विश्वास-प्रस्तुतिः
ननु विरचित-नीत्या कश्चिद् आम्नाय-मूर्द्ध–
प्रमित-सहज-सर्व-ज्ञानवान् अस्तु नाम ।
स च हरिर् इति यावन् नावगम्येत सम्यक्
न खलु भवति तावत्पञ्चरात्रं प्रमाणम् ॥
Buitenen
[[64]]
79. OBJECTION. Granted that, as you have described it, there exists some Person who is endowed with natural omniscience, as it is known from the upaniṣads, yet, unless it is absolutely certain that this Person is indeed Hari, Pañcaratra will not be authoritative.
नरसिंहः
The doubt expressed here by the opponent is as to who, among the trinity—Brahmā, Viṣṇu and Śiva, is the Supreme Deity.
मूलम्
ननु विरचितनीत्या कश्चिदाम्नायमूर्द्धप्रमितसहजसर्वज्ञानवानस्तु नाम ।
स च हरिरिति यावन्नावगम्येत सम्यक् न खलु भवति तावत्पञ्चरात्रं प्रमाणम् ॥
श्रुतिः
विश्वास-प्रस्तुतिः
अत्यल्पम् एतत् -
न ह्य् अत्र त्रयी-विदो विवदन्ते यद्
वासुदेवः परमात्मा अखिल-जगत्-कारणम्
इति ।
Buitenen
REFUTATION. This is a worthless remark; no experts in the Veda dispute that the Supreme Soul, cause of the entire universe, is Vāsudeva.
नरसिंहः
The following is a brief exposition of the Supremacy of Nārāyaṇa. The Puruṣanirṇaya of Yāmuna, solely devoted to this question is yet to be traced out and as such, the importance of this part of the text need not be overemphasised. It indicates the way at least, in which the author had dealt with this question in the work.
मूलम्
अत्यल्पमेतत् न ह्यत्र त्रयीविदो विवदन्ते यद्वासुदेवः परमात्मा अखिलजगत्कारणमिति ।
विश्वास-प्रस्तुतिः
श्रूयते हि स वेदान्तेष्व्
आत्मा नारायणः परः ।
सत्यं ज्ञानम् अनन्तञ् च
तद् विष्णोः परमं पदम् ॥
परा प्रकृतिर्, अध्यक्षो
वासुदेवस् तथा ऽपरः ।
Buitenen
For He is revealed in the upaniṣads as the Supreme Soul: “Truth, knowledge, infinite; that is the supreme step of Viṣṇu. Vāsudeva is the ultimate matter, the ultimate spirit”.162
Buitenen - Note
[162]: Partial quotations from Taitt Up. 2.1.1, Muṇḍ Up. and an unidentified source.
[162a]: Nrsiṃhapūrvatāpani Up. 2.4 (which reads purastād for parastād) and śvet Up. 3.9.
नरसिंहः
वेदान्तेष्वात्मा … Mahānārāyaṇa : XI. 4
सत्यं … Taittirīya : II-i-1.
तद्विष्णोः … Yajurveda : VI-5; also Kaṭhopaniṣat : III-9.
परा … To be traced out.
मूलम्
श्रूयते हि स वेदान्तेष्वात्मा नारायणः परः ।
सत्यं ज्ञानमनन्तञ्च तद्विष्णोः परमं पदम् ॥
परा प्रकृतिरध्यक्षो वासुदेवस्तथा परः ।
विश्वास-प्रस्तुतिः
एकः परस्ताद् य इदं बभूव
यस्मात् परं नापरम् अस्ति किञ्चित् ।
इत्य् उक्त-वाच्यानुगुणं “यतो वा
इमानि भूतानि”, “सदेव सौम्य” ॥
इत्य्-आदि-वाक्यञ् च ततस् स विष्णुस्
त्रयी-शिरः सिद्ध-विशुद्ध-बोधः ।
Buitenen
He was alone beyond who became this world;162 “higher than whom there is nothing at all”.
