निर्गुणादि

निर्गुणम्

  • सर्व-गुण-रहितम्, निर्विशेषम् इति शाङ्कराः, बौद्धाश् च।
    • प्रथम-क्षणे निर्विशेषम् एव वस्तु गृह्यते, तद्-अनन्तरम् एव गुणा गृह्यन्तय् इति तेषां कु-कल्पनम्।
      • वितथं तु तत् - न किञ्चित् तादृशं वर्तते - “This statement is false” इतिवन् निरर्थकः प्रयोगः।
  • सत्त्व-रजस्-तमो-गुण-त्रयावश्य इत्य् उपनिषदः। अनेन हेय-गुण-राहित्यम् उच्यते। श्रुति-सिद्धं ब्रह्मणि कारुण्यम्, जीवय् आनन्द इत्यादि न वर्ण्यते ऽनेन।
    शङ्करोऽपि गीताभाष्ये क्वचित् - निर्गुणं सत्त्वरजस्तमांसि गुणाः तैर् वर्जितं तत् ज्ञेयम्; तथापि गुणभोक्तृ च
  • रूप-रस-गन्ध-स्पर्शादिभिर् अग्राह्य इति वैखानसः प्रयोगः - पाञ्चरात्रिकादिभिर् अन्तर्यामि-रूप-सङ्गतः।
  • स्वरूप-निरूपक-धर्माः (→सत्यं ज्ञानम् अनन्तम् ब्रह्म), निरूपित-स्वरूप-धर्मान् अन्तरा (→“यस्य पृथिवी शरीरम्” इति सृष्टेः परम्) । सन्त्येव स्वरूप-निरूपक-गुणाः। बहूनां गुणसमूहानां लक्षणत्वे सति, अयं विभागः प्रायेण यादृच्छिकः।
    • सगुणापेक्षया धान्ये दुर्-ग्राह्यम् इदम्, भूषण-परिवारादि-राहित्यात्।

निष्कलम्

  • आकाशवन् निरवयव इत्य् अर्थे वैखानसैः प्रयुज्यते। हृदयादि-परिच्छिन्नं तद् एव सकलम् इति वीरराघवार्यः।

अव्यक्तम्

  • बीज-निभम्, यस्मिन् पत्र-पुष्प-फलादि न व्यक्तम्। किञ्च, आम्रबीजान् न पनस-वृक्षो जायतय् इति “अन्-अन्त-विशेष-गर्भितम्, न निर्विशेषम्”
विस्तारः (द्रष्टुं नोद्यम्)

… जगन्-मूल-बीज-भूतं तद् आत्म-तत्त्वम्
अन्-अन्त-विशेष-गर्भितम्,
न निर्विशेषम् ।+++(5)+++
एतादृश-विचित्र-चिद्–अ-चित्-प्रपञ्चस्य मूलं तत्त्वं
कथं निर्विशेषं स्यात् ?
यथा विचित्र-शाखा-पत्र-पुष्प-फलात्मकाम्र-वृक्ष-रूपेण परिणामानुकूल-शक्ति-विशेष आम्र-बीजे स्वीक्रियते ।
अन्यथा तस्माद् यदि पनसोऽपि स्यात्,
तदा बीजं निर्विशेषं स्यात् ।