०३ हेतु-सौष्ठवम्

विश्वास-प्रस्तुतिः

नापि हेतोर् अनैकान्तिकत्वादयो दोषाः ।

Buitenen

59. Nor is the ground affected by logical defects, like occasional application etc.

नरसिंहः

Vide Tarkasaṅgraha (Vavilla edn.) Anumāna-section, P.52:

सव्यभिचार-विरुद्ध-सत्-प्रति-पक्षासिद्ध-बाधिताः पञ्च-हेत्व्-आभासाः ।

मूलम्

नापि हेतोरनैकान्तिकत्वादयो दोषाः ।

विश्वास-प्रस्तुतिः

तथा हि न तावद् अनैकान्तिकः,

Buitenen

The ground is not occasionally applicable to other terms.

मूलम्

तथा हि न तावदनैकान्तिकः,

नानैकान्तिकः

विश्वास-प्रस्तुतिः

स हि द्वेधा साधारणासाधारणभेदात् -
यथा “पृथिवी-नित्यत्व-साधने प्रमेयत्वं” +++(इत्य् अनित्येष्व् अपि वर्तमानो हेतुः)+++ साधारणः,
असाधारणस्य “तत्रैव गन्धवत्त्वम्” +++(इत्य् अन्यत्रादृश्यमानो हेतुः)+++,

Buitenen

[[48]]
This fallacy of occasionalness is of two kinds, general occasionalness and special occasionalness.
An instance of the first kind provides the ground in the argument:
“The earth is eternal, because it is knowable.”
Of the second kind: “The earth is eternal, because it, possesses smell.”

Buitenen - Notes

Since pots are knowable, the ground would also apply to prove the eternality of pots and all things that are knowable.

Since only earth (as an element) possesses smell, this ground has no general applicability.

नरसिंहः

A third variety of ‘anaikāntika’ is ‘anupasaṁhārin’ which the author does not enumerate here. Cf. Tarkasaṅgraha: P.53: ‘सव्यभिचारो ऽनैकान्तिकः । स त्रि-विधः — साधारणासाधारणानुसंहारि-भेदात्।’ Quoting the passage ‘न तावद् अनैकान्तिकः’ & c. in his Nyāyapariśuddhi [Deśika Granthamālā], P.130, Deśika says: “बाधितस्य तु न पक्ष-धर्मत्वं, नापि व्याप्तिर् इति दूषण-द्वय-समुच्चयः।”

मूलम्

स हि द्वेधा साधारणासाधारणभेदात्
यथा पृथिवी नित्यत्वसाधने प्रमेयत्वं साधारणः,
असाधारणस्यतत्रैव गन्धवत्त्वम्,

Buitenen

Our ground, namely,
‘Pañcaratra is authoritative, because it produces faultless knowledge’,
does not apply equally whether it is authoritative or not,
which would render the ground generally-occasional.126

Buitenen - Notes

Like the ground “because it is knowable” which applies to things regardless of whether they are eternal or not.

न साधारणत्वात्

विश्वास-प्रस्तुतिः

तत्र न तावन् निर्दोष-ज्ञान-कारणत्वं प्रमाणाप्रमाण-साधारणं,
येन साधारणानैकान्तिकं स्यात्,

मूलम्

तत्र न तावन्निर्दोषज्ञानकारणत्वं प्रमाणाप्रमाणसाधारणं येन साधारणानैकान्तिकं स्यात्,

विश्वास-प्रस्तुतिः

न हि निर्द्दोष-ज्ञानकारणत्वम् अ-प्रमाण-भूत–विप्रलम्भक-वचनादिषु विपक्षेषु दृष्टचरम् ।

Buitenen

For this ground, namely its being a cause of faultless knowledge,
has not been found before in the alternative propositions
that Pañcaratra is deceptive and hence nonauthoritative.

