+++(अत्र रामानुजमतम् प्रतिपाद्यते। )+++
देवता-भेदाः
ईश्वरौ
ईश्वरत्वम् अन्यत्र व्याख्यातम् ।
लक्ष्मी-सहितो विष्णुर् एवेश्वरो, देवा अन्ये जीवा एव।
लक्ष्म्याम् आकराः
लक्ष्मी-विषये पूर्वाचार्य-विचारा अत्र विद्यन्ते
- पाञ्चरात्रे - लक्ष्मी-तन्त्रम्, अहिर्बुध्न्य-संहिता
- विष्णुपुराणे - नारायण-तुल्य-लक्ष्मी-व्याप्ति-सूचनाः
- दिव्य-सूरि-गाथासु क्वचित्
- यामुनस्य चतुश्-श्लोकी सव्याख्या
- कूरेश-काव्यं स-व्याक्यम् - श्री-स्तवः
- पराशरभट्ट-काव्यं स-व्याक्यम् - गुण-रत्न-कोशः
- पराशरभट्टस्याष्टश्लोक्यां प्रतिवादिभयङ्कराण्णङ्गरार्य-व्याख्या।
- विष्णु-पुराणे विष्णुचित्तीयम्।
- नडातूर्-अम्माळ्-महाशयः - १० श्लोकैर् विशदीचकार प्रपन्न-पारिजाते भगवत्-परिजनोपासना-पद्धतौ
- वेङ्कटनाथार्यः
- रहस्य-त्रय-सारे साध्योपायशोधनाधिकारः
- श्री-स्तुतिः
अनेकत्व-सिद्धिः
श्रीमन्-नारायण-शब्दे मतुपा श्री-नारायणयोर् भेदो ज्ञायते।
वेङ्कटनाथार्य-निर्णयः (द्रष्टुं नोद्यम्)
चतुश्-श्लोकी-व्याख्याने
प्रथमं श्रियः प्रतिपिपादयिषितानां विभूति-द्वय-शेषित्वादीनां स्थापकम् आह …
ये च मन्यन्ते -
भगवत एव स्वरूपैकदेशः पृथग्-अहन्तया परस्-पर-भोक्तृत्वाय
सर्वदा परिगृहीत-स्त्री-रूपः श्री-शब्दार्थः;
तेन भेदाभेद-व्यपदेशयोश् चेतनत्वस्य चाविरोधइति; तेऽपि ब्रह्मणः स्वरूपतो निरवयवत्वं प्रतिपादयद्भिः प्रमाणैर् निरस्ताः ।
…
श्र्या ईश्वरत्वम्
“ईश्वरीं सर्व भूतानाम्” इति श्रुतिवाक्ये प्रतीतस्य श्रिया ईश्वरत्वस्य
सङ्कोच-कारकं वाक्यान्तरं (यथेन्द्रादि-विषये) न विद्यतय् इति कारणेन
श्रिया ईश्वर-कोटाव् अन्तर्भावः सिद्धः।
‘‘व्यापकाव् अतिसंश्लेषाद्
एक-तत्त्वम् इवोदितौ’’
(अहिर्बुध्न्य-संहिता ४-७८)
इति श्र्यास् तुल्यम् एव व्यापकत्वम् उक्तम् ।
तच्च ततस् स्वरूपगतम्, न धर्म-भूत-ज्ञान-कृतं नित्यमुक्तवत्।
यत्र यत्र नारायण उच्यते, तत्र तत्र श्रीर् अप्य् उच्यत एव (न तु गरुड-विष्वक्सेनादयः)।
इदं चारूपपादितं रहस्यत्रयसारे साध्योपायशोधनाधिकारे।
ईश्वरानेकत्व-सामञ्जस्यम्
“अनेनेश्वर-द्वित्वम् कलहकारणम् भवती"ति तॆन्नाचार्याः केचिद् आक्षिपन्ति युक्त्या -
किञ्च द्वित्वमात्रं न कलहकारणम् - विरसताऽपि स्याद् इति परिहारः।
तद् इदं वेङ्कटनाथार्येण तत्र तत्रोक्तम् (चतुश्-श्लोकी-व्याख्यानादौ)।
आक्षेपान्ताराण्य् अन्यत्र परिहृतानि।
यथा जीवानाम् बहुत्वे सविशेषस्य +अद्वैतस्य न हानिः,
ईश्वरानेकत्वे ऽपि तथा।
ईश्वर-शब्दस्यैकवचनेन निर्देश ईश्वरजात्य्-अपेक्षया -
