विश्वास-प्रस्तुतिः
अपि च तेषां
त्रयी-मार्ग-त्याग–पुरस्-सरः सर्व-धर्मोपदेश
इति स्व-वाक्यान्य् एव उपख्यापयन्ति
Buitenen
Besides, their own texts relate that
the instruction in all their dharmas
presupposes the abandoning of the Way of the Veda;
मूलम्
अपि च तेषां त्रयीमार्गत्यागपुरस्सरः सर्वधर्मोपदेश इति स्ववाक्यान्येव उपख्यापयन्ति
विश्वास-प्रस्तुतिः
चतुर्षु वेदेषु परं श्रेयोऽलब्ध्वा
शाण्डिल्य इदं शास्त्रमधीतवान्
इत्यादीनि
Buitenen
“having failed to find the supreme good in the four Vedas,
Sandilya learnt this doctrine….”
नरसिंहः
This objection is raised by Śaṅkara in his commentary on the Brahma-sūtra: II. ii.45: “vipratiṣedhācca”. Cf. his commentary: “vedavipratiṣedhaśca bhavati; ‘caturṣu vedeṣu paraṃ śreyo’ labdhvā śāṇḍilya idaṃ śāstramadhigatavān’ ityādivedanindādarśanāt”, etc.
मूलम्
चतुर्षु वेदेषु परं श्रेयोऽलब्ध्वा
शाण्डिल्य इदं शास्त्रमधीतवान्
इत्यादीनि
विश्वास-प्रस्तुतिः
तद् इह
कथं चतुर्णाम् अपि वेदानां निश्रेयस-साधनावबोधकत्व-व्युदासेन आरभमाणः
तत्-प्रसादावगतम् +++(मोक्षाख्यम्)+++ अर्थं
पुम्-अर्थतया कथयतीत्य् उत्प्रेक्ष्येत ?+++(5)+++
Buitenen
But how can we presume that a certain text can teach that a certain object,
which is known from the four Vedas,
is man’s supreme goal in life
if he rejects at the outset the very authority of the Vedas as sources of knowledge
about the means which lead to bliss?
मूलम्
तदिह कथं चतुर्णामपि वेदानां निश्रेयससाधनावबोधकत्वव्युदासेन आरभमाणः तत्प्रसादावगतमर्थं पुमर्थतया कथयतीत्युत्प्रेक्ष्येत ।
विश्वास-प्रस्तुतिः
मन्व्-आदयो हि
विवक्षित-सकल-समीहित-साधनावबोधकम्
आगमैक-मूलम् अभिदधाना दृश्यन्ते ।
Buitenen
On the contrary,
we find that Manu and other authors of Traditions
declare that their works which expound as their teaching the means of attaining all kinds of desirable ends
derive solely from Scripture:
मूलम्
मन्वादयो हि विवक्षितसकलसमीहितसाधनावबोधकमागमैकमूलमभिदधाना दृश्यन्ते ।
‘वेदो धर्म-मूलं’, ‘तद्-विदां च स्मृति-शीले’
नरसिंहः
Gautamadharmasūtra: I. 1-2.
विश्वास-प्रस्तुतिः
वेदोऽखिलो धर्ममूलं
स्मृतिशीले च तद्विदाम् ।
Buitenen
“The Veda in its entirety is the basis of the Law,
as well as of the traditions and customs of those who are expert in Law”;
नरसिंहः
Manusmṛti: II. 6a.
मूलम्
वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
विश्वास-प्रस्तुतिः
श्रुतिस्मृतिविहितो धर्मः ।
Buitenen
“the Law is enjoined by Scripture and Tradition”;
नरसिंहः
Vasiṣṭhasmṛti: I. 2.
मूलम्
श्रुतिस्मृतिविहितो धर्मः ।
विश्वास-प्रस्तुतिः
स सर्वो ऽभिहितो वेदे
सर्व-ज्ञानमयो हि सः ।
इति च ।
Buitenen
“it is entirely expressed in the Veda;
for the Veda contains all knowledge.”
नरसिंहः
Manusmṛti: II. 7b.
मूलम्
स सर्वोऽभिहितोवेदे सर्वज्ञानमयो हि सः ।
इति च ।