विश्वास-प्रस्तुतिः
अपि चास्ति नरः कश्चित्
तादृशातिशयाश्रयः ।
सिषाधयिषित-ग्रन्थ-
प्रामाण्यस्य किम् आगतम् +++(ईश्वर-ग्रन्थ-सम्बन्धः कुतः?)+++ ॥
Buitenen
And if there is a person who possesses this peculiar excellency,
what happens to the authority of the texts which is sought to be proved?87
Buitenen - Notes
The relation between God and the texts has to be proved. I read yadi ca for api ca.
मूलम्
अपि चास्ति नरः कश्चित् तादृशातिशयाश्रयः ।
सिषाधयिषितग्रन्थप्रामाण्यस्य किमागतम् ॥
सर्व-ज्ञ-वादि-नैकान्तता
विश्वास-प्रस्तुतिः
ननु च तादृश-पुरुषेण विरचितम् इदम्
इति पञ्चरात्र-गोत्रानुसारिणः स्मरन्ति ।
Buitenen
43. OBJECTION. However, those who follow the Pancaratra clan have the tradition that this Pañcaratra has been composed by this person.
मूलम्
ननु च तादृशपुरुषेण विरचितमिदमिति पञ्चरात्रगोत्रानुसारिणः स्मरन्ति ।
विश्वास-प्रस्तुतिः
पाशुपता वा किन् न स्मरन्ति,
तेऽपि स्व-दर्शनादर्शकम् अखिल-जगद्-अध्यक्षम् आचक्षते, तथाऽन्येऽपि ।
Buitenen
REFUTATION. But why do the Pasupatas then not agree with their view?
They, too, claim that the Sovereign of the universe is the promulgator of their own system,
and others have the same claims.
मूलम्
पाशुपता वा किन्न स्मरन्ति, तेऽपि स्वदर्शनादर्शकमखिलजगदध्यक्षमाचक्षते तथाऽन्येऽपि ।
विश्वास-प्रस्तुतिः
न च सर्वेऽमी सर्वज्ञा - विरुद्धार्थोपदेशानुपपत्तेः ।
Buitenen
Now they cannot all of them be omniscient,
because then it would be impossible for them to set forth mutually contradictory teachings.
मूलम्
न च सर्वेऽमी सर्वज्ञा - विरुद्धार्थोपदेशानुपपत्तेः ।
विश्वास-प्रस्तुतिः
य एव च वादिनाम् एकस्य वादिनः सर्व-ज्ञ-सिद्धौ हेतुर् भवति
स सर्वेषां साधारणः।
तद् इह बहुषु परस्पर-विरुद्धम् अर्थम् अहम्-अहमिकयोपदिशत्सु
कतमं सर्व-ज्ञम् अध्यवसामः ।
Buitenen
The same ground which allows one among several discussants to prove an omniscient promulgator
must hold equally for all of them.
But which one among the many omniscient beings
who propound mutually conflicting teachings
while claiming each for himself the prerogative of omniscience,
which one do we conclude is the one and only omniscient God?
मूलम्
य एव च वादिनामेकस्य वादिनः सर्वज्ञसिद्धौ हेतुर्भवति स सर्वेषां साधारणः तदिह बहुषु परस्परविरुद्धमर्थमहमहमिकयोपदिशत्सु कतमं सर्वज्ञमध्यवसामः ।
विश्वास-प्रस्तुतिः
यथाऽह -
सर्वज्ञेषु च भूयस्सु
विरुद्धार्थोपदेशिषु ।
तुल्य-हेतुषु सर्वेषु
को नामैको निरूप्यताम् ॥
इति ।
Buitenen
[[36]]
As the (unidentified) text says,
“If there are several omniscient beings who propound incompatible doctrines
and if for each of them the arguments are equally valid,
then whom can we elicit as the true and only one ?”
नरसिंहः
To be identified.
