०१ निर्दोष-ज्ञान-जन्यतया प्रामाण्यानुमानम्

प्रतिज्ञा

विश्वास-प्रस्तुतिः

विवादाध्यासितं तन्त्रं
प्रमाणम् इति गृह्यताम्
निर्दोष-ज्ञान-जन्मत्वाज्
ज्योतिष्टोमादि-वाक्यवत्॥

Buitenen

Against this prima-facie case
we now submit that the Tantra in question must be accepted as valid,
because it produces faultless knowledge,
like the scriptural statements on the Vedic sacrifices jyotiştoma etc.

नरसिंहः

‘ज्योतिष्टोमेन स्वर्ग-कामो यजेत’ इति वाक्यवत् पञ्च-रात्र-तन्त्रम् अपि निर्दोष-ज्ञान-कारणत्वाद् धेतोः प्रमाणम् एवेति स्वीक्रियताम् इत्य् आशयः ।

मूलम्

विवादाध्यासितं तन्त्रं प्रमाणमिति गृह्यताम्।
निर्दोषज्ञानजन्मत्वाज्ज्योतिष्टोमादिवाक्यवत्॥

अनुमानय् अवयवाः

विश्वास-प्रस्तुतिः

तावद् अनुमानेऽस्मिन्
न्याय-शास्त्र-परीक्षिताः ।
दोषा मृगयितुं शक्यास्
तत्र पक्षः परीक्ष्यताम्

Buitenen

54. Now, such defects as are elicited by the science of logic
cannot be detected in this inference.
Let us consider the Object of the Proposition.

मूलम्

न तावदनुमानेऽस्मिन् न्यायशास्त्रपरीक्षिताः ।
दोषा मृगयितुं शक्यास्तत्र पक्षः परीक्ष्यताम् ॥

विश्वास-प्रस्तुतिः

पक्षो नाम प्रतिज्ञाऽर्थः
स च सिद्धेन केनचित् ।
स्वयं सिद्धो विशिष्टस् सन्
यः साधयितुम् ईप्सितः ॥+++(5)+++

Buitenen

The Object of the Proposition is, by definition,
the content of a certain thesis is proposed;
it is a term which itself is established,
and of which it is now to be proved that it is particularized by another term,
which is also established."

Buitenen - Notes

pratijñārthah, the object or content of the pratijñā,
which is the first step of the five-membered syllogism,
e.g., “the mountain has fire” (parvatasya agnimattvam).
It does not therefore coincide with the Subject.
In the proposition both S and P must be siddha, established as existing somewhere;
a non-thing like a hare’s horn can be neither S nor P.

नरसिंहः

पक्ष-शब्दं निर्वक्ति । पक्षो नाम (पर्वतादिः) प्रतिज्ञा-विषयी-भूतः कश्चन स्वयं सिद्धः पदार्थः । [ प्रतिज्ञा ‘पर्वतो वह्निमान्’ इत्य् एवं रूपा ।] स च सिद्धेन केनचिद् अन्येन पदार्थेण हेतु-भूतेन [धूमादिना] सिसाधयिषितः । सिसाधयिषितो ऽपि सः किञ्चिद् विशिष्टाकारेण [वह्निमत्-स्व-रूपेण] सिसाधयिषितः; न तु सामान्याकारेण, इति दिक् ।

मूलम्

पक्षो नाम प्रतिज्ञाऽर्थः स च सिद्धेन केनचित् ।
स्वयं सिद्धो विशिष्टस्सन् यः साधयितुमीप्सितः ॥