गौश् चतुष्पाद् इत्यत्र यथा।
परस्परं स्वरूप-निरूपणम्
श्रीमत्त्वं नारायण-स्वरूप-निरूपक-धर्मं मन्यते पराशरभट्टो गुणरत्नकोशे - घटे घटत्वम् इव,
नोपलक्षणमात्रम् - केदारे बक इव।
ततो हि वेदेषु न पृथग् उल्लेखः।
तद् इदं वेङ्कटनाथार्येण तद्-व्याख्यातृभिश् च रहस्यत्रयसारे साधु प्रतिपादितम्।
अवर-देवता-पूजा-कारणम्
नित्य-नैमित्तिकेषु
क्वचिद् इदं नित्य-नैमित्तिक-कर्म-रूप– स्वाज्ञा-पालन-चोदनार्थम् - यथा रामावतारे वैश्वदेवाङ्गत्वेन रुद्राय बलिः।
काम्येषु
कृष्णस्य रुद्रपूजनं लोकानुष्ठापनेन स्व-दत्त-वर-पालनार्थम्॥
इत्य् अभिनव-ब्रह्मतन्त्र-परकाल-यतिः हय-शिरो-भूषणे।
वासुदेवप्रसादाद् ब्रह्मादीनां प्रवृत्तिधर्मभागार्हता,
ब्रह्म-रुद्राभ्याम् सर्वपुरुषवरदानाधिकारस्य वितरणं च
महाभारते हय-शिरः-प्रकरणे निरूपितम्।
विस्तारः (द्रष्टुं नोद्यम्)
SVs don’t have a problem with Rama or Krishna worshipping any deity. Krishna says in Mbh that Vishnu’s head bows down only to Vishnu & it is taken by the Vaishnavas to mean that when He appears to be worshipping other deities, He is worshipping the antaryamin i.e. Himself. Rama has worshipped several devas in the VR and SVs don’t deny it. - रविलोचनः
एवं च निगदति -
पुत्रार्थम् आराधितवान्
अहम् आत्मानम् आत्मना ।
3 न हि विष्णुः प्रणमति
कस्मैचिद् विबुधाय च ॥ २९ ॥
ऋते आत्मानम् एवेति
ततो रुद्रं नमाम्यहम् ।
एवं कृष्णेन सन्तानार्था रुद्रपूजा
महाभारते ऽनुशासनपर्वणि (अध्यायः १४-१६) उपमन्यु-+उपाख्याने वर्णिता। “नान्यत् प्रियतरं लोके मम कृष्ण भविष्यति” इति रुद्रवचनं तत्रैव।
नित्य-सूरयः
तेषु गरुडानन्त-निभास् तु नित्य-सूरयो
नित्य-विभूति-वासिनः।
ते हि सर्वज्ञाः, भगवद्-अनुभव-सहभागिनः।
वैकुण्ठवासिनोऽन्तरा
नान्ये (हनुमद्-विभीषण-निभा भागवता अपि)
स्वतन्त्रतया देवालयेषु स्थिता नमस्-कार्या
इति पाञ्चरात्रम् अवलम्ब्य वदन्ति केचित्।
नित्यास् सशरीरा इति श्रुतेर् ज्ञायते।
बद्धाः
ब्रह्मादयो बद्धा एव
कर्म-बलेन पद-विशेषम् प्राप्ता
लीला-विभूताव् एव वसन्ति।
बद्ध-देवेषु केचिच् छिवादयो महा-ज्ञानिनो मुक्ति-रहस्योपदेशका अपि।
बद्ध-देव-शरीराणि भौतिकान्य् एव -
न शुद्ध-सत्त्व-निर्मितानि।
बद्ध-देवानाम् इन्द्रिय-शक्ति-सीमा ऽन्यत्र द्रष्टव्या।
भगवद्-आप्तता
“20 दिवि-षदाम् ईशिता चतुर्-मुखो जटा-मौलि-स्वामी च
आर्जवेन तत्-पाद-पङ्क-जं ध्यात्वा स्तुत्वा संचरन्ति”
(तिरुवाय्मॊऴि 3-6-4.)