मूलम्
यथाऽह ।
सर्वज्ञेषु च भूयस्सु विरुद्धार्थोपदेशिषु ।
तुल्यहेतुषु सर्वेषु को नामैकोनिरूप्यताम् ॥
इति ।
विश्वास-प्रस्तुतिः
स्वतन्त्राधिगमाधीनं
+++(नाना)+++ सर्व-ज्ञ-परिकल्पनम् ।
परस्-पर-प्रतीघातात्
सर्वाप्रामाण्यम् आवहेत् ॥
Buitenen
When each omniscient being is assumed on the basis of one’s own Tantra doctrine
since the various tantric doctrines are mutually in conflict,
the result will be that none of them is authoritative, !
नरसिंहः
‘स्वतन्त्र’ इत्य् अस्य ‘स्वकीय-तन्त्र’ इत्य् अर्थो विवक्षितः।
मूलम्
स्वतन्त्राधिगमाधीनं सर्वज्ञपरिकल्पनम् ।
परस्परप्रतीघातात्सर्वाप्रामाण्यमावहेत् ॥
विश्वास-प्रस्तुतिः
ननु,
श्रुति-स्मृति-प्रसिद्धेन
वासुदेवेन भाषितम् ।
कथं तन्त्रान्तरैर् एतत्
तुल्य-कक्ष्यां निवेक्ष्यते ॥
Buitenen
44. OBJECTION.
How can the teaching of Vasudeva himself,
who is well-known in Revelation and Tradition,
be brought to the same level as other Tantras?
नरसिंहः
The Mīmāṁsaka anticipates the following argument from the Siddhāntin.
मूलम्
ननु,
श्रुतिस्मृतिप्रसिद्धेन वासुदेवेन भाषितम् ।
कथं तन्त्रान्तरैरेतत् तुल्यकक्ष्यां निवेक्ष्यते ॥
विश्वास-प्रस्तुतिः
तथा हि पौरुषे सूक्ते
श्रूयते तस्य वैभवम् ।
पद्भ्यां भूमिर् दिशश् श्रोत्राद्
इत्य्-आदीदन् तथा परम् ॥
सूर्या-चन्द्रमसौ धाता
यथा-पूर्वम् अकल्पयत्
इति, तथा
स ब्रह्मा स शिव इति,
तद् विष्णोः परमम् पदम् ।
Buitenen
For the manifestation of His power has been revealed in the Purusa Hymn (RV. 10.90 14),
“The earth sprang from his feet,
the quarters of the sky from his ears;”
and again,
“The creator created sun and moon as before;”
likewise, “He is Brahma, he is śiva;” (Mahānār Up 11.12.)
“Visnu’s highest step” (Kath Up. 3.9.)
नरसिंहः
पद्भ्यां … Ṛgveda X. 90.41.
सूर्याचन्द्रमसौ … Mahānārāyaṇa Up. V. 7.
स ब्रह्मा … Ibid. XI. 13.
तद्विष्णोः … Kaṭhopaniṣad III. 9; also Maitrīyopaniṣad VI. 26.
मूलम्
तथा हि पौरुषे सूक्ते श्रूयते तस्य वैभवम् ।
पद्भ्यां भूमिर्दिशश्श्रोत्रादित्यादीदन्तथा परम् ॥
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् इति, ।
तथा स ब्रह्मा स शिव इति, तद्विष्णोः परमम्पदम् ।
विश्वास-प्रस्तुतिः
“न तस्य कश्चित् पतिर् अस्ति लोके
न चेशिता तस्य च नैव लिङ्गम्” ।
इतीरयन्ति श्रुतयोऽस्य भूतिं
जगज्-जनि-स्थेम-पिधान-चिह्नाम् ॥
Buitenen
No one is his lord in this world, no one his commander; he has no sign. (Svet Up. 6.9.)
In this way, the statements of Revelation describe his manifestation
characterized by His origination, maintenance and annihilation of the world.
नरसिंहः
Śvetāśvatara Up. VI. 9.