In accordance with the subject expressed in these statements there are passages like:
“From whom these beings…” “Sat alone, my son…”
Therefore Viṣṇu’s perfect knowledge is established by the upaniṣads.
Buitenen - Note
162: Nṛsiṃhapūrvatāpanī Up. 2.4 (which reads purastāt for parastāt) and Śvet Up. 3.9.
नरसिंहः
एकः … This appears in the Āyuṣyasūkta, beginning with “यो ब्रह्मा ब्रह्मण उज्जहार”. The reading found is “एकः पुरस्ताद् य इदं बभूव”. It appears on folio 15 b of palm-leaf ms. in Grantha, under R. No. 657, deposited in the Govt. Or. Mss. Library, Madras, and also on folio 42 a of another p.l. ms. in Grantha, R. No. 67 from the same library.
यस्मात्परं … Śvetāśvatara : III-9;
यतो … Taittirīya : III-i-1;
सदेव … Chāndogya : VI-ii-1.
मूलम्
एकः परस्ताद्य इदं बभूव यस्मात् परं नापरमस्ति किञ्चित् ।
इत्युक्तवाच्यानुगुणंयतो वा इमानि भूतानि सदेव सौम्य ॥
इत्यादिवाक्यञ्च ततस्स विष्णुस्त्रयीशिरः सिद्धविशुद्धबोधः ।
विश्वास-प्रस्तुतिः
न चान्यस्माज् जगज्-जन्म-
स्थिति-ध्वंसाश् श्रुतौ श्रुताः ।
यतश् चैते स सर्वज्ञः
परमात्मेति सम्मतम् ॥
Buitenen
And it is not declared in śruti that the origination, subsistence and destruction of the world are caused by anyone but Him. Hence there is a consensus that He is the supreme omniscient soul.
नरसिंहः
Cf. Brahmasūtra I-i-2 : “जन्माद्यस्य यतः” ।
मूलम्
न चान्यस्माज्जगज्जन्मस्थितिध्वंसाश्श्रुतौ श्रुताः ।
यतश्चैते स सर्वज्ञः परमात्मेति सम्मतम् ॥
इतिहास-पुराणादि
विश्वास-प्रस्तुतिः
अमुम् एव परमात्मानं
द्वैपायन-पराशर–नारद-प्रभृति–महर्षि-वचनेभ्यः प्रतिपद्यामहे।
तथा हि -
Buitenen
That He is the Supreme Soul we learn also from the statements of Dvaipāyana, Parāśara, Nārada and other great seers.
Thus -
मूलम्
अमुमेव परमात्मानं द्वैपायन-पराशरनारदप्रभृतिमहर्षिवचनेभ्यः प्रतिपद्यामहे। तथा हि -
विश्वास-प्रस्तुतिः
विष्णौ जगत्-स्थितं सर्वम्
इति विद्धि परन्तप ।
सृजत्य् एष महा-विष्णुर्
भूत-ग्रामं चराचरम् ॥
Buitenen
“Know thou, O tormentor of thy foes, that the entire world rests on Viṣṇu. The Great Viṣṇu creates the totality of creatures, moving and unmoving.
नरसिंहः
Mahābhārata (Cr. edn.) XII. 271. 7-8. Variant : महा-बाहो for महा-विष्णुः ।
मूलम्
विष्णौ जगत्स्थितं सर्वमिति विद्धि परन्तप ।
सृजत्येष महाविष्णुर्भूतग्रामं चराचरम् ॥
विश्वास-प्रस्तुतिः
एष चाक्षिपते काले
काले विसृजते पुनः ।
अस्मिन् गच्छन्ति विलयम्
अस्माच्च प्रभवन्त्युत ॥
Buitenen
In him they go to their reabsorption, from Him they originate,”
मूलम्
एष चाक्षिपते काले काले विसृजते पुनः ।
अस्मिन् गच्छन्ति विलयमस्माच्च प्रभवन्त्युत ॥
विश्वास-प्रस्तुतिः
अनादिनिधनः श्रीमान्
मुनिर् नारायणः प्रभुः ।
स वै सृजति भूतानि
स्थावराणि चराणि च ।
Buitenen
“The glorious Sage Nārāyaṇa, without beginning or end, is the sovereign Lord. He creates the creatures, those that stand still and those that move.“163
163: not identified.