इत्यादिभिर् भगवद्-उपासकान्य् एव देवतान्तराणि प्रतिपादितानि।
आराध्यता
भगवद्-आज्ञारूपाणि शास्त्राणि।
तद्-उक्त-नित्यकर्माङ्गत्वेन बद्ध-देवताराधनं सुतरां काङ्क्षितम्।
वेङ्कटनाथार्यो वक्ति रहस्य-त्रय-सारे -
भगवच्-छरीरतां बुद्ध्वा
क्षुद्र-फलानि झट् इति प्राप्तव्यानि
इति राग-विशेषेण तानि ( देवतान्तराणि) उपासीनानां
तत्-तत्-फलानि पूर्णानि भवन्ति ।
ततः, देवतान्तराणाम् भगवत आप्तवर्गे अन्तर्भावं कृत्वा याचनम् अविरुद्धम्।
किञ्च, प्रपन्ना एकान्तिनः भगवत्-सकाशाद् एव यचेरन्।
नामानि
सर्वानि नामानि सर्वान्तरात्म-भूत-नारायण-पर्यन्तार्थ-वाचकानि।
+++(पाशवत्त्वादि-)+++जीव-लिङ्गाभावे देव-नामानि यौगिकार्थ-ग्रहणेन साक्षान् नारायण-वाचकान्य् एवेति
ब्रह्मसूत्रोक्तं जैमिनीयमतम्।
तेन वरुणशब्दोऽपि भगवद्-वाच्य् एव भवेत्।
विष्णु-सहस्रनाम-स्तोत्रे “यानि नामानि गौणानि” इति यद् उक्तम्,
तत्र गौणत्वं नामुख्यत्वम्,
अपि तु गुण-प्रेरितम्।
यज्ञादौ पात्रम्
देवा यज्ञादौ यथोक्तम् आगच्छन्त्य् एव,
यद्य् अपि तच्छरीराण्य् अस्मभ्यम् वाय्व्-आदिवद् अदृश्यानि स्युः।
+++(कुतस् तर्ह्य् अधुनाऽप्य् आधुनिकयन्त्र-साहाय्येनाप्य् अदृश्यानि प्राकृत-शरीरान्तरवत्??)+++
देवलोकाः
वैकुण्ठेतरा देव-लोकाः (क्षीरसागरोऽपि!), नरकान्य् अप्य् अस्मिन्न् एव ब्रह्माण्डे वर्तन्ते, न नित्य-विभूतौ।
शास्त्रेषु तत्-तत्-स्थानानि निर्दिष्टानि भू-मण्डलापेक्षया -
किञ्च स निर्देश आधुनिक-सुलभ-प्रत्यक्षेण निराकार्यः।
पुनर् ब्रह्माण्डे क्व वर्तन्ते, कथं तेषाम् अदर्शनम्, कथं शास्त्रोक्त्या सङ्गतिर् इत्यादि नैतावत् केनाप्य् उत्तीर्णम्।
(आधुनिकेन केनचित् समर्थेन सम्प्रदायरक्षकेणोक्तस्य ग्रहणेनान्तिमवाक्यं परिमार्जितुं शक्यते चेत् सूचयन्तु??। )
विष्णु-रूपाणि
आत्म-स्वरूपम्
अन्तर् बहिश् च तत् सर्वं
व्याप्य नारायणस् स्थित
इत्य् उक्तम् अचिद्य् अपि वर्तमानम् निष्कलं आत्मस्वरूपम्।
तद् ध्यानाद्य्-अगोचरम् - द्वारान्तर-ध्यानात् परं तु भोक्तुं शक्यम्।
अनुसन्धेय-शरीराणि
विष्णोर् अनुसन्धेयानि रूपाणि पञ्च-विधानि -
पर-व्यूह-विभवार्चान्तर्यामि-भेदेन।
(यतीन्द्र-मत-दीपिका ऽत्र। )
पर-रूपस् तु नित्य-विभूतौ वर्तते।
अन्तर्यामि
