जीवाद्य्-उत्पत्ताव् आपत्तिः पूर्व-पक्ष-मात्रम्
उत्पत्त्यसंभवात्
विश्वास-प्रस्तुतिः
कथं तर्हीदं सूत्रम् “उत्पत्त्यसंभवात्” इति?
Buitenen
95. OBJECTION. But then how to explain the sūtra utpattyasaṃbhavāt!? 208
[208]: BrS, 2.2.42.
नरसिंहः
Brahmasūtra II. ii. -39.
मूलम्
कथं तर्हीदं सूत्रम् “उत्पत्त्यसंभवात्” इति?
विश्वास-प्रस्तुतिः
किं वाऽस्य सूत्रस्य हृदयम् ?
Buitenen
REPLY. What is the intention of the sūtra?
मूलम्
किं वाऽस्य सूत्रस्य हृदयम् ?
विश्वास-प्रस्तुतिः
इदम् अस्य सूत्रस्य [भावः]
भागवत-शास्त्रे जीवोत्पत्तेः प्रतिपाद्यमानत्वात्
तस्याश् च श्रुति-न्याय-विरोधेनासम्भवाद्
असमीचीनं शास्त्रम्इति ।
Buitenen
OBJECTION. The following: Since it is expounded in the Bhāgavata Śāstra that the individual soul has an origin, and since this is impossible as it militates against Scripture and Logic, therefore this śāstra is erroneous.
नरसिंहः
इदमस्य … The ‘pūrvapakṣa’ arguments advanced here are those made by Śaṅkara. See his commentary on the four sūtras comprising the ‘Utpattyasambhava’ or the ‘Pāñcarātra’ section : Brahmasūtra II. ii. 42-45.
सूत्रस्य … ‘हृदयम्’ इति शेषः ।
मूलम्
इदमस्य सूत्रस्य [भावः] भागवतशास्त्रे जीवोत्पत्तेः प्रतिपाद्यमानत्वात् तस्याश् च श्रुति-न्याय-विरोधेनासम्भवाद् असमीचीनं शास्त्रम् इति ।
विश्वास-प्रस्तुतिः
यद्य् एष सूत्रार्थस्
तर्हि पञ्चरात्र-शास्त्र-निराकरण-परं सूत्रम् ।
Buitenen
REPLY. If that is the meaning of the sūtra,
the sūtra is intended to reject the Pāñcarātra Śāstra.
then how can the sūtra be intended to reject the Pāñcarātra Śāstra?
मूलम्
यद्य् एष सूत्रार्थस् तर्हि पञ्चरात्र-शास्त्र-निराकरण-परं सूत्रम् ।
विश्वास-प्रस्तुतिः
न हि पञ्चरात्र-शास्त्रेषु जीवोत्पत्तिर् अङ्गीकृता येनैवम् उच्यते ।
+++(अतो न सिद्धान्त-सूत्रम् इदम्। )+++
Buitenen
For the Pāñcarātra Śāstras do not accept that the individual soul has an origin, which assumption would have justified the sūtra’s rejection.
मूलम्
न हि पञ्चरात्र-शास्त्रेषु जीवोत्पत्तिर् अङ्गीकृता येनैवम् उच्यते ।
व्यूह-प्रयोजनम्
विश्वास-प्रस्तुतिः
नन्व् अस्तीदं वचनं -
वासुदेवः परा प्रकृतिः परमात्मा,
ततस् सङ्कर्षणो नाम जीवो जायते ।
सङ्कर्षणात् प्रद्युम्न-संज्ञं मनो जायते ।
ततोऽनिरुद्ध-नामा अहङ्कारो जायते इति ।
Buitenen
OBJECTION. But is it not their assertion that Vāsudeva is at once the supreme material cause and the supreme spirit; that from him the individual soul Saṅkarṣaṇa is born, from Saṅkarṣaṇa the mind called Pradyumna, and from the latter the ego called Aniruddha?
नरसिंहः
Cf. Ahirbudhnya Saṁhitā V. 28a:
भगवान् वासुदेवस् स परमा प्रकृतिश् च सा ।
Cf. Śaṅkara under Brahmasūtra II. ii. 42:
यत् पुनर् इदम् उच्यते — वासुदेवात् सङ्कर्षण उत्पद्यते, सङ्कर्षणाच् च प्रद्युम्नः, प्रद्युम्नाच् चानिरुद्ध इति ।
etc.
मूलम्
नन्व् अस्तीदं वचनं वासुदेवः परा प्रकृतिः परमात्मा ततस् सङ्कर्षणो नाम जीवो जायते । सङ्कर्षणात् प्रद्युम्न-संज्ञं मनो जायते । ततोऽनिरुद्ध-नामा अहङ्कारो जायते इति ।
विश्वास-प्रस्तुतिः
अपि तु व्यूह-रूपेण
व्यक्तिर् देवस्य कीर्त्यते ।
Buitenen
REPLY. NO. The personal manifestation of God is described as being constituted by vyūhas,209
Buitenen - Notes
[209]: ‘Divisions’ of the Supreme God as Vāsudeva, Saṃkarṣaṇa, Pradyumna and Aniruddha.
