विश्वास-प्रस्तुतिः
पश्यन्तः पौरुषेयत्वे
दूषणान्य् उक्तया दिशा ।
अन्-अन्य-गतयः केचित्
तन्त्रं नित्यम् अतिष्ठिपन् ॥
Buitenen
50. There are some who notice the logical defects inherent in the view that Scripture of a personal origin,
which we have explained above, and having no other course open
posit that Tantra too must be eternal.
मूलम्
पश्यन्तः पौरुषेयत्वे दूषणान्युक्तया दिशा ।
अनन्यगतयः केचित् तन्त्रं नित्यमतिष्ठिपन् ॥
विश्वास-प्रस्तुतिः
तद् एतत् स्व-हृदय-निहित-विशदतर-
कतृ-स्मरण-प्रतिहतम् अभिधीयत
इत्य् उपेक्षणीयम् ।
Buitenen
Against this position, we state that
it is sublated by the fact that its author,
who is patent enough and tacitly remembered, is not forgotten at all;
and hence this position does not deserve our
notice.
मूलम्
तदेतत् स्वहृदयनिहितविशदतरकतृस्मरणप्रतिहतमभिधीयत इत्युपेक्षणीयम् ।