वेद-मूलता
विश्वास-प्रस्तुतिः
ननु वेदमूला एव चेदेताः पञ्चरात्र-स्मृतयः -
किं तर्हि तद्-अर्थ-स्मरणवत् तन्-मूल-भूत-वेद-वाक्य-स्मरणं नानुवर्तते पाञ्च-रात्रिकाणाम् ?
Buitenen
89. OBJECTION.
But if the Pañcaratra traditions are really derived from the Veda,
then how is it that no recollection of the Vedic words which furnishes this basis
has persisted among the Pañcaratrikas,
whereas the meaning of these words apparently does persist?
मूलम्
ननु वेदमूला एव चेदेताः पञ्चरात्रस्मृतयः किं तर्हि तदर्थस्मरणवत्तन्मूलभूतवेदवाक्यस्मरणं नानुवर्तते पाञ्चरात्रिकाणाम् ।
विश्वास-प्रस्तुतिः
न “चार्थस्मरणस्य प्रयोजनवत्त्वात्
तस्य विफलत्वात्, तद्-अनादरणीयम्”
इति युक्तम्,
न हि यतः प्रामाण्यं तदेव विस्मर्तुं युक्तम् ।
Buitenen
It is not right to contend that
only the recollection of the meaning is important
because that has purpose
while the recollection of the actual Vedic statements is to be disregarded
because it is purposeless;
for it is not proper to forget that from which the meaning’s authority derives.
नरसिंहः
‘तस्य’ मूल-भूत-वेद-वाक्य-स्मरणस्येत्य् अर्थः ।
न हि … Cf. Tantravārtika under I. iii. 1, P.73:
न हि यत् कृतं प्रामाण्यं, तद् एव विस्मर्तुं युज्यते ।
मूलम्
न चार्थस्मरणस्य प्रयोजनवत्त्वात् तस्य विफलत्वात् तदनादरणीयमिति युक्तम्,
न हि यतः प्रामाण्यं तदेव विस्मर्तुं युक्तम् ।
विश्वास-प्रस्तुतिः
अथ विस्मरणोपपत्तये प्रलीन-नित्यानुमेय-शाखा-मूलता आश्रीयते।
Buitenen
[[75]]
Or if, in order to justify this oblivion,
the standpoint is taken that the doctrine is based on a Vedic sakha which has been lost or which is always deducible,
नरसिंहः
Cf. ibid : I-iii-1, P.73:
यदि तु प्रलीन-शाखा-मूलता कल्प्येत, ततस् सर्वासां बुद्धादि-स्मृतीनाम् अपि, तद्-द्वारं प्रामाण्यं प्रसज्येत । यस्यैव च यद् अभिप्रेतं स एव तत् प्रलीन-शाखा-मस्तके निक्षिप्य प्रमाणी-कुर्यात् । अथ विद्यमान-शाखा-गता एवैते ऽर्थाः; तथापि मन्वादय इति सर्वे पुरुषास् एवोपलप्स्यन्ते । युक्ततरा च स्वाध्यायाध्ययन-विधेः साक्षाद् वेदाद् एव प्रतीतिर् इति स्मृति-प्रणयन-वैयर्थ्यं स्यात् ।
मूलम्
अथ विस्मरणोपपत्तये प्रलीननित्यानुमेयशाखामूलता आश्रीयते।
विश्वास-प्रस्तुतिः
तदा यद् एव येन प्रमाणतया परिगृहीतं
स तत्-प्रलीन-शाखा-मस्तके निक्षिप्य प्रमाणी-कुर्यात्।
नित्यानुमेय-प्रलीन-शाखयोस्तु स्व-रूप-सिद्धिर् एव दुर्लभा ।
Buitenen
then whatever doctrine a person adopts
he can always make authoritative simply by attributing it to a lost śākhā;
however, it is hard to prove what a lost or deducible śākhā actually contain.
मूलम्
तदा यदेव येन प्रमाणतया परिगृहीतं स तत्प्रलीनशाखामस्तके निक्षिप्य प्रमाणीकुर्यात्नित्यानुमेयप्रलीनशाखयोस्तु स्वरूपसिद्धिरेव दुर्लभा ।
विश्वास-प्रस्तुतिः
अथ विद्यमान-शाखा-मूला एव ताः स्मृतयः।
तदा तत्-प्रणेतृवद्
अन्येऽपि तत एवोपलभेरन्
इति ग्रन्थ-प्रणयन-प्रयास-वैयर्थ्यम् ।
Buitenen
Or if these traditions are based on an extant Sakha,
then others would know it as well as the author,
and hence his taking the trouble of promulgating these texts would be purposeless.
मूलम्
अथ विद्यमानशाखामूला एव ताः स्मृतयः तदा तत्प्रणेतृवदन्येऽपि तत एवोपलभेरन् इति ग्रन्थप्रणयनप्रयासवैयर्थ्यम् ।
विश्वास-प्रस्तुतिः
अत्रोच्यते -
स खलु भगवान् अमोघ-सहज-संवेदन-साक्षाद्-भवद्–अखिल-वेद-राशिर्
विप्रकीर्ण-विविध-विध्य्–अर्थ-वाद–मन्त्रात्मकान्
एक-शाखाध्ययन-धारणादिष्व् अ-धीर-धियो भक्तान् अवलोक्य
तद्-अनुकम्पया लघुनोपायेन
तद्-अर्थं संक्षिप्योपदिदेशेति
न किञ्चिद् अनुपपन्नम् ।
Buitenen
REFUTATION.