मूलम्
न तस्य कश्चित् पतिरस्ति लोके न चेशिता तस्य च नैव लिङ्गम् ।
इतीरयन्ति श्रुतयोऽस्य भूतिं जगज्जनिस्थेमपिधानचिह्नाम् ॥
विश्वास-प्रस्तुतिः
विष्णोस् सकाशाद् उद्भूतं
जगत् तत्रैव च स्थितम् ।
स्थिति-संयम-कर्ताऽसाव्
इत्य् आह स्म पराशरः ॥
Buitenen
Similarly, the Tradition:
“From Visnu arose the world, in him does it subsist;
he is the one who causes it to exist and to perish,”
(Visnu Pur. 1.1.31.)
said Parāśara;
नरसिंहः
Viṣṇupurāṇa I. i. 35. This verse declares that Viṣṇu is both the material and the instrumental cause of the universe.
मूलम्
विष्णोस्सकाशादुद्भूतं जगत्तत्रैव च स्थितम् ।
स्थितिसंयमकर्ताऽसावित्याह स्म पराशरः ॥
विश्वास-प्रस्तुतिः
इत्थं तम् एव सर्वेशं मनुर् अप्य् आह, तद् यथा ।
नारायणः परोऽव्यक्ताद्
अण्डम् अ-व्यक्त-सम्भवम् ।इति,
Buitenen
Manu, too, declared that He is the lord:
“Nārāyaṇa is above the unmanifest, and the World-egg is produced by the unmanifest.“93
Buitenen - Notes
Not in Manusmrti; reference perhaps to Manu 1.9-10? I read tatha pi.
नरसिंहः
This verse does not occur in editions of Manusmṛti with the commentaries of Medhātithi and Kullūkabhaṭṭa. Manvarthamuktāvalī of the Kāśī Sanskrit Series, however, has this verse inserted between the 10th and the 11th stanzas of the Ist Chapter.
मूलम्
इत्थं तमेव सर्वेशं मनुरप्याह तद्यथा ।
नारायणः परोऽव्यक्तादण्डमव्यक्तसम्भवम् ।
इति,
विश्वास-प्रस्तुतिः
इत्थं नाना-श्रुति-मुनि-वचस्-सन्तत-स्तूयमान-
ज्ञानैश्वर्यः परम-पुरुषः पञ्च-रात्रं व्यधत्त ।
तच् चेद् एतच् छ्रुति-पथ-परिभ्रष्ट-तन्त्रैः समानं
पातृत्वेन प्रसजति तदा सोम-पस् ते सुरा-पैः ॥ +++(5)+++
Buitenen
This Supreme Person
who is continually praised for His knowledge and supremacy in the statements of Revelation and of the sages
has created Pañcaratra.
If this Tantra is then on a level with Tantras that are apostate from the path of Revelation,
then one might as well reason that a soma-drinker is on a level with a winebeer-drinker,
just because he is a drinker!
नरसिंहः
केवलं तन्त्रत्व-साम्यम् आदाय यदि पञ्चरात्रम् अपि अवैदिकम् इति वक्तुम् उत्सहसे, तर्हि, ते तव प्रीति-पात्रं सोमपो ऽपि, पातृत्व-साम्यम् आदाय, सुरा-पैः समानः प्रसजति
इत्य्-अन्वयः। “समान”-पदं पूर्व-पादाद् अध्याहार्यम्। मीमांसकस्य पूर्व-पक्षित्वाद् अत्र सोम-प-दृष्टान्तः सरस इति च ध्येयम्।
मूलम्
इत्थं नानाश्रुतिमुनिवचस्सन्ततस्तूयमानज्ञानैश्वर्यः परमपुरुषः पञ्चरात्रं व्यधत्त ।
तच्चेदेतच्छुतिपथपरिभ्रष्टतन्त्रैः समानं पातृत्वेन प्रसजति तदा सोमपस्ते सुरापैः ॥
विश्वास-प्रस्तुतिः
नैतज् +++(तन्त्रं)+++ ज्यायः किम् अङ्ग? श्रुतिषु भगवतो न प्रसिद्धा विशुद्ध-
ज्ञानैश्वर्यादि-धर्मास् त्रिपुर-विजयिनस् - तेन यत् किञ्चिदेतत् ।
यद् वा देवस् स एव त्रि-भुवन-भवन-त्राण-विध्वंस-हेतुर्
वेदान्तैक-प्रमाणः कथयति स, कथं वेद-गोष्ठी-बहिः-ष्ठम् ॥
Buitenen
[[37]]
Is this Tantra not superior?
