प्रवेशः
मङ्गलाचरणम्
विश्वास-प्रस्तुतिः
लक्ष्मी-नेत्रोत्पल-श्री–सतत-परिचयाद् एष संवर्धमानो,
+++(ब्रह्म-सहित-)+++नाभी-नालीक-रि(ङ्ग)ङ्खन्+++(=सशब्दं-भ्राम्यन्)+++-मधुकर-पटली-दत्त-हस्तावलम्बः ।
अस्माकं +++(ज्ञान-)+++संपदोघान् अ-विरल-तुलसी–दाम-संजात-भूमा
कालिन्दी-कान्ति-हारी कलयतु वपुषः कालिमा कैटभारेः +++(हयग्रीवस्य)+++ ॥ १ ॥+++(4)+++
+++(स्फटिकतनोर् अपि लक्ष्मीनेत्रादिसाहचर्यात् कृष्णीभूतस्य)+++
ग्रन्थ-कर्तृ-वैशिष्ट्यम्
विश्वास-प्रस्तुतिः
नाना-सिद्धान्त-नीति–श्रम-विमल-धियो ऽनन्त-सूरेस् तनूजो
वैश्वामित्रस्य पौत्रो वितत-मख-विधेः पुण्डरीकाक्ष-सूरेः ।
श्रुत्वा +++(आत्रेय-)+++रामानुजार्यात्+++(=अप्पिल्लार्-नाम्नः)+++ सद्, असद् अपि ततस्,, तत्त्व-मुक्ता-कलापं
व्यातानीद् वेङ्कटेशो +++(परम-गुरु-भूत–वात्स्य-)+++वरद-गुरु-कृपालम्भित+++(=लब्ध)++++उद्दाम-भूमा+++(=महत्त्वः)+++ ॥ २ ॥
ग्रन्थस्य नाम्न औचित्यम्
विश्वास-प्रस्तुतिः
प्रज्ञा-सूच्या ऽनुविद्धः, +++(मुक्तावत्, न रत्नवत्)+++ क्षतिम् अनधिगतः कर्कशात् तर्क-शाणाच्,
छुद्धो नाना-परीक्षास्व् अ-शिथिल-विहिते +++(प्र)+++मान-सूत्रे निबद्धः ।
आतन्वानः प्रकाशं बहु-मुखम् अखिल-त्रास-वैधुर्य-धुर्यो
धार्यो हेतुर् जयादेः स्व-हृदि स-हृदयैस् तत्त्व-मुक्ता-कलापः ॥ ३ ॥
तत्त्व-त्रय-ज्ञान-स्वरूपम्
विश्वास-प्रस्तुतिः
शिष्टा जीवेश-तत्त्व-प्रमिति-युत-परोपासना मुक्ति-हेतुः
शक्यस् तत्-तत्-प्रकारावगति-विरहिभिर् नैव याथात्म्य-बोधः ।
ते ते चार्था विदध्युः कुमति-विरचितास् तत्त्व-बोधोपरोधं
तस्मान् निर्धूत-सर्व-प्रतिमत-विमतिं साधये सर्वम् अर्थम् ॥ ४ ॥
तत्त्व-ज्ञानस्य महत्त्वम्
विश्वास-प्रस्तुतिः
आवापोद्वापतस् स्युः कति कति +++(नाना-रामायण-कृन्-निभ-)+++कवि-धी-चित्रवत् तत्-तद्-अर्थेष्व्
आनन्त्याद् अस्ति-नास्त्योर् अनवधि-कुहना+++(=दम्भ)+++-युक्ति-कान्ताः कृतान्ताः+++(=सिद्धान्ताः)+++ ।
तत्त्वालोकस् तु लोप्तुं प्रभवति सहसा निस्समस् तान् समस्तान्,
+++(यथा - )+++ पुंस्त्वे तत्त्वेन +++(→पक्षे पुरुषसूक्त्रादिना)+++ दृष्टे, पुनरपि न खलु प्राणिता स्थाणुतादिः +++(→ पक्षे शिवत्वादिः)+++ ॥ ५ ॥
तत्त्वानां विभागः
विश्वास-प्रस्तुतिः
द्रव्याद्रव्य-प्रभेदान् +++(प्र)+++मितम् उभय-विधं तद्-विदस् तत्त्वम् आहुर्,
द्रव्यं द्वेधा विभक्तं जडम् अजडम् इति, प्राच्यम्+++(→जडम्)+++ अ-व्यक्त–कालौ ।
अन्त्यं+++(→अजडम्)+++ प्रत्यक् पराक् च, प्रथमम्+++(→प्रत्यक्)+++ उभयधा तत्र जीवेश-भेदान्
नित्या भूतिर्, मतिश्+++(→धर्म-भूत-ज्ञानम्)+++ चेत्य् अपरम् +++(→पराक्)+++, इह जडाम् आदिमां+++(→नित्यविभूतिं)+++ केचिद् आहुः ॥ ६ ॥
द्रव्यादीनां लक्षणानि
विश्वास-प्रस्तुतिः
तत्र द्रव्यं दशा-वत्, प्रकृतिर् इह गुणैस् सत्त्व-पूर्वैर् उपेता
कालो ऽब्दाद्य्+++(=वर्षाद्य्)+++-आकृतिस् स्याद्, अणुर् अवगतिमान् जीव, ईशो ऽन्य +++(→विभुः)+++ आत्मा+++(=चेतनः, अवगतिमान्)+++ ।
संप्रोक्ता नित्य-भूतिस् त्रि-गुण-समधिका +++(अमिश्रितत्वात्, किन्तु)+++ सत्त्व-युक्ता तथैव,
ज्ञातुर् ज्ञेयावभासो मतिर् इति कथितं संग्रहाद् द्रव्य-लक्ष्म ॥ ७ ॥
गुणानां द्रव्यातिरिक्तत्व-समर्थनम्
विश्वास-प्रस्तुतिः
+++(‘सहोपलम्भ-नियमाद् अभेदः’ इति गुण-द्रव्याभेदं वदतां वैभाषिकाणां निराकरणे)+++
एकार्थ-प्रत्यभिज्ञा भवति दृढ-तरा दर्शन-स्पर्शनाभ्यां +++(घटस्य दीपनाशे यथा)+++,
+++(रूपस्य स्पर्शय् इव)+++ संघातादेर् अयोगाद्, अवगमयति सा +++(द्रव्यं)+++ वस्तु +++(गुणाद्)+++ रूपाद् अतोऽन्यत् ।
एकस्मिन् +++(वस्तुनि)+++ दूरताऽऽदेर् +++(हेतोः, समीप-गमने)+++ अ-विशद+++(-पूर्वक)+++–विशद-प्रत्यभिज्ञादि +++(गुण-द्रव्यैक्ये गृहीत-गुण-भेदो न स्याद् इति)+++ तद्वन् +++(→पूर्वोक्त-गुण-गुणि-भेद-वत्)+++,
न “+++(वस्त्व्-)++++एकत्वे ऽप्य् अक्ष-भेदाद् भिदुरम् इव” - +++(ग्राह्य-भेदतो ग्राहक-भेदो ऽनुमितः, ग्राहक-भेदतो ग्राह्य-भेद इति)+++ मिथस्-संश्रयादि-प्रसङ्गात् ॥ ८ ॥
+++(चक्षुरैक्येऽपि रूपभेदाश् च तर्हि कुतः?)+++
धर्म-धर्मिभावः
विश्वास-प्रस्तुतिः
“+++(घटत्वनिभ-)+++धर्मो निर्धर्मकश् चेत् कथम् इव भविता सोऽभिलापादि-योग्यो,
धर्मेणान्येन +++(धर्मे)+++ योगे, स च भवति तथेत्य् +++(→धर्मस्य धर्मस्य धर्मस्य … )+++ अव्यवस्थे"ति चेन् न ।
