प्रसिद्धिः
विश्वास-प्रस्तुतिः
तत्र न तावद् अ-प्रसिद्ध-विशेषणः पक्षः -
प्रामाण्य-नाम्नः पदार्थस्य उभय-वादि-सिद्धत्वात् प्रत्यक्षादौ,
Buitenen
In the present case the term which particularizes the object is not unknown,
for this term, ie. “validity,” is for both parties established with regard to the valid means of knowledge, Perception, Inference, Verbal Testimony etc.
मूलम्
तत्र न तावदप्रसिद्धविशेषणः पक्षः,
प्रामाण्यनाम्नः पदार्थस्य उभयवादिसिद्धत्वात् प्रत्यक्षादौ,
विश्वास-प्रस्तुतिः
नाप्य् अ-प्रसिद्ध-विशेष्यः +++(सविशेषणः पक्षः)+++ पञ्च-रात्र-शास्त्रस्य सर्व-लोक-प्रसिद्धत्वात्,
Buitenen
Nor is the subject itself unknown, for the Pañcaratra system is known universally.
मूलम्
नाप्यप्रसिद्धविशेष्यः पञ्चरात्रशास्त्रस्य सर्वलोकप्रसिद्धत्वात्,
न सिद्ध-साधनम्
विश्वास-प्रस्तुतिः
नापि सिद्ध-साधनः +++(सविशेषणः पक्षः)+++,
प्रस्तुत-शास्त्र-प्रामण्यस्य प्रतिवादिनो ऽसिद्धत्वात्,+++(4)+++
Buitenen
Nor is the Object to be proved already proved,
for this Object, “The Pañcaratra is valid,” is not proved for the opponent.
मूलम्
नापि सिद्धसाधनः, प्रस्तुतशास्त्रप्रामण्यस्य प्रतिवादिनोऽसिद्धत्वात्,
न प्रत्यक्ष-विरोधः
विश्वास-प्रस्तुतिः
न च प्रत्यक्ष-विरुद्धः +++(सविशेषणः पक्षः)+++ अ-प्रामाण्यस्यातीन्द्रियत्वात्,
Buitenen
Nor is this Object incompatible with Perception,
since its opposite, ie. nonvalidity, is beyond perceptual verifiability.
मूलम्
न च प्रत्यक्षविरुद्धः अप्रामाण्यस्यातीन्द्रियत्वात्,
नानुमानतो विरोधो बाह्यत्वादिभिः
विश्वास-प्रस्तुतिः
नाप्य् अनुमानविरुद्धः +++(सविशेषणः पक्षः)+++, अनुपलम्भनात् ।
Buitenen
Nor is this Object incompatible with Inference,
because no inference proving non-validity is found.
मूलम्
नाप्यनुमानविरुद्धः, अनुपलम्भनात् ।
न बाह्यत्वाद् अप्रामाण्यम्
विश्वास-प्रस्तुतिः
ननूपलभ्यत एवानुमानम् -
पञ्च-रात्र-शास्त्रमप्रमाणम् वेद-बाह्यत्वात् बौद्धागमवत् ।
Buitenen
55. OBJECTION. But such an inference is actually found: Pañcarātra Sastra is non-authoritative,
because it is non-Vedic, like Buddhism,
मूलम्
ननूपलभ्यत एवानुमानम् -पञ्चरात्रशास्त्रमप्रमाणम् वेदबाह्यत्वात् बौद्धागमवत् ।
विश्वास-प्रस्तुतिः
अत्र ब्रूमः कतरद् इहाप्रामाण्यं सिषाधयिषितम्
Buitenen
REFUTATION. We reply, What is this nonauthoritativeness which this reasoning seeks to prove?
मूलम्
अत्र ब्रूमः कतरदिहाप्रामाण्यं सिषाधयिषितं
विश्वास-प्रस्तुतिः
यदि +++(अप्रामाण्यम्)+++ ज्ञानानुत्पत्ति-लक्षणं, ततः प्रत्यक्षविरोधः।
प्रत्यक्षं हि
विदित-पद–तद्-अर्थ–सङ्गतेः श्रोतुः
पञ्च-रात्र-शास्त्र-वाक्य-श्रवण-समनन्तरम् उपजायमानं तद्-अर्थ-विषयं ज्ञानम् ।
Buitenen
[[44]]
If it is defined by the fact that the Tantra does not produce knowledge,
then this definition militates against Perception;
for the knowledge which arises in a student, who is able to comprehend the relation between word and meaning, concerning the meaning of the sentences of Pañcaratra Sastra
he hears is perceptually evident.