Wherefore, then, are the qualities of immaculate knowledge, supremacy etc. of the Bhagavan
not currently attributed also to the Destroyer of the Three Cities in the texts of Revelation?
Therefore it is absurd to hold the equality of the Tantras promulgated by both.
Or, since He is the God who is the cause of the origination, protection and destruction of the universe
and for whom the entire Vedanta furnishes evidence to the exclusion of anyone else,
how could He promulgate a doctrine that is outside the pale of the Veda?
नरसिंहः
The above argument of the Siddhāntin is refuted by the Mīmāṁsaka.
मूलम्
नैतज्ज्यायः किमङ्ग श्रुतिषु भगवतो न प्रसिद्धा विशुद्धज्ञानैश्वर्यादिधर्मास्त्रिपुरविजयिनस्तेन यत्किञ्चिदेतत् ।
यद्वा देवस्स एव त्रिभुवनभवनत्राणविध्वंसहेतुः ।
वेदान्तैकप्रमाणः कथयति स कथं वेदगोष्ठीबहिःष्ठम् ॥
विश्वास-प्रस्तुतिः
तथा हि भगवतः पशुपतेर् अपि
सार्वज्ञ्य-सर्वैश्वर्यावेदिकाः श्रुतयो
बहुलम् उपलभ्यन्ते -
यस् सर्वज्ञस् स सर्ववित् ।
तम् ईश्वराणां परमं महेश्वरम्
इत्य्-आद्याः ।
Buitenen
45. OBJECTION.
Nevertheless, a fair number of śrutis are found
which ascribe omniscience and omnipotence to lord Pasupati as well:
“He who is allknowing, omniscient;” (Mund Up. 1.1.9.)
“The supreme great sovereign of sovereigns.” (Svet Up. 6.7.)
नरसिंहः
यस्सर्वज्ञः … Muṇḍakopaniṣad: I. i. 9.
तमीश्वराणां… Śvetāśvatara*: VI. 7.
मूलम्
तथा हि भगवतः पशुपतेरपि सार्वज्ञ्यसर्वैश्वर्यावेदिकाः श्रुतयो बहुलमुपलभ्यन्ते यस्सर्वज्ञस्स सर्ववित् ।
तमीश्वराणां परमं महेश्वरम् इत्याद्याः ।
विश्वास-प्रस्तुतिः
सर्व-ज्ञेश्वर-शब्दौ च
न र्ते देवात् पिनाकिनः +++(→तस्मिन्न् अपि)+++ ।
+++(पदार्थ-ज्ञान+-)+++उत्पत्ति-शक्त्या वर्तेते
सत्य् अप्य् अन्यत्र तद्वति ॥
+++(इति प्रत्याक्षेपः।)+++
Buitenen
REPLY. By secondary denotation
these two words “omniscient” and “sovereign” apply
not only to the one who actually is omniscient and sovereign,
but also to others, not excepting God Siva,
who are as it were all-knowing and supreme.
मूलम्
सर्वज्ञेश्वरशब्दौ च नर्ते देवात्पिनाकिनः ।
उत्पत्तिशक्त्या वर्तेते सत्यप्यन्यत्र तद्वति / सर्वज्ञादिनामवत्यपि॥
विश्वास-प्रस्तुतिः
+++(“यस् सर्व-ज्ञः सर्व-वित्”→)+++
किञ्च सर्व-ज्ञ-शब्देन
सर्व-ज्ञे प्रतिपादिते ।
पौनर्-उक्त्यं प्रसज्येत
सर्व-विद्-ग्रहणस्य वः ॥+++(5)+++
अतः सर्वज्ञ-शब्दोऽयं
महादेवैक-गोचरः ।
Buitenen
Besides, if in the above quotation “ya sarvajnah sarvavit”
the word sarvajiia were indeed used to describe the omniscient one,
there would be tautology of sarvavit.