कश्चिद् धर्मोऽपि धर्मी +++(घटत्वम् इव)+++ स्फुटम् अतिमथने+++(→सूक्ष्मचिन्तने)+++ स्वान्य-निर्वाहकत्वं
तन् +++(घटत्व-घट-निभ-)+++निष्कर्ष+++(→सर्वसम्मतत्वात्)+++-प्रयोगेष्व् +++(=धर्म-मात्र-बोधक-पद-प्रयोगेष्व्)+++, अपि भवति पुनस् तस्य धर्मी विशेषः +++(→विशेषणम् /धर्मः, गोत्वस्य गोव्यक्तय इव)+++॥ ९ ॥
+++(तत्-तज्-ज्ञानयोश् च भिन्नत्वान् नान्योन्याश्रयः ।)+++
विश्वास-प्रस्तुतिः
“तच्+++(=धर्म)+++-छून्ये तस्य +++(धर्मस्य)+++ वृत्तिः कथम् इव घटते, तद्+++(=धर्म)+++-विशिष्टे +++(धर्म-युक्त-धर्मिणि)+++ तु वृत्तौ
स्वाधारत्व-प्रसङ्गस्, तत इह न गुणो नापि धर्मी"त्य् अ-युक्तम् ।
तद्-वृत्तिर् धर्मि-मात्रे, न भवति तत एवास्य तच्-छून्यता ऽतो,
नोक्तौ दोषौ, स्व-धी-वाग्-विहतिर् इतरथा +++(भवद्-वादे ऽनुमाने पक्ष-धर्मादि-ग्रहणात्)+++, तद्वद् अन्येऽपि जल्पाः ॥ १० ॥
प्रकृतिः, तत्परिणामाश्च
विश्वास-प्रस्तुतिः
स्व-च्छन्देनागमेन प्रकृति-महद्–अहङ्-कार–मात्राक्ष-सिद्धिर्,
न+ +++(चार्वाकोक्त-रीत्या)+++ अध्यक्षेण+++(=प्रत्यक्षेण)+++ +अ-प्रतीतेर्, न पुनर् अनुमया+++(=अनुमित्या साङ्ख्योक्त-रीत्या)+++ व्याप्ति-लिङ्गाद्य्-असिद्धेः ।
सत्त्वाद्य्-उन्मेष-भिन्नान् महत इह तथा स्याद् अहङ्-कार-भेदः,
प्राच्याद् +++(सात्त्विकाद्)+++ अक्षाणि, +++(तन्-)+++मात्राः प्रजनयति परो +++(तामसः)+++, मध्यमस् +++(राजसस्)+++ तूभयार्थः +++(सात्त्विक-तामसिकयोः सहकारी, गौणोपादानं वा)+++॥ ११ ॥
सृष्टि-क्रमः
विश्वास-प्रस्तुतिः
तत्र++++(तामस-)+++अहङ्कार-जन्यं भजति परिणतैः शब्द-+++(तन्-)+++मात्रं नभस्त्वं,
तद्वत् तन्-मात्र-पूर्वास् तद्+++(→नभ)+++-उपरि +++(→स्पर्श→)+++मरुद्-+++(→रूप→)+++अग्न्य्+++(→रस→)+++-अम्बु-+++(→गन्ध→)+++भूम्यः क्रमात् स्युः ।
सूक्ष्म-स्थूल—स्व-भाव–स्व-गुण—समुदय-प्रक्रिया-तारतम्यात्
तन्-मात्रा–भूत-भेदः +++(क्षीर-दधि-मध्य=)+++कलल-दधि-नयात् कल्पितस् तत्त्व-विद्भिः ॥ १२ ॥
विश्वास-टिप्पनी
भूत-लक्षणम् इन्द्रियग्राह्यत्वम् - साक्षाद् वा यन्त्रादिसहकारेण वेति गृह्यताम्।
तथा सति,
भूतानि पञ्चैव, सर्वम् इन्द्रियग्राह्यं ततो जातम्
इति नाधुनिक-भूत-विज्ञानेन सङ्गच्छते। रूप-रस-गन्ध-स्पर्श-शब्दादीनाम् अन्यथैव तत्र सिद्धिः।
विस्तारो वैश्वास-पत्त्रे प्रतिपादितः।
विश्वास-प्रस्तुतिः
“अद्भ्यो ऽग्निस्”, “तेजसस् ता” +++(आप)+++ इति न हि वचसोर् बाधितुं युक्तम् एकं
निर्वाहः कल्प-भेदाद् यदि - न +++(तद् उचिता)+++ दृढ-मितात् +++(अन्यथा)+++ तत्त्व-सृष्ट्यैक-रूप्यात् ।
+++(शुद्ध-भूत-सृष्टेः परं पञ्चीकरणात् परं)+++
व्यष्टौ ताभ्यः +++(अद्भ्यः)+++ कदाचित् तद्+++(→अग्नि)+++-उपजनिर् +++(मेघाद् विद्युद् इव)+++ अतो, व्यत्ययस् तत् समष्टौ +++(=पञ्चीकरणात् प्राक्)+++
आदाव् अप्-सृष्टि-वादश् श्रुति-मितम् इतरन् न प्रतिक्षेप्तुम् ईष्टे ॥ १३ ॥
जैनमतम्
विश्वास-प्रस्तुतिः
“पृथिव्यास् स्पर्शादि-भेदो +++(तापादि-संयोगेन)+++ द्रव-मृदु-कठिनी-भाव-भेदश् च दृष्टस्
तद्वत् पृथ्वी-जलाग्नि-श्वसन-परिणतिर् लाघवाये"ति जैनाः ।+++(5)+++
तत्र +++(जैनोक्त-पुद्गलाख्य-कारण-)+++द्रव्यैक्यम् इष्टं +++(प्रकृति-रूपेण)+++, क्रम-जनि-विलयौ त्व् आगमाद् अ-प्रकम्प्यौ
तर्कैकालम्बि-गोष्ठ्यां भजतु बहु-मतिं तादृशी लाघवोक्तिः ॥ १४ ॥
श्रुत्य्-उक्त-प्रकृति-सङ्ख्या-समञ्जसता
विश्वास-प्रस्तुतिः
तत्त्वेष्व् आथर्वणे ऽष्टौ प्रकृतय उदिताः, षोडशान्ये +++(शुद्ध-)+++विकारा +++(वस्त्व्-अन्तरोपादनता-रहिताः)+++
+++(पूर्वोक्तोत्पत्तिक्रमेण - अव्यक्तम्, महद्, अहङ्कारः, ५ तन्मात्राः, ४ भूतानि = १२ प्रकृतयः। ११ इन्द्रियाणि, पृथिवी = १२ विकाराः। )+++
निष्कर्षे+++(ण+इ)+++दं-परे ऽस्मिन् वचसि तद्-इतरत् सर्वम् +++(सृष्टि-श्रुत्य्-अन्तरम्)+++ आवर्जनीयम् +++(→त्याज्यम्, रीत्यन्तरेण वा व्याख्येयम्)+++ ।
+++(कल्प-भेदेन सृष्टि-भेदस्याङ्गीकारे “यथा-पूर्वम् अकल्पयत्” इति त्याज्यं स्यात्। )+++
दृष्ट्वा सांख्यं +++(←तत्रोत्पत्तिक्रम आथर्वण-श्रुत्य्-अनुकूलः→)+++, पुराणादिकम् अपि, बहुधा निर्वहन्त्य् एतद् एके
चिन्ता-साफल्य-मान्द्याच् छ्रम-बहुलतया ऽप्य् अत्र तज्-ज्ञैर् उदासि ॥ १५ ॥
