०७ पाञ्चरात्र-दानम्

विश्वास-प्रस्तुतिः

ततश् च ।

श्रुति-मूर्ध्नि प्रसिद्धेन
वासुदेवेन भाषितम् ।
तन्त्रं मिथ्येति वक्तुं नः
कथं जिह्वा प्रवर्तते ॥

Buitenen

Therefore, how can our tongue endeavour to say that the Tantra which is revealed by Viṣṇu who is known from the Upaniṣads is false?

मूलम्

ततश् च ।
श्रुति-मूर्ध्नि प्रसिद्धेन वासुदेवेन भाषितम् ।
तन्त्रं मिथ्येति वक्तुं नः कथं जिह्वा प्रवर्तते ॥

विश्वास-प्रस्तुतिः

स हि सहज-संवेदन-साक्षात्-कृत–दीक्षाऽऽराधनादि-धर्मः

Buitenen

For He is such that He has an immediate insight into the dharma of Consecration, Propitiation etc., by virtue of the omniscience that is natural to Him.177

[177]: read sa hi sahajasaṃvedanasākṣātkṛta dīkṣārādhanādidharmaḥ

मूलम्

स हि सहज-संवेदन-साक्षात्-कृत–दीक्षाऽऽराधनादि-धर्मः

विश्वास-प्रस्तुतिः

स्वर्ग-पुत्रादि-वैषयिक-सुखम् अनेक-दुःख-संभिन्नम्,
न चातिचिरम् अनुवर्तत

इति

Buitenen

82. Considering that

the sensual pleasure to be had
from attainment of heaven, the birth of a son etc.
is inseparable from various forms of misery and does not, continue for long,

मूलम्

न हि सहजसंवेदनसाक्षात्कृतदीक्षाऽऽराधनादिधर्मः स्वर्गपुत्रादिवैषयिकसुखमनेकदुःखसंभिन्नम्, न चातिचिरमनुवर्तत इति

विश्वास-प्रस्तुतिः

तद् अपि दुःख-पक्ष एव निक्षिप्य
मोक्षाय गृहेभ्यः प्रव्रजद्भ्यः शाण्डिल्य-नारदादि-परम-ऋषिभ्यस्
तद्-अभिलषित-निरतिशय-निश्रेयसैक-साधन–
स्वावगमाराधनावबोधिनीं पञ्चरात्र-संहितां निरमिमीतेति निश्चीयते ।

Buitenen

the supreme sages Sandilya,. Narada and others have rejected this pleasure,
which in their view was really misery,
and in order to attain the release left their dwellings to become mendicants;
and they have decided definitively that
He has created the Pañcarātra Sastra
which sets forth the knowledge and manner of propitiation of Himself
which constitute the sole means of attaining the unparalleled beatitude they sought.

मूलम्

तदपि दुःखपक्ष एव निक्षिप्य
मोक्षाय गृहेभ्यः प्रव्रजद्भ्यः शाण्डिल्यनारदादिपरमऋषिभ्यस्तदभिलषितनिरतिशयनिश्रेयसैकसाधनस्वावगमाराधन अवबोधिनीं पञ्चरात्रसंहितां निरमिमीतेति निश्चीयते ।