असंभवः, उभयथा ऽप्यनुपपत्तेः।
विश्वास-प्रस्तुतिः
तथा हि ।
किन्तु चत्वार एवैते
समानैश्वर्यभागिनः । एको वा स्यात् चतुर्-भेदे
द्वेधा व्युत्पत्त्यसंभवः ॥
Buitenen
either the four vyūhas are equally sovereign, or else one God exists in four persons; and in either case there is impossibility of origination.
मूलम्
तथा हि ।
किन्तु चत्वार एवैते समानैश्वर्यभागिनः । एको वा स्यात् चतुर्भेदे द्वेधा व्युत्पत्त्यसंभवः ॥
विश्वास-प्रस्तुतिः
समानैश्वर्यभागित्वे तुल्यत्वान् नैव सृज्यते । एकात्मत्वे ऽभ्युपेते ऽपि तथोत्पत्तेः असंभवात् । स्रष्टृसृज्यविभागो हि नैकस्मिन् अवकल्पते ।
Buitenen
If they are equally sovereign, they cannot be created because they are equal; if only one being is admitted no origination is possible either, since a distribution within one being of creating and created parts is inconceivable.
मूलम्
समानैश्वर्यभागित्वे तुल्यत्वान् नैव सृज्यते । एकात्मत्वे ऽभ्युपेते ऽपि तथोत्पत्तेः असंभवात् । स्रष्टृसृज्यविभागो हि नैकस्मिन् अवकल्पते ।
विश्वास-प्रस्तुतिः
तथा
न च कर्तुः करणम्
इतश् च +अप्रमाणं कर्तुः सङ्कर्षण-संज्ञाज् जीवात् करणस्य प्रद्युम्नसंज्ञस्य मनस उत्पत्त्य्-अ-संभवात्,
न हि देवदत्तात् परशुरुत्पद्यत
इति ।
Buitenen
[[84]]
100. Similarly na ca kartuḥ karaṇam: Pañcarātra has no validity for the further reason that it is impossible that the instrument, sc. the mind called Pradyumna, originates from the agent, sc. the individual soul called Saṅkarṣaṇa, for the hatchet does not originate from Devadatta.
नरसिंहः
Brahmasūtra II. ii. 40.
मूलम्
तथा न च कर्तुः करणम् इतश्च अप्रमाणं कर्तुः सङ्कर्षण-संज्ञाज् जीवात् करणस्य प्रद्युम्नसंज्ञस्य मनस उत्पत्त्यसंभवात्, न हि देवदत्तात् परशुरुत्पद्यत इति ।
विश्वास-प्रस्तुतिः
एवं वा -
“न च कर्तुः करणम्”।
इतश्च कर्तुः संकर्षणात् न करणम् उत्पद्यते -
ब्रह्मण एव समस्त-करणोत्पत्ति-श्रुतेः,एतस्माज् जायते प्राणो,
मनः सर्वेन्द्रियाणि चइति।
Buitenen
Or there is this alternative explanation of na ca kartuḥ karaṇam:
and for the further reason that the instrument does not originate from the agent Saṅkarṣaṇa,
since according to the text:“From it spring the vital air, the mind and all the senses,”
it is revealed that all instruments really originate from Brahman.
नरसिंहः
न च … Cf. Śrībhāṣya under II. ii. 40, where almost the same words are used.
एतस्माज्जायते … Mundakopanisad II. 1. 3.
मूलम्
एवं वा न च कर्तुः करणम् इतश्च कर्तुः संकर्षणात् न करणम् उत्पद्यते ब्रह्मण एव समस्तकरणोत्पत्तिश्रुतेः, एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च इति।
उत्तर-पक्षः - व्यूह-ब्रह्मत्व-मात्रेण
विश्वास-प्रस्तुतिः
विज्ञानादि-भावे वा तद्-अ-प्रतिषेध
इति,
वा-शब्दात् पक्षो विपरिवर्त्तते ।
Buitenen
101. Then follows: vijñānādibhāve vā tadapratiṣedhaḥ.
By the particle va this prima-facie case is now reversed.
नरसिंहः
Cf. Śrībhāṣya under II.ii. 41- “vijñānādibhāve vā tadapratiṣedhaḥ,” where again the same words are used.
मूलम्
विज्ञानादिभावे वा तदप्रतिषेध इति, वा-शब्दात् पक्षो विपरिवर्त्तते ।
विश्वास-प्रस्तुतिः
यद् उक्तम्
उभयथाऽपि संकर्षणाद्य्-उत्पत्तेर् असंभवाद् अप्रामाण्यम्
इति नैतद् अस्ति।
Buitenen
What has been said, viz., that there is no validity since in neither case origination of Saṅkarṣaṇa etc. is possible, is untrue:
मूलम्
यदुक्तमुभयथाऽपि संकर्षणाद्युत्पत्तेरसंभवादप्रामाण्यमिति नैतदस्ति।
विश्वास-प्रस्तुतिः
तस्यास् सङ्कर्षणाद्य्-उत्पत्तेर् अप्रतिषेधः ।
Buitenen
it is not contradictory that Saṅkarṣaṇa etc. have originated.