+++(न्यायसिद्धाञ्जने तु परिहार उक्तः - प्रकृतिमहदहङ्काराः ५ भूतानि शरीरारम्भकानि प्रकृतत्वेनोक्तानीति। )+++
विश्वास-प्रस्तुतिः
निश्शेषं कार्यतत्त्वं जनयति स परो हेतु-तत्त्वैश् शरीरी
तत्-तत्-कार्यान्तरात्मा भवति, च तद् असौ विश्रुतो विश्व-रूपः ।
तेजोऽब्-अन्नाभिधेये बहु-भवनम् +++(‘तदैक्षत बहुस्याम्’ →)+++ अभिध्यान-लिङ्गं च दृष्टं
तस्माद् ईशान-निघ्नाः प्रकृति-विकृतयस् स्व-स्व-कार्य-प्रसूतौ ॥ १६ ॥
पञ्चीकरणम्
विश्वास-प्रस्तुतिः
द्वेधा भूतानि भित्त्वा, पुनर् अपि च भिनत्त्य् अर्धम् एकं चतुर्धा,
तैर् एकैकस्य +++(भूतस्य)+++ भागैः परम् +++(भूतम्)+++ अनुकलयत्य्, +++(यथा)+++ अर्धम् अर्धं चतुर्भिः +++(अन्यैः)+++।
इत्थं पञ्ची-कृतैस् तैर् जनयति स जगद् +धेतुर् अण्डादि-कार्याण्य्,
ऐदंपर्यं त्रिवृत्त्व-श्रुतिर् +++(←पञ्जीकरणाभावोऽत्र)+++ अधिक-गिराम् अक्षमैका निरोद्धुम् ॥ १७ ॥
+++(तेन सा +उपलक्षणया पञ्चीकरणम् एवाह)+++
कार्य-कारण-भावान्तरम्
परमाणु-कारणता-वादः
विश्वास-प्रस्तुतिः
+++(महत्तरं)+++ कार्यं नैवारभेरन् समधिकम् अणवस् सर्वतस् संप्रयुक्ता +++(एकाणुपरिमाणा एव भवन्तीति)+++,
दिक्-संयोगैकदेश्यान् न घटत इह ते +++(दर्शने)+++ दिक्-कृतो ऽप्य् अंश-भेदः +++(आधुनिक-परमाणु-वादो नैवम्)+++।
“बुद्धेस्+++(=ज्ञानस्य)+++ त्व् +++(युष्मन्मतानुसारेण)+++ अंशानपेक्षा स्फुरति +++(घट-पट-निभ-द्वय-)+++विषयिता +++(इति प्रत्यक्षाद् अभ्युपेयम्)+++”, “+++(अस्य न्यायस्य, अणु-कल्पनस्य)+++ विश्रमस् त्व् अस्तु दृष्टे +++(त्रणुके, न त्व् अदृश्ये परमाणौ)+++,
नो चेद् आरम्भकांश-प्रभृतिषु नियता दुर्निवाराः प्रसङ्गाः” ॥ १८ ॥
+++(तेन वः परमाणुकल्पनम् एव न साधु, कुतः परमाणु-कारणता-विचारः?)+++
विश्वास-प्रस्तुतिः
“+++(परमाणाव् अनङ्गीकृते)+++ स्याद् भागानन्त्य-साम्ये परिमिति-समता सर्षप-क्ष्मा-भृतोश्” चेन्
मैवं - भागेष्व् अनन्तेष्व् अपि समधिकता स्थौल्य-हेतुर् गिरेः स्यात् ।
+++(कारणान्तरं च-)+++ व्यक्त्य्-आनन्त्येऽपि जात्योः पर-तद्-इतरता पक्ष-मासाद्य्-अनन्तं;+++(5)+++
+++(‘अणोरणीयान्’←)+++ श्रौतोपादान+++(ब्रह्म)+++-सौक्ष्म्यं न भवद्-अभिमतं +++(परमाणुरूपम्, अपि तु दुर्ज्ञेयम्)+++, तत्+++(=ब्रह्म)+++-प्रथिम्नश्+++(=महत्त्वस्य)+++ श्रुतत्वात् ॥ १९ ॥
विश्वास-टिप्पनी
आधुनिकः परमाणुवादस् त्व् इत उक्ताद् भिन्नः, प्रत्यक्षानुमानाभ्यां सुसिद्धः।
अधुना electron microscope इत्यादीनि यन्त्राण्य् अतिसूक्ष्मकणान् दर्शयन्ति।
असत्कार्यवादः
विश्वास-प्रस्तुतिः
कार्योपादान-भेदे - न कथम् +++(कार्ये कारण-सङ्गमेन)+++ अधिकता +++(=2x…)+++, गौरवादेस् स्व-कार्यं +++(श्रमादि)+++,
नान्यत्वं +++(कार्योपदानयोः)+++ नाम-संख्या-व्यवहृति-धिषणा+++(=बुद्धि)+++ऽऽकार-कालादि-भेदैः +++(यतः)+++।
द्रव्याभेदे ऽप्य् अवस्थान्तरत इह तु ते पत्र-+++(तत्-कार्यभूत-कर्ण-योग्य)+++ताटङ्कवत् स्युर्
नो चेद् +++(कारण-कार्य-रूप-)+++ अंशांशिनोस् स्यात् +++(एक-देश-काल-वृत्तेः)+++ प्रतिहतिर् उभयोः स्पर्शवत्त्वाविशेषात् ॥ २० ॥
विश्वास-प्रस्तुतिः
इत्थं वृत्त्य्-आदि-खेदो न भवति, न च नः कल्पना-गौरवं स्याद्
वस्त्रे दीर्घैक-तन्तु-भ्रमण-विरचिते वस्त्र-धीर् नापि बाध्या ।
देशाधिक्यं समेतेष्व् अणुषु न हि, ततः स्थूल-धी-बाध-शङ्का,
+++(न च)+++ संसर्गादेर् विशेषाद् अवयवि–परिषद्-+++(मृदादि-)+++राशि–वन्यादि+++(पुष्प)+++-वादः +++(←मृद्राशिर् एव घटः कुतो न, पुष्पराशिश् च मामलेति)+++॥ २१ ॥
परिणामवादः
विश्वास-प्रस्तुतिः
द्रव्यैक्यं +++(“कारणभूतम् एवेदं कार्यम्”←)+++ प्रत्यभिज्ञा प्रथयति - परिमित्य्-अन्तरे +++(ऽपि)+++ ऽन्याप्रतीतेर्,
अंशु+++(=अंश)++++-उत्कर्ष-क्षयादि-क्षमम् अपि च ततो +++(→प्रत्यभिज्ञा-न्यायेन)+++ राशिवत् स्थूलम् एकम् +++(घटाद्य् अंशि)+++ ।
नो चेद् अश्रान्त-चण्डानिल–जल-धि–धुनी-दन्ति-दावानलाद्यैः
क्षोणीयं क्षुद्यमाना क्षणम् अपि चरमाम् अण्व्-अवस्थां न जह्यात् ॥ २२ ॥+++(5)+++
शरीरनिरूपणम्
विश्वास-प्रस्तुतिः
संघातो ऽनेक-भूतैर् अपि भवति यथा ह्य् एक-भूतस्य भागैर्,
“देहादिः पञ्च-भूतात्मक” इति निगमाद्य्-उक्तिभिश् च प्रसिद्धम् ।
