श्रीः
श्रीमते रामानुजाय नमः । श्रीस्वामिनारायणाय नमः ।
साधु शास्त्री सत्यप्रसाददासः
वेदान्ताचार्यः
श्रीस्वामिनारायण मंदिरम्
भुज, कच्छ, गुजरात्
19-8-2000
श्रीस्वामिनारायणभगवतो गुरवः । श्रीकृष्णभक्तस्य उद्धवस्यांशावताराः श्री रामानन्द स्वामिनः । एते हि स्वस्याध्यात्मगुरुमन्विष्यन्त भारतदेशं सर्वं सञ्चरन्तः क्रमेण श्रीरङ्गक्षेत्रं संप्रापुः । तत्र भगवद्रामानुजस्य वैभवं श्रुत्वा, तमेव स्वगुरुं हृदये स्वीचक्रुः । तस्मा बृन्दवनक्षेत्रेऽतितीव्रं तपश्चक्रुः । अन्ते भगवान् रामानुजः तस्य प्रत्यक्षो बभूव । तेषां श्रीवैष्णवचत्राङ्कनदीक्षां दत्त्वा तत्त्वान्यप्युपादिशन् । प्रतिदिनकर्तव्यमाचारादिकं पूजाक्रमादिकं च रामानुजसंप्रदायानुसारेणैवाध्येतुमैच्छन् । परन्तु तदा तत्क्षेत्रे श्रीवैष्णवेष्वेव स्थितं संप्रदायकलहं दृष्ट्वा, तत्क्षेत्रं परित्यज्य सञ्चरन्तः क्रमेण गुर्जरदेशमागच्छन् । तद्देशस्य साधुतां ज्ञात्वा तत्रैव मठं स्थापयित्वा धर्मप्रचाररं चक्रुः ॥
I
श्रीस्वामिनारायणोऽपि स्वस्य गुरुमन्विष्यन् तद्देषां प्रप्तवान् । श्री रामानन्दोऽपि तं शिष्यत्वेन स्वीकृत्य तस्य सहजानन्द इति दीक्षानाम चक्रे । अतश्च श्रीरामानन्दसंमतः भगवद्रामानुजसिद्धान्त एव श्रीसजानन्दस्यापि संमतो बभूव । अत एव शिक्षापत्र्यां ‘मतं विशिष्टाद्वैतं मे’ इत्येवावदन् ॥
भुजकच्छदेशेऽस्माकं श्रीरङ्गरामानुजमुनयः (श्री कस्तूरिरङ्गाचार्याः) श्री रामानुजसिद्धान्त शिक्षका आसन् । तेषां परमपद प्राप्त्यनन्तरं श्रीरामानुजसिद्धान्ताध्ययनार्थं समीचीनं श्रीरामानुजसिद्धान्तशिक्षक- मन्विष्यन्तः वयं कतिपये मेलुकोटेक्षेत्रमागताः ॥
एतावता तादृशध्यापकालाभात् निराशापीडितानामस्मकं तत्क्षेत्रगमनानन्तरमेवावगतम् । एवं निराशाया एव आस्पदभूतेऽस्मिन् सन्दर्भेऽपि अस्ति कश्चिदवसरः आशायाः – यदद्यत्वेऽपि सन्ति ज्ञानविज्ञान- संपन्नाः महापुरुषाः अस्मद्गुरचरणश्रीवरदाचार्यसदृशा महामहिमाः, ये अनवरतं संस्कृतस्य संकृतेश्च रक्षणाय बद्धकङ्कणास्सन्तः अस्मादृशानां प्रामाणिक जिज्ञासूनां मार्गदर्शनं कुर्वन्तस्सन्ति इति ॥
तैः प्रवर्तितेषु जिज्ञासुपरम्परामार्गदर्शनकार्येषु अन्यतमं परन्तु प्रधानतमं कार्यं पठितॄणां सर्वज्ञात्वा- पादकत्वेन प्रथितस्य तत्त्वमुक्ताकलापाख्यस्य महाग्रन्थस्य सर्वङ्कषाख्यव्याख्यारचनम् । एतद्व्याख्यारचनद्वारा एते महान्तः अस्मत्प्राक्तनमहर्षिप्रोक्तदर्शनानां हार्दं तात्पर्यं प्रकाश्य जिज्ञासुभ्यस्सर्वेभ्यः महान्तमनुग्रहं विधाय सर्वेषामस्माकं सादरप्रणतिशतपूर्वककृतज्ञतापात्रास्सन्ति । एवं शताधिकेभ्यः शिष्येभ्यः नैकानि शास्त्राणि
ii
विना विरामं बोधयतां एतेपामुपायनं संस्कृतशास्त्राणां क्षेत्रस्य कृते वर्णनातीतमस्ति । तत्रापि विशिष्य गुर्जरप्रदेशादागताः श्रीस्वामिनारायणसंप्रदायानुयायिनस्साधवः एतेषामनुग्रहपात्रभूताः, तस्मादेव कृतकृत्याः धन्याश्च । एतादृशानां महतां दिव्यसान्निध्ये कृतज्ञतानिवेदनपूर्वकं, ‘अग्रेऽपि नानाग्रन्थरचनद्वारा प्रवचनद्वाराऽपि अस्माननुगृह्णन्त्वनवरतमेते’ इति सप्रश्रयप्रार्थनापूर्वंकं च साञ्जलिबन्धं प्रणतिततीर्निवेदयामि । एवमेता- दृशमहाग्रन्थमुद्रणकार्ये *किञ्चित्सेवां कर्तुमवकाशं दत्तवद्भ्यः एतेभ्यो गुरुचरणेभ्यः, प्रकाशकेभ्यश्च पुनः पुनः कृतज्ञताः निवेद्य नमोवाकं समर्पयामि ॥
साधुः सत्यप्रसाददासः श्रीस्वामिनारायण मंदिरम् .
भुज् - कच्छ - गुजरात्
- सेवाविवरणम् -
(१)
स्वामी सत्यप्रसाद दासः
श्रीस्वामिनारायण गुरुकुल - गांधीधाम
रू. ५०००
(२)
कम्प्यूटर यंत्र सेवा-
शास्त्री मावजी भगत
रू. ६०००
श्रीस्वामिनारायण मंदिर - भुज-कच्छ - गुजरात
भ
F6156
श
क