मूलम्
तस्यास्सङ्कर्षणाद्युत्पत्तेरप्रतिषेधः ।
विश्वास-प्रस्तुतिः
यदि हि विज्ञानादय एते +++(सङ्कर्षणादयः)+++ न भवेयुः - स्याद् उत्पत्ति-प्रतिषेधः ।
Buitenen
Indeed, it would be contradictory if they were not vijñānādi.
नरसिंहः
‘एते’ सङ्कर्षणादयः ।
मूलम्
यदि हि विज्ञानादय एते न भवेयुः स्यादुत्पत्तिप्रतिषेधः ।
विज्ञानादिः
विश्वास-प्रस्तुतिः
विज्ञानञ् चादि+++(श्)+++ चेति विज्ञानादि ब्रह्म,
तद्-भावे ब्रह्म-भावे उत्पत्तेर् अप्रतिषेधः ।
Buitenen
Vijñānādi is a dvandva compound: “knowledge and beginning,” that means: Brahman;
thus vijñānādibhāve means brahmabhāve.
Inasmuch as they are Brahman (brahmabhāve), the origination is not contradictory.
मूलम्
विज्ञानञ्चादि चेति विज्ञानादि ब्रह्म तद्भावे ब्रह्मभावे उत्पत्तेरप्रतिषेधः ।
राम-मिश्रः
आदीयते -उपादीयते उपयुज्यते सर्वकार्यार्थम् इत्य् आदि सर्वजगन्निदानं ब्रह्म।+++(5)+++
अत्र यद्यपि
“उपसर्गे घोः किर्” इति पाणिनीयेन
किप्रत्ययान्तादि-शब्दस्य नित्यपुंस्त्वं प्राप्नोति
तथापीह औणादिक-प्रत्ययेन साधि-भावो ऽवगन्तव्यः
“शिष्टप्रयोगे संज्ञासु धातुरूपाणी"त्यदिना तथैवानुशिष्टत्वेन
शिष्ट-शिष्टेर् एव च प्रयोगमूलतया अनौणादिकस्यैव पुंस्त्व-कल्पनात् ॥
अथवा विज्ञानं चादिश्चेत्येव पाठः ।
ततश्च विज्ञानं चादिश्च विज्ञानादि इति समाहारद्वन्द्वः, विज्ञानादीति-कृत-समाहार-द्वन्द्वके विज्ञानादि-पदे
निर्विसर्गक-पाठावलोकन-भ्रान्तित एव
प्राचीनकोशेष्वपि विज्ञानं चादिश्चेति विवक्षणीये
विज्ञानं चादि चेति लिलिखुरिति केचिन् मन्यन्ते । +++(4)+++
इत एवास्वरसेन कल्पान्तरम् अवललम्बिरे ग्रन्थाचार्याः।
एवम् एव च विज्ञानादि-सूत्रे श्रीभाष्येऽपि -
शङ्कासमाध्य्-अभ्यूहनम् इति कृतं
“कुसृष्ट्या वाचाम्” इति चापरे ।
वस्तुतस्तु श्रीभाष्यकोशेषु आगम-प्रामाण्य-कोशेषु च
प्रायशो देश-विशेष-नैरपेक्ष्येण विज्ञानादि-सूत्रे
(विज्ञानं चादि च विज्ञानादि -ब्रह्म तद्भावे)
इत्येव प्रामाणिकः पाठ
इत्य् अवश्यं तात्पर्य-विशेषेण स प्रयोगो वक्तव्यो,
न तु यथा-श्रुतार्थकादि-पदेनाचरमार्थेन अ-ब्रह्म-साधारणेन ।
अत्रैवम् आचाचक्ष्महे आ-समन्ताद् अत्तुं शीलम् अस्येत्य् आदिन् परमं ब्रह्म सुप्यजातौ णिनिस्ताच्छील्ये ।
इति पाणिनीयेन ताच्छील्येऽर्थेणिनिः,
आङ्गा चासाधारण्यं विवक्ष्यते तच्च अत्ता चराचरग्रहणाद् इत्य्-अधिकरणोक्तरीत्या
ब्रह्मासाधारणं कर्मेति
तादृशार्थकादिपदेन
निखिल-जगद्-अदन-कर्तृ-परं ब्रह्माभिहितं भवति
तच्च साङ्ख्याद्युक्तदिशा प्रधानधर्मो माभूदिति विज्ञानपदेन विशेष्यते ।
एवं च जन्माद्यस्य यत इति सूत्रे
आदिपदेन जगत्स्थितिप्रणाशहेतुताया लक्षणत्वेनाभिमततया
लक्षणेनेतरभेदसाधने जन्मादि-त्रितयस्य संहत्य्-अहेतुतायां व्याप्यत्वासिद्ध्या
प्रत्येकम् एव हेतुताया वाच्यत्वेन स्वासाधारणरूपेणादिन् पदेन ब्रह्मोपस्थापितं भवतीति ।
सति चैवं (विज्ञानं चादि च विज्ञानादि ब्रह्म) इति श्रीभाष्याचार्याणां