+++(नैवम् अङ्गातिरिक्त-कार्य-कल्पने←)+++ न त्व् एवं संकरः स्याद् +++(→ तत्-तद्-अंशे तत्-तद्-भूत-गुण इति भेदो रक्ष्यते)+++, व्यवहृति-नियमस् +++(“वैशेष्यात्तु तद्-वादः” →)+++सूत्रितस् तारतम्याद्,
+++(“भौमं शरीरम्”←)+++ देहादौ येन भूतान्तर-युजि भवतो भौमतादि-+++(वचन-)+++व्यवस्था ॥ २३ ॥
+++(न तु तद्-अर्थम् असत्-कार्य-कल्पनं युक्तम्।)+++
अवस्था-प्राक्-सत्त्व-वादः
विश्वास-प्रस्तुतिः
“+++(उपादाने)+++ सन्ति प्राग् अप्य् +++(घटत्वाद्य्-)+++ अवस्थास्, सद्-इतर+++(=असत्)+++-करण+++(→अदृष्टेः)+++–+अ-प्राप्त+++(→करण-असम्बद्ध)+++-निष्पत्त्य्–अदृष्टेः
+++(कार्योत्पादन)+++शक्ताशक्त-+++(कारण-)+++प्रभेदादिभिर् अपि” यादि - न - स्वोचितात् +++(कारणात्, उत्पत्तेः परम् एव)+++ कार्य-दृष्टेः ।
“तस्मिन् +++(उपादान-कारणे)+++ सत्य् एव, तस्माज् +++(उचित-कार्यस्य)+++ जनिर्” +++(इत्य्)+++ अपि नियता तन्-निमित्तादि-नीतेर् +++(←“तन्दुवायं विना न पटम्”)+++,
+++(कारणस्थ-सूक्ष्म-कार्य-)+++व्यक्तिर् +++(स्वयं)+++ व्यक्ता ऽनवस्थां भजति +++(सूक्ष्म-व्यक्तयो वा नित्यास् स्युः)+++, न च +++(व्यक्तिं)+++ कृताम् आत्थ+++(=वदसि)+++, नैवं कृतौ नः +++(अवस्थाया अद्रव्यत्वाद् गुण-प्राप्तिर् एव, न व्यक्त्युत्पत्तिः)+++॥ २४ ॥
क्षणिकवादः
विश्वास-प्रस्तुतिः
वस्तु-स्थैर्यं विरुद्ध+++(-धर्म)++++अनुपहित-विषया साधयेत् प्रत्यभिज्ञा +++(←न तैलक्षयसहितायां ज्वालायाम्)+++,
नैकस्मिन् शक्त्य्-अशक्ती +++(कुसूलस्थ-क्षेत्रस्थ-बीजयोर् अङ्कुरणशक्तिस् समाना)+++ - +++(अङ्कुरण-निभ)+++कृति–तद्-इतरयोः साह्य-भेदेन सिद्धेः ।
एकस्मिन् काल-भेदाद् भवति च सहकार्य्-अन्वयानन्वयादिर्
नो चेन् +++(समानकालेऽपि)+++ नो देश-भेदाद् अपि सुपरिहरस् +++(→कुसूलस्थ-क्षेत्रस्थ-बीजयोर् अङ्कुरण-शक्ति-भेदः)+++, तेन +++(विरुद्ध-धर्म-सत्त्वेन)+++ नैकं क्वचित् स्यात् ॥ २५ ॥
+++(वैभाषिकाः क्षणिकवादिनस् तर्हि शून्यवादिनो माध्यमका जायेरन्!)+++
प्रत्यभिज्ञा-प्रामाण्यम्
विश्वास-प्रस्तुतिः
“तत्त्व+++(→प्राक्-कालत्व)++++इदंत्वे+++(→एतत्-कालत्वे)+++ हि कालान्तर-घटनमये +++(स्तः, अतः)+++ नैक-काले घटेतां,
काल-द्वैते +++(तयोर् अपि युगपज्-ज्ञानं कथम् इत्य्)+++ ऽनवस्थाद्य् अत इह न +++(प्र)+++मितिः प्रत्यभिज्ञेति चेन्” न ।
स्वस्य +++(→घटादेः)+++ स्वाभाव-काले विहति-नियमनात्, स्वेन चात्रैककाल्यात्
+++(→घट-दृष्ट्या +एक एव घट-सत्ताक-कालः; सूर्योदयाद्य्-उपाधिभिर् एव सूक्ष्म-काल-भेदाः)+++
+++(घटादेः)+++ काले काला+++(न्तरा)+++नपेक्षे, कथम् अपि सुवचौ नानवस्था-विरोधौ? ॥ २६ ॥
+++(एकस्मिन्न् एव घट-काले सूर्योदयाद्यौपाधिक-सूक्ष्मकाल्भेदौ युगपद् एव ज्ञायन्त इत्य् अविरोधः।)+++
विश्वास-प्रस्तुतिः
“प्रत्यक्षं वर्तमानं प्रथयति यद् इहावर्तमानाद् विभक्तं
तस्मात् तेनैव सिद्धं क्षणिकम्” इति न सत् - “तावद्” इत्य् अ-प्रतीतेः ।
तत्-कालासत्त्वम् एव ह्य् अपनयति सतो वर्तमानत्व-बोधः
कालेऽन्यत्रापि सत्त्वं प्रमितम् इति कथं तद्-विरोध-प्रसङ्गः ॥ २७ ॥
अहेतुक-विनाश-निराकरणम्
विश्वास-प्रस्तुतिः
“उत्पन्नानां विनाशे, ध्रुव-भवितृतया हेत्व्-अपेक्षा-विहीने,
जन्मन्य् एवोपरोधात् - क्षणिकम् इह जगत् सर्वम्” इत्य् अप्य् अ-सारम् ।
+++(अनुमान-प्रक्रियायां)+++ लिङ्गं ह्य् एष्यत्त्व+++(←एष्यत्)+++-मात्रं +++(→अनियम-दोषः)+++, जनन-विधुरता+++(←नित्यता→ पक्षासिद्धि-दोषः)+++, +++(ध्वंसस्य)+++ तत्-क्षण+++(→पक्षासिद्धि-दोषः)++++अनुक्षणत्वे+++(→सहेतुकत्वाद् विरोधः)+++,
+++(ध्वंसस्य)+++ तत्त्वं+++(←तत्→ वस्तु-स्वरूपत्वं →पक्षासिद्धि-दोषः)+++, +++(ध्वंसस्य)+++ तज्-जन्यता +++(→सहेतुकत्वाद् विरोधः)+++ वा तद् इदम् अनियमासिद्धि-बाधादि-+++(अनुमान-दोष-)+++दूष्यम् ॥ २८ ॥
अस्थिर-देश-कालादि
विश्वास-प्रस्तुतिः
+++(वयं तु स्थिर-देश-काल-वादिनः देश-कालावच्छिन्न-कार्य-कारण-व्यवस्थां कल्पयामः। किन्तु भवन्तः -)+++
कालानन्तर्य-साम्ये +++(सति)+++ क्षणिक-वपुषि ते +++(मते)+++ +++(क्षणिक-)+++देश-कालाद्य्-उपाधौ+++(→क्षणिक-वपुषि सत्य् अपि)+++,
सर्वे पूर्वे +++(क्षणाः = क्षणिक-तन्तु-मृत्-कर्मादीनि)+++ भवेयुस् तद्-उपरि भवतां कारणानि +++(घट-पट-स्मृत्य्-आदि-)+++क्षणानाम् +++(नियत-पूर्ववर्तित्वात्)+++ ।
+++(कारण-कार्य-साङ्कर्यात्)+++ सन्तानैक्य-व्यवस्था, निज+++(-कर्म)+++-फल-नियतिर् वासनानां च न स्यात्;