नरसिंहः
Cf. Ahirbudhnya Samhitā, ch. V-
व्यूहा एते विशालाक्षाश्
चात्वारः पुरुषोत्तमाः।
निर्दोषा निरनिष्ठाश् च
निरवद्याः सनातनाः ॥ 5.41 ॥
अनन्तमक्षरं [^32]चैतच्
चातुरात्म्यं महामुने।
…
तत्र स्थूल-दशायां ते
व्यक्ति-भावम् उपागताः ॥ 5.43 ॥
मूलम्
अपि तु व्यूह-रूपेण व्यक्तिर् देवस्य कीर्त्यते ।
विश्वास-प्रस्तुतिः
तत्र संव्यवहारार्थं
जीव-शब्दः प्रयुज्यते ॥
वर्णानाम् आनुलोम्येन
पूज्य-भेद-प्रसिद्धये ।
Buitenen
and the word “individual soul” is assigned to one of these vyūhas for practical purposes, in order to prove clearly the differences that exist within the Adorable One, which differences are in accordance with those of the varṇas.
नरसिंहः
Cf. Ahirbudhnya Samhitā- V. 44-
जगताम् उपकाराय
सच्-चिद्-आनन्द-लक्षणाः।
मन-आलम्बनायैषा[^34]
चातुरात्म्य-व्यवस्थितिः ॥ 5.44 ॥
This Saṃhitā thus clarifies that the four-fold manifestation of the Supreme Lord Vāsudeva, as Saṅkarṣaṇa, Pradyumna and Aniruddha is for the welfare of the creation, by facilitating mental concentration in different degrees for aspirants of different capacities.
This four-fold manifestation has got a purpose, says the Sāttvata Saṃhitā, namely, facilitating the worship by the four castes, Brāhmana, Kṣatriya, Vaiśya and Sūdra, respectively.
It is only the Brāhmaṇa that is entitled to worship all these four manifestations of God, viz., Vāsudeva, Saṅkarṣaṇa, Pradyumna and Aniruddha. For the remaining castes, however, only particular forms of God are ordained for worship. For further details, see the Sāttvata Saṃhitā ch. VII.
Cf. the following passages from the Sāttvata Samhitā
अब्जान्तम् अर्चनं विष्णोर्
निष्कामेणाग्र-जन्मना ॥ २९ ॥
एवं सङ्कर्षणाद्यं तु वासुदेवान्तम् अर्चनम् ।
विहितं क्षत्र-जातेर् वै कर्तव्यत्वेन सर्वदा ॥ ३० ॥
प्रद्युम्नाद्यं तु वैश्यस्य
मुसलान्तम् उदाहृतम् ।
सच् छूद्रस्यानिरुद्धाद्यं
प्रद्युम्नान्तं सदैव हि ॥ ३१ ॥
सर्वत्राधिकृतो विप्रो
वासुदेवादि-पूजने ।
यथा तथा न क्षत्राद्यास्
तस्माच् छास्त्रोक्तम् आचरेत् ॥ ५५ ॥
चतुर्णां ब्राह्मणादीनां
स्वयम् एवानुकम्पया ।
चातुरात्म्येन रूपेण
चतुर्धा व्यक्तिमेति च ॥ 12.17 ॥
एवम् अस्त्व् अनुग्रहार्थं तु
शक्त्यात्मा भावितात्मनाम् ।
बिभर्ति बहु-भेदोत्थं रूपं सद्-वाहन-स्थितम् ॥ [ 176 ]
the following from the Parama Saṃhitā 11. 99b-101-
स तु देवश् चतुर्व्युहो
भुवनेष्व् अधितिष्ठते ॥
धुर्मादिषु परां सिद्धिम्
अवाप्य हित-काम्यया ।
वसुदेवस् स्मृतो धर्मो
ज्ञानम् सन्कर्षणस् स्मृतः ॥
तथा विमुक्तः प्रद्युम्नः
अनिरुद्धस् सकलेश्वरः तत्र व्यक्तास् समस्ताश् च
चत्वारस् तु गुणा इमे ॥
The above passages from the Parama saṃhitā point out that the four forms of the Lord, viz., Vāsudeva, Saṅkarṣaṇa, Pradyumna and Aniruddha are intended by the Lord to initiate the qualities of Dharma, Jñāna, Vimukti and Aiśvarya respectively, in the beings created.