परमाचार्याणां श्री-यामुनमुनीनां चाभिधानम्
अञ्जसा समञ्जसम्
इति यथाश्रुतार्थग्राहिणां केषांचिद् अमीषाम् आचार्य-तात्पर्यनबोध-निबन्धनम् एवानुपपत्त्य्-अभिधानम् ।
परे तु संपद्-आदित्वात् क्विपं कृत्वा
तस्मात् स्वार्थे विधाय
आद इति प्रसाध्य
ततो मत्वर्थीयेनिना आदिनपदं सिषाधयिषन्ति ।
तदिदम् अपि प्रक्रिया-गौरव-पराहतम्
इति नातितृप्तये विदुषाम् ।
किं च अच्-छब्दस्य संपदादि-क्विब्-अन्तस्य नित्य-स्त्रीत्वे
ततोऽणि जाते अणन्तत्वेन ङीपिऽवश्यं भावेन
आदी इति स्यादिति ततोऽपि नेष्टसिद्धिसंभावना ।
यदपि अदनम् आद इति “भावे” इति सूत्रेण
भावे घञं कृत्वा भावघञन्ताच् च मत्व्-अर्थीयेनिना
आदिन्पद-प्रसाधनं -
तद् इदं घञपोश् चेति पाणिनीयानुशासन-विस्मरण-निबन्धनं
घञि घस्लादेश-विधानात् ।
विश्वास-प्रस्तुतिः
एतद् उक्तं भवति -
एकस्यैव परमात्मनो वासुदेवस्यापरिच्छिन्न-शक्तेः
स्वमायावेश-वशात् कार्य-कारण-भावोपपत्तिर्
इति ।
Buitenen
That is to say by virtue of the fact that the unique Supreme Soul Vāsudeva, whose omnipotence is unbounded, enters into them through His māyā, a cause-effect relation is justified.
नरसिंहः
एतदुक्तं … चत्वार ईश्वरा इति पक्षः परित्यक्तः । तद्-एकत्व-पक्षः समादृतः। एक एव भगवान् सर्वेश्वरः स्वलीलया जगद्-अवनाय चतुर्धा ऽवतरतीति सिद्धान्तः ।
एकस्यैव … Vide Ahirbudhnya Saṁhitā Ch. V-
पुरुषाः पुण्डरीकाक्षा
व्यूहाः शक्तिमया हरेः । [25a ]
सर्व-शक्तिमयो देवो
वासुदेवः सिसृक्षया ॥
विभजत्य् आत्मना ऽऽत्मानं
यस् स सङ्कर्षणस् स्मृतः । [ 29b-30a ]
अनन्त एव भगवान्
वासुदेवस् सनातनः ।
तत्र ज्ञान-बलोन्मेषात्
स्व-सङ्कल्प-प्रचोदितात् ॥
अनन्त एव भगवान्
देवस् सङ्कर्षणो ऽच्युतः । [ 34-35a ]
अनन्त एव भगवान्
प्रद्युम्नः पुरुषोत्तमः । [36a ]
अनन्त एव भगवान्
अनिरुद्धो भवत्य् उत ॥ [38b ]
The words “ananta eva bhagavān” occuring in 34a, 35a, 36a & 38b quoted above, stress the point that he Lord is One and only One and that He assumes different forms, without any diminution of His powers and perfections in this process. Therefore, the question raised by Śaṅkara regarding the plurality of God is unwarranted.
स्वमायावेश … This Māyā is the Śakti or the Power of the Lord, termed also Jñāna, Vidyā, Saṅkalpa and so on.
मूलम्
एतदुक्तं भवति एकस्यैव परमात्मनो वासुदेवस्यापरिच्छिन्नशक्तेः स्वमायावेशवशात् कार्यकारणभावोपपत्तिरिति ।
करणोत्पत्तिः - विप्रतिषेधात्
विश्वास-प्रस्तुतिः
यत् तु
न सङ्कर्षणान् मन उत्पद्यते
ब्रह्मण एव उत्पत्ति-श्रुतेर्
इति -
तद् अपि तस्य विज्ञानादित्वेन परिहृतम् ।
Buitenen
The objection that the mind cannot originate from Saṅkarṣaṇa, on the authority of the śruti that the mind originates from Brahman, is invalidated by the fact that he, sc. Saṅkarṣaṇa is vijñānādi, i.e., Brahman.