अयम् अप्य् अवतार-विशेषः।
अन्तर्यामित्वं नाम
स्वर्ग-नरकाद्य्-अनुभव-दशायाम् अपि
जीवात्मनः सुहृत्त्वेन
योगिभिर् द्रष्टव्यतया
हृदय-प्रदेशावस्थितं रूपम् ।
(यतीन्द्र-मत-दीपिका ऽत्र। )
इदं सर्वान्तर्यामि-दिव्यात्म–स्व-रूपम् अनुसन्धित्सूनां द्वारम्
इति वेङ्कटनाथार्यानुवादे।
एवं सर्वान्तर्याम्य् आत्म-स्वरूपम् भिन्नम्, अयम् अन्तर्याम्य्-अवतारो भिन्नः।
इऩि अन्तर्यामियै निरूपिक्किऱार् सर्वरुडैयवुम् हृदयङ्गळिले इत्यादियाल्।
इङ्गु सर्वत्तिऩुडैयवुम् ऎऩ्ऱु सॊल्लामल्
सर्वरुडैयवुम् ऎऩ्ऱु सॊऩ्ऩत्ताल्
ध्यानार्हमाऩ हृदयमिल्लाद तिर्यगादिगळिल् इन्द अन्तर्यामिरूपम् इल्लैयॆऩ्ऱदायिऱ्ऱु।
इति सारबोधिनी।
अर्चा
अर्चा-रूपाण्य् अपि लीला-विभूतौ पार्थिवादि-विग्रहेष्व् आराध्यमानाः।
सालिग्रामे नित्यसान्निध्यं वर्तते ऽर्चारूपस्य।
मूर्त्य्-अन्तरय् आवाहनात् परं यथानियमम् अर्चनाकाले ऽर्चा-रूप-सान्निध्यम् भवति।
काम्य-रूपाणि
विस्तारः (द्रष्टुं नोद्यम्)
4 forms of Vișņu are singled out as examples of Ugra Vișņumūrtis in Śrīmat-Kāmikāgama: Viśvarūpa, Vațapatraśāyī, Narasimha & Paraśurāma (& the first two can be seen as particularly Kārșņeya forms).
These forms + Bhagavān’s Ugramūrtis (Gajāri, Kāmāri, Kālāri & Tripurāri) are recommended to be kept at the village’s outskirts in the north-east.
अवतारः
विभवरूपाण्य् अवतारा लीलाविभूतौ प्राप्ताः।
तेषु क्षीरसागरशायी बद्ध-देव-सुलभः।
अवतार-रहस्यम् इदम् उच्यते -
अवतारस्य सत्यत्वम्
अजहत्-स्व-स्वभावता ।
शुद्ध-सत्वमयत्वं च
स्वेच्छामात्र-निदानता ॥धर्मग्लानौ समुदयः साधु-संरक्षणार्थता ।
इति जन्म-रहस्यं यो
वेत्ति नास्य पुनर्भवः ॥
अभिनयः
जीव-भावम् अभिनयति भगवान् अवतीर्णः ।
मुक्तैर् अवतारे ऽपि तथा।
क्वचित् तु स्व-प्रभुत्वम् आविष्करोति।
अयम् एव कश्चित् सङ्कोच-विकास-क्रमः।
रक्षा-प्रकारः
अवतार-कारणं सद्-रक्षा - उपदेशैः क्वचिद्, स्वाचारेण क्वचित्।
अवतार-कथा-कलनं, साक्षाद्-दर्शनं च गुणानुभव-दम्।
तत उभयथापि साधु-रक्षा।
रक्ष्य-प्रकारः
॥4.8॥ साधव उक्त-लक्षण-धर्म-शीला वैष्णवाग्रेसरा,
मत्-समाश्रयणे प्रवृत्ता,मन्-नाम-कर्म–स्व-रूपाणाम् अ-वाङ्-मनस-गोचरतया मद्-दर्शनाद् ऋते