The fact that the four manifestations of the Lord are designed by the Ford Himself to facilitate the worship by the four different castes is briefly set both by the Pauṣkara Saṃhitā ( ch. 38. śl. 4a, 5a), which Rāmānuja quotes in his śrībhāṣyā under II. ii. 41, p. 829-
कर्तव्यत्वेन वै यत्र
चातरात्म्यम् उपासते
क्रमागतैः स्व-संज्ञाभिः
ब्राह्मणैर् आगमम् तु तत् ।
C. also Viṣvaksena Saṃhitā XI. 146-147-
वसुदेवः परा मूर्तिस्
स्थापनीया द्विजोत्तमैः ।
द्वितिया स्थाप्यते मूर्तिः
क्षत्रियैर् मोक्ष-काङ्क्षिभिः ॥
प्रद्युम्नाख्या तु विप्रेन्द्र
वैश्यैस् स्थाप्या मुमुक्षुभिः
शूद्रैस् संस्थाप्यते मूर्तिर्
अनिरुद्धो जगद्-गुरुः ॥
मूलम्
तत्र संव्यवहारार्थं जीव-शब्दः प्रयुज्यते ॥
वर्णानाम् आनुलोम्येन पूज्य-भेद-प्रसिद्धये ।
विश्वास-प्रस्तुतिः
यथा ऽहुः —
“वर्णैश् चतुर्भिश् चत्वारः
पूजनीया यथा-क्रमम् ।”
इति,
Buitenen
It is as they say: “The four vyūhas are to be worshipped successively by the four varṇas successively.”
नरसिंहः
To be identified.
मूलम्
यथा ऽहुः —
“वर्णैश् चतुर्भिश् चत्वारः
पूजनीया यथा-क्रमम् ।”
इति,
विश्वास-प्रस्तुतिः
अपि च
जीव-मनोऽहङ्कार-शब्दा
न तन्-मात्र-वचनाः
अपि तु तत्-तद्-अधिष्ठानाधिकृत-विलक्षण-विग्रहवत्-पुरुषाभिधाना
इति ।
Buitenen
Besides, the words ‘individual soul,’ ‘mind’ and ’ego’ do not denote these tanmātras210 themselves, but refer to a person who is the superintending deity of these orders and whose personality is entirely different from the order he superintends.
[210]: tanmātras here in the sense of the “higher evolutes.”
मूलम्
अपि च जीव-मनोऽहङ्कार-शब्दा न तन्-मात्र-वचनाः अपि तु तत्तद्-अधिष्ठानाधिकृत-विलक्षण-विग्रहवत्-पुरुषाभिधाना इति ।
विश्वास-प्रस्तुतिः
विचित्र-देह-संपत्तिर्
जन्मेति व्यपदिश्यते ।
“तोयेन जीवान्” इत्य् एतद्
यजुर्-मूर्ध्नि यथा वचः ॥
Buitenen
Birth is described as the acquisition of various bodies, as is said in the statement toyena jīvān in the Yajurmūrdhan.211
[211]: toyena jīvān visasarja bhūmyām, MahānārUp., 1.4.
नरसिंहः
Taittirīya Āraṇyaka X-i-1b; also Mahānārāyaṇa I-4b.
मूलम्
विचित्र-देह-संपत्तिर्
जन्मेति व्यपदिश्यते ।
तोयेन जीवान् इत्य् एतद्
यजुर्-मूर्ध्नि यथा वचः ॥
निर्वाह-सूत्रान्तरम्
विश्वास-प्रस्तुतिः
अपि च
जीवोत्पत्ति-प्रलयादि-गोचराः श्रुति-स्मृति-लोक-वादाः
“चराचर-व्यपाश्रयस् तु स्यात् -
तद्+++(=ब्रह्म)+++-व्यपदेशो भाक्तस् - तद्-भाव-भावित्वात्”
इत्य्-अत्रैव सूत्र-कारेण कृत-निर्वाहाः ॥
+++(अतो न सिद्धान्त-सूत्रम् इदम्। )+++
Buitenen
Besides, the Author of the Sūtras has already discarded the śruti, smṛti and profane views concerning the origination and reabsorption of the individual soul in the sūtra carācaravyapāśrayas tu syāt tadvyapadeśo bhāktas tadbhāvabhāvitvāt.212
Buitenen - Notes
[212]: BrS. 2.3.16 (17). Translation: “A word descriptive of moving or unmoving beings, has not a secondary meaning [in referring to Brahman], because such a being’s existence depends on Brahman’s existence.”
नरसिंहः
अपि च … Here Yāmuna points out the discrepancy in Śaṅkara’s division of the Brahmasūtra into Adhikaraṇas. According to Śaṅkara, the aphorism “carācaravyapāśrayastu” etc., forms another topic (adhikaraṇa). He argues that the origination of the jīva is not of primary significance. But according to Yāmuna, this point has already been clarified by the sūtra : *nātmā śruteḥ”, etc., so much so that the sūtra “carācara” etc., becomes redundant and thus becomes “anadhikaraṇīya”, that is to say that it does not deserve treatment as a separate topic.