नरसिंहः
Ibid. XII. 271. 19. Variant : हरिः for मुनिः ।
मूलम्
अनादिनिधनः श्रीमान् मुनिर्नारायणः प्रभुः ।
स वै सृजति भूतानि स्थावराणि चराणि च ।
विश्वास-प्रस्तुतिः
स ब्रह्म परमं चेति
तथाऽन्यत्रापि पठ्यते ॥
Buitenen
That He is the Supreme Brahman is also learnt elsewhere.
नरसिंहः
Ibid. XII. 280. 26 b. Variant परमो for परं ।
मूलम्
स ब्रह्म परमं चेति
तथाऽन्यत्रापि पठ्यते ॥
विश्वास-प्रस्तुतिः
केशवो भरतश्रेष्ठ!
भगवान् ईश्वरः परः ।
पुरुषः सर्वम् इत्य् एतच्
छ्रूयते बहुधा श्रुतौ ॥
इति,
Buitenen
“Kesava, O best of the Bhāratas, the Blessed One, is the sovereign, the supreme soul, the entire universe: thus it stands revealed in many places of the Scripture.“163
[163]: not identified.
नरसिंहः
Ibid. XII. 200.5. Variants : प्रभुः for परः; इत्य् एव for इत्य् एतत्; विभुः for श्रुतौ ।
मूलम्
केशवो भरतश्रेष्ठ! भगवानीश्वरः परः ।
पुरुषः सर्वमित्येतच्छ्रूयते बहुधा श्रुतौ ॥
विश्वास-प्रस्तुतिः
तत्त्वं जिज्ञासमानानां
हेतुभिः सर्वतो मुखैः ।
तत्त्वम् एको महा-योगी
हरिर् नारायणः प्रभुः ॥
इति,
Buitenen
For those who seek to know the supreme principle by means of many-sided reasonings Hari alone is the Principle, the great Yogin, Nārāyaṇa the Lord.164
[164]: not identified.
Buitenen - Note
165: Could this refer to Varāha Purāṇa Cf. infra.
नरसिंहः
Ibid. XII. 335. 83b-84a.
मूलम्
तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतो मुखैः ।
तत्त्वमेको महायोगी हरिर्नारायणः प्रभुः ॥
इति,
विश्वास-प्रस्तुतिः
तथा दानधर्मे -
परमात्मा परः शान्तः
पद्म-नाभः परायणः ।
इति वेद-रहस्यन्तु
किन् न वेत्सि पुरन्दर ॥
Buitenen
Likewise in the Dānadharma,
“Padmanābha is the Supreme Soul, the highest One, the pure One, the Refuge. This is the secret doctrine of the Veda; dost thou not know, sacker of cities?
नरसिंहः
To be identified.
मूलम्
तथा दानधर्मे -
परमात्मा परः शान्तः पद्मनाभः परायणः ।
इति वेदरहस्यन्तु किन्न वेत्सि पुरन्दर ॥
विश्वास-प्रस्तुतिः
तत्-प्रसादाद् वयं सर्वे
लोकानां स्थिति-हेतवः ।
आप्ताश् चामर-मुख्याश् च
देवाश् च स्थानिनो मताः ॥
यदि विष्णुरुदासीनो
नास्माकं विद्यते शुभम् ।
Buitenen
By His grace do we all cause the worlds to exist. And the trusted ones, and the first among the immortals, and the gods are held to be His representatives, If Viṣṇu is indifferent, no good will come to us.”