मूलम्
यदि ज्ञानानुत्पत्ति-लक्षणं ततः प्रत्यक्षविरोधः, प्रत्यक्षं हि विदितपदतदर्थसङ्गतेः श्रोतुः पञ्चरात्रशास्त्रवाक्यश्रवणसमनन्तरमुपजायमानं तदर्थविषयं ज्ञानम् ।
विश्वास-प्रस्तुतिः
नापि +++(अप्रामाण्यम्)+++ संशय-लक्षणं - तत +++(→प्रत्यक्षतः)+++ एव विरोधात्।
न खलु
पद्ममध्ये चतुर्बाहुं
पूजयेत् पुरुषोत्तमम्
इतीदं वचनं “पूजयेन् न वे"ति संशयितं प्रत्ययमुत्पादयति,
Buitenen
Nor is the predicate, sc. “nonauthoritativeness,” defined by dubiety,
since then we have the same conflict with Perception;
for the statement, “One must worship the four-armed Supreme Person in the centre of the lotus,”
does not occasion a doubtful cognition:
“Must one worship Him thus or not?”
नरसिंहः
‘तत एव’ प्रत्यक्षाद् एवेत्य् अर्थः ।
पद्ममध्ये … To be identified.
मूलम्
नापि संशयलक्षणं तत एव विरोधात् न खलु पद्ममध्ये चतुर्बाहुं पूजयेत्पुरुषोत्तमम् इतीदं वचनं पूजयेन्न वेति संशयितं प्रत्ययमुत्पादयति,
विश्वास-प्रस्तुतिः
नापि विपर्यय-लक्षणं योग्यानुपलम्भाभावात्,
अनागत-विपर्ययोत्प्रेक्षायाः प्रत्यक्ष-विरोधात्, अशेष-व्यवहारोच्छेद-हेतुत्वाच् च।
प्रपञ्चयिष्यते चैतद् उपरिष्टात् ।
Buitenen
Nor, in the third place, is the predicate, defined by reversion,
since there is no non-apprehension of what should be there,
and since, the presumption of future reversion militates against Perception
and would put an end to all operations.
This point shall be discussed in detail later on.
Buitenen - Notes
this “non-apprehension of what should be there (yogānupalambha) is the criterion by which we know the absence of a thing. Here it is the absence of truth in Pañcarātra that needs be proved by yoganupalambha, if the objector’s contention that Pañcarātra is invalid-through-reversion be correct.
नरसिंहः
विपर्ययो मिथ्या-ज्ञानम् । ‘पञ्च-रात्रं मिथ्या इत्य् एतज्-ज्ञानम् इदानीं नास्ति, कालान्तरे भविष्यति’ इति, तद् आदाय अप्रामाण्य-वचनं प्रत्यक्षेण विरुध्यते । तथा सति सकल-लोक-व्यवहार-बाधश् चेति भावः ।
मूलम्
नापि विपर्ययलक्षणं योग्यानुपलम्भाभावात्, अनागतविपर्ययोत्प्रेक्षायाः प्रत्यक्षविरोधात् अशेषव्यवहारोच्छेदहेतुत्वाच्च, प्रपञ्चयिष्यते चैतदुपरिष्टात् ।
नरसिंहः
विपर्ययो मिथ्याज्ञानम् ।
‘पञ्चरात्रं मिथ्या इत्येतज् ज्ञानं इदानीं नास्ति,
कालान्तरे भविष्यति’
इति, तद् आदाय अप्रामाण्य-वचनं प्रत्यक्षेण विरुध्यते ।
तथा सति सकल-लोक-व्यवहार-बाधश् चेति भावः ।
वेद-भिन्नत्वान् नाप्रामाण्यम्
विश्वास-प्रस्तुतिः
+++([वेद-बाह्यत्वाद् अप्रमाणम् इति] पञ्चरात्र-)+++आगम-विरुद्धञ् च -
पञ्च-रात्रागमे स्वार्थस्
तथैवेत्य् अवबोधनात् ।
अथ “+++(पञ्चरात्र→)+++तस्याप्रमाणत्वे
+++(पञ्चरात्र→)+++तद्-विरोधो न दूषणम्” ॥
Buitenen
56. Still, the proposed validity of Pañcarātra militates against Scripture. Since in Pañcarātra Agama we have its meaning conveyed exactly as it is, this conflict between Scripture and Pañcarātra is not vicious only if Pañcaratra is not authoritative.