Consequently, the word sarvajia refers only to Mahadeva;
नरसिंहः
The above argument, says the Mīmāṁsaka, is favourable to the Pāśupatas since the text “yassarvajñaḥ sarvavit” (Muṇḍaka: I. i. 9) cannot be properly explained in favour of the Pāñcarātrins. “If the term ‘sarvajña’ be etymologically taken as referring to Viṣṇu, what about the term ‘sarvavit’ ?” he asks. This term too has to be explained as ‘all-knower’, which lands the Pāñcarātrin in the defect of redundance. Therefore, the Pāśupata method of explanation is in sooth, proper : the term ‘sarvajña’ refers to Śiva conventionally, while the term ‘sarvavit’ does so, through etymology.
मूलम्
किञ्च सर्वज्ञशब्देन सर्वज्ञे प्रतिपादिते ।
पौनरुक्त्यं प्रसज्येत सर्वविद्ग्रहणस्य वः ॥
अतः सर्वज्ञशब्दोऽयं महादेवैकगोचरः ।
नरसिंहः
The above argument, says the Mīmāmsaka, is favourable to the Pāšupatas since the text " yassarvajñah sarvavit " ( Mundaka- I. 1. 9 ) cannot be properly explained in favour of the Pañcarātrins.
“If the term ‘sarvajña’ be etymologically taken as referring to Viṣņu, what about the term sarvavit’ ?”
he asks. This term too has to be explained as all-knower’, which lands the Pancaratrin in the defect of redundance of explanation
Therefore, the Pasupata method of explanation is in sooth, proper- the term sarvajña’ refers to Śiva conventionally, while the term ‘sarvavit’ does so, through etymology.
विश्वास-प्रस्तुतिः
तथा च स्कन्द-लिङ्गादि-
पुराणानि पिनाकिनः ॥
उपक्षीणानि सार्वज्ञ्य-
सर्वैश्वर्योपपादने ।
Buitenen
and so the Skanda-Purana, Linga-Purāņa and other Purāņas exhaust themselves
in describing this all knowing and sovereign character of Siva.
मूलम्
तथा च स्कन्दलिङ्गादिपुराणानि पिनाकिनः ॥
उपक्षीणानि सार्वज्ञ्यसर्वैश्वर्योपपादने ।
विश्वास-प्रस्तुतिः
ततश् च तत्-प्रणीतत्वात्
प्रामाण्यम् अनया दिशा ॥
प्राप्तं पाशुपतं तन्त्रं
तत्रान्योन्य-विरोधतः ।
सर्व-तन्त्र-प्रमाणत्व-
विपर्यासः प्रसज्यते ॥
Buitenen
[[38]]
Therefore, since the Pasupata Tantra has been promulgated by this Pasupati,
it acquires authority in this way;
but the reversion of the authority of all Tantras in consequence of their mutual contradictions
applies to this Pasupata Tantra too.
मूलम्
ततश्च तत्प्रणीतत्वात् प्रामाण्यमनया दिशा ॥
प्राप्तं पाशुपतं तन्त्रं तत्रान्योन्यविरोधतः ।
सर्वतन्त्रप्रमाणत्वविपर्यासः प्रसज्यते ॥
श्रुति-विरोधः
विश्वास-प्रस्तुतिः
अपि च भवतु भगवान् वासुदेव एवौपनिषदः पुरुषः,
अथ च स कथम् इव श्रुति-परिपन्थि-तन्त्रम् एतत् प्रणयेतेत्य् उत्प्रेक्ष्येत
य एवम् आह
श्रुति-स्मृती ममैवाज्ञे
इति ?
Buitenen
46. Further, granted that the Lord Vasudeva is the Person known in the upaniṣads,
how then can the theory be held of him that he has promulgated the Pañcarātra Tantra
which conflicts with Revelation of him who said, “Revelation and Tradition are my commands ?’’ (unidentified)
नरसिंहः
The popular reading of the Viṣṇudharma-verse, in which this statement occurs is:
śrutismṛtī mamaivājñā yas tām ullaṅghya vartate
ājñācchedī mama drohī madbhakto’pi na vaiṣṇavaḥ.