The reply to this is as follows:
The Bhagavan, who has an immediate presentation of the entire collection of the Veda
by virtue of the perfect knowledge that is natural to Him,
observed that his devotees were not firm enough in their minds
to retain and transmit the lessons of all the various sakhas
which consist of widely scattered injunctions, arthavadas and mantras of many different kinds,
and having observed this he was moved by his compassion
to condense the meaning of the Veda in an easily comprehensible way and to teach it so.
On this showing, nothing is unestablished.
मूलम्
अत्रोच्यते स खलु भगवान् अमोघसहजसंवेदनसाक्षाद्भवदखिलवेदराशिर्विप्रकीर्णविविधविध्यर्थवादमन्त्रात्मकानेकशाखाध्ययनधारणादिष्वधीरधियो भक्तानवलोक्य तदनुकम्पया लघुनोपायेन तदर्थं संक्षिप्योपदिदेशेति न किञ्चिदनुपपन्नम् ।
विश्वास-प्रस्तुतिः
यथाऽहुः -
वेदान्तेषु यथासारं
सङ्गृह्य भगवान् हरिः ।
भक्तानुकम्पया विद्वान्
सञ्चिक्षेप यथा-सुखम् ॥
इति,
Buitenen
As they say
“The blessed Hari took the essence of the Upanisads and condensed it,
the Sage, out of compassion with his devotees for their convenience.”
नरसिंहः
Mahābhārata, śāntiparvan, ch. 348. śl. 64.
मूलम्
यथाऽहुः -
वेदान्तेषु यथासारं सङ्गृह्य भगवान् हरिः ।
भक्तानुकम्पया विद्वान् सञ्चिक्षेप यथासुखम् ॥
इति,
विश्वास-प्रस्तुतिः
एते च मन्व्-आदि-समस्त-स्मरण-साधारणाः पर्यनुयोगास्
तन्त्र-टीका-कृत-परिश्रमाणाम् अनायास-परिहार्या
इति नेह प्रपञ्च्यते ।
Buitenen
The other objections made,
which are equally applicable to all Traditions of Manu and the others,
are easily answered by all those who have made a diligent study of the commentaries on the Tantras and are not further enlarged upon here.
[[76]]
नरसिंहः
This is another name for Tantravārtika of Kumārila Bhaṭṭa.
मूलम्
एते च मन्वादिसमस्तस्मरणसाधारणाः पर्यनुयोगास्तन्त्रटीकाकृतपरिश्रमाणामनायासपरिहार्या इति नेह प्रपञ्च्यते ।
न वेद-निन्दा
विश्वास-प्रस्तुतिः
ननु चेदं वेद-मूलत्वं पञ्च-रात्र-तन्त्राणाम् अनुपपन्नं वेद-निन्दा-दर्शनात्,
Buitenen
90. OBJECTION.
The thesis that the Pañcarātra Tantras are based on the Veda
is disproved by the fact that
we find in these very Tantras a condemnation of the Veda.
नरसिंहः
See p. 17 above, for the pūrvapakṣa-view.
मूलम्
ननु चेदं वेदमूलत्वं पञ्चरात्रतन्त्राणामनुपपन्नं वेदनिन्दादर्शनात्,
विश्वास-प्रस्तुतिः
उक्तं हि
चतुर्षु वेदेषु पुरुषार्थम् अलभमानः
शाण्डिल्य (प्. ५२) इदं शास्त्रमधीतवान्इति,
Buitenen
For it is said that
Sandilya, failing to find a meaning of human importance in the four Vedas, learnt this shastra.
नरसिंहः
Cf. Aniruddha Saṁhitā Ch. I:
शृणु वेदविदां श्रेष्ठम् आत्म-ध्यान-परायणम् ॥ (9 b)
पार्श्व-रथा मुनयस् सर्वे प्रणिपत्य जगद्-गुरुम् ।
ऊचुस् तं मुनयः सर्वे एतद् वाक्यम् अतन्द्रिताः ॥ (12)
वेदास् सर्वे समासेन साङ्गोपाङ्गास् सविस्तराः ।
स्वतः कमल-पत्राक्ष श्रुताः पूर्वं दयापर ॥ (13)
श्रेयो-मार्गं न पश्यामः, तद् वदस्व महा-मुने । (14 a)
मूलम्
उक्तं हि चतुर्षु वेदेषु पुरुषार्थमलभमानः शाण्डिल्य (प्. ५२) इदं शास्त्रमधीतवान् इति,
विश्वास-प्रस्तुतिः
अनवगत-वचन-व्यक्तेर् अयं पर्यनुयोगः,
न हि निन्दा निन्द्यं निन्दितुं प्रवर्तते
अपि तु - निन्दिताद् इतरत् प्रशंसितुं -
Buitenen
REFUTATION.