En - विश्वासः
The claim that Pañcarātra is invalid is opposed by the Pañcarātra Agama itself. In Pañcarātra, it’s validity is understood. Or you say -
As Pañcarātra itself is invalid, it’s opposition (to our inference of invalidity) is not a fault.
नरसिंहः
‘पञ्च-रात्रम् अ-प्रमाणं वेद-बाह्यत्वात्’ इति विरोधानुमानं पूर्व-पक्षिणा प्रदर्शितम् । तत्रोच्यते सिद्धान्तिना ‘आगम-विरुद्धं च’ इति । आगम-पदेन पाञ्चरात्रागमः अभिप्रेतः । पाञ्चरात्रागमे प्रतिपाद्यमानो ऽर्थः प्रमाणम् इति तेनैवागमेन बोध्यते इत्य् अर्थः । तत्र आक्षिपति मीमांसक: ‘अथे’ति । ‘तस्य’ पाञ्चरात्रागमस्यैव अप्रामाण्ये निश्चिते सति, मद्-उक्तेनानुमान-वाक्येन विरोधः स्फुट एव । तत्र को दोषः ? इति तस्य प्रश्नः ।
मूलम्
आगमविरुद्धञ् च -
पञ्चरात्रागमे स्वार्थस्तथैवेत्यवबोधनात् ।
अथ तस्याप्रमाणत्वे तद्विरोधो न दूषणम् ॥
विश्वास-प्रस्तुतिः
हन्त एवं सति
तद्+++(=पाञ्चरात्र)+++-अप्रामाण्ये +++(त्वत्-प्रयुक्त-)+++ऽनुमान-प्रामाण्यम् +++(इष्यते)+++,
+++(अस्मत्-प्रयुक्त-)+++अनुमान+++(तः)+++-प्रामाण्ये +++(प्रदर्शिते)+++ तद्+++(=पाञ्चरात्र)+++-अप्रामण्यम् +++(इष्यते)+++
इत्य् अन्योन्याश्रयणम् । +++(5)+++
Buitenen
REFUTATION.
Why, if that were so, that would mean that
if its authority is disproved by Scripture
it is proved by Inference,
and if it is proved by inference
it is disproved by Scripture;
which is a vicious circle.
En - विश्वासः
Why, if that were so, that would mean that
for proving it’s invalidity,
you want (your) inference’s validity accepted.
But where we infer it’s validity,
you want it’s invalidity (to counter us).
Buitenen - Notes
I have difficulty in understanding the argument unless I assume an illogicality. By stating as his ground since in agama we have its meaning exactly conveyed as it is the objector not only agrees with the preceding argumentation that on inferential grounds Pañcaratra is not invalid, but even goes so far as accepting that it is valid in other words, confuse non-invalidity with validity.
Then, because of this validity (svarthasya tathātvāvabodhanāt), there arises a conflict with a deviating statement of the Veda which has its own validity; since only one can be true, it follows that when Pancarãtra is true by inference, it is untrue by Veda.
But I don’t see how the objector can reasonably infer the validity of Pañcarātra, since its meaning or content is admittedly suprasensible. Yamuna himself has not argued that Inference proves the validity, but that Inference cannot disprove the correctness of the thesis. [[134]]
नरसिंहः
यदा पञ्च-रात्रम् अप्रमाणम् इति निश्चितं तदैव त्वद्-उक्तानुमानं प्रमाणम्; तथा त्वदीयानुमाने प्रमाणतया सिद्धे पञ्च-रात्राप्रामाण्य-निश्चयश् चेति अन्योन्याश्रय-दोष-प्रतिपादनं क्रियते ऽत्र सिद्धान्तिना ।
मूलम्
हन्त एवं सति तदप्रामाण्येऽनुमानप्रामाण्यम् अनुमानप्रामाण्ये तदप्रामण्यमित्यन्योन्याश्रयणम् ।
विश्वास-प्रस्तुतिः
अपि च किम् इदं वेद-बाह्यत्वम्?