But the following reading is found in the printed edition, ch: 76, śl. 31:
śrutismṛtir mamaivājñā tām ullaṅghya yajan śubhe
sarvasvenāpi māṁ devi nāpnotyājñāvilaṅghanāt.
मूलम्
अपि च भवतु भगवान् वासुदेव एवौपनिषदः पुरुषः,
अथ च स कथमिव श्रुतिपरिपन्थितन्त्रमेतत्प्रणयेतेत्युत्प्रेक्ष्येत य एवमाह श्रुतिस्मृती ममैवाज्ञे इति
नरसिंहः
↑ The popular reading of the Viṣņudharma-verse, in which this statement occurs is-
śrutismṛti mamaivājñā
yastāmullaighya vartate ājñācchedi mama drohi
madbhaktopi na vaiṣṇavaḥ.
But the following reading is found in the printed edition, ch- 76, Śl. 31-
śrutissmṛtir mamaivājñā
tāmullanghya yajan subhe
sarvasvenāpi mām devi
napnotyājñāvilaṁghanāt.
विश्वास-प्रस्तुतिः
ततश्च -
वासुदेवाभिधानेन
केनचिद् विप्रलिप्सुना ।
प्रणीतं प्रस्तुतं तन्त्रम्
इति निश्चिनुमो वयम् ॥
Buitenen
Thus we conclude that there has been a deceiver
who assumed the name of ‘Vasudeva’
and under that name composed the Tantra under
discussion.
मूलम्
ततश्च -
वासुदेवाभिधानेन केनचिद् विप्रलिप्सुना ।
प्रणीतं प्रस्तुतं तन्त्रमिति निश्चिनुमो वयम् ॥
मोहनोद्देशः?
विश्वास-प्रस्तुतिः
अस्तु वा समस्तजगदध्यक्षो वासुदेव एवास्य तन्त्रस्य प्रणेता, तथाऽपि -
Buitenen
Or else, suppose that Vasudeva Himself, ruler of the entire universe, was the promulgator of this Tantra; they still say that
मूलम्
अस्तु वा समस्तजगदध्यक्षो वासुदेव एवास्य तन्त्रस्य प्रणेता, तथाऽपि -
विश्वास-प्रस्तुतिः
माया-मोहन-विग्रहेण हरिणा देव-द्रुहां संहतिम्
हन्तुं मोहयता ऽहितान्य् अभिहितान्य् आहुर् हि तच्छद्मना ।
एवं किन् नु नयन् नयन् निज-महा-माया-गुहा-गव्हरम् ।
व्याजह्रे किम् इदं न वेति विशये जाते, कथं निर्णयः ॥
Buitenen
Hari, whose personal manifestations are deceptive
because of his power of illusion,
has promulgated these unholy texts deceivingly
under the guise of holy texts
in order to destroy the whole mass of enemies of the gods.
Now, has he indeed composed this Tantra,
leading the faithful into the mysterious abyss of his grand power of illusion, or not?
This is the question that now arises.
How are we to resolve it?
नरसिंहः
Viṣṇupurāṇa: ( Jīvānanda’s edn. ) Aṁśa : III. chs. 17-18 give the story of Māyāmohana, preaching non-Vedic doctrines to demons, with a view to delude them. Other instances of Viṣṇu assuming different forms out of his Māyā, are to be found in the Liṅgapurāṇa and the Kāśīkhaṇḍa.
मूलम्
मायामोहनविग्रहेण हरिणा देवद्रुहां संहतिम् ।
हन्तुं मोहयताऽहितान्यभिहितान्याहुर्हि तच्छद्मना ॥
एवं किन्नु नयन्नयन्निजमहामायागुहागव्हरम् ।
व्याजह्रे किमिदं न वेति विशये जाते कथं निर्णयः ॥
नरसिंहः
Visnupurāna- ( Jivānanda’s edn.) Arśa- III. chs. 17 - 18 give the story of Mayamohana, preaching non-Vedic doctrines to demons, with a view to delude them. Other instances of Viṣņu assuming different forms out of his Māyā, are to be found in the Lingapurana and the Kāsikhanda.