[[85]]
मूलम्
यत्तु न सङ्कर्षणान्मन उत्पद्यते ब्रह्मण एव उत्पत्तिश्रुतेरिति तदपि तस्य विज्ञानादित्वेन परिहृतम् ।
उत्तर-पक्षः - युक्त्या करणोत्पत्ति-सिद्ध्या
विश्वास-प्रस्तुतिः
अपि च “न च कर्तुः करणम्” इति किमुक्तं भवति?
Buitenen
102. Furthermore, what is being said in the argument na ca kartuḥ karaṇam?
नरसिंहः
अपि च … These different interpretations are not included by Rāmānuja in his Śrībhāṣya.
न च … Vide Brahmasūtra: II.ii.40.
मूलम्
अपि च न च कर्तुः करणम् इति किमुक्तं भवति ।
विश्वास-प्रस्तुतिः
किं यस्याः क्रियाया यत् करणं
तत् क्रिया-कर्तुर् नोत्पद्यते,
उत यद् यत्र क्वापि +++(क्रियायां)+++ करणं
तत् कुतश्चिद् अपि कर्तुर् नोत्पद्यत इति वा ।
Buitenen
Is it that the instrument of a certain action does not originate from the agent of that same action;
or that no instrument of any action whatever originates from any agent whatsoever?
नरसिंहः
‘यत्र क्वापि क्रियायाम्’ इति शेषः ।
मूलम्
किं यस्याः क्रियाया यत्करणं तत्क्रियाकर्तुर्नोत्पद्यते, उत यद् यत्र क्वापि करणं तत् कुतश्चिदपि कर्तुर्नोत्पद्यत इति वा ।
विश्वास-प्रस्तुतिः
तत्राद्ये कल्पे +++(←“क्रियायाः करणं कर्तुर् नोत्पद्यते”)+++
सिद्ध-साधनतया अनुमानस्य विप्रतिषेधः -
न ह्य् अत्र
सङ्कर्षणात् कर्तुर् उत्पद्यमानं मनः
स्वोत्पादने करणं - कर्मत्वात्,
नापि स्वोत्पत्तौ +++(सिद्धायाम्)+++ - +++(तदा तस्य)+++ कर्तृत्वात् ।
Buitenen
If the first view is taken, we have a conflict with Inference, because the argument contains the fallacy of proving the proved.
The mind, originating from the agent Saṅkarṣaṇa cannot be the instrument of Saṅkarṣaṇa’s action of originating it,
since it itself is the object of the action;
nor can it be the instrument of the action of being originated, since it itself is the agent of that action.
मूलम्
तत्राद्ये कल्पे सिद्धसाधनतया अनुमानस्य विप्रतिषेधः,
न ह्यत्र सङ्कर्षणात्कर्तुरुत्पद्यमानं मनः स्वोत्पादने करणं कर्मत्वात्, नापि स्वोत्पत्तौ कर्तृत्वात् ।
विश्वास-प्रस्तुतिः
अपरेऽपि कल्पे प्रत्यक्ष-विप्रतिषेधः -
उदकाहरणादौ करण-भूतानाम् अपि घटादीनां
कर्तुः कुलालादेर् उत्पत्ति-दर्शनात् ।
Buitenen
If the alternative view is taken, we have a conflict with Perception, because we see that for instance a pitcher, though it be the instrument of an action of fetching water, yet originates from the agent of such an action, the potter.
मूलम्
अपरेऽपि कल्पे प्रत्यक्षविप्रतिषेधः उदकाहरणादौ करणभूतानामपि घटादीनां कर्तुः कुलालादेरुत्पत्तिदर्शनात् ।
विश्वास-प्रस्तुतिः
तद् इदम् आह - विप्रतिषेधाद् इति ।
Buitenen
This the Author says in the sūtra vipratiṣedhāt: ‘because there is conflict.’
नरसिंहः
Cf. Brahmasūtra: II.ii.42.
मूलम्
तदिदमाह विप्रतिषेधादिति ।
उत्तर-पक्षः - ब्रह्म-कर्तृत्व-निश्चयेन
विश्वास-प्रस्तुतिः
यद् वा सूत्र-द्वयस्यास्य
व्याख्यानान्तरम् उच्यते ।
En - विश्वासः
Or, we state an alternative explation for the two sutras.
Buitenen
[[86]]
103. ~~As to the other explanation that has been given of these two Sūtras,220
[220]: supra §§96, 97.
