जडत्व-चेतनत्वे

स्वरूप-स्थिति-प्रवृत्तयः

तत्त्वानां लक्षणार्थम् प्रयुज्यन्ते स्वरूप-स्थिति-प्रवृत्तयः।
स्वरूपं/ सत्ता स्वासाधारण-धर्म-निरूपणीयो धर्मी
स्थितिः नित्यतादि।
सजातीयावस्था-सन्तत्य्-अनुच्छेदवत्तया कानिचित् प्रवाहतो नित्यानि।
प्रवृत्तिस् तु व्यापारः।

प्रकाश-भेदाः

अस्मिन् भागे दीप-प्रकाश-रूपकं ग्राह्यम्।

अजडत्वम्/ स्वयं-प्रकाशत्वं
+++(इन्द्रिय-जन्यादि-)+++ज्ञानान्तरं विनैव भानम्।
जडत्वम् परतः-प्रकाशत्वम् = +++(इन्द्रिय-जन्यादि-)+++ज्ञानान्तर-सापेक्ष-प्रकाशत्वम् ।

प्रत्यक्त्वं स्वस्मै स्वयं-प्रकाशमानत्वम् +++(इत्य् अजडत्व-प्रभेदः)+++।

पराक्त्वम् / परेषाम् एव भासमानत्वं
स्व-प्रकाश-साध्य–+++(वाग्-आदि-)+++व्यवहार-रूप-प्रयोजन-शून्यत्वम् ।

वरदाचार्य-कृत-तत्त्व-विभागो दृश्यः

जडम्, तत्-सृष्टिः

परतो भासमानं जडम्।
जडं द्विविधम् - कालः, प्रकृतिश् च।
प्रकृतेः पर्यायशब्दाः - नित्या, अक्षरा, अविद्या, माया। स्वरूपतो नित्या हि।
तस्या भगवत्-सङ्कल्पाधीन-गुण-वैषम्यात् कार्योन्मुखावस्था ऽव्यक्त-शब्देनोच्यते ।
सत्त्व-रजस्-तमो–रूप–गुण-त्रयाश्रय-रूपा प्रकृतिः
गुण्हवैश्यम्यवती त्रिविधा प्रकृतिः →
महत् (बुद्धिः), यस्य सात्त्विक-राजस-तामस-भेदाः →
अहङ्कारः , यस्य सात्त्विक+++(=वैकारिक)+++-राजस+++(=तैजस)+++-तामस+++(=भूतादि)+++-भेदाः।

सात्त्विकाहङ्कारात् → मनः, ५ ज्ञानेन्द्रियाणि, ५ कर्मेन्द्रियाणि।

राजसाहङ्कार-सहकृतात् भूतादि-सञ्ज्ञक-तामसाहङ्कारात् -
शब्द-तन्मात्रम् → आकाशः → स्पर्श-तन्मात्रम् → वायुः → रूप-तन्मात्रम् → अग्निः → रस-तन्मात्रम् → जलम् → गन्ध-तन्मात्रम् → पृथ्वी।
तन्मात्राणि तत्-तद्-गुणवन्ति - किञ्च पूर्ण-पाक-रहितानि।
इत्थम् आकाशय् १ गुणः, वायौ २, अग्नौ ३, जले ४, पृथिव्यां ५।
तत्-तद्-गुणैः ५ भूतान्य् एवेन्द्रिय-ग्राह्याणि।

इत्थं प्रति-लीला-विभूति-स्थ-जीवम् - २४ तत्त्वानि - प्रकृतिस् तद्-विकाराश्च (५ तन्मात्राणि भवन्ति न वेति यावन् न स्पष्टम्)। शरीर-विभागोऽस्य विस्तारः।

कालं जीवं ब्रह्म च परिगणय्य २७-विधानि भवन्ति।

ज्ञानम्

ज्ञानं द्रव्यम् अस्मिन् मते।

ज्ञानत्वं कस्यचिद् वस्तुनः प्रकाशत्वम्
वस्तुनः प्रकाशत्वं +++(वाग्-आदि-)+++व्यवहार-हेतुः।
अत्र विषयो नाम प्रकाश्यमानं वस्तु।

ज्ञानम् अजडम्, पराक् च -
उत्पन्ने सति, स्वाश्रयम् प्रति ज्ञानान्तरं विनैव भासते।

ज्ञानस्य आश्रयः

अ-जडेष्व् आत्मनो लक्षणं
चेतनत्वं प्रत्यक्त्वं च ।
विषयत्वं तु न भवति।
तत्र चेतनत्वं ज्ञातृत्वम्।
अजडस्य चेतनस्योदाहरणं जीवात्मानः, परमात्मा च।
स्वयम्-प्रकाशकत्वेन, आत्मा ऽजडः

