०५ सार्वज्ञ्यम्

शब्द-प्रमाणम्

विश्वास-प्रस्तुतिः

अत इदम् अपास्तम् -

प्रसिद्धैः करणैरेव
सार्वज्ञ्यं नान्यथेति यत् ।

Buitenen

Hence we reject our opponent’s position. [[61]]
76. The objections152 that omniscience is acquired by means of the regular senses is incorrect,153

[152]: supra §42. [153]: read ity asat for iti yat.

नरसिंहः

This line runs like a verse.

Cf. Ślokavārtika under I. 1.2; śl. 111b:

यदि षड्भिः प्रमाणैस् स्यात् सर्व-ज्ञः, केन वार्यते ?

मूलम्

अत इदम् अपास्तम् -
प्रसिद्धैः करणैरेव सार्वज्ञ्यं नान्यथेति यत् ।

विश्वास-प्रस्तुतिः

यतः श्रुतिरेव तत्र परिपन्थिनी -

Buitenen

because śruti contradicts it:

मूलम्

यतः श्रुतिरेव तत्र परिपन्थिनी -

विश्वास-प्रस्तुतिः

पश्यत्य् अ-चक्षुस्
स शृणोत्य् अ-कर्णः
यश् चक्षुषा न पश्यति
यश् चक्षूंषि पश्यति ।
न तस्य कार्यं करणं च विद्यते ।

Buitenen

“He sees without eyes,
hears without ears;
he who does not see with the eye,
who sees the eyes,
has neither effect nor instrument;“154

[154]: Svet Up. 3.19.

नरसिंहः

पश्यत्य् … Śvetāśvatara : III. 19.

यः … Kenopaniṣat : I. 6a; but the reading found is:

यच् चक्षुषा न पश्यति, येन चक्षूँषि पश्यति ।

न तस्य … Śvetāśvatara*: VI. 8.

मूलम्

पश्यत्यचक्षुस् शृणोत्यकर्णः यश्चक्षुषा न पश्यति यश्चक्षूंषि पश्यति । न तस्य कार्यं करणं च विद्यते ।

विश्वास-प्रस्तुतिः

स्वाभाविकी ज्ञान-बल-क्रिया च

इत्य्-आदिका ।

Buitenen

“knowledge, strength and action are natural to Him,“155

etc.

[155]: Svet Up. 6.8.

मूलम्

स्वाभाविकी ज्ञानबलक्रिया च इत्यादिका ।

नार्थवादः

विश्वास-प्रस्तुतिः

न चासां गुण-वादत्वं प्रमाणाभावात् ।

Buitenen

These śrutis do not speak metaphorically,
for there is no authority for this assumption.

मूलम्

न चासां गुणवादत्वं प्रमाणाभावात् ।

विश्वास-प्रस्तुतिः

अलब्ध-मुख्य-वृत्तीनां
गुण-वाद-समाश्रयः ॥
लभ्यते चेह मुख्योऽर्थ
इति तत्-कल्पना मृषा ॥

Buitenen

Metaphorical usage is assumed when the primary meanings of the śrutis make no sense.
Since the primary meaning here makes sense, the assumption of metaphorical use is baseless.

मूलम्

अलब्धमुख्यवृत्तीनां गुणवादसमाश्रयः ॥
लभ्यते चेह मुख्योऽर्थ इति तत्कल्पना मृषा ॥

न प्रत्यक्षतः

विश्वास-प्रस्तुतिः

नन्व् इहापि मुख्य-अर्थ-भङ्ग-कारणम् अस्ति - प्रमाणान्तर-विरोधः ।

Buitenen

[[62]]

77. OBJECTION. But in this case we have in fact reason to cancel the primary meaning, because the primary sense militates against other means of knowledge.

मूलम्

नन्व् इहापि मुख्य-अर्थ-भङ्ग-कारणम् अस्ति प्रमाणान्तर-विरोधः ।

विश्वास-प्रस्तुतिः

कुतः प्रमाणान्तरात्, न तावत् प्रत्यक्षात्,

Buitenen

REFUTATION. What other means of knowledge? Not, to start, Perception,

मूलम्

कुतः प्रमाणान्तरात्, न तावत् प्रत्यक्षात्,

विश्वास-प्रस्तुतिः

न हि प्रत्यक्षम् उदीरित-पुरुषाभावावभासकम् उदीयमानं दृष्टम्,

Buitenen

for we see no Perception occur which shows that the said Person is non-existent.