+++(अस्मन्मते तु वैभाषिकाद्य्-अङ्गीकृते रक्त-बीजतः पुष्पम् प्रति)+++ कार्पासे रक्तताऽदि +++(कथम् इति चेत्)+++ +++(कार्य-कारण-)+++क्रम-विपरिणमत्-संस्कृत-द्रव्यतस् स्यात् ॥ २९ ॥
+++(नैतत्-प्रत्यक्षसिद्धं दृष्टान्तम्। अपरीक्ष्याङ्गीकृतम् भाति। ५)+++
विश्वास-प्रस्तुतिः
मेयत्वाद्यैर् वि+++(शिष्य)+++गीतं क्षणिकम्+++(→जगत्)+++ इह जगत् स्यात् +++(दृष्टान्तः - कालांशभूत-)+++“क्षण”+++(-व्यवहार-हेतु-)++++उपाधिवच् +++(=क्षणिक-वस्तुवत्)+++ चेत्,
+++(“सोऽयम्” प्रत्यभिज्ञाया)+++ बाधो, दृष्टान्त-हानिः +++(यत उभयाङ्गीकार्यस् स्याद् दृष्टान्तः, सिद्धान्ते तु)+++ स्थिर इति विदितो यत् क्षणस्याप्य् उपाधिः ।
+++(यथा कार्योत्पत्ति-पूर्वक्षणे)+++ सामग्री कार्य-शून्या क्षण+++(→क्षणोपाधि)+++, इयम् +++(सामग्री)+++ अपि तद्+++(→कार्य)+++-+हेतु-संघो, न चासौ
+++(प्रत्येकं)+++ हेतुर्, नान्यः +++(→प्रत्येकातिरिक्तः सङ्घः - सैनिकेभ्यः सेनेव)+++, स्थिरास् ते +++(प्रत्येक-हेतवः)+++; +++(सूर्योदयादि-)+++क्रमवद् उपधिवत् +++(→दिन-मासादिवत्)+++ स्यात् क्षणत्वं स्थिरे ऽपि ॥ ३० ॥
निरन्वय-विनाश-निरासः
विश्वास-प्रस्तुतिः
दीपादीनां कदाचित् +++(ज्वालाक्षणवत्→)+++सदृश-+++(घट-कपालवत्→)+++विसदृशाशेष-सन्तत्य्-अपेते
ध्वंसे दृष्टे ऽप्य् अशक्या तद्-इतर-विषये ऽनन्वय-ध्वंस-कॢप्तिः +++(परिणाम-वादात्)+++ ।
+++(प्रत्यभिज्ञादिभिः)+++ बाधादेर् दर्शितत्वाद्, अपि च दृढ-मिते सान्वये ऽस्मिन् घटादौ
दुर्दर्शावस्थया स्युः +++(दीप-निर्वाणेऽपि)+++ पयसि लवणवल् लीन-दीपादि-भागाः ॥ ३१ ॥
कार्यकारणभावसमर्थनम्
विश्वास-प्रस्तुतिः
“+++(कार्यस्य)+++ सत्त्वे, ऽसत्त्वेऽपि +++(व्यापारात्)+++ पूर्वं, किम् अपि गगन-तत्-पुष्पवन् नैव साध्यं +++(वर्तेत - कार्यपूर्वाभावेऽपि असतः सत्तापादनं न भवतीति)+++,
+++(साध्यस्य)+++ हेतु-प्राप्तिर्+++(=सम्बन्धः)+++ न पश्चाद्-भवितुर्, अ-घटित+++(=अ-सम्बद्ध)++++उत्पादने ऽतिप्रसङ्गः +++(→सर्वस्मात् सर्वम् उत्पद्येत)+++ ।
जन्यं जन्म,+अन्यथा वा +++(जन्म)+++ - द्वयम् असद् अनवस्थान–+++(अनादित्वात्→)+++कार्य-क्षतिभ्याम्
इत्य्-आद्यैर् हेतु-साध्यं न किम् अपि” यदि - न - स्व-क्रियादेर्+++(←ग्रन्थ-रचनम्, अङ्ग-सङ्घात-चैतन्योत्प्तत्ति-कथनम्)+++ विरोधात् ॥ ३२ ॥
कारणस्वरूपम्
विश्वास-प्रस्तुतिः
+++(घटनिभ-)+++कादाचित्कस्य कालावधि-+++(पूर्व-सीमा-)+++नियति-करं पूर्व-सत् कारणं स्यात्,
भावोपष्टम्भ+++(=आधार)+++-शून्यो न खलु तद्-अवधिं प्राग्-अभावो ऽपि कुर्यात्
+++(- अन्यथा कार्योऽप्य् अनादिः स्यात्)+++।
कार्यं निर्हेतुकं चेत् कथम् इव न भवेन् +++(सत् कार्यम् →)+++ नित्यता +++(असत् कार्यम् →)+++ तुच्छता+++(=शून्यता)+++ वा +++(किञ्च कादाचित्कं कार्यं स्वीकुरुषे)+++,
कादाचित्क-स्वभावाद्+++(→random too!)+++ यदि - न - +++(तत्-तत्-कारणैर्)+++ नियमनाद्, अन्यथा ऽतिप्रसङ्गात् +++(→यतः कुतश् चिद् धूमादि-कार्यम् उद्भवेत्)+++ ॥ ३३ ॥
इन्द्रियम्
ज्ञानेन्द्रियाणि
विश्वास-प्रस्तुतिः
+++(“चक्षुस् तैजसं रसाद्य्-अग्राहकत्वे सति रूप-ग्राहक-द्रव्यत्वात् दीपवद्” इति यथा)+++
नेत्रादेर् दीपिकादेर् इव नियम-युतं तैजसत्वादि-साध्ये
रूपादि-ग्राहकत्वं यदि +++(अनुमानम् उच्यते, तर्हि)+++ - करणतया+++(=प्रधान-कारणतया)+++ स्याद् असाधारणत्वम् +++(दीपादेः सहकारित्वात् - पक्ष-दृष्टान्तयोर् वैषम्यम्)+++ ।
+++(यदि)+++ तत् +++(→ग्राहकत्वं)+++ साहाय्यं+++(→सहकारि-कारणता)+++ त्व् +++(हेतौ चक्षुरादौ)+++ अ-सिद्धं भवति +++(ततोऽनुमानम् पुनर् अपास्तम्)+++, +++(यदि ग्राहकत्वं)+++ गमकता+++(→कारणता)+++-मात्रम् अप्य् अञ्जनादाव् +++(→साध्य-तैजसत्वाभावे व्यभिचारः)+++,
+++(इत्थम् अनुमानतो)+++ अक्षाहङ्कारिकत्वं श्रुति-पथ-निपुणैर् घोषितं नैव बाध्यम् ॥ ३४ ॥
विश्वास-टिप्पनी
“इन्द्रियं” नाम
webcam, नेत्रम्, इत्यादि बाह्याङ्गम् अन्तरा
न किञ्चिद् विद्यत इत्य् आधुनिक-भूत-विज्ञानेन ज्ञायते।
विस्तारो ऽन्यत्र प्रतिपादितः।
विश्वास-प्रस्तुतिः