चेतनम् एव ज्ञानस्य फली भवति।

आत्म-भानम्

आत्मनि “अहम्” इति प्रतीतिं य उत्पादयति,
स प्रत्यज्-ज्ञानांशो धर्मि-भूत-ज्ञानम् इत्य् अपिय् उच्यते -
अथवा, आत्मैव स इति वक्तुम् अलम्।

एकत्वम्, प्रत्यक्त्वम्, आनुकूल्यम् इत्य् आत्मनो भानम्।
जीवस् तु नेन्द्रिय-ग्राह्यः।

जीवश् च सुषुप्तीतरावस्थायां
विषयान्तर-ग्रहणे हि भात्य् “अहं” शब्देन -
यथा - “अहं खादामि। मया सुषुप्तम्”।
एवं तादृशावस्थासु तावत् सन्तत आत्मानुभवो न भवति,
यावत् सन्ततो विषयानुभवो भगवद्-अनुभवो वा - यतस् ताव् मनस्-सहित+इन्द्रियावलम्बिनौ।

कैवल्ये त्व् आत्मानुभवो निरन्तरः।
ततश् च तत्र जीवानुभव-सुखम् महद् इति शास्त्रम्।

धर्म-भूत-ज्ञानम्

तद्-इतरं धर्म-भूत-ज्ञानं
परस्मै (स्वाश्रयं प्रत्य् एव) स्वयं प्रकाशते,
प्रयत्नावस्थया शरीरादि प्रेरयत्य् अपि।

ईश्वरोऽप्य् आत्मान्तर-धर्म-भूत-ज्ञान-प्रकाशं न लभते -
तन्-मनो-गतम् अनुमानत एव ज्ञेयं तेनापि।
किञ्च, प्रपत्तौ महाविश्वास-मानं कथं स्यात्? अनुमानेन??
मुक्ताश् च कथम् ईश्वराभिप्रायं निश्चप्रचं जानन्ति?
एवं भक्ति-योग-निष्ठेष्व् अन्तिम-प्रत्ययं तूत्पादयितुं क्षमः।

प्रत्येकस्य +++(दीपवद् वर्तमानस्य)+++ जीवस्य भिन्नं (प्रकाशवद् वर्तमानं) धर्म-भूत-ज्ञानम्।
+++(अबाधित-)+++विषय-प्रकाशे सत्य् एव
स्वयम् अपि स्वाश्रयम् प्रति काशते।

भोगः, प्रयत्नः

धर्म-भूत-ज्ञानं बद्ध-दशायां भ्रमात्मकम् अपि स्यात्।
इदं हि वस्तूनाम् आनुकूल्यम् प्रातिकूल्यं च ज्ञापयति।
प्रयत्नावस्थायां क्रियाम् उत्पादयति ।

इन्द्रिय-बाधा

प्रायेण त्व् इन्द्रियाशक्ति-रूप–तिरस्-करिण्या दीप-प्रकाश इव बाध्यते -
केषुचिद् एव विषयेषु भाति।
एवं विषयभेदात्
नित्यस्यापि तस्य परिवर्तनं सम्भवति -
धर्म-भूत-ज्ञानत्वं तु नित्यं तिष्ठति।

जीव–मूल-प्रकृति–महद्-अहङ्कार–मनो–दशेन्द्रिय–
शब्दादि-तन्मात्र–पञ्च-भूत इति २४ तत्त्वेषु
बद्ध-जीवैर् भौतिकान्य् एव वस्तूनीन्द्रिय-गम्यानि,
शिष्टं योगि-प्रत्यक्षादिना शब्देन वा ज्ञेयम्।
(बद्धा-)देवा अपि कारणभूतम् अविकृतं ब्रह्माण्डाद् बहिर्-भूतं मूल-प्रकृति-तत्त्वं न साक्षात्-कर्तुं क्षमा
इति गार्गि-संवादे ज्ञायते।

जड-वस्तुषु निक्षिप्त-जीवेषु धर्म-भूत-ज्ञानम् पूर्णतः सङ्कुचितम् भवति-
पाषाणवन् नानुकूल्यस्य प्रातिकूल्यस्य वाऽनुभूतिः।