This is the objection of someone
who does not know the distinct meaning of the statement.
For this censure does not mean to censure something deserving of censure,
but rather to praise something else than that which is censured.
नरसिंहः
अनवगत … Cf. Śrībhāṣya under II-ii-42, P.831:
यश् चैष केषाञ्चिद् उद्घोषः
साङ्गेषु वेदेषु निष्ठाम् अलभमानः शाण्डिल्यः पञ्च-रात्र-शास्त्रम् अधीतवान्, साङ्गेषु वेदेषु पुरुषार्थ-निष्ठा न लब्धेति वचनात् वेद-विरुद्धं तन्त्रम् इति’,
सो ऽप्य् अनाघ्रात-वेद-वचसाम् अनाकलित-तद्-उपबृंहण-न्याय-कलापानां श्रद्धा-मात्र-विजृम्भितः । यथा
प्रातः प्रातर् अनृतं ते वदन्ति पुरोदयात् जुह्वति ये ऽग्नि-होत्रम्
इति, अनुदित-होम-निन्दा उदित-होम-प्रशंसार्थेत्य् उक्तम्, यथा च भूम-विद्या-प्रक्रमे नारदेन
ऋग्-वेदं भगवो ऽध्येमि यजुर्-वेदं साम-वेदम् आथर्वणं चतुर्थम् इतिहास-पुराणं पञ्चमम्
इत्य् आरभ्य, सर्वं विद्या-स्थानम् अभिधाय,
सो ऽहं भगवो मन्त्रविद् एवास्मि नात्मवित्
इति भूमि-विद्या-व्यतिरिक्तासु सर्वासु विद्या-स्वात्म-वेदना-लाभ-वचनं वक्ष्यमाण-भूम-विद्या-प्रशंसार्थं कृतम्, अथवा ऽस्य नारदस्य साङ्गेषु वेदेषु यत् परतत्त्वं प्रतिपाद्यते, तद्-अलाभ-निमित्तो ऽयं वादः; एवम् एव शाण्डिल्यस्येति पश्चाद् वेदान्त-वेद्य-वासुदेवाख्य-पर-ब्रह्म-तत्त्वाभिधानाद् अवगम्यते । तथा वेदार्थस्य दुर्ज्ञानतया सुखावबोधार्थ-शास्त्रारम्भः परम-संहितायाम् उच्यते ।
अधीता भगवन् ! वेदाः साङ्गोपाङ्गाः सविस्तराः ।
श्रुतानि च मयाङ्गानि वाकोवाक्य-युतानि च ॥
न चैतेषु समस्तेषु संशयेन विना क्वचित् ।
श्रेयो-मार्गं प्रपश्यामि येन सिद्धिर् भविष्यति ॥इति । [ I, 3, 4 ]
न हि … Vide Śābarabhāṣya under II-iv-20, P.139, lines 27 & 28.
मूलम्
अनवगतवचनव्यक्तेरयं पर्यनुयोगः, न हि निन्दा निन्द्यं निन्दितुं प्रवर्तते
अपि तु निन्दितादितरत्प्रशंसितुं
विश्वास-प्रस्तुतिः
यथैतरेयक-ब्राह्मणे -
प्रातः प्रातर् अनृतं ते वदन्ति
इत्य्-अनुदित-होम-निन्दा उदित-होम-प्रशंसार्थेति गम्यते ।+++(5)+++
Buitenen
For instance, in the Aitareya Brahmana
the censure passed on the pre-dawn oblation
“Morning upon morning they speak untruth,”
is understood to praise the post-dawn oblation.
नरसिंहः
Aitareya Brāhmaṇa: V-31-6.
Cf. also Taittirīya Brāhmaṇa II. 1. 2. 7:
यद् अनुदिते सूर्ये प्रातर् जुहुयात् उभयम् एवाग्नेयस्याद् उदिते सूर्ये प्रातर् जुहोति ।
मूलम्
यथैतरेयकब्राह्मणे प्रातः प्रातरनृतं ते वदन्ति इत्यनुदितहोमनिन्दा उदितहोमप्रशंसार्थेति गम्यते।
विश्वास-प्रस्तुतिः
मानवे
ऋग्वेदो देव-दैवत्यो
यजुर्-वेदस्तु मानुषः ।
साम-वेदस् तु पित्र्यः स्यात्
तस्मात् तस्याशुचिर् ध्वनिः ॥
इति साम-वेद-निन्दा इतर-वेद-प्रशंसार्था,
Buitenen
It is as in the Manavadharma Shastra (Manusmrti, 4.124.):
“The Rgveda is of gods and deities,
the Yajurveda of man,
and the Samaveda of the deceased;
therefore its sound is impure;”
here the censure of the Samaveda serves to praise the other Vedas.
नरसिंहः
Manusmṛti IV. 124.