चराचर … Brahmasūtra II. iii. 17.
मूलम्
अपि च जीवोत्पत्ति-प्रलयादि-गोचराः श्रुति-स्मृति-लोक-वादाः “चराचर-व्यपाश्रयस् तु स्यात् तद्-व्यपदेशो भाक्तस् तद्भाव-भावित्वात्” इत्य्-अत्रैव सूत्रकारेण कृत-निर्वाहाः ॥
विश्वास-प्रस्तुतिः
किं च
“नामात्मा श्रुतेर्,
+++(तस्य)+++ नित्यत्त्वाच् च ताभ्यः”
इत्य्-अत्रैव ब्रह्मणो जीवोत्पत्तिः श्रुति-स्मृति-न्याय-विरोधेन निरस्ता सती
न पुनर् उपन्यासं प्रयोजयतीति
अनधिकरणीयम् अधिकरणम् आपद्येत ।
Buitenen
And since, moreover, the origination of the individual soul out of Brahman has been rejected in the sūtras
“nātmā śruter nityatvāc ca tābhyaḥ”,213
it does not occasion a renewed exposition:
an issue which does not need being made a topic would then be made a topic.
Buitenen - Notes
[213]: BrS., 2.3.17 (18). Translation: “The ātman is not born because there is no śruti to that effect, and because of its eternality, which is proved by the śrutis.”
नरसिंहः
Ibid. II. iii. 18.
मूलम्
किं च “नामात्मा श्रुतेर् नित्यत्त्वाच् च ताभ्यः” इत्य्-अत्रैव ब्रह्मणो जीवोत्पत्तिः श्रुति-स्मृति-न्याय-विरोधेन निरस्ता सती
न पुनर् उपन्यासं प्रयोजयतीति अनधिकरणीयम् अधिकरणम् आपद्येत ।
न च कर्तुः करणम्
विश्वास-प्रस्तुतिः
एतेन “न च कर्तुः करणम्” इति सूत्रं व्याख्यातम् ।
Buitenen
[[81]]
96. This also explains the sūtra na ca kartuḥ karaṇam;214
[214]: BrS, 2.2.43.
नरसिंहः
Ibid. II. ii 40.
मूलम्
एतेन “न च कर्तुः करणम्” इति सूत्रं व्याख्यातम् ।
विश्वास-प्रस्तुतिः
न ह्य् अत्र कर्त्तुः सङ्कर्षणात् करणस्य मनस उत्पत्तिर् उच्यते ।
Buitenen
for it is not said here
that the instrument, Sc. the mind, originates from the agent, sc. Saṅkarṣaṇa.
मूलम्
न ह्य् अत्र कर्त्तुः सङ्कर्षणात् करणस्य मनस उत्पत्तिर् उच्यते ।
विश्वास-प्रस्तुतिः
उक्तं हि विलक्षण-पुरुष-वचनाः एते शब्दा इति ।
Buitenen
For we have already stated that these names solely refer to the persons who uperintend these orders but are themselves different from them
मूलम्
उक्तं हि विलक्षण-पुरुष-वचनाः एते शब्दा इति ।
विश्वास-प्रस्तुतिः
किम् इति वा “कर्तुः करणं नोत्पद्यते” +++(इति सूत्रम्)+++?
Buitenen
OBJECTION. Then why this sūtra at all?
नरसिंहः
† Cf. Śaṅkara on II-ii-43-
न च कर्तुः करणम् । इतश् चासङ्गतैषा कल्पना — यस्मान् न हि लोके कर्तुर् देवदत्तादेः करणं परश्व्-आद्य् उत्पद्यमानं दृश्यते । वर्णयन्ति च भागवताः
कर्तुर् जीवात् सङ्कर्षण-संज्ञकात् करणं मनः प्रद्युम्न-संज्ञकम् उत्पद्यते, कर्तृजाच् च तस्माद् अनिरुद्ध-संज्ञको ऽहंकार उत्पद्यत
इति । न चैतद्-दृष्टान्तम् अन्तरेणाध्यवसातुं शक्नुमः । न चैवंभूतां श्रुतिम् उपलभामहे ॥ ४३ ॥
मूलम्
किम् इति वा कर्तुः करणं नोत्पद्यते ?
विश्वास-प्रस्तुतिः
देवदत्तादेः कर्तुः परशु-प्रभृति-करणोत्पत्त्य्-अदर्शनाद्
इति चेत्,
Buitenen
For we do not find that instruments, like a hatchet, originate from an agent, like Devadatta, so that an instrument out of an agent makes no sense.