मूलम्

न हि निर्द्दोषज्ञानकारणत्वमप्रमाणभूतविप्रलम्भकवचनादिषु विपक्षेषु दृष्टचरम् ।

नासाधारणत्वात्

विश्वास-प्रस्तुतिः

नाप्य् असाधारणः -
+++(पाञ्चरात्रं प्रामाणिकं निर्दोष-ज्ञान-जननात् - ज्योतिष्-टोमादि-वाक्यवत् इत्यत्र)+++
ज्योतिष्-टोमादि-वाक्य-दृष्टान्ताभिधानेनैव स-पक्षान्वयस्य प्रदर्शितत्वात् ।

Buitenen

Neither does the ground have a specially occasional application,
because the illustration “like statements on Vedic sacrifices such as jyotiṣṭoma etc.”
shows its connection with other instances on the same side of the argument.

मूलम्

नाप्यसाधारणः ज्योतिष्टोमादिवाक्यदृष्टान्ताभिधानेनैव सपक्षान्वयस्य प्रदर्शितत्वात् ।

न विरुद्धः

विश्वास-प्रस्तुतिः

नापि विरुद्धः,
विपरीत-व्याप्त्य्-अभावात्,
न हि निर्दोष-ज्ञान-कारणत्वम् अप्रामाण्येन व्याप्तम् ।

Buitenen

Nor is the ground precluded,
since there is no concomitance of its opposite; being a cause of faultless knowledge is not invariably accompanied by nonauthoritativeness.

नरसिंहः

विपरीतेन साध्याभावेन व्याप्तिः विपरीत-व्याप्तिर् इति तृतीया-तत्पुरुषः । सा च व्याप्तिः पञ्च-रात्र-प्रामाण्य-प्रतिपादके वाक्ये ‘निर्दोष-ज्ञान-जन्मत्व’-रूपस्य हेतोर् नास्तीत्य् अर्थः । ‘शब्दो नित्यः कृतकत्वात्’ इत्य् अत्र कृतकत्व-रूपो हेतुः साध्याभावेन नित्यत्वाभावेन अनित्यत्वेन हि व्याप्तः, यत्र कृतकत्वं तत्रानित्यत्वम् इति नियमात् । तस्मात् स हेतुर् विरुद्धः । एवम् अत्रापीति बोध्यम् ।

मूलम्

नापि विरुद्धः, विपरीतव्याप्त्यभावात्, न हि निर्दोषज्ञानकारणत्वमप्रामाण्येन व्याप्तम् ।

न कालात्ययः

विश्वास-प्रस्तुतिः

न च कालात्ययापदिष्टः -
प्रत्यक्ष-विरोधाभावात्
आगमानुगुण्याच् च ।

Buitenen

Nor is the ground cancelled by lapse of time,
since there is no conflict with Perception
and in this it is analogous with Scripture.

नरसिंहः

कालात्ययापदिष्टस्यैव ‘बाध’ इत्य् अपि व्यवहारः ।

मूलम्

न च कालात्ययापदिष्टः प्रत्यक्षविरोधाभावात् आगमानुगुण्याच्च ।

नासिद्धः

विश्वास-प्रस्तुतिः

न चासिद्धत्वम्,
अ-सिद्धिर् हि आश्रयतः स्वरूपतो वा तावद् आश्रयासिद्धिः,
पञ्च-रात्र-शास्त्रस्याश्रयत्वात्,

Buitenen

Nor is the ground itself unproved or unestablished.
If a ground is unestablished,
this is because either its locus or its essence is unestablished.
The first does not apply, for its locus is Pañicarātra Sastra, which is proved to exist.

नरसिंहः

हेतोर् असिद्धता ऽपि नास्तीत्य् अर्थः । व्याप्यत्वासिद्धिर् इत्य् अन्यो ऽपि असिद्धि-प्रकारः शास्त्र-ग्रन्थेषु परिगण्यते । स तु नोदाहृतो ग्रन्थ-कृता ।

अत्र हेत्वाभासेषु पञ्चसु ‘अनैकान्तिक-विरुद्ध-कालात्ययापदिष्टासिद्धा’ इति चत्वार एव प्रकाराः परिगणिताः । अन्यः प्रभेदः सत्-प्रति-पक्षाख्यः न प्रतिपादितो ऽत्र । ‘साध्याभावसाधकं हेत्व्-अन्तरं यस्य स सत्-प्रति-पक्ष’ इति हि तल्-लक्षणम् । तादृशं च हेत्व-अन्तरं नैव सम्भावना-भूमिर् इति महता प्रबन्धेन ग्रन्थ-कारेण समनन्तरम् एव निरूपितम् इति, न पृथग्-उक्तिर् इति च ध्येयम् ।