मूलम्
मानवे
ऋग्वेदो देवदैवत्यो यजुर्वेदस्तु मानुषः ।
सामवेदस्तु पित्र्यः स्यात् तस्मात्तस्याशुचिर्ध्वनिः ॥
इति सामवेदनिन्दा इतरवेदप्रशंसार्था,
विश्वास-प्रस्तुतिः
यथा वा भारते -
चत्वार एकतो वेदा
भारतं चैकम् एकतः ।
समागतैस् तु ऋषिभिस्
तुलया ऽरोपितं पुरा ॥
महत्त्वे च गुरुत्त्वाच् च च
ध्रियमाणं यतो ऽधिकम् ।
महत्त्वाच् च गुरुत्त्वाच् च
महा-भारतम् उच्यते ॥
इति महा-भारत-प्रशंसार्थेति गृह्यते
न वेद-निन्देति ।
Buitenen
Or as in the Mahabharata (Mahabharata 1.265 f):
“Formerly the assembled seers placed the four Vedas and the Mahabharata in the balance,
one at one side, the other at the other side.
And since in bulk and in weight the latter preponderated,
it is called the Great Bharata for its bulk and weight.”
This is said, not to belittle the Vedas,
but to bestow praise on the Mahabharata.
नरसिंहः
Ādiparvan I. 208-209.
मूलम्
यथा वा भारते -
चत्वार एकतो वेदा भारतं चैकमेकतः ।
समागतैस्तु ऋषिभिस्तुलयाऽरोपितं पुरा ॥
महत्त्वे च गुरुत्त्वाच्च च ध्रियमाणं यतोऽधिकम् ।
महत्त्वाच्च गुरुत्त्वाच्च महाभारतमुच्यते ॥
इति महाभारतप्रशंसार्थेति गृह्यते न वेदनिन्देति ।
विश्वास-प्रस्तुतिः
एवं पञ्चरात्रप्रशंसेति गम्यते ।
Buitenen
In this same way the above statement must be taken as praise of the Pancarãtra.
मूलम्
एवं पञ्चरात्रप्रशंसेति गम्यते ।
विश्वास-प्रस्तुतिः
अथानुदित-होमादेर्
अन्यत्र स्तुति-दर्शनात् ।
अ-तत्-परत्वं निन्दायास्
तथा ऽत्रापि भविष्यति ॥
Buitenen
Just as the censure of the pre-dawn oblation etc.
does not really intend censure,
since elsewhere in the same texts they are praised,
so will it be in our case too.
मूलम्
अथानुदितहोमादेरन्यत्र स्तुतिदर्शनात् ।
अतत्परत्वं निन्दायास्तथात्रापि भविष्यति ॥
विश्वास-प्रस्तुतिः
वेदप्रशंसा बहुशः पञ्चरात्रेऽपि दृश्यते ।
Buitenen
[[77]]
In Pañcaratra, too, we frequently find praise of the Veda;
मूलम्
वेदप्रशंसा बहुशः पञ्चरात्रेऽपि दृश्यते ।
विश्वास-प्रस्तुतिः
न हि तेभ्यः परं किञ्चिद्
वाङ्मयं कमलासन ।
वेदान्तैर् इदम् एवोक्तं
तत्त्व-ज्ञानोपपादकैः ॥
इत्यादौ ।
Buitenen
for example: “Nothing that is made up of words is superior to the Veda,
thou who art seated on the Lotus.
That is said by the Upanisads which set forth the knowledge of truth”
etc.
नरसिंहः
To be identified.
मूलम्
न हि तेभ्यः परं किञ्चिद् वाङ्मयं कमलासन ।
वेदान्तैरिदमेवोक्तं तत्त्वज्ञानोपपादकैः ॥
इत्यादौ ।
विश्वास-प्रस्तुतिः
अपि च “चतुर्षु वेदेषु” इति नायम् अर्थः -
वेदेषु पुरुषार्थो नास्तीति
किन्तु
यस् तेषु पुरुषार्थस्
तम् अलभमान
इति ।
Buitenen
91. Besides in the quotation caturşu vedeşu (supra §17)
the meaning is not that there is no purpose of human importance in the Vedas
but simply “failing to find the purpose of human importance which is in the Vedas…”
मूलम्
अपि च “चतुर्षु वेदेषु” इति नायमर्थः वेदेषु पुरुषार्थो नास्तीति किन्तु यस्तेषु पुरुषार्थस्तमलभमान इति ।
विश्वास-प्रस्तुतिः
ननु “पुरुषार्थम्” “अलभमान” इत्यन्वयो न “वेदेषु पुरुषार्थम्” इति,
+++(येन “वेदेषु पुरुषार्थो वर्ततय्” इत्य् अर्थं गृह्णीयात्)+++
Buitenen
OBJECTION. However, the principal connection in this sentence is between
“failing to find” and “a purpose of human importance;”
not between “purpose of human importance” and “in the Vedas.”
मूलम्
ननु “पुरुषार्थम्” “अलभमान” इत्यन्वयो न “वेदेषु पुरुषार्थम्” इति,
विश्वास-प्रस्तुतिः
मैवं - व्यावर्त्याभावात्,
Buitenen
REFUTATION. Don’t argue like that,
for there is no negation in the sentence.