मूलम्
देवदत्तादेः कर्तुः परशु-प्रभृति-करणोत्पत्त्यदर्शनाद् इति चेत्,
विश्वास-प्रस्तुतिः
हन्त हतस् तर्हि अपगत-सकल-करण-कलाप–स्व-महिम-प्रतिष्ठ-ब्रह्मणः
प्राण-मनः-प्रभृति-निखिल-करणोत्पत्त्यभ्युपगमः
“एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि”
इति +++(श्रुत्या)+++।
Buitenen
REFUTATION. Well, then you reject the general view that all instruments, vital airs, mind etc. have their origin in Brahman which itself is without the entire collection of all instruments and rests solely on its own power; this view is stated in the text: “From it springs the vital air, the mind and all the senses.“215
[215]: Muṇḍ Up., 2.1.3.
नरसिंहः
Muṇḍakopaniṣat II-i-3.
मूलम्
हन्त हतस् तर्हि अपगत-सकल-करण-कलाप-स्व-महिम-प्रतिष्ठ-ब्रह्मणः प्राण-मनः-प्रभृति-निखिल-करणोत्पत्त्यभ्युपगमः -
“एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि” इति [श्रुत्या] ।
विश्वास-प्रस्तुतिः
अथ “श्रुति-प्रसिद्धत्वात्
तत् तथैवाभ्युपेयते” ।
पञ्चरात्र-प्रसिद्धत्वाद्
इदं किं नाभ्युपैषि भोः ॥
Buitenen
Or if you do agree on this because it is clearly proved in Revelation, I ask you why you don’t agree on it because it is clearly proved in Pañcaratra.
नरसिंहः
Yāmuna here pleads for the validity of the Pāñcarātrāgamas on the ground that they, like the Vedas, are based upon knowledge that is free from all defects. Cf. the inferential statement made by Yāmuna above:
vivādādhyāsitaṁ tantraṁ pramāṇam iti gṛhyatām ।
nirdoṣajñānajanmatvāt jyotiṣṭomādivākyavat ॥
मूलम्
अथ श्रुति-प्रसिद्धत्वात् तत् तथैवाभ्युपेयते ।
पञ्चरात्र-प्रसिद्धत्वाद् इदं किं नाभ्युपैषि भोः ॥
विश्वास-प्रस्तुतिः
न हि स्मृति-प्रसिद्धार्थ-
परित्यागो ऽतिशोभनः ।
निर्दोष-ज्ञान-जन्मत्वात्
प्रामाण्यं हि समं द्वयोः ॥
Buitenen
It is not a very proper procedure to deny things that are proved by smṛti; since both śruti and smṛti spring from perfect knowledge, they are equally valid.
[[82]]
मूलम्
न हि स्मृति-प्रसिद्धार्थ-परित्यागो ऽतिशोभनः ।
निर्दोष-ज्ञान-जन्मत्वात् प्रामाण्यं हि समं द्वयोः ॥
व्यूह-रूप-भगवत्त्वय् उत्पत्ति-करण-सम्भवौ
विज्ञानादि-भावे वा तद्-अप्रतिषेधः
चतुर्धा-भाव उपपन्नः
विश्वास-प्रस्तुतिः
यत् तु “चत्वार एते किं
समानैश्वर्य-भागिनः ।
स्वतन्त्राः किम् उतैकस्य
स्वेच्छा-मूर्ति-चतुष्टयी ॥”इति विकल्प्य
Buitenen
The Author raises the question which one of two alternatives may be true:
Are these four equally and independently sovereign,
or has one a quaternity of personalities which he has assumed at his own desire?
नरसिंहः
Cf. Śaṅkara on II. ii. 44.