+++(“पृथिव्यप्सु प्रलीयते, आपस्तेजसि लीयन्ते, तेजो वायौ लीयते, वायुराकाशे लीयते । आकाश इन्द्रियेषु, इन्द्रियाणि तन्मात्रेषु । तन्मात्राणि भूतादौ लीयन्ते, भूतादिर्महति लीयते, महानव्यक्ते लीयते, अन्यक्तमक्षरे लीयते, अक्षरं तमसि लीयते, तमः परे देव एकीभवति” इत्यत्र)+++
तन्-मात्रेष्व् इन्द्रियाणां श्रुतिर् इह न लयं वक्ति, किंतु प्रवेशं,
नो चेत् पृथ्व्य्-आदि-वाक्येष्व् इव हि लय-पदं व्योम्नि चाक्षेषु च स्यात् ।
भूतैर् आप्यायितत्वात् क्वचिद् उपचरिता भौतिकत्वोक्तिर् एषाम्
अन्नाप्-तेजोमयत्वं +++(पोषितार्थे)+++ श्रुतिर् अपि हि मनः-प्राण-वाचाम् उवाच ॥ ३५ ॥
+++(‘अन्नमयं हि सौम्य मनः, आपोमयः प्राणः, तेजोमयी वाक्’)+++
कर्मेन्द्रियाणि
विश्वास-प्रस्तुतिः
रूपादि-ज्ञान-सिद्धौ यदि करणतया कल्पनं धीन्द्रियाणां
तद्वद् गत्य्-आदि-कर्मस्व् अपि करणतया सन्तु कर्मेन्द्रियाणि ।
कर्म-ज्ञानाक्ष-हेत्वोस् सम-परिहरणा ह्य् अन्यथा-सिद्धि-शङ्का +++(←“नेत्रगोलाद्य्-अधिष्ठानम् एवास्त्व् इन्द्रियम्” इत्यादि)+++
तस्माद् एकादशाक्षाण्य् अपि निगम-विदो मन्वते न्याय-पूर्वम् ॥ ३६ ॥
अन्तःकरणम्
विश्वास-प्रस्तुतिः
सांख्यैस् त्रेधोक्तम् अन्तः-करणम् इह मनो+++(←विकल्पाख्य-विशद-ज्ञान-जनने)+++-बुद्ध्य्+++(←निश्चये)+++-अहङ्कार+++(←अभिमान-जनने)+++-भेदाच्,
चित्तं+++(←स्मृति-चिन्तादौ)+++ चान्ये +++(शाङ्करनिभाः)+++ चतुर्थं विदुर्, उभयम् असत् तादृश-श्रुत्य्–अ-भावात् ।
+++(सुबालोपनिषदि करणैः सह)+++ तत्-तत्-तत्त्वोक्ति-मात्रं न हि करण-भिदाम् आह, +++(अनुमानेन)+++ कॢप्तिस् तु गुर्वी,
बुद्ध्य्-आद्य्-आख्या निरूढा क्वचिद् इह मनसो वृत्ति-वैचित्र्य-योगात् ॥ ३७ ॥
इन्द्रिय-नानात्वादि
विश्वास-प्रस्तुतिः
“एकं +++(अन्तःकरणैकत्ववत् त्वग्-इन्द्रियम् एव)+++ तत्-तत्-प्रदेश-प्रतिनियततया शक्ति-भेदं प्रपन्नं,
देह-व्यापीन्द्रियं” +++(बौद्धैकदेश्य्-उक्तं)+++ चेत् प्रथमम् इह भवेद् आगमेनैव बाधः ।
नो चेत् स्याद् देह-भेद-प्रतिनियततया सर्व-जन्तोस् तद् एकं+++(5)+++,
भेदाम्नानाद्, +++(स्वयुक्त्याऽप्य्)+++ अकॢप्तेर् अपि न च भजते देह एवेन्द्रियत्वम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
सूक्ष्माण्य् +++(→अविभूनि)+++ एकादशाक्षाण्य् अपि न यदि कथं +++(मृत्यौ श्रुत्य्-उक्तो)+++ देहतो निष्क्रमादिश्,
+++(कर्ण-द्वयाद्य्-अधिष्ठातृतया नाणूनि)+++
चित्ताणुत्वे +++(अविभुत्वमात्रेऽपि वा)+++ तु सर्वेन्द्रिय+++(-ज्ञान)+++-समुदयने धी-क्रमो+++(→अयौगपत्यम्)+++ ऽप्य् अस्तु मानम् +++(→क्रमशो मन-इन्द्रिय-सम्पर्को भवतीति)+++।
+++(“दिवीव चक्षुराततम्” - नेत्राद्य्-अधिष्ठान-मार्गेण)+++
वृत्त्या ऽक्ष्य्-आदेर् दवीयः+++(=दूर-स्थ)+++-प्रमिति-जनकता, वृत्तिर् आप्यायनार्थैः
+++(किरण-निभ-)+++भूतैर् जातः प्रसर्पः, +++(“सर्व एवानन्ता” →)+++ श्रुति-मितम् अपि चानन्त्यम् एषां स्व-कार्यैः +++(न विभुत्वसूचकम्)+++ ॥ ३९ ॥
विश्वास-प्रस्तुतिः
प्राप्य-ग्राहि +इन्द्रियत्वाद् विमतम् +++(चक्षुः-श्रोत्रोभयम्)+++ इतरवत्, प्राप्तिर् उक्त-प्रकारा +++(→वृत्ति-द्वारा)+++,
+++(व्यवधानानि)+++ वृत्तिं दृष्टेर् निरुन्धे, विरल-पट-नयाद् अम्बु-काचादिर् अच्छः ।+++(5)+++
नो चेद् +++(→अप्राप्य-ग्राहित्वे ऽयस्कान्तमणिवत्)+++ गृह्येत योग्यं समम् इह निखिलं - निष्फले छादकादौ,
+++(छादन-मात्रेण)+++ स्थैर्ये तद्+++(ग्रहण)+++-योग्य-भावो न हि गलति +++(वस्तूनाम् क्षणिकत्वे तु तादृश-विचित्र-कल्पनाद्य्-अपेक्षा, किञ्च -)+++ , समा सन्ततिस् त्वन्-मते ऽपि +++(अन्यथा ऽव्यवस्था)+++॥ ४० ॥
शब्द-ग्रहण-प्रकारः
विश्वास-प्रस्तुतिः
“शब्दं गृह्णाति दूराभ्युदितम् अपि बहिस् सन्तता श्रोत्रवृत्तिर्
दिग्-भेदासन्नतादि-ग्रहणम् अपि तदा तत्र तत्-सन्निधानात् ।”
इत्य् एके +++(→साङ्ख्य-निभाः)+++ ऽन्ये तु दूरान्तिक-गत-जनता-शब्द–धी-काल-भेदात्,
श्रोत्रायातस्य तस्य ग्रहम्, अनुमितिम् अप्य् आहुर् अस्मिन् दिग्-आदेः ॥ ४१ ॥+++(4)+++
आकाशपरीक्षा
विश्वास-प्रस्तुतिः
प्रत्यक्षं व्योम नीलं नभ इति हि मतिश्चक्षुषैवास्मदादेः कूपोऽसौ रन्ध्रमेतत्पतति खग इहेत्यादिधीश्चात्र मानम् ।
आधारोऽत्रातपादिर्यदि भवति कथं तस्य चेहेति बोधस्तस्यांशैश्चेत् त्र्यणौ तच्छिथिलगति न च व्योमवागातपादौ ॥ ४२ ॥
विश्वास-प्रस्तुतिः
रूपस्पर्शोज्झितत्वान्न भवति गगनं दर्शनस्पर्शनार्हं घ्राणश्रोत्रे रसज्ञाऽप्यवगमयति न द्रव्यमन्यत्त्वबाह्यम् ।
