पौरुषेयत्वम्
विश्वास-प्रस्तुतिः
किञ्च -
इत्थं पाशुपतादीनां +++(तच्-छास्त्र-पौरुषेयत्वे)+++
न्यायः किं-दण्ड-वारितः ।
तथाऽस्त्व् इति यदि ब्रूयाद्
व्याघातस् स्यात् परस्परम् ॥
Buitenen
[[42]]
51. Besides, why has the argument about the Pasupatas etc. been swept aside with a stick?
If one replies, let the argument stand,
we shall have the defect of mutual exclusion.
मूलम्
किञ्च -
इत्थं पाशुपतादीनां न्यायः किं दण्डवारितः ।
तथाऽस्त्विति यदि ब्रूयाद् व्याघातस्स्यात् परस्परम् ॥
विश्वास-प्रस्तुतिः
सर्व-लोक-प्रसिद्धा च
वासुदेव-प्रणीतता ।
न हातुं शक्यते
यद्वद् वेदस्यापौरुषेयता ॥
Buitenen
And Vasudeva’s authorship of the Tantra, which is commonly known to everybody,
can no more be rejected than the preferpersonal origin of the Veda.
मूलम्
सर्वलोकप्रसिद्धा च वासुदेवप्रणीतता ।
न हातुं शक्यते यद्वद्वेदस्यापौरुषेयता ॥
अनुदय-विपर्यास-विशयाः
विश्वास-प्रस्तुतिः
अथो कश्चिद् ब्रूयाद् -
अनुदय-विपर्यास-विशयैस् त्रि-रूपे प्रामाण्ये
कतरद् इह जोघुष्यत
इति ।
Buitenen
Or else, if someone says that
(Is) any of the three means of knowledge is, in the case of
PasupataTantra, cancelled by non-appearance (sc. of knowledge.), reversion and dubiety,
नरसिंहः
Cf. Slokavārtika ( I. 1. 2 ) śl.54a:
अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञान-संशयैः ।
मूलम्
अथो कश्चिद् ब्रूयादनुदयविपर्यासविशयैस्त्रिरूपे प्रामाण्ये कतरदिह जोघुष्यत इति ।
विश्वास-प्रस्तुतिः
स वक्तव्यः
+++(यत्)+++ किन् नु +++(स्व-मते)+++ त्वद्-अभिलषितं
लागुड-मते तद् एवइति ज्ञात्वा
नियमित-मदश् शाम्यतु भवान् ।
Buitenen
the answer is, your own postulation applies equally well to the Laguḍa doctrine (here used as synonymous with Pasupata),
and once you know this, it is refuted.
Your worship better keep quiet.
नरसिंहः
लागुड-मतं पाशुपतम् इति यावत् ।
मूलम्
स वक्तव्यः
किन्नु त्वदभिलषितं
लागुडमते तदेवेति ज्ञात्वा
नियमितमदश्शाम्यतु भवान्।