Buitenen
57. Besides, what does this mean, “being nonVedic, or outside the Veda?”
नरसिंहः
परोक्तानुमान-वाक्ये हेतु-भूतस्य ‘वेद-बाह्यत्व’ पदस्य तत्त्वं विचार्यते ।
मूलम्
अपि च किमिदं वेदबाह्यत्वं
विश्वास-प्रस्तुतिः
यदि वेदान्यत्वं ततः +++(वेद-भिन्नत्वात्)+++ प्रत्यक्षादिभिर् अनैकान्तः ।
Buitenen
[[45]]
If it means that Pañcaratra is different from the Veda,
we have an occasional application to Perception etc.,
which are also different from the Veda.
मूलम्
यदि वेदान्यत्वं ततः प्रत्यक्षादिभिरनैकान्तः ।
विश्वास-प्रस्तुतिः
अथ +++(प्रत्यक्ष-ग्रहणं वारयितुं)+++ “शब्दत्वे सती"ति हेतुर् विशेष्यते ततो निग्रहस्थानम्,
यथाऽहुः
निर्विशेष-हेतु-प्रयोगे पुनर् विशेषणोपादानं निग्रहः,
इति,
Buitenen
If, in order to avoid this defect, the ground is thus specified, ‘because, while being language, it is different from the Veda,’ we have a hetvantaram deadlock,
which, as they say, occurs when into a syllogism with an unqualified ground
and additional qualification is accepted 120
Buitenen - Notes
a hetvantaram constitutes on the part of the debator a confession of importance
since the ground which he gave does not hold
and he has to produce a different ground.
By the rules of debate this means a defeat.
नरसिंहः
Cf. Nyāyadarśana V. ii. 6: “अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषम् इच्छतो हेत्व्-अन्तरम् ।”
मूलम्
अथ शब्दत्वे सतीति हेतुर्विशेष्यते ततो निग्रहस्थानम्,
यथाऽहुः निर्विशेषहेतुप्रयोगे पुनर्विशेषणोपादानं निग्रहः, इति,
विश्वास-प्रस्तुतिः
अनैकान्तिकश्च मन्वादिवाक्यैः ।
Buitenen
Also, we then have an occasional application to the statements of Manu, which also are language and different from the Veda,
मूलम्
अनैकान्तिकश्च मन्वादिवाक्यैः ।
अ-वेद-मूलत्वान् न
विश्वास-प्रस्तुतिः
अथैतद्-दोष-हानाय
वेद-बाह्यत्व-शब्दतः ।
अवेद-मूलतां मन्द
मन्यसे किन् नु तार्किक? ॥
Buitenen
If then, my slow-witted opponent, in order to remove this defect from your ground
you claim that being outside the Veda means
“not deriving from the Veda,”
then what do you, logician, think of it?
नरसिंहः
The term ‘Tārkika’ need not necessarily refer to the logician here. Yāmuna makes fun of the dialectical helplessness of the Mīmāṁsaka.
मूलम्
अथैतद्दोषहानाय वेदबाह्यत्वशब्दतः ।
अवेदमूलतां मन्द मन्यसे किन्नु तार्किक? ॥
विश्वास-प्रस्तुतिः
तेनायम् अर्थः -
“शब्दत्वे सत्य् अ-वेद-मूलत्वाद्” इति,
ततो वेदैर् अनैकान्त्यम्,
Buitenen
Well, by this definition of the ground we get meaning,
“something, namely in case there is question of language-statements, is non-Vedic,
because it does not derive from the Veda.”
But then there is an occasional application to the Veda itself,
which does not derive from the Veda!
मूलम्
तेनायमर्थः शब्दत्वे सत्यवेदमूलत्वादिति, ततो वेदैरनैकान्त्यम्,
विश्वास-प्रस्तुतिः
अथवा अ-वेदत्वे सति शब्दत्वे सति अ-वेद-मूलत्वाद् इति हेतुः,
Buitenen
When the ground is redefined as
“because it does not derive from the Veda,
in case of a language-statement but not a Vedic statement,”
मूलम्
अथवा अवेदत्वे सति शब्दत्वे सति अवेदमूलत्वादिति हेतुः,
विश्वास-प्रस्तुतिः
तथापि ।
सन्ति नद्यास् तटे
वृक्षा इत्य्-आद्याप्तोपदेशनैः ।
अ-वेद-मूलैर् दुर्वारम्
अनैकान्त्यं प्रसज्यते ॥
Buitenen
then again there would inevitably be an occasional application to statements of reliable persons
which do not derive from the Veda
and yet are valid, like
“There are trees on the river-bank.”