मूलम्
तत्प्रसादाद्वयं सर्वे लोकानां स्थितिहेतवः ।
आप्ताश्चामरमुख्याश्च देवाश्च स्थानिनो मताः ॥
यदि विष्णुरुदासीनो नास्माकं विद्यते शुभम् ।
विश्वास-प्रस्तुतिः
इति रुद्रस्य वचनं,
तथा भारतमात्स्ययोः ॥
Buitenen
Thus Rudra’s word.165 Similarly, in the Mahābhārata and Matsya Purāṇa,
[165]: Could this refer to Varaha Purana? Cf. infra.
मूलम्
इति रुद्रस्य वचनं तथा भारतमात्स्ययोः ॥
विश्वास-प्रस्तुतिः
तत्र यः परमात्मा हि
स नित्यो निर्गुणश् शुभः ।
स वै नारायणो ज्ञेयः
सर्वात्मा पुरुषो हि सः ॥
इति,
Buitenen
“He who amongst them is the Supreme Soul, He indeed is the eternal, unqualified, perfect One; He is to be known as Nārāyaṇa, for He is the world-soul, the Spirit.”
नरसिंहः
Mahābhārata XII. 339. 14. Variants: नित्यं for नित्यो; हि for वै ।
Cf. also ibid. XIII. App. 13, lines 20-21:
आलोड्य सर्व-शास्त्राणि विचार्य च पुनः पुनः ।
इदम् एकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥
मूलम्
तत्र यः परमात्मा हि स नित्यो निर्गुणश्शुभः ।
स वै नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः ॥
इति,
विश्वास-प्रस्तुतिः
तथा वराहे -
यस्य देवस्य चरितं
व्रतं समभवद् भुवि ।
कोऽन्यस् तस्माद् अभ्यधिको
मुक्त्वा नारायणं प्रभुम् ॥
इति,
Buitenen
Likewise in the Varāha Purāṇa,
“Who, excepting the Lord Nārāyaṇa, is superior to the God whose conduct has become the life-order on the earth?”
नरसिंहः
To be traced out.
मूलम्
तथा वराहे -
यस्य देवस्य चरितं व्रतं समभवद्भुवि ।
कोऽन्यस्तस्मादभ्यधिको मुक्त्वा नारायणं प्रभुम् ॥
इति,
विश्वास-प्रस्तुतिः
नारायणात्परो देवो
न भूतो न भविष्यति ।
एतद् रहस्यं वेदानां
पुराणानां च सत्तमाः ॥
इति ।
Buitenen
“There has been no God greater than Nārāyaṇa, nor shall there be; this is the secret doctrine of the Vedas and the Purāṇas, O excellent ones.”
नरसिंहः
Ch. 73. śl. 52.
मूलम्
नारायणात्परो देवो न भूतो न भविष्यति ।
एतद्रहस्यं वेदानां पुराणानां च सत्तमाः ॥ इति ।
विश्वास-प्रस्तुतिः
तथा लैङ्गेः -
स एकः पुरुषः श्रेष्ठः
परमात्मा जनार्दनः ।
यस्माद् ब्रह्मा ततो रुद्रः
ततश् चैवाखिलं जगत् ॥
Buitenen
Likewise in the Liṅga Purāṇa,
“Janārdana is the sole Spirit, the highest One, the Supreme Soul, from whom Brahmā was born;
from Him Rudra and from Him all the world.”
नरसिंहः
Liṅgapurāṇa: uttarabhāga: Ch. I. śl. 7b-8a. There the reading is:
य एकः पुरुष-श्रेष्ठः परमात्मा जनार्दनः ।
यस्माद् ब्रह्मा ततस् सर्वं समाश्रित्यैव मुच्यते ॥
मूलम्
तथा लैङ्गेः -
स एकः पुरुषः श्रेष्ठः परमात्मा जनार्दनः ।
यस्माद् ब्रह्मा ततो रुद्रः ततश्चैवाखिलं जगत् ॥
विश्वास-प्रस्तुतिः
तथा ।
विष्णोस् सकाशाद् उद्भूतं
जगत् तत्रैव च स्थितम् ।
स्थिति-संयम-कर्ता ऽसाव्
इति पाराशरं वचः ॥
Buitenen
Likewise Parāśara’s word,
The world has originated from Viṣṇu and on Him it rests.