अत्रोच्यते — एवम् अपि,
तद्-अप्रतिषेधः उत्पत्त्य्-असम्भवस्याप्रतिषेधः, यदि तावद् अयम् अभिप्रायः — परस्पर-भिन्ना एवैते वासुदेवादयश् चत्वार ईश्वरास् तुल्य-धर्माणः, नैषाम् एकात्मकत्वम् अस्तीति; ततो ऽनेकेश्वर-कल्पनाऽनर्थक्यम् , एकेनैवेश्वरेणेश्वर-कार्य-सिद्धेः।सिद्धान्त-हानिश् च, भगवान् एवैको वासुदेवः परमार्थ-तत्त्वम् इत्य् अभ्युपगमात् ।
अथा ऽयम् अभिप्रायः —
एकस्यैव भगवत एते चत्वारो व्यूहास् तुल्य-धर्माण
इति, तथापि तद्-अवस्थ एवोत्पत्त्य्-असम्भवः। न हि वासुदेवात् सङ्कर्षणस्योत्पत्तिः सम्भवति, सङ्कर्षणाच् च प्रद्युम्नस्य, प्रद्युम्नाच् चानिरुद्धस्य, अतिशयाभावात्। भवितव्यं हि कार्यकारणयोर् अतिशयेन, यथा मृद्-घटयोः। न ह्य् असत्य् अतिशये, कार्यं कारणम् इत्य् अवकल्पते। न च पञ्च-रात्र-सिद्धान्तिभिः वासुदेवादिष्व् एकस्मिन् सर्वेषु वा ज्ञानैश्वर्यादि-तारतम्य-कृतः कश्चिद् भेदो ऽभ्युपगम्यते। वासुदेवा एव हि सर्वे व्यूहा निर्विशेषा इष्यन्ते। न चैते भगवद्-व्यूहाश् चतुः-सङ्ख्यायाम् एवावतिष्ठेरन् , ब्रह्मादि-स्तम्ब-पर्यन्तस्य समस्तस्यैव जगतो भगवद्-व्यूहत्वावगमात् ॥ ४४ ॥
मूलम्
यत् तु “चत्वार एते किं
समानैश्वर्य-भागिनः ।
स्वतन्त्राः किम् उतैकस्य
स्वेच्छा-मूर्ति-चतुष्टयी ॥”
इति विकल्प्य
विश्वास-प्रस्तुतिः
“समानैश्वर्य-भागित्वे
तुल्यत्वान् नैव कार्यता ।
एकस्य मूर्ति-भेदश् चेत्
किं भेदेन प्रयोजनम् ॥”इति दूषयति
इति व्याख्यातं
Buitenen
and then he points out the defect: if they are equally sovereign, none of them can be effects because they are equal; when they are different forms of one, what is the purpose of this division?
मूलम्
“समानैश्वर्य-भागित्वे तुल्यत्वान् नैव कार्यता ।
एकस्य मूर्ति-भेदश् चेत् किं भेदेन प्रयोजनम् ॥”
इति दूषयतीति व्याख्यातं
विश्वास-प्रस्तुतिः
“विज्ञानादि-भावे वा तद्-अप्रतिषेधः” इति ,
Buitenen
97. OBJECTION. The sūtra vā tadapratiṣedhaḥ 216 is explained as follows: above.
[216]: BrS., 2.2.44.
नरसिंहः
Brahmasūtra-II-ii-41.
मूलम्
“विज्ञानादि-भावे वा तद्-अप्रतिषेधः” इति ।
विश्वास-प्रस्तुतिः
तद् अयुक्तम् - अ-सम्भावनीयत्वाद् विकल्पस्य ।
Buitenen
REFUTATION. That is not correct, because an alternative is impossible.
मूलम्
तद् अयुक्तम् असम्भावनीयत्वाद् विकल्पस्य ।
विश्वास-प्रस्तुतिः
न हि केनचिद् ईश्वर-वादिना
अनेकेश्वरं जगद् अभ्युपगतं
विशेषतश् च पाञ्चरात्रिकैः -
वासुदेव एवैकः परा प्रकृतिर् इति वदद्भिः,
Buitenen
For no one who holds that there is a God theorizes that the world has several Gods, least of all the Pāñcarātrikas who hold that “Vāsudeva is the ultimate material cause”.
नरसिंहः
Cf. Ahirbudhnya Saṁhitā V-28a:
भगवान् वासुदेवः स परमा प्रकृतिश् च सा ।
मूलम्
न हि केनचिद् ईश्वरवादिना अनेकेश्वरं जगद् अभ्युपगतं विशेषतश् च पाञ्चरात्रिकैः -
वासुदेव एवैकः परा प्रकृतिर् इति वदद्भिः,
विश्वास-प्रस्तुतिः
किन्तु स एव भगवान् लीला-विरचित-चतुर्भेदः सकलम् अपि जगत् संरक्षतीति ।
Buitenen
But this one Bhagavān, who has divided Himself into four for reasons of sport, protects the entire world.
नरसिंहः
Cf. ibid. śls. 21b-24-
तत्र ज्ञानमयत्वेन
देवस् संकर्षणो बली ॥
व्यनक्त्य् ऐकान्तिकं मार्गं
भगवत्-प्राप्ति-साधनम् ।
वीर्यैश्वर्यमयो देवः
प्रद्युम्नः पुरुषोत्तमः ॥
स्थितः शास्त्रार्थ-भावेन
भगवत्-प्राप्ति-वर्त्मना ।
शास्त्रार्थस्य फलं यत् तद्
भगवत्-प्राप्ति-लक्षणम् ॥
प्रापयत्य् अनिरुद्धस् सन्
साधकान् पुरुषोत्तमः ।
शास्त्र-शास्त्रार्थ-तत्-साध्य-
फल-निर्वाहका इमे ॥
Cf. Philosophy of Viśiṣṭādvaita, p. 156-
Vasudeva, the perfect self, manifests Himself in the interests of the meditational needs of the devotee, as Saṅkarṣaṇa with the two qualities of jñāna and bala, as Pradyumna with the qualities of aiśvarya and vīrya, and as Aniruddha with Śakti and Tejas without any diminution of Divinity.