मूलम्
तथापि ।
सन्ति नद्यास्तटे वृक्षा इत्याद्याप्तोपदेशनैः ।
अवेदमूलैर्दुर्वारमनैकान्त्यं प्रसज्यते ॥
विश्वास-प्रस्तुतिः
अथ
अवेदत्वे सति, शब्दत्वे सति, कार्य-विषयत्वे सति, अ-वेद-मूलत्वं हेतुः,
अत्रापि “अजीर्णे मन्दम् अश्नीयाद्” इत्यादौ व्यभिचारिता ।
Buitenen
If the reason is further corrected into:
“because it does not derive from the Veda, namely, in case of a language-statement -but not a Vedic statement-
and this statement concerns an action to be taken,”
then still we have a vicious applicability to such precepts as
“One must eat little when one has indigestion.”
नरसिंहः
This line runs like a verse.
मूलम्
अथ अवेदत्वे सति शब्दत्वे सति कार्यविषयत्वे सति अवेदमूलत्वं हेतुः, अत्रापि अजीर्णे मन्दमश्नीयादित्यादौ व्यभिचारिता ।
विश्वास-प्रस्तुतिः
अथ
उक्त-विशेषण-विशिष्टत्वे धर्माधर्म-विषयत्वेऽपि सत्य् अ-वेदमूलत्वाद् इति हेतुः,
ततो भागासिद्धो हेतुः, न हि पञ्चरात्रशास्त्रं कृत्स्नं धर्माधर्म-विषयम् -
ब्रह्मविषयाणामेव वचसां बाहुल्यात् ।
+++(अतः पक्षोऽसिद्धो भवति)+++
Buitenen
[[46]]
Again, if the ground is then reformulated as
“because it does not derive from the Veda, in case of a statement specified by all the above specifications
and also concerned with dharma and adharma,”
then this ground is partly impertinent, because Pancarātra Sastra does not deal with dharma and adharma exclusively,
since the great majority of its Statements concern Brahman.
मूलम्
अथोक्तविशेषणविशिष्टत्वे धर्माधर्मविषयत्वेऽपि सत्यवेदमूलत्वादिति हेतुः, ततो भागासिद्धो हेतुः, न हि पञ्चरात्रशास्त्रं कृत्स्नं धर्माधर्मविषयम् ब्रह्मविषयाणामेव वचसां बाहुल्यात् ।
विश्वास-प्रस्तुतिः
अथ “प्रमाणान्तरायोग्यार्थत्वे सती"ति विशेषः
+++(“अवेदत्वे सति, शब्दत्वे सति, अ-वेद-मूलत्वं हेतुः,” इत्यत्र)+++
तत्रापि सैवासिद्धिः,
भगवत्-प्रत्यक्षस्य धर्माधर्मादि-समस्त-वस्तु-गोचरस्य श्रुति-शत-प्रसिद्धत्वात्।
तच्-चैतद् अनन्तरम् एव वक्ष्यामः।
Buitenen
If then, the specification is added
“….when it deals with objects that are outside the scope of other pramāņas,”
then again the ground does not fully apply,
for hundreds of śrutis demonstrate
that the Perception of God encompasses all things related to dharma and adharma.
नरसिंहः
असिद्धिरेवेत्य् अर्थः।
मूलम्
अथ प्रमाणान्तरायोग्यार्थत्वे सतीति विशेषः तत्रापि सैवासिद्धिः, भगवत्प्रत्यक्षस्य धर्माधर्मादिसमस्तवस्तुगोचरस्य श्रुतिशतप्रसिद्धत्वात् तच्चैतदनन्तरमेव वक्ष्यामः
विश्वास-प्रस्तुतिः
तद् अलम् अनेनाशिक्षिताक्षपाद-मतानाम् अ-प्रतिष्ठित-प्रतिभा-विजृम्भितेन ।
Buitenen
We shall discuss this point presently (infra §§ 76 F.);
this suffices for the time being to expose the baseless fancies
of those who have not made a study of Akṣapada’s system.