He is the maker of its subsistence and its destruction.“166
[166]: viṣṇu Pur., 1.1.31.
नरसिंहः
Viṣṇupurāṇa: I. 1. 35. The remainder of the śloka is: ‘जगतो ऽस्य जगच् च सः’
मूलम्
तथा ।
विष्णोस्सकाशादुद्भूतं जगत्तत्रैव च स्थितम् ।
स्थितिसंयमकर्ताऽसाविति पाराशरं वचः ॥
विश्वास-प्रस्तुतिः
तथा मानवे -
नारायणः परोऽव्यक्ताद्
अण्डम् अव्यक्त-संभवम् ।
अण्डस्यान्तस् त्व् इमे लोकाः
सप्त-द्वीपा च मेदिनी ॥
Buitenen
Likewise in the Mānavadharmaśāstra,167
“Nārāyaṇa is higher than the unmanifest; the World-Egg originates from the unmanifest. Within the Egg are all these worlds as well as the earth with her seven continents.”
[167]: Not in manusmṛti.
नरसिंहः
This verse is not found in the Manusmṛti commented by Bhaṭṭa Medhātithi. It is however, found inserted between the 10th and 11th verses of the first chapter in the Manvarthamuktāvalī with Kullūka’s commentary [ Kāśī Skt. Series, 1935 ]. Kullūka too did not comment upon it.
मूलम्
तथा मानवे -
नारायणः परोऽव्यक्तादण्डमव्यक्तसंभवम् ।
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी ॥
निगमनम्
विश्वास-प्रस्तुतिः
तस्माद् ईदृश-श्रुति-स्मृतीतिहास-पुराण-पर्यालोचनया
अखिल-जगत्-कारणं परमात्मा वासुदेव
इति निश्चीयते ।
Buitenen
Therefore, the study of these and similar śrutis, smṛtis, epical texts and Purāṇas proves that Vāsudeva is the universal cause, the Supreme Soul.
मूलम्
तस्मादीदृशश्रुतिस्मृतीतिहासपुराणपर्यालोचनया अखिलजगत्कारणं परमात्मा वासुदेव इति निश्चीयते ।
न शिवादिः
विश्वास-प्रस्तुतिः
न चैवं परमात्मत्वं
रुद्रादेः श्रुतिषूदितम् ।
प्रत्युतोत्पत्तिम् एवाहुस्
तस्यैकायन-शाखिनः ॥
Buitenen
80. Nor do the śrutis declare that Rudra is the Supreme Soul, or that any other deity is. On the contrary, the followers of the Ekāyana śākhā 168 say that he has an origin,
Buitenen - Notes
[168]: A little known Vedic branch (if it was a Vedic tradition), from which certain vaiṣṇava sects derive their authority; cf. infra §138.
नरसिंहः
The Pāñcarātrins are the followers of the Ekāyanaśākhā, one of the redactions of the Śukla Yajurveda.
मूलम्
न चैवं परमात्मत्वं रुद्रादेः श्रुतिषूदितम् ।
प्रत्युतोत्पत्तिम् एवाहुस् तस्यैकायन-शाखिनः ॥
विश्वास-प्रस्तुतिः
“तमो वा इदम्” इत्य्-आदौ
तथा वेदे ऽपि दृश्यते ।
“यतो हि रुद्रस् सञ्जज्ञे
तत् श्रेष्ठं भुवनेष्व्” इति ॥
Buitenen
and the same is found in the Veda itself:
“Darkness was here….
from which Rudra is born;
that is the greatest in all the worlds,”
169: These quotations could not be identified.