मूलम्
मैवं - व्यावर्त्याभावात्,
विश्वास-प्रस्तुतिः
न हि वेदेष्व् एवायं पुरुषार्थो न लभ्यते।
अतो वेदेषु यः पुरुषार्थस्
तम् अलभमानः
तद्-अभिलाषी पञ्च-रात्र-शास्त्रम् अधीतवान्
इति पञ्च-रात्र-श्रुत्योर् ऐकार्थ्यम् एव प्रतीयते ।
Buitenen
For it is not so that this purpose of human importance is absent from the Vedas;
hence the sentence “failing to find that purpose of human importance which is in the Vedas,
and desirous of finding it,
he learnt the Pañcarātra Sastra,”
conveys that both Revelation and Pañcaratra have the same meaning.
मूलम्
न हि वेदेष्वेवायं पुरुषार्थो न लभ्यते अतो वेदेषु यः पुरुषार्थस्तमलभमानः तदभिलाषी पञ्चरात्रशास्त्रमधीतवानिति पञ्चरात्रश्रुत्योरैकार्थ्यमेव प्रतीयते ।
दीक्षादौ
विश्वास-प्रस्तुतिः
यत् पुनर् उक्तम्
उपनयनादि-संस्कृतानां भगवद्-आराधनार्थतया दीक्षा-लक्षण-संस्कार-विधानाद् अवैदिकत्वम्
इति, तद् अयुक्तं,
न ह्य् उपनयनादि-संस्कृतानां ज्योतिष्-टोमादि-कर्माङ्गतया
दीक्षादि-संस्कार-विधायकम् “आग्ना-वैष्णवम्” इत्य्-आदि-वाक्यम् अवैदिकं भवति ।
Buitenen
92. The further objection (Supra § 17) that Pañcaratra is non-Vedic because of the injunction that
those who are qualified for Vedic sacraments etc.
must undergo such sacraments described as Consecration
because they are propitiations of the Lord,
does not hold good.
For such statements as agnavaiṣṇavam.. 201
which enjoin the sacrament of consecration upon those qualified for Initiation etc. as accessory to the ritual of the jyotiştoma etc.
do not therefore become non-Vedic.
Buitenen - Notes
āgnavaisNava, name of a sacrificial cake offered at the dikşaniyeşti.
नरसिंहः
यत्पुनरुक्तम् … See 18 above, for the opponent’s argument.
आग्नावैष्णवम्… Cf.
आग्नावैष्णवम् एकादश-कपालं पुरोडाशं निर्वपेद् दीक्षिष्यमाणः,
quoted by Śabara under XII. 1-25, P.319.
Also cf. Aitareya Brāhmaṇa. I. 1:
आग्नावैष्णवं पुरोडाशं निर्वपन्ति दीक्षणीयम् एकादश-कपालम् ।
मूलम्
यत्पुनरुक्तमुपनयनादिसंस्कृतानां भगवदाराधनार्थतया दीक्षालक्षणसंस्कारविधानादवैदिकत्वमिति तदयुक्तं न ह्युपनयनादिसंस्कृतानां ज्योतिष्टोमादिकर्माङ्गतया दीक्षादिसंस्कारविधायकम् आग्नावैष्णवम् इत्यादिवाक्यमवैदिकं भवति ।
विश्वास-प्रस्तुतिः
अथ वैदिक-संस्कारात् संस्कारान्तर-विधानं हेतुः,
तद् अनुपपन्नं -
सिद्धे हि पञ्च-रात्र-शास्त्रस्य अ-वैदिकत्वे
तस्य संस्कारान्तरत्व-सिद्धिः,
तत्-सिद्धौ च तस्यावैदिकत्व-सिद्धिर् इत्य् अन्योन्याश्रयणात् ।+++(4)+++
Buitenen
[[78]]
Or if the ground for its non-Vedic character is the injunction of sacraments other than the Vedic ones,
the ground is inappropriate,
because of the circular argument it involves:
only if the non-Vedic character of Pancarātra Sastra is proved,
it is proved that these sacraments are really different;
and if the latter is proved, it is proved that Pañcaratra Sastra is non Vedic.
मूलम्
अथ वैदिकसंस्कारात् संस्कारान्तरविधानं हेतुः, तदनुपपन्नं सिद्धे हि पञ्चरात्रशास्त्रस्य अवैदिकत्वे तस्य संस्कारान्तरत्त्वसिद्धिः तत्सिद्धौ च तस्यावैदिकत्वसिद्धिरित्यन्योन्याश्रयणात् ।
विश्वास-प्रस्तुतिः
किञ्च समस्त-वैदिक-संस्कारेभ्यः संस्कारान्तरत्वं वा हेतुः,
उत कतिपयेभ्यः संस्कारेभ्यः?
Buitenen
Moreover, the ground is either that the Pancarātra sacraments are different from all Vedic sacraments,
or that they are different from some Vedic sacraments.
मूलम्
किञ्च समस्तवैदिकसंस्कारेभ्यः संस्कारान्तरत्वं वा हेतुः,
उत कतिपयेभ्यः संस्कारेभ्यः?