वैदिकैर् अनङ्गीकारः
विश्वास-प्रस्तुतिः
प्रत्त्युत भ्रमयन्न् एव
व्याजहारेति गम्यते ।
वैदिकैर् अगृहीतत्त्वात्
तथा ऽर्हतमतं यथा ॥+++(4)+++
Buitenen
Or are we rather to understand that
he composed this Tantra
while he himself was in error,
since it is not accepted by the followers of the Veda,
just as the doctrine of the Jainas is not accepted?
मूलम्
प्रत्त्युत भ्रमयन्नेव व्याजहारेति गम्यते ।
वैदिकैरगृहीतत्त्वात् तथाऽर्हतमतं यथा ॥
विश्वास-प्रस्तुतिः
वैदिकापरिग्रहश् च प्राग् एव प्रपञ्चित इति,
तस्मान् न +++(वेदापेक्षया→)+++स्व-तन्त्रानुभव-मूलतया प्रमाणम् ।
Buitenen
That the followers of the Veda do not accept it has been set forth at length above.100
Consequently, then, Pancaratra Tantra is not authoritative
because it derives from the cognition of an independent Person.
Buitenen - Notes
supra § 12.
मूलम्
वैदिकापरिग्रहश्च प्रागेव प्रपञ्चित इति, तस्मान्न स्वतन्त्रानुभवमूलतया प्रमाणम् ।
न मन्वादि-स्मृतिवत्
विश्वास-प्रस्तुतिः
नापि मन्वादि-स्मरणवद् इत्य् - अनुपपन्नं पञ्चरात्रस्मरणम् ।
Buitenen
47. Nor is it proper to argue the validity of the Pancaratra Tradition “like the Manu Tradition etc. 101
Buitenen - Notes
supra §11.
मूलम्
नापि मन्वादिस्मरणवदित्यनुपपन्नं पञ्चरात्रस्मरणम् ।
विश्वास-प्रस्तुतिः
यदि मन्वादिवद् देवः
शुश्रूषा-परितोषितात् ।
आचार्याल् लब्ध-वेदार्थस्
तन्त्रम् एतद् अचीक्लपत् ॥
स्वातन्त्र्य-कल्पना ऽमुष्य
व्यर्था मिथ्या तथा सति ।
Buitenen
[[39]]
If the God has composed the Tantra after having, like manu etc., learnt the meaning of the Veda from a teacher who was satisfied with his pupil’s obedience,
then the assumption that He was independent is purposeless and false.
मूलम्
यदि मन्वादिवद्देवः शुश्रूषापरितोषितात् ।
आचार्याल्लब्धवेदार्थस्तन्त्रमेतदचीक्लपत् ॥
स्वातन्त्र्यकल्पनाऽमुष्य व्यर्था मिथ्या तथा सति ।
विश्वास-प्रस्तुतिः
अनधीतोऽपि वेदोऽस्य
प्रतिभातीत्य् अलौकिकम् +++(ततोऽसम्भाव्यम्)+++॥
तत्र वार्तिककारेण
ये दोषास् समुदीरिताः ।
ते च सर्वे ऽनुसंधेयाः
पुरुषातिशयादयः ॥
Buitenen
It is not borne out by human experience that the Veda was immediately manifest to him, even though he never learnt it. The defects
which the Author of the Varttika enumerates, those of personal superiority and inferiority etc., (Kumarila, Slokavārttika 2.114)
are all to be presumed in the case of Pañcarātra,
नरसिंहः
Vide Ślokavārtika* I. i. 2, śl. 111b, ff.
मूलम्
अनधीतोऽपि वेदोऽस्य प्रतिभातीत्यलौकिकम् ॥
तत्र वार्तिककारेण ये दोषास्समुदीरिताः ।
ते च सर्वेऽनुसंधेयाः पुरुषातिशयादयः ॥