नरसिंहः
Maitrīyopaniṣat V. 2.
मूलम्
“तमो वा इदम्” इत्य्-आदौ तथा वेदे ऽपि दृश्यते ।
यतो हि रुद्रस् सञ्जज्ञे तत् श्रेष्ठं भुवनेष्व् इति ॥
विश्वास-प्रस्तुतिः
“तत् इद् आस भुवनेषु ज्येष्ठम्” इति ।
Buitenen
“that indeed is the oldest in the worlds.”
नरसिंहः
Ṛgveda X. 120. i.
मूलम्
“तत् इद् आस भुवनेषु ज्येष्ठम्” इति ।
विश्वास-प्रस्तुतिः
तथा रौद्रं पदं स्पष्टं
कर्म-जन्यं प्रतीयते ॥
“महिमानं निजं लेभे
विष्णोर् अभ्यर्थनाद्” इति ।
Buitenen
Similarly, Rudra’s position is clearly known to be a result of his karman: “He obtained his greatness by propitiating Viṣṇu.”
मूलम्
तथा रौद्रं पदं स्पष्टं कर्म-जन्यं प्रतीयते ॥
“महिमानं निजं लेभे विष्णोर् अभ्यर्थनाद्” इति ।
विश्वास-प्रस्तुतिः
“अस्य देवस्ये"ति,
नरसिंहः
Ibid. VII. 40. 5.
मूलम्
“अस्य देवस्ये"ति,
विश्वास-प्रस्तुतिः
“ललाटाद् अभवद्-बिन्दुस्
तस्माद् रुद्रो व्यजायत ।”
इत्य्-आदिकाश् च श्रुतयो
रुद्रोत्पत्तिं वदन्ति वै ।
Buitenen
“From the forehead sprang a drop; from that Rudra was born,“169
These and other śrutis declare that Rudra was born.
[169]: These quotations could not be identified.
नरसिंहः
Cf. Subālopaniṣat II. 1: “ललाटात् क्रोध-जो रुद्रो जायते ।”
मूलम्
“ललाटाद् अभवद्-बिन्दुस् तस्माद् रुद्रो व्यजायत ।”
इत्यादिकाश् च श्रुतयो रुद्रोत्पत्तिं वदन्ति वै ।
पुराण-वाद-निर्वाहः
विश्वास-प्रस्तुतिः
एवञ्च सति रुद्रादि-
महिमावेदिका इव ।
या वाचस् तास् स्तुति-पराः
“श्रोत्रं ब्रह्म” इति गीर् इव ॥
Buitenen
This being so, the statements that in appearance convey the greatness of Rudra and others really serve as laudatory statements, like the śruti: “the ear is brahman.“170
[[67]]
[170]: BA Up 4.1.5.
नरसिंहः
Bṛhadāraṇyaka IV. i. 5: “श्रोत्रं वै ब्रह्म” ।
मूलम्
एवञ्च सति रुद्रादि-महिमा-वेदिका इव ।
या वाचस् तास् स्तुति-पराः “श्रोत्रं ब्रह्म” इति गीर् इव ॥
विश्वास-प्रस्तुतिः
एतेन रुद्रादीनां परमात्मत्व-प्रतिपादक-पुराण-वादाः
प्रत्यक्ष-श्रुति-विरोधान् न मुख्य-अर्थाः । +++(4)+++
Buitenen
Consequently, the passages in the Purāṇas which declare Rudra etc. to be the Supreme Soul have not their primary meaning, because they are in conflict with Perception and clear Scripture.
