विश्वास-प्रस्तुतिः
किञ्च -
श्रुति-स्मृति-प्रतिक्षिप्त-
जीव-जन्मादि-गोचरम् ।
न्याय-हीनं वचस् तथ्यम्
इति हास्यम् इदम् महत् ॥
Buitenen
49. Furthermore, that a doctrine destitute of all logic
and embracing the view that the soul knows birth,
which is rejected by Revelation and Tradition,
should be Truth is a highly ludicrous contention.
मूलम्
किञ्च -
श्रुतिस्मृतिप्रतिक्षिप्तजीवजन्मादिगोचरम् ।
न्यायहीनं वचस्तथ्यमिति हास्यमिदम्महत् ॥
विश्वास-प्रस्तुतिः
तथा च श्रुतिः -
अविनाशी वा अरेऽयमात्मा अनुच्छित्तिधर्मा
मात्रासंसर्गस् तस्य भवति
इति तथा
जीवापेतं वाव किलेदम् म्रियते,
न जीवो म्रियते
इति ।
Buitenen
Thus we find the śruti,
“Verily, this soul is unperishing, essentially indestructible;
it is not conjoined with sizes” (BA Up. 4.5.14.)
and,
“This dies without the soul; the soul does not die.”*104 (Ch Up. 6.11.3.)
नरसिंहः
अविनाशी … Bṛhadāraṇyaka IV. v. 14.
Cf. Bhagavadgītā II. 14:
mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ।
āgamāpāyino’nityāstān titikṣasva bhārata॥
जीवापेतं …Chāndogy* VI. 11. 3.
मूलम्
तथा च श्रुतिः -
अविनाशी वा अरेऽयमात्मा अनुच्छित्तिधर्मा मात्रासंसर्गस्तस्य भवति
इति तथा
“जीवापेतं वाव किलेदम्म्रियते न जीवो म्रियते”
इति ।
विश्वास-प्रस्तुतिः
स्याद् एतत् उच्छेदाभाव-मात्र-प्रतिपादकम् एतद् वचनं
न जन्माभावम् अवगमयति
इति ।
Buitenen
OBJECTION.
This is all very well,
but all that this statement says is that the soul is not destroyed,
not that it is not born.
मूलम्
स्यादेतत् उच्छेदाभावमात्रप्रतिपादकमेतद्वचनं न जन्माभावमवगमयतीति ।
विश्वास-प्रस्तुतिः
न,
अनुच्छेदाभिधानेन
जन्माभावो ऽवसीयते ।
न ह्य् अस्ति संभवो भावो
जातो नैव क्षरेद् इति ॥
Buitenen
REFUTATION. No, by stating that it cannot be destroyed,
it also decides that it cannot be born;
it is impossible that an entity that has been born
does not perish.
नरसिंहः
‘जातो भावो नैव क्षरेद्’ इत्य् एतद् वचनं न शक्य-सम्भवम् इति भावः ।
मूलम्
न,
अनुच्छेदाभिधानेन जन्माभावोऽवसीयते ।
न ह्यस्ति संभवो भावो जातो नैव क्षरेदिति ॥
विश्वास-प्रस्तुतिः
ननु च,
सद् एव सौम्येदम् इति
सद्-एकत्वावधारणात् ।
प्राक्-सृष्टि-कालाज् जीवानाम्
अ-भावो ऽध्यवसीयते ।
Buitenen
OBJECTION.
Nonetheless, from the emphasis which in the statement “only sat was here” (ChUp.6.2.1.) is laid on the uniqueness of sat,
it follows that there were no souls before the time of creation.
नरसिंहः
Chāndogya: VI. ii. 1: ‘सद् एव सोम्येदम् अग्र आसीत् एकम् एवाद्वितीयं ब्रह्म’ ।
मूलम्
ननु च,
सदेव सौम्येदमिति सदेकत्वावधारणात् ।
प्राक्सृष्टिकालाज्जीवानामभावोऽध्यवसीयते ।
विश्वास-प्रस्तुतिः
यदि जीवाः पृथग्भूताः
प्राक् सृष्टेः स्युः परात्मवत् ।
कथम् एतत् “सद् एवे"ति
तद्-एकत्वावधारणम् ।+++(5)+++
Buitenen
Had the individual soul existed before
why then this emphasis of “only sat”
on sat’s absolute solitariness?
नरसिंहः
Chāndogya VI. ii. 1.