मूलम्

न चासिद्धत्वम्, असिद्धिर्हि आश्रयतः स्वरूपतो वा तावदाश्रयासिद्धिः, पञ्चरात्रशास्त्रस्याश्रयत्वात्,

विश्वास-प्रस्तुतिः

नापि स्व-रूपासिद्धः,
सोऽपि त्रेधा - अज्ञान-सन्देह-विपर्ययभेदात्,

Buitenen

Nor does the second apply:
for there are three ways in which a ground may be unestablished as to its essence:
through ignorance, through dubiety, or through reversion.

मूलम्

नापि स्वरूपासिद्धः, सोऽपि त्रेधा अज्ञान-सन्देह-विपर्ययभेदात्,

विश्वास-प्रस्तुतिः

न तावद् अ-ज्ञानासिद्धिः,
तत्-प्रतिपादक-शब्दोच्चारणात्,

Buitenen

Ignorance does not apply,
as follows from the fact that the words describing the ground are pronounced.

Buitenen - Notes

Obviously, if the ground were not known, it could not be stated.

मूलम्

न तावदज्ञानासिद्धिः, तत्प्रतिपादकशब्दोच्चारणात्,

विश्वास-प्रस्तुतिः

नापि संदिग्धासिद्धः,
निर्दोषत्वस्य वादिनः स्वयं सिद्धत्वात्,
प्रतिवादिनो ऽपि दोषानुपलम्भाद् एवानायास-सिद्धत्वात्,

Buitenen

Nor does dubiety apply,
for that the ground is correct is undoubted and self-evident to the defender of the proposition,
while for the opponent the same is easily proved by the fact that no defects are apprehended in it.

मूलम्

नापि संदिग्धासिद्धः, निर्दोषत्वस्य वादिनः स्वयं सिद्धत्वात्, प्रतिवादिनोऽपि दोषानुपलम्भादेवानायाससिद्धत्वात्,

विश्वास-प्रस्तुतिः

विपर्ययासिद्धिस्तु दूरोत्सारितैव ।

Buitenen

[[49]]
That the ground would be unestablished through reversal is utterly out of the question.

मूलम्

विपर्ययासिद्धिस्तु दूरोत्सारितैव ।

पौरुषेयस्यापि ग्राह्यता

विश्वास-प्रस्तुतिः

ननु कथं पौरुषेयत्व-सामान्याद् आपतन्ती दोष-संभावना अपनीयते

Buitenen

60. OBJECTION. But how can we discard the supposition that the Pañcaratra texts are faulty?128
This supposition arises instantly since the texts are of personal origin.

Buitenen - Notes

This objection seems to speak to the summary denial that the ground is unestablished through reversion.

मूलम्

ननु कथं पौरुषेयत्वसामान्यादापतन्ती दोषसंभावना अपनीयते

विश्वास-प्रस्तुतिः

पञ्चरात्रमन्त्राणां कथं वाक्यत्व-सामान्याद् आपतन्ती वेदेषु सा +++(दोषसंभावना)+++ वार्यते,

Buitenen

REFUTATION. How do you avoid the same supposition in the case of the Vedas?
There too it arises instantly, since the Vedas are language-statements.

मूलम्

पञ्चरात्रमन्त्राणां कथं वाक्यत्वसामान्यादापतन्ती वेदेषु सा वार्यते,

विश्वास-प्रस्तुतिः

अपौरुषेयत्वाद् इति चेत्
तद् इहापि सर्व-ज्ञावाप्त-काम–परम-पुरुष-प्रणीततयेत्य् अवगम्य शाम्यतु भवान् ।

Buitenen

When you reply, it is avoided because the Vedas have no personal author,
then you may realize that in our case, too, it is avoided, since the Tantras have been composed by the Supreme Person,
who is omniscient and eternally satisfied,
and you may keep quiet!