मूलम्
एतेन रुद्रादीनां परमात्मत्व-प्रतिपादक-पुराण-वादाः
प्रत्यक्ष-श्रुति-विरोधान् न मुख्य-अर्थाः ।
विश्वास-प्रस्तुतिः
यद् वा त्याज्यतया तन्त्र-
सिद्धान्त-प्रतिपादकाः +++(पुराण-वादाः)+++।
अ-वैदिकेषु तन्त्रेषु
तन्+++(←रुद्रादि)+++-माहात्म्यं हि कथ्यते ॥
Buitenen
81. Concerning the objection that the assertions of the doctrines of the Tantras are to be rejected
since their greatness is set forth only in non-Vedic Tantric texts,
मूलम्
यद् वा त्याज्यतया तन्त्र-सिद्धान्त-प्रतिपादकाः ।
अवैदिकेषु तन्त्रेषु तन्-माहात्म्यं हि कथ्यते ॥
वेदानुकूल-पुराणानि
विश्वास-प्रस्तुतिः
वेद-सिद्धान्त-मार्गेषु विष्णुर् एव परः स्मृतः ।
Buitenen
we say that Viṣṇu is stated to be the Supreme One in the texts of the Way of the Vedic doctrine.
नरसिंहः
This line occurs below. It is from the Bhaviṣya Purāṇa, to be identified.
मूलम्
वेद-सिद्धान्त-मार्गेषु विष्णुर् एव परः स्मृतः ।
विश्वास-प्रस्तुतिः
तद् यथा वैष्णवे -
परमात्मा च सर्वेषाम्
आधारः परमेश्वरः ।
विष्णु-नामा स वेदेषु
वेदान्तेषु च गीयते ॥
Buitenen
For example in the Viṣṇu Purāṇa, “The Supreme Soul, the Basis of all creatures, the Supreme Lord is called by the name of Viṣṇu in Vedas and Upaniṣads.“171
[171]: viṣṇu Pur. 6.4.40.
नरसिंहः
Viṣṇupurāṇa VI. iv. 39.
मूलम्
तद् यथा वैष्णवे -
परमात्मा च सर्वेषाम् आधारः परमेश्वरः ।
विष्णु-नामा स वेदेषु वेदान्तेषु च गीयते ॥
विश्वास-प्रस्तुतिः
वाराहे ।
विष्णुर् एव परं ब्रह्म
त्रि-भेदम् इह पठ्यते ।
वेद-सिद्धान्त-मार्गेषु
तन् न जानन्ति मोहिताः ॥
Buitenen
In the Varāha Purāṇa, “The Supreme Brahman is Viṣṇu; the triple division in the pathways of the Vedic doctrine is here set forth; the ignorant do not know this.“172
[172]: cf. Varāha Pur., 72.4, which reads padyate in b.
नरसिंहः
Varāhapurāṇa [Sri Venkatesvara Press, Bombay], Ch. 72. śl. 4.
मूलम्
वाराहे ।
विष्णुर् एव परं ब्रह्म त्रि-भेदम् इह पठ्यते ।
वेद-सिद्धान्त-मार्गेषु तन् न जानन्ति मोहिताः ॥
विश्वास-प्रस्तुतिः
नारायणात् परो देवो
न भूतो न भविष्यति ।
एतद् रहस्यं वेदानां
पुराणानां च सत्तमाः ॥
इति ।
Buitenen
“There has been no god greater than Nārāyaṇa, nor shall there be;173 this is the secret doctrine of Vedas and Purāṇas, O excellent ones.”
Buitenen - Note
[173]: cf. Varāha Pur. 70.26 na tasmāt parato devo bhavitā na bhaviṣyati. It is clear from several quotations from this Purāṇa that Yāmuna’s text had different readings, not all of them better.
नरसिंहः
Ch. 73, śl. 52.
Also cf. ibid. Ch. 70, śl. 26a:
न तस्मात् परतो देवो भविता न भविष्यति।
मूलम्
नारायणात् परो देवो न भूतो न भविष्यति ।
एतद्-रहस्यं वेदानां पुराणानां च सत्तमाः ॥ इति ।
विश्वास-प्रस्तुतिः
तथा मात्स्ये ।
सात्त्विकेषु तु कल्पेषु
विष्णोर् माहात्म्यम् उच्यते ।
अग्नेश् शिवस्य माहात्म्यं
तामसेषु प्रकीर्त्यते ॥
इति ।
Buitenen
Likewise in the Matsya Purāṇa, “In those aeons where sattva prevails, the greatness of Viṣṇu is declared. In aeons predominated by tamas the greatness of Fire and Śiva is expounded.“174
[174]: Matsya Pur. 290.15.