मूलम्

न हि प्रत्यक्षम् उदीरित-पुरुषाभावावभासकम् उदीयमानं दृष्टम्,

विश्वास-प्रस्तुतिः

योग्य-अनुपलम्भाद् अभाव-निश्चय

इति चेन् न -
प्रमाण-गोष्ठी-ज्येष्ठेन शास्त्रेणैवोपलम्भनात्,

Buitenen

If you retort that non-existence is decided by the nonapprehension of what should be there,
we reply that this does not hold in our case since the object,
that is the said Person, is actually apprehended through Scripture itself, which is the highest-ranking among the assembly of the means of knowledge.

नरसिंहः

This line too is metrical.

मूलम्

योग्य-अनुपलम्भाद् अभाव-निश्चय इति चेन् न प्रमाण-गोष्ठी-ज्येष्ठेन शास्त्रेणैवोपलम्भनात्,

नानुमानतः

विश्वास-प्रस्तुतिः

नाप्य् अनुमानात्,

Buitenen

Nor does it militate against Inference;

मूलम्

नाप्य् अनुमानात्,

विश्वास-प्रस्तुतिः

तद् धि शीघ्र-जन्मागमिक-प्रत्यय-प्रक्षिप्त-प्रतिबन्धं
कथम् इव मन्थर-प्रवृत्ति प्रादुर्भवति ।

Buitenen

for how could an Inference which disproves that Person arise at all, slow-moving as it is, when its object is instantly refuted by the rapidly arising scriptural cognition?

नरसिंहः

शब्द-प्रमाणापेक्षया अनुमानस्य दौर्बल्यम् एव । शाब्दं ज्ञानं शीघ्रतरम् । व्याप्ति-ज्ञानानन्तर-लब्ध-प्रतिष्ठस्यानुमानस्य मन्थर-प्रवृत्तिर् एवेति भावः ।

मूलम्

तद् धि शीघ्र-जन्मागमिक-प्रत्यय-प्रक्षिप्त-प्रतिबन्धं कथम् इव मन्थर-प्रवृत्ति प्रादुर्भवति ।

विश्वास-प्रस्तुतिः

किं चैवं सति यागादेः
स्वर्गापूर्वादि-सङ्गतिः ।
क्रियात्वेन विरुध्येत
शास्त्रं चेत् तन् न बाधते ॥

Buitenen

Moreover, if this were so, the relation of sacrificing etc. to heaven, apūrva156 etc. would logically be contradicted by the fact that sacrificing etc. are actions, when Scripture did not cancel such reasoning.

[156]: cf supra note.

मूलम्

किं चैवं सति यागादेः स्वर्गापूर्वादि-सङ्गतिः ।
क्रियात्वेन विरुध्येत शास्त्रं चेत् तन् न बाधते ॥

न यूपादित्यवत्

विश्वास-प्रस्तुतिः

यूपादित्यादि-तादात्म्यं
प्रत्यक्षेणैव बाधितम् ।
विस्पष्ट-दृष्ट-भेदत्वात्
काष्ठ-सावित्र-बिम्बयोः ॥ +++(4)+++

Buitenen

True, the identity of sacrificial pole and sun, which is asserted by Scripture, is cancelled by another means of knowledge, namely Perception alone, because the difference between a piece of wood and the disc of the sun is indeed obvious.

नरसिंहः

See P.47 above for the Mīmāṁsaka’s argument. The illustration of the arthavāda : “ādityo yūpaḥ” [Taittirīya Brāhmaṇa : II-i-5-2] was put forth there. This view is now being refuted.

The figurative statement “ādityo yūpaḥ” is made on the ground of similarity of brightness (tejasvitva) between the Sun and the sacrificial post. The relevant sūtra is “sārūpyāt” [Pūrvamīmāṁsā : I. iv. 25].

मूलम्

यूपादित्यादि-तादात्म्यं प्रत्यक्षेणैव बाधितम् ।
विस्पष्ट-दृष्ट-भेदत्वात् काष्ठ-सावित्र-बिम्बयोः ॥

विश्वास-प्रस्तुतिः

अपि च
तत्र सन्निहित-यूपाञ्जन-विध्य्-एकवाक्यतया
अर्थ-वादत्वाद् युक्तं गुण-वादत्वाश्रयणम्, +++(4)+++

Buitenen

Besides, in this case it is legitimate to assume metaphorical usage, for the statement of this identity is an arthavāda,156 since it forms one single statement with the proximate injunction about the unction of the sacrificial pole.157

[157]: supra note 86.

नरसिंहः

The ṛk to be repeated while anointing the yūpa with ghee is: “añjanti tvāmadhvare devayantaḥ” ( Taittirīya Brāhmaṇa - VI-ii. p. 142 ). For the derivation of the term yūpa, see ibid- VI-i, the opening part.