नरसिंहः
सिद्धान्त-सूत्र-द्वयस्य - ‘विज्ञानादि-भावे वा तद्-अप्रतिषेधः, विप्रतिषेधात्’ इति सूत्र-द्वयस्येति भावः ।
मूलम्
यद्वा सूत्रद्वयस्यास्य व्याख्यानान्तरमुच्यते ।
विज्ञानम्
विश्वास-प्रस्तुतिः
विज्ञानादेः +++(ब्रह्मणः)+++ प्रमाणत्व-
हेतोर् +++(सद्-)+++भावे, न युज्यते ॥
पञ्च-रात्र-प्रमाणत्व-
निषेधो ऽतिप्रसङ्गतः ।
Buitenen
since it is vijñānādi, i.e. “a ground for validity”,221 the denial of the validity of Pāñcarātra is not justified, because it entails overextension.
Buitenen - Note
[221]: ie., as a tatpuruṣa compound “the beginning (source) of (valid) knowledge:” vijñānādibhāve “since He (God) is a source of valid knowledge.”
नरसिंहः
‘विज्ञानादेः’ ब्रह्मण इत्य् अर्थः ।
भावे - सद्-भावे ।
अतिप्रसङ्गः … अन्यथा मन्वादि-स्मृतेर् अपि अप्रामाण्य-प्रसक्तेर् इत्य् आशयः ।
मूलम्
विज्ञानादेः प्रमाणत्वहेतोर् भावे न युज्यते ॥
पञ्चरात्रप्रमाणत्वनिषेधोऽतिप्रसङ्गतः ।
विश्वास-प्रस्तुतिः
तत्रानुवाद-सन्देह-
ज्ञानानुत्पत्ति-लक्षणम् ॥
निरस्तम् अ-प्रमाणत्वं
विज्ञान-ग्रहणाद् इह +++(→“विज्ञानादेर् वा”)+++ ।
Buitenen
The invalidity, which is defined by the non-origination of knowledge through repetition or dubiety in the Tantras, is rejected, because vijnAna is taken up here knowledge is actually had from them.
मूलम्
तत्रानुवादसंदेहज्ञानानुत्पत्तिलक्षणम् ॥
निरस्तमप्रमाणत्वं विज्ञानग्रहणादिह ।
आदि
विश्वास-प्रस्तुतिः
वक्त्र्-आशय-वश-प्राप्त-
मिथ्या-शंकाऽपनुत्तये ॥
आदि-शब्देन तन्त्राणाम्
आप्तोक्तत्वं विवक्षितम् । +++(5)+++
Buitenen
In order to remove the suspicion of untruth occasioned by the speaker’s character, the word ādi is used to convey the intended meaning that the Tantras are in fact spoken by a trustworthy person.
नरसिंहः
The term ādi is from Brahmasūtra II. ii. 41- ‘विज्ञानादि-भावे वा तद्-अप्रतिषेधः ।’ आदि-शब्देन दोष-राहित्यम्, विज्ञान-शब्देन गुण-साहित्यं चाभिप्रेतम् ।
मूलम्
वक्त्राशयवशप्राप्तमिथ्याशंकाऽपनुत्तये ॥
आदिशब्देन तन्त्राणामाप्तोक्तत्वं विवक्षितम् ।
विश्वास-प्रस्तुतिः
तथा हि -
यस् साक्षात् कुरुते सदा सहजया बुद्ध्या समस्तं जगद्
यः पुंसाम् अभिवाञ्छितानि दिशति ध्यानैक-संतर्पितः ॥
नित्यावाप्त-समस्त-काम इति यं प्राहुस् त्रयी-पारगाः ।
तस्मिन् विभ्रम-विप्रलम्भन-मुखा दोषा भवेयुः कथम् ॥ +++(4)+++
Buitenen
Consequently the meaning is this: He always has direct knowledge of the entire world by virtue of the omniscience which is part of His nature; He bestows man’s wishes upon him, when He is satisfied—and he is satisfied by meditation alone; Him the experts in the Veda describe as eternally satisfied in all His desires: how then can there be defects in Him like error, deceit etc.?
नरसिंहः
Cf. The following verse, which, according to tradition, forms the opening verse of Nāthamuni’s Nyāyatattva-
यो वेत्ति युगपत् सर्वं
प्रत्यक्षेण सदा स्वतः ।
तं प्रणम्य हरिं शास्त्रं
न्याय-तत्त्वं प्रचक्ष्महे ॥
मूलम्
तथा हि -
यस्साक्षात् कुरुते सदा सहजया बुद्ध्या समस्तं जगत् ।
यः पुंसामभिवाञ्छितानि दिशति ध्यानैकसंतर्पितः ॥
नित्यावाप्तसमस्तकाम इति यं प्राहुस्त्रयीपारगाः ।
तस्मिन् विभ्रमविप्रलम्भनमुखा दोषा भवेयुः कथम् ॥
विप्रतिषेधात्
विश्वास-प्रस्तुतिः
उत्पत्त्य्-असम्भवो यश् च
पूर्व-सूत्र-द्वयोदितः ।
संकर्षणादि-मूर्तीनां
तत्र प्रतिविधीयते +++(वक्ष्यमाण शास्त्रेण)+++॥
Buitenen
104. The ‘impossibility of origination,’ which has been stated in the first two Sūtras, is thereupon denied for Saṅkarṣaṇa and the other forms of God in the sūtra vipratiṣedhāt.
