+++(अत्र रामानुजमतम् प्रतिपाद्यते। )+++
परिचयः
सत्-ख्यातिर् नामायं वादः -
“शुक्तौ रजतम्” इत्यादिषु भ्रमेषु रजतादि-सद्-अंशस्यैव ग्रहणं,
किन्तु न तद् व्यवहार-योग्यम् अल्पत्व-स्थानान्तरत्वादि-कारणेभ्य इति यावद् एव भ्रमः ।
उल्लेखाः
अत एव शुक्तिकादौ (शुक्तिकायां) रजताशंस्य विद्यमानत्वाज्
ज्ञान-विषयस्य सत्यत्वम् ।
इति यतीन्द्रमतदीपिकायाम्।
तत्राण्णङ्गरार्यः -
शुक्तौ तु रजतं सद् अपि न विनियोगार्हम् ।
विस्तारो यतीन्द्र-मत-दीपिकायां सटीकायाम् भवति ।
नाम - स्वरूपे विषये च नास्ति भ्रमः, अपि तु व्यवहार-स्तरे।
प्रयोजनम्
“सर्वं ज्ञानं सत्यम्।” इत्य् अनेन निरूपयितुम् इष्टम्।
तेन च शाङ्कराणां “जगत् प्रतीयमाना मिथ्ये"ति वादस्य निरास इष्टः।
आक्षेपः
यथार्थख्यातिर् इह वर्णिता
आधुनिक-भूत-शास्त्र-ज्ञैर् नाङ्गीकारार्हा बहुत्र।
यथा - न हि शुक्तौ रजतांश-ग्रहणेन रजत-भ्रमो जायते -
यतः शुद्धे रजतेतर-वस्तु-निर्मिते ऽपि
तादृशो भ्रम उत्पाद्यः।
यथा च - न हि मरीचिका वायौ जलांशग्रहणतो जायते,
अपि तु तप्त-वायु-कृत-refraction-कर्मणा।
एवम् असद् एव जल-रजतादि गृह्यते बहुत्रेति सिद्धम्।
परिहारः
एषु स्थानिषु सर्प-रज्जु-भ्रमवत् साधारण-धर्मः कश्चन गृहीतो,
न विशेष-धर्मान्तरम् इति समाधातव्यम्।