स्वात्म-धारण-पोषणादि-सुखम् अ-लभमाना
अणु-मात्र-कालम् अपि कल्प-सहस्रं मन्वानाः
प्रशिथिल-सर्व-गात्रा भवेयुर्
अधुना धर्मग्लानिर् दृश्यमाने सत्य् अपि कुतो नावतरतीत्यत्र - इदम् अपि लक्षणम् अनुसन्धेयम्।
युग-नियमाभावः
वेङ्कटनाथार्यः “युगे युगे सम्भवामि” इत्यत्र
“न तु प्रतियुगम् अवश्यं सम्भवामि,
नापि युग-विशेष-निर्बन्ध इति भावः।”
रामानुजः श्रीभाष्ये -
“साधवो ह्युपासकाः; तत्परित्राणमेवोद्देश्यम्,
आनुषङ्गिकस्तु दुष्कृतां विनाशः, सङ्कल्पमात्रेणापि तदुपपत्तेः । "
अभयप्रदानसारे वेङ्कटनाथार्यो वदति - कस्मिंश्चन त्रेतायुगे (ऽस्मिन् कल्पे) रामो बभूवेति।
प्रभेदाः
त्रैविध्यम् द्रमिड-गाथा-व्याख्या-सुलभम् -
- पूर्णावतारः / मुख्यः - यतो जीवान्तरम् अनुपादायावतरति।
- आवेशावतारः / गौणः
- अनुप्रवेशावतारः/ स्वरूपावेशः - यत्र जीवम् अधिष्ठायावतरति - जामदग्न्यवत्। (“अनुप्रविश्य कुरुते यत् समीहितं अच्युतः”)
- नाम, तस्मिन् शरीरे जीवोऽप्य् अस्ति, परमात्मनो विशिष्ट-विग्रहोऽय् अप्य् अस्तीति।
- शक्त्य्-आवेशावतारः - यत्र जीवे शक्ति-विशेषं यच्छति - कार्तवीर्यार्जुनवत्। (“सृष्टिं ततः करिष्यामि त्वा आविश्य प्रजापते।”)
- अनुप्रवेशावतारः/ स्वरूपावेशः - यत्र जीवम् अधिष्ठायावतरति - जामदग्न्यवत्। (“अनुप्रविश्य कुरुते यत् समीहितं अच्युतः”)
अयं विवेकः प्रमाण-बलेन क्रियते -
- यत्रावतार-वर्णनेषु यादृशानि वाक्यानि, तत्र तादृशो ऽवतारो ऽङ्गी-क्रियते।
- यस्यावेशावतारस्य पाञ्चरात्रय् अधिकारि-विशेषम् प्रति प्रतिष्ठाद्य् उपदिष्टं, स स स्वरूपावेशः। इतरः शक्त्य्-आवेश इति विवेकः। (एवं रहस्यत्रयसारकन्नडटीकायां कृष्णमाचार्यः। )
अवतार-व्यक्ति-विभागः
तत्र प्रादुर्भावाः केचित् साक्षात्, यथा मत्स्यकूर्मादयः।
अन्ये तु ऋष्य्-आदि-विशिष्ट-पुरुषाधिष्ठानेन, यथा भार्गवराम–कृष्णद्वैपायनादयः।
अपरे काले शक्त्य्-आवेशेन, यथा पुरञ्जयादिषु।
इतरे च व्यक्तिषु स्वयमेवावतीर्य, यथार्चावतार इति चतुर्धा” (पृ. 182) इति।
इति सहस्रनामभाष्ये पराशर-भट्टः।
“शक्त्यावेशावतारा ब्रह्म-रुद्र-व्यास-जामदग्न्यादयः ॥”
इति रहस्यत्रयटीसार-टीकायां क्वचित्।
सौम्यजामातृ-विमतिः