मूलम्

अपि च तत्र सन्निहित-यूपाञ्जन-विध्य्-एकवाक्यतया अर्थ-वादत्वाद् युक्तं गुण-वादत्वाश्रयणम्,

विश्वास-प्रस्तुतिः

न चेह तथा विध्य्-अन्तरम् अस्ति यच्-छेषतया अर्थ-वादः स्यात् ।

Buitenen

There is no other injunction to which it could be accessory as an arthavāda.157

157: supra § 36.

मूलम्

न चेह तथा विध्य्-अन्तरम् अस्ति यच्-छेषतया अर्थ-वादः स्यात् ।

न कल्पित-विधेः

विश्वास-प्रस्तुतिः

अथ विध्य्-अन्वयाभावे
पुरुषार्थत्वाहानतः ।
अध्याहृत्य विधिं तत्र
शेषत्वं परिकल्प्यते ॥

Buitenen

Alternatively, inasmuch as the human importance of a statement would be lost if there were no injunction to connect it with, an injunction may be supplemented and then the arthavāda is regarded as accessory to that supplemented injunction.

मूलम्

अथ विध्य्-अन्वयाभावे पुरुषार्थत्वाहानतः ।
अध्य्-आहृत्य विधिं तत्र शेषत्वं परिकल्प्यते ॥

विश्वास-प्रस्तुतिः

यद् आहुः -

यावत् खलु प्रमातॄणां
प्रवर्तन-निवर्तने ।
शब्दा न कुर्वते तावन्
न निराकाङ्क्ष-बोधनम् ॥

इति,

Buitenen

[[63]]

78. The objection158 that as long as statements fail to prompt the operator of the means of knowledge to being active or to prevent him from being active, they do not communicate self-sufficient information,

[158]: supra § 36.

नरसिंहः

To be identified.

मूलम्

यद् आहुः -

यावत् खलु प्रमातॄणां प्रवर्तन-निवर्तने ।
शब्दा न कुर्वते तावन् न निराकाङ्क्ष-बोधनम् ॥

इति,

विश्वास-प्रस्तुतिः

तन् न ।

Buitenen

does not hold good.

मूलम्

तन् न ।

विध्य्-अनपेक्षा

विश्वास-प्रस्तुतिः

ऋते ऽपि विधि-संबन्धाद्
दृष्टैव हि पुम्-अर्थता ।
“पुत्रस् ते जात” इत्य्-आदौ
तथेहापि भविष्यति ॥ +++(5)+++

Buitenen

For, we find that statements have human importance also outside any connection with an injunction; in such a case it will be as in the statement “A son has been born to you,” and the like.

मूलम्

ऋते ऽपि विधि-संबन्धाद् दृष्टैव हि पुम्-अर्थता ।
“पुत्रस् ते जातः” इत्य्-आदौ तथेहापि भविष्यति ॥

विश्वास-प्रस्तुतिः

न च तत्र विध्य्-अध्याहारः,
अन्तरेणापि विधिं पुत्र-जनन-अवगमाद् एव हर्षोत्पत्तेः ।

Buitenen

Nor need an injunction be supplemented in these cases. For without an injunction, too, joy arises from the information that a son has been born.

मूलम्

न च तत्र विध्य्-अध्याहारः,
अन्तरेणापि विधिं पुत्र-जनन-अवगमाद् एव हर्षोत्पत्तेः ।

विश्वास-प्रस्तुतिः

तथा “का क्रिया”, “पाकः” इत्यादि-प्रश्नोत्तर-व्यवहारेषु
प्रष्टृ-जन-जिज्ञासित–क्रिया-विशेष– प्रतिपादन-मात्र–निराकाङ्क्षः शब्दो
न विध्य्-अध्याहारम् अपेक्षते ।

Buitenen

Likewise, a statement which is self-sufficient in merely expressing particular actions which questioners want to know in exchanges of question and answer-e.g. “Which action?” “Cooking!"-do not require the supplementation of an injunction.

मूलम्

तथा “का क्रिया”, “पाकः” इत्यादि-प्रश्नोत्तर-व्यवहारेषु प्रष्टृ-जन-जिज्ञासित-क्रिया-विशेष-प्रतिपादन-मात्र-निराकाङ्क्षः शब्दो न विध्य्-अध्याहारम् अपेक्षते ।

विश्वास-प्रस्तुतिः

इह तु ब्रह्म-विज्ञानं
महानन्द-फलं श्रुतम् ॥
“ब्रह्मविद् ब्रह्म भवति”,
“प्राप्नोति ब्रह्म-वित् परम्” ।

Buitenen

In the upaniṣadic texts the knowledge of brahman is declared to be rewarded by great bliss: “the brahman-knower becomes brahman”;159 “the brahman-knower attains the supreme”;160

Buitenen - Note

[159]: This must refer to the śruti sa yo ha vai tat paraṃ veda brahma veda brahma bhavati (quoted Rāmanuja, Vedārthasṃgraha, 91), which I have been unable to locate.