विश्वास-प्रस्तुतिः
न तावद् अनन्तरः कल्पः
उपनयनादि-संस्कारस्यापि चौलादि-संस्कारात् संस्कारान्तरत्वेनावैदिकत्व-प्रसङ्गात्,
Buitenen
Not the latter alternative,
for this would mean that the sacrament of Initiation ctc. is non-Vedic
because it is different from the sacrament of Tonsure;
मूलम्
न तावदनन्तरः कल्पः उपनयनादिसंस्कारस्यापि चौलादिसंस्कारात् संस्कारान्तरत्वेनावैदिकत्वप्रसङ्गात्,
विश्वास-प्रस्तुतिः
न चान्त्यः कल्पः - उक्त-दोषानतिवृत्तेः,
न ह्य् उपनयनं समस्त-वैदिक-संस्कारेभ्यः संस्कारान्तरम्।
असिद्धश्च समस्त-वैदिक-संस्कार-व्यतिरेकः -
पञ्च-रात्र-शास्त्रस्यापि वैदिकत्वाद् इत्य् उक्तम् एव ।
Buitenen
nor the first alternative,
because it does not escape the said defect?
for the sacrament of Initiation is not different from all Vedic sacraments;
and we have said that the difference (of Pañcarātra sacraments) from Vedic sacraments
is disproved on the ground that Pañcarātra Sastra is Vedic.
मूलम्
न चान्त्यः कल्पः, उक्तदोषानतिवृत्तेः, न ह्युपनयनं समस्तवैदिकसंस्कारेभ्यः संस्कारान्तरमसिद्धश्च समस्तवैदिकसंस्कारव्यतिरेकः पञ्चरात्रशास्त्रस्यापि वैदिकत्वादित्युक्तमेव ।
विद्या-स्थान-परिगणना
विश्वास-प्रस्तुतिः
यद् अपि
धर्म-प्रमाणत्वाभिमत-चतुर्-दश-विद्या-स्थानेष्व् अ-परिगणितत्वात्
पाशुपतादितन्त्रवत् त्रयी-बाह्यत्त्वम्
इति तद् अपि द्वैपायन-वाल्मीकि-प्रणीत-भारत-रामायणादि-ग्रन्थैर् अनैकान्तिकम् ।
Buitenen
93. The objection (supra § 17) that Pancarātra is outside the Veda,
because like the Pasupata Tantra it is not included among the fourteen sciences
which are held to be authoritative of dharma,
would also have an occasional application to the texts of the Bharata and Rāmāyaṇa composed by Dvaipayana and Valmiki.
नरसिंहः
See P.19 above, for pūrvapakṣa.
मूलम्
यदपि धर्मप्रमाणत्वाभिमतचतुर्दशविद्यास्थानेष्वपरिगणितत्वात् पाशुपतादितन्त्रवत् त्रयीबाह्यत्त्वमिति तदपि द्वैपायन -वाल्मीकिप्रणीतभारतरामायणादिग्रन्थैरनैकान्तिकम् ।
व्यासेनाङ्गीकारः
विश्वास-प्रस्तुतिः
यत्तु “भगवता बादरायणेन निरस्तत्वाद्” इति तद् असत्,
कथं हि भगवान् द्वैपायनः सकल-लोकादर्श-भूत-परम-भागवतो
भागवतं शास्त्रं निरस्यतीत्य् उत्प्रेक्ष्येत ।
Buitenen
The objection that Pancharatra is non-Vedic
because it is rejected by the blessed Badarayana is incorrect.
For how could the blessed dvaipAyana be thought to reject the Bhagavata doctrine,
while he himself is a supreme Bhagavata,
model for the all the world?
Buitenen - Notes
[[140]] The author of the Brahmasutras is identified with Vyasa Dvaipayana, composer of the Mahabharata
नरसिंहः
See ibid.
मूलम्
यत्तु भगवता बादरायणेन निरस्तत्वादिति तदसत्,
कथं हि भगवान् द्वैपायनः सकललोकादर्शभूतपरमभागवतो भागवतं शास्त्रं निरस्यतीत्युत्प्रेक्ष्येत ।
विश्वास-प्रस्तुतिः
य एवमाह -
इदं शतसहस्राद्धि
भारताख्यानविस्तरात् ।
आविध्य मतिमन्थानं
दघ्नो घृतम् इवोद्धृतम् ॥
Buitenen
[[79]]
This has been extracted from the Bharata in its full length of thousand Slokas after it had been churned with the stick of thought,
as butter is extracted from curds,
नरसिंहः
Māhābhārata, śānti, 331. 2-3.
मूलम्
य एवमाह -
इदं शतसहस्राद्धि भारताख्यानविस्तरात् ।
आविध्य मतिमन्थानं दघ्नो घृतमिवोद्धृतम् ॥
विश्वास-प्रस्तुतिः
नवनीतं यथा दघ्नो
द्विपदां ब्राह्मणो यथा ।
आरण्यकं च वेदेभ्य
ओषधीभ्यो यथाऽमृतम् ॥
Buitenen
and curds from milk,
the Brahmin from the bipeds,
the Aranyaka from the Vedas,
and the amṛta from the herbs
मूलम्
नवनीतं यथा दघ्नो द्विपदां ब्राह्मणो यथा ।
आरण्यकं च वेदेभ्य ओषधीभ्यो यथाऽमृतम् ॥
विश्वास-प्रस्तुतिः
इदं महोपनिषदं
चतुर्-वेद-समन्वितम् ।
साङ्ख्य-योग-कृतान्तेन
पञ्च-रात्रानु-शब्दितम् ॥
Buitenen
this Mahopanisada which is consistent with the four Vedas and the demonstrations of Sankhya and Yoga is called the Pañcaratra.
