१८ उपसंहारः

विश्वास-प्रस्तुतिः

तद् एवम् उदीरित-न्याय-श्रुति-स्मृतीतिहास-पुराण-न्याय-विरुद्धाभिधानेन,
समस्त-शिष्ट-जन-परिग्रह-विरहेण च,
स्वर्गापवर्गावसानोपदेश-व्याजेन केनापि
जगद् वञ्चयितुं विरचितानि पञ्च-रात्र-तन्त्राणीति मन्यामहे ।

Buitenen

52. To sum up. For the reasons set forth above
we maintain that the exposure of this Tantra’s incompatibility with Revelation, Tradition, Epic and Purana
as well as with the conclusions of our logical demonstration,
and the inacceptability of this Tantra to all exemplary persons
go to show that the Pañcaratra texts must have been composed by someone
who pretended to teach a path that would lead to heaven and salvation,
but actually wished to deceive the world.

मूलम्

तदेवमुदीरितन्यायश्रुतिस्मृतीतिहासपुराणन्यायविरुद्धाभिधानेन, समस्तशिष्टजनपरिग्रहविरहेण च, स्वर्गापवर्गावसानोपदेशव्याजेन केनापि जगद्वञ्चयितुं विरचितानि पञ्चरात्रतन्त्राणीति मन्यामहे ।

विश्वास-प्रस्तुतिः

ईदृशापस्मृति-विषयम् एव तद्वचः -

Buitenen

Concerning its apocryphal character, which we have now exposed, we have the declaration:

मूलम्

ईदृशापस्मृतिविषयमेव तद्वचः -

विश्वास-प्रस्तुतिः

या वेद-बाह्याः स्मृतयो
याश्च काश्च कुदृष्टयः ।
सर्वास् ता निष्फलाः प्रेत्य तमो-निष्ठा हि ताः स्मृताः ॥

इति ।

Buitenen

“The traditional teachings that are outside the Veda
and all other false doctrines remain fruitless in the afterworld,
for they are considered to derive from tamas.”

नरसिंहः

Manusmṛti XII. 95.

मूलम्

या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ।
सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥

इति ।

विश्वास-प्रस्तुतिः

ईदृश-दुर्-मार्गानुगामिन एव तेऽपि,
एषां वाङ्-मात्रेणापि +अर्चनं निषिध्यते,

Buitenen

Those who follow the Veda are forbidden to speak with those who follow such evil paths:

मूलम्

ईदृशदुर्मार्गानुगामिन एव तेऽपि एषां वाङ्मात्रेणापि अर्चनं निषिध्यते,

विश्वास-प्रस्तुतिः

उक्तञ्च -

एत एव च ते येषां
वाङ्मात्रेणापि नार्चनम्
पाषण्डिनो विकर्म-स्थान्
बैडाल-व्रतिकांञ् छठान् ॥
हैतुकान् बक-वृत्तिंश् च
वाङ्मात्रेणापि नार्चयेत् ।

इति ।

Buitenen

“The following are not to be honoured even with a word: heretics, criminals, impostors, crooks, thieves and hypocrites are not to be honoured even with a word.”

नरसिंहः

Ibid. IV. 30.

मूलम्

उक्तञ्च -

एत एव च ते येषां वाङ्मात्रेणापि नार्चनम् ।
पाषण्डिनो विकर्मस्थान् बैडालव्रतिकांञ्छठान् ॥
हैतुकान् बकवृत्तिंश्च वाङ्मात्रेणापि नार्चयेत् ।

इति ।

विश्वास-प्रस्तुतिः

इत्य् उपन्यस्तया नीत्या
पञ्च-रात्रम् अशेषतः ।
अप्रमाणम् इति प्राप्तम्
एवं प्रप्ते ऽभिधीयते

Buitenen

[[43]]
53. In the manner116 presented above the primafacie case can be made
that the Pañcaritra in its entirety has no validity
whatever as a means of knowledge.

Buitenen - Notes

I read rityā.

नरसिंहः

From here starts the ‘Siddhānta’.

मूलम्

इत्युपन्यस्तया नीत्या पञ्चरात्रमशेषतः ।
अप्रमाणमिति प्राप्तमेवं प्रप्तेऽभिधीयते ॥