नरसिंहः
पूर्वं जीव-मन-आदीनाम् उत्पत्तिर् न सम्भवतीत्य् अस्य पूर्व-पक्षस्य समाधानम् उक्तम् । इदानीं ‘उत्पत्त्य्-असम्भव’ इत्य्-आदिना ‘मूर्ति-भेदो ऽपि कथम् ?’ इति शङ्कायाः समाधानम् उच्यते ।
मूलम्
उत्पत्त्यसम्भवो यश्च पूर्वसूत्रद्वयोदितः ।
संकर्षणादिमूर्तीनां तत्र प्रतिविधीयते ॥
विश्वास-प्रस्तुतिः
“विप्रतिषेधात्” इति पञ्च-रात्र-स्मरणानुमित-भगवत्-प्रत्यक्ष-विप्रतिषेधात् तद्-अनुमित-श्रुति-विप्रतिषेधाद् वेति ।
Buitenen
This means either; “Because there is conflict with the Bhagavān’s perception which is inferred through Pañcaratra;” or “Because there is conflict with Śruti which is inferred from the same Tradition.”
[[87]]
नरसिंहः
Brahmasūtra II.ii. 42.
मूलम्
विप्रतिषेधात् इति पञ्चरात्रस्मरणानुमितभगवत्प्रत्यक्षविप्रतिषेधात् तदनुमितश्रुतिविप्रतिषेधाद्वेति ।
विरुद्ध-प्रमित्य्-उत्पत्त्य्-अर्थेन
विश्वास-प्रस्तुतिः
यद् वा सूत्राणां न्याय-प्रदर्शन-परत्वात्
पञ्च-रात्र-श्रुत्योर् अ-सन्तम् अपि विरोधं कृत्वा
ऽत्र चित्यन्ते । +++(4)+++
Buitenen
105. Or there is another interpretation: since the Sūtras intend to illustrate the rules of exegesis, the author first assumes that there is a conflict between Śruti and Pañcaratra, though in fact there is no such conflict, and then reasons this out as follows:
मूलम्
यद्वा सूत्राणां न्यायप्रदर्शनपरत्वात् पञ्चरात्रश्रुत्योरसन्तमपि विरोधं कृत्वाऽत्र चित्यन्ते ।
पूर्व-पक्षः
उत्पत्त्य्-असम्भवात् पाञ्चरात्राप्रामाण्यम्
विश्वास-प्रस्तुतिः
तथा -
सति वेदाविरुद्धत्वे
किन् नु मन्व्-आदि-वाक्यवत् ।
अ-प्रमाणम् इदं शास्त्रं
प्रमाणं वेति संशये …॥
Buitenen
suppose that Pañcaratra is in conflict with the veda, is this śāstra then, like the statements of Manu etc., valid or invalid?
मूलम्
तथा -
सति वेदाविरुद्धत्वे किन्नु मन्वादिवाक्यवत् ।
अप्रमाणमिदं शास्त्रं प्रमाणं वेति संशये ॥
विश्वास-प्रस्तुतिः
अप्रमाणं +++(वेद-)+++विरुद्धार्थ-
प्रमित्य्–उत्पत्त्य्-अ-सम्भवात् ।
+++(पूर्वोक्त-)+++अ-सम्भवश् च +++(स्मृत्य्-अन्तरवत्)+++ सापेक्ष-
+++(वेदवत्→)+++निरपेक्षत्व-हेतुकः ॥
Buitenen
This question is thereupon answered: “It is invalid, because of the impossibility of the origination of valid knowledge concerning a conflicting sense;
and this impossibility itself is proved on the ground that there is independence of something that is dependent.”
मूलम्
अप्रमाणं विरुद्धार्थप्रमित्युत्पत्त्य्-असम्भवात् ।
असम्भवश्च सापेक्षनिरपेक्षत्वहेतुकः ॥
विश्वास-प्रस्तुतिः
यावद् धि
सापेक्षं पञ्च-रात्र-स्मरणं
न मूल-प्रमाणोपस्थापन-मुखेन स्वार्थं प्रमातुम् उपक्रमते
तावन् निरपेक्षापौरुषेयागम-भुवा प्रत्ययेन
तद्-अर्थस्यान्यथा परिच्छेदात्
तद्-विरुद्धायाः प्रमितेर् “उत्पत्त्य्-असम्भवात्” ।
Buitenen
Thus the sūtra utpattyasaṃbhavāt means:
“because it is impossible that a valid knowledge originates,
since, as long as the dependent Pañcaratra Tradition does not start proving the validity of its own sense by establishing the validity of its basis,
the cognition which originates from the independent preterpersonal scripture
determines the Tradition’s sense as being different,
and consequently conflicting with itself.