- तत्त्व-त्रय-व्याख्याने बुद्धस्य साक्षाद्-अवतारत्वम् आचार्यहृदये प्रतिपादितम्। विष्वक्सेन-संहितादिषु तस्यावेशावतारत्वम् उक्तम्।
- पराशरभट्ट-विरोधेन व्यासः पूर्णावतारः कीर्तितः।
कल्प-भेद-कल्पनया परिहरन्त्य् अलसिंगभट्टः सात्त्वत-संहिता-व्याख्याने ।
विभवश्च मुख्य-गौण-भेदाद् द्विविधः ।
तत्र मुख्यः साक्षाद्-अवतारः ।
गौणस् त्वावेशावतारः ।
आवेशश् च स्वरूपावेशः शक्त्यावेश इति द्विविधः ।
तत्र स्वरूपावेशः स्वेन रूपेण सहावेशः ।
स च परशुरामादीनां चेतनानां शरीरेषु
स्वासाधारणविग्रहेण सहावेशः ।
शक्त्यावेशः कार्य-काले विधि-शिवादि-चेतनेषु शक्ति-मात्रेण स्फुरणम् ।
अत्र गौणत्वम् इच्छया ऽऽगतं न स्वरूपेण ।
यथा रामकृष्णादिमनुष्यत्वं
मत्स्यादितिर्यक्त्वं चेच्छयाऽऽगतं तद्वत् ।
इति वासुदेवो यतीन्द्रमतदीपिका-टीकायाम्।
‘‘सृष्टिं ततः करिष्यामि
त्वामाविश्य प्रजापते’’
इत्य् अनुप्रवेशावतारः, न शक्त्यावेश उक्तः सारबोधिन्याम्।
ब्रह्म-रुद्रार्जुन-व्यास-
सहस्रकर-भार्गवाः ।
काकुस्थात्रेय-कपिल-
बुद्धाद्या ये सहस्रशः ॥
शक्त्यावेशावतारास् तु
विष्णोस् तत्-कालविग्रहा
इति क्वचिद् उदाहृतम्।
अनन्तः प्रथमं रूपं
लक्ष्मणश्च ततः परम् ॥
बलभद्रस्तृतीयस्तु
कलौ कश्चिद् भविष्यति ॥
इति धिया ऽनन्तम् विग्रहविशेषेणानुप्रविश्य भगवान् अवतरति तत्र तत्रेति केचित्।
आऴ्वार्गळ् आवेशावतारमॆऩ्ऱुम् आचार्यर्गळ् साक्षाद्-अवतारमॆऩ्ऱुम् तिरुवुळ्ळम् …
इति सारबोधिनी।
पूज्यता-भेदः
शक्त्य्-आवेशावतारास् ते
विष्णोस् तत्-काल-विग्रहाः ।
अनुपास्याः मुमुक्षूणां
यथेन्द्राग्न्य्-आदि-देवताः ॥ १३ ॥
इति प्रपन्न-पारिजाते। TW
विस्तारः (द्रष्टुं नोद्यम्)
विष्वक्सेन-संहिता -
“अनर्च्यान् अपि वक्ष्यामि
प्रादुर्भावान् यथाक्रमम् ।
चतुर्-मुखस् तु भगवान्
सृष्टि-कार्ये नियोजितः ।
शङ्कराख्यो महान् देवः
संहारे विनियोजितः ।
मोहनार्थे तथा बुद्धः
व्यासश् चैव महान् ऋषिः ।
वेदानां व्यसने तत्र
देवेन विनियोजितः ।
अर्जुनो धन्विनां श्रेष्ठो
जामदग्न्यः प्रतापवान् ।
वसूनां पावकश् चापि
वित्तेशश् च तथैव च ।
यद् यद् विभूतिमत् सत्त्वं
श्रिया जुष्टं विशेषतः।
राग-द्वेष-विहीनं तु
स्वतो बलवद् उल्बणम् ।
तत् तद् अंशं विजानीयात्
मम कार्यार्थम् आदरात् ॥
एवम्-आद्यास् तु सेनेश !