Buitenen - Notes
Akshapada - The founder of the school of logic.
मूलम्
तदलमनेनाशिक्षिताक्षपादमतानामप्रतिष्ठितप्रतिभाविजृम्भितेन ।
विश्वास-प्रस्तुतिः
संभाव्यमानान्य् अप्य् अनुमानान्तराणि
परस्ताद् उपन्यस्य निरस्यन्ते
अतो नानुमान-विरुद्धः पक्षः ।
Buitenen
Other conceivable inferences will be presented; and refuted, later on.
We conclude therefore, that the proposition “Pañcarātra is authoritative,” is not in conflict with Inference.
मूलम्
संभाव्यमानान्यप्यनुमानान्तराणि परस्तादुपन्यस्य निरस्यन्ते अतो नानुमानविरुद्धः पक्षः ।
नागम-विरोधः
विश्वास-प्रस्तुतिः
नाप्य् आगम-विरुद्धः -
पञ्च-रात्र-शास्त्र-प्रामाण्य-प्रतिपादकस्य “इदम् महोपनिषदम्” इत्य्-आद्य्-आगम-शतस्य प्रदर्शयिष्यमाणत्वात् ।
Buitenen
58. Nor is it in conflict with Scripture,
for hundreds of scriptural statements, like idam mahopaniṣadam,
will be adduced which set forth that Pañcarātra is authoritative.
नरसिंहः
Mahābhārata ( Critical edn., Poona ) XII. 326. 100a:
इदं महोपनिषदं चतुर्-वेद-समन्वितम्।
मूलम्
नाप्यागमविरुद्धः पञ्चरात्रशास्त्रप्रामाण्यप्रतिपादकस्य इदम्महोपनिषदम् इत्याद्यागमशतस्य प्रदर्शयिष्यमाणत्वात् ।
न स्व-व्याघातादि
विश्वास-प्रस्तुतिः
स्व-वचन+++(→विरोधः)+++–स्वाभ्युपगम+++(→विरोधः)+++–सर्व-लोक-प्रसिद्धि-विरोधाश्
शब्द-विरोध-प्रकारास् त्व् अनाशङ्कनीया एव,
Buitenen
There are no grounds to suspect in our proposition
anyone of the three kinds of contradiction of language-statements;
namely, contradiction within the terms of the statement;
contradiction with one’s own thesis;
or contradiction with universally accepted facts.
मूलम्
स्ववचन-स्वाभ्युपगम-सर्वलोकप्रसिद्धिविरोधाश्शब्दविरोधप्रकारास्त्वनाशङ्कनीया एव,
विश्वास-प्रस्तुतिः
तथा हि न तावत् स्ववचनविरोधः,
स हि त्रेधा - उक्तिमात्रविरोधः, धर्मोक्तिविरोधः, धर्म्युक्तिविरोधश् चेति,
Buitenen
[[47]]
First, there is no contradiction within the statement.
This type of contradiction is of three kinds of mere utterance;
or utterance of property;
and of utterance of substance.
मूलम्
तथा हि न तावत् स्ववचनविरोधः, स हि त्रेधा उक्तिमात्रविरोधः, धर्मोक्तिविरोधः, धर्म्युक्तिविरोधश्चेति,
विश्वास-प्रस्तुतिः
तत्र न तावद् उक्तिमात्र-विरुद्धोऽयं पक्षः,
न हि “पञ्च-रात्र-शास्त्रं प्रमाणम्” इति प्रतिज्ञा-वचनं
स्वार्थं व्याहन्ति -
यथा “यावज्-जीवम् अहं मौनी” इति,+++(5)+++
Buitenen
Firstly, the proposition is not contradicted by its mere utterance,
for the statement of the thesis “Pañcarātra Sastra is authoritative”
does not cancel its own content, as does, for instance, the statement:
“During my entire life I have kept silence.”