नरसिंहः
For a discussion on the validity of smṛtis when they are in opposition to more powerful means of knowledge, see Tantravārtika under I. iii. 3, pp. 82-103.
मूलम्
यावद्धि सापेक्षं पञ्चरात्रस्मरणं
न मूलप्रमाणोपस्थापनमुखेन स्वार्थं प्रमातुमुपक्रमते तावन्निरपेक्षापौरुषेयागमभुवा प्रत्ययेन तदर्थस्यान्यथा परिच्छेदात्तद्विरुद्धायाः प्रमितेरुत्पत्त्य्-असम्भवात् ।
विश्वास-प्रस्तुतिः
तावद्धि पञ्चरात्रस्य
मूल-श्रुत्य्-अवबोधनम् ।
प्रत्यक्ष-शास्त्र-शस्त्रेण
यावन् मूलं न लूयते ॥ +++(4)+++
Buitenen
For Pāñcarātra conveys that scripture is its basis only as long as the sword of direct scripture does not cut its root.
नरसिंहः
Cf. ibid. p. 87-
tāvadeva sphurantyarthāḥ purastādānumānikāḥ।
yāvat pratyakṣaśāstreṇa mūlameṣāṁ na kṛtyate॥
मूलम्
तावद्धि पञ्चरात्रस्य मूलश्रुत्यवबोधनम् ।
प्रत्यक्षशास्त्रशस्त्रेण यावन्मूलं न लूयते ॥
न च कर्तुः करणं वेदः
विश्वास-प्रस्तुतिः
ननु कथं वेदा वा निरपेक्षा?
यावता तेषाम् अपि भगवद्-अनुभव-सापेक्षम् एव प्रमाणत्वं -
+++(भगवतः)+++ तत्+++(=वेद)+++-कारणत्वात्।
Buitenen
106. OBJECTION. But why should the Vedas themselves be independent, since their validity, too, depends on the direct cognition of the Bhagavān, because this cognition is their cause?221
221: cf. supra § 18.
नरसिंहः
This is the contention of the Naiyāyika. He does not accept the “apauruṣeyatva” of the Vedas. They, according to him, are dependent upon the Supreme Being, like the Pāñcarātrāgamas, for their validity, so much so they too are “pauruṣeya”, i.e., composed by the Divine Person. This is the point on which Yāmuna differs from the Naiyāyika. The aphorism “na ca kartuḥ karaṇam” (Brahmasūtra II. ii. 40) is ingeniously interpreted by Yāmuna to refute the above concept of the Logician, and to establish the “apauruṣeyatva” or the revealed character of the Vedas.
मूलम्
ननु कथं वेदा वा निरपेक्षा?
यावता तेषामपि भगवदनुभवसापेक्षमेव प्रमाणत्वं तत्कारणत्वात्।
विश्वास-प्रस्तुतिः
यथैव हि पञ्च-रात्र-स्मृतयः तद्-अनुभव-सापेक्षाः,
एवं वेदा अपि
इति
Buitenen
Just as the Pāñcarātra Traditions are dependent on His cognition, so are the Vedas too dependent on His cognition.222
[222]: cf. supra § 18.
मूलम्
यथैव हि पञ्चरात्रस्मृतयः तदनुभवसापेक्षाः एवं वेदा अपीति
विश्वास-प्रस्तुतिः
तत्रोच्यते -
न च कर्तुः करणं -
न कर्तुर् ईश्वरस्य करणं वेदाः।
क्रियन्त इति करणम्,
कर्मणि ल्युट्,
अपौरुषेया वेदा इति यावत् ।
Buitenen
REFUTATION. To refute this view, the statement is made:
na ca kartuḥ karaṇam:
The Vedas are not the product of a maker, i.e. the Bhagavān.
Karaṇa here in the sense of “things that are made or produced”,
by the rule “suffix lyuṭ” in the sense of the object of the action.223
This then means that the Vedas are preterhuman.
[223]: karmaṇi lyuṭ Pāṇini.
[[88]]
नरसिंहः
न च … Brahmasūtra, II. ii. 40.
करणं … ‘करणं’ = ‘क्रियमाणं’ = ‘कार्यम्’ इत्य् अर्थः।
मूलम्
तत्रोच्यते न च कर्तुः करणं न कर्तुरीश्वरस्य करणं वेदाः क्रियन्त इति करणम्, कर्मणि ल्युट्, अपौरुषेया वेदा इति यावत् ।
उत्तरपक्षः
विश्वास-प्रस्तुतिः
विज्ञानादिभावे वा तदप्रतिषेधः।
Buitenen
107. Vijñānādibhāve vā tadapratiṣedhaḥ.
नरसिंहः
Brahmasūtra, II. ii. 41.