अ-बद्ध-दशायां तु धर्म-भूत-ज्ञानं नित्यं, विभु च -
सर्वम् अपि विषयम् प्रकाशयति।
अबाधित-दीप-प्रकाशवत् सर्वेषु विषयेषु काशते।
मुक्तादीनां सर्वज्ञत्वं भवति -
भविष्यज्ञानं तु न भवति।
भगवान् स्वसङ्कल्पेन ननु यदृच्छया परिवर्तयितुं शक्नोति।

जीव-बन्धः

जीवो बद्धो मुक्तो नित्यो वा।

बद्धस्य +++(सूक्ष्म-)+++शरीरं सेन्द्रियं भवतीति,
इन्द्रिय-कृत-शक्ति-सङ्कोच-कारणेन
तस्मै इन्द्रिय-संसर्ग-रहितानि जड-वस्तूनि, परस्मै-स्वयम्-प्रकाशकानि वैकुण्ठादीनि चाप्य्
अगोचराणि भवन्ति।

जडेषु निक्षेपः

सर्वस्मिन्न् अपि नाम-रूप-भाजि -
घटादाव् अ-शरीर-प्रायेऽपि
जीवो वर्तत
इति वेद-वाक्येभ्यः -

“हन्ताहम् इमास् तिस्रो देवता +++(→तेजो-जल-पृथिवीः)+++
अनेन जीवेनात्मना ऽनुप्रविश्य
नामरूपे व्याकरवाणि”

इति ।

नामरूपभाक्षु जीवम् अनु भगवान् प्रविशतीति श्रुतिः।
किन्तु तत्र तत्राचेतनस्य परमाण्व्-आदेर् नास्ति शरीरत्वं जीवापेक्षया -
तत्र तत्र वर्तमताऽपि जीवेन स्वार्थे नियन्तुम् अशक्यत्वात्।

मृत्कणैर् निर्मिते घटे
पूर्वम् एव कण-गत-जीवास् स्युर् इति
घट-नाम-भाजि वस्तुनि
श्रुत्य्-अनुसारेण पूर्वम् एव वर्तन्ते जीवाः।
एतावता श्रुतिस् सार्था -
घट-निर्माण-क्षणे नूतन-जीव-प्रवेशस्य कल्पनस्यापेक्षा नास्ति।

When planaria is cut into two pieces, each piece has the remarkable ability to regenerate into a complete new organism.

शरीरविभागे कश्चनात्मा +एकस्मिन् भागे शरीरी जात इति।

Consider a dead body of a man. Now that particular atma of the man has left the body so only we call him a dead body.

शरीरात् शरीरिण उत्क्रान्तिं हि मृतिं विदुः।
अन्ये तत्र वर्तमाना आत्मानो नाम-रूप-व्याक्रिया-साधनानि न तच्-छरीरिणः।

जड-सम्बन्ध-प्राप्तिः

अनादि-कर्म-युक्तास् नाम-रूपानर्हास् सूक्ष्मावस्थास्थ-जीवा लीलाविभूतौ शरीर-सम्बन्धं यल् लभन्ते,
तद् एव तेषां सृष्टिर् उच्यते।
तद्-विपरीतं लयः।

कर्मानुसारेण जीवस्याश्रयो
घटादि वा, वृक्षादि वा, तिर्यग् वा, मनुष्यो वा स्यात्।
तद्-अनुसारेण तस्य जीवस्य धर्म-भूत-ज्ञान-सङ्कोचो भवति।

किञ्च, घटादौ वर्तमानो जीवो
घटादिना न शरीरि-शरीर-भावेन वर्तते।
ततो घट-च्छेदे न तत्रत्य-जीव-पीडा।

स्वर्गाच् च्युता जीवा
वृष्ट्या विरलतया व्रीह्यादि प्राप्य,
विरलतया पुनर् योग्यं पुरुषं प्रविश्य
तद्-रेतसा स्त्रियम् प्रविश्य
विरलतया जन्म लभन्त
इति वेदोक्त्या कल्पनम्।

शरीराणि

शरीर-लक्षणाद्य् अन्यत्रोक्तम् (“जीवानां शेषत्वादि” इति पत्रे)।
शरीर-घटक-तत्त्वानि सूक्ष्म-शरीरे यथा।

यथोक्तम् ऊर्ध्वम् - शरीरं शिलाद्य् अपि स्यात्।

सङ्ख्याऽनियमः

एकस्य जीवस्य नैकानि शरीराणि भवितुम् अर्हन्ति -
यथा कथासु सौभरेर् ऋषेः,
शेषस्य पर्यङ्काच्छादनादिभूतस्य।

