विश्वास-प्रस्तुतिः
यद् अपि धर्म-प्रमाणतया
समस्तास्तिक-जन-परिगृहीतेषु चतुर्-दश-विद्यास्थानेष्व् अपरिगणनं
तद् अप्य् अवैद्कत्त्वे लिङ्गम् -
अन्यथा हीदम् अपि तद्-अन्यतमत्वेन स्मर्येत ।
Buitenen
Again, another indication of its non-Vedic character is the fact
that the system is not included among the fourteen sources of knowledge,
which all orthodox people recognize as giving authoritative information on the Law.
If it were authoritative,
then it would have been recognized as such by tradition;
Buitenen - Notes
fourteen sources of knowledge - namely, the four Vedas, six Vedāngas, the Purāṇas, Mimansā, Nyāya and Dharmaśāstra.
नरसिंहः
Vide Yājñavalkyasmṛti: I. 3:
purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ ।
vedāssthānāni vidyānāṃ dharmasya ca caturdaśa ॥
मूलम्
यदपि धर्मप्रमाणतया समस्तास्तिकजनपरिगृहीतेषु चतुर्दशविद्यास्थानेष्वपरिगणनं तदप्यवैद्कत्त्वे लिङ्गम् अन्यथा हीदमपि तदन्यतमत्वेन स्मर्येत ।
विश्वास-प्रस्तुतिः
न च स्मर्यते,
तद् अवसीयते - “अ-वैदिकम् एवेदं पञ्च-रात्र-स्मरणम्” इति ।
Buitenen
but as it is not so recognized, this proves that the Pañcarātra tradition is non-Vedic.
मूलम्
न च स्मर्यते, तदवसीयते अवैदिकमेवेदं पञ्चरात्रस्मरणमिति ।