मूलम्

अपौरुषेयत्वादिति चेत्तदिहापि सर्वज्ञावाप्तकामपरमपुरुषप्रणीततयेत्यवगम्य शाम्यतु भवान् ।

विश्वास-प्रस्तुतिः

एतदुक्तं भवति -

नैव शब्दे स्वतो दोषाः
प्रामाण्य-परिपन्थिनः ।
सन्ति किन्तु स्वतस् तस्य
प्रमाणत्वम् इति स्थितिः ॥

Buitenen

What I mean to say is this.

Our position is that in language as such there are no defects that invalidate its authority;
as language, language is authoritative,

Buitenen - Notes

Be it repeated that the validity, authoritativeness, etc. of Verbal Statements (ie, shabdapramāna) is founded on the basic assumption that statements truly and accurately communicate their things-meant (artha), that a word accurately conveys its meaning.
Among these things meant Yamuna includes facts as well as karyas,
hence the following debate with the Prabhakara,

मूलम्

एतदुक्तं भवति -

नैव शब्दे स्वतो दोषाः प्रामाण्यपरिपन्थिनः ।
सन्ति किन्तु स्वतस्तस्य प्रमाणत्वमिति स्थितिः ॥

विश्वास-प्रस्तुतिः

वक्तुर् आशय-दोषेण
केषुचित् तद् अपोद्यते
अङ्गुल्य्-अग्रे ऽस्ति मातङ्ग-
यूथम् इत्य्-एवम्-आदिषु ॥

Buitenen

Its authority is in certain cases invalidated by defects in the character of the speaker,
for instance in a language statement,
“There is a herd of elephants on my finger-tip.”

नरसिंहः

Cf. Prakaraṇapañcikā: II. 4, P.13:

विनाप्य् अर्थं हि शब्देन प्रतीतिर् उपजायते ।
अङ्गुल्य् अग्रे ऽस्ति करिणां यूथम् इत्य् एवम् आदिना ॥

मूलम्

वक्तुराशयदोषेण केषुचित्तदपोद्यते ।
अङ्गुल्यग्रेऽस्ति मातङ्गयूथमित्येवमादिषु ॥

विश्वास-प्रस्तुतिः

प्रस्तुत-ग्रन्थ-सन्दर्भे
वक्तुर् आशय-गामिनीम् ।
दोष-शङ्कां त्रयी-मूर्ध-
ध्वनिर् एवापमार्ष्टि नः ॥

Buitenen

The statements in the upanisad portion of the Veda
remove whatever suspicion we may have
about any defects in the character of the speaker in the text collection here under discussion.

मूलम्

प्रस्तुतग्रन्थसंदर्भे वक्तुराशयगामिनीम् ।
दोषशङ्कां त्रयीमूर्द्धध्वनिरेवापमार्ष्टि नः ॥

विश्वास-प्रस्तुतिः

वदन्ति खलु वेदान्ताः
सर्वज्ञं जगतः पतिम् ।
महाकारुणिकं तस्मिन्
+++(वञ्चन=)+++विप्रलम्भादयः कथम् ॥

Buitenen

For the Vedanta texts set forth that the omniscient Lord of the world is supremely compassionate;
then how can we suppose Him to be deceitful etc.?

नरसिंहः

Deśika, in his Stotraratnabhāṣya (Deśika Granthamālā), P.37, says that the mercy of the Lord is referred to in the following Upaniṣads:

Śvetāśvatara : III. 17 : ‘सर्वस्य प्रभुम् ईशानं सर्वस्य शरणं सुहृत्’; Kaṭhavalli : IV. 12a : ‘अङ्गुष्ठ-मात्रः पुरुषो मध्य आत्मनि तिष्ठति’ and Mahopaniṣat : 1 : ‘स एकाकी न रमेत’

Also cf. Paramasaṁhitā : III. 40b-41a; P.24:

ध्यातव्यो भगवान् एव नान्यो विश्वस्य कारणात् ।
स्वामित्वेन गुरुत्वेन सुहृत्त्वेन च सर्वदा ॥

मूलम्

वदन्ति खलु वेदान्ताः सर्वज्ञं जगतः पतिम् ।
महाकारुणिकं तस्मिन् विप्रलम्भादयः कथम् ॥