मूलम्
विज्ञानादिभावे वा तदप्रतिषेधः
विश्वास-प्रस्तुतिः
न चैतद् अस्ति पञ्चरात्रशास्त्रम् अप्रमाणमिति।
Buitenen
If, on the other hand, it is not true that the Pāñcarātra Śāstra is invalid,
मूलम्
न चैतद् अस्ति पञ्चरात्रशास्त्रम् अप्रमाणमिति।
विश्वास-प्रस्तुतिः
किम् तर्हि? तद्-अप्रतिषेधः।
Buitenen
then what? tadapratiṣedhaḥ,
मूलम्
किम् तर्हि? तद्-अप्रतिषेधः।
विश्वास-प्रस्तुतिः
प्रमित्युत्पत्तेर् अप्रतिषेधः।
विरुद्धार्थम् अपि विकल्पेन प्रमाणम् इत्यर्थः ।
Buitenen
i e. non-rejection of the origination of valid knowledge (namely, even when partly conflicting, the conflicting statement may be valid optionally),
मूलम्
प्रमित्युत्पत्तेर् अप्रतिषेधः।
विरुद्धार्थम् अपि विकल्पेन प्रमाणम् इत्यर्थः ।
विश्वास-प्रस्तुतिः
असम्भवद्–भ्रम-विप्रलम्भ– भगवद्-अनुभवमूलत्वात्, “विज्ञानादि-भावे”।
Buitenen
because it is based upon the direct cognition of the Bhagavān in whom error and deceit are impossible as He is a source of vijñāna (vijñānādibhāve):
मूलम्
असम्भवद्भ्रमविप्रलम्भभगवदनुभवमूलत्वात्, विज्ञानादिभावे।
विश्वास-प्रस्तुतिः
विज्ञानं विशिष्टं ज्ञानम् - असम्भवत्स्खलनम् इति यावत्,
Buitenen
Vijñāna means “knowledge par excellence in which no mistake is possible.
मूलम्
विज्ञानं विशिष्टं ज्ञानम् असम्भवत्स्खलनम् इति यावत्,
विश्वास-प्रस्तुतिः
अन्येषां हि सर्वधर्मशास्त्र-निबन्धनां
सांसारिकत्त्वेनासार्वज्ञ्यात्
अनवाप्तन्-अकामत्वाच् च
सम्भाव्यमान-विविध-विप्लवं ज्ञानम्,
Buitenen
For since all other authors of Dharmaśāstras are not omniscient, as they are involved in saṃsāra, and since therefore they are also not entirely self-sufficient,
various lapses are conceivable in their knowledge.
मूलम्
अन्येषां हि सर्वधर्मशास्त्र-निबन्धनां सांसारिकत्त्वेनासार्वज्ञ्यात् अनवाप्तकामत्वाच् च सम्भाव्यमानविविधविप्लवं ज्ञानम्,
विश्वास-प्रस्तुतिः
भगवतस् तु स्वाभाविक-निरङ्कुशैश्वर्यस्य
श्रुति-शत-समधिगतावितथ- सहज-समस्त-धर्माधर्मादि-साक्षात्-कारम् ज्ञानम्
इति विज्ञानम् इत्युक्तम्,
Buitenen
Whereas in the case of the Bhagavān, whose supremacy is natural and unlimited, His knowledge is the immediate insight in all dharma and adharma, which is natural to Him and true, as is known from hundreds of śrutis; it is this knowledge which in the sūtra is described as vijñāna,
नरसिंहः
Cf. Pādma Saṁhitā, Jñānapāda, II. 5b:
विज्ञानं भगवज्-ज्ञानं तज्-ज्ञानान् मुक्तिर् उच्यते ।
मूलम्
भगवतः तु स्वाभाविकनिरङ्कुशैश्वर्यस्य श्रुतिशतसमधिगतावितथसहजसमस्तधर्माधर्मादिसाक्षात्कारम् ज्ञानम् इति विज्ञानम् इत्युक्तम्,
विश्वास-प्रस्तुतिः
तादृशस्य तस्य
आदिभावे मूलत्वे सति
तद्-अप्रतिषेधः प्रमाणम् एव इति ।
Buitenen
When such knowledge is the ‘beginning,’ i.e. the basis, there is non-rejection, sc. the śāstra is valid.
नरसिंहः
‘तद्-अप्रतिषेधः’ प्रामाण्यस्याप्रतिषेधः, प्रामाण्यम् इति यावत्।
मूलम्
तादृशस्य तस्य आदिभावे मूलत्वे सति तद् अप्रतिषेधः प्रमाणम् एव इति ।
राम-मिश्रः
अस्मिन् अर्थे विज्ञानस्य आदिभावो विज्ञानादिभाव इति षष्ठीतत्पुरुषः ज्ञेयः