मूलम्
किन्तु स एव भगवान् लीला-विरचित-चतुर्भेदः सकलम् अपि जगत् संरक्षतीति ।
विश्वास-प्रस्तुतिः
न चेदम् अनुपपन्नं -
बल-भरतावरजाग्रजादि-प्रादुर्भाववद् उपपत्तेः,
Buitenen
And this position is not unjustified, because it is justified in the same manner as the appearance of second-born and first-born brothers like Bala and Bharata.
मूलम्
न चेदम् अनुपपन्नं -
बलभरतावरजाग्रजादिप्रादुर्भाववदुपपत्तेः,
विश्वास-प्रस्तुतिः
यथैव हि भगवतः स्व-लीला-विरचित-गगन-पवन-हर-विरिञ्च्य्- आदि-प्रपञ्चस्य
अचिन्त्य-महिम-लीलैक-प्रयोजनस्य
राम-लक्ष्मण-भरत-शत्रुघ्नादि–स्व-च्छन्दा विग्रहा
न विरोत्स्यन्ते
एवं सङ्कर्षण-प्रद्युम्नादि-भेदा इति ।
Buitenen
For just as the Bhagavān, who has created the variety of phenomena of ether, Wind, Śiva, Brahmā etc. for His sport, whose sole motivation is the sport of his unfathomable power, has voluntarily assumed the personalities of Rāma, Lakṣmaṇa, Bharata, Śatrughna etc., without there being the possibility of logical conflict in the same manner the divisions of Saṅkarṣaṇa, Pradyumna and Aniruddha, too, are unconflicting.
[[83]]
नरसिंहः
CJ. Sāttvata Saṁhitā IV. 33-34-
यथाम्बर-स्थस् सविता
त्वेक एव महा-मते ।
जलाश्रयाणि चाश्रित्य
बहुत्वं सम्प्रदर्शयेत् ।
एवम् एको ऽपि भगवान्
नाना-मन्त्राश्रयेषु च ।
तुर्यादि-पद-संस्थेषु
बहुत्वम् उपयाति च ॥ +++(5)+++
The cause behind the manifestation of the Lord into different forms is His mere sport ( krīḍā or līlā) and the purpose of this manifestation is protection for the good.
Cf. Ahirbudhnya Saṁhitā ch. 36 Śls. 64, 65.
प्रतित्रेतायुगं देवः
साधु-त्राण-कृते इरिः ।
राम-लक्ष्मण-शत्रुघ्न-
भरताद्य् आत्मना स्वयम् ॥
चतुर्धा ऽवस्थितस् तद्वत्
चक्रात्मा हरिर् एव हि ।
गुण-प्रधान-भावस् तु
रामादेर् इव युज्यते ॥
मूलम्
न चेदमनुपपन्नं बल-भारतावरजाग्रजादिप्रादुर्भाववदुपपत्तेः, यथैव हि भगवतः स्वलीलाविरचितगगन-पवन-हर-विरिञ्च्यादिप्रपञ्चस्य अचिन्त्यमहिमलीलैकप्रयोजनस्य राम-लक्ष्मण-भरत-शत्रुघ्नादिस्वच्छन्दा विग्रहा न विरोत्स्यन्ते एवं सङ्कर्षणप्रद्युम्नादिभेदा इति ।
शब्द-विप्रतिषेधो न
विश्वास-प्रस्तुतिः
यत् परं “विप्रतिषेधाद्” इति
“चतुर्षु वेदेष्व्” इति +++(अध्याहृत्य)+++ श्रुति-विप्रतिषेधात्,
तन्त्राणां परस्-पर-विप्रतिषेधाद् वा ।
Buitenen
98. Furthermore, vipratiṣedhāt 217 may mean “because of conflict with Revelation”,
on the basis of the citation “failing to find in the four Vedas…”
or “because of mutual conflict between the Tantras themselves”.
[217]: BrS., 2.2.45.
नरसिंहः
Brahmasūtra- II-ii-42. The reading found in the Śrībhāṣya and Śāṅkarabhāṣya is- ‘विप्रतिषेधाच् च’. But Yāmuna, throughout has it as ‘विप्रतिषेधात्’.