[160]: Taitt Up. 2.1.1. brahmavid āpnoti param.

नरसिंहः

इह तु … Note the way in which Yāmuna connects the previous discussion with the main theme, viz, the validity of the Pāñcarātra-texts, based upon the authorship of Nārāyaṇa, the Supreme and Omniscient Being.

ब्रह्मवित् … Cf. Muṇḍaka: III-ii-9: “ब्रह्मैव वेद ब्रह्मैव भवति” ।

प्राप्नोति … Cf. Taittirīya: II-i-1: “ब्रह्मविद् आप्नोति परम्” ।

मूलम्

इह तु ब्रह्म-विज्ञानं महानन्द-फलं श्रुतम् ॥
“ब्रह्मविद् ब्रह्म भवति”, “प्राप्नोति ब्रह्म-वित् परम्” ।

विश्वास-प्रस्तुतिः

“अश्नुते ब्रह्मणा सार्धं
सर्वान् कामान् स सामगः” ॥
इदम्-आदि-त्रयी-वाक्यैर्
व्यक्ता तस्य पुम्-अर्थता ।

Buitenen

“the sāman cantor attains with brahman
all that he desires:“161
the human importance of statements without injunctions is quite clear from these and other scriptural words.

Buitenen - Note

[161]: This must refer to Taitt Up. 2.1.1 so’śnute sarvān kāmān saha brahmaṇā vipaścitā, but sa sāmagaḥ is obscure, unless one may regard it as a corruption of vipaścitā.

नरसिंहः

Cf. ibid: “सो ऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता” ।

मूलम्

“अश्नुते ब्रह्मणा सार्धं सर्वान् कामान् स सामगः” ॥
इदम्-आदि-त्रयी-वाक्यैर् व्यक्ता तस्य पुम्-अर्थता ।

निगमनम्

विश्वास-प्रस्तुतिः

तद् एवम् उदीरित-श्रुति-शत-समधिगतावितथ- सहज-सर्व-साक्षात्-काराकारुण्यादि-कल्याण-गुणैक-राशौ भगवति सिध्यति,
सिध्यत्य् एव तद्-अनुभव-मूलतया तन्त्र-प्रामाण्यम् ।

Buitenen

To sum up, when it is established that the Bhagavān is the treasury solely of beautiful qualities of direct universal cognition, compassionateness etc., qualities which are true and natural to Him, and which we know from hundreds of quoted śrutis, then it is also established that the Tantra which is based on His universal cognition is authoritative indeed.

नरसिंहः

Cf. Aniruddhasaṁhitā* : II. 7-8:

तथा सर्वेषु शास्त्रेषु पञ्च-रात्रं वरिष्ठकम् ।
श्रुति-मूलम् इदं तन्त्रं प्रमाणं कल्प-सूत्रवत् ॥
पञ्च-रात्रे विशेषेण विष्णुना भाषितं यथा ।
अतः प्रमाणं लोके ऽस्मिन् धर्म-शास्त्रेषु सर्वशः ॥

Also cf. Viṣṇusaṁhitā : ch. II:

वेद-मूलतया तन्त्रम् आप्त-मूलतया ऽथवा ॥ [11b]
पुराणवत् प्रमाणं स्यात् तथा मन्व्-आदि-वाक्यवत्। [12a]

आप्त-प्रोक्ततया तन्त्रं प्रमाणम् इति ये विदुः ।
वेद-प्रामाण्यम् अप्य् आहुर् आप्त-मूलतयैव ते ॥ [19]

विष्णोर् धर्म-प्रवक्तृत्वात् तत्-प्रोक्तं मनु-वाक्यवत् ।
ब्रह्म-विष्णू हि धर्माणां प्रवक्तारौ बुधैस् स्मृतौ ॥ [21]

मूलम्

तद् एवम् उदीरित-श्रुति-शत-समधिगतावितथ-सहज-सर्व-साक्षात्काराकारुण्यादि-कल्याण-गुणैक-राशौ भगवति सिध्यति,
सिध्यत्य् एव तद्-अनुभव-मूलतया तन्त्र-प्रामाण्यम् । +++(4)+++