मूलम्
यदि जीवाः पृथग्भूताः प्राक् सृष्टेः स्युः परात्मवत् ।
कथमेतत्सदेवेति तदेकत्वावधारणम् ।
विश्वास-प्रस्तुतिः
अत्रोच्यते “सद् एवे"ति
यद् एकत्वावधारणम् ।
तत् सिसृक्षित-वाय्व्-अम्बु-
वियत्-प्रभृति-गोचरम् ॥
Buitenen
[[40]]
REFUTATION.
The reply to this is that
here the emphasis on sat’s uniqueness
is with regard to the elements of wind, water and ether
that were about to be created by sat.
मूलम्
अत्रोच्यते सदेवेति यदेकत्वावधारणम् ।
तत्सिसृक्षितवाय्वम्बुवियत्प्रभृतिगोचरम् ॥
विश्वास-प्रस्तुतिः
पर्युदासिष्यताऽनेन
वचसा चेतनो यदि ।
गगनादेर् इवास्यापि
जननं निरदेक्ष्यत ॥+++(5)+++
Buitenen
Were the soul excluded by this statement of sat’s solitariness,
then the soul’s origin would have been described in the sequel,
just as the creation of ether is described.
मूलम्
पर्युदासिष्यताऽनेन वचसा चेतनो यदि ।
गगनादेरिवास्यापि जननं निरदेक्ष्यत ॥
विश्वास-प्रस्तुतिः
न च निर्दिश्यते तेन
न जीवो जनिम् ऋच्छति ।
तत्-तेजोऽसृजतेत्यादौ
जीवसर्गो हि न श्रुतः ॥
Buitenen
This is not done; therefore the soul does not know birth,
since in the sequel “That sat created fire, etc. (Ch Up. 6.2.3. )
we do not hear of the creation of the individual soul.
नरसिंहः
Ibid: VI. ii. 3.
मूलम्
न च निर्दिश्यते तेन न जीवो जनिमृच्छति ।
तत्तेजोऽसृजतेत्यादौ जीवसर्गो हि न श्रुतः ॥
विश्वास-प्रस्तुतिः
ननु च “यतो वा इमानि भूतानि” इत्य्-अत्र
जीवानाम् एव जनन-जीवन-प्रायणाभिसंवेशनानि प्रतीयन्ते?
Buitenen
OBJECTION. However, in the text yato va imani bhūtāni etc.
we hear that the souls too know origin, continuance and reabsorption.
नरसिंहः
Taittirīya : III. i. 1: “यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति” etc.
मूलम्
ननु च यतो वा इमानि भूतानि इत्यत्र जीवानामेव जननजीवनप्रायणाभिसंवेशनानि प्रतीयन्ते ।
विश्वास-प्रस्तुतिः
तथा हि भूतशब्दोऽयं
जीवानाम् अभिधायकः ।
भ्रामयन् सर्व-भूतानीत्य्-
एवम्-आदिषु दर्शनात् ॥
Buitenen
Here the word bhuta denotes the jiva, the individual soul;
for thus we find the word used in the passage bhrāmayan sarvabhūtāni,
नरसिंहः
Bhagavadgītā: XVIII, 61b.
मूलम्
तथा हि भूतशब्दोऽयं जीवानामभिधायकः ।
भ्रामयन् सर्वभूतानीत्येवमादिषु दर्शनात् ॥
विश्वास-प्रस्तुतिः
जीवन्तीति हि शब्दोऽयं
जीवेष्व् एवावकल्पते ।
तेन जायन्त इत्य्-एतज्
ज्ञायते जीव-गोचरम् ॥
Buitenen
The verb jianti “they live” in the text can only apply to the souls,
the expression tena jayante “by whom they are born” evidently refers to these same souls.
Buitenen - Notes
Taitt Up. 3.1.1. The whole sentence includes tena jivanti, on which the present exegesis of bhuta is based.
मूलम्
जीवन्तीति हि शब्दोऽयं जीवेष्वेवावकल्पते ।
तेन जायन्त इत्येतज् ज्ञायते जीवगोचरम् ॥
विश्वास-प्रस्तुतिः
तद् इदम् अनुपपन्नं भूत-शब्दो विहायः-
पवन–हुत-भुग्-अम्भो-मेदिनीषु प्रसिद्धः ।
पदम् इदम् इतरस्मिंल् लक्षणा-वृत्ति तेषां
बहु-विध-परिणामो गीयते जीवनञ् च ॥
Buitenen
[[41]]
REFUTATION. This is not right.
The word bhuta commonly deonly the elements ether, wind, fire, water and earth.
If the word is used for something else, it is used metaphorically.
Of these elements, ether etc. which are primarily understood by the word bhuta,
it is stated that they are variously modified and that they live.