नरसिंहः
Cf. Ślokavārtika (I. i. 5) śls. 61b-62b:
त्रिधाशब्द-विरोधस् स्यात् प्रसिद्ध्य्-आदि-विभागतः ।
प्रतिज्ञा-पूर्व-संजल्प-सर्व-लोक-प्रसिद्धितः ॥
यावज्-जीवम् अहं मौनीत्य् उक्ति-मात्रेण बाध्यते ।
मूलम्
तत्र न तावदुक्तिमात्रविरुद्धोऽयं पक्षः,
न हि पञ्चरात्रशास्त्रं प्रमाणमिति प्रतिज्ञावचनं स्वार्थं व्याहन्ति यथा यावज्जीवमहं मौनी इति,
विश्वास-प्रस्तुतिः
नापि धर्मोक्ति-विरोधः,
न हि प्रामाण्यं
पञ्च-रात्रोद्देशेन विधीयमानं पक्षं प्रतिक्षिपति
सर्व-वाक्यानाम् इव मिथ्यात्व-वचनम्,+++(5)+++
Buitenen
Secondly, there is no contradiction through utterance of property,
as for example the statement: “All statements are untrue;”
for the authoritativeness predicated of Pañcarātra
does not cancel the proposition.
मूलम्
नापि धर्मोक्तिविरोधः, न हि प्रामाण्यं पञ्चरात्रोद्देशेन विधीयमानं पक्षं प्रतिक्षिपति सर्ववाक्यानामिव मिथ्यात्ववचनम्,
विश्वास-प्रस्तुतिः
नापि धर्म्य्-उक्ति-विरोधः,
सत्य् अपि धर्मिणि,
धर्मान्वयस्याऽविरुद्धत्वात्।
न हि जननीत्वम् इव वन्ध्यात्वेन
पञ्च-रात्र-शास्त्रत्वं प्रामाण्येन विरुद्धम्, (प्. ३२)+++(5)+++
Buitenen
Thirdly, there is no contradiction through utterance of substance,
since in the given substance a connection with the given property is not contradictory:
Pancarātra is not contradicted by its property authoritativeness,
as motherhood is contradicted by the property sterility.
नरसिंहः
Cf. ibid*: śl. 63:
सर्व-वाक्य-मृषात्वे तु धर्मोक्त्यैवात्म-बाधनम् ।
धर्म्य्-उक्त्याहं यतो जातः, सा वन्ध्या जननी मम ॥
मूलम्
नापि धर्म्युक्तिविरोधः, सत्यपि धर्मिणि धर्मान्वयस्याऽविरुद्धत्वात्, न हि जननीत्वमिव वन्ध्यात्वेन पञ्चरात्रशास्त्रत्वं प्रामाण्येन विरुद्धम्, (प्. ३२)
विश्वास-प्रस्तुतिः
न हि विवादाध्यासितस्य प्रामाण्य-प्रतिज्ञाने
तत्र श्रुत्य्-उक्त-धर्मि-विशेष-विरोधः -
+++(वेद-)+++विहित-हिंसानाम् इवाधर्मत्व-प्रतिज्ञाने +++(तत्-तत्-परिहारेण)+++ विवादाध्यासस्योपलक्षत्वात्,
Buitenen
For upon the assertion of the authoritativeness of the substance in question,
it is not contradicted by any particular substance named in Revelation,
since the imputation of questionableness is secondary,
as in the case of the assertion that
certain acts of violence which are enjoined are against the dharma,12
Buitenen - Notes
The Vedic injunction na hinṇsyāt sarvabhūtāni “one should not injure any being”
raises the question of the validity of injunctions which do require injury to beings.
But this is a secondary question which does not affect the validity of the Veda as a whole.
Similarly, the thesis “Pañcaratra is valid” is not disproved
by the possible mention in the valid Veda
of something that conflicts with something in Pañcaratra.
So far the argument is not for validity but against invalidity.
मूलम्
न हि विवादाध्यासितस्य प्रामाण्यप्रतिज्ञाने तत्र श्रुत्युक्तधर्मिविशेषविरोधः
विहितहिंसानामिवाधर्मत्वप्रतिज्ञाने विवादाध्यासस्योपलक्षत्वात्,
विश्वास-प्रस्तुतिः
अतो वा नागमविरोधः,
तद् एवं प्रतिपन्नः पक्षः ।
Buitenen
There is, therefore, no contradiction by language statement;
so that we conclude that the proposition is presentable.
मूलम्
अतो वा नागमविरोधः, तदेवं प्रतिपन्नः पक्षः ।