प्रादुर्भावैर् अधिष्ठिताः ।
जीवात्मानः सर्व एते
नोपास्या वै मुमुक्षुभिः ॥
आविष्ट-मात्रास् ते सर्वे
कार्यार्थम् अमित-द्युते ।
अनर्च्याः सर्व एवैते
विरुद्धत्वान् महामते ! ।
अहङ्कृति-युताश् चैते
जीव-मिश्रा ह्य् अधिष्ठिताः
प्रादुर्भावास् तु मुख्या ये
मद्-अंशत्वाद् विशेषतः ।
अजहत्-स्व–स्व-भावा हि
दिव्याप्राकृत-विग्रहाः ।
दीपाद् दीपा इवोत्पन्ना
जगतो रक्षणाय ते ।
अर्च्या एव हि सेनेश !
संसृत्य्-उत्तरणाय वै ।”
गुणावतारो न
आदाव् अभूच् छत-धृती रजसा ऽस्य सर्गे
विष्णुः स्थितौ क्रतु-पतिर् द्विज-धर्म-सेतुः ।
रुद्रोऽप्ययाय तमसा पुरुषः स आद्य
इत्य् उद्भव-स्थिति-लयाः सततं प्रजासु ॥ [भा।पु। ११.४.५]
इत्य्-अनेन मुग्धैर् जीव-गो-स्वामि-प्रभृतिभिर् ब्रह्म-रुद्रयोर् गुणावतारत्वं गृह्यते। तद् असत्।
रजो-गुण-प्रचुर ब्रह्माख्य-जीवानुप्रवेशेन तच्-छरीरकतया तद्-रूपा बभूवेत्यर्थः ।
इति वीरराघवोक्तिर् ग्राह्या।
shrI jIva takes रजसा in भा।पु। ११.४.५ literally (not रजो-गुण-प्रचुर etc.. as would make sense considering tons of usages like BG).
गुणाः
परत्वोपयुक्ताः केचित्।
सौलभ्योपयुक्ताः गुणाः -
यथा दया सौशील्यं वात्सल्यम् ।
स्वार्थ-निरपेक्षा तदीयेषु लक्षणेषु ऽध्याहार्या।
यथा (स्वार्थ-निरपेक्षा) पर-दुःख-निराकरणं दयेति देशिकः।
तेन सशुल्के वैद्ये न दया।
पुत्रशोकादि दाने ऽपि वैद्येन शस्त्रचिकित्सेवास्त्य् एव दया।
विभागान्तरम् - उपायोपयुक्ताः। उपेयोपयुक्ताः।
सर्वरक्षकः साधारणतया। प्रपन्नेषु विशेषरक्षकः।
फल-प्रदत्वम्
देवतान्तराणि क्षिप्रं क्षुद्र-फलानि यच्छन्ति - उत विष्णुर् एव तद्-द्वारा।
न दवतान्तराणि तु शुभाश्चाश्रया इति विष्णु-पुराणम्।
विष्णुर् एव साक्षान् मोक्षं दातुं प्रभुः।
तस्य सर्वैस् सह निरुपाधिक-सम्बन्धम् भरति, अतो हित-कारी हि सः, न तावत् प्रिय-कारी।
अतः स न क्षिप्र-क्षुद्र-फल-दः, प्रत्युत दुःखानि दद्यात् - भक्त-हित-चिन्तया।
न च प्रार्थितोऽप्य् अहितं फलं दद्यात्।
हितम् अपि फलम् उचित-काले ददाति (कालान्तरे दत्तम् अहितम् भवतीति)।
महाफलानुषक्तानि क्षुद्र-फलान्य् अपि ददाति।
भगवन्तम् प्रति क्षुद्रफलस्यापि याचने पाप-क्षय इत्य् आनुषङ्गिक-फलम्।
अपरमैकान्तिभिर् विष्णोः फल-प्रदत्वम् अवलम्बितुं वरम्।
अत्र दृष्टान्तः - क्षुन्-निवृत्तिर् यथा नास्तिकान्नाद् अपि भवति, भगवत्-प्रसादाद् अपि,
किञ्चोत्तरत्र पुण्य-सद्-भावादि-लाभो ऽधिकः।