Cf. Śaṅkara on II-ii-45 - ‘विप्रतिषेधाच् च’
विप्रतिषेधश् च +अस्मिन् शास्त्रे बहु-विध उपलभ्यते —
गुण-गुणित्व-कल्पनादि-लक्षणः।ज्ञानैश्वर्य-बल-वीर्य-तेजांसि गुणाः, आत्मान एवैते, भगवन्तो वासुदेवा
इत्य्-आदि-दर्शनात्।
वेद-विप्रतिषेधश् च भवति —
चतुर्षु वेदेषु परं श्रेयो ऽलब्ध्वा शाण्डिल्य इदं शास्त्रम् अधिगतवान्
इत्य्-आदि-वेद-निन्दा-दर्शनात्।
तस्मात् असङ्गतैषा कल्पनेति सिद्धम् ॥ ४५ ॥
मूलम्
यत्परं विप्रतिषेधात् इति चतुर्षु वेदेषु इति श्रुतिविप्रतिषेधात् तन्त्राणां परस्परविप्रतिषेधाद्वा ।
विश्वास-प्रस्तुतिः
अप्रमाणम् इति तत्र श्रुति-विप्रतिषेधस्तु प्रागेव प्रत्युक्तः,
Buitenen
The former alternative, incompatibility with Revelation has already been refuted as being without valid basis.
मूलम्
अप्रमाणमिति तत्र श्रुतिविप्रतिषेधस्तु प्रागेव प्रत्युक्तः,
विश्वास-प्रस्तुतिः
परस्-पर-विप्रतिषेधस् तु
प्रधान-गुण–सामान्य-विशेषादि-न्याय- संपादित-वचन-व्यक्तीनां तन्त्राणां नास्त्य् एव
Buitenen
Mutual conflict between the Pañcarātra Tantras themselves, whose terminological precision has been perfected by the rules of logic governing principal matter, generality, peculiarity, quality and the like, does not exist.
नरसिंहः
‘प्रधान-गुण-न्यायः’ = अङ्गाङ्गि-भावः; ‘सामान्य-विशेष-न्यायः’ = छाग-पशु-न्यायः।
वचन-व्यक्तीनां = वचनान्वय-क्रमाणाम्।
मूलम्
परस्परविप्रतिषेधस् तु प्रधानगुणसामान्यविशेषादिन्यायसंपादितवचनव्यक्तीनां तन्त्राणां नास्त्येव
विश्वास-प्रस्तुतिः
न्यायानुग्रह-रहितानां तु वचसां
न क्वचिद् अपि परिनिश्चायकत्वम्,
यथा ऽह
(पदजातं श्रुतं सर्वं
स्मारितानन्वितार्धकम् । )
न्याय-संपादित-व्यक्ति
पश्चाद्-वाक्यार्थ-बोधकम्॥
इति,
Buitenen
On the other hand, statements that lack the corroboration of logic can have no cogency;
as the maxim says:
“A statement must have precision perfected by logic before it can communicate its meaning.”
नरसिंहः
The source is yet to be identified. This verse, however, is quoted in full by Sudarśani, in his commentary on the Śrībhāṣya, I-i-1; pp. 168-169-
पद-जातं श्रुतं सर्वं स्मारितानन्वितार्थकम् । न्याय-सम्पादित-व्यक्ति पश्चाद् वाक्यार्थ-बोधकम् ॥
Vedāntadeśika too quotes this in his Nyāyapariśuddhi, p.151.
मूलम्
न्यायानुग्रहरहितानान्तु वचसां न क्वचिदपि परिनिश्चायकत्वम्,यथा ऽह —
न्याय-सम्पादित-व्यक्ति
पश्चाद्-वाक्यार्थ-बोधकम्॥
विश्वास-प्रस्तुतिः
तस्मात् सूत्रकारेण
“इदं महोपनिषदम्” इत्य्-आदि-वचनैर्
वेदेभ्यो ऽविशेषेणाभिमततर-प्रामाण्येषु पञ्च-रात्र-तन्त्रेष्व्
अ-विद्यमान-जीवोत्पत्ति-प्रतिपादनाध्यारोपेण
तन्-निराकरण-परतया सूत्रं व्याख्यायमानं
व्याख्यातॄणाम् एवाख्यातिं ख्यापयतीत्यलं प्रबन्धेन । +++(4)+++
Buitenen
Consequently, the Author of the Sūtras gives the lie to those exegetes who,
by superimposing on the Pañcarātra Tantras
(whose validity he strongly affirms as no less than that of the Vedas, in such assertions as “idaṃ mahopaniṣadam,” etc.)
the non-existent doctrine of the soul’s origination,
explain that the sūtra means to reject the Pañcaratra Tantras.
Enough.
नरसिंहः
इदं … Mahābhārata, Sānti, ch. 326.100.
‘अविशेषेण’ समानतया इत्य् अर्थः ।
मूलम्
तस्मात् सूत्रकारेण इदं महोपनिषदम् इत्यादिवचनैर्वेदेभ्योविशेषेणाभिमततरप्रामाण्येषु पञ्चरात्रतन्त्रेष्वविद्यमानजीवोत्पत्तिप्रतिपादनाध्यारोपेण तन्निराकरणपरतया सूत्रं व्याख्यायमानं व्याख्यातॄणामेवाख्यातिं ख्यापयतीत्यलं प्रबन्धेन ।