तस्मान्नाध्यक्षवेद्यं वियदिति यदि न प्रत्ययस्यापरोक्ष्यात् पञ्चीकारेण नैल्यं पटमलिनिमवद्भाषितं वोपकुर्यात् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
शब्दस्याधारभूतं कथमपि गगनं शक्यते नानुमातुं स्वेच्छातः पारिशेष्यक्रम इह कथितोऽतिप्रसङ्गादिदुःस्थः ।
निष्क्रान्त्यादेर्न तद्धीस्सति नभसि यतो नास्ति कुड्यादिकेऽसौ रोधस्त्वावारकैश्चेत्तदभवनवशान्निष्क्रमादिश्च सिध्येत् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
यत्त्वाकाशोऽवकाशप्रद इति कथितं शास्त्रतस्तत्र याऽसावन्योन्यं(न्य) स्पर्शभाजां विहतिरिह न सा प्राच्यतत्त्वेष्विव स्यात् ।
इत्यैदंपर्यमूह्यं न यदि कथमिवान्येषु लभ्योऽवकाशः सिद्धादेः स्वप्रभावाज्जल इव कथितो युज्यते मज्जनादिः ॥ ४५ ॥
आकाशो भावरूपः
विश्वास-प्रस्तुतिः
सद्रूपेणैव भानान्न भवति वरणाभावमात्रं विहायः संसर्गाभावमात्रं न च भवति यतो नास्ति संसर्गिबोधः ।
अत्यन्ताभावनाशावजननिरपि वा सत्सु तेष्वेव न स्युस्तादात्म्याभावसिद्धिः कथ(मिव)मपि च भवेत्तंतमर्थं विहाय ॥ ४६ ॥
विश्वास-प्रस्तुतिः
नित्यत्वाद्यम्बरादेर्यदि निरवयवद्रव्यताद्यैः प्रसाध्यं कः स्याद्बाधो विपक्षे कथमिव निगमे वाधकेऽत्रानुमा स्यात् ।
बाधस्सामान्यदृष्ट्या श्रुतिसमधिगते नैव कुत्रापि शक्यस्तेनामूर्तत्वलिङ्गान्न सृजति विमतो मूर्तमित्याद्यपास्तम् ॥ ४७ ॥
दिक्-तत्त्वम्
विश्वास-प्रस्तुतिः
प्राक्प्रत्यक्त्वादिभेदं भजतु वियदिदं भानुयोगादिभेदादस्यैवोपाधिभेदादधिकदिश इव स्तां परत्वापरत्वे ।
व्योमोत्तीर्णेऽपि देशे प्रभवतु तदुपाध्यन्वितैस्तत्तदर्थैर्दूरत्वादिव्यवस्था स्वयमुत विभुना ब्रह्मणा किं परैर्नः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
अन्यस्मिन्नन्यधर्मान् घटयतु वियदाद्यत्र नातिप्रसक्तिः सिध्यत्कार्योपयुक्तोपनयननियमोपेततच्छक्तिकॢप्तेः ।
एवं ह्येवाधिकायामपि दिशि भवतोऽतिप्रसङ्गो निषेध्यो धर्मी धर्मश्च कल्प्यौ तव तदितरता स्यात्तु काले स्वमानात् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
संख्यानं तत्त्वपङ्क्तौ क्वचिदपि न दिशः कालवद्वा न भेदः कण्ठोक्तो व्याक्रियादिव्यवहरणमपि ह्यन्यथैवोपपन्नम् ।
श्रोत्रादुक्तस्तु लोकप्रभृतिवदुदयस्तस्य तत्राप्ययो वा नैतावत्तत्त्वभेदं गमयति न च तच्छ्रौत्रतामान्यपर्यात् ॥ ५० ॥
वायु-निरूपणम्
विश्वास-प्रस्तुतिः
वातो वातीति साक्षान्मतिरितरसमा स्पर्शतो नानुमाऽसावन्धेऽन्येषु प्रसङ्गान्न पुनरगमकं स्पर्शनं रूपशून्ये ।
अन्याक्षग्राह्यतादृग्विधगुणविरहो ह्यन्यदक्षं न रुन्धे निर्गन्धो नीरसोऽपि स्फुरति यदनलो दर्शनस्पर्शनाभ्याम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
संख्याद्यास्स्पर्शनास्स्युस्तदधिकरणकास्स्पर्शने गन्धवाहे तेषां द्रव्योपलम्भप्रतिनियतनिजाध्यक्षयोग्यत्वतश्चेत् ।
इ(ष्टंत्वं)ष्टस्त्वंशेन चात्मप्रभृतिषु सहते तैः प्रसिद्ध्यन्ति सर्वे तद्बाह्ये व्याप्तिरिष्टा यदि सततगतेरप्यसावस्तु बाह्ये ॥ ५२ ॥
विश्वास-प्रस्तुतिः
न प्राणो वायुमात्रं सह परिपठनान्न क्रिया द्रव्यतोक्तेस्तेजोवद्वा न तत्त्वान्तरमगणनतो वायुतानुज्झनाच्च ।
तस्माद्वातो विशेषं घनजलकरकान्यायतः प्राप्य कंचिद्देहान्तर्दाशविध्यं भजति बहुविधोपक्रियो वृत्तिभेदैः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
प्राणोऽक्षं प्राणशब्दादुपकरणतया क्षेत्रिणश्चेत्ययुक्तं शब्दैक्यं ह्यैकजात्यं व्यभिचरति न च प्राणताऽक्षेषु मुख्या ।
देहस्यानक्षभावेऽप्युपकृतिरधिका तत्समाक्षोक्त्यदृष्टिर्न प्राणे सात्त्विकाहंकरणविकृतितालक्षणं तद्धि तेषाम् ॥ ५४ ॥
अग्नि-निरूपणम्
विश्वास-प्रस्तुतिः
प्राणापानाख्यभस्त्रारभसविसृमरः प्राप्य वैश्वानराख्यां मध्येदेहं हुताशो वसति जलनिधावौर्ववत्सर्वभक्षः ।
तत्तद्विद्यासु वे(द्यस्त्वन)द्यं त्वन इव हि परज्योतिषः सोऽपि रूपं नात्मानौ तौ जडत्वाज्जनिविलयमुखैर्भेदकण्ठोक्तिभिश्च ॥ ५५ ॥
विश्वास-प्रस्तुतिः
धर्मो भाति प्रभैका बहलविरलताद्यत्र दृष्टानुसारात् सा दीपांशा विशीर्णा इति यदि बहुधा कल्पनागौरवादिः ।
रत्नादीनां स्थिराणां विशरणविहतेर्निष्प्रभत्वादि च स्यात् तेजस्तत्सप्रभाकं तिमिरहरतया साऽपि तेजोविशेषः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