अशरीरम् अपि जीवस् स्यात्।

मानुषत्वम्

मानुष-शरीरं विशिष्टम् आहुः-

विचित्रा देहसम्पत्तिरीश्वराय निवेदितुम् ॥ ३३।३५ ॥
कल्पिता ब्रह्मणा पूर्वं +++(जप-पूजादि-योग्य-)+++हस्तपादादिसंयुता ।
मुधैव जिह्वा कृष्णेति केशवेति न वक्ष्यति ॥ ३३।३६ ॥
मुधा चित्तं नतद्गामि यदन्यत्किमितो ऽधिकम् ।

सूक्ष्म-शरीरम्

सूक्ष्म-शरीरम् = प्राणाः + इन्द्रियाणि + ५-भूत-सूक्ष्माणि + बुद्धिर् + अहङ्कारः।
अहङ्कारो नानाभिमान-कारणम्।

विस्तारः (द्रष्टुं नोद्यम्)

मऱ्ऱुम् तत्त्वङ्गळिलॆण्णिऩ अहङ्कारम् विवेकमात्रत्ताऱ् कऴिवदॊऩ्ऱऩ्ऱु।
सूक्ष्म-शरीरम् विडुम् अळवुम्
इवऩैत् तॊऱ्ऱिक् किडक्कुम्।

इति वेङ्कटनाथः।

निर्याणम्

स्थूल-शरीर-त्यागे कस्याश्चन नाड्या निर्याति सूक्ष्म-शरीरम्।
एकतमया नाड्या त्व् अर्चिर्-आदि-मार्गेण वैकुण्ठम् प्राप्नोति।

कैवल्यम्

कैवल्य-भोगत्तिऱ्‌कु करण-कलेवर-प्रेरणायास-रूप–दुःख-मूलत्वम् इल्लै;
दुःख-मिश्रत्वम् उम् इल्लै.
पञ्चाग्नि-विद्या-निष्ठन्-उडैय कैवल्यानुभवत्तिऱ्‌कु दुःखोदर्कत्वम् उम् इल्लै.

इति सारबोधिनी।

कैवल्यम् अनित्यम् इति वेङ्कटनाथार्यः -
आत्म-स्वरूप-ज्ञाने सति, संसारित्वे ऽनिवृत्ते च, कदाचिन् मुमुक्षा सम्भवेत्,
ततः कैवल्यवान् उपायम् अनुष्ठाय
मुक्तिम् आप्नुयाद् इति।

कैवल्य-भाजां जरा-मरणाद्य्-अभाव उक्तः सापेक्षः -
महाप्रलये तच्छरीर-नाशो भवत्य् एव।

भोगाः

अ-बद्धावस्थायां जीवस्येश्वरस्य च
सकलं सविभूतिकं / सशरीरम् ब्रह्म भोग्यम् भवति।
सर्वम् अपि तदा ऽऽनुकूल्येनैव प्रतिभाति।

बद्धावस्थायाम्

बद्ध-जीवानाम् भोगा इन्द्रिय-द्वारा भवति।
इन्द्रिय-शक्तयस् तु परिमिताः,
तेन तादृश-भोगोऽपि परिमितः।

मन-इन्द्रियस्य त्व् इतरापेक्षया ऽल्पतरा परिमितता।
स्मृति-रूपा भक्तिस् तद्-आधारेण वर्तत इति
भगवद्-भोग्यत्वातिशयो बद्धावस्थायाम् अपि।

पुनर् बद्धावस्थायां भोगास् स-व्यवधानाः।

ऐश्वर्यम् अप्य् अन्तत इन्द्रिय-द्वारैव सुखं जनयति।

मोक्षः

मोक्षस्येदं रूपम् -
सर्व-कर्म-संक्षयात् प्राकृत-शरी-त्यागात् परं वैकुण्ठ-प्राप्तिः,
तत्र सविभूतिक-भगवद्-अनुभवः,
यथापेक्ष-शुद्ध-सत्त्वमय-शरीर-लाभेन भगवत्-कैङ्कर्यम्।

शरीरम्

यथापेक्ष-शुद्ध-सत्त्वमय-शरीर-लाभो भवति।
केचिन् मुक्ताः स-शरीराः, केचिद् अशरीराः, केचिद् बहुशरीरा - “स एकधा भवति त्रिधा भवति पञ्चधा भवति सप्तधा” इत्यादिश्रुतेः । ब्रह्मसूत्रे ऽपि निश्चितम् -