नरसिंहः
Ibid. 326. 100.
इदं पञ्च-रात्रं महोपनिषदं — महतीनाम् उपनिषदाम् अर्थ-प्रतिपादकम्, वेदार्थ-प्रतिपादकम्, साङ्ख्य-योग-सिद्धान्त[[??]] चेत्य् अर्थः ।
मूलम्
इदं महोपनिषदं चतुर्वेदसमन्वितम् ।
साङ्ख्ययोगकृतान्तेन पञ्चरात्रानुशब्दितम् ॥
विश्वास-प्रस्तुतिः
इदं श्रेय इदं ब्रह्म
इदं हितम् अनुत्तमम् ।
ऋग्-यजुस्-सामभिर् जुष्टम्
अथर्वाङ्गिरसैस् तथा ॥
Buitenen
This is bliss, this is brahman,
this is the summum bonum.
Being consistent with Rk, Yajuh and Saman and the Atharvāngirasas,
नरसिंहः
Ibid. (Gorakhpur edn.) 322. 33a, 41b.
ऋग्भिः, सामभिः, अथर्वेण, अङ्गिरसा च दृष्टा ये मन्त्राः तैर् अपि जुष्टं सहितम् इति भावः ।
मूलम्
इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् ।
ऋग्यजुस्सामभिर्जुष्टमथर्वाङ्गिरसैस्तथा ॥
विश्वास-प्रस्तुतिः
भविष्यति प्रमाणं वै एतदेवानुशासनम् ।
इति,
Buitenen
this discipline will of a certainty be authoritative.204
[204]: Mahābhārata, 12 340 (129.76) ff.
नरसिंहः
Ibid. (Critical edn.) 322.41a.
मूलम्
भविष्यति प्रमाणं वै एतदेवानुशासनम् ।
इति,
विश्वास-प्रस्तुतिः
भीष्म-पर्वण्य् अपि -
ब्राह्मणैः क्षत्रियैर् वैश्यैः
शूद्रैश् च कृत-लक्षणैः ।
अर्चनीयश् च सेव्यश्च
पूजनीयश् च माधवः ॥
Buitenen
And in the Bhismaparvan too:
“Brahmins, Ksatriyas, Vaisyas and Sūdras as described are all to worship, serve and honour Madhava
नरसिंहः
ब्राह्मणैः … Ibid. 62. 38-39.
One of the chief characteristics of the Pañcarātra-religion is its liberal catholicity. It offers hope of salvation to all, without the distinctions of caste and sex.
कृतलक्षणैः … ‘कृत-लक्षणैः’, कृत-दीक्षैर् इत्य् अर्थः ।
मूलम्
भीष्मपर्वण्यपि -
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः ।
अर्चनीयश्च सेव्यश्च पूजनीयश्च माधवः ॥
विश्वास-प्रस्तुतिः
सात्त्वतं विधिम् आस्थाय
गीतस् संकर्षणेन यः ।
द्वापरस्य युगस्यान्ते
आदौ कलियुगस्य च ॥
इति ।
Buitenen
according to the Satvata ritual that has been promulgated by Samkarṣaṇa,
at the end of the Dvapara age and the beginning of the Kali age.“205
[205]: Mahābhārata, 6.66 (3012).
नरसिंहः
Cf. Īśvarasaṁhitā I. 10 for a similar statement.
मूलम्
सात्त्वतं विधिमास्थाय गीतस्संकर्षणेन यः ।
द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च ॥
इति ।
विश्वास-प्रस्तुतिः
तथा शान्तिपर्वण्यपि -
मूलम्
तथा शान्तिपर्वण्यपि -
विश्वास-प्रस्तुतिः
अवश्यं वैष्णवो दीक्षां
प्रविशेत् सर्वयत्नतः ।
दीक्षिताय विशेषेण
प्रसीदेन् नान्यथा हरिः ॥
Buitenen
Also in the Śāntiparvan:
“Certainly, the Vaiṣṇava must undergo Consecration with all effort: for Hari will be particularly graceful to one who has been consecrated and to no one else.204
204: Mahabharata not identified.
नरसिंहः
To be identified.
As all schools of Śaivism, Vaiṣṇavism too insists upon the performance of Dīkṣā-ceremony.
See Sāttvata Saṁhitā II. 11b-12a:
karmavāṅmanasaissamyag bhaktānāṁ parameśvara ॥ caturṇāmadhikāro vai prāpte dīkṣākrame sati ।
This Dīkṣā is three-fold, yielding different results to the followers.