भाष्ये भास्वत्प्रभादौ प्रतिहतिबह(हु)लीभावपूर्वं यदुक्तं तेन स्रोतस्समाधिं परमतनयतः प्राहुरेके प्रभायाम् ।
वस्तुन्यस्ते विकल्पे स्फुटविघटनयोर्वेक्तुराप्तस्य वाचोस्तात्पर्यं तर्कमानानुगुणमधिगुणैश्चिन्त्यमन्तेवसद्भिः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
प्राच्ये स्नेहादिनाशे चरम इव दृढोऽनन्तरं दीपनाशः सामग्र्यन्यान्यकार्यं जनयति च न चानेकदीपप्रतीतिः ।
साम्यादेः स्यात्तु तद्धीः प्रवहणभिदुरास्सप्रभास्तत्प्रदीपा निर्बाधा भास्करादौ प्रथयति नियतं प्रत्यभिज्ञा स्थिरत्वम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
वर्णानां तादृशत्वादतिकठिनतया गौरवस्यापि भूम्ना धात्रीभागैः प्रभूतैस्स्फुटमिह घटिता धातवो हाटकाद्याः ।
तादृक्त्वेऽपि स्फुरत्ताद्यनितरसुलभं किञ्चिदन्वीक्ष्य तज्ज्ञैः व्याख्यातं तैजसत्वं विधितदितरयोस्तन्त्रसौकर्यसिद्ध्यै ॥ ५९ ॥
तमः-पदार्थः
विश्वास-प्रस्तुतिः
नैल्याद्भौमं तमिस्रं चटुलबहलताद्यन्वयात्तन्न नैल्यं छायावत्पारतन्त्र्यं त्वयस इव मणौ दृष्टिसिद्धात्स्वभावात् ।
स्पर्शाख्यातिर्न रूपं हरति हरिशिलाऽऽलोकवत्तत्र चाक्ष्णोर्नालोकोऽर्थ्यस्ससिद्धाञ्जननयनदिवाभीतदृष्ट्यादिनीतेः ॥ ६० ॥
विश्वास-प्रस्तुतिः
नालोकाभावमात्रं तिमिरमविरतं नीलमित्येव दृष्टेर्नैल्यं त्वारोपितं चेत्कथमिव न भवेत्क्वापि कस्यापि बाधः ।
आरोपे चात्र नैल्यं न भवति नियतं भास्वरान्यत्वसाम्यान्नात्रादृष्टं नियन्तृ प्रतिनियतगुणारोपकॢप्तेर्गुरुत्वात् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
ध्वान्तं तेजश्च नासीदिति मुनिभिरुपाख्यायि संवर्तवार्ता भावाभावौ निषेद्धुं तदुभयविधिवद्व्याहतत्वादशक्यम् ।
अन्तर्यन्तुश्च तेजस्सहपठिततमो देह इत्यामनन्ति स्याच्चाभावोऽपि भावान्तरमतिमथने वक्ष्यमाणक्रमेण ॥ ६२ ॥
विश्वास-प्रस्तुतिः
तिष्ठत्युर्वी भचक्रं पवनरयवशाद्भ्राम्यतीत्युक्तमाप्तैर्भ्रान्तैः कॢप्तं त्रिलोकीभ्रमणमिह तथा मेदिनीभ्रान्तिपातौ ।
तद्भ्रान्तौ प्राक्प्रतीचोः प्रसजति पतने पत्रिणोस्तारतम्यं पाते गुर्व्यास्तु तस्याः प्रलघु दिवि समुत्क्षिप्तमेनां न यायात् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
ज्योतिश्शास्त्रं पुराणाद्यपि न हि निगमग्राह्यमन्योन्यबाध्यं विद्यास्थाने तु सर्वं प्रतिनियतनिजोपक्रियांशे प्रमाणम् ।
तात्पर्यं तर्कणीयं तदिह बहुविदा भूपरिध्यादिभे(दे)दैः दुर्ज्ञानं सर्वथा यन्मुनिभिरपि परैस्तत्र तूदासितव्यम् ॥ ६४ ॥
काल-निरूपणम्
विश्वास-प्रस्तुतिः
सूर्यावृत्त्याद्युपाधिव्यतिकरवशतः कालताऽस्त्वम्बरादेरन्यस्मिन्नन्यधर्मोपनयननियमः प्राग्वदत्रेति चेन्न ।
कल्पान्तेऽप्येककालः प्रकृतिपुरुषवद्ब्रह्मणो रूपमन्यन्निर्दिष्टोऽनाद्यनन्तो मुनिभिरिति ततः कार्यता चास्य भग्ना ॥ ६५ ॥
विश्वास-प्रस्तुतिः
कालोऽस्मीति स्वगीता कथयति भगवान्काल इत्याप्तवर्यो हेतुः सर्वस्य नित्यो विभुरपि च परः किं परेणेति चेन्न ।
कालान्तर्यामितादेः न खलु समुदितः संप्रतीते तु भेदे साधर्म्यं नैक्यहेतुः स हि तदितरवद्घोषितस्तद्विभूतिः ॥ ६६ ॥
विश्वास-प्रस्तुतिः
कालस्योत्पत्तितः प्राक् परमपि च लयात् कालनास्तित्ववादी स्वोक्तिव्याघातभग्नो न वदति यदि तत्को वदेत्कालसृष्टिम् ।
आप्तस्तत्सृष्टिवादस्तदुपधिपरिणत्यादिभिस्सार्थकस्स्यान्नोचेत्तत्रापि पूर्वापरवचनहतिर्दुर्निवारप्रसङ्गा ॥ ६७ ॥
विश्वास-प्रस्तुतिः
कालोऽध्यक्षावसेयः क्षणलवदिवसाद्यंशतोऽर्थान्विशिंषन् साक्षाद्धीस्तत्तदर्थेष्विव भवति हि नः कापि कालान्वयेऽपि ।
तत्संयोगाः परत्वादय इति च ततोऽप्येष नैवानुमेयो नो चेन्न क्वापि लोकव्यवहृतिविषयोऽव्यक्तवत्स्यादनेहा ॥ ६८ ॥
विश्वास-प्रस्तुतिः
कालस्योपाधिभेदात्कतिचिदभिदधत्यब्दमासादिभेदं तत्तद्रूपेण कालः परिणमत इति प्राहुरेके तदा तु ।
ये तत्रोपाधयः स्युस्त इह परिणतिं प्राप्नुयुस्सानुबन्धाः नित्यो व्यापी च तादृक्परिणतिभिरसौ सर्वकार्ये निमित्तम् ॥ ६९ ॥
विश्वास-प्रस्तुतिः
वायुर्दोधूयते यद्यदयमुडुगणो बम्भ्रमीति द्रुतं खे तेजो जाज्वल्यते यद्यदपि (जलनिधि)न जलधिर्माधवीं दोधवीति ।
भूर्यद्वा बोभवीति स्थिरचरधृतये तच्च तादृक्च सर्वं स्वायत्ताशेषसत्तास्थितियतनपरब्रह्मलीलोर्मिचक्रम् ॥ ७० ॥
विश्वास-प्रस्तुतिः
॥ इति तत्त्वमुक्ताकलापे जडद्रव्यसरः प्रथमः ॥ १ ॥