नरसिंहः
Matsya Purāṇa Ch. 53, śl. 67b-68a.
मूलम्
तथा मात्स्ये ।
सात्त्विकेषु तु कल्पेषु विष्णोर् माहात्म्यम् उच्यते ।
अग्नेश् शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते ॥
इति ।
विश्वास-प्रस्तुतिः
तथा लैङ्गे ।
न हि विष्णुम् ऋते काचिद्
गतिर् अन्या विधीयते ।
इत्य् एवं सततं वेदा
गायन्ते नात्र संशयः ॥
इति,
Buitenen
Likewise in the Liṅga Purāṇa,
“For there is no other recourse ordained but Viṣṇu; this the Vedas constantly declare, no doubt about it.“175
175: The Liṅga, Vāyu and Bhaviṣyat quotations could not be verified.
नरसिंहः
Liṅga Purāṇa [ Pūrva ] Ch. 24, śl. 143.
मूलम्
तथा लैङ्गे ।
न हि विष्णुम् ऋते का-चिद् गतिर् अन्या विधीयते ।
इत्य् एवं सततं वेदा गायन्ते नात्र संशयः ॥ इति,
विश्वास-प्रस्तुतिः
तथा वायवीये ।
सहस्र-बाहुः परमः प्रजापतिः ।
त्रयी-पथेयः पुरुषो निरुच्यते ॥
इति,
Buitenen
[[68]]
Likewise in the Vāyu Purāṇa,
“The Spirit that belongs to the Way of the Veda is explained to be the thousand-armed supreme lord of creatures.”
नरसिंहः
Passages to be identified.
मूलम्
तथा वायवीये ।
सहस्र-बाहुः परमः प्रजापतिः ।
त्रयी-पथेयः पुरुषो निरुच्यते ॥
इति,
विश्वास-प्रस्तुतिः
तथा भविष्यति ।
वेद-सिद्धान्त-मार्गेषु
विष्णुर् एव परः स्मृतः ।
विष्णुर् एव नर-श्रेष्ठो
महिष्ठः पुरुषोत्तमः ॥
इति,
Buitenen
Likewise in the Bhaviṣyat Purāṇa, “Visnu is traditionally known to be the Supreme in the pathways of the Vedic doctrine. Viṣṇu is the greatest among persons, the most exalted Supreme Person.“175
[175]: The Linga, Vayu and Bhavisyat quotations could not be verified.
मूलम्
तथा भविष्यति ।
वेद-सिद्धान्त-मार्गेषु विष्णुर् एव परः स्मृतः ।
विष्णुर् एव नर-श्रेष्ठो महिष्ठः पुरुषोत्तमः ॥
इति,
Buitenen
All this has already been explained in great detail in the Puruṣanirṇaya176 and is therefore not further enlarged upon here.
[176]: Title of one of Yāmuna’s treatises.
विश्वास-प्रस्तुतिः
सर्वं चैतत् पुरुष-निर्णये निपुणतरम् उपपादितम् इति नेह प्रपञ्च्यते ।
नरसिंहः
Puruṣanirṇaya is another work of Yāmuna, which is yet to be recovered.
मूलम्
सर्वं चैतत् पुरुष-निर्णये निपुणतरम् उपपादितम् इति नेह प्रपञ्च्यते ।
राम-मिश्रः
पुरुष-निर्णय-नामा भगवन्-महिम-प्रतिपादन-पुरःसरो-देवतान्तर-व्यावर्तन-मुखेन विष्णु-पर-तत्त्व-प्रतिपादन-परो ग्रन्थः परमाचार्य-प्रणीतः ।