॥श्रीस्वामिनारायणाय नमः ॥
हार्दो भावः
रामानुजं योगिवर्यं वन्दे वेदान्तदेशिकम् । नत्वा च वरदाचार्य हार्द भावं निवेदये ॥
सुप्रथितेषु वेदान्तदर्शनेष्वन्यतममिदं सविशेषाद्वैतनामकं विशिष्टाद्वैतदर्शनम् । तत्र चौपनिषदं मतं स्थूणानिखननन्यायेन परिशोध्य चिदचिद्विशिष्टस्य ब्रह्मतत्त्वस्य प्रतिपादनमुखेन हेयप्रत्यनीकस्य कल्याणगुणाकरस्य श्रीमन्नारायणस्यैव परमप्रमेयत्वं संसाध्यते । उक्तं च न्यायपरिशुद्धौ कवितार्किकसिंहैः श्रीवेङ्कटनाथैः ‘यद्विषयेण भ्रमेण संसरामः यद्विषयेण तत्त्वज्ञानेन चावर्ज्येमहि तदिह नः “प्रकर्षेण मेयं प्रमेयम्’ इति । तदनुसृत्यैव च न्यायसिद्धाञ्जने ब्रह्मैकमेव तत्त्वम्, तत्र प्रकारप्रकारिणोः प्रकाराणाञ्च मिथोऽत्यन्तभेदेऽपि वैशिष्टयादि विवक्षयैकत्वव्यपदेशस्तदितरनिषेधश्च’ इति तत्त्वस्वरुपं निर्धारितम् ।
भेदे, अभेदे, भेदाभेदे च अविरोधमेव हि समर्थयन्ति भगवद्रामानुजाचार्यवर्याः- ‘सर्वशरीरतया सर्वप्रकारं ब्रह्मैवावस्थितमित्यभेदः समर्थितः । एकमेव ब्रह्म नानाभूतचिदचिद्वस्तुप्रकारं नानात्वेनावस्थितमिति भेदाभेदौ । चिदचिदवस्तुनः एवम् ईश्वरस्य च स्वरुपस्वभाववैलक्षण्यादसंकराच्च भेदस्समर्थितः ।’ इति ।
ईदृशमप्रतिमानितरसाधारणं च मतं सर्वतन्त्रस्वतन्त्रैः श्रीमद्वेदान्तदेशिकैर्विरचितानां प्रकरणग्रन्थानां वादग्रन्थानाश्च बलेनैव परपक्षकक्षीकारेण परिरक्षितमित्युक्तौ न ह्यतिशयोक्तिः । स्वसिद्धान्तस्य प्रत्येकस्य दर्शनप्रमेयस्यास्य च निखरभावः - इदमित्थंभावस्तत्त्वमुक्ताकलापादृते नान्यत्रोपलब्धचरः । अत एव च यदिहास्ति तदन्यत्रेत्यादिमहाभारत प्रशस्तिवचनं दर्शनक्षेत्रे अस्मिन्नेवान्वेतीत्यभियुक्ता अभिप्रयन्ति ।
अत्यन्तं जटिलस्य दर्शनशास्त्रमर्मगर्भितस्य चास्य ग्रन्थस्य व्याख्यानं वेदान्ताचार्यसदृशा एव निखिलदर्शनमर्मज्ञाः वस्तुतत्त्वस्य यथार्थावगाहिन महाभागाः वरदाचार्यसदृशा एव कर्तुं पारयन्ति । इदञ्च निखिलमहत्तमं विद्वद्भिरभिनिषेवणीयं च विस्तृतव्याख्यासमलङ्कृतं ग्रन्थरत्नं ‘पाण्डित्यं निर्विध बाल्येन तिष्ठासेत्’ इत्याकारकस्य श्रुतिवचनस्य मूर्तिमत्स्वरूपमिव विराजमानैः पण्डितरलेत्यादिपदवीविभूषितैः नव्यमङ्गलं वरदाचार्यैः विरचितं तत्त्वबुभुत्सूनां कल्पतरूप्रायमभवत् । एतेभ्यः विद्वज्जनसमुदायपरतः श्री स्वामिनारायण गुरुकुलपरिवारपरतश्च हादी कृतज्ञतां सभक्तिश्रद्धं समर्पये। अभ्यर्थये च भगवतः श्री स्वामिनारायणस्य चरणारविन्दसन्निधौ यत् ग्रन्थकृद्भ्य आचार्यवर्येभ्यस्तत्परिवारजनेभ्यश्चायुरारोग्यैश्वर्यादिकं परीवाहयन् अनुगृह्यत्विति । विश्वसिमि चाधिजिगमिषवश्च सर्वेऽपि अध्येतारो ग्रन्थकृत्परिश्रमं सार्थकं करिष्यन्तीत्यपि ।
इत्थम्-विद्वज्जनविधेयः देवर्षिः शास्त्री माधवप्रियदासः
श्री स्वामिनारायण गुरुकुल - राजकोट