प्रपत्तिः
वासुदेव-रघुपति-कृतायां मोक्षोपाय-प्रदीपिकायां -
विश्वास-सम्भवाद् गोप्तृत्व-वरणम्
इति विष्णुबलौ साङ्गत्वेन न्यासविद्या पतिपादिता।
इति यद् उक्तम्, तत्राङ्गिपूर्तिः सन्देहास्पदम्।
पृथक्-प्रपत्ति-प्रयोग उक्त आह्निकामृते वासुदेवकृते।
स्रोतांसि
-
गृह्य-सूत्राणि -
- tAtparya-chintAmaNI with दश-विध-हेतु-निरूपणम् of shrInivAsa-makhI.
-
vaikhAnasa-dharma-sUtram, nRsiMha-vAjapeyi’s commentary
-
vaikhAnasa-matra-prashna’s pAramAtmikopaniShad-bhAShya by shrInivAsa-yajvA.
-
uttama-brahma-vidyA-sAra of sundararAja
-
brahma-sUtra-bhAShya of shrInivAsa-makhI, with subcommentary by sundararAja
-
श्रीनिवास-दीक्षितेन गीताभाष्यमपि प्रोक्तमासीत्, तदिदानीम् नोपलभ्यते इति रामकृष्णार्यः।
-
vaikhAnasa-vijaya by uttamUr-vIrarAghavAchArya, endorsed by several prominent vaikhAnasa-s and even kAnchI jayendra-sarasvatI
-
Agama-vimarsha by Prof viShNu bhaTTAchAryulu of tirupati CSU, Agama advisor to TTD temple
श्रीनिवास-मखी
श्रीनिवास-मखी रामानुजापेक्षया प्राचीन इति बहु-वैखानस-ग्रन्धोद्धरकस्य पार्थसारथि-कृष्णमाचार्य-वार्यास्य मतम्।
तत् सन्देहास्पदम् - रामानुजीयानुकृति-भागे यथोक्तम्।
अस्य प्रशस्तिः -
श्री-वैखानस-वेदान्त-देशिक– सर्व-तन्त्र-स्वतन्त्र–श्रीनिवासाध्वरीन्द्र
इति ।
श्रीनिवास-यज्वा
पारमात्मिकोपनिषद्-व्याख्याता श्रीनिवास-यज्वा वेङ्कटनाथार्योपज्ञं न्यास-दशक-श्लोकम् उदाहरति -
स्वामिन् (→स्वामी) स्व-शेषं स्व-वशं
स्व-भरत्वेन निर्भरम् ।
स्व-दत्त–स्व-धिया स्वार्थं
स्वस्मिन् न्यस्यति मां स्वयम् +++(प्रधान-कर्ता सन्)+++ ॥
अतस् ततो ऽर्वाचीन इति भाव्यम्।
तद्-वारणार्थं केचेत् तं श्रीनिवासमखिनो भिन्नम् आहुः?
तस्य प्रशस्तिश् च -
श्रीमत्कौशिकगोत्रेण गोविन्दाचार्यसूनुना वेदान्त-देशिक- श्रीनिवासयज्वना
इति ।
श्रीवैष्णवैः सम्बन्धः
भावः
“अस्माकीना वैष्णवा” इति सद्भावम् अनतरा,
काचिद् असूयाऽप्य् अस्ति तेषु देशिक-सम्प्रदायस्थ-श्रीवैष्णवान् प्रतीति भाति।
लोकाचार्यानुगेभ्यश् च भयम् “स्वलोकशक्त्या ऽस्मान् बलात्कारेणानभिमतं कारयेयुर् उत्पाटयेयुर् वे"ति।
(क्वचिद् इयम् भीर् अस्ति चेद् अलम् -
४०००-परिवारत्मकं लघु-समुदायम् भाययितुम्)
न ते वेङ्कटनाथाद्य्-उक्तं विरुध्यन्ति -
प्रत्युत “अस्माभिर् एवेदम् प्रथमम् अभिहितम्। वयं च स्वतन्त्रा” इति तेषाम् आग्रहः।
ततः,
“रामानुजात् प्राग् अवर्तत श्रीनिवासमखी, नानुकरणसन्देहो युक्तः” इति सन्देहास्पदं कथयन्ति, शाङ्करांश् च श्रीवैष्णव-विरोधिनो न प्रतिवदन्ति।
रामानुजीयानुकृतिः
बहुत्र श्रीनिवासमखिनो ऽभिप्राया रामानुजतुल्या एव भान्ति।
“वेदान्त-देशिक- श्रीनिवासयज्वा” इत्यादिष्व् अपि
“वेदान्त-देशिक”-संज्ञा वेङ्कटनाथानुकरणेनैव सिद्धा ।