Cf. ibid. XIX. 4:
kaivalyaphaladāpyekā bhogaikaphaladā parā ।
bhogadaiva tṛtīyā ca prabuddhānāṁ sadaiva hi ॥
Ch. XIX of this āgama deals with Dīkṣā in detail.
Also see Parama Saṁhitā XXXI. 53:
tisro dīkṣāḥ kṛtā yena vaiṣṇavena tapasvinā ।
sa eva vaiṣṇavaṁ jñānamakhilaṁ śrotumarhati ॥
Ibid. XXVII. 41b:
evaṁ dīkṣāṁ tridhā bhinnāṁ uttarottarabhūyasīm ॥
Also cf. ibid. VIII. 3:
sā tu bhaktivaśāt nṝṇāṁ triṣu karmasu niṣṭhitā ।
prathamāṁ samaye paścāt tantrajñāne tato ‘rcane ॥
The Dīkṣā-ceremony is dealt with in ch. VIII of this Saṁhitā, in detail.The purpose of Initiation is given in VIII. 1-2:
ata ūrdhvaṁ pravakṣyāmi dīkṣāyā lakṣaṇaṁ param ।
yāmavāpya viśuddhātmā vaiṣṇavaḥ siddhimṛcchati ॥
apratiṣṭhasya manasaḥ śreyomārgamavindataḥ ।
upāyaṁ bandhanasyāhur dīkṣāṁ dīkṣāviśāradāḥ ॥
Also cf. ibid. śl. 6b-7a:
yastu tīvrḥ prayuñjīta dīkṣāṁ bhaktisamanvitaḥ ॥
tasya devaprasādena sakalaṁ siddhyatīpsitam ।
The three types of Dīkṣā called Samaya, Tantra and Arcana, are defined and explained in ch. VIII. śls. 7b-11a.
Also, cf. ibid. III. 29b-30a:
brāhmaṇāḥ kṣatriyā vaiśyāśśūdrā yoṣita eva ca ॥
bhaktiyuktāḥ svabhāvena kuryād devasya pūjanam ।
It is said that one who undertakes Dīkṣā is better qualified than one without it. Cf. ibid. III. 39:
dvidvidhaḥ puruṣo brahman dīkṣito ‘dīkṣitastathā ।
dīkṣitassakalaṁ kuryāt ekadeśamadīkṣitaḥ ॥
Cf. also Aniruddha Saṁhitā ch. IV and Viṣṇu Saṁhitā ch. X for different treatments of Dīkṣā.
मूलम्
अवश्यं वैष्णवो दीक्षां प्रविशेत् सर्वयत्नतः ।
दीक्षिताय विशेषेण प्रसीदेन्नान्यथा हरिः ॥
विश्वास-प्रस्तुतिः
वसन्ते दीक्षयेद्विप्रं
ग्रीष्मे राजन्यमेव च ।
शरदः समये वैश्यं
हेमन्ते शूद्रमेव च ॥
स्त्रियं च वर्षाकाले
तु पञ्चरात्रविधानतः ॥
Buitenen
One should consecrate a Brahmin in spring, a Kṣatriya in summer, a Vaiśya in the autumn, a Śūdra in winter, a woman in the rainy season according to the Pañcarātra doctrine.“206
[206]: Mahābhārata not identified.
नरसिंहः
To be traced out.
मूलम्
वसन्ते दीक्षयेद्विप्रं ग्रीष्मे राजन्यमेव च ।
शरदः समये वैश्यं हेमन्ते शूद्रमेव च ॥
स्त्रियं च वर्षाकाले तु पञ्चरात्रविधानतः ॥
विश्वास-प्रस्तुतिः
तथा -
वेदैश् चतुर्भिस् समितं मेरौ महागिरौ ।
Buitenen
And likewise: “It has been made commensurate with the four Vedas on the great Mountain Meru.“207
[207]: Mahābhārata not identified.
नरसिंहः
Mahābhārata, śānti*, 322. 28b:
मूलम्
तथा -
वेदैश्चतुर्भिस्समितं मेरौ महागिरौ ।
राम-मिश्रः
(सम -शब्दात्ताद्धितेन इतच्प्रत्ययेन व्युत्पन्नः समितशब्दो भवति तुल्यार्थः ।)
विश्वास-प्रस्तुतिः
एवम्-आदि-वचो-भङ्गी-
शतैस् सादरम् ईरितैः ॥
वेदान्तसार-सर्वस्वम्
आत्मीयं परमं मतम् ।
पञ्च-रात्रं निराकुर्यात्
कथं द्वैपायनः स्वयम् ।
Buitenen
Now, how could Dvaipāyana reject the Pañcaratra, which is his own supreme doctrine, comprising the sense of the Upaniṣads, as follows from these and a hundred direct and circumlocutory declarations made with full respect?
[[80]]
नरसिंहः
Yāmuna holds Vyāsa, the author of the Mahābhārata to be one with Bādarāyaṇa, the author of the Brahmasūtra.
मूलम्
एवमादिवचोभङ्गीशतैस्सादरमीरितैः ॥
वेदान्तसारसर्वस्वमात्मीयं परमं मतम् ।
पञ्चरात्रं निराकुर्यात् कथं द्वैपायनः स्वयम् ।