अभावं बादरिर् आह ह्य् एवम् । ४,४.१० ।
भावं जैमिनिर् विकल्पामननात् । ४,४.११ ।
द्वादशाहवद् उभयविधं बादरायणो ऽतः । ४,४.१२ ।

मुक्तौ विकासः, शुद्ध-सत्त्वम्

मुक्तौ जड-विषयक-धर्म-भूत-ज्ञानस्य लीला-विभूति-व्यापी विकासो यो भवति,
तद् अतिरिच्यापि कश्चन विकासो भवति शुद्ध-सत्त्व-ज्ञानात्मना ।
अनेन ज्ञानेन सूच्यमानानि वस्तूनि वैकुण्ठ-स्थ-मण्डपादीनि
शुद्ध-सत्त्व-निर्मितानीत्य् उच्यन्ते।

तादृशं वस्त्व् अचेतनम् अजडम् (धर्म-भूत-ज्ञानवत्) -
यस्य “परस्मै-स्वयम्-प्रकाशकत्वम्” भवति।

धर्मि-ज्ञानवत् शुद्ध-सत्वस्य स्व-विषयकत्वम् (स्व-प्रकाशकत्वम्) अस्ति।

शुद्ध-सत्त्वं ज्ञानात्मकम् अजडम्।
तस्य ज्ञानस्य कश्चनाश्रयस् स्यात् चेतनात्मकः खलु?
स आश्रय ईश्वर-नित्य-मुक्ताः स्युः खलु?? एवं तर्हि शुद्ध-सत्त्वं सर्वेषाम् एषां धर्मभूतज्ञानस्याङ्गं सम्पन्नम्, यन् न प्रत्येकस्मै भिन्नम्।

अ-बद्धात्मनो धर्म-भूत-ज्ञानम् = लीलावि-भूति-विषयकं धर्मभूतज्ञानम् + शुद्ध-सत्त्वम् + व्यक्ति-गतानुमानादि ।

अ-जडत्व-वैयर्थ्य-पक्षः

वेङ्कटनाथार्यस् तु -

नित्या भूतिर्, मतिश्+++(→धर्म-भूत-ज्ञानम्)+++ चेत्य् अपरम् +++(→पराक्)+++

इति तत्त्वमुक्तकलापे शुद्ध-सत्त्व–धर्म-भूत-ज्ञनयोर् भेदं वक्ति।

न्यायसिद्धाञ्जने च -

बन्ध-रहितानां मति-वैभवे सत्य् अपि
सा तन्-निरपेक्षा; आत्म-स्वरूपवत् ।
ज्ञान-विषयत्वेऽपि स्वयं-प्रकाशत्वम् अप्य् अन्यत्राप्य् अभ्युपगतम् ।

रहस्यत्रयसारे च-

एतदीये धर्म-भूत-ज्ञाने दिव्यात्म–स्व-रूप–प्रभृतिकं सर्वं विषयी-कुर्वाणे सत्य् अपि
इदं दिव्यात्म-स्व-रूपं यथा स्वयं-प्रकाशं भवति,
तथेदम् अपि स्वयं-प्रकाशं भवितुम् अर्हति ।
(रहस्यत्रयसारः नीलमेघार्यानुवादः)

अस्मिन् पक्षे स्वयम्-प्रकाशत्वं निष्प्रयोजकम् एव -
स्वयम्-प्रकाशत्वम् अन्तरापि नित्यमुक्तादिभिर् अधिकारिभिस् तत्-तज्-वस्तु-ज्ञान-लाभतः।
यदि प्रकाशत्वम् अव्यवहित-वाग्-आदि-प्रवृत्ति-हेतुत्वम्,
तर्हि, शुद्ध-सत्त्व-गतोऽयम् प्रकाशः कस्य नाम प्रवृत्तेर् हेतुर् इति वक्तुं शक्यम्
(तद्-अन्तरैव धर्म-भूत-ज्ञानेन प्रवृत्तेस् सिद्धत्वात् )?