Buitenen - Notes
namely, that they are born (jātāri) and die (prayanti).
मूलम्
तदिदमनुपपन्नं भूतशब्दो विहायःपवनहुतभुगम्भोमेदिनीषु प्रसिद्धः ।
पदमिदमितरस्मिंल्लक्षणावृत्ति तेषां बहुविधपरिणामो गीयते जीवनञ्च ॥
विश्वास-प्रस्तुतिः
प्रथमम् अधिगता ये खादयो भूत-शब्दात्
तद्-अनुगुणतयाऽर्थं वक्ति जीवन्ति-शब्दः ।
यदि च भवति जीवे भूत-शब्दस् तदानीम्
अपि वदति तदीयञ् जन्म देहानुबन्धि ॥
Buitenen
The verb “they live” describes a condition of being analogous to living.
And if the word bhuta be used in the sense of individual soul,
then too the statement declares that the soul is born only in the sense that its entrance into a body is a birth.
मूलम्
प्रथममधिगता ये खादयो भूतशब्दात्तदनुगुणतयाऽर्थं वक्ति जीवन्ति शब्दः ।
यदि च भवति जीवे भूतशब्दस्तदानीमपि वदति तदीयञ्जन्म देहानुबन्धि ॥
विश्वास-प्रस्तुतिः
अतो जीव-परत्वेऽपि
भूत-शब्दस्य युज्यते ।
जायन्त इति शब्दोऽयं
गौर् जातो गच्छतीति वत् ॥
Buitenen
Therefore, when the word bhuta refers to the individual soul,
it can rightly be said that the souls are born,
just as it is said that the cow,
once born walks about.
मूलम्
अतो जीवपरत्त्वेऽपि भूतशब्दस्य युज्यते ।
जायन्त इति शब्दोऽयं गौर्ज्जातो गच्छतीति वत् ॥
विश्वास-प्रस्तुतिः
तथा “ऽजो ह्य् एक” इत्य्-आद्याः
श्रुतयो ऽन्याश् च सन्ति नः ।
जीवानुत्पत्ति-वादिन्यस्
तथा भगवतो वचः ॥
Buitenen
There are śrutis to this effect, like
“For the soul, unborn, alone” (Svet Up. 4.5.)
and we also have other Śrutis which declare that the soul is unborn.
Similarly, the word of the Lord:
नरसिंहः
Śvetāśvatara IV. 5: “अजो ह्य् एको जुषमाणो ऽनुशेते ।”
मूलम्
तथाजोह्येक इत्याद्याः श्रुतयोऽन्याश्च सन्ति नः ।
जीवानुत्पत्तिवादिन्यस्तथा भगवतोवचः ॥
विश्वास-प्रस्तुतिः
प्रकृतिं पुरुषञ्चैव
विद्ध्य् अनादी उभाव् अपि । (Bh G. 18.61.)
Buitenen
“Know that both matter and spirit are without beginning;” (Bh G. 13.19.)
नरसिंहः
Bhagavadgītā XIII. 19a.
मूलम्
प्रकृतिं पुरुषञ्चैव विद्ध्यनादी उभावपि ।
विश्वास-प्रस्तुतिः
अजो नित्यश् शाश्वतोऽयं पुराणः ।
Buitenen
“this ancient spirit is unborn, eternal, everlasting;” (Kath Up. 2.18.)
नरसिंहः
Ibid: II. 20c.
मूलम्
अजो नित्यश्शाश्वतोऽयं पुराणः ।
विश्वास-प्रस्तुतिः
न जायते म्रियते वा कदाचित् ।
इत्यादि ।
Buitenen
“it is never born nor does it die” etc. (Kath Up. 2.17.)
नरसिंहः
Ibid: II. 20a.
मूलम्
न जायते म्रियते वा कदाचित् ।
इत्यादि ।
विश्वास-प्रस्तुतिः
न्यायश् च -
विवादाध्यासितो जीवो
न जातु जनिम् ऋच्छति ।
द्रव्यत्वे सत्य-मूर्तत्वाच्
चिद्-रूपत्वात् परात्मवत् ॥
Buitenen
Finally there is the syllogism:
the individual soul in question never knows birth;
for, while being substantial, it is bodiless,
as it consists of spirit, like the Supreme Soul.
मूलम्
न्यायश् च -
विवादाध्यासितो जीवो न जातु जनिमृच्छति ।
द्रव्यत्वे सत्यमूर्तत्वाच्चिद्रूपत्वात्परात्मवत् ॥