“घटः” इति ज्ञानं स्पर्शतो दृष्टिचश् चापि धर्म-भूत-ज्ञान-विशेषाभ्यां सत्य् अपि,
तयोर् ज्ञानयोः प्रकार-भेदो वर्तते।

शुद्ध-सत्त्वे स्वतः, धर्म-भूत-ज्ञान-द्वारा चाव्यवहितरीत्या गृह्यमाणे सति तु,
तादृशं तयोर् ज्ञानयोः प्रकार-भेदं कथयितुं न शक्यम् -
केवलं संज्ञा-भेद एव भवति।
ततो ऽन्यत्रावर्तमानो ऽव्यवहित-ज्ञान-प्रकार-भेदाभावः,
अत्र शुद्ध-सत्त्वय् एव कुतः कल्पनीय इति युक्ति-विरोधो जायते।

यथा-कथञ्चिद् धर्मभूतज्ञानसाधारणाच् छुद्धसत्त्व-वैशिष्ट्यस्य कल्पनम् अनिवार्यम् -
किञ्च, तद् प्रकाश-वैयर्थ्य-कल्पनाल् लघुरतरं सरसं च।

ज्ञान-तुल्यत्व-वादः

केचित् तु शुद्ध-सत्त्वस्य साक्षाज् ज्ञानत्वम् अनङ्गीकुर्वाणाः कथयन्ति -

सयम्-प्रकाशत्वात्,
मुक्ति-कृत-ज्ञान-विकास-मात्र-ज्ञेयत्वाद्
अस्य ज्ञान-शब्द-व्यपदेशो ऽपि भवति।

ननु कस्यचन ज्ञानस्य प्राप्त्यै
मुक्तादीनाम् इन्द्रिय-सन्निकर्षापेक्षा नास्ति -
शुद्ध-सत्त्व-विषयकस्यापि।
जड-वस्तूनां तु क्वचित् स्वयम्-प्रकाशाभावः‌/ इन्द्रिय-सन्निकर्षापेक्षा।
तम् भेदम् प्रकटयितुम् अजडत्वम् उच्यते शुद्ध-सत्त्वस्य।

सत्यसङ्कल्पतादि

सत्य-सङ्कल्पतादि भवति जीवस्य स्वरूपतः।
किञ्च लोक-निर्वाहेच्छा न भवति - स्वामिनैव तन्-निरूढत्वात्।

सायुज्यम्, आनन्दः

सर्वथा मुक्तस्यानन्दो ब्रह्मवत्। नानन्द-तारतम्यम्।
लोक-निर्वाह-कृतादौ हि ब्रह्मणो विशेषः।

सायुज्यम् उभयोर् अत्र
भोक्तव्यस्याविशिष्टता ।
सार्ष्टिता तत्र भोगस्य
तार-तम्य-विहीनता ॥

इति वेङ्कटनाथः।
अनेन नानाविधान्य् ऐक्य-वचनानि व्याख्यातानि।
समानाभिप्रायता ऽपि भवति -

‘‘राम-सुग्रीवयोर् ऐक्यं
देव्य् एवं+++(=पूर्वोक्तवत्|आवयोर् इव| सुग्रीव-दास-प्रेषणं यावत्)+++ समजायत +++(विचित्र-घटनम्)+++।+++(5)+++

लीला-विभूतौ सृष्टि-लय-चक्रम्

सूक्ष्मावस्था

सर्वं चिद्-अचिद्-वस्तु-जातं
सृष्टेः प्राक्
नाम-रूप-व्यपदेशायोग्यां सूक्ष्मावस्थाम् आप्नोति।
तत्र साक्षाद् ब्रह्म तयोर् आधारो भवति।
न भवन्त्य् आत्मनां शरीराणि -
अतो जडवस्तुनो ऽपि साक्षाद् आधारो ब्रह्मैव भवति।
तत्र सूक्ष्म-चिद्-अचिद्-विशिष्टम् ब्रह्मैव भवति।

स्थूलावस्था

सृष्टौ नाम-रूप-व्यपदेश-योग्यां स्थूलावस्थाम् आप्नोति
सर्वं चिद्-अचिद्-वस्तु-जातम्।
तत्र पूर्वोक्तरीत्या जडवस्तुन्य् अपि जीवेनानुप्रविशति ब्रह्म सत्ताप्रदम्।
अत्र स्थूल-चिद्-अचिद्-विशिष्टम् ब्रह्मैव भवति।

एवं सृष्टौ सूक्ष्म-चिद्-अचिद्-विशिष्टम् ब्रह्मैव
उपादान-कारणम्।
निमित्त-कारणम् अपि तद् एवेति श्रुत्यन्तरम्।

परिणाम-वादः

सृष्टि-लयौ नामावस्थान्तर-प्राप्तिर् एव - न साक्षाद् भावाभावापत्तिः।
अदर